गुह्यसमाजमण्डलविधिः
गुह्यसमाजमण्डलविधिः [[लेखकः :|]] |
दीपंकरभद्र गुह्यसमाजमण्डलविधिः
नमो वज्रसत्त्वाय ॥
ज्ञेयाद्यावृतिनिर्मुक्तं ज्ञानादर्शादिसंयुतम् ।
मञ्जुश्रीगुह्यसच्चक्रं नत्वा तद्वच्मी मत्स्मृतौ ॥ १
श्रीमत्समाजसन्नीत्या चक्राम्नातक्रमादतः ।
उदकाद्यमनुज्ञान्तं योऽभिषिक्तो गुरोस्ततः ॥ २
तत्त्वाप्तौ गुह्यचक्रेऽस्मिन् गुह्यप्रज्ञाभिषेकतः ।
गुह्यज्ञो योगतत्त्वज्ञस्त्रियानसन्धितत्त्ववित् ॥ ३
विद्याहृन्मन्त्रमुद्राणां समाधित्रितयस्य च ।
सामान्येतरसिद्धीनां तन्त्रनीत्या विभागवित् ॥ ४
समयसंवरस्थो वा प्रज्ञायोगसुतत्परः ।
मन्त्रतन्त्रप्रयोगज्ञो भव्यः सत्त्वार्थसाधने ॥ ५
योगधैर्यादियुक्तोऽपि प्रोक्तैर्गुणैरनन्वितः ।
सत्त्वार्थे नैव भव्यो यत्सद्भिस्तैः स्युर्गुणा ह्यमी ॥ ६
कृपावान् सुव्रतो जापी श्राद्धो गम्भीरतत्त्ववित् ।
पूर्वसेवां स्वचक्रस्थः कृत्वा मण्डलमालिखेत् ॥ ७
क्वचिन्मनोऽनुगे स्थाने दिग्धे सच्चन्दनादिभिः ।
सुगन्धिकुसुमाकीर्णे प्राक्प्रअतर्विनिवेश्य च ॥ ८
विमोक्षमुखसंशुद्धौ हृदीन्दौ मं प्रभोज्ज्वलम् ।
ध्यात्वा शुभाभिवृद्ध्यर्थं प्रकुर्याद्देशनादिकम् ॥ ९
सर्वदिक्त्र्यध्वसंभूतबुद्धानां पुरतः स्थितः ।
हृद्प्रभोद्भवरूपाद्यैः पूजां कृत्वा विधानतः ॥ १०
स्वासत्संकल्पमात्रोत्थं त्र्यध्वजं दुष्कृतं कृतम् ।
स्वप्नस्वप्नादिवत्सर्वं त्रिष्कृत्य देशयाम्यहम् ॥ ११
संबुद्धसत्सुतार्याणामन्येषां यच्चुभं शुभम् ।
निःशेषमनुमोद्याहं संबोधौ नामयाम्यनु ॥ १२
याचेऽहं सर्वबुद्धानां सर्वाशाश्वासदायिका ।
देशनाकाशसंस्थानां भातु लोकेऽखिलेऽनघा ॥ १३
शुद्धनिःशेषसंकल्पान् प्रत्यात्मानन्दवेदिनः ।
सम्बुद्धान् शरणं यामि स्वपरार्थफलप्रदान् १४
सत्सत्त्वाशेषसद्धर्ममागमाधिगमात्मकम् ।
सत्सम्पदाश्रयाचिन्त्यं शरणं समुपैम्यहम् ॥ १५
प्राप्ताश्वासमवैवर्त्यं निष्यन्दादिफलैर्युतम् ।
गुह्याभिषेकजं चैव गतोऽस्मि शरणं गणम् ॥ १६
मुनीन्द्रसूनुसन्मार्गं चर्यानन्ताग्रबोधकम् ।
सर्वबुद्धात्मसद्बुद्ध्या समाश्रितोऽस्म्यतोऽधुना ॥ १७
सर्वावृतिसमुद्घात्यनन्तज्ञानामृतास्पदम् ।
भ्रमिदृष्टिप्रबोधाय बोधौ सर्वं दधे मनः ॥ १८
बोधिचित्ताच्च बुद्धत्वं फलहेतोरसङ्गतः ।
प्रत्यात्मवेद्यधर्मत्वाच्छून्यज्ञानात्मको ह्यहम् ॥ १९
ओं शून्यताज्ञानवज्रस्वभावात्मकोऽहम् ।
हूङ्कारं चाप्यथोष्णीषान् शाश्वतादिकमेव च ॥
रक्षार्थं क्रोधचक्रस्थो ध्यायाद्विघ्नान् प्रमर्दयन् ॥ २०
धर्मधातुं ततो ध्यायात्त्र्यश्रं शुक्लोर्ध्वसंस्थित ।
दिक्चक्रवर्तिचित्राभमन्तःखाधोऽब्जवज्रगम् ॥ २१
तत्र भ्रूङ्कारचक्रोत्थसविद्यशाश्वतोद्भवम् ।
स्फरद्बुद्धौघखव्यापि चतुरश्रादिसंयुतम् ॥ २२
शशिसूर्यसमाक्रान्तं विश्वाब्जदेवतासनम् ।
विभक्ताशेषसद्रत्नं कूटागारं प्रभावयेत् ॥ २३
स्वरलक्षणसंयुक्तं कादिव्यञ्जनरश्मिकम् ।
मध्यचन्द्रासने चित्तं ज्ञानचन्द्रं विभाव्य तत् ॥ २४
तत्राद्यहृद्भवं वज्रं रक्तमाद्यहृदा युतम् ।
कृतजिनाभदेह्यर्थस्तदहङ्कृतिमान् स्वयम् ॥ २५
स्फतिकेन्द्वङ्गमूलास्यं नीलसव्येतरारुणम् ।
सर्वाकारवरोदारं सद्गुणाभरणाम्बरम् ॥ २६
द्विभुजाश्लिष्टसत्प्रज्ञं वज्रपर्यङ्कसुस्थिरम् ।
वज्रखड्गभुजं सव्ये वामे सन्मणिपद्मिनम् ॥ २७
प्रज्ञोपायात्मकं श्रिमज्जगत्सम्पत्समाश्रयम् ।
समन्तभद्रमात्मनं भावयेत्स्फरणत्विषम् ॥ २८
महारागविनेयं तल्लोकमालोक्य भाजनम् ।
सुरतध्वनिना स्वान्तर्जिनवृन्दं निवेशयेत् ॥ २९
तल्लोचनादिसद्विद्या रूपादिविषयात्मभिः ।
प्रोत्सृज्य नवधा देवीः स्वविद्यान्तर्निवेशयेत् ॥ ३०
स्वयोषित्पद्मकर्कट्यां सुरतोद्भवमण्डलम् ।
निर्मायात्र जगत्कृत्स्नमाश्वासाय प्रवेशयेत् ॥ ३१
खव्यापिबुद्धसन्मित्रैः स्ववज्रान्तर्द्रवोद्भवैः ।
सेवयेदविवर्त्यर्थं तत्त्वज्ञानफलाप्तये ॥ ३२
आश्वस्तं तज्जगद्दृष्ट्वा बीजैश्चातः स्वभावजैः ।
उत्सृजेत्सर्वसत्त्वांश्च जगच्चित्तात्मभावजान् ॥ ३३
क्षितिगर्भादिकान् षट्कांश्चक्षुरादिस्वभावकान् ।
क्षिं ज्रं खं गं स्कमित्येभिः सं-बीजाच्च यथाक्रमम् ॥ ३४
रूपवज्रादिकान् षट्कान् बाह्याध्यात्मस्वभावजान् ।
जः हूं वं होः खमित्येतै रं-बीजाच्च बहिः स्थितान् ॥३५
लोचनाद्यास्तु ता विद्याः पृथिव्यादिस्वभावजान् ।
लां मां पां तामिति त्वेभिर्जगद्धर्मात्मतत्त्वजाः ॥ ३६
शाश्वताद्यांस्तु संबुद्धान् रूपादिस्कन्धस्वभावजान् ।
बुं-आं-ज्रीं-भिश्च खं-हूं-भ्यां सर्वधर्मान् समुत्सृजेत् ॥ ३७
ओमाः हूमिति तच्चित्तं भास्वद्धोर्भ्यां विदर्भितम् ।
गुह्यपद्मोदरान्तस्थं मृदुनिष्यन्दशुद्धये ॥ ३८
ते च रागाग्निसंदीप्ते कायद्वयद्रवीकृते ।
सन्मित्राभातदिग्देवीगीत्या ध्यायात्सुचोदनाः ॥ ३९
त्वं वज्रचित्त भुवनेश्वर सत्त्वधातो त्रायाहि मां रतिमनोज्ञा महार्थकामैः ।
कमाहि मां जनक सर्वमहाग्रबन्धो यदीच्छसे जीवितु मह्य नाथ ॥ ४०
त्वं वज्रकाय बहुसत्त्वप्रियाज्ञचक्र बुद्धार्थबोधिपरमार्थहितानुदर्शी ।
रागेण रागसमयां मम कामयस्व यदीच्छसे जीवितु मह्य नाथ ॥ ४१
त्वं वज्रवाच सकलस्य हितानुकम्पी लोकार्थकार्यकरणे सदा संप्रवृत्त ।
कामहि मां सुरतचर्य समन्तभद्र यदीच्छसे जीवितु मह्य नाथ ॥ ४२
त्वं वज्रकाम समयाग्र महाहितार्थ सम्बुद्धवंशतिलकः समतानुकम्पी ।
कामाहि मां गुणनिधिं बहुरत्नभूतां यदीच्छसे जीवितु मह्य नाथ ॥ ४३
उत्थापन्यनुरोधात्तद्द्रवं पश्यन् विपत्तिवत् ।
मायावद्वस्तु संचिन्त्य स्वमन्त्रार्थः पुनर्भवेत् ॥ ४४
कुङ्कूमाकारमूलास्यो नीलसव्यसितेतरः ।
कुमाराभरणाकारः प्रज्ञानन्दैकसुन्दरः ॥ ४५
द्विभुजाश्लिष्टसत्प्रज्ञः स्वाभप्रज्ञाधरास्यधृक् ।
भास्वत्कृपाणसद्बाणनीलोत्पलधनुःकरः ॥ ४६
स्फरद्बुद्धौघनिर्माणनिष्पादितजगत्त्रयः ।
स्वबीजोद्भवचिह्नोत्थमञ्जुवज्रः स्वयं भवेत् ॥ ४७
भवसङ्गाद्भवोऽ नन्तः शमसङ्गो विपत्तिभाक् ।
मायया कृतसंसेवो धर्मधात्वात्मको भवेत् ॥ ४८
ओं धर्मधातुस्वभावात्मकोऽहम् ॥
सन्मित्रैः कृतनिष्यन्दः पाकात्सर्वज्ञतामियात् ।
तच्चक्षुराद्यधिष्ठानमुपसाधनमिष्यते ॥ ४९
क्षितीशकुलिशाकाशलोकेशस्काम्भभद्रकैः ।
संपूर्य चक्षुरादीनि तद्बीजैः पौरुषं वहेत् ॥ ५०
धर्मसंभोगनिर्माणवाहिनी जगदर्थता ।
चित्तगुह्याद्यधिष्ठानं साधनार्थमतो भवेत् ॥ ५१
स्वहृत्कण्ठशिरश्चन्द्रे हूं-आः-ओं-जांश्च सत्प्रभून् ।
वज्राब्जचक्रमध्यस्थान् ध्यात्वा चित्तादिगुह्यकान् ॥ ५२
तद्धृत्प्रज्ञाङ्गसङ्गार्चीरूपवज्रादिरश्मिभिः ।
