गोपथ ब्राह्मणम्/भागः २ (उत्तर भागः)/प्रपाठकः ३

2.3.1
ओं देवपात्रं वै वषट्कारः
यद् वषट्करोति देवपात्रेणैव तद् देवतास् तर्पयति
अथो यद् आभितृष्यन्तीर् अभिसंस्थं तर्पयत्य् एवम् एव तद् देवतास् तर्पयति यद् अनुवषट्करोति
तद् यथैवादो ऽश्वान् वा गा वा पुनरभ्याकारं तर्पयत्य् एवम् एव तद् देवतास् तर्पयति यद् अनुवषट्करोति
इमान् एवाग्नीन् उपासत इत्य् आहुर् धिष्ण्यान्
अथ कस्मात् पूर्वस्मिन्न् एवाग्नौ जुह्वति पूर्वस्मिन् वषट्करोति
यद् एव सोमस्याग्ने वीहीत्य् अनुवषट्करोति तेनैव वषट्करोति धिष्ण्यान् प्रीणाति
अथ संस्थितान् सोमान् भक्षयन्तीत्य् आहुर् येषां नानुवषट्करोति
तद् आहुः को नु सोमस्य स्विष्टकृद्भाग इति
यद् एव सोमस्याग्ने वीहीत्य् अनुवषट्करोति तेनैव संस्थितान् सोमान् भक्षयन्तीत्य् आहुः
स उ एष सोमस्य स्विष्टकृद्भागो यद् अनुवषट्करोति ॥ १ ॥
2.3.2
वज्रो वै वषट्कारः
स यं द्विष्यात् तं मनसा ध्यायन् वषट्कुर्यात्
तस्मिंस् तद् वज्रम् आस्थापयति
षड् इति वषट्करोति
षड् वा ऋतवः
ऋतूनाम् आप्त्यै
वौषड् इति वषट्करोति
असौ वाव वाव् ऋतवः षट्
एतम् एव तद् ऋतुष्व् आदधाति
ऋतुषु प्रतिष्ठापयति
तद् उ ह स्माह वैद एतानि वा एतेन षट् प्रतिष्ठापयति
द्यौर् अन्तरिक्षे प्रतिष्ठिता
अन्तरिक्षं पृथिव्याम्
पृथिव्य् अप्सु
आपः सत्ये
सत्यं ब्रह्मणि
ब्रह्म तपसीति
एता एव तद् देवताः प्रतिष्ठान्याः प्रतितिष्ठन्तीर् इदं सर्वम् अनु प्रतितिष्ठति [एद्. प्रतिस्थान्याः, चोर्र्. ড়त्यल्]
प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ॥ २ ॥
2.3.3
त्रयो वै वषट्काराः
वज्रो धामच्छद् रिक्तः
स यद् एवोच्चैर् बलं वषट्करोति स वज्रस्
तं तं प्रहरति द्विषते भ्रातृव्याय वधं यो ऽस्य स्तृत्यस् तस्मै स्तरीतवे
तस्मात् स भ्रातृव्यवता वषट्कृत्यः
अथ यः समः संततो निर्हाणच्छत्स्व धामच्छत्
तं तं प्रजाश् च पशवश् चानूपतिष्ठन्ते
तस्मात् स प्रजाकामेन पशुकामेन वषट्कृत्यः
अथ येनैव षड् अपराध्नोति स रिक्तः
रिणक्त्य् आत्मानं रिणक्ति यजमानम्
पापीयान् वषट्कर्ता भवति पापीयान् यस्मै वषट्करोति
तस्मात् तस्याशां नेयात्
किं स्वित् स यजमानस्य पापभद्रम् आद्रियेतेति ह स्माह यो ऽस्य वषट्कर्ता भवति
अत्रैवैनं यथा कामयेत तथा कुर्यात्
यं कामयेत यथैवानीजानो ऽभूत् तथैवेजानः स्याद् इति यथैवास्यर्चं ब्रूयात् तथैवास्य वषट्कुर्यात्
समानम् एवैनं तत् करोति
यं कामयेत पापीयान् स्याद् इत्य् उच्चैस्तराम् अस्यर्चं ब्रूयान् नीचैस्तरां वषट्कुर्यात्
पापीयांसम् एवैनं तत् करोति
यं कामयेत श्रेयान् स्याद् इति नीचैस्तराम् अस्यर्चं ब्रूयाद् उच्चैस्तरां वषट्कुर्यात्
श्रेयांसम् एवैनं तत् करोति
श्रिय एवैनं तच् छ्रियम् आदधाति ॥ ३ ॥
2.3.4
यस्यै देवतायै हविर् गृहीतं स्यात् तां मनसा ध्यायन् वषट्कुर्यात् [एद्. दवतायै]
साक्षाद् एव तद् देवतां प्रीणाति
प्रत्यक्षाद् देवतां परिगृह्णाति
संततम् ऋचा वषट्कृत्यम्
संतत्यै
