गुरोर्गुणमणिमाला
[[लेखकः :|]]

                        ॥ श्रीः ॥
॥ श्रीश्रीनिवासो विजयतेतराम् ॥
महामहोपाध्याय-विद्वत्केसरि-वैयाकरणचक्रवर्ति-श्रीमुष्णं
             श्रीसुब्बरायाचार्यमहाशयानां चरितम्।
-----------------
 श्रीवेङ्कटगिरिनिलयं श्रीविधिभवमुख्यदेवनुतचरणम्।
 श्रीपतिममलमनन्तज्ञानान्दादिकं भजे शरणम्।। 1
 श्रीमुष्णसुब्ब%रायाचार्याणां% बुधवराभिनन्द्यानाम्।
 विद्वत्केसरिबिरुदप्रकटितमहिमैकदेशविद्यानाम्।। 2
 गुणगणरत्नाकरतः कतिपयरत्नानि तावदादाय।
 सुजनग्रीवाभरणं हारं रचयामि कं च मोदाय।। 3
 क्षेत्रं श्रीमन्मध्वाचार्याऽऽदृतमस्ति भारते खण्डे।
 श्रीमुष्णसंज्ञमिन्धे मकरीपत्रं यदुञ्चभूगण्डे।। 4
 नित्यसरोवरतीरे मुक्तसुराधीशमृष्टसोपाने।
 भक्तहिताय विराजति यत्र हरिस्सूकरो हृताज्ञाने।। 5
 आर्यगणनुतगुणार्या चार्यगुरूत्तंसवंशमुक्ताभः।
 %नारायणार्यनामा% तत्राभूत्पण्डितेड्यशुभचर्यः।। 6
 तत्तनयाः पञ्चासन् प्राप्तनयाश्शब्दतन्त्रनिष्णाताः।
 आलोडितवेदान्ता हरिचरणसरोजमधुकरस्वान्ताः।। 7
 पार्थ इव मध्यमोऽभूत् तेषु %श्रीसुब्बराय%बुधवर्यः।
 सुकृतभरिताम्बुजाम्बागर्मादिव चन्द्रमाः पयोराशेः।। 8
 पित्रोपनीत एव द्वित्रैरब्दैरवाप सद्विद्याम्।
 तिरुवालूरुग्रामे मातुलसदने स्थितोऽध्यगीष्ट ऋचः।। 9
 जनकाज्ज्येष्ठभ्रातुः काव्यग्रन्थानधीत्य मेधावी।
 यत्र श्रीवार्ष्णेयः सह रुक्मिण्या विराजते देवः।। 10
 मन्नारुगुडिक्षेत्रे निक्संस्तत्रादृतो बुधैस्सर्वैः।
 पण्डितवर्यात्तत्र च गोपालाचार्यनामकाद्धीरः।। 11
 शाब्दे तन्त्रे कौस्तुभकौमुद्यावध्यगीष्ट गुरुणाऽथ।
 'शास्त्रेषु भवान्निपुणो भविते'ति कृताशिषं गृहीत्वाऽयम्।। 12
 कन्यामनवद्याङ्गीमनुकूलामुदवहच्छुभाचाराम्।
 षश्चादुत्तरदेशे सुरपुरनगरं चरन् समासाद्य।। 13
 एष हयग्रीवार्याद्बुधवर्याच्छेखरादिकान्निपुणम्।
 कतिचिदधीत्य ग्रन्थान् तदनुज्ञातस्तदुत्तरे देशे।। 14
 यत्र च भीमाकूले विठ्ठलनामा हरिः परो जयति।
 पण्ढ्रापुरनामवरक्षेत्रं भक्त्या ततस्समापेदे।। 15
 तत्र हि कृष्णाचार्यं विदुषां वर्यं समाश्रयद्धीमान्।
 भाष्यं प्रदीपसहितं भूषणसारौ तथैव मञ्ञूषाम्।। 16
 उद्योतं समधीत्य च शाब्दे तन्त्रेऽभवन्महाप्राज्ञः।
 स तु पश्यन्गुरुवर्यों वैदुष्यं वावदूकतामस्य।। 17
 "मान्यो भवांस्तु भविता सभासु सर्वासु भूपतिप्रमुखैः"।
 आशिषमेवमवादीत् जग्राहासौ प्रणामपूर्वं ताम्।। 18
 कोल्हापुरसंस्थानं प्रायच्छिष्यैरयं च पदचारी।
 यत्र हि लक्ष्मीर्विलसति कामितसकलार्थदा स्वभक्तेभ्यः।। 19
 नगरे तस्मिन्निवसन्नभ्यास्थन्न्यायशास्त्रमपि सकलम्।
 %श्रीभिक्कुशास्त्रि%वर्यात्पण्डितगणमौलिमण्डनोञ्चमणेः।। 20
 तस्मिन्नेव पुरे %रघुनाथा%भिधतार्किकं जिगायाऽसौ।
