Book Name : तर्कभाषा प्रकाशिका
Author : श्री मिश्रा केशव और गोवर्धन
Commentator : श्री के. मिश्रपरिमल
Publication : परिमल् पब्लिकेशन्स्, नई दिल्ली
Year of Publishing : 2005
Project Name : Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center : DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by :
Proofcheck by :
Sandhi Splitted by : शिवानन्द शुक्ल
Sandhichecked by : शिवानन्द शुक्ल
Samasa Tagged by : शिवानन्द शुक्ल
?97.
Tarka ? Bhasa
श्री चिन्नं [चेन्न] भट्टविरचिता
तर्कभाषाप्रकाशिका टीका ।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थं महेश्वरम् ॥ १ ॥
सकृन्नत्वापि यं लोको लभते शान्तिसंपदम् ।
स नः पायादपायेभ्यो योगानन्दनकेसरी ॥ २ ॥
भवसंचितपापौघविध्वंसनविचक्षणम् ।
विघ्नान्धकारभास्वन्तं विघ्नराजमहं भजे ॥ ३ ॥
चिकीर्षितस्य ग्रन्थस्य निष्प्रत्यूहपरिपूरणाय शिष्टाचारपरिप्राप्तविशिष्टेष्टदेवताप्रणामं मनसा विधाय तत्र प्रेक्षावतां प्रवृत्तिसिद्धये विषयप्रयोजने निर्दिशंश्चिकीर्षितं प्रतिजानीते --
बालोऽपि यो न्यायनये प्रवेशमल्पेन वाञ्छत्यलसः श्रुतेन ।
संक्षिप्तयुक्त्यन्विततर्कभाषा विरच्यते तस्य कृते मयैषा ।
१
बालोऽपि य इति ।
एषा मया प्रकाश्यत इति क्रियाकारकप्रयोजनम् ।
एषेति केत्याकाङ्क्षायामाह ? तर्कभाषेति ।
तर्कशास्त्रे प्रमाणादयः पदार्था ईदृग्लक्षणा इयन्त एवेति तेषां स्वरूपकथनम् ।
यद्वा तर्कशब्देन प्रमाणादयः पदार्था उपलक्ष्यन्ते ।
ते भाष्यन्ते यत्र यथेति वा सा तर्कभाषेत्यर्थः ।
कस्मै प्रकाश्यत इत्यत आह ? तस्य कृत इति ।
कृते इत्यव्ययं तादर्थ्ये ।
'काव्यं यशसेऽर्थ'कृते - इत्यत्र सांधिविग्रहके कृतं इत्येतत्तथा व्याख्यातम् ।
यद्वा क्रियत इति कृच्छब्दः क्विबन्तः कर्मणि निष्पन्नः प्रयोजनवचनः ।
तथा च तस्य कृत इति तदर्थमित्यर्थः ।
यत्तदोर्नित्य संबन्धात् तच्छब्दो यच्छब्दमपेक्षत इत्यत आह ? य इति ।
विशेष्यं निर्दिशति - बाल इति ।
प्रमाणादिपदार्थज्ञानशून्यस्तज्जिज्ञासुर्ग्रहणधारणादिपटुर्बालशब्देन विवक्षितो नार्भकः ।
बालवत् प्रेमपूर्वकं बोधनार्थं बालपदप्रयोगः ।
नन्वनाकाङ्क्षतस्तत्प्रकाशनमनुचितमित्यत आह ? वाञ्छतीति ।
वाञ्छतेः सकर्मकत्वात् कर्माकाङ्क्षायामाह ? प्रवेशमिति ।
कुत्रेत्यपेक्षायां कथयति - न्यायनय इति ।
नीयते ज्ञाप्यते विवक्षितोऽर्थो येनेति करणव्युत्पत्त्या न्यायोऽनुमानम् ।
अत एवोक्तं भासर्वज्ञेनानुमाननिरूपणावसाने - 'सोऽयं परमो न्यायः' इति ।
नीयते प्रतिपाद्यतेऽनेन न्याय इति नयशब्दः शास्त्रवचनः ।
न्यायनयो न्यायशास्त्रम् ।
तत्प्रधानत्वात्तद्व्यपदेशस्तस्मिन्निति भावः ।
ननु न्यायशास्त्रे प्रवेशं वाञ्छतीत्यतश्चिरंतनमेव निबन्धनं व्याख्यायताम् ।
किं कृतेनानेन नूतननिर्माणप्रयासेनेत्यत आह?अलस इति ।
वाञ्छन्नप्यलसः ।
विस्तृतत्वात्तत्रानधिकारीत्यर्थः ।
तर्हि कथमत्राधिकारी भविष्यतीत्यत्र कथयति - अल्पेन श्रुतेनोति ।
श्रुतं श्रवणम् ।
भावे निष्ठा ।
नपुंसके भावे क्तविधानात् ।
99.
तत्र बहु श्रोतव्यमत्राल्पश्रवणेनेष्टसिद्धिरित्यर्थः ।
ननु बहुश्रवणसाध्यस्य अल्पश्रवणेन कथं सिद्धिरित्यत आह ? संक्षिप्ये(प्ते)ति ।
तत्र यावानर्थः प्रतिपादितस्तावानत्र संक्षिप्य प्रकाश्यत इत्यर्थः ।
ननु संक्षिप्य प्रकाशने भूमिकाधारकवाक्यवदनादरणीयता स्यात्तत्राह ? युक्त्यन्वितेति ।
प्रकाश्यत इत्यनेन शास्त्रस्थितमेव प्रकाश्यते न तु नूतनं किंचिदुत्प्रेक्ष्यत इति प्रमाणमूलत्वेनास्यार्थवत्ता दर्शिता ।
अस्य ग्रन्थस्य प्रकरणत्वाच्छास्त्रस्य ये विषयप्रयोजने ते एवास्यापीति द्रष्टव्यम् ।
एतत्प्रकरणप्रवर्तके अवान्तरे विषयप्रयोजने त्वाद्यपद्येन निर्दिष्टे ।
प्रकाश्यमाना तर्कभाषा विषयः, बालं प्रति तत्प्रतिबोधनं प्रयोजनम् ।
ननु शास्त्रस्यापि के विषयप्रयोजने येन तद्विषयादिनास्यापि विषयादिमत्त्वं सिद्ध्येदित्याशङ्क्य तद्विषयप्रयोजनप्रतिपादनपरं शास्त्रस्यादिमं सूत्रं पठति - प्रमाणेति ।