संधीयते प्रजया पशुभिर् य एवं वेद ॥ ४ ॥
2.3.5
वज्रो वै वषट्कारः
स उ एष प्रहृतो ऽशान्तो दीदाय तस्य ह न सर्व एव शान्तिं वेद नो प्रतिष्ठाम्
तस्माद् धाप्य् एतर्हि भूयान् इव मृत्युस्
तस्य हैषैव शान्तिर् एषा प्रतिष्ठा यद् वाग् इति
वषट्कृत्य वाग् इत्य् अनुमन्त्रयते
वषट्कार मा मां प्रमृक्षो माहं त्वां प्रमृक्षं बृहता मन उपह्वये व्यानेन शरीरं प्रतिष्ठासि प्रतिष्ठां गच्छ प्रतिष्ठां मा गमयेद् इति [एद्. प्रतिष्ठीसि, चोर्रेच्तेद् प्. ३०२]
तद् उ स्माह दीर्घम् एवैतैत् सदप्रभ्व् ओजः सह ओज इत्य् अनुमन्त्रयेत
ओजश् च ह वै सहश् च वषट्कारस्य प्रियतमे तन्वौ
प्रियाभ्याम् एव तत् तनूभ्यां समर्धयति
प्रियया तन्वा समृध्यते य एवं वेद ॥ ५ ॥
2.3.6
वाक् च वै प्राणापानौ च वषट्कारस्
ते वषट्कृते वषट्कृते व्युत्क्रामन्ति
तान् अनुमन्त्रयते वाग् ओजः सह ओजो मयि प्राणापानाव् इति
वाचं चैव तत् प्राणापानौ च होतात्मनि प्रतिष्ठापयति
सर्वम् आयुर् एति
न पुरा जरसः प्रमीयते य एवं वेद
<शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः । सखेव सख्य उरुशंस धीरः प्र ण आयुर् जीवसे सोम तारीः [ऋ. ८.४८.४, Vऐत्ष् १९.१८]>इत्य् आत्मानं प्रत्यभिमृशति
ईश्वरो वा एषो ऽप्रत्यभिमृष्टो यजमानस्यायुः प्रत्यवहर्तुम् अनर्हन् मा भक्षयेद् इति
तद् यद् एतेन प्रत्यभिमृशत्य् आयुर् एवास्मै तत् प्रतिरते
आप्यायस्व सं ते पयांसीति द्वाभ्यां चमसान् आप्याययन्त्य् अभिरूपाभ्याम्
यद् यज्ञे ऽभिरूपं तत् समृद्धम् ॥ ६ ॥
2.3.7
प्राणा वा ऋतुयाजास्
तद् यद् ऋतुयाजैश् चरन्ति प्राणान् एव तद् यजमाने दधति
षड् ऋतुनेति यजन्ति
प्राणम् एव तद् यजमाने दधति
चत्वार ऋतुभिर् इति यजन्ति
अपानम् एव तद् यजमाने दधति
द्विर् ऋतुनेत्य् उपरिष्टात्
व्यानम् एव तद् यजमाने दधति
स चासु संभृतस् त्रेधा विहृतः प्राणो ऽपानो व्यान इति [एद्. ऽपाणो]
ततो ऽन्यत्र गुणितस्
तथा ह यजमानः सर्वम् आयुर् एत्य् अस्मिंल् लोक आर्ध्नोति
आप्नोत्य् अमृतत्वम् अक्षितं स्वर्गे लोके
ते वा एते प्राणा एव यद् ऋतुयाजास्
तस्माद् अनवानं ततो यजन्ति [एद्. अनवानन्तो, चोर्र्. ড়त्यल्]
प्राणानां सन्तत्यै
सन्तन्ता इव हीमे प्राणाः
अथो ऋतवो वा ऋतुयाजाः
संस्थानुवषट्कारः [एद्. अनुवषट्कुआरो]
यो ऽत्रानुवषट्कुर्याद् असंस्थितान् ऋतून् संस्थापयेत्
यस् तं तत्र ब्रूयाद् असंस्थितान् ऋतून् समतिष्ठिपद् दुःषमं भविष्यतीति शश्वत् तथा स्यात् ॥ ७ ॥
2.3.8
तद् आहुर् यद् धोता यक्षद् धोता यक्षद् इति मैत्रावरुणो होत्रे प्रेष्यत्य् अथ कस्माद् अहोतृभ्यः सद्भ्यो होत्राशंसिभ्यो होता यक्षद् धोता यक्षद् इति प्रेष्यतीति
वाग् वै होता वाक् सर्व ऋत्विजः
वाग् यक्षद् वाग् यक्षद् इति
अथो सर्वे वा एते सप्त होतारो ऽपि वा ऋचाभ्युदितं सप्त होतार ऋतुथा यजन्तीति
अथ य उपरिष्टाद् द्वादशर्चजामितायै
ते वै द्वादश भवन्ति
द्वादश वै मासाः संवत्सरः [एद्. द्वदश, चोर्र्. ড়त्यल्]
संवत्सरः प्रजापतिः