 यो न्यायरत्ननाम्नीं व्याख्यामकरोद्धि पञ्चवादानाम्।। 21
 तत्रत्यानां विदुषां प्रमोदमुदपादयत्परं वाग्मी।
 आगच्छन् स्वं देशं मैसूरुपुरं क्रमादयं प्राप्य।। 22
 तत्राऽऽस्थाने विदुषो लेभे जित्वोञ्चमाननां नृपतेः।
 दक्षिणदेशे राजन्नूतनदुर्गाख्यपुरनरेन्द्रस्य।। 23
 आस्थानविबुध %कुप्पुस्वामिवरादाप% पूर्वमीमांसाम्।
 आत्मकुलक्षीराम्बुधिराकाचन्द्रो बुधेन्द्रनुतमेधाः।। 24
 योऽध्यापयत्सुशिष्यञ्छ्रीपूर्णप्रज्ञशास्त्रतत्त्वार्थान्।
 बहुकृत्वः सुगुणनिधी %रामण्णाचार्य%नामगुरुवर्यः।। 25
 तस्माद्गुरुवर्यादयमाम्नायान्तं समध्यगीष्ट चिरम्।
 पश्चिमजलधेस्तीरे पुर्यां श्रीरजतपीठसंज्ञायाम्।। 26
 श्रीपूर्णप्रज्ञमुनिप्रमुखार्चितकृष्णपूजकाऽग्रण्यात्।
 %श्रीकृष्णापुरमठपति%यतिकुलतिलकादवाप परिवद्याम्।। 27
 विद्याधीशद्युमणेरवशिष्टां शिष्यदीप्तिहृततमसः।
 एवं शास्त्रेष्वसदृशमेधाप्रतिभाबलेन देशेषु।। 28
 विद्वद्वरदिक्करिणः सदाऽवजानन् चचार बुधसिंहः।
 ग्रामवरे क्वचिदेष हि भेजे सममासनं महासदसि।। 29
 बुधराजशास्त्रिणाथ तु वादे तं चापराञ्जिगाय बुधान्।
 तञ्जापुरे महीपतिसदसि विपश्चित्परीक्षकःर कश्चित्।। 30
 एनं शास्त्रविचारे निपुणं ज्ञात्वाऽपि नाऽऽद्यकक्ष्यायाम्।
 समजीगणत्तदाऽयं कुपितः पुरतो विभोस्सभामध्ये।। 31
 अस्मिन् विद्वत्सदसि प्रभवति को वा परीक्षितुं मां तु।
 दातुं वा प्रतिवचनं मत्प्रश्नानामितीरयाञ्चक्रे।। 32
 अथ विद्वान् प्रभुणोक्तः किमेतदिति तं परीक्षको भीतः।
 प्रामादिकोऽपराधो ममायमर्हः सुमानने प्रथमम्।। 33
 विचिकित्सा नास्तीति प्राह प्रथमामयं तदा पूजाम्।
 लेभे सकला लोका विस्मयमानन्दमापुरमितमहो।। 34
 तत्रैवाथ कदाचित् दक्षिणदेश्या विपश्चितो बहवः।
 सम्मन्त्र्य कुप्पुस्वाम्यय्यङ्गारं महोद्धतं सदसि।। 35
 तार्किकराजं जेतुं प्रचोदयामासुरेनमतिधीरम्।
 व्युत्पत्तिवादनाम्नि ग्रन्थे तमयं जिगाय वादेषु।। 36
 जयिनमथ सुब्बरायाचार्यं सर्वे महाशयास्तत्र।
 सुरगुरुमपरं मत्वा व्याजह्रु%श्चक्रवर्तिनं विदुषाम्%।। 37
 अमुनैवाऽतिविशुद्धा भुवमिव गङ्गा भगीरथेनादौ।
 दक्षिणककुभमपूर्वा शाब्दी विद्या स्थिरं समानिन्ये।। 38
 देशेषु येषु येषु प्रख्याततरा लसन्ति चेदानीम्।
 व्याकरणशास्त्रपारङ्गताः सभाऽऽस्थानपण्डिता जयिनः।। 39
 वादेषु सम्यगध्यापनेषु च प्रथितशेमुषीमहिताः।
 दधति च महामहोपाध्यायोपपदं च %जार्जिनृपद%त्तम्।। 40
 शालासु राजकीयास्वग्र्यासु च पण्डिता विराजन्ते।
 ते सर्वेऽपि बुधेन्द्राः शास्त्रे शिष्यप्रशिष्यतच्छिष्याः।। 41
 एवं जैमिनिगौतमतन्त्रेऽप्यन्ये वसन्ति विद्वांसः।
 बहवश्चेत्यस्य महाभाग्यं शक्नोति कोऽनु वर्णयितुम्।। 42
 राजमहेन्द्रे नगरे %श्रीसत्यध्यानतीर्थ%गुरुसदसि।
 वैयाकरणमहेभो मत्तस्तत्राऽऽजगाम बुधकरिणः।। 43