बह्वर्थसूचनात्सूत्रम् ।
तदुक्तम्-
अल्पाक्षरसंदिग्धं सारवद्विश्वतोमुखम् ।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥ इति ।
न्यायस्य न्यायशास्त्रस्येत्यर्थः ।
भीमो भीमसेन इत्यादिवन्नामैकदेशेन नामग्रहणम् ।
शिष्यते शिष्येभ्योऽनेन तत्त्वं प्रतिपाद्यत इति व्युत्पत्त्या शास्त्रं सूत्रसंदर्भः ।
अत एवास्य सूत्रस्य तदादित्वव्यवहारो युज्यते ।
लोके सजातीयापेक्षयैव तदादित्वव्यवहारदर्शनादिति ।
ननु तत्त्वज्ञानान्निःश्रेयसाधिगम इत्युक्तं तदयुक्तम् ।
तस्य भावस्तत्त्वमित्यादि ।
बहुविकल्पसंभवेन तत्त्वशब्दार्थस्य निश्चेतुमशक्यत्वात् ।
किं च निःश्रेयसशब्देनापि किं विवक्षितमिति न ज्ञायते ।
पुत्रप्राप्त्यादिरूपस्यानेकस्य श्रेयसो विद्यमानत्वात् ।
तथा निःश्रेयसाधिगम इत्युक्ते निःश्रेयसज्ञानं प्रतीयते ।
तदनुपपन्नम् ।
साध्यसाधनभावादिसंबन्धमन्तरेणान्यज्ञानादन्यज्ञानायोगात् ।
इष्टानिष्टप्राप्तिपरिहारयोरेव पुरुषार्थत्वेन निःश्रेयसज्ञानस्य तदन्यतरत्वा(त्ता)भावेनापुरुषार्थत्वाच्चेतीमामाशङ्कां मनसि परिवर्तमानां छेत्तुं प्रतिजानीते - अस्यार्थ इति ।
उच्यत इति शेषः ।
यथा भवदीयासङ्का छिद्यते तथोच्यत इत्यर्थः ।
प्रतिज्ञातार्थमाह ? प्रमाणादीति ।
अनारोपितरूपत्वापरपर्यायं सम्यक्त्वं तत्त्वशब्दार्थः ।
अत एवोत्तरग्रन्थे वक्ष्यति - तत्त्वज्ञानं सम्यग् ज्ञानमिति - रूढिर्योगमपहरतीति न्यायेनावयवार्थानुस्यूतेरविवक्षितत्वान्नोक्तविकल्पावकाशः ।
निश्चितं श्रेयो निःश्रेयसं मोक्षः ।
तस्यैव श्रेयस्त्वेन निश्चितत्वात् ।
इतरेषां श्रेयसां सातिशयत्वेन क्षयिष्णुत्वेन च तदाभासत्वात् ।
निःश्रेयसशब्दस्याकारान्तत्वं 'अचतुर' ? (पा. ५-४-७७) इत्यादिसूत्रे निपातनात् सिद्धम् ।
अधिगमः प्राप्तिः ।
न ज्ञानम् ।
अतो नोक्तदोषप्रसङ्गः ।
तदनेन प्रमाणादयः पदार्थाः प्रतिपाद्यत्वेन विषयः ।
तत्त्वज्ञानं मोक्षसाधनत्वात् प्रयोजनम् ।
तत्कामोऽधिकारी ।
शास्त्रस्य च पदार्थानां च प्रतिपाद्यप्रतिपादकभावः संबन्धः ।
शास्त्रस्य तत्त्वज्ञानस्य च कार्यकारणभावः, तत्त्वज्ञानस्य पदार्थानां विषयविषयिभाव इत्यनुबन्धचतुष्टयं प्रवृत्त्यङ्गं द्रष्टव्यमिति ॥
101.
ननु प्रमाणादीनां तत्त्वज्ञानं प्रथमसूत्रपाठेनैव जातम् ।
विदितपदपदार्थसंगतिकस्य पुंसः शब्दश्रवणादर्थप्रतिपत्त्युपपत्तेः ।
अतः किमर्थमुत्तरग्रन्थसंदर्भ इत्यत आह ? न चेति ।
जातमपि ज्ञानं लक्षणपरीक्षे विना निर्विचिकित्सं न भवति ।
अनधिगतार्थगन्तृप्रमाणमिति भाट्टाः कथयन्ति ।
अविसंवादि विज्ञानं प्रमाणमिति सौगताः ।
प्रमाकरणं प्रमाणमिति नैयायिकाः ।
इत्यादिना प्रकारेण प्रमाणादिशब्दार्थे वादिनां विवाददर्शनात् ।
अतस्तदर्थं लक्षणपरीक्षाप्रतिपादनपरेणोत्तरग्रन्थजातेन भवितव्यमित्यर्थः ।
उद्देशलक्षणपरीक्षाणां कर्तव्यमुक्तम् ।
प्राचीने ग्रन्थे तत्स्वकपोलकल्पितं न भवति किंतु भाष्यकारेण भाषितमिति भाषते - यदाहेति ।
भाष्यकारो यदाह तदेवोक्तं मयापीत्यर्थः ।
यच्छब्दार्थमाह ? त्रिविधेति ।
तिस्रो विधा यस्याः सा तथोक्ता प्रवृत्तिर्व्यवहार इत्यर्थः ।
ननु सर्वस्यापि शास्त्रस्य प्रवृत्तित्रैविध्यं किमस्ति नेत्याह - अस्येति ।
नान्यस्येत्यर्थः ।
ता एव विधा दर्शयति - उद्देश इति ।
उद्देशो विभागो लक्षणं परीक्षा चेति प्रवृत्तिचातुर्विध्ये वक्तव्ये त्रैविध्यकथनमयुक्तमिति चेन्नैवम् ।
विभागस्य विशेषनाममात्रकीर्तनरूपत्वेनोद्देश एवान्तर्भावात् ।
अतस्त्रैविध्यकथनं युक्तमिति तात्पर्यम् ।
[सति] धर्मिणि धर्माश्चिन्त्यन्त इति न्यायेन धर्मधर्मिणोर्धर्मिणि एव प्रधानत्वाद्धर्मिकीर्तनरूपस्योद्देशस्य प्रथममुद्देशो युक्तः ।
परीक्षाया लक्षणविचारात्मकत्वेन परीक्षायाः पूर्वं लक्षणस्योद्देशः ।
अनन्तरमवशिष्टायाः परीक्षाया उद्देश इति विभागः ।
प्रथमोद्दिष्टस्योद्देशस्य प्रथमं लक्षणमाह ? उद्देश इति ।
नाम्ना कीर्तनं लक्षणवाक्ये विद्यते ।
अतो नाम्ना कीर्तनमुद्देश इत्युक्ते तत्रातिव्याप्तिः स्यात् ।
तन्निवारणार्थमुक्तं
102.