संपूज्य सर्वदिक्त्र्यध्वव्याप्ताशेषविनायकान् ॥ ५३
कृतार्थसंपदां तेषां ये हृत्कण्ठशिरोगताः ।
चित्तवज्रादयस्तांस्तु तदधिष्ठाने प्रयाचयेत् ॥ ५४
चित्तवज्रधरः श्रीमांस्त्रिवज्राभेद्यभावितः ।
अधिष्ठानपदं मेऽद्य करोतु चित्तवज्रिणः ॥५५
दशदिक्संस्थिता बुद्धास्त्रिवज्राभेद्यभाविताः ।
अधिष्ठानपदं मेऽद्य कुर्वन्तु चित्तवज्रिणः ॥५६
ओं सर्वतथागतचित्तवज्रस्वभावात्मकोऽहम् ॥
धर्मो वै वाक्पथः श्रीमांस्त्रिवज्राभेद्यभावितः ।
अधिष्ठानपदं मेऽद्य करोतु वाग्वज्रिणः ॥५७
दशदिक्संस्थिता बुद्धास्त्रिवज्राभेद्यभाविताः ।
अधिष्ठानपदं मेऽद्य कुर्वन्तु वाग्वज्रिणः ॥५८
ओं सर्वतथागतवाग्वज्रस्वभावात्मकोऽहम् ॥
कायवज्रधरः श्रीमांस्त्रिवज्राभेद्यभावितः ।
अधिष्ठानपदं मेऽद्य करोतु कायवज्रिणः ॥ ५९
दशदिक्संस्थिता बुद्धास्त्रिवज्राभेद्यभाविताः ।
अधिष्ठानपदं मेऽद्य कुर्वन्तु कायवज्रिणः ॥ ६०
ओं सर्वतथागतकायवज्रस्वभावात्मकोऽहम् ॥
षोडशानुस्मृतेः शुद्धौ कुर्वन्तीति तदुक्तवान् ।
तस्य चित्ताद्यधिष्ठानं नोक्तमप्रस्तुतोक्तितः ॥ ६१
त्रिगुह्यालक्षणं वीक्ष्य मायाप्रज्ञाङ्गसङ्गतः ।
मृदुवैमल्यसंशुद्धौ महासाधनमिष्यते ॥ ६२
संचोद्य दिग्गतान्नाथान् ज्ञानसत्त्वहृदर्चिषा ।
तत्प्रभोद्भवविद्याभिर्भृतकुम्भामृताम्बुभिः ॥ ६३
स्वभिषिक्तः प्रभुः श्रीमान् कुलेशमकुटोत्तमः ।
निष्यन्दाद्यैस्तथा मध्यैः स्वाभां प्रज्ञां विशोधयेत् ॥ ६४
शिरोहृन्नाभिगुह्येऽस्याश्चरणान्ते च प्रत्यणून् ।
ओं-हूं-स्वा-हृद्भिः आः-हाभ्यां शाश्वतादिकुलात्मकैः ॥३२ ६५
आपूर्य पञ्चसंबुद्धैः हूं-आः-अष्टदलाब्जिकाम् ।
संविशोध्य तया बुद्धान् हूं-सद्वज्रोऽनुरागयेत् ॥ ६६
ओं सर्वतथागतानुरागणवज्रस्वभावात्मकोऽहम् ॥
हृच्चन्द्रखद्गहृद्भाभिः खव्यापिबुद्धमण्डलम् ।
निवेश्यात्मनि सच्चित्तरूपं वज्राब्जसंस्थितम् ॥ ६७
निजचक्रं स्वबीजेन तत्रोत्पाद्य स्थिरीकृतम् ।
उत्सृजेद्विधिनानेन जगत्स्वज्ञानशुद्धये ॥ ६८
संचोद्याधिपमक्षोभ्यं महाद्वेशार्थकृज्जिनम् ।
वज्रधृगिति चोत्सृज्याङ्गेन्द्रनीलमणिप्रभम् ॥ ६९
सितसव्येतरारक्तं परमाद्यभुजान्वितम् ।
संहृत्यात्मनि सच्छ्रीमान् सर्वभावैर्निवेशयेत् ॥ ७०
जिनजिगिति चाद्याभं महामोहार्थकृद्विभुम् ।
सच्चक्राद्यन्वितं तद्वद्ध्यायात्पूर्वेन्दुमण्डले ॥ ७१
रत्नधृगिति रत्नेशं सुवर्णाभं समोद्यमम् ।
सद्रत्नाद्यन्वितं नाथं कुमारास्यं तु दक्षिणे ॥ ७२
आरोलिगिति वागीशं महारागार्थकृत्प्रभुम् ।
पद्मरागाभपद्माद्यां कुमारास्यं तु पृष्ठतः ॥ ७३
प्रज्ञाधृगित्यमोघेशं महोग्रेर्ष्यार्थकृत्खजम् ।
वैदूर्याभं कुमारास्यं ध्यायात्खड्गाद्यमुत्तरे ॥ ७४
सजटामुकुटाः सर्वे स्वविद्याद्वयसन्गिणः ।
सर्वाभरणसद्वस्त्रा ध्येयाः पद्मार्कमण्डले ॥ ७५
मोहरतीति चाग्नेयां कृपोपायजनार्थदा ।
कायेशवत्स्वरूपा स्याल्लोचना स्वेन्दुमण्डले ॥ ७६
द्वेषरतीति नैरृत्यां मैत्रीप्रणिधिकामदा ।
चित्तेशवद्रतौत्सुक्या मामकी चन्द्रमण्डले ॥ ७७
रागरतीति वायव्यां मोदबलसमाधिदा ।
वागीशाभार्थशुद्धा सा पाण्डरा चन्द्रमण्डले ॥ ७८
वज्ररतीति चैषान्यामुपेक्षज्ञानसाधिका ।
रत्नेशवत्स्वरूपा स्याच्चन्द्रे तारा मनोरमा ॥ ७९
चक्रं रक्तोत्पलं दिव्यं पङ्कजं पीतमुत्पलम् ।
शिष्टं स्वाधिपवद्दिष्टं चिह्नमासां क्रमादतः ॥ ८०
आग्नेयादिचतुःकोणे पूर्वद्वारद्विपार्श्वयोः ।
रूपाद्या दर्पणाद्यैः स्युः कायाद्याभास्त्रितत्त्वतः ॥ ८१
प्राग्द्वारे क्रोधपर्यङ्कश्चित्तेशाकारभासुरः ।
यमान्तकृदितीतिघ्नः स्कन्धज्ञेयविनाशतः ॥ ८२
कायेशाभोग्रदृग्भीमोऽवाग्द्वारेऽपराजितः ।
प्रज्ञान्तकृदितीच्छाघ्नः स्वात्मदृक्क्लेशहानितः ॥ ८३
मृत्युजन्माघसां घाती पृष्ठद्वारेऽश्वकन्धरः ।
पद्मान्तकृदितीच्छाघ्नो वागीशाभोग्रघूर्णितः ॥ ८४
अक्षोभ्याभोग्रविघ्नघ्न उत्तरेऽमृतकुण्डलिः ।
विघ्नान्तकृदिति द्वारक्रियासुरारिशुद्धितः ॥ ८५
भ्रूभङ्गोर्ध्वज्वलत्केशबभ्रुभ्रूश्मश्रुलोचनाः ।
व्यावृताश्या ललज्जिह्वाः सदंष्ट्रोत्कटहासिनः ॥ ८६
चण्डमुद्गरदण्डाब्जस्ववज्रादिकरास्त्वमी ।
क्रूरभुजङ्गभूषाङ्गाः स्वाभविद्याङ्गसङ्गिनः ॥ ८७
निष्पन्नं चक्रमालोक्य निजभावेन सर्वतः ।
हृद्बीजाभाङ्कुशैर्बुद्धांश्चक्राकारसमाहृतान् ॥ ८८
दृष्ट्वा विघ्नान् स्वविघ्नघ्नैः समुत्सार्याभिरक्ष्य च ।
दत्त्वार्घं मन्त्रसंजप्तं चन्द्रादिकुसुमान्वितम् ॥ ८९
चक्रे निवेश्य तच्चक्रं चक्षुःकायाद्यधिष्ठितम् ।
प्राग्वत्सिक्तं च तद्ध्यायान्निष्यन्दाद्यधिमात्रतः ॥ ९०
बुद्धानां मकुटेऽक्षोभ्यः शेषाः स्वाधिपसेकिनः ।
कायेशाक्षोभ्यवागीशचित्तेशैर्द्वारिणो मताः ॥ ९१
इत्यासिच्य स्वहृद्भाभिः प्रज्ञाब्जान्तर्निवेशितम् ।
रूपाद्यं रोमकूपोत्थं रूपवज्रादिरश्मिभिः ॥ ९२
कूटागारप्रभोन्मुक्तैर्गगनान्तःप्रसर्पिभिः ।
सम्पूज्य स्वं मुनीन्द्रांश्च पूज्यपूजात्मको भवेत् ॥ ९३
ओं सर्वतथागतपूजावज्रस्वभावात्मकोऽहम् ॥
सर्वधर्मैः स्तुयाच्चक्रं संबुद्धस्वात्ममूर्तिभिः ।
पञ्चज्ञानानि मुद्राभिः शतपञ्चकुलं त्रिकम् ॥ ९४
अक्षोभ्यवज्र महाज्ञान वज्रधातु महाबुध ।
त्रिमण्डल त्रिवज्राग्र घोषवज्र नमोऽस्तु ते ॥ ९५
वैरोचन महाशुद्ध वज्रशान्त महारते ।
प्रकृतिप्रभास्वराग्राग्र्य देशवज्र नमोऽस्तु ते ॥ ९६
रत्नराज सुगाम्भीर्य खवज्राकाशनिर्मल ।
स्वभावशुद्ध निर्लेप कायवज्र नमोऽस्तु ते ॥ ९७
वज्रामित महाराज निर्विकल्प खवज्रधृक् ।
रागपारमिताप्राप्त भाषवज्र नमोऽस्तु ते ॥ ९८
अमोघवज्र संबुद्ध सर्वाशापरिपूरक ।
शुद्धस्वभावसंभूत वज्रसत्त्व नमोऽस्तु ते ॥ ९९
चन्द्रार्कवारिभैषज्यगन्धं वाय्वग्निचक्रगम् ।
प्रणवाधिष्ठितं सार्चिस्त्रितत्त्वैरभिमन्त्रितम् ॥ १००
हूंन्यस्तवज्रसज्जिह्वो ध्यात्वा ज्ञानामृतैर्भृतम् ।
हृच्चन्द्रान्तर्गताशेषचक्रं तेन प्रतर्पयेत् ॥ १०१
हृद्रश्मिनिर्मितैर्नाथैः स्वासत्संकल्पवर्जितैः ।
बुद्धात्मकं जगत्कृत्वा हृद्बीजान्तर्निवेशयेत् ॥ १०२
हृच्चिह्नवरटान्तस्थं चन्द्रहृद्बिन्दुरूपकम् ।
प्रभास्वत्स्वमनो ध्यात्वा ज्ञानसत्त्वं प्रभासयेत् ॥ १०३
चित्तवाक्कायवज्रं च प्रबोध्य रश्मिमालया ।
निविष्टां हृदि तां ध्यायात्स्वज्ञानामृतवाहिनीम् ॥ १०४
अन्तस्तनुमतः सर्वां तयाभास्य समन्ततः ।
प्रतिरोमप्रभाव्यूहैर्जगदर्थं प्रपूरयन् ॥ १०५
ध्यात्वा सूक्ष्मं स्वचिह्नं वा विद्यानासाग्रसंस्थितम् ।