 दुर्भेदचोद्यदन्तप्रहारतोऽद्रावयद द्रुतं सकलान्।
 बुधसिंहं गुरुवर्येणाऽऽहूतमिमं विलोक्य स तु वादी।। 44
 भीततमो बुधवर्यं प्रणम्य मध्येसभं च स प्राह।
 "एतैस्तत्रभवद्भिर्वादं कर्तुं क्षमेत को वादी।।" 45
 एते जगति महान्तः पाणिनिरथवा पतञ्जलिर्ब्राह्मी।
 अत्र सभायामेतैरद्याहं विजित एव बुधवर्यैः"।। 46
 एको जिगाय निखिलान् पार्थथः संशप्तकानिवाशु सुधीः।
 भीमः क्रोधवशानिव वादीन्द्रानेक एव धीबलतः।। 47
 स्वयमन्विष्याहूय प्रथितोद्धतचण्डपण्डितप्रवरान्।
 निश्शङ्कं धीरमतिः स शपथमकरोद्विभिन्नमददंष्ट्रान्।। 48
 दुर्वादीन्द्रमहारथयूथे प्रक्षिपति भीषणशतघ्नीम्।
 दुर्भेदचोद्यरूपां मुमोच तूर्णं विभीः सहस्रघ्नीम्।। 49
 पुनरपि मैसूरुपुरे राजाऽमात्यैरसौ समाहूतः।
 विदुषस्तत्र विजित्य प्राप च दत्तं परीक्षकस्थानम्।। 50
 वहुदेशागतविदुषः परीक्ष्य नृपतिं तु तोषयामास।
 नृपसचिवैर्बुधराजो विधुषामग्रे सुपूजितश्चैषः।। 51
 सदसि बरोडानृपतेः पण्डितसिंहांसत्दातनान्त्सर्वान्।
 जित्वाऽखिलशास्त्रेषु प्राथमिकीं प्राप माननां श्रेष्ठाम्।। 52
 श्रीपद्भनाभपादाङ्गुष्ठनखद्योतधूतसन्तमसे।
 दक्षिणवारिधितीरगकेरलदेशेषु राजमानेऽसौ।। 53
 नगरेऽप्यनन्तशयने राजसभायां विजित्य बुधमल्लान्।
 सौवर्णकटकूपर्वां लेभे सम्भावनां परां प्रथमाम्।। 54
 श्रीवेङ्कटगिरिनिकटे राजति पद्भवतीवरक्षेत्रे।
 श्रीपूर्णप्रज्ञमताऽवलम्बिसुजनैः प्रकल्पितायां तु।। 55
 सिद्धान्तोन्नाहिन्यां सुसभायां प्राज्ञवर्यकलितायाम्।
 प्रथमं परीक्षकपदं परिष्करोति स्म बुधवरव्यूहे।। 56
 चित्तूरु कलेकटरग्र्यः प्रसमीक्ष्य कृतीः प्रमोदतो ह्यस्य।
 %सूत्रार्थम%ञ्जरीमुखशास्त्रग्रन्थांश्चिरादभिननन्द।। 57
 स्वाभिप्रायनिवेदनपूर्वं राज्ञे स्वयं निवेद्यास्मै।
 %श्रीजार्जिचक्र%वर्तिप्रभुतो वर्षाशनेन महिततमम्।। 58
 बिरुदं %महामहोपाध्यायाख्यातं% प्रदापयामास।
 नामेदं दत्तमिति डिल्लीनगरान्निवेदयामास।। 59
 नयशब्दशास्त्रपारावाराऽन्तस्तलविहारिमतितिमिराट्।
 लक्ष्मीसरस्वतीभ्यां प्रेम्णा यश्चाश्रितोऽधिकस्पर्धम्।। 60
 यत्पुर 'तोऽहं बुध'इति बिभ्यति नामापि वक्तुमखिलाश्च।
 कोञ्चीदेशनृपालः कविकथकैः कीत्यमानसत्कीर्तिः।। 61
 अस्य समीक्ष्य प्रतिभामसमाधेयेषु चोद्यगहनेषु।
 विस्मितमनाः प्रहृष्टः प्रादादस्मै सुवर्णकटकादीन्।। 62
 वाराणस्यां पण्‍डितवादसभायां महाशयास्सर्वे।
 निरुपमपूर्वन्त्वनघं वैदुष्यं शब्दशास्त्रवाराशेः।। 63
 जानन्तोऽद्भुतमोदाम्बुधौ निमग्ना वितेरुरन्वर्थम्।
 %वैयाकरणनृकेसरि%बिरुदं संपूज्यं विबुधवरसदसि।। 64
 यत्र हरः प्रणतानामार्तिहरोऽस्मीति तादृगभिधानः।
 विलसति शिवया धर्माऽऽसंवर्धिन्याख्यया सह प्रीतः।। 65
 श्रीपञ्चनदक्षेत्रे कावेरीतोयवातहृतदुरिते।