प्रजापतिर् यज्ञः
स यो ऽत्र भक्षयेद् यस् तं तत्र ब्रूयाद् अशान्तो भक्षो ऽननुवषट्कृत आत्मानम् अन्तरगान् न जीविष्यतीति तथा ह स्यात् [एद्. ऽनानुवषट्कृत, चोर्र्. ড়त्यल्]
यो वै भक्षयेत् प्राणो भक्षः प्राण आत्मानम् अन्तरगाद् इति तथैव भवति
लिम्पेद् इवैवावजिघ्रेद् अत्र च द्विदेवत्येषु चेति
तद् उ तत्र शासनं वेदयन्ते
अथ यद् अभू व्यभिचरतो नान्योन्यम् अनुप्रपद्येते अध्वर्यू तस्माद् ऋतुर् ऋतुं नानुप्रपद्यते ॥ ८ ॥
2.3.9
प्रजापतिर् वै यत् प्रजा असृजत ता वै तान्ता असृजत
ता हिंकारेणैवाभ्यजिघ्रत् [एद्. हिंकारेन, चोर्र्. ড়त्यल्]
ताः प्रजा अश्वम् आरंस् तद् बध्यते वा एतद् यज्ञो यद् धवींषि पच्यन्ते यत् सोमः सूयते यत् पशुर् आलभ्यते
हिंकारेण वा एतत् प्रजापतिर् हतम् अभिजिघ्रति यज्ञस्याहततायै यज्ञस्याप्त्यै यज्ञस्य वीर्यवत्ताया इति
तस्माद् उ हिंक्रियते
तस्माद् उ य एव पिता पुत्राणां सूर्क्षति स श्रेष्ठो भवति
प्रजापतिर् हि तम् अभिजिघ्रति
यच् छकुनिर् आण्डम् अध्यास्ते यन् न सूयते तद् धि सापि हिंकृणोति
अथो खल्व् आहुर् महर्षिर् वा एतद् यज्ञस्याग्रे गेयम् अपश्यत्
तद् एतद् यज्ञस्याग्रे गेयं यद् धिंकारस्
तं देवाश् च ऋषयश् चाब्रुवन् वसिष्ठो ऽयम् अस्तु यो नो यज्ञस्याग्रे गेयम् अद्राग् इति
तद् एतद् यज्ञस्याग्रे गेयं यद् धिंकारस्
ततो वै स देवानां श्रेष्ठो ऽभवत्
येन वै श्रेष्ठस् तेन वसिष्ठस्
तस्माद् यस्मिन् वासिष्ठो ब्राह्मणः स्यात् तं दक्षिणाया नान्तरीयात् [एद्. स्यांत्]
तथा हास्य प्रीतो हिंकारो भवति
अथ देवाश् च ह वा ऋषयश् च यद् ऋक्सामे अपश्यंस् ते ह स्मैते अपश्यन्
ते यत्रैते अपश्यंस् तत एवैनं सर्वं दोहम् अदुहन्
ते वा एते दुग्धे यातयामे ये ऋक्सामे
ते हिंकारेणैवाप्यायेते
हिंकारेण वा ऋक्सामे आपीने यजमानाय दोहं दुहाते
तस्माद् उ हिंकृत्याध्वर्यवः सोमम् अभिषुण्वन्ति
हिंकृत्योद्गातारः साम्ना स्तुवन्ति
हिंकृत्योक्थश ऋचार्त्विज्यं कुर्वन्ति
हिंकृत्याथर्वाणो ब्रह्मत्वं कुर्वन्ति
तस्माद् उ हिंक्रियते
प्रजापतिर् हि तम् अभिजिघ्रति
अथो खल्व् आहुर् एको वै प्रजापतेर् व्रतं बिभर्ति गौर् एव
तद् उभये पशव उपजीवन्ति ये च ग्राम्या ये चारण्या इति ॥ ९ ॥
2.3.10
देवविशः कल्पयितव्या इत्य् आहुः
छन्दश् छन्दसि प्रतिष्ठाप्यम् इति
शंसावोम् इत्य् आह्वयते प्रातःसवने त्र्यक्षरेण
शंसावो दैवेत्य् अध्वर्युः प्रतिगृणाति पञ्चाक्षरेण
तद् अष्टाक्षरं संपद्यते
अष्टाक्षरा वै गायत्री
गायत्रीम् एवैतत् पुरस्तात् प्रातःसवने ऽचीकॢपताम्
उक्थं वाचीत्य् आह शस्त्वा चतुरक्षरम्
ओमुक्थशा इत्य् अध्वर्युः प्रतिगृणाति चतुरक्षरम्
तद् अष्टाक्षरं संपद्यते
अष्टाक्षरा वै गायत्री
गायत्रीम् एवैतद् उभयतः प्रातःसवने ऽचीकॢपताम्
अध्वर्यो शंसावोम् इत्य् आह्वयते माध्यंदिने षडक्षरेण
शंसावो दैवेत्य् अध्वर्युः प्रतिगृणाति पञ्चाक्षरेण
तद् एकादशाक्षरं संपद्यते
एकादशाक्षरा वै त्रिष्टुप् त्रिष्टुभम् एवैतत् पुरस्तान् माध्यंदिने ऽचीकॢपताम्