नाममात्रेणेति ।
लक्षणस्य त्रीणि दूषणानि विद्यन्ते ।
अव्याप्तिरतिव्याप्तिरसंभवश्चेति ।
लक्ष्यैकदेशे लक्षणस्यावर्तनमव्याप्तिः ।
अलक्ष्ये लक्षणस्य प्रवर्तनमतिव्याप्तिः ।
लक्षणस्य लक्ष्ये क्वाप्यवर्तनमसंभवः ।
तस्मादतिव्याप्तेरपि दोषत्वात्तन्निवृत्यर्थं लक्षणवाक्ये मात्रविशेषणं प्रक्षेप्तव्यम् ।
तर्हि उद्देशः कर्तव्य इत्यकाङ्क्षायां प्रथमसूत्रे एव कृत इत्याह ? तच्चेति ।
संकीर्तनापेक्षया तदिति नपुंसकलिङ्गनिर्देशः ।
लक्षणस्य लक्षणं लक्षयति - लक्षणमिति ।
असाधारणधर्म इत्येव लक्षणस्य लक्षणम् ।
वचनग्रहणं प्रमादाल्लेखकदोषाद्वा समागतम् ।
तत्र धर्मो लक्षणमित्युक्ते साधारणधर्मेऽतिव्याप्तिः ।
सजातीयविजातीयव्यावर्तकधर्मस्यैव लक्षणत्वेन साधारणधर्मस्य तदभावात् ।
अतस्तदर्थमुक्तम् - असाधारणेति ।
लक्षणवाक्याभिप्रायेण वा वचनग्रहणस्योपपत्तिलक्षणं वाक्यमित्यर्थः ।
तदुदाहृत्य दर्शयति - यथेति ।
असाधारणधर्मस्य लक्षणत्वं यथा स्पष्टं भवति तथोच्यत इत्यर्थः ।
अत्र सास्नादीत्यादिशब्देन लाङ्गूलककुदखुरविषाणानां ग्रहणम् ।
परीक्षाया लक्षणमाह ? लक्षितस्येति ।
विचारः परीक्षेति लक्षणम् ।
अवशिष्टेन विचारमेवाभिनीय दर्शयति - लक्षितस्येत्यादिना ।
इयता प्रबन्धेनोपपादितं लक्षणपरीक्षयोः कर्तव्यत्वं निगमयति तेनेति ।
येन कारणेन प्रथमसूत्रे उद्देशमात्रस्य कृतकत्वादवशिष्टे लक्षणपरीक्षे तेन कारणेनेत्यर्थः ।
ननु प्रमाकरणमिति प्रमाणस्य प्रथमं लक्षणं कथ्यते ।
तन्न घटते ।
प्रमेयादीनामनेकेषां पदार्थानां सद्भावात् ।
अथ सूत्रकारेण प्रथममुद्दिष्टत्वात् उद्देशानुसारेण लक्षणं वक्तव्यमिति ।
यस्य विद्यमानत्वाच्च प्रथममुच्यते इति चेत् तर्हि सूत्रकारो वा किमिति प्रमेयाद्यनुद्देशेन प्रमाणं प्रथममुद्दिष्टवान् ।
सत्यम् ।
मानाधीना मेयसिद्धिरिति न्यायेन सूत्रकारेण प्रथममुद्दिष्टं तदनुसारेण प्रमाणलक्षणं प्रथममुच्यत इत्याह ? तत्रापीति ।
तेषु प्रमाणादिपदार्थेष्वित्यर्थः ।
तावच्छब्दः क्रमार्थः ।
क्रमेण प्रमेयादेरपि लक्षणं लक्ष्यत इत्यभिप्रायः ।
प्रमाकरणमिति प्रमाया यत्करणं तत्प्रमाणम् ।
अत्र च प्रमीयते येन तत्प्रमाणमिति करणव्युत्पत्तिराश्रयणीया ।
ननु प्रमितिः प्रमाणमिति भावव्युत्पत्तिः अप्रमितिरूपस्यापि चक्षुरादेः प्रमाकरणत्वाभ्युपगमात् ।
प्रमितिः प्रमाणमित्युक्ते बोधस्वभावस्यैव प्रमाणत्वं स्यान्नाबोधस्वभावस्य ।
तस्माद्बोधस्वभावस्य चाबोधस्वभावस्य च प्रमाणत्वमस्तीति करणव्युत्पत्तिरेवाश्रयणीयेति पूर्वापरपर्यालोचनविधुरं मन्दं प्रति लक्ष्यलक्षणविभागं करोति - तत्रेति ।
तत्र लक्षणवाक्ये प्रमाकरणमित्यनेन लक्षणं निर्दिश्यते ।
प्रमाणमित्यनेन लक्ष्यमित्यर्थः ।
ननु प्रमाकरणं चेत् प्रमाणं तर्हि तस्य फलं वक्तव्यम् ।
यद्यत्करणं तत्तत्फलवदिति व्याप्तेः सद्भावात् इत्यभिप्रायेण शङ्कते - नन्विति ।
नियमो व्याप्तिरित्यर्थः ।
परिहरति - सत्यमिति ।
अर्धाङ्गीकारे सत्यशब्दः प्रयोज्यः ।
नियमोऽङ्गीक्रियते वक्तव्यत्वं नाङ्गीकृतमुक्तत्वादित्यभिप्रायः ।
फलशब्दस्याप्यर्थो न ज्ञायते इति वदन्तं प्रत्याह ? फलं साध्यमिति ।
फलनिष्पत्तावित्यस्माद्धातोर्निष्पन्नत्वात् फलशब्दस्य साध्यत्वमर्थ इत्यर्थः ।
अत्रानुरूपं दृष्टान्तं स्फुटमाचष्टे - छिदाकरणस्येति ।
छिदा द्वैधीभाव इति भावः ।
प्रमास्वरूपमजानानस्तज्जिज्ञासुः पृच्छति-
104.
का पुनरिति ।
प्रमा कीदृशीत्यर्थः ।
प्रमाणलक्षणनिरूपणवेलायां प्रमाप्रश्नस्य कः प्रसङ्ग इत्यत आह ? यस्या इति ।
सा प्रमा पृच्छ्यत इति पूर्वेणान्वयः ।
उत्तरं वक्तुं प्रतिजानीते - उच्यत इति ।
प्रमालक्षणमाह ? यथार्थेति ।
यथार्थश्चासावनुभवश्चेति समानाधिकरणसमासः ।
न तु यथार्थशब्दस्य 'अव्ययं विभक्ति-' इत्यादिसूत्रेण ।
अव्ययीभावसमासेऽलिङ्गमव्ययमिति न्यायेन विशेष्यनिघ्नता नास्तीति चेन्मैवम् ।
यथासादृश्ये इत्युत्तरसूत्रेण सादृश्यव्यतिरिक्तेषु योग्यतावीप्सापदार्थानतिवृत्तिलक्षणेषु यथार्थेषु वर्तमानस्य यथाशब्दस्याव्ययीभावस्य विहितत्वात् ।
अत्र च सादृश्यस्य विवक्षितत्वादर्थस्यानुभवस्य चाबाधितत्वं सादृश्यम् ।
तथा चायमर्थः संपन्नः ।
यथा सदृशोऽबाधितोऽर्थो यस्य स तथोक्तः ।
तेन यथार्थत्वमर्थाव्यभिचारित्वमर्थक्रियाकारिविषयत्वं चेत्यादिविकल्पः पराकृतः ।
केचित्तु यथार्थत्वं संबन्ध(न्धि)विशेषणविशिष्टविषयत्वमित्याचक्षते ।
यथार्थपदव्यावर्त्त्यमाह ? यथार्थेति ।
अनवधारणं ज्ञानं संशयः ।
मिथ्याध्यवसायो विपर्ययः ।
व्याप्यारोपे व्यापकारोपस्तर्कस्तज्जनितं ज्ञानमाहार्यारोपरूपत्वेनायथार्थमेव तेषां निरासो व्यावृत्तीक्रियत इत्यर्थः ।
अनुभवपदकृत्यमाह ? अनुभव इति ।
स्मृतेर्निरास इति पूर्वेणान्वयः ।
अनुभवशब्दार्थमाह ? अनुभव इति ।
स्मृतित्वानधिकरणं ज्ञानमनुभव इति भावः ।
प्रमास्वरूपमवगतं करणस्वरूपं नावगम्यत इति पृच्छति - किं पुनरिति ।
सार्वपार्षदं व्याकरणमिति न्यायेन व्याकरणसूत्रेणोत्तरमाह ? साधकेति ।
'अतिशायने तमबिष्ठनौ' - इत्यतिशायने
105.