 अध्यापयन्नवात्सीच्छिष्यगणं सर्वशास्त्रमनिशमसौ।। 66
 अस्य तु विद्वान् तनयः शुभवृत्तः %सेतुमाधवाभिख्यः।%
 तिरुपतिनाम्नि प्रथिते क्षेत्रवरे श्रीपतेःर सुखावासे।। 67
 श्रीवेङ्कटेशसंस्कृतविद्यानिलये परं चिराल्लसति।
 पाणिनितन्त्रे मुख्याध्यापकपदवीमवाप मेधावान्।। 68
 श्रीवेङ्कटनामगिरेरुपत्यकायां विभासितं पूतम्।
 साकं तिरुपतिनगरं प्रियपुत्रेणाऽध्युवास चैष बुधः।। 69
 तत्रायं चिरकालं स्वयमपि शिष्यान् बहूनि शास्त्राणि।
 अध्यापयन्नतोषयदच्युतमतिर्थीश्च पूज्ययन्त्सततम्।। 70
 सूत्रार्थमणिमयी या मञ्जर्यमुना कृता बुधेन्द्रेण।
 सा मुद्रिता सुतेनाऽऽद्रियते सर्वैश्शिरोभिरपि हृदयैः।। 71
 गीताभाष्यव्याख्या शेखरयुगलस्य चोत्तमे व्याख्ये।
 अमुना व्यरचिषतेमास्ताश्च सुतेनाऽद्य मुद्रणे निहिताः।। 72
 देशे देशे बहवो वसन्ति शिष्याः प्रशिष्यवर्ग्याश्च।
 तन्नामानि विशिष्य ज्ञातुं वक्तुं न शक्नुमोऽद्य वयम्।। 73
 अथ वक्ष्यामस्तेषु च कतिपयविदुषां तु नामधेयानि।
 पञ्चनदे नृपसंस्कृतशालाध्यक्षश्च शब्दनिष्णातः।। 74
 महितनदीतीरकुले सञ्जातः शिष्यर्क्यनुतसुगुणः।
 %श्रीसेतुमाधवार्य%स्तच्छिष्येषु प्रधानशिष्योऽसौ।। 75
 विद्वन्मणिघनपाठी शतावधानी विचित्रकविवर्यः।
 कदलीकन्दान्वयजो गीतोपन्यासिलक्ष्मणाचार्यः।। 76
 अस्यैव मुख्यशिष्यः शाब्दे तन्त्रे तथैव वेदान्ते।
 अस्मादधीत्य सर्वं शास्त्रं शाब्दं बभूव मेधावी।। 77
 %गोपालशास्त्रिनामा% पाणिनितन्त्रज्ञपण्डितप्रवरः।
 यत्र च वृषाकपाय्योर्नाथौ देवौ वरप्रदौ जयतः।। 78
 तत्र तु बहवो विद्याशालाः क्षेत्रे चिदम्बरे सन्ति।
 विद्यालये प्रधाने प्रथमाध्यापकपदे नियुक्तोऽभूत्।। 79
 तस्मात्पाणिनितन्त्रे सन्त्याभाष्यन्त्वधीतिनो बहवः।
 तत्रैकश्छात्रवरो विद्वान %श्रीदण्डपाणियज्वा% यः।। 80
 अण्णामलैसर्वकलाशालासंस्कृतबुधाग्रणीर्वसति।
 बिरुदं महामहोपाध्यायाख्यातं चिदम्बरे बिभ्रत्।। 81
 सोऽपि बुधः सच्छात्रः प्रशिष्यवर्ग्यो हि कुलपतेरस्य।
 योऽनन्तशयनसंस्कृतशालापदशास्त्रपण्डितप्रवरः।। 82
 %श्रीरामकृष्णशास्त्री% सोऽपि हि शिष्योऽस्य बोधकल्पतरोः।
 अधिवसति कुम्भघोणं योऽभिनवो भट्टबाण इति विदितः।। 83
 नगरवरकुम्भघोणे राजन्त्यां राजकीयशालायाम्।
 विद्वान् महामहोपाध्यायोपपदः कवीन्द्रकुलतिलकः।। 84
 सोऽपि च वैयाकरणः शिष्यो ह्यस्यैव %कृष्णमाचार्यः।%
 यः श्रीमहामहोपाध्यायो %वी-श्रीनिवास%बुधवर्यः।। 85
 त्रिशिरः पुरेऽतिरम्ये श्रीरङ्गक्षेत्रपरिसरे देशे।
 जोसफ्रकालेजिवरेऽमरभाषाऽध्यापकः प्रशिष्योऽस्य।। 86
 यो राजकीयशालासंस्कृतभाषाबुधः पुनानगरे।
 काव्यप्रकाशटीकाकारोऽलङ्कारशाब्दतत्त्वज्ञः।। 87
 झलकीकरोपनामा %वामनभट्टः% स शिष्य एवास्य।
 सोलापुरेऽस्य विद्वान् शिष्यो %गोविन्दशास्त्र्यपि% प्रज्ञः।। 88