मुनिचक्रं स्वसंवेद्यं सत्प्रज्ञासङ्गभास्वरम् ॥ १०६
दृष्त्वा स्थैर्यनिमित्तं तु स्फरणं तद्रश्मिनिमित्तैः ।
बुद्धैर्नानाविधैश्चिह्नैर्विदधीत पुनः पुनः ॥ १०७
कायवाक्चित्तसद्वज्रात्पञ्चसज्ज्ञानरश्मिकम् ।
स्फरन्मन्त्रं जपं कुर्याद्युगपत्क्रमशोऽथवा ॥ १०८
वज्राब्जधर्मतच्चक्रं कायवाक्चित्तवज्रगम् ।
निलयं तद्दृढीकुर्वञ्ज्ञानकायं स्फरञ्जपेत् ॥ १०९
उच्चारयेत्स्फरन् प्राणैर्मन्त्रमायामसंहृतम् ।
कायादिस्फारसंहारैः कुर्याज्जापं क्रमाक्रमात् ॥ ११०
उच्चार्यैवं वियद्व्याप्य कायाद्यैस्तैः स्वरश्मिभिः ।
प्राग्वत्सच्चित्तपूजार्हं प्राणाद्विद्यौघमुत्सृजन् ॥ १११
परिगूढोल्लसद्विद्यासुखावेशवशीकृतम् ।
आयामाज्ञानबुद्धौघं स्वात्मन्यन्ते निवेशयेत् ॥ ११२
निष्यन्दाद्यधिमोक्षैश्च बिन्दुसूक्ष्मत्रिगुह्यजाः ।
ध्येया मृद्वादिभिर्भेदैर्योगाः सेवादिवत्तथा ॥ ११३
स्वहृत्तत्त्वपरामर्षात्परीत्तचित्तसंसृतेः ।
लोचनादिगणोद्गीतैश्चक्रमभ्यर्थ्य पूजयेत् ॥ ११४
मूर्ध्नीन्दुप्रणवार्द्रां तु सचित्तवारिवाहिनीम् ।
विधिवत्पातयन् कुर्यात्कायवाक्चित्तप्रीणनम् ॥ ११५
विश्रम्यैवं जपं कृत्वा कृतपूजादिको बुधः ।
त्रितत्त्वात्माहितान् बुद्धान् गतसङ्गो विसर्जयेत् ॥५४ ११६
एवं तत्त्वदृशा मुक्तं जगत्कृत्स्नं विलोक्य च ।
प्रणिधिमामुखीकुर्यात्कृपया तद्धिताय च ॥ ११७
समाधितः समुत्थाय गर्वं पत्युः समुद्वहन् ।
चारगतस्तु संबुद्धविषयैः संप्रपूजयेत् ॥ ११८
श्रीमञ्जुवज्रसर्वात्मा स्वभावविषयानुगान् ।
विषयान् भावयन्नेवं स्वस्वशुद्ध्या प्रतिष्ठितान् ॥ ११९
शाश्वतादिस्वभावांस्तान् प्रत्यात्मधर्मसंस्थितान् ।
श्रीमद्वज्रधराकारान् शुद्धसत्त्वसमन्वितः ॥ १२०
सर्वं संपादयेत्कृत्यं स्वासत्संकल्पवर्जितः ।
सच्चक्रानन्तपूजेयं सदामेया सुयोगिनः ॥ १२१
स्वहृच्चन्द्रे स्वचक्रेशं निजबीजैः स्वभोजनम् ।
समालम्ब्य स्वहृत्तत्त्वैः सर्वबुद्धामृततायितम् ॥ १२२
सर्वधर्मतया शुद्धं त्रितत्त्वैरभिमन्त्रितम् ।
स्वाधिदैवतसच्चक्रं प्रीणयंस्तेन पूजयेत् ॥ १२३
होमो बाह्योऽनुमेयोऽयं चित्तमात्रात्तु मानसः ।
अनुत्तरस्त्वयं ज्ञानाग्निस्कन्धेन्धनदाहतः ॥ १२४
कामैरेवं समस्तैः स्वं स्वदैवात्मस्वभावजम् ।
परांश्च पूजयेदेवं समयः सुगतैर्मतः ॥ १२५
तत्तत्कायादि यत्कर्म सर्वबुद्धांस्तु पूजयन् ।
अनुरूपं जगत्कार्यं कुर्यान्नित्यं समाहितः ॥ १२६
यत्कायवाङ्मयं कर्म मुद्रामन्त्रात्मकं महत् ।
तत्तत्कर्म समासाद्य सर्वबुद्धांस्तु पूजयेत् ॥ १२७
वस्तुन्येकत्र संकल्पा नानाकारावभासिनः ।
मुक्तिदुःखसुखोत्पादाः कर्माशेषा भवन्ति यत् ॥ १२८
तस्माच्छुभाशुभं कर्म कायाद्यं कल्पनोद्भवम् ।
सर्वसत्कल्पनिर्मुक्ते ज्ञाने तत्कल्पना कथम् ॥ १२९
अमोघवज्रसच्चक्री समयोत्थापनाय तु ।
हृत्कर्मवज्रखं ध्यात्वा सर्वशुद्ध्याभिषेचयेत् ॥ १३०
गुर्ववज्ञादिके दोषे सदानं भोज्यमावहेत् ।
बाह्यस्नानं स्वचक्रस्थः कुर्यात्सेकविधानतः ॥ १३१
सन्ध्यान्तरेऽपि पूजादि जपं कृत्वा तु पूर्ववत् ।
हृद्यन्तर्गतसच्चक्रः सुप्यात्प्रज्ञाकृपान्वितः ॥ १३२
उत्थानसमये श्रीमान् देवीसंगीतिचोदितः ।
प्रातरुत्थाय प्राग्वत्तु संजपेदादिकर्मिकः ॥ १३३
मन्त्रसीलव्रतैर्युक्तश्चक्षुःकायाद्यधिष्ठितः ।
ज्ञाने किञ्चित्समावेशी जपेत्सन्ध्यास्वतन्द्रितः ॥ १३४
सर्वाकारसुनिष्पन्नं स्फरत्सम्हारकारकम् ।
प्राप्तज्ञानवशी किञ्चिदनिशं योगमाश्रयेत् ॥ १३५
सम्यग्ज्ञानवशी ध्यायन् कुर्यात्कार्यं जगद्धितम् ।
धात्वण्वन्तस्त्रिसच्चक्रैः प्रतिबिम्बात्ममूर्तिभिः ॥ १३६
संसिद्धावसकृल्लब्ध्वा योगी निमित्तमेव तु ।
त्रितत्त्वां विधिवत्पूजां कृत्वा मण्डलमालिखेत् ॥ १३७
चक्रस्थो विधिवज्जप्त्वा स्वयं वाध्येषितोऽपि वा ।
परार्थं घटमानोऽपि निमित्तं प्राप्य संलिखेत् ॥ १३८
चक्रिमन्त्रं जपेल्लक्षं लक्षं वा स्वाधिदैवतम् ।
अन्येषामयुतं सम्यक्चक्रिणां वाज्ञया लिखेत् ॥ १३९
त्रितत्त्वैर्गर्भितोत्सर्गानन्यान् हृद्बीजगर्भितान् ।
सानुस्वाराद्यवर्णांस्तु नाम्नो मन्त्रान् समुद्धरेत् ॥ १४०
कायवाक्चित्तगुह्याख्या कर्मधर्ममहात्मिका ।
त्रिगुह्या समया मुद्रा बीजं हृदयमुच्यते ॥ १४१
कर्मकर्त्री तु विद्योक्ता शान्त्यादिप्रतिचोदनात् ।
मालामन्त्राश्च विद्योक्ता सर्वथा तां जपेत्बुधः ॥ १४२
यथायोगं जपं कृत्वा लब्ध्वाज्ञां स्वाधिपादितः ।
निरोधचक्रमाभुज्य स्वचित्तशुद्धितो लिखेत् ॥ १४३
विघ्नानुत्सार्य संकील्याभ्युक्ष्य क्ष्मां प्रार्थ्य याचयेत् ।
समाधित्रितयं कृत्वा बुद्धादीनधिवास्य च ॥ १४४
दत्त्वा बल्यर्घमापूज्य होमैराप्याय्य खे न्यसेत् ।
खानयेत्क्ष्मां सुनिर्विघ्नां गर्तापूरेऽपि अयं क्रमः ॥ १४५
आचीर्णपूर्वसंसेवो मञ्जुवज्रात्मयोगवान् ।
संस्कृत्य मण्डलस्थानं संहार्यैः पूजयान्वितः ॥ १४६
विघ्नारिचक्रयोगस्थः स्वाभिषेकं समादधेत् ।
दुष्टान्निकृन्तयेदेवं योगाद्वा स्वाधिदैवतात् । १४७
ओं भूः खमिति मन्त्रेण वियद्भूतां वसुन्धराम् ।
हूं लं हूमिति वज्रात्म क्ष्मां कृत्वा तामधिष्ठयेत् ॥ १४८
ओं मेदिनि वज्रीभव वज्रबन्ध हूम् ॥
प्राग्वद्विघ्नघ्नयोगात्मा सेवाद्यन्तानुरागणः ।
आदियोगी स्वचक्रं तु प्रोत्सृज्यान्तामृतश्च सः ॥ १४९
चक्रराजाग्रियोगात्मा चक्रकर्मसुकर्मकृत् ।
कर्मराजाग्रियोगीति समाधित्रयमुत्तमम् ॥ १५०
एतद्योगस्थ आचार्यः सर्वबुद्धात्ममूर्तिकः ।
स्वभावशुद्धवज्रात्मा चक्रभूमध्यसंस्थितः ॥ १५१
वज्रघण्टाधरो वीरोऽध्येष्यस्त्रिचक्रनिर्मितौ ।
सहायैर्वज्रघण्टाग्रैः शाश्वताद्यात्ममूर्तिभिः ॥ १५२
सर्वताथागतं शान्तं सर्वताथागतालयम् ।
सर्वधर्माग्रनैरात्म्यं देश मण्डलमुत्तमम् ॥ १५३
सर्वलक्षणसंपूर्णं सर्वालक्षणवर्जितम् ।
समन्तभद्रकायाग्रं भाष मण्डलमुत्तमम् ॥ १५४
शान्तधर्माग्रसंभूतं ज्ञानचर्याविशोधकम् ।
समन्तभद्रवाचाग्रं भाष मण्डलमुत्तमम् ॥ १५५
सर्वसत्त्वमहाचित्तं शुद्धं प्रकृतिनिर्मलम् ।
समन्तभद्रचित्ताग्र्यं घोष मण्डलसारथे ॥ १५६
वीक्ष्यातो मञ्जुराड्क्रुद्धः सत्त्वधातुं तमिश्रितम् ।
हूं वज्रोत्तिष्ठेति स्वक्षश्चक्रमुत्क्षिप्य निर्मितम् ॥ १५७
मट्कारचन्द्रशूर्याक्षः सर्वाध्वदिक्षु दीपयन् ।
जगदालोकयन् धीमांश्चक्रभूमौ परिक्रमेत् ॥ १५८
पादतलज्वलद्वज्रो वज्रोल्लालनतत्परः ।
लीलावज्रपदं नृत्यन् सदंष्ट्रोत्कट-हूं-कृतः ॥ १५९
प्रोत्सारयेत्प्रदुष्टौघान् देवाद्यान् विघ्नमण्डलान् ।
शृण्वन्तु सर्वविघ्नौघाः कायवाक्चित्तसंस्थिताः ॥ १६०