उक्थं वाचीन्द्रायेत्य् आह शस्त्वा षडक्षरम्
ओमुक्थशा यजेत्य् अध्वर्युः प्रतिगृणाति पञ्चाक्षरम्
तद् एकादशाक्षरं संपद्यते
एकादशाक्षरा वै त्रिष्टुप् त्रिष्टुभम् एवैतद् उभयतो माध्यंदिने ऽचीकॢपताम्
अध्वर्यो शंशंसावोम् इत्य् आह्वयते तृतीयसवने सप्ताक्षरेण
शंसवो दैवेत्य् अध्वर्युः प्रतिगृणाति पञ्चाक्षरम्
तद् द्वादशाक्षरं संपद्यते
द्वादशाक्षरा वै जगती
जगतीम् एवैतत् पुरस्तात् तृतीयसवने ऽचीकॢपताम्
उक्थं वाचीन्द्राय देवेभ्य इत्य् आह शस्त्वा नवाक्षरम्
ओमुक्थशा इत्य् अध्वर्युः प्रतिगृणाति त्र्यक्षरम्
तद् द्वादशाक्षरं संपद्यते
द्वादशाक्षरा वै जगती
जगतीम् एवैतद् उभयतस् तृतीयसवने ऽचीकॢपताम् इति
एतद् वै तच् छन्दश् छन्दसि प्रतिष्ठापयति
कल्पयत्य् एव देवविशो य एवं वेद
तद् अप्य् एषाभ्यनूक्ता यद् गायत्रे अधि गायत्रम् आहितम् इति ॥ १० ॥
2.3.11
अथैतन् नाना छन्दांस्य् अन्तरेण गर्ता इव
अथैते स्थविष्ठे बलिष्ठे नान्तरे देवते
ताभ्यां प्रतिपद्यते
तद् गर्तस्कन्दं रोहस्य रूपं स्वर्ग्यम्
तद् अनवानं संक्रामेत्
अमृतं वै प्रणवः
अमृतेनैव तन् मृत्युं तरति
तद् यथा मत्येन वा वंशेन वा गर्तं संक्रामेद् एवं तत् प्रणवेनोपसंतनोति
ब्रह्म ह वै प्रणवः
ब्रह्मणैवास्मै तद् ब्रह्मोपसंतनोति
शुद्धः प्रणवः स्यात् प्रजाकामानाम्
मकारान्तः प्रतिष्ठाकामानाम्
मकारान्तः प्रणवः स्याद् इति हैक आहुः
शुद्ध इति त्व् एव स्थितः
मीमांसितः प्रणवः
अथात इह शुद्ध इह पूर्ण इति
शुद्धः प्रणवः स्यात्
शस्त्रानुवचनयोर् मध्य इति ह स्माह कौषीतकिस्
तथा संहितं भवति
मकारान्तो ऽवसानार्थे
प्रतिष्ठा वा अवसानम्
प्रतिष्ठित्या एव
अथोभयोः कामयोर् आप्त्यै
एतौ वै छन्दःप्रवाहाव् अवरं छन्दः परं छन्दो ऽतिप्रवहतस्
तस्यायुर् न हिनस्ति
छन्दसां छन्दो ऽतिप्रोढं स्यात् तत्रैव यं द्विष्यात् तं मनसा प्रैव विध्येत्
छन्दसां कृन्तत्रे द्रवति वा सं वा शीर्यत इति
ब्त्रिः प्रथमां त्रिर् उत्तमाम् अन्वाह यज्ञस्यैव तद् बर्हिसो नह्यति
च्स्थेम्ने बलायाविस्रंसाय
द्यद्य् अपि छन्दः प्रातःसवने युज्येतार्धर्चश एव तस्य शंस्यं गायत्र्या रूपेण
अथो प्रातःसवनरूपेणेति
न त्रिष्टुब्जगत्याव् एतस्मिन् स्थाने ऽर्धर्चशस्ये यत् किं चिच् छन्दः प्रातःसवने युज्येतां पच्छ एवैनयोः शस्यम् इति सा स्थितिः ॥ ११ ॥
2.3.12
अथात एकाहस्य प्रातःसवनम्
प्रजापतिं ह वै यज्ञं तन्वानं बहिष्पवमान एव मृत्युर् मृत्युपाशेन प्रत्युपाक्रामत
स आग्नेय्या गायत्र्याज्यं प्रत्यपद्यत
मृत्युर् वाव तं पश्यन् प्रजापतिं पर्यक्रामत्
तं सामाज्येष्ठसीदत्
स वायव्या प्र"उगं प्रत्यपद्यत
मृत्युर् वाव तं पश्यन् प्रजापतिं पर्यक्रामत्
तं माध्यंदिने पवमाने ऽसीदत्
स ऐन्द्र्या त्रिष्टुभा मरुत्वतीयं प्रत्यपद्यत
मृत्युर् वाव तं पश्यन् प्रजापतिं पर्यक्रामत्
स तेनैव द्रविणे पूर्वो निष्केवल्यस्य स्तोत्रियम् आसीदत्
तम् अस्तृणोत्