 उक्तमिदमुदाहरणं न तु सङ्ख्यानं गुरोश्च शिष्याणाम्।
 व्युत्पत्तिवादमस्मादधिजगिरे तार्किका बुधा बहवः।। 89
 %अहमपि% कश्चन शिष्यस्त्रय्यन्ते त्विति वदामि जिह्रेमि।
 गणनन्तु वेदितव्यं गुरुवरकरुणाऽभिलाषया हि परम्।। 90
 निगमान्तागमचर्चाव्यापारेणैव यापयन्त्समयम्।
 ग्रहवह्निवसुनिशाकरसङ्ख्याते शालिवाहनस्य शके।। 91
 श्रीकालयुक्तिवत्सरकार्तिकासितत्रयोदशीं यावत्।
 अलमयमकरोत्तिरुपतिनगरं पुण्योञ्चयोत्थया मूर्त्त्या।। 92
 दुरितप्रशमनमस्य स्मरणं सर्वस्य सर्वभद्राणाम्।
 करणमिति भक्तिनुन्नः किञ्चिदवोचं गुरोश्च महिमानम्।। 93
 श्रीवेङ्कटेशविद्याशालायां श्रीपदे पुरे भान्त्याम्।
 त्रय्यन्तोपाध्यायः शिष्टतमश्रीनिवासबुधसूनुः।। 94
 कदलीकन्दान्वयजो %गिरिधरनामा% तु साहितीविद्वान्।
 रचयित्वेमां सुकृतिं समर्प्य गुरवे प्रणौमि गुरुवर्यम्।। 95
 पद्मावतीसमेतः करुणावारांनिधी रमेशो मे।
 श्रीवेङ्कटगिरिनिलयः प्रीतो भवतु प्रियं च ददातु शिवम्।। 96
 गगनर्त्तुवसुनिशाकरसङ्ख्याते शालीवाहनस्य शके।
 बहुधान्यचैत्रपौर्णम्यामेषा स्वार्यगा कृतिर्व्यरचि।। 97
       


                     श्रीमतां आचार्याणां स्तुतिः
                           --------
 श्रीमान् श्रीपूर्णबोधः पुनरपि जननं प्राप किं वेति मान्यः
     शिष्यैरग्र्यैरसङ्ख्यैः गृहिभिरपि तथा ज्ञानिभिः सेविताङ्घ्रिः।
 %आर्याचार्यः% सुचर्यः प्रथितगुरुरभूद्योऽश्रुतग्रन्थवक्ता
     वंशे तस्यैव जातः स इति बहुमतं सुब्बरायार्यमीडे।।1।।
 व्याख्याप्रख्यातनाम्नो वरपवनकलाशास्त्रसङ्घस्य नित्यं
     रामण्णाचार्यवर्यादधिगतनिगमान्तस्तथा शिक्षितार्थः।
 योगीन्द्रानम्यकृष्णापुरमठयतिभिर्भातविद्यामरीची
     रुन्धन् योऽभात्तमोऽन्तर्गुरुमखिलसतां सुब्बरायार्यमीडे।।2।।
 येनैवाकारि यत्नादिह भुवि महतः स्वर्धुनीवामलाग्र्या
  वीद्या शाब्दी समग्रा विहरणमुदिता सर्वतश्चाप्यपूर्वा।
 पायंपायं बुधेन्द्राः कतिपयपृषतः सर्व एते हि तृप्ताः
यद्विद्यादेवनद्याः गुरुवरमनिशं सुब्बरायार्यमीडे।।3।।
शाब्दीविद्याभिधानास्सुरवरतरवस्सन्ति ये यत्र यत्र
 यावन्तः पत्रपुष्पोत्तमफलरुचिरास्सर्व एतेऽपि साक्षात्।
येनैवोप्तैस्सुबीजैस्स्फुटलसदुपदेशाभिधैस्संप्ररूढाः
 तज्जाः केचित्तु तज्जाः पर इति महितं सुब्बरायार्यमीडे।।4।।
राज्ञस्तञ्जापुरे यस्सदसि विरचितं प्राश्निकैकार्हमाद्यं
  प्राप्तः पीठं परीक्षासमय इह भवान् स्थातुमर्होऽद्य नेति।
प्रोक्तः प्राज्ञैस्तदा तानपि बुधकरिणस्सर्वशास्त्रेषु जित्वा
  तस्थौ तत्रैव पीठे स्थिरमतुलमतिं सुब्बरायार्यमीडे।।5।।
मेधां वादे यदीयां बुधमदशमनीं सर्वशास्त्रप्रवीणः
  श्रुत्वा वादाय नागात् क्वचिदथ हठतो निर्जितो मायिराजः।