अहं मञ्जुरवः श्रीमान् रक्षाचक्रप्रयोजकः ।
वज्रेणादीप्तवपुषा स्फालयामि त्रिकायजान् ॥ १६१
लङ्घयेद्मे विशीर्येतात्र नान्यथा ।९३
भूमेः परिग्रहं कृत्वा निर्विघ्नाय प्रकीलयेत् । १६२
ओं घ घ घातय २ सर्वदुष्टान् फट्कीलय २ सर्वपापान् फठूं हूं हूं वज्रकील वज्रधरो आज्ञापयति सर्वदुष्टकायवाक्चित्तवज्रं कीलय हूं फट् ॥
अधःशूलोर्ध्वविघ्नारिं धिया मध्ये प्रकीलयेत् ।
विघ्नौघान् घातयेत्सर्वान् दशदिक्संव्यवस्थितान् ॥ १६३
संवीक्ष्य क्ष्मां सुनिर्विघ्नां तीक्ष्णज्वालाकुलप्रभाम् ।
सीमाप्राकारदिग्बन्धान् धिया कृत्वाधिवासयेत् ॥ १६४
त्वं देवि साक्षिभूतासि सर्वबुद्धानां तायिनाम् ।
चर्यानयविशेषेषु भूमिपारमीतासु च ॥ १६५
यथा मारबलं भग्नं शाक्यसिंहेन तायिना ।
तथा मारबलं जित्वा मण्डलं लेलिखाम्यहम् ॥ १६६
क्ष्मां संलिप्य सुगन्धद्यैश्चित्रैः पुष्पैः प्रकीर्य च ।
चन्द्राद्यैश्चक्रिणां स्थाने प्रकुर्यान्मण्डलं बुधः ॥ १६७
तत्रावाह्य तु सच्चक्रं कृत्वा सीमादिबन्धनम् ।
पूजास्तुत्यामृतास्वादं कलशानधिवासयेत् ॥ १६८
वस्त्राच्छादितसद्ग्रीवांश्चूतादिपल्लवान्वितान् ।
कलशान्माण्डलेयानां तन्मन्त्रैरधिवासयेत् ॥ १६९
पञ्चव्रीह्यौषधीरत्नगन्धाम्बुचक्रसंचयम् ।
श्रग्बद्धवज्रमूर्धानं चक्रेशेन जपं जपेत् ॥ १७०
अर्घं दत्त्वा समापूज्य प्रक्षिप्य सितपुष्पकम् ।
धूपाधिवासितं तत्र सद्गन्धाद्यब्जभाजनम् ॥ १७१
प्रतिदिनं त्रिसन्ध्यासु बलिं दत्त्वा तथा जपेत् ।
ते च चक्रबहिष्कोणे जयश्चक्रेशसव्यतः ॥ १७२
तेभ्योऽर्घभाजने तोयं क्षिप्त्वा तेनाभिषेचनात् ।
आत्मनः सर्वशिष्याणां जलाभिषेचनं भवेत् ॥ १७३
चक्रपूजां पुनः कृत्वा धूपमुत्क्षिप्य पाणिना ।
चक्रेशं प्रार्थयेद्धीमान् बुद्धांश्च जानुसंस्थितः ॥ १७४
भगवन्मञ्जुसद्वज्र विद्याराज नमोऽस्तु ते ।
इच्छामि लिखितुं नाथ मण्डलं करुणात्मक ॥ १७५
शिष्याणामनुकम्पायै युष्माकं पूजनाय च ।
तन्मे भक्तस्य भगवन् प्रसादं कर्तुमर्हसि ॥ १७६
समन्वाहरन्तु मां बुद्धा जगच्चक्रक्रियार्थदाः ।
फलस्था बोधिसत्त्वाश्च याश्चान्या मन्त्रदेवताः ॥ १७७
देवता लोकपालाश्च भूताः सम्बोधिशासिताः ।
शासनाभिरताः सत्त्वा ये केचिद्वज्रचक्षुषः ॥ १७८
अमुकोऽहं महावज्री मञ्जुश्र्युदयमण्डलम् ।
लिखिष्यामि जगच्छुद्ध्यै यथाशक्त्युपचारतः ॥ १७९
अनुकम्पामुपादाय सशिष्यस्य तु तन्मम ।
मण्डले सहिताः सर्वे सांनिध्यं कर्तुमर्हथ ॥ १८०
निमन्त्र्यैवं त्रिवारांस्तान् कृत्वा पूजादिकं विभोः ।
समारक्ष्य बहिर्गत्वा स्वशिष्यान् स्रक्करग्रहान् ॥ १८१
मनीषिणो महोत्साहान् कृतज्ञनिरहङ्कृतान् ।
कुलिनो गुणिनः श्राद्धान् रूपवर्णवयोन्वितान् ॥ १८२
अर्थिनश्चाभियुक्तांश्च सौगतान्मन्त्रसाधने ।
विरूपान्निर्गुणांश्चापि हीनानप्यधिवासयेत् ॥ १८३
चतुर्णामप्यनुज्ञातः पर्षदां मण्डले विधिः ।
शिक्षासु स्वासु युक्तानां महायानरतात्मनाम् ॥ १८४
मन्त्रसिद्ध्यर्थिनः केचित्प्रविशन्तीह मण्डले ।
पुण्यकामास्ततोऽन्ये च परलोकार्थिनोऽपरे ॥ १८५
परलोकं समुद्दिष्य श्रद्धां कृत्वा च भूयसीम् ।
प्रविशेन्मण्डलं धीमान्नैहिकं फलमीहयेत् ॥ १८६
ऐहिकं काङ्क्षमाणस्य न तथा पारलौकिकम् ।
परलोकार्थिनः पुंसः पुष्कलं त्वैहिकं फलम् ॥ १८७
एवमुक्त्वा तु तान् शिष्यान् धिया स्वान्तर्निवेशितान् ।
प्राग्वद्वज्राब्जसंशुद्धानिह द्वारे तु याचयेत् ॥ १८८
त्वं मे शास्ता महारत
इच्छाम्यहं महानाथ महाबोधिनयं दृढम् ॥ १८९
देहि मे समयं तत्त्वं बोधिचित्तं च देहि मे ।
बुद्धं धर्मं च संघं च देहि मे शरणत्रयम्
प्रवेशयस्व मां नाथ महामोक्षपुरं वरम् । १९०
त्रिरुच्चार्य च तान् शिष्यान् ज्ञात्वा सद्भक्तिवत्सलान् ।
प्रधानं शिष्यमेकं तु कृत्वा ब्रूयादिदं वचः ॥ १९१
एहि वत्स महायानं मन्त्रचर्यानयं विधिम् ।
देशयिष्यामि ते सम्यक्भाजनस्त्वं महानये ॥ १९२
बुद्धास्त्रियध्वसंभूताः कायवाक्चित्तवज्रिणः ।
संप्राप्ता ज्ञानमतुलं वज्रमन्त्रप्रभावनैः ॥ १९३
मन्त्रप्रयोगमतुलं येन भग्नं महाबलम् ।
मारसैन्यं महाघोरं साक्यसिंहादिभिर्वरैः ॥ १९४
लोकानुवृत्तिमागम्य चक्रं प्रवर्त्य निर्वृताः ।
तस्मान्मतिमिमां वत्स कुरु सर्वज्ञताप्तये ॥ १९५
देशनादिंस्त्रिधालाप्या बोधिचित्तं ततो गुरुः ।
उत्पादयेदनुत्पन्नमुत्पन्नं स्मारयेत्पुनः ॥ १९६
सर्वकर्मकृतारक्ष्य ध्यायाद्धृत्कण्ठमूर्धसु ।
वज्रमब्जं तथा चक्रं हूमाः ओं तेषु विन्यसेत् ॥ १९७
गन्धाम्बुवज्रसन्मुष्ट्या हूमोमाः एवमापठन् ।
हृच्छिरःकण्ठमालभ्य दद्यात्पुष्पादिकं क्रमात् ॥ १९८
पुष्पं मूर्ध्नि पुरो धूपं दीपं गन्धं पुनर्हृदि ।
दद्यात्सर्वकृता जप्तं शिष्येभ्यो यतिरादरात् ॥ १९९
द्वादशाङ्गुलपुष्पाग्रमकीटापाटिताव्रणम् ।
अश्वत्थोदुम्बुरावक्रं प्रदद्याद्दन्तधावनम् ॥ २००
प्रागुदङ्मुखसंस्थैस्तैः खादयित्वैव प्रक्षिपेत् ।
गोचर्ममात्रभूलिप्ते सिद्धिं शान्त्यादिकां दिशेत् ॥ २०१
आचम्य त्रिचलुपानं दत्त्वा बाह्ये निवेश्य च ।
कुशान् शय्योपधानाय बाहुसूत्रैः सुरक्षयेत् ॥ २०२
त्रिचलुपानमन्त्रः ॥
ओं ह्रीः विशुद्धधर्म सर्वपापानि चास्य शोधय सर्वविकल्पानपनय हूम् ॥
सर्वज्ञानां कदा लोके सम्भवो जायते न वा ।
उदुम्बरस्येव कुसुमं कदाचित्कर्हिचिद्भवेत् ॥ २०३
ततोऽपि दुर्लभोत्पादो मन्त्रचर्यानयस्य हि ।
येन सत्त्वार्थमतुलं कर्तुं शक्ता ह्यनिर्वृताः ॥ २०४
अनेककल्पकोटीभिर्यत्कृटं पापकं पुरा ।
तत्सर्वं हि क्षयं याति दृष्ट्वा मण्डलमीदृशम् ॥ २०५
किमुतानन्तयशसां मन्त्रचर्यानये स्थितः ।
पदं ह्यनुत्तरं याति जपन् वै मन्त्र तायिनाम् ॥ २०६
उच्छिन्ना दुर्गतिस्तेषां सर्वदुःखस्य सम्भवा ।
येषां चर्यावरे ह्यस्मिन्मतिरत्यन्तनिर्मला ॥ २०७
अद्य युष्माभिरतुला लाभा लब्धा महात्मभिः ।
येन यूयं जिनैः सर्वैः सपुत्रैरिह शासने ॥ २०८
सर्वे परिगृहीता स्थ जायमाना महात्मभिः ।
तेन यूयं महायाने श्वो जाता हि भविष्यथ ॥ २०९
एष मार्गवरः श्रीमान्महायानमहोदयः ।
येन यूयं गमिष्यन्तो भविष्यथ तथागताः ॥ २१०
कृत्वाथ देशनां रक्षां स्वापयेत्कुशसंस्तरे ।
यत्किञ्चित्पश्यथ स्वप्ने प्रातर्मे कथयिष्यथ ॥ २११
रक्षाधिष्ठादिकं कृत्वा तज्जपेत्सार्वकर्मिकम् ।
पञ्चकुलत्रिचक्राणां कुण्डलिः सार्वकर्मिकः ॥ २१२
पृष्ट्वा शुभाशुभं स्वप्नं हत्वा कुण्डलिनाशुभम् ।
शिष्यान् संरक्ष्य तान् योग्यान् संवरं ग्राहयेत्ततः ॥ २१३