तस्माद् उ य एव पूर्वम् आसीदति स तत् स्तृणुते विद्वान्
मृत्युर् अनवकाशम् अपाद्रवद् अशंसद् इतरो निष्केवल्यम्
तस्माद् एकम् एवोक्थं होता मरुत्वतीयेन प्रतिपद्यते निष्केवल्यम् एव
अत्र हि प्रजापतिं मृत्युर् व्यजहात् ॥ १२ ॥
2.3.13
मित्रावरुणाव् अब्रवीद् युवं न इमं यज्ञस्याङ्गम् अनुसमाहरतं मैत्रावरुणीयाम्
तथेत्य् अब्रूताम्
तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम्
तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरतां मैत्रावरुणीयाम्
तस्मान् मैत्रावरुणः प्रातःसवने मैत्रावरुणानि शंसति
तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम्
यद् व् एव मैत्रावरुणानि शंसति <प्रति वां सूर उदिते विधेम नमोभिर् मित्रावरुणोत हव्यैः [ऋ. ७.६३.५]><उत वाम् उषसो बुधि साकं सूर्यस्य रश्मिभिः [ऋ. १.१३७.२]>इत्य् ऋचाभ्यनूक्तम्
<आ नो मित्रावरुणा [ऋ. ३.६२.१६]><आ नो गन्तं रिशादसा [ऋ. ५.७१.१]>इति मैत्रावरुणस्य स्तोत्रियानुरूपौ
<प्र वो मित्राय गायत [ऋ. ५.६८.१]>इत्य् उक्थमुखम्
<प्र मित्रयोर् वरुणयोः [ऋ. ७.६६.१]>इति पर्यासः
<आ यातं मित्रावरुणा [ऋ. ७.६६.१९]>इति यजति
एते एव तद् देवते यथाभागं प्रीणाति
वषट्कृत्यानुवषट्करोति
प्रत्य् एवाभिमृशन्ते
नाप्याययन्ति
न ह्य् अनाराशंसाः सीदन्ति ॥ १३ ॥
2.3.14
इन्द्रम् अब्रवीत् त्वं न इमं यज्ञस्याङ्गम् अनुसमाहर ब्राह्मणाच्छंसीयाम्
केन सहेति
सूर्येनेति
तथेत्य् अब्रूताम्
तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम्
तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरतां ब्राह्मणाच्छंसीयाम्
तस्माद् ब्राह्मणाच्छंसी प्रातःसवन ऐन्द्राणि सूर्यन्यङ्गानि शंसति
तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम्
यद् व् एवैन्द्राणि सूर्यन्यङ्गानि शंसति<इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस् तव हि पूर्वपीतिः [ऋ. १०.११२.१]>इत्य् ऋचाभ्यनूक्तम्
<आ याहि सुषुमा हि ते [ऋ. ८.१७.१, Vऐत्ष् २१.१]><आ नो याहि सुतावतः [ऋ. ८.१७.४, Vऐत्ष् २१.१]>इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ
<अयम् उ त्वा विचर्षणे [ऋ. ८.१७.७, Vऐत्ष् २१.२]>इत्य् उक्थमुखम्
<उद् घेद् अभिश्रुतामघम् [ऋ. ८.९३.१, Vऐत्ष् २१.२]> इति पर्यासः
<इन्द्र क्रतुविदम् [ऋ. ३.४०.२]> इति यजति
एते एव तद् देवते यथाभागं प्रीणाति
वषट्कृत्यानुवषट्करोति
प्रत्य् एवाभिमृशन्ते
नाप्याययन्ति
न ह्य् अनाराशंसाः सीदन्ति ॥ १४ ॥
2.3.15
इन्द्राग्नी अब्रवीद् युवं न इमं यज्ञस्याङ्गम् अनुसमाहरतम् अच्छावाकीयाम्
तथेत्य् अब्रूताम्
तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम्
तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम् अच्छावाकीयाम्
तस्माद् अच्छावाकः प्रातःसवन ऐन्द्राग्नानि शंसति
तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम्