येनान्योऽपीत्थमेवाधिकभयविवशः न्यायरङ्गप्रवीणः
  नाऽदाद्व्युत्पत्तिवादे प्रतिवचनमहो सुब्बरायार्यमीडे।।6।।
जार्जिश्रीचक्रवर्ती निखिलबुधनुतां सर्वदेशप्रसिद्धां
  प्रज्ञां कीर्तिं निशम्याधिकमुदितमनाः मानयामास सम्यक्।
दत्वा भूषां सुवर्मादिकमपि बिरुदं सार्थकं रूप्यकाणां
  वर्षे वर्षे शतं श्रीपतिपदनिरतं सुब्बरायार्यमीडे।।7।।
%श्रीसत्यज्ञानतीर्थ%व्रतिवरसदसि प्रौढवादीन्द्रभीमे
  प्राप्तं दृप्तं विपश्चिद्गजमधिकबलाक्षेपदन्तप्रहारैः।
प्राज्ञान् दूरे क्षिपन्तं प्रतिवचनमहाकुन्तभग्नं व्यधाद्यः
  सद्योविद्योतबोधः प्रतिभटभदः सुब्बरायार्यमीडे।।8।।
बद्धा येनातिशुद्धाऽभिनवबहुतराक्षेपविक्षेपदक्षा
  शिक्षायां चोपयुक्ता पटुमतिविदुषां बालकानां च सम्यक्।
अर्थानां सूत्रभाष्यप्रतिपदलसतां धीमतां कर्णभूषा-
  ऽञभिख्यां सूत्रार्थरत्नोज्ज्वलतनुरतुलां विन्दते मञ्जरीयम्।।9।।
यस्मिन् विद्वन्मृगेन्द्रे विहरति नृपतिप्रौढसंसद्वनान्तः
  प्रोचुर्नैकं च शब्दं किल चकिततराश्शाब्दिकाख्या मदेभाः।
दुस्तर्कक्रूरदंष्ट्रा अपि भयविवशास्तार्किकद्वीपिसङ्घाः
  लीनाः कुत्रापि नोञ्चैर्ध्वनिमपि ससृजुस्तान्त्रिकव्यालयूथाः।।10।।
सत्स्वप्यन्येषु कान्तेष्वनुपममनिशं प्रेम यत्रैव चक्रे
  वादीन्द्रैर्धार्तराष्ट्रैः कृतविविधमहाभङ्गतो मोचिताऽऽसीत्।
वीराग्र्येणैव येनानवरतमुदिता मध्वसिद्धान्तविद्या
  पाञ्चालीव स्वशास्त्रे स दिशतु सुमतिं सुब्बरायार्यभीमः।।11।।
आसीदार्यार्थनीया शुचितमपरिभाषोपनामेन्दुमौलेः
  मूर्तिर्या विश्ववद्याभिलषितसकलार्थप्रदा दुर्गमा च।
ज्ञप्त्यै तस्यास्सुखेनार्थिषु परकृपयाऽनल्पमोदाय तेषां
  व्याख्या दिव्याञ्जनाभा व्यरचि किल सुबोधिन्याह्वया येन रम्या।।12।।
वादेष्वासेतुहैमाचलमिह न जितो येन नासीद्विपश्चित्
  कोऽपि क्वापि प्रभूताग्रहविवशबुधैः दूषणौधे प्रयुक्ते।
उद्वेगो नैव चिन्ता न मतिकलुषता न प्रमादो न यस्य
  प्रोत्था सौरापगेव प्रतिवचनततिः केवलं यन्मुखाद्रेः।।13।।
श्रीमच्छेषाचलेशाङ्घ्रिजलयुगलाऽऽलोकनोत्कण्ठितान् यः
  प्राप्तान् श्रान्तान् द्विजाग्र्यान् सतनयवनितानादरेणान्नदानैथः।
भोगैरभ्यङ्गपूर्वैरसुखयदधिकं श्रीपदाह्वे पुरे स्वे
  पुत्रे विद्वद्वरेऽध्यापयति पदकलां सुब्बरायार्यमीडे।।14।।
यस्मान्मेरोरिवाद्रेर्वरबहुकृतयो निर्गता देवनद्यः
  चेतस्तापान् समस्तान् सकृदपि पठनस्नानतः सज्जनानाम्।
निघ्नन्त्युन्मूलयन्ति प्रतिकथकमनोरूढगर्वोञ्चवृक्षान्
  दद्याच्छ्रीसुब्बरायप्रथितगुरुवरस्स स्मृतो मङ्गलं नः।।15।।
त्थं श्रीसुब्बरायोत्तमगुरुचरणाम्भोजसंसक्तचित्तः
  मोचाकन्दान्वयोत्थः %गिरिधर%सुकविः श्रीनिवासार्यपुत्रः।
तस्यापाराद् गुणाब्धेः कतिपयगुणसन्मौक्तिकानि प्रगृह्य
  तेने मालां स्वकण्ठे दिशतु गुरुरिमां संवहन् सन्मतिं मे।।16।।
