गुरुपञ्चाशिका
[[लेखकः :|]]




गुरुपञ्चाशिका

ओं नमो बुद्धाय ।

श्रीवज्रसत्त्वपदवीप्रतिलम्भहेतोर्नत्वा यथाविधि गुरोश्चरणारविन्दम् ।
तत्पर्युपास्तिरमला बहुतन्त्रगीता संक्षिप्य कथ्यत इयं शृणुतादरेण ॥ १ ॥

अभिषेकाग्रलब्धो हि वज्राचार्यस्तथागतैः ।
दशदिग्लोकधातुस्थैस्त्रिकालमेत्य वन्द्यते ॥ २ ॥

त्रिकालं परया भक्त्या सपुष्पाञ्जलिमण्डलैः ।
पर्युपास्यो गुरुः शास्ता शिरसा पादवन्दनात् ॥ ३ ॥

सद्धर्मादीन् पुरस्कृत्य गृही वा नवकोऽपि वा ।
वन्द्यो व्रतधरैर्बुद्ध्या लोकावद्यावहानये ॥ ४ ॥

सुखासनं समुत्थानमर्थक्रियादिगौरवम् ।
सर्वमेव व्रती कुर्यात्त्यक्त्वा चार्चनवन्दनम् ॥ ५ ॥

प्राक्शिष्याचार्यसंबन्धः कार्यः परीक्ष्य सूरिभिः ।
समानसमयभ्रंशो दोषो हि गुरुशिष्ययोः ॥ ६ ॥

निष्कृपं क्रोधनं क्रूरं स्तब्धं लघुमसंयतम् ।
स्वोत्कर्षकं च नो कुर्याद्गुरुं शिष्यं च बुद्धिमान् ॥ ७ ॥

धीरो विनीतो मतिमान् क्षमावानार्जवोऽशठः ।
मन्त्रतन्त्रप्रयोगज्ञः कृपालुः शास्त्रकोविदः ॥ ८ ॥

दशतत्त्वपरिज्ञाता मण्डलालेख्यकर्मवित् ।
मन्त्रव्याख्याकृदाचार्यः प्रसन्नः स्याज्जितेन्द्रियः ॥ ९ ॥

तं नाथं योऽवमन्येत शिष्यो भूत्वा सचेतनः ।
सर्वबुद्धापमानेन स नित्यं दुःखमाप्नुयात् ॥ १० ॥

ईत्युपद्रवचौरैश्च ग्रहज्वरविषादिभिः ।
म्रियतेऽसौ महामूढो गुरुपादाभिनिन्दकः ॥ ११ ॥

राजवातानलव्यालैर्डाकिनीजलतस्करैः ।
विघ्नैर्विनायकैश्चापि मारितो नरकं व्रजेत् ॥ १२ ॥

न कुर्याच्चित्तसंक्षोभमाचार्यस्य कदाचन ।
यदा करोति दुष्प्रज्ञो नरके पच्यते ध्रुवम् ॥ १३ ॥

नरका ये समाख्याता अवीच्याद्या भयानकाः ।
तत्र वासः समाख्यात आचार्यस्य हि निन्दनात् ॥ १४ ॥

तस्मात्सर्वप्रयत्नेन वज्राचार्यं महागुरुम् ।
प्रच्छन्नवरकल्याणं नावमन्येत्कदाचन ॥ १५ ॥

यथेष्टदक्षिणादानाद्गुरुभक्तं सगौरवम् ।
उक्ता ज्वरादयस्तापा न भूयः प्रभवन्ति हि ॥ १६ ॥

अदेयैः पुत्रदाराद्यैरसुभिर्वा निजैरपि ।
सेव्यः स्वसंवराचार्य किं पुनर्विभवैश्चलैः ॥ १७ ॥

यतः सुदुर्लभं वस्तु कल्पासंख्येयकोटिभिः ।
बुद्धत्वमुद्योगवते ददातीहैव जन्मनि ॥ १८ ॥

नित्यं स्वसमयः साध्यो नित्यं पूज्यास्तथागताः ।
नित्यं च गुरवे देयं सर्वबुद्धसमो ह्यसौ ॥ १९ ॥
यद्यदिष्टतरं लोके विशिष्टरमेव वा ।
तत्तद्धि गुरवे देयं सदैवाक्षयमिच्छता ॥ २० ॥

दत्तेऽस्मै सर्वबुद्धेभ्यो दत्तं भवति शाश्वतम् ।
तस्माच्च पुण्यसंभारः संभाराद्बोधिरुत्तमा ॥ २१ ॥

ते शिष्याः करुणोत्सर्गशीलक्षान्तिगुणान्विताः ।
ये नान्यत्वं कल्पयन्ति गुरोर्वज्रधरस्य च ॥ २२ ॥

चैत्यभङ्गादिभीत्यापि गुरोश्छायां न लङ्घयेत् ।
पादुकासनयानादेर्लङ्घनस्य तु का कथा ॥ २३ ॥

श्रूयाद्यत्नाद्गुरोराज्ञां हृष्टचित्तो महामतिः ।
अशक्तः श्रावयेत्तस्मा उपपत्त्या त्वशक्तिताम् ॥ २४ ॥

गुरोः सिद्धिं समाप्नोति गुरोः स्वर्गं गुरोः सुखम् ।
तस्मात्सर्वप्रयत्नेन गुरोराज्ञां न लङ्घयेत् ॥ २५ ॥

स्वात्मवच्च गुरोर्द्रव्यं गुरुवच्च तदङ्गनाम् ।
स्वजनानिव तल्लोकान् पश्येन्नित्यं समाहितः ॥ २६ ॥