तमब्विधानात् ।
तमप्प्रत्ययस्यार्थं वदन् विवक्षितमर्थमाह ? अतिशयितमिति ।
क्रियाप्रसिद्धौ यत्प्रकृष्टोपकारकं तत्करणमित्यर्थः ।
अन्ये तु साक्षात्कर्त्रधिष्ठिततमसाध्यं यत्क्रियासाधकं तत् करणमिति संगिरन्ते ।
ननु 'ण्वुल्तृचौ-' इति सूत्रेण कर्तरि ण्वुल्प्रत्ययस्य विहितत्वात्साधयतीति व्युत्पत्त्या साधकत्वं कर्तृरेवोपपद्यते ।
कर्ता चात्र प्रमातैव ।
अतः करणस्य साधकत्वमेव नास्ति ।
साधकतमत्वं तु दूरापास्तमेवेत्याशङ्क्य 'क्रियां कुर्वद् हि कारकम्' इति न्यायेन सर्वेषां कारकाणां स्वव्यापारापेक्षया कर्तृत्वसंभवात् करणस्यापि कारकत्वापरपर्यायं साधकत्वं संभवतीत्यभिप्रायेण परिहरति - प्रकृष्टं कारणमिति ।
ननु साधकशब्दार्थमजानानं प्रति कारणशब्देनार्थः कथ्यते तदसंगतम् ।
साधकशब्दवत् कारणस्याप्यप्रसिद्धत्वात् ।
प्रसिद्धेन ह्यप्रसिद्धं बोधनीयमतस्तेन तद्बोधनमयुक्तमित्याशयेनाशङ्कते - नन्विति ।
परिहरति - उच्यत इति ।
कारणस्य लक्षणमाह ? यस्येति ।
पूर्वभावो नियतोऽवश्यंभावी ।
अनन्यथासिद्धः प्रकारान्तरेणोपयुक्तो न भवतीत्यर्थः ।
लक्षणस्य लक्ष्यानुगतिं दर्शयति - यथेति ।
ननु यस्य कार्यात् पूर्वभावोऽस्ति तत्कारणमित्येतावदस्तु किं नियतग्रहणेनेत्याशङ्क्य तावत्युक्ते दैवादागते रासभादावतिव्याप्तिः स्यात् ।
अतस्तन्निवारणार्थं नियतग्रहणं कृतमित्याह ? यद्यपीत्यादिना नासौ नियत इत्यन्तेन ।
अनन्यथासिद्धपदेन तन्तुगतरूपादावतिव्याप्तिर्निरस्तेति दर्शयितुं तन्तुगतरूपादावुक्तलक्षणसद्भावं दर्शयति - तन्तुरूपस्येति ।
तन्तुगतरूपादेरित्यर्थः ।
ननु तन्तुगतरूपादौ कारणलक्षणमस्ति चेत्तर्हि पटादिकं प्रत्यपि तन्तुरूपादेः कारणत्वमस्त्विति शङ्क्यते - किं त्विति ।
अन्यथा-
106.
सिद्धत्वान्नैतत्कारणमित्याह ? अन्यथेति ।
अन्यथासिद्धत्वे हेतुमाह ? पटरूपेति ।
ननु तन्तुरूपं पटं प्रति पटरूपं च प्रति कारणं भवतु को दोष इत्याह ? पटं प्रत्यपीति ।
समर्थाल्पकल्पना कल्पनालाघवम्, समर्थानल्पकल्पना कल्पनागौरवम् ।
तत्र केवलं तन्तुभिरेव पटोत्पत्त्युपपत्तौ तद्गतरूपस्यापि कारणत्वकल्पनायां कल्पनागौरवदोषः स्यात् ।
तदुक्तं वाचस्पतिमिश्रैः -
'कल्पनालाघवं यत्र तं पक्षं रोचयामहे ।
कल्पनागौरवं यत्र तं पक्षं न सहामहे ॥' इति ॥
उक्तं कारणलक्षणं निगमयति तेनेति ।
येन कारणेन रासभादिव्यावृत्तये तन्तुरूपादिव्यावृत्तये च नियतानन्यथासिद्धपदाभ्यां भवितव्यं तेन कारणेनेत्यर्थः ।
अनन्यथासिद्धश्चासौ नियतश्च स चासौ पूर्वभावश्च सोऽस्यास्तीत्यनन्यथासिद्धनियतपूर्वभावि ।
ननु 'न कर्मधारयान्मत्वर्थीय-' इति विद्यमानत्वात्कथमित्थं कथ्यत इति चेन्न ।
तस्यासार्वत्रिकत्वेन 'कोकप्रीतिचकोरपारणपटुज्योतिष्मती लोचने' इत्यादिवदुपपत्तेः ।
तस्य भावस्तत्त्वमिति भावः ।
ईदृशः प्रयोगश्चिन्त्य इति व्याकरणपारीणा भणन्ति ।
ननु यस्य कार्यात् पूर्वभाव इत्यादिना कारणस्य लक्षणमुक्तं तत्रावधिभूतकार्यापरिज्ञानेऽवधिमत्कारणमपि दुर्विज्ञानं स्यादित्याशङ्क्य तत्परिज्ञानार्थं कार्यलक्षणमाह ? अनन्यथासिद्धेति ।
पश्चाद्भावि कार्यमित्युक्ते दैववशात् पश्चाद्भाविनि रासभादावतिव्याप्तिः स्यादत उक्तम् - नियतेति ।
तावत्युक्ते तन्त्वपेक्षया पटगतरूपस्यापि कार्यता स्यात् तन्निवृत्त्यर्थमुक्तम् - अनन्यथासिद्धेति ।
तस्य भावस्तत्त्वं कार्यत्वमित्यर्थः ।
107.
स्वाभिमतं कारणलक्षणमुक्त्वा परोदीरितं कारणलक्षणं दूषयितुमनुभाषते - यत्त्विति ।
यत्त्वित्यत्रैतस्य यच्छब्दस्य तदयुक्तमित्युत्तरत्र स्थितेन तच्छब्देनान्वयः ।
तुशब्दः पूर्वस्माद्वैषम्यं द्योतयतिः स च नामग्रहणयोग्योऽपि न भवतीति सूचयितुं कश्चिदित्युक्तम् ।
यच्छब्दार्थमाह ? कार्यानुकृतेति ।
कार्येणानुकृतावनुविहितावन्वयव्यतिरेकौ तौ यस्य तत्तथोक्तम् ।
पटलक्षणं कार्यं हि तन्तुलक्षणकारणान्वयव्यतिरेकावनुविधत्ते ।
तस्मिन् सति तद्भावोऽन्वयः, तस्मिन्नसति तदभावो व्यतिरेक इत्यर्थः ।
अनुभाषितं दूषयति - तदयुक्तमिति ।
यत्तु त्वयोक्तं तदयुक्तमित्यर्थः ।
ननु तन्त्वादिलक्षणेषु कारणेषु लक्षणस्य सद्भावात् कथं तदयुक्तमित्युक्तमित्याशङ्क्य सर्वकारणानुगमाभावादव्याप्तमिदं लक्षणमिति वक्तुं तत्र युक्तिमाह ? नित्यविभूनामिति ।
नित्यत्वं कालतो व्यतिरेकाभावे हेतुरुक्तः ।
विभुत्वं देशतो व्यतिरेकाभावे ।
ततश्च शब्दादिकं प्रति कारणत्वेन प्रसिद्धस्य व्योमादेरकारणत्वमनिष्टमित्यर्थः ।
कारणं विभजते - तच्चेति ।
चकारः पक्षान्तरव्यावृत्यर्थः ।
तदनेन निमित्तोपादानकारणद्वयवादो निराकृतः ।
कथं त्रैविध्यमित्यत आह ? समवायीति ।
समवायिकारणमसमवायिकारणं निमित्तकारणमिति त्रिविधं कारणमित्यर्थः ।
प्रधानत्वेन प्रथमं समवायिकारणस्य तत्प्रत्यासन्नत्वेनानन्तरमसमवायिकारणस्य पश्चादवशिष्टस्य निमित्तकारणस्योद्देशः ।
यथोद्देशं समवायिकारणस्य लक्षणमाह ? तत्रेति ।
तत्र तेषु कारणेष्वित्यर्थः ।