चक्रेऽवैवर्त्यसंसेकं दत्त्वा नाथ वदस्व मे ।
चक्रदेवतयोस्तत्त्वमाचार्यपरिकर्म च ॥ २१४
समयं सर्वबुद्धानां संवरं गुह्यमुत्तरम् ।
आचार्यः स्यामहं नित्यं सर्वसत्त्वार्थकारणात् ॥ २१५
आचार्यतार्थिनः शिष्यान् ग्राहयित्वा तु संवरम् ।
योगमाधाय सच्चक्रं संपूज्य खे धिया न्यसेत् ॥ २१६
शाश्वतादिस्वरूपाभं तद्वर्णबीजसंभवम् ।
पञ्चज्ञानान्वितं सूत्रं पञ्चविंशतिभेदितम् ॥ २१७
यःकारसूर्यचन्द्राक्षो मञ्जुवज्रात्मविग्रहः ।
दीप्तदृष्ट्यङ्कुशाकृष्तं स्ववर्णान्तर्निवेशितम् ॥ २१८
वैरोचनादिहृज्ज्ञानसूत्रं सर्वकृता सह ।
प्रयच्छ शाश्वत सूत्रं स्वचक्रसूत्रणाय च ॥ २१९
त्रितत्त्वगर्भितं चैव यावदक्षोभ्यमर्थयन् ।
अन्योन्यानुगताः सर्वधर्मा इत्याद्यनुस्मरन् ॥ २२०
चक्रद्विगुणतो दीर्घं द्वारविंशतिभागिकम् ।
पञ्चामृतसुगन्धेन तेमयित्वापि रक्षितम् ॥ २२१
त्र्यक्षरान्तर्गतं योगी चालयेत्सूत्रधारिणा ।
त्रिर्ज्जःकारैस्तमाप्रेष्य ज्जः ज्जः ज्जः इत्यपि स्वयं पुनः ॥ २२२
वाममुष्टिग्रहो नाभौ प्रतीच्यवाग्दिशि स्थितः ।
खसूत्रं पातयेच्छ्रीमांस्तथैवाधः प्रसूत्रयेत् ॥ २२३
ओं वज्रसमयसूत्रं मातिक्रम हूम् ॥
सत्त्वार्थे भवतां कालो वियद्व्यापितथागतान् ।
चोदयेत्सूत्रध्वनिना तदिहागमनाय तु ॥ २२४
यक्षप्रेतेन्द्रनागेशदिङ्मुखोऽग्न्यनिलाश्रितः ।
प्राक्प्रतीच्युत्तरावाक्चतुर्दिग्बहिः प्रसूत्र्य च ॥ २२५
कोणसूत्रं समासूत्र्य चाग्नेयनैरृतिस्थितः ।
प्राक्प्रतीच्युत्तरावाग्दिक्तथैवाष्टकमण्डलम् ॥ २२६
द्विगुणीकृत्य तत्सूत्रं चक्रमध्ये विधार्य च ।
चक्राकारं ततो बाह्यं वज्रसूत्रद्वयं पुनः ॥ २२७
ऐशान्यां चक्रवाडं च स्वानुपूर्व्या प्रदक्षिणात् ।
सूत्रेण सूत्रयेत्प्राज्ञः सर्वदिक्समतां वहन् ॥ २२८
अनिमित्तैरसिद्धिः स्यात्सूत्रच्छेदे गुरोः क्षयः ।
हीनाभिरिक्ततो रोगा दिङ्मोहे शिष्यविभ्रमः ॥ २२९
चतुरस्रं चतुर्द्वारं चतुस्तोरणभूषितम् ।
चतुःसूत्रसमायुक्तं पट्टस्रग्दामभूषितम् ॥ २३०
कोणभागेषु सर्वेषु द्वारनिर्यूहसन्धिषु ।
खचितं वज्ररत्नैस्तु सूत्रयेद्बाह्यमण्डलम् ॥ २३१
तस्याभ्यन्तरतश्चक्रमष्टमण्डलकोपमम् ।
अर्धेन बाह्यचक्रस्य समन्तात्परिमण्डलम् ॥ २३२
चक्रस्तम्भाद्यरचितं वज्रावल्यावृतं शुभम् ।
विभजेच्च ततो द्वारं ह्रीःकारक्रोधदृष्टितः ॥ २३३
चक्राष्टभागिकं द्वारं वेदिकारहितं मतम् ।
द्वारप्रमाणा निर्यूहा देवतापट्टिकास्तथा ॥ २३४
द्वारार्धा सर्वतो वेदी कपोलः पक्षकस्तथा ।
हरार्धहारचन्द्रार्का पट्टस्रग्दामपट्टिकाः ॥ २३५
रजोभूमिस्तदर्धेन मूलसूत्रभुवो बहिः ।
चक्राद्यस्तम्भसूत्राणां भूमिस्तुल्या रजोभुवा ॥ २३६
तोरणं त्रिगुणं द्वारात्पताकाघण्टयान्वितम् ।
सघण्टा मारुतोद्धूटा पताका बाह्यकोणतः ॥ २३७
चक्रानुरूपतोऽन्येषां यथाशोभं प्रकल्पना ।
संबुद्धज्ञानकायत्वाद्वाग्मी वज्रकुले स्मृतः ॥ २३८
धर्मकायात्मसंशुद्धौ चित्तमण्डलमस्य तु ।
सत्त्वाशयं समासाद्य मानादिनियमः कृतः ।
प्रज्ञोपायोद्भवा सिद्धिर्जात्यादिनियमेन किम् ॥ २३९
तदेकहस्तमारभ्य यावद्धस्तसहस्रकम् ।
एवमासूत्र्य तच्चक्रं दीप्तदृष्ट्या रजांसि तु ।
प्राक्क्रमज्ञानसद्दीप्त्या समुत्तेज्याभिमन्त्रयेत् ॥ २४०
ओं वज्रचित्र समय हूम् ॥
धर्मधातुरयं शुद्धः सत्त्वधातुप्रमोचकः ।
स्वयं मञ्जुरवो राजा सर्वतथागतालयः ॥ २४१
सर्वदोषविनिर्मुक्तश्चक्राभ्यन्तरसंस्थितः ।
ऐशानीं दिशमाश्रित्य गुरुर्वामेन मुष्टिना ॥ २४२
श्वेतं पीतं तथा रक्तं हरितं कृष्णमेव च ।
समप्रदक्षिणाच्छिन्नावक्रां रेखां प्रपातयेत् ॥ २४३
समां च पातयेद्रेखां द्वारविंशतिभागिकाम् ।
स्थूलपाते भवेद्व्याधिः कृशया धननाशनम् ॥२४४
विद्वेषो वक्रया मृत्युश्छिन्नया गुरुशिष्ययोः ।
अप्रदक्षिणपाते तु रजसां कीलनं भवेत् ॥ २४५
श्वेतवज्रमयी सूची सौवर्णालम्बनापरा ।
पद्मरागमयी सूची तथा मरकतापरा ॥ २४६
कृष्णाभ्यन्तरतो ज्ञेया एष रङ्गक्रमोऽस्य तु ।
पूर्वेण तु महाश्वेतं दक्षिणे पीतसंयुतम् ॥ २४७
लोहितं पश्चिमभागं मञ्जिष्ठोत्तरसंयुतम् ।
मध्यतो भूमिभागं तु इन्द्रनीलप्रभास्वरम् ॥ २४८
प्रज्ञोपायात्मको नित्यं संलिखेत्सुसमाहितः ।
यवमात्रान्तरा रेखा पातनीय परस्परम् ॥ २४९
कुण्डलामृतवज्रेण सर्वदुष्टान् प्रमर्दयन् ।
महामुद्रास्य दम्ष्ट्रोक्ता दुष्टशत्रुश्च मन्त्रराड् ॥ २५०
नमः समन्तकायवाक्चित्तवज्राणां नमो वज्रक्रोधाय महादंष्ट्रोत्कटभैरवाय असिमुषलपर्शुपाशहस्ताय ओममृतकुण्डलि ख २ खाहि २ तिष्ठ २ बन्ध २ हन २ दह २ गर्ज २ विस्फोटय २ सर्वविघ्नविनायकान्महागणपतिजीवितान्तकराय हूं फट् ॥
एवं मण्डलमालिख्य चन्द्रसूर्यकृतासनम् ।
मध्ये खड्गं लिखेत्स्यामं सुविशुद्धादिभास्वरम् ॥ २५१
पूर्वेणाष्टारसच्चक्रमादर्शादिसमुज्ज्वलम् ।
सव्ये रत्नं हरीताभं नवांशं समतोन्नतम् ॥ २५२
पश्चिमेऽष्टदलं पद्मं प्रत्यवेक्षादिरक्तकम् ।
उत्तरे तु सत्खड्गं कृत्यादिप्रतिमण्डितम् ॥ २५३
उपायैर्नेत्रमाग्नेय्यां नैरृत्यां वज्रमर्थनात् ।
वायव्यां विकटास्यं तु बलात्पद्मं सकन्दकम् ॥ २५४
ऐशान्यामुत्पलं ज्ञानात्पीतं नीलाभशोभनम् ।
आग्नेयादिचतुष्कोणे पूर्वद्वारद्विपार्श्वयोः ॥ २५५
दर्पणं च तथा वीणां गन्धशङ्खरशायनम् ।
वस्त्रं धर्मोदयं चैव दानशीलादिशोधितम् ॥ २५६
श्रद्धादिमुद्गरं दण्डं पद्मं वज्रं चतुर्थकम् ।
द्वारेषु सर्वथा ज्ञात्वा स्फुटं ध्यात्वा स्वचक्रकम् ॥ २५७
प्राग्वत्प्रज्ञाङ्गसंयोगाद्बुद्धान् स्वान्तर्निवेश्य च ।
सच्चित्तेन वियद्व्याप्य चक्रपार्श्वकृतास्पदान् ॥ २५८
तैः समायातविघ्नांस्तान् समुत्सार्याभिरक्ष्य च ।
यमार्यादिभिराकृष्यावेश्य बद्ध्वा वशं नयेत् ॥ २५९
चक्षुःकायाद्यधिष्ठायार्घाभिषेकाभिपूजनम् ।
कृत्वा स्तुत्वाथ संप्रीण्य जप्त्वा विभाव्य तोषयेत् ॥ २६०
प्राग्वत्सत्पद्मभाण्डे तु कृत्वा ज्ञानामृतामृतम् ।
दिक्पालान् स्वस्वयोगस्थान् प्रपूज्य मण्डलं विशेत् ॥ २६१
त्रैलोक्यविजयो भूत्वा यथाप्त्याभरणाम्बरः ।
कृतप्रदक्षिणश्चक्रं नत्वा होमेन पूरयेत् ॥ २६२
चतुरङ्गुलमात्यज्य तन्मानाब्जप्रफुल्लया ।
वेद्या हस्तार्धहस्ताधश्चक्रवत्सार्वकर्मिकम् ॥ २६३
दैर्घादुच्छ्रयतः खड्गमष्टैकाङ्गुलमानकम् ।
कुण्डमध्ये लिखेच्चक्ररत्नाब्जखड्गमध्यगम् ॥ २६४
बहिर्वेष्टितवज्रालीं योगी पूर्वमुखस्थितः ।
जप्त्वा सर्वकृतारक्ष्य वामेऽर्घाद्यन्यदन्यत् ॥ २६५
न्यस्योपकरणं प्रोक्ष्य मञ्जुवज्रात्मयोगवान् ।
क्षीरवृक्षेन्धनादीप्तमग्निं त्र्यक्षररेचितम् ॥ २६६