                    ***************


                           श्रीः
                     श्रीनिवासो विजयते
         महामहोपाध्याय, विद्यामार्तण्ड, मध्वसिद्धान्तभूषण श्रीमुष्णं व्याकरणं
                   श्रीसेतुमाधवाचार्याणां स्तुतिः
                         ---------
लक्ष्मीललाकटाक्षोत्पलसुमनिकराबद्धमुग्धाश्ववक्त्र-
   प्रत्यक्षोद्भूतमोदाऽतिशयजलधिसंमग्नशुद्धात्मनां यः।
वंशे हंसोत्तमैः सद्गृहिभिरपि बुधैस्सेवितानां गुरूणां
   %आर्याचार्या%भिधानां जयति वरजनिः श्रीगुरुर्मौक्तिकाभः।।1।।
शाब्दी विद्याऽनवद्या प्रतिदिनमुदिता यन्मुखोञ्चोदयाद्रेः
   शिष्यौघस्वान्तदर्याश्रितमपि तिमिरं लीलयैवाशु भित्त्वा।
नित्यं विष्णोः पदं चामलमतिविततं भासयन्ती जयन्ती
   राजत्यद्याप्यवार्या तरणिघृणिरिव श्रीगुरुं तं समीडे।।2।।
मह्यां सन्ति बुधाः परश्शतमहो नैवाभिजातास्तु ते
   सन्त्यन्येप्यबुधा महाकुलभवा हीत्थं सतां मानसे।
यद्दुःखं महदद्य यं वरकुलोत्पन्नं बुधाग्रेसरं
   दृष्ट्वैवापगतं स मे विजयते सर्वाभिनन्द्यो गुरुः।।3।।
सद्वंशप्रभवत्व-शास्त्रविमलप्रज्ञाप्रवक्तृत्व-सद्-
   धर्माचार-दयाक्षमाशमदम-श्रीकान्तभक्त्यादयः।
शोभन्ते सुगुणाः परस्परमहो प्राप्ता महासौहृदं
   यस्मिन्नेव गुरुस्स मे गुणनिधिः भूतिं तनोत्वन्वहम्।।4।।
पाण्डित्यं किल यत्नतोऽपि बहुलं प्रायो भवेद्वै नृणां
  जातानां न कदापि सत्कुलभवत्वं स्याद्धि यत्नोञ्चयैः।
सौवर्णस्य सुमस्य सौरभमिव श्लाघ्यं कुलीनस्य सद्-
  विद्येत्युक्तिरियं समुल्लसति यं प्राप्यैव तं सन्नुमः।।5।।
श्रीमत्पावनपावनागमततिव्याख्यानधारामृतं
  पायंपायमपि प्रमोदभरिताः शिष्याश्चकोरा इव।
चित्रं नो विरमन्ति यस्य वदनादिन्दोश्च्युतं निर्मलात्
  सोऽयं मे गुरुराट् सदागमपरिज्ञानाय भूयात्सदा।।6।।
आर्याचार्यमहान्वायाकलशाम्भोराशिराकापतेः
  भेर्यारावनिघुष्टसर्वबुधसंमान्याखिलेक्षानिधेः।
विद्वत्केसरिसुब्बरायसुगुरोः सूनुस्सुधीस्तत्समः
  शिष्टाग्र्यो भुवि %सेतुमाधव%बुधो जेजीयतां सन्ततम्।।7।।
श्रीतञ्जानगरान्तिके शुचितमे सह्याद्रिजायास्तटे
  क्षेत्रे पञ्चनदाभिधे वसुमतीहारेऽग्रहारे शुभे।
जातः श्रीविजयोदरादिव मुदे पूर्वाचलाञ्चन्द्रमाः
  नित्यं चन्द्रिकया सुतर्पितजनो जीयाञ्चिरं मे गुरुः।।8।।
शास्त्रं सर्वमधीत्य तातचरणात् संमानितः पण्डितैः
  आस्ते शिष्यकृपार्णवः पदकलोपाध्यायवर्यश्चिरात्।
श्रीमच्छ्रीपदपत्तने त्विह लसच्छ्रवेङ्कटाधीश्वर-
  द्रव्यस्थापितसंस्कृतोत्तमकलाशालां समुद्भासयन्।।9।।
शाब्दं ष्ट्त्रिंशदब्दानखिलमपि महाभाष्यमुख्यं सुशास्त्रं
 निस्सन्देहं रहस्यामितसरसलसत्संप्रदायार्थयोगैः।
अध्याप्यानेकशिष्यान् प्रति सममकरोद्विश्वविद्यालयेऽसौ