तदुदाहृत्य दर्शयति - यथा तन्तव इति ।
तन्तवः समवायिकारणमिति लिङ्गवचनव्यत्ययो नित्यनपुंसकत्वेन जात्यभिप्रायेण च वेदाः प्रमाणमित्यादिवद्द्रष्टव्यः ।
लक्षणानुगतिं दर्शयति - तन्तुष्वेवेति ।
हि प्रसिद्धौ ।
ननु पटः स्वोत्पत्तिवेलायां कारणत्रयसंबद्ध एवोत्पद्यते ।
ततश्चैकत्र समवैति नान्यत्रेत्येतद्वैषम्यं कथमुपपद्यत इत्याशयेनाशङ्कते - नन्विति ।
अर्धाङ्गीकारेण परिहरति - सत्यमिति ।
संबद्धत्वे समानेऽप्येकत्र समवायलक्षणेन संबन्धेन संबन्धः, अपरत्र संयोगलक्षणेनेति वैषम्यमस्तीति वक्तुं संबन्धद्वैविध्यमभिधत्ते - द्विविध इति ।
ते एव द्वे विधे दर्शयति - संयोग इति ।
प्रत्यक्षत्वेन प्रसिद्धं संयोगं प्रथममुद्दिश्य समवायनिरूपणाधीननिरूपणत्वेन संयोगं परित्यज्य समवायस्य प्रथमं लक्षणमाह - तत्रायुतसिद्धयोरिति ।
संयोगस्य लक्षणमाह - अन्ययोरिति ।
युतसिद्धयोः संबन्धः संयोग इत्यर्थः ।
'यु मिश्रणामिश्रणयोः' इत्यस्य धातोः प्रतियोगितदभाववाचकत्वेन तयोरर्थयोः कतरस्मिन्नर्थे पर्यवसानमित्यभिप्रायेण पृच्छति - काविति ।
अमिश्रणार्थत्वमत्र विवक्षितमित्याह ? ययोर्मध्य इति ।
संबन्धो हि संबन्धिभ्यां भिन्नस्तदाश्रितश्चैकश्चेति ।
संबन्धस्य द्विनिष्ठत्वाद् ययोः संबन्धिनोर्मध्ये एकः संबन्ध्यपरं संबन्धिनमाश्रित्यैवावतिष्ठति तावयुतसिद्धौ ।
अपृथक्सिद्धावित्यर्थः ।
अस्मिन्नर्थे ग्रन्थान्तरसंवादं दर्शयति - तदुक्तमिति ।
अयुतसिद्धावुदाहृत्य दर्शयति - यथेति ।
तन्त्वादिरवयवः, पटादिरवयवी ।
रूपादिर्गुणः, पृथिव्यादिर्गुणी ।
उत्क्षेपणापक्षेपणादिरूपा क्रिया, तदाधारः क्रियावान् ।
सत्ता द्रव्यत्वादिर्जातिः, पृथिव्यादिर्व्यक्तिः ।
पञ्चमपदार्थो व्यावर्तकशिरोमणित्वेन प्रसिद्धो यावन्नित्यद्रव्यवृत्तिर्यः स विशेषः, नित्यानि तु द्रव्याणि पृथिव्यप्तेजोवायुरूपाश्चतुर्विधाः परमाणवः, आकाशकालदिगात्ममनांसि ।
ननु तन्तवः
109.
पटव्यतिरेकेणान्याश्रिता अवतिष्ठन्ते ।
तत्कथमयुतसिद्धत्वं तन्तुपटयोरित्याशङ्क्य पटस्तन्तुव्यतिरेकेण नावतिष्ठत इति परिहरन् पञ्चसु स्थलेष्वपृथक्सिद्धत्वं दर्शयति - अवयव्यादय इति ।
किं सर्वदेत्थमवतिष्ठन्ते ।
नेत्याह ? अविनश्यन्त इति ।
विनश्यन्तः कथमित्याह ? विनश्यदिति ।
विनश्यन्त्यवस्था येषां ते तथोक्ताः ।
विनश्यतामाश्रयमन्तरेणावस्थानमुदाहरणमुखेन दर्शयति - यथेति ।
अथ केयं विनश्यत्तेत्यत आह ? विनश्यत्तेति ।
विनश्यतां भावो विनश्यत्ता ।
विनाशे ध्वंसे यानि कारणानि तेषां सामग्री पौष्कल्यं तस्य संनिधिरेव सांनिध्यमित्यर्थः ।
नन्ववयवावयव्यादीनामयुतसिद्धत्वमस्तु तन्तुपटयोः किमायातमत आह ? तन्तुपटाविति ।
फलितमाह ? तेनेति ।
येनावयवावयविभावस्तेनेत्यर्थः ।
तत्र हेतुमाह ? अयुतसिद्धत्वादिति ।
ननु तन्तुपटवत् पटतुर्योरपि किं समवायोऽस्ति ।
नेत्याह ? पटतुर्योरिति ।
पटतुर्योस्तथा न भवतीत्यर्थः ।
कुत इत्याह ? अयुतेति ।
अयुतसिद्ध्यभावमेव दर्शयति - न हि तुरीति ।
तुरीपटौ परस्परपरिहारेण पृथगाश्रयाश्रितत्वेन पृथक्सिद्धावित्यर्थः ।
कस्तर्हि तुरीपटयोः संबन्ध इत्यत आह ? अत इति ।
यतस्तौ पृथक्सिद्धावत इत्यर्थः ।
उपपादितं पटस्य तन्तुसमवेतत्वं निगमयति - तदेवमिति ।
तत्तस्मात् कारणदेवमुक्तया रीत्या पटस्तन्तुसमवेतो न तुर्यादिसमवेत इति भावः ।
एवमपि तन्तूनामेव समवायिकारणत्वं कथमित्याशङ्क्य समवायिकारणलक्षणयोगादिति व्यक्तमुक्तं तल्लक्षणं स्मारयति - यत्समवेतमिति ।
परमप्रकृतमुपसंहरति - अत इति ।
समवायिकारणलक्षणयोगादित्यर्थः ।
एवकारो व्यवच्छेदं दर्शयति - न तुर्यादीति ।
ननु तन्तुवत्पटोऽपि किं समवायिकारणं भवति? पटः स्वगतरूपादिकं प्रतीत्याह ? पटश्चेति ।
उक्तं न्यायमन्यत्राप्यतिदिशति - एवं मृत्पिण्ड इति ।
समवायिकारणलक्षणयोगान्मृत्पिण्डो घटं प्रति समवायिकारणम् घटश्च स्वगतरूपादिकं प्रतीत्यर्थः ।
ननु घटस्य तद्गतरूपादेश्च समानसमयोत्पन्नत्वेन पूर्वापरभावनिबन्धनः कार्यकारणभावो न संभवतीति शङ्कते - ननु यदैवेति ।
यदा यस्मिन् काले तदा तस्मिन् काल इत्यर्थः ।
अस्तु समानकालीनं जन्म ततः किमित्यत आह - अत इति ।
समानग्रामा वयमित्यादिवदत्रत्यः समानशब्द एकतावचनः एककालीनत्वादित्यर्थः ।
एककालीनत्वेन कार्यकारणभावाभावे दृष्टान्तमाह ? सव्येतरेति ।
वामदक्षिणविषाणवदित्यर्थः ।
तत्र हेतुमाह ? पौर्वापर्येति ।
पूर्वं चापरं च पूर्वापरे तयोर्भावः पौर्वापर्यं तदभावात् ।
पूर्वभावि कारणम्, पश्चाद्भावि कार्यमिति वक्तव्यम् ।
एककालीनयोस्तयोः पूर्वापरभावात् कार्यकारणभावो न संभवतीत्यर्थः ।
ननु घटादिः स्वगतरूपादिकं प्रति कारणं न संभवतीति चेन्मा भून्नाम समवायिकारणं तु भवत्वित्याशङ्क्याह ? अत इति ।
कारणत्वाभावादित्यर्थः ।
कारणत्वाभावे समवायिकारणस्य का हानिरित्यत आह ? कारणेति ।
कारणत्वसामान्याभावे तद्विशेषरूपत्वं समवायिकारणत्वं न संभवति ।
प्रमाणत्वाभावे प्रत्यक्षत्वादिवदित्यर्थः ।
111.