प्रज्वाल्य व्यञ्जनाघातैः कुशान् दद्यात्प्रदक्षिणम् ।
आद्यजहृत्सरत्र्यश्राब्जस्थं रूंबीजसंभवम् ॥ २६७
ध्यात्वा पीतं त्रिवक्त्रं तु पीनं प्रज्ञान्गसङ्गिनम् ।
कुण्डिकाभयदण्डाक्षमालाकरमिहानलम् ॥ २६८
आवाह्य ज्ञानसद्वह्निं प्राग्वत्त्रितत्त्वटक्किना ।
अभ्युक्षणादिकं तस्य कृत्वासननिवेशनम्॥ २६९
स्रुक्स्रुवे हस्तदण्डाधो वज्ररत्ने तदूर्ध्वतः ।
चतुरस्राङ्गुला पात्री द्व्यङ्गुलखातवज्रधा ॥ २७०
चतुरङ्गुलवज्रान्तरन्ते पद्मदलाकृतिः ।
अन्तर्वज्राङ्गुलं खातं द्व्यङ्गुलाब्जदलं स्रुवम् ॥ २७१
ध्यात्वा स्वदैवतं बीजं प्रदीप्तं स्रुक्स्रुवानने ।
दद्यात्पूर्णाहुतिं तस्मै रेफं विन्यस्य तन्मुखे ॥ २७२
जुह्वीत समिधो धन्याः समिद्धेऽग्नौ घृतं तिलान् ।
दूर्वाखण्दं तु दध्यन्नं कुशान् विधिक्रमादतः ॥ २७३
तथताज्ञानसद्वह्नेर्हृच्चन्द्रे मं-भवाधिपम् ।
सच्चक्रं जुहुयाद्ध्यात्वा बाह्यपूजादि पूर्वकम् ॥ २७४
ओमग्नये स्वाहा ॥ घृतस्य ॥
ओं सर्वपापदहनवज्राय सर्वपापं दह स्वाहा ॥ तिलानाम् ॥
ओं वज्रायुषे स्वाहा ॥ दूर्वायाः ॥
ओं वज्रपुष्टये स्वाहा ॥ अखण्डतण्डुलानाम् ॥
ओं सर्वसम्पदे स्वाहा ॥ दध्यन्नस्य ॥
ओमप्रतिहतवज्राय स्वाहा ॥ कुशानाम् ॥
पुष्टिशान्तिवशाकर्षे द्वेषोच्चाटाभिचारुके ॥
ओं स्वाहा होः जः हुं हूं फट्मन्त्रान्ते चापि चोदना ॥२७५
हृत्सत्त्वात्स्वाधिपात्सर्वाः प्रीण्यन्ते देवता इति ।
ध्यायंश्चन्द्रादिकैरन्यैर्द्रव्यैः संतर्प्य पूर्ववत् ॥ २७६
हृच्चन्द्रचक्रसज्जिह्वमन्ते पूर्णाहुतिं तथा ।
अभ्युक्ष्य चमनार्घं दत्त्वापूज्य स्तुत्वा विसर्जयेत् ॥ २७७
शेषं हव्यं स्वयोगात्मा वह्नौ हुत्वाथ तं तथा ।
विसर्ज्य प्राग्विधानेन चक्रमापूज्य संविशेत् ॥ २७८
शिष्यप्रवेशविधिना प्रविश्यादौ स्वयं कृती ।
निष्पाद्य सेकपर्यन्तं प्राप्यानुज्ञां कुलाधिपात् ॥ २७९
महारागोद्भवं तत्त्वं चक्रं च प्रतिबिम्बवत् ।
पुरे शिष्यप्रवेशार्थं तत्त्वं सत्यं च श्रावयेत् ॥ २८०
आकाशोत्पादचिह्नत्वादनादिनिधनः परः ।
महावज्रमयः सत्त्वो मञ्जुवज्राद्य सिद्ध मे ॥ २८१
सर्वोत्तममहासिद्धि माहैश्वर्याधिदैवत ।
सर्ववज्रधरो राजा सिद्ध मे परमाक्षर ॥ २८२
निर्दोषः शाश्वतश्चासि सर्वरागानुरागण ।
तत्त्वेन सिद्ध मे भगवन्महारागो महारत ॥ २८३
अत्यन्तशुद्ध सर्वाग्र आदिमुक्तस्तथागतः ।
समन्तभद्र सर्वात्मा बोधिसत्त्व प्रसिद्ध मे ॥ २८४
सर्वोत्तममहासिद्धि माहैश्वर्याग्रमुद्रया ।
सिद्ध वज्र महोत्कर्षात्वज्रगर्वापते मम ॥ २८५
सर्वसत्त्वमनोव्यापी सर्वसत्त्वहृदीस्थितः ।
सर्वसत्त्वपिता चैव कामोऽग्र्यः समयाग्रिणाम् ॥ २८६
येन सत्येन सज्ज्ञानं प्रज्ञोपायात्ममण्डलम् ।
तेन सत्येन मे नाथ कामांस्त्वं परिपूरय ॥ २८७
प्रतिबिम्बसमा धर्मा अच्छाः शुद्धा ह्यनाविलाः ।
अग्राह्या अनभिलाप्याश्च हेतुकर्मसमुद्भवाः ॥ २८८
तथतातत्त्वनिर्याता इति सत्येन मण्डले ।
प्रतिबिम्बं स्फुटं शिष्याः सर्वे पश्यन्त्वकल्मषाः ॥ २८९
सामान्यसंवरं शिष्यं प्राग्वत्कायादिभास्वरम् ।
जमनीकान्तरं प्रोक्त सर्वकृत्कलशाम्भसा ॥ २९०
रक्ताम्बरं तदास्यं च पृच्छेत्कस्त्वमिति प्रिय ।
शिष्येणापि ततो वाच्यं सुभगोऽहमिति प्रिय ॥ २९१
संपूज्य स्रक्करं द्वारि तथैवादत्तदक्षिणम् ।
योगचित्तं समुत्पाद्य हृदि वज्रं हृदा न्यसेत् ॥ २९२
मन्त्रः ॥
ओं सर्वयोगचित्तमुत्पादयामि सुरते समयस्त्वं होः सिध्य वज्र यथासुखम् ।
अद्य त्वं सर्वतथागताधिष्ठितो भविष्यसि ।
न च त्वयेदं सर्वतथागतपरमरहस्यममण्डलप्रविष्टाय वक्तव्यं न चाश्रद्धातव्यमिति वाच्यम् ॥
यमार्यादिस्वसन्मन्त्रैः समाकृष्य प्रवेश्य च ।
पञ्चाक्षरैरथाप्येवं वाच्यं सत्संवरग्रहे ॥ २९३
अद्य त्वं सर्वतथागतकुले प्रविष्टः । तदहं ते वज्रज्ञानमुत्पादयामि येन ज्ञानेन त्वं सर्वतथागतसिद्धीरपि प्राप्स्यसि किमुतान्याः सिद्धीः । न च त्वयादृष्टमण्डलस्य पुरतो वक्तव्यम् । मा ते समयो व्यथेदिति तद्धृदि वज्रमास्थाप्य ।
ओं वज्रसत्त्वः स्वयं तेऽद्य हृदये समवस्थितः ।
निर्भिद्य तत्क्षणं यायाद्यदि ब्रूया इमं नयम् । २९४
पद्मस्थं त्र्यक्षरोज्ज्वलं पाययेदमृतं पञ्च ॥
इदं ते नारकं वारि समयातिक्रमाद्दहेत् ।
समयरक्षणात्सिद्धिः पिब वज्रामृतोदकम् ॥ २९५
ओं वज्रोदक ठः ॥
दृढप्रतिज्ञमिदं वदेत् ॥
अद्य प्रभृति तवाहं वज्रपाणिर्यदहं ब्रूयामिदं कुरु तत्त्वया कर्तव्यं न चाहमवमन्तव्यो मा ते विषमापरिहारेण कालक्रियां कृत्वा नरकपतनं स्यात् ।
ब्रूयाद्ब्रूहि ततः शिष्यान्
सर्वतथागताश्चाधितिष्ठन्तां वज्रसत्त्वो मे आविशतु ।
वाचयित्वा च तद्धृदि ।
वज्राङ्ककोणमाहेन्द्रे हूं ध्यायात्पीत-लं-भवे ।
वारुणं वं-भवं शुक्लं घटाङ्कं परिमण्डलम् ॥ २९६
नीलध्वजाङ्कधन्वाभं वायव्यं यं-भवं चलम् ।
काये वाचि तयोर्हः आः पादाधो झैः समुज्ज्वलम् ॥ २९७
वायव्ये रं-भव त्र्यस्रेणोद्दीप्य शिष्यमाविशेत् ॥ २९८
आवेशय स्तोभय र र र र चालय २ हूं हः आः झैः ॥
जिह्वायां रक्तमाः-कारं ध्यात्वाविष्टं पुनर्वदेत् ।
रागवज्रं तमाभुज्य ब्रूहि वज्र शुभाशुभम् ॥ २९९
तमावेशं दृधीकुर्वन् तिष्ठ वज्रेति तं लपेत् ।
प्रक्षेपयेत्स्रजं चक्रे
प्रतीच्छ वज्र होः ॥
तां शिरसि बन्धयेत् ॥ ३००
प्रतिघृह्ण त्वमिमं सत्त्वं महाबल ॥
चिह्ने चिह्नसमीपे वा स्रक्प्रपन्नाप्रपन्नयोः ।
पतेद्रुच्यापि तद्योगं दद्याद्भव्यतयाथ वा ॥ ३०१
सज्वालं प्रणवं नेत्रे ध्यत्वा ।
ओं वज्रसत्त्व स्वयं तेऽद्य चक्षूद्घाटनतत्परः ।
उद्घाटयति सर्वाक्षो वज्रचक्षुरनुत्तरम् ॥ ३०२
ध्यात्वा चक्रं प्रदर्शयेत् ।
चक्राधिपं समारभ्य यावदमृतकुण्डलिम् ।
सेचयेदम्बुना मूर्ध्नि वज्राभिसिञ्च वाग्ब्रुवन् ॥ ३०३
सेचयेन्मौलिना प्राग्वद्दत्त्वा चाधिपदैवतम् ।
हृदि संग्राह्य तद्वज्रं वज्रेणाप्यभिषेचयेत् ॥ ३०४
अद्याभिषिक्तस्त्वमसि बुद्धैर्वज्राभिषेकतः ।
इदं तत्सर्वबुद्धत्वं गृह्ण वज्रं सुसिद्धये ॥ ३०५
आलिङ्ग्य वज्रघण्टाभ्यां स्वाधिपात् ।
ओं वज्राधिपति त्वामभिषिञ्चामि तिष्ठ वज्र समयस्त्वम् ॥
मूर्ध्नि नामतः ॥
ओं वज्रसत्त्व त्वामभिषिञ्चामि वज्रनामाभिषेकतः ॥ हे अमुकवज्र ॥
यद्यद्भाति स्वसर्वस्वं मुख्यं तन्मञ्जुराट्स्वयम् ।
धर्माः शुद्धाः प्रकृत्या यद्बुद्धज्ञानचयः स हि ॥ ३०६
स्वस्यैव चक्रवर्तित्वे श्रीध्वनिर्नाम्न आदितः ।
सर्वे सर्वाधिपत्यात्तु वज्रान्ता हे-नियोजिताः ॥ ३०७