यद् व् एवैन्द्राग्नानि शंसति <प्रातर्यावभिर् आ गतं देवेभिर् जेन्यावसू इन्द्राग्नी सोमपीतये [ऋ. ८.३८.७]>इत्य् ऋचाभ्यनूक्तम्
<इन्द्राग्नी आ गतम् [ऋ. ३.१२.१]><तोशा वृत्रहणा हुवे [ऋ. ३.१२.४]>इत्य् अच्छावाकस्य स्तोत्रियानुरूपौ [एद्. तोषा, चोर्रेच्तेद् प्. ३०२]
<इन्द्राग्नी अपसस् परि [ऋ. ३.१२.७]>इत्य् उक्थमुखम्
<इहेन्द्राग्नी उपह्वये [ऋ. १.२१.१]>इति पर्यासः
<इन्द्राग्नी आ गतम्> इति यजति
एते एव तद् देवते यथाभागं प्रीणाति
वषट्कृत्यानुवषट्करोति
प्रत्य् एवाभिमृशन्ते
नाप्याययन्ति
न ह्य् अनाराशंसाः सीदन्ति ॥ १५ ॥
2.3.16
अथ शंसावोम् इति स्तोत्रियायानुरूपायोक्थमुखाय परिधानीयाया इति चतुश्चतुर् आह्वयन्ते
चतस्रो वै दिशः [एद्. चसस्रो]
दिक्षु तत् प्रतितिष्ठन्ति
अथो चतुष्पादः पशवः
पशूनाम् आप्त्यै
अथो चतुष्पर्वाणो हि प्रातःसवने होत्रकास्
तस्माच् चतुः सर्वे गायत्राणि शंसन्ति
गायत्रं हि प्रातःसवनम्
सर्वे समवतीभिः परिदधति
तद् यत् समवतीभिः परिदधति
अन्तो वै पर्यासः
अन्त उदर्कः
अन्तेनैवान्तं परिदधति
सर्वे मद्वतीभिर् यजन्ति
तद् यन् मद्वतीभिर् यजन्ति सर्वे सुतवतीभिः पीतवतीभिर् अभिरूपाभिर् यजन्ति
यद् यज्ञे ऽभिरूपं तत् समृद्धम्
सर्वे ऽनुवषट्कुर्वन्ति
स्विष्टकृत्वानुवषट्कारः
नेत् स्विष्टकृतम् अन्तरयामेति
अयं वै लोकः प्रातःसवनम्
तस्य पञ्च दिशः पञ्चोक्थानि प्रातःसवनस्य
स एतैः पञ्चभिर् उक्थैर् एताः पञ्च दिश आप्नोत्य् एताः पञ्च दिश आप्नोति ॥ १६ ॥
2.3.17
घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्ति
यज्ञं वा एतद् धन्ति यद् दक्षिणा नीयन्ते
यज्ञं वा एतद् दक्षयन्ति
तद् दक्षिणानां दक्षिणात्वम्
स्वर्गो वै लोको माध्यंदिनं सवनम्
यन् माध्यंदिने सवने दक्षिणा नीयन्ते स्वर्गस्य लोकस्य समष्ट्यै
बहु देयम्
सेतुं वा एतद् यजमानः संस्कुरुते
स्वर्गस्य लोकस्याक्रान्त्यै प्रजाक्रान्त्यै
द्वाभ्यां गार्हपत्ये जुहोति
अध्वर्युर् अस्याक्रान्तेनाक्रामयति
आग्नेय्याग्नीध्रीये
अन्तरिक्षं तेन
यन् माध्यंदिने सवने दक्षिणा नीयन्ते स्वर्ग एतेन लोके
हिरण्यं हस्ते भवति
अथ नयति
सत्यं वै हिरण्यम्
सत्येनैवैनं तन् नयति
अग्रेण गार्हपत्यं जघनेन सदो ऽन्तराग्नीध्रीयं च सदश् च
ता उदीचीर् अन्तराग्नीध्रीयं च सदश् च चात्वालं चोत्सृजन्ति
एतेन ह स्म वा अङ्गिरसः स्वर्गं लोकम् आयन्
ता वा एताः पन्थानम् अभिवहन्ति ॥ १७ ॥
2.3.18
अग्नीधे ऽग्रे ददाति
यज्ञमुखं वा अग्नीत्
यज्ञमुखेनैव तद् यज्ञमुखं समर्धयति
ब्रह्मणे ददाति
प्राजापत्यो वै ब्रह्मा
प्रजापतिम् एव तया प्रीणाति
ऋत्विग्भ्यो ददाति
होत्रा एव तया प्रीणाति
सदस्येभ्यो ददाति
सोमपीथं तया निष्क्रीणीते
न हि तस्मा अर्हति सोमपीथं तया निष्क्रीणीयात्
यां श्रुश्रुवुष आर्षेयाय ददाति देवलोके तयार्ध्नोति
याम् अश्रुश्रुवुषे ऽनार्षेयाय ददाति मनुष्यलोके तयार्ध्नोति
याम् अप्रसृप्ताय ददाति वनस्पतस् तया प्रथन्ते
यां याचमानाय ददाति भ्रातृव्यं तया जिन्वीते
यां भीषा क्षत्रं तया ब्रह्मातीयात्