परिहारं वक्तुं प्रतिजानीते - अत्रेति ।
अस्मिंश्चोद्ये परिहार उच्यत इत्यर्थः ।
यदवादि पूर्ववादिना समसमयजातत्वेन पूर्वापरभावाभावात् कार्यकारणभावो नास्तीति तत्र मूले कुठारं निदधाति - न गुणेति ।
कथं तर्हि जन्मेति शङ्कते - किं त्विति ।
भिन्नकालं जन्मेत्याह ? द्रव्यमिति ।
ननु त्वयोच्यते भिन्नकालीनं जन्मेति मयोच्यते समानकालीनमिति जन्म केवलं वाचि कलहो वर्तते किमत्र विनिगमकमित्याशङ्क्य समानकालोत्पत्त्यङ्गीकारे बाधकसद्भावाद्भिन्नकालोत्पत्तिरङ्गीकर्तव्येत्याह ? समानकालोत्पत्ताविति ।
अभ्युपगम्यमानायामिति शेषः ।
सर्वकारणमेलनं सामग्रीत्यर्थः ।
अयं गुणोऽसौ गुणवानिति प्रत्यक्षेणोपलभ्यमानो भेदो न स्यादित्यर्थः ।
एकसामग्रीकत्वेऽपि कार्यभेदो भवत्वित्याशङ्क्यमानं प्रत्याह ? कारणभेदेति ।
अत्रत्यः कारणशब्दः सामग्रीवचनः ।
अनेककारणजन्यस्यापि पटस्यैकत्वदर्शनात् कारणभेदनियतः कार्यभेदो न भवति किं तु सामग्रीभेदनियतः ।
अयं भावः - दृश्यमानः कार्यभेदः सामग्रीभेदव्याप्तः सन् सामग्रीभेदमवगमयति यथाग्निव्याप्तो धूमोऽग्निमिति ।
उपपादितं घटस्य रूपादिकं प्रति समवायिकारणत्वमुपसंहरति - तस्मादिति ।
भिन्नकालोत्पत्तेः साधितत्वात् पूर्वभावित्वेन कारणं यत्समवेतमित्यादिलक्षणयोगात् समवायिकारणमपि भवतीत्यर्थः ।
अस्मिन् पक्षे सामग्रीभेदाभावे कार्यभेदो न स्यादिति दोषो भाषितः सोऽपि नास्ति सामग्रीभेदसद्भावादित्याह ? तदेति ।
घटस्य रूपादिकं प्रति कारणत्वपक्ष इत्यर्थः ।
सामग्रीभेदसद्भावं दर्शयति - घटो हीति ।
कुत इत्याशङ्क्य कारणत्वे पूर्वभावित्वं कार्यत्वे पश्चाद्भावित्वं वक्तव्यं तदभावादित्याह ? एकस्येति ।
नन्वेकस्यापि पूर्वत्वमपरत्वं वास्तु को दोष इत्याशङ्क्य भेदसमानाधिकरणत्वादेकस्मिन् वस्तुनि पूर्वापरभावो न संभवतीत्याह -
112.
न हीति ।
ननु घटो घटं प्रति कारणं मा भवतु स्वरूपादिकं प्रति किं न भवति ।
भवत्येव पूर्वभावित्वादित्याह ? स्वगुणानिति ।
ननु घटस्य स्वगतगुणान् प्रति कारणत्वार्थं प्रथमे क्षणे यदि निर्गुणत्वं कक्षीक्रियते तर्हि तस्याचाक्षुषत्वमद्रव्यत्वं चेति दोषद्वयं प्रादुःष्यादिति शङ्कते - नन्वेवं सतीति ।
घटस्य निर्गणत्वे सति प्रथमे क्षणे घटश्चक्षुर्जन्यज्ञानविषयो न स्यादित्यर्थः ।
तत्र हेतुमाह ? अरूपिद्रव्यत्वात् ।
द्रव्यत्वादित्युक्ते चक्षुषा गृह्यमाणे पटादावनैकान्तिका स्यात् ।
अत उक्तमरूपीति ।
अरूपित्वादित्युक्ते रूपरहिते चक्षुषा गृह्यमाणे च रूपादौ व्यभिचारस्तदर्थमुक्तं द्रव्यत्वादिति ।
तत्र दृष्टान्तमाह ? वायुवदिति ।
तर्हि कथंभूतं द्रव्यं चाक्षुषं भवतीत्यपेक्षायामाह ? तदेवेति ।
परमाणुद्व्यणुकयोरुद्भूतरूपत्वेऽपि चाक्षुषत्वाभावान्महत्वे सतीत्युक्तम् ।
महत्त्वेऽपि व्योमादेरचाक्षुषत्वाद्रुपवदित्युक्तम् ।
महत्त्वे रूपवत्त्वे सति तप्तजलस्थितस्याग्नेश्चाक्षुषत्वाभावादुद्भूतेत्युक्तम् ।
न केवलं घटस्य निर्गुणत्वे चाक्षुषत्वाभावो दोषो द्रव्यत्वाभावेऽपि स्यादित्याह ? अद्रव्यं चेति ।
कुत इत्याह ? गुणाश्रयत्वेति ।
ननु मास्तु गुणाश्रयो, द्रव्यं तु स्यादित्याशङ्क्य द्रव्यलक्षणाभावाद्द्रव्यं न संभवतीत्याह ? गुणाश्रय इति ।
त्वदुक्तयोर्दोषयोर्मध्ये प्रथमस्य दोषत्वमेव नास्ति ।
प्रामाणिकपरित्यागाप्रामाणिकस्वीकारयोरन्यतरस्वीकारत्वाभावात् ।
द्वितीयस्तु दोषः परिह्रियत इत्यभिप्रायेण परिहरति -
113.