अब्धातुशुद्धिरक्षोभ्यो मकुटः समतात्मकः ।
वज्रं सत्प्रत्यवेक्षात्माधिपः कृत्यकरोऽर्थदः ॥ ३०८
ज्ञानं विद्यात्र वज्रं स्याद्धातुर्गोत्रं वशी ह्यतः ।
व्रतव्याकरणाश्वासा विद्यासेकेऽपि नाम्न्य्मी ॥ ३०९
इदं तत्सर्वबुद्धत्वं वज्रसत्त्वकरे स्थितम् ।
त्वयापि हि सदा धार्यं वज्र्पाणिदृढव्रतम् ॥ ३१०
ओं सर्वतथागतसिद्धिवज्रसमये तिष्ठ एष त्वां धारयामि हीः हि हि हि हि हूम् ॥
सर्वान् वज्रव्रतं दत्त्वा वज्रं तत्त्वेन ग्राहयेत् ।
अनादिनिधनः सत्त्वो वज्रसत्त्वो महारतः ।
समन्तभद्र सर्वात्मा वज्रगर्वापतिः पतिः । ३११
घण्टां तत्त्वेन संग्राह्य
इयं सा सर्वबुद्धानां प्रज्ञाघोषानुगा स्मृता ।
त्वयापि हि सदा धार्या बोधिरग्रा जिनैर्मता । ३१२
तां तद्धर्मेण वादयेत् ॥ ३१३
स्वभावशुद्धो हि भवः स्वभावैर्विभवीकृतः ।
स्वभावशुद्धैः सत्सत्त्वैः क्रियते परमो भवः ॥ ३१४
अधिष्ठाय महामुद्रां हृद्भिः सेवादिकीर्तितैः ।
समयैः कामरूपाद्यैर्जपेन्मन्त्रमव्यङ्गतः ॥ ३१५
स्वसंवेद्यस्वभावैस्तैः सर्वदिक्त्र्यध्वसंस्थितैः ।
स्वाधिदैवतयोगेन स्वं परांश्चैव पूजयेत् ॥ ३१६
दुष्करैर्नियमैस्तैर्यत्सेव्यमानैर्न सिद्धयः ।
सिध्यन्तेऽन्तर्ध्यभिज्ञाखचारिवाक्चित्तकायजाः ॥ ३१७
तस्माद्बुद्धाश्च सत्सत्त्वा मन्त्रचर्याग्रचारिणः ।
प्राप्ता धर्माक्षरं श्रेष्ठं सर्वकामोपसेवनैः ॥ ३१८
सेवयन् कामगुणान् पञ्च सुखदुःखोभयात्मकान् ।
ज्ञानार्थी रागिणां योगात्साधयेत्सर्वमेव हि ॥ ३१९
कायवाक्चित्तसंसिद्धेर्याश्चान्या हीनजाः स्मृताः ।
सिध्यन्ते मन्त्रजापात्तु कायवाक्चित्तभावनैः ॥ ३२०
यदुक्तं
वज्रं तत्त्वेन संगृह्य घण्टां धर्मेण वाद्य च ।
समयेन महामुद्रामधिष्ठाय हृदा जपेदिति ॥ ३२१
तत्प्रत्युक्तम् ॥
गृहीतसम्वरं शिष्यं तथैवादत्तदक्षिणम् ।
याचयेदभिषेकाय प्रणम्यैवं तु गाथया ॥ ३२२
बोधिवज्रेण बुद्धानां यथा दत्तो महामहः ।
ममापि त्राणनार्थाय खवज्राद्य ददाहि मे ॥ ३२३
प्रवेशद्वारपीठस्थाष्टदलाब्जेष्टयोगिनम् ।
सर्वदिक्त्र्यध्वखव्यापिबुद्धचक्रैः स्वहृद्भवैः ॥ ३२४
वाद्यगन्धाद्युपेतैस्तैः प्राग्वद्विद्याभिषेकिणम् ।
महावज्राभिषेकेण सेचयेदिति गाथया ॥ ३२५
अभिषेकं महावज्रं त्रैधातुकनमस्कृतम् ।
ददामि सर्वबुद्धानां त्रिगुह्यालयसंभवम् ॥ ३२६
दत्त्वाविवर्त्यसंसेकं चक्रतत्त्वं तु दर्शयेत् ।
चतुरस्रमवैषम्याद्बुद्धाबुद्धसमत्वतः ॥ ३२७
कायवाक्चित्तधर्माणां नानैकत्वाद्ययोगतः ।
तत्स्मृतिस्तत्र या श्रद्धा प्राग्द्वारं बोधये मतम् ॥ ३२८
भूतभाविविपर्यासहान्यनुत्पत्तये ततः ।
अभूतोत्पन्नतथ्यस्य चोत्पत्तिस्थितये पुनः ॥ ३२९
अर्वाग्द्वारं चतुर्वीर्यं छन्दोत्साहस्थितिर्मतिः ।
पश्चिममृद्धिपादास्तु द्वारं तत्स्मृतिरत्र तु ॥ ३३०
श्रद्धावीर्यस्मृतिध्यानप्रज्ञेन्द्रियबलातुलम् ।
समाधिरुत्तरं त्वेवं चतुर्द्वारं स्मृतीन्द्रियैः ॥ ३३१
प्रथमादिचतुर्ध्यानैश्चतुस्तोरणवद्भवेत् ।
शूरङ्गमखगञ्जादिसमाधिर्वेदिकाः स्मृताः ॥ ३३२
वेद्यां पूजाकरव्यग्रग्रन्थादिधारिणीचयः ।
यच्चित्राभरणं तस्मात्सर्वाशापरिपूरणम् ॥ ३३३
विनयोद्धूतसद्धर्मनवाङ्गरवसर्वगम् ।
मारुतोद्धूतविश्वाग्रपताकाघण्टनादितम् ॥ ३३४
ज्ञानेष्वादर्शबोध्यङ्गैः सर्वदिक्षु प्रभास्वरैः ।
हारार्धहारचन्द्रार्कादर्शस्रक्चामरोज्ज्वलम् ॥ ३३५
चक्ररत्नादिसत्स्तम्भैर्विमोक्षाष्तकशोधितैः ।
तस्याभ्यन्तरतश्चक्रमष्तमण्डलकोपमम् ॥ ३३६
सर्वदिक्त्र्यध्वसम्बुद्धवज्रयानप्रवर्तनात् ।
वज्रसूत्रपरिक्षिप्तं समन्तात्परिमण्डलम् ॥ ३३७
रङ्गाणि पञ्चसंबुद्धास्तज्ज्ञानैः सत्त्वरञ्जनात् ।
इन्द्रियार्थादिसंशुद्ध्या स्वलक्षणविवेकतः ॥ ३३८
प्राग्यज्ज्ञानामृतं पीतं वज्रिणां कलशं तु तत् ।
संभारपूरिनिष्यन्दः पूर्णकुम्भः कृपार्द्रतः ॥ ३३९
पुष्पधूपमहादीपगन्धाख्यं यच्च मण्डले ।
बोध्यङ्गसुमनोह्लादिधर्मोल्का यशसां चयः ॥ ३४०
धर्माहारस्तु नैवेद्यं ह्रीरपत्राप्यसंवरम् ।
सुगीतनृत्यवादित्रमहासुखविवर्धनम् ॥ ३४१
पुरं मोक्षपुरत्वाच्च मण्डलं सारसंग्रहात् ।
चक्रतत्त्वं समादर्श्य देवतातत्त्वमादिशेत् ॥ ३४२
श्रद्धावीर्यस्मृतिध्यानशुद्ध्या सद्द्वारिरूपकम् ।
कायादौ योगधृक्चित्तं प्रज्ञाशुद्ध्या सुनिर्मलम् ॥ ३४३
दानादिषड्बहिःशुद्ध्या रूपवज्रादिभावधृक् ।
भूपायाद्यनिमित्तत्वाल्लोचनादिस्वभावकम् ॥ ३४४
अर्थसत्त्वात्मसंकल्पप्रवृत्तिज्ञानशुद्धितः ।
आदर्शादिक्षयज्ञानं सर्वबुद्धस्वरूपकम् ॥ ३४५
ज्ञानानुत्पादयोगेन चक्रेशाकारभास्वरम् ।
रूपादिभ्रमसंशुद्ध्या स्कन्धायतनधातुकम् ॥ ३४६
मात्सर्यादिपरावृत्तेः परमाभूषु सुस्थिरम् ।
स्वविपक्षपरावृत्त्या बलाद्यविकलामलम् ॥ ३४७
अविकल्पात्तु गाम्भीर्यमौदार्यं स्वपरोदयात् ।
गाम्भीर्यौदार्यतश्चेतः प्रज्ञोपायात्मकं मतम् ॥ ३४८
प्रत्यात्मवेद्यधर्मत्वाद्भेदाभेदाद्यसंस्थितम् ।
एवं प्रपञ्चिते भ्रान्तिफलाः पारमीतादयः ॥ ३४९
समयाग्र्या ततो योगं रूपाब्दगुणयुक्तया ।
कृत्वाचार्योऽत्र संविश्य ज्ञानावेशं प्रकल्पयेत् ॥ ३५०
वज्रेण पद्ममास्फोट्य बुद्धान् स्वान्तर्निवेश्य च ।
स्थिरीकृत्य च पद्मस्थान् प्राप्यानुज्ञां कुलाधिपात् ॥ ३५१
स्वनामोच्चार्य वज्रात्मा स्फरयेच्चक्रयोगतः ।
वज्राब्जध्वनिभिर्बुद्धानानीय चक्रपार्श्वतः ॥ ३५२
विघ्नानुत्सार्य संरक्ष्य दत्त्वार्घं प्रतिपूज्य च ।
संस्तुत्य द्वारिभिर्द्वारकर्म कृत्वात्र साधयेत् ॥ ३५३
चक्षुःकायाद्यधिष्ठानसेकपूजादिकल्पिते ।
विज्ञापयेत्सर्वसत्त्वार्थं कुरुध्वं सर्वसिद्धये ॥ ३५४
चक्रं संलिख्य सम्यक्प्राक्प्रतिष्ठायां त्वयं विधिः ।
प्रतिमापुस्तकादीनां पौरुषान्तस्तु सेकतः ॥ ३५५
सकलार्घवितानादि रक्षाहोमादि यत्स्मृतम् ।
त्रिपञ्चाक्षरसन्मन्त्रैर्मन्त्रैर्वा प्राक्समुद्धृतैः ॥ ३५६
कारयित्वा बहिः स्नानं चक्रवर्तीव तत्स्वयम् ।
उत्तमं तत्त्वमेतद्धि प्रज्ञोपायात्मकं तु यत् ॥ ३५७
जलमौली तु निष्यन्दः पाको वज्राधिपाःवकाः ।
संबुद्धैः पौरुषः सेको वैमल्यो गुह्ययोगतः ॥ ३५८
ततो रूपादिसम्पन्नां स्वभ्यस्तचक्रयोगिनीम् ।
समयसंवरस्थां तां चक्रे मुद्रामधिष्ठ्य च ॥ ३५९
मुनीन्द्रवृन्दं वज्रान्तः समावेश्य च सत्सुखम् ।
प्रपीड्यानामज्येष्ठाभ्यां शिष्यवक्त्रे प्रपातयेत् ॥ ३६०
शिष्यो दृढमतिः सर्वं पिबेत्वैरोचनात्मना ।
स भवेद्विश्ववद्विश्वोऽत्राहो सुखेति वाग्ब्रुवन् ॥ ३६१
प्रज्ञासंपर्कतः श्रीमान् तत्त्वं समुपलक्षयेत् ।