यां प्रतिनुदन्ते सा व्याघ्री दक्षिणा
यस् तां पुनः प्रतिगृह्णीयाद् व्याघ्र्य् एनं भूत्वा प्रव्लीनीयात्
अन्यया सह प्रतिगृह्णीयात्
अथ हैनं न प्रव्लीनाति ॥ १८ ॥
2.3.19
यद् गां ददाति वैश्वदेवी वै गौः
विश्वेषाम् एव तद् देवानां तेन प्रियं धामोपैति
यद् अजं ददात्य् आग्नेयो वा अजः
अग्नेर् एव तेन प्रियं धामोपैति
यद् अविं ददात्य् आव्यं तेनावजयति
यत् कृतान्नं ददाति मांसं तेन निष्क्रीणीते
यद् अनो वा रथो वा ददाति शरीरं तेन
यद् वासो ददाति ब्रृहस्पतिं तेन
यद् धिरण्यं ददात्य् आयुस् तेन वर्षीयः कुरुते
यद् अश्वं ददाति सौर्यो वा अश्वः
सूर्यस्यैव तेन प्रियं धामोपैति
अन्ततः प्रतिहर्त्रे देयम्
रौद्रौ वै प्रतिहर्ता
रुद्रम् एव तन् निरवजयति
यन् मध्यतः प्रतिहर्त्रे दद्यान् मध्यतो रुद्रम् अन्ववयजेत्
स्वर्भानुर् वा आसुरः सूर्यं तमसाविध्यत्
तद् अत्रिर् अपनुनोद
तद् अत्रिर् अन्वपश्यत्
यद् आत्रेयाय हिरण्यं ददाति तम एव तेनापहते
अथो ज्योतिर् उपरिष्टाद् धारयति
स्वर्गस्य लोकस्य समष्ट्यै ॥ १९ ॥
2.3.20
अथात एकाहस्यैव माध्यंदिनम्
ऋक् च वा इदम् अग्ने साम चास्तां
सैव नामर्ग् आसीत्
अमो नाम साम
सा वा ऋक्सामोपावदन् मिथुनं संभवाव प्रजात्या इति
नेत्य् अब्रवीत् साम
ज्यायान् वा अतो मम महिमेति
ते द्वे भूत्वोपावदताम्
ते न प्रति चन समवदत
तास् तिस्रो भूत्वोपावदन्
यत् तिस्रो भूत्वोपावदंस् तत् तिसृभिः समभवत्
यत् तिसृभिः समभवत् तस्मात् तिसृभिः स्तुवन्ति
तिसृभिर् उद्गायन्ति
तिसृभिर् हि साम संमितं भवति
तस्माद् एकस्य बह्व्यो जाया भवन्ति
न हैकस्या बहवः सह पतयः
यद् वै तत् सा चामश् च समवदतां तत् सामाभवत्
तत् साम्नः सामत्वम्
सामन् भवति
श्रेष्ठतां गच्छति
यो वै भवति स सामन् भवति
असामन्य इति ह निन्दन्ते
ते वै पञ्चान्यद् भूत्वा पञ्चान्यद् भूत्वाकल्पेताम् आहावश् च हिंकारश् च प्रस्तावश् च प्रथमा चर्ग् उद्गीथश् च मध्यमा च प्रतीहारश् चोत्तमा च निधनं च वषट्कारश् च ते यत् पञ्चान्यद् भूत्वा पञ्चान्यद् भूत्वाकल्पेतां तस्माद् आहुः पाङ्क्तो यज्ञः
पाङ्क्ताः पशव इति
यद् उ विराजं दशिनीम् अभिसंपद्येतां तस्माद् आहुर् विराजि यज्ञो दशिन्यां प्रतिष्ठित इति
यद् उ बृहत्या प्रतिपद्यते बार्हतो वा एष य एष तपति
तद् एनं स्वेन रूपेण समर्धयति [एद्. रुपेण]
द्वे तिस्रः करोति पुनरादायम्
प्रजात्यै रूपम्
द्वाव् इवाग्रे भवतस्
तत उपप्रजायेते ॥ २० ॥
2.3.21
आत्मा वै स्तोत्रियः
प्रजा अनुरूपः
पत्नी धाय्या
पशवः प्रगाथः
गृहाः सूक्तम्
यद् अन्तरात्मंस् तन् निवित्
प्रतिष्ठा परिधानीयान्नं याज्या
सो ऽस्मिंश् च लोके भवत्य् अमुष्मिंश् च प्रजया च पशुभिश् च गृहेषु भवति य एवं वेद ॥ २१ ॥
2.3.22
स्तोत्रियं शंसति
आत्मा वै स्तोत्रियः
स मध्यमया वाचा शंस्तव्यः
आत्मानम् एवास्य तत् कल्पयत्य् अनुरूपं शंसति
प्रजा वा अनुरूपः
तस्मात् प्रतिरूपम् अनुरूपं कुर्वन्ति
प्रतिरूपो हैवास्य प्रजायाम् आजायते नाप्रतिरूपः