सत्यमिति ।
अचाक्षुषत्वापादनस्य दोषत्वं नास्तीत्याह ? प्रथम इति ।
परमसूक्ष्मपदेन परमाण्वादिवदिन्द्रियग्रहणानर्हत्वं विवक्ष्यते तदा ग्रहणाभावे का हानिः ।
न किंचिदनिष्टमित्यर्थः ।
ननु प्रथमे क्षणे चक्षुषा न गृह्यते चेत्तर्हि कदा गृह्यत इति बुभुत्सायामित्थं निर्णय इत्याह ? तेनेति ।
येन कारणेन ग्रहणानर्हत्वेनाग्रहणं न दोषस्तेनैतद्वक्ष्यमाणं व्यवस्थितं निश्चितमित्यर्थः ।
एतच्छब्दार्थमाह ? निर्गुण एवेति ।
उत्पन्नं द्रव्यं क्षणमगुणं तिष्ठतीति न्यायेन प्रथमं निर्गुणमेवोत्पद्यते ।
तदा ग्रहणयोग्यत्वाभावान्न गृह्यते ।
द्वितीयादिक्षणेषु ग्रहणयोग्यतया गृह्यत इत्यर्थः ।
यदापादितमद्रव्यत्वं तत्तु नास्त्येवेत्याह ? न चेति ।
तत्र हेतुमाह ? समवायिकारणमिति ।
प्रथमे क्षणे घटस्य पश्चाद्भाविनः स्वगुणान् प्रति समवायिकारणत्वेन द्रव्यलक्षणयोगाद्द्रव्यत्वमुपपद्यत इति भावः ।
गुणाश्रयत्वलक्षणेनापि भवितव्यमिति चेत्तदप्यस्तीत्याह ? योग्यतयेति ।
गुणाश्रयत्वं नाम गुणात्यन्ताभावानधिकरणत्वं तस्य सद्भावा(तत्संभवा)दिति भावः ।
समवायिकारणं सप्रपञ्चं निरूप्य क्रमप्राप्तसमवायिकारणं निरूपयितुमुपक्रमते - असमवायीति ।
समवायिकारणप्रत्यासन्नमसमवायिकारणमित्युक्ते तन्तुरूपादावतिव्याप्तिः ।
पटसमवायिकारणतन्तुसमवेतत्वात् ।
अत उक्तम् - अवधृतसामर्थ्यमिति ।
तन्तुरूपादेः पटरूपजननोपक्षीणत्वेनावधृतसामर्थ्यभावाभावादवधृतसामर्थ्यमसमवायिकारणमित्युक्ते निश्चितकरणत्वे तन्त्वादावतिव्याप्तिः ।
अत उक्तं समवायिकारणप्रत्यासन्नमिति ।
तन्त्वादेः पटादिकं प्रति समवायिकारणत्वेन तत्प्रत्यासन्नवत्वाभावादिति भावः ।
किमत्रोदाहरणं तत्राह ? यथेति ।
तन्तुसंयोगे लक्षणसद्भावं दर्शयति - तन्तुसंयोगस्येति ।
तन्तूनां गुणित्वात् संयोगस्य च गुणत्वात् तन्तुसमवेतः संयोगः कारणलक्षणलक्षितत्वाच्च कारणं तस्मादसमवायिकारणमित्यर्थः ।
पटरूपस्य किमसमवायिकारणमित्याकाङ्क्षायामाह ? तन्तुरूपमिति ।
ननु तन्तुरूपस्य कारणत्वसद्भावेऽपि तन्तुसमवेतत्वेन समवायिकारणसमवेतत्वाभावादसमवायिकारणत्वं न संभवतीत्यभिप्रायेण शङ्कते - ननु पटेति ।
परिहरति - मैवामिति ।
तत्र हेतुमाह ? समवायीति ।
प्रत्यासत्तिर्द्विधा ।
कारणैकार्थप्रत्यासत्तिः कार्यैकार्थप्रत्यासत्तिश्चेति ।
तत्र तन्तुसंयोगवत् स्वकार्येण पटेन सहैकस्मिंस्तन्तुलक्षणेऽर्थे प्रत्यासत्त्यभावेऽपि तन्तुरूपस्य पटरूपं प्रति कारणेन पटेन सहैकस्मिंस्तन्तुलक्षणेऽर्थे प्रत्यासत्तिसद्भावात् समवायिकारणप्रत्यासन्नत्वं युज्यत इति भावः ।
निमित्तकारणस्य लक्षणमाह ? निमित्तेति ।
कारणं निमित्तकारणमित्युक्ते समवायिकारणे तन्त्वादावतिव्याप्तिस्तदर्थमुक्तम् - यन्न समवायिकारणमिति ।
तावत्युक्ते तन्तुसंयोगादावतिव्याप्तिः ।
अत उक्तम् - नाप्यसमवायिकारणमिति ।
कारणपदं विहाय तावत्युक्ते रासभादावतिव्याप्तिः ।
अत उक्तम् - कारणमिति ।
कारणलक्षणलक्षितमित्यर्थः ।
किमत्रोदाहरणं तत्राह ? यथेति ।
ननूक्तं त्रिविधकारणं सर्वस्यापि कार्यस्य किं विद्यते न वेति विषये निर्णयमाह ? तदेतदिति ।
तल्लक्षितमेतदुदाहृतं त्रिविधं समवायिकारणादिभेदेन त्रिप्रकारं कारणं भावानां भावरूपाणां कार्याणामेवोपपद्यत इत्यर्थः ।
भावत्वं नाम नञर्थानुल्लिखितधीविषयत्वम् ।
अभावस्य तु कथमित्यत आह ? अभावस्येति ।
115.
निमित्तमेव इतरत् कारणद्वयं नास्तीत्यर्थः ।
कुत इत्यत आह ? तस्येति ।
अभावस्य समवेतत्वाभावेन यत्समवेतमित्यादिना लक्षितं समवायिकारणं न संभवति ।
अत एव तत्प्रत्यासत्त्यभावादसमवायिकारणमपि न भवति ।
मुद्गरप्रहारादिनिमित्तमात्रजन्यो घटादिप्रध्वंस इत्यर्थः ॥ अभावस्य समवेतत्वाभावे हेतुमाह ? समवायस्येति ।
समवायस्य द्वयोर्भावयोर्धर्मत्वेनाभावस्य समवायासंभवादित्यर्थः ।
तदलं प्रसक्तानुप्रसक्त्या प्रकृतमनुसरामीत्यभिप्रायेण प्रकृतमनुसरन्नुक्तं कारणलक्षणं निगमयति - तदेतस्येति ।
यस्मात् कारणात्करणलक्षणान्तर्गततया प्रसक्तं कारणस्वरूपं निरूपितं तत्तस्मात्कारणादेतस्य पूर्वोक्तस्य त्रिप्रकारस्य कारणस्य मध्ये यत्कारणं कथमपि केनापि प्रकारेणातिशयसहितं तदेव करणमित्यर्थः ।
कथमपीति वदतोऽयमभिप्रायः - प्रमातृप्रमेययोः सतोरपि यदभावात्प्रमानुत्पादकत्वं सोऽतिशयः ।
यदनन्तरं प्रतिपत्तेर्जन्म चासतः साधारणकारणता वा प्रमाकरणानुग्राहकत्वं वाव्यभिचारितार्थत्वं वेत्यादयः प्रकाराः सूरिभिरुत्प्रेक्षिताः ।
तत्र केनापि प्रकारेणेति स्वाभिमतमतिशयं स्वयमेव स्पष्टीकरिष्यत्यविलम्बेन प्रमोत्पादकत्वमतिशय इति ।
प्रमालक्षणं निगमयति - तेनेति ।
येन कारणेन प्रमाकरणे निरूपिते तेन ।
एवमुक्तया रीत्या लक्षणं व्यवस्थितमेव निश्चितमेवेत्यर्थः ।
किं तल्लक्षणं तत्राह ? प्रमेति ।
ननु लक्षणान्तरे परिपन्थिनि जाग्रति कथमस्य व्यवस्थितत्वमित्याशङ्क्य पराभिमतं प्रमाणलक्षणमनूद्यावद्यति - यत्त्वित्यादिना तन्नेत्यन्तेन ।
सर्वे गत्यर्था, ज्ञानार्था इति न्यायेनानधिगतस्याज्ञातस्यार्थस्य गन्तृ अवभासकमज्ञातार्थावगाहि ज्ञानं प्रमाणं प्रमितिः ।
अन्यथा स्मृतेरपि प्रामाण्यप्रसङ्गादिति शङ्कितुरभिप्रायः ।
ननु तृन्नन्तत्वेन 'न लोकाव्ययनिष्ठाखलर्थतृनाम्' इति षष्ठीप्रतिषेधाच्छष्ठीसमासासंभवः ।
तृजन्तत्वे तु तृजकाभ्यां कर्तरीति षष्ठीसमासस्यैव प्रतिषेध इति चेन्मैवम् ।
उभयत्र कृद्योगलक्षणायाः षष्ठ्याः प्रतिषेधेऽपि शेषलक्षणां षष्ठीमादाय समाससिद्धेरिति ।
तन्नेत्युक्तं तत्र युक्तिं वक्ति - एकस्मिन्निति ।
धारारूपेण वहन्तीति धारावाहीनि धारावाहीन्येव धारावाहिकानि ।
स्वार्थे कः प्रत्ययः ।
न च ज्ञाते ज्ञानं नोत्पद्यते इति युक्तम् ।
सामग्र्याः प्रतिबन्धाभावात् ।
जातमपि ज्ञानं प्रमाणं न भवति ज्ञातुरनपेक्षितत्वादिति चेन्न ।
प्रामाण्यस्य तदायत्तत्वाभावात् ।
अनिच्छतोऽपि पथि गच्छतः पुंसो दुर्गन्धज्ञानादौ तथात्वदर्शनात् ।
न च स्मृतेः प्रामाण्यप्रसङ्गः ।
अनुभवपदेन व्यावृत्तिसिद्धेरिति संतोष्टव्यमायुष्मतेति ।
ननु घटस्यैकत्वेऽपि विशेषणीभूतानां कालकलारूपाणां क्षणानामन्योन्यत्वेन तद्विशेषण(णा?)विशिष्टविषयाण्यपि ज्ञानान्यनधिगतार्थानि भविष्यन्तीति शङ्कामनूद्य पराकरोति - न चेति ।
तत्र हेतुमाह ? सूक्ष्मेति ।
सूक्ष्मकालभेदग्रहाभ्युपगमे दोषमाह ? भेदग्रह इति ।
क्रिया क्रियातो विभागो
117.