शय्यारोहमग्रयानमुष्णीषाद्युपबन्धनम् ।
न कुर्यादासने पादं कटिहस्तं च सन्निधौ ॥ २७ ॥

सुप्तेन वा निषण्णेन न स्थेयमुत्थिते गुरौ ।
दक्षश्चोत्साहसम्पन्नस्तत्कार्येषु सदा भवेत् ॥ २८ ॥

श्लेष्मादीनां परित्यागः पादप्रसारणं तथा ।
चङ्क्रमणं विवादं च न कुर्यात्पुरतो गुरोः ॥ २९ ॥

संवाहनं नर्तनं च न गानं न च बादनम् ।
बहु संलपनं चापि न कुर्यात्पुरतो गुरोः ॥ ३० ॥

नत्वासनात्समुत्थेयं निषत्तव्यं च भक्तितः ।
निश्यप्सु सभये मार्गे प्रार्थ्याग्रे गमनं चरेत् ॥ ३१ ॥

नाङ्गानि चालयेद्धीमान्न जृम्भादि समाश्रयेत् ।
नाङ्गुलिस्फोटनं कुर्यात्पुरः पश्यति शास्तरि ॥ ३२ ॥
पादयोः क्षालनं चाङ्गप्रोञ्छाभ्यञ्जनमर्दनम् ।
पूर्वं प्रणम्य कर्तव्यं ततः कुर्याद्यदादिशेत् ॥ ३३ ॥

[आव्हानादौ गुरोर्नाम्नि पूज्यपादादि योजयेत् ।
अन्यदा श्रद्धया ब्रूयात्सादरैस्तु विशेषणैः ॥ ३४ ॥

आदिश्यताम्, करिष्यामि, प्रवदेत्साञ्जलिर्गुरुम् ।
श्रुत्वादेशं चाविचाल्य यथादिष्टं तथा चरेत् ॥ ३५ ॥

हासे कासे समुत्पन्ने करेणाच्छादयेन्मुखम् ।
तदन्ते मृदुभिर्वर्णैः स्वाभिप्रायं निवेदयेत् ॥ ३६ ॥

विनीतः पुरतो भूयात्सज्जो वस्त्रादिबन्धनैः ।
भूजानुः साञ्जलिः श्रोतुं याचयेत्तु त्रिवारकम् ॥ ३७ ॥

सत्कार्यं सर्वदा कुर्यान्निरहङ्कारचेतसा ।
त्रपया पापभीत्या संवृतो नववधूरिव ॥ ३८ ॥

न विलासमयीं चेष्टां कुर्यात्शास्तरि संमुखे ।
अन्यच्चैवंविधं कर्म सुपरीक्ष्य त्यजेद्भृशम् ॥ ३९ ॥

प्रतिष्ठायां मण्डले च होमे वा शिष्यसंग्रहे ।
आख्यानादौ गुरोर्वासे नित्यं कुर्याच्च सन्निधिम् ॥ ४० ॥

प्रतिष्ठादौ लभ्यते यत्तत्सर्वं गुरवेऽर्पयेत् ।
तेन दत्तं च गृण्हीयात्स्वयं चान्यांश्च तोषयेत् ॥ ४१ ॥

गुरुशिष्ये स्वशिष्यत्वं न विदध्यात्कदाचन् ।
स्वशिष्यं व्यावृतं कुर्यात्सत्कारादेर्गुरोः पुरः ॥ ४२ ॥

आचार्यो यत्स्वयं दद्याद्गुरुर्वा यत्प्रदापयेत् ।
प्रणम्य धीमता ग्राह्यं बद्धाञ्जलिपुटेन तत् ॥ ४३ ॥

अविस्मृतः सर्वचर्यां यत्नात्कुर्वन् स्वबान्धवान् ।
अविस्मृतेर्निराकुर्यात्प्रेम्णा हृष्टेन चेतसा ॥ ४४ ॥

अनुज्ञातो गुरोः कार्यं श्रद्धालुर्नाचरेद्यदि ।
रुग्णस्तु कुशले चित्ते नैवं भवति पापभाक् ॥ ४५ ॥
किमन्यद्, गुरुतोषाय यच्छक्यं तत्समाचरेत् ।
चर्या कार्या प्रयत्नेन न कदाप्यवहेलयेत् ॥ ४६ ॥

सर्वथा सर्वदा सिद्धिराचार्य यानुगामिनी ।
गुरुर्वज्रधरस्योक्तेराराध्यः सर्ववस्तुभिः ॥ ४७ ॥

शिष्यः शुद्धाशयो भूत्वा त्रिरत्नं शरणं व्रजेत् ।
गुरोरधीत्यानुपठेत्कुर्यादुत्सर्गमेव च ॥ ४८ ॥

ततो मन्त्रादिदानेन कृत्वा सद्धर्मपात्रकम् ।
पठेच्च धारयेच्चापि मूलापत्तीश्चतुर्दश ॥ ४९ ॥

गुरुमनुगतशिष्यस्यानवद्यस्य कृत्वा सकलसुहितवृद्धिं संचितं यन्मयेदम् ।
कुशलपदमनन्तं तेन वै सर्वसत्वाः विजितसुगतभावा द्राक्सुसिद्धिं लभेयुः ॥ ५० ॥

॥ इति गुरुपञ्चाशिका समाप्ता ॥

॥ कृतिरियं महाचार्याश्वघोषस्य ॥

"https://sa.wikisource.org/w/index.php?title=गुरुपञ्चाशिका&oldid=368667" इत्यस्माद् प्रतिप्राप्तम्