इयं ते धारणी रम्या सेव्या बुद्धैः प्रकल्पिता ॥ ३६२
चक्रक्रमप्रयोगेण समास्वादय सत्सुखम् ।
वज्रपर्यङ्कतश्चित्तं मण्यन्तर्गतमीक्षयन् ॥ ३६३
मण्डलं देवतातत्त्वमाचार्यपरिकर्म च ।
संकथ्य गुह्यप्रज्ञाभ्यां सिक्त्वा तत्त्वं समुद्दिशेत् ॥ ३६४
यदाह ॥
न तथा बोधिचर्याद्यैरन्यैर्वापि न यैः शुभैः ।
प्राप्यन्ते सर्वबुद्धाद्या यथाभिषेकादितो नयात् ॥ ३६५
समयं रक्षयेद्भर्तुः संवरं पालयेत्सदा ।
पञ्चमांसामृतं भक्ष्यं रक्षोऽन्यः समयोऽप्यतः ॥ ३६६
रत्नघ्नघातसर्वस्त्रीपरस्वादानं वाङ्मृषा ।
एतद्धि विधिवत्रक्ष्यं योगतन्त्रे च यत्स्मृतम् ॥ ३६७
ततस्तथागतो भूत्वा व्याकुर्यादुद्गतयानया ।
हृन्मुष्टिचीवरा वामा दक्षिणा तु वरप्रदा ॥ ३६८
ओमेसाहं व्याकरोमि त्वां वज्रसत्त्वस्तथागतः ।
भवदुर्गतितोद्धृत्य अत्यन्तभवसिद्धये ॥ ३६९
हे वज्रनाम तथागत सिद्धये भूर्भूवः स्वः ॥
व्याक्रियतेऽनया यस्तु मन्त्री सर्वजगत्पतिः ।
बोधावनुत्तरायां हि व्याकुर्यात्सुगतैरपि ॥ ३७०
यथा यथा हि विनयं सत्त्वा यान्ति स्वभावतः ।
तथा तथा हि सत्त्वार्थं कुर्याद्रागादिभिः शुचिः ॥ ३७१
प्रतिदिनं चतुःसन्ध्यं समाधित्रययोगवान् ।
भूत्वा साधय संसिद्धिं सामान्येतरभावनीम् ॥ ३७२
अन्तर्धिर्धातुसाहस्रे द्विसाहस्रेष्वभिज्ञकः ।
विद्याधरस्त्रिसाहस्रे वज्री सर्वजगत्पतिः ॥ ३७३
शान्तिपुष्ट्यादि यत्कर्म तदन्यद्वा यदीप्सितम् ।
चक्रानुरागयोगेन साधयन् सिध्यते लघु ॥ ३७४
तदुक्तम् ॥
वज्राधिपतयः सर्वे रागतत्त्वार्थचिन्तकाः ।
कुर्वन्ति रागजां बोधिं सर्वसत्त्वहितैषिनिईम् ॥ ३७५
अतो बोध्यर्थिको मन्त्री कायवाक्चित्तचेष्टितम् ।
कर्म कुर्याद्विधानेन सर्वं तद्बोधये मतम् ॥ ३७६
यथा प्रविष्टशिष्येभ्योऽनुशंसार्थिभ्य इत्यपि ।
समाश्वासां त्रिसमयमतो दद्याद्विधानतः ॥ ३७७
दृष्ट्वा प्रविष्ट्वा परमं रहस्योत्तममण्डलम् ।
सर्वपापैर्विनिर्मुक्ता भवन्तोऽद्यैव सुस्थिताः ॥ ३७८
न भूयो मरणं वोऽस्ति यानादस्मान्महासुखात् ।
अधृष्याश्चाप्यबद्धाश्च रमध्वमकुतोभयाः ॥ ३७९
निवृत्तं भवदुःखं वोऽत्यन्तभवशुद्धये ।
संभूताः शासिनामग्रा अत्यन्तभवसिद्धये ॥ ३८०
अयं वः सततं रक्ष्यः सिद्धः समयसंवरः ।
सर्वबुद्धैः समं प्रोक्ता आज्ञा परमशाश्वती ॥ ३८१
बोधिचित्तं न वै त्याज्यं यद्वज्रमिति मुद्रया ।
यस्योत्पादनमात्रेण बुद्ध एव न संशयः ॥ ३८२
सद्धर्मो न प्रतिक्षेप्यो न च त्याज्यः कदाचन ।
अज्ञानाद्वाथ मोहाद्वा न वै विवृणुयात्स तु ॥ ३८३
स्वमात्मानं परित्याज्य तपोभिर्न च पीडयेत् ।
यथासुखं सुखं धार्यं संबुद्धोऽयमनागतः ॥ ३८४
वज्रं घण्टा च मुद्रा च न वै त्याज्या कदाचन ।
अचार्यो नावमन्तव्यः सर्वबुद्धसमो ह्यसौ ॥ ३८५
यो वावमन्येताचार्यं सर्वबुद्धसमं गुरुम् ।
सर्वबुद्धापमानेन स नित्यं दुःखमाप्नुयात् ॥ ३८६
ज्वरैर्गरैर्विषैर्रोगैर्डाकिन्युपद्रवैर्ग्रहैः ।
विघ्नैर्विनायकैर्घोरैर्मारितो नरकं व्रजेत् ॥ ३८७
तस्मात्सर्वप्रयत्नेन वज्राचार्यं महागुरुम् ।
प्रच्छन्नवरकल्याणं नावमन्येत्कदाचन ॥ ३८८
अनुरूपं च ते देयं गुरुभक्तं सदक्षिणम् ।
ततो ज्वरादयस्तापा न भूयः प्रभवन्ति हि ॥ ३८९
नित्यं स्वसमयः साध्यो नित्यं पूज्यास्तथागताः ।
नित्यं च गुरवे देयं सर्वबुद्धसमो ह्यसौ ॥ ३९०
तद्दानात्पुण्यसंभारः संभाराद्बोधिरुत्तमा ।२८६
दत्तेऽस्मै सर्वबुद्धेभ्यो दत्तं भवति शाश्वतम् ॥ ३९१
अद्य वः सफलं जन्म यदस्मिन् सुप्रतिष्ठिताः ।
समाः समयदेवानां भविता स्थ न संशयः ॥ ३९२
अद्याभिषिक्ता आयुष्मन्तः सर्वबुद्धैः सवज्रिभिः ।
त्रैधातुकमहाराज्यं राजाधिपतयः स्थिराः । ३९३
अद्य मारान् विनिर्जित्य प्रविष्टाः परमं पुरम् ।
प्राप्तमद्यैव बुद्धत्वं भवद्भिर्नात्र संशयः ॥ ३९४
इति कुरुत मनः प्रसादवज्रं स्वसमयमक्षयसौखदं भजध्वम् ।
जगति लघु सुखेऽद्य वज्रसत्त्वप्रतिसमशाश्वततां गता भवन्तः ॥ ३९५
प्रणिपत्य गुरोः पदौ शिष्याः सद्भक्तिवत्सलाः ।
ब्रूयुरेवं करिष्यामो यथाज्ञापयसे विभो ॥ ३९६
सत्येव संभवे तेषां प्रत्येकं वामपाणिना ।
सव्याङ्गुष्ठकमागृह्य शान्तिं कुर्याद्विधानतः ॥ ३९७
त्रिसप्ताहुतिमेकां वा राज्ञो वा भूपतेरथ ।
दिक्पालस्वात्मशान्तौ च हुत्वा याचेत दक्षिणाम् ॥ ३९८
सर्वसत्त्वार्थकर्त्तव्ये श्रुतादौ वा प्रति प्रति ।
भूगजादिसुवर्णादौ स्वसिद्धौ वा सहायताम् ॥ ३९९
संगृह्य यत्तदुत्सृष्टं संतोष्य दत्तदक्षिणान् ।
सर्वाहारविहारैस्तैः स्वपरैश्चक्रमर्चयेत् ॥ ४००
संगृह्य योग्यसच्छिष्यान् विचित्रपरमायुभिः ।
संतर्प्य चोपसंहृत्य मुः-कारान्तैश्च त्र्यक्षरैः ॥ ४०१
आकारेत्यादिमन्त्रेण शून्यं तच्चक्रमुत्तमम् ।
दत्त्वार्थिने रजः स्तोकं महत्तोये रजः सृजेत् ॥ ४०२
गर्त्तापूरे प्रतिष्ठायां होमे चक्रे च यद्धनम् ।
आचार्यस्यैव तत्सर्वमित्याह वरवज्रधृक् ॥ ४०३
इत्यादिकर्मिकस्यायमुक्तश्चक्रविधिः स्फुटः ।
ज्ञानावेशसुलब्धस्य त्वावेशेनैव कथ्यते ॥ ४०४
द्वादशाब्दे समावेश्य संपूज्य बालबालिके ।
ताभ्यां यद्रचयेच्चक्रं चित्तवाक्कायिकं मतम् ॥ ४०५
चित्ते त्वक्षोभ्यमामक्योरादेशः समुदाहृतः ।
पाण्डरामितयोर्वाचि काये शाश्वतलोचने ॥ ४०६
चित्तवाक्कायसंस्तोभाद्रचनात्त्वियमद्भुता ।
चित्तस्तोभात्परिज्ञानं वाक्स्तोभान्मन्त्रभाषणम् ॥ ४०७
कायस्तोभाच्च खेस्थानं स्तोभावेशे विधिस्त्वयम् ।
आचार्यशिष्यसेकोऽत्र प्राङ्न्यायेनैव संस्थितः ॥ ४०८
प्राप्तज्ञानवशीकुर्याच्चेतसैव त्रिचक्रकम् ।
तदधिष्ठानतश्चक्रं दृश्यते स्वपरैर्यतः ॥ ४०९
प्रवेशोऽत्राभ्यनुज्ञतः स्पष्टस्वप्नवदिष्यते ।
यतस्तेनोत्तमो ज्ञेयश्चित्तमूर्तिदृढत्वतः ॥ ४१०
त्रियोगानामपि प्राग्वद्विधिर्वाक्कायचक्रयोः ।
तत्स्थानेऽक्षोभ्यचिह्नं स्याद्वाक्कायगुह्यशुद्धये ॥ ४११
ज्ञानादिकर्मिसंवेशिसंप्राप्तवशिनामपि ।
चेतसैव विधिः सर्वस्तद्धीनो नैव सिध्यति ॥ ४१२
वज्राचार्याग्रशिष्याणां निष्यन्दादिरतात्मनाम् ।
मनसोक्तो विधिः श्रेष्ठो वाङ्मात्रेणात्र किं भवेत् ॥ ४१३
वृत्तमात्रान्न बुद्धत्वं श्रुतमात्राच्च नो भवेत् ।
चिन्तयापि न यावच्च भावनातो निरुच्यते ॥ ४१३
यदाह ॥
अलं बहुविसर्पिण्या कथया मन्त्रवादिनाम् ।
चेतः साध्यं विशेषेण चित्तात्संबोधिसम्भवः ॥ ४१४
यदुक्तम् ॥
यत्फलं बोधिचित्तं तद्बुद्धज्ञानमनुत्तरम् ।
वज्रसत्त्वमयं तस्य धर्मसंभोगनिर्मितम् ॥ ४१५
प्राकृतकल्पनावृत्तेर्नान्यद्दुःखं भवात्मकम् ।
साक्षादस्य विरोध्येवं प्रज्ञोपायात्म [...] ४१६