 उत्तीर्णान् यः परीक्षास्वयमिह गुरुराड्राजतां सूरिवर्यः।।10।।
यस्य श्रीतातपादैरभिनवमतुलं दुर्लभं शब्दशास्त्रं
 कौशेयं दक्षिणस्या व्यरचि शुभतमाच्छादनं सर्वगात्रे।
तत्पुत्रेणामुनाऽद्याखिलहरिदबलासुन्दराङ्गाणि चित्रं
  तत्तुल्यैरुञ्चमूल्यैर्विततबहुपदैरंशुकैर्मण्डितानि।।11।।
येनैवेयं हि शाला सुपदकृतमहौन्नत्यमाप्ता विशाला
  यस्याकृष्टा गुणौघैर्जरठमपि पतिं यं प्रियं मन्यते स्म।
यत्संबन्धातुरैवाऽदिशदपि भगिनीं यस्य शिष्याय यूने
  सोऽयं श्रेयो विदध्यात् सुगुणमणिखनिः सन्ततं श्रीगुरुर्मे।।12।।
शाब्दी भूषणसारसुन्दरतरा सच्छेखरालङ्कृता
  सद्भाष्या च मनोरमादृतवपुः श्रीशब्दरत्नोज्वला।
मञ्जूषार्थयुता च यस्य वदने रङ्गे स्फुरन्ती रसात्
  नृत्यन्ती तनुते नटीव मुदितान् विद्यार्थिसामाजिकान्।।13।।
पृथ्वीमण्डलवर्तिपण्डितवरप्रज्ञासुवर्णोञ्चता
  सन्निर्णायकबुद्धिशाणालसितैः यः श्लाघितः सन्ततम्।
%सत्यध्यानगुरूत्तमैः% प्रतिसभं संमानितो मोदतः
  तं विद्वद्वरसेतुमाधवगुरुं वन्दामहे श्रेयसे।।14।।
सौजन्यं शुचितां दयां नियमने विद्यार्थिनां दक्षतां
  कार्याणां च विवेचने निपुणतां ज्ञात्वा यदीयां मुहुः।
शालाध्यक्षवरश्चकार कुरुते यं स्वीयभारोद्वहं
  नैपुण्यं कवितापथे दिशतु मे सोऽयं कवीन्द्रो गुरुः।।15।।
यस्संप्रीणयते सुशाब्दवचनैर्विद्यार्थिनस्सादरं
  मिष्टानैरतिथीन् सदोचितधनैर्दीनान् बुधान् विद्यय।
भक्त्या पूजनया च वेङ्कटपतिं श्रीमध्वशास्त्रोक्तिभिः
  श्रीव्यासं मम सेतुमाधवगुरुः पुष्णातु विद्यां पराम्।।16।।
श्रीमुष्णाभिधसंप्रदायवरसद्धर्मव्यवस्थापकः
  श्रीमुष्णोपपदः सुधीनुतमतिः श्रीसुब्बरायार्यतः।
आत्रेयाह्वयगोत्रदुग्धजलधेः जातः कलेशः परात्
  अस्मै श्रीगुरवे परश्शतमसावायुर्दिशत्वच्युतः।।17।।
इत्थं सर्वजनानुभूतिविषयैस्सञ्चोदितस्सद्गुणैः
  नित्यं तद्गुरुभावनो %गिरिधर%स्स्तौति प्रियः कौतुकात्।
अस्मद्देशिकहृन्निवास्यमितधीचित्ताब्जगः %श्रीपतिः%
  सुप्रीतो भवतु श्रियं च पठतामायुर्धियं यच्छतु।।18।।
%श्रीसेतुमाधवगुरो%र्गुणमणिमाला कुतूहलाद्रचिता।
  %गिरिधरनाम्ना% कविना कदळीकन्दान्ववायजनितेन।।19।।
श्रीवेङ्कटेशविद्याशालासाहित्यपण्डितेनैषा।
 श्री श्रीनिवासबुधवरतनयेन सतां चिराय भवतु शिवम्।।20।।

इति श्रीपदपुरी(तिरुपति)विराजमान श्रीवेङ्कटेश्वरसंस्कृतमहाकलाशालायां
    साहित्यप्रधानाध्यापकेन द्वैतवेदान्तनिष्णातेन कदलीकन्दान्वयजेन
       श्रीनिवासाचार्यपुत्रेण %गिरिधराचार्येण% रचितेयं
                गुरोर्गुणमणिमाला।।
                 श्रीकृष्णार्पणमस्तु
                ***************

"https://sa.wikisource.org/w/index.php?title=गुरोर्गुणमणिमाला&oldid=399839" इत्यस्माद् प्रतिप्राप्तम्