तस्मात् प्रतिरूपम् अनुरूपं कुर्वन्ति
स उच्चैस्तराम् इव शंस्तव्यः
प्रजाम् एवास्य तच् छ्रेयसीं करोति
धाय्यां शंसति
पत्नी वै धाय्या
सा नीचैस्तराम् इव शंस्तव्या
अप्रतिवादिनी हैवास्य गृहेषु पत्नी भवति यत्रैवंविद्वान् नीचैस्तरां धाय्यां शंसति
प्रगाथं शंसति
पशवो वै प्रगाथः
सः स्वरवत्या वाचा शंस्तव्यः
पशवो वै प्रगाथः
पशवः स्वरः
पशूनाम् आप्त्यै
सूक्तं शंसति
गृहा वै सूक्तम्
प्रतिवीतम्
तत् प्रतिवीततमया वाचा शंस्तव्यम्
स यद्य् अपि ह दूरात् पशूंल् लभते गृहान् एवैनान् आजिगमिषति
गृहा हि पशूनां प्रतिष्ठा
निविदं शंसति
यद् अन्तरात्मंस् तन् निवित्
तद् एवास्य तत् कल्पयति
परिधानीयां शंसति
प्रतिष्ठा वै परिधानीया
प्रतिष्ठायाम् एवैनं ततः प्रतिष्ठापयति
याज्यया यजति
अन्नं वै याज्या
अन्नाद्यम् एवास्य तत् कल्पयति
ज्मूलं वा एतद् यज्ञस्य यद् धाय्याश् च याज्याश् च
क्तद् यद् अन्या अन्या धाय्याश् च याज्याश् च कुर्युर् उन्मूलम् एव तद् यज्ञं कुर्युस् तस्मात् ताः समान्य एव स्युः ॥ २२ ॥
2.3.23
तद् आहुः किंदेवत्यो यज्ञ इति
ऐन्द्र इति ब्रूयात्
ऐन्द्रे वाव यज्ञे सति यथाभागम् अन्या देवता अन्वायंस् ताः प्रातःसवने मरुत्वतीये तृतीयसवने च
अथ हैतत् केवलम् एवेन्द्रस्य यद् ऊर्ध्वं मरुत्वतीयात्
तस्मात् सर्वे निष्केवल्यानि शंसन्ति
यद् एव निष्केवल्यानि तत् स्वर्गस्य लोकस्य रूपम्
यद् व् एव निष्केवल्यान्य् एकं ह वा अग्रे सवनम् आसीत् प्रातःसवनम् एव
अथ हैतं प्रजापतिर् इन्द्राय ज्येष्ठाय पुत्रायैतत् सवनं निरमिमीत यन् माध्यंदिनं सवनम्
तस्मान् माध्यंदिने सवने सर्वे निष्केवल्यानि शंसन्ति
यद् एव निष्केवल्यानि तत् स्वर्गस्य लोकस्य रूपम्
यद् व् एव निष्केवल्यानि या ह वै देवताः प्रातःसवने होता शंसति ताः शस्त्वा होत्राशंसिनो ऽनुशंसन्ति मैत्रावरुणं तृचं प्रउगे होता शंसति
तद् उभयं मैत्रावरुणं मैत्रावरुणो ऽनुशंसति
ऐन्द्रं तृचं प्रउगे होता शंसति
तद् उभयम् ऐन्द्रम्
ऐन्द्रं ब्राह्मणाच्छंस्य् अनुशंसति
ऐन्द्राग्नं तृचं प्रउगे होता शंसति
तद् उभयम् ऐन्द्राग्नाग्नम् अच्छावाको ऽनुशंसति
अथ हैतत् केवलम् एवेन्द्रस्य यद् ऊर्ध्वं मरुत्वतीयात्
तस्मात् सर्वे निष्केवल्यानि शंसन्ति
यद् एव निष्केवल्यानि तत् स्वर्गस्य लोकस्य रूपम्
यद् व् एव निष्केवल्यानि <यदेद् अदेवीर् असहिष्ट माया अथाभवत् केवलः सोमो अस्य [ऋ. ७.९८.५, शौ.सं. २०.८७.५]>इत्य् ऋचाभ्यनूक्तम्
देवान् ह यज्ञं तन्वानान् असुररक्षांस्य् अजिघांसन्
ते ऽब्रुवन् वामदेवं त्वं न इमं यज्ञं दक्षिणतो गोपायेति
मध्यतो वसिष्ठम्
उत्तरतो भरद्वाजम्
सर्वान् अनु विश्वामित्रम्
तस्मान् मैत्रावरुणो वामदेवान् न प्रच्यवते वसिष्ठाद् ब्राह्मणाच्छंसी भरद्वाजाद् अच्छावाकः सर्वे विश्वामित्रात्
एत एवास्मै तदृषयो ऽहरहर् नमगा अप्रमत्ता यज्ञं रक्षन्ति य एवं वेद य एवं वेद ॥ २३ ॥

इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे तृतीयः प्रपाठकः ॥