विभागात् पूर्वसंयोगनाशः उत्तरसंयोगोत्पत्तिरिति न्यायेन प्रसिद्धकालभेदानां क्रियादिसंयोगान्तानां चतुर्णां शतपत्रशतं मया सूच्या युगपद्भिन्नमिति यौगपद्याभिमानः सर्वलोके प्रसिद्धो न स्यादिति भावः ।
ननु प्रमाकरणं प्रमाणमित्युक्तं तत्र किं करणमित्यपेक्षायां साधकतमं करणमित्युक्तम् ।
ततश्च सर्वेषां कारणानां क्रियाप्रसिद्ध्यै व्यापारित्वाविशेषाद् व्यापारवत्करणमिति व्यापारवत्त्वेन कर्त्रादिवैलक्षण्यस्य दुर्ज्ञानत्वात् संदिहानः पृच्छति - नन्विति ।
उत्तरमाह ? उच्यत इति ।
प्रमातरि सति प्रमा भवति न भवति च, प्रमेये सत्यपि भवति न भवति च ।
इन्द्रियसंयोगादौ तु सति भवत्येवेत्यनेनातिशयेन प्रमात्रादिवैलक्षण्यस्य सिद्धेस्तस्यैव करणत्वं नान्यस्येत्यर्थः ।
उपपादितमर्थमुपसंहरति - अत इति ।
यतः कर्त्रादिवैलक्षण्यं निरूपितमतः प्रमाकरणत्वादिन्द्रियसंयोगादिरेवार्थः प्रमाणमित्यर्थः ।
इन्द्रियसंयोगादिरिति ।
इन्द्रियं च संयोगश्च तावादी यस्य स तथोक्तः ।
आदिशब्देन निर्विकल्पकज्ञानादि गृह्यते ।
पुल्लिङ्गत्वनिर्वाहायार्थशब्दोऽध्याहर्तव्यः ।
प्रमाणसामान्यलक्षणं सप्रपञ्चमभिधाय विशेषलक्षणानि वक्तुं विभजते - तानीति ।
प्रमाकरणत्वलक्षणेन लक्षितानीत्यर्थः ।
तानेव चतुरः प्रकारान् भगवदक्षपादसूत्रसंवाददर्शनेन द्रढयति - तथा चेति ।
सूत्रमपि प्रमाणचतुष्टयं प्रतिपादयतीत्यर्थः ।
प्रमाणचतुष्टयप्रतिपादकं सूत्रं पठति - प्रत्यक्षेति ।
प्रमाणप्रमेयेत्यादिना प्रथमसूत्रेण षोडश पदार्थानुद्दिश्य तत्त्वज्ञानान्मोक्षप्राप्तिर्भवतीत्यभिधाय(प्रायः?)तत्तत्त्वज्ञानं कथं मोक्षं साधयतीत्यपेक्षायां 'दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादिति' द्वितीयसूत्रेण यदा तत्त्वज्ञानान्मिथ्याज्ञानमपैति तदा मिथ्याज्ञानापाये दोषाः अपयान्ति तदपाये प्रवृत्तिरपैति तदपाये जन्मापैति जन्मापायादेकविंशतिप्रभेददुःखोच्छेदलक्षणो मोक्षः सेत्स्यतीति प्रतिपाद्य भगवता गौतमेन प्रथमोद्दिष्टस्य प्रमाणपदार्थस्य प्रत्यक्षानुमानेत्यादिनानेन तृतीयसूत्रेण विभागः कृतः ।
अतश्चत्वार्येव प्रमाणानि ।
न त्रीणि नापि पञ्च विभागस्य न्यूनाधिकसंख्याव्यवच्छेदपरिच्छेदकत्वात् ।
अन्यथा लक्षणचतुष्टयाभिधानादेव प्रमाणचतुष्टयसिद्धेर्विभागस्य वैफल्यप्रसङ्गादिति भावः ।
इतरप्रमाणमूलत्वेन ज्येष्ठत्वात् प्रत्यक्षस्य प्रथमं पृथक् प्रमाणत्वेन प्रसिद्धत्वाद्विप्रतिपन्नपुरुषप्रतिपादकत्वेन प्रधानत्वादनन्तरमनुमानस्य तदनु प्रत्यभिज्ञानप्रत्यक्षरूपत्वादुपमानस्यानुमानान्तर्भावनिराकरणार्थं सूत्रकारेणानुमानानन्तरमुपदिष्टत्वाच्चोपमानस्य पश्चाच्छब्दस्योद्देश इति विवेकः ।
ननु प्रत्यक्षमित्यत्र कः समासः ।
यद्यक्षमक्षं प्रति वर्तते इत्युपकुम्भादिवदव्ययीभावो विधीयते तदा विशेष्यनिघ्नता भज्येत ।
अथ 'कुगतिप्रादयः' इति प्रतिगतमक्षं प्रत्यक्षमिति तत्पुरुष इष्यते ।
एवमपि 'परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः' इति स दोषस्तदवस्थ एवेति चेत् पीतपातञ्जलजलानामेतच्चोद्यं चमत्कारं न करोति ।
वार्तिककृता कात्यायनेन तत्रैवं 'प्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधः' इति परवल्लिङ्गतायाः प्रतिषेधेनाभिधेयलिङ्गतोपपत्तेश्चक्षुरादौ प्रत्यक्षशब्दस्य गोपङ्कजादिवद्रूढ्या वृत्त्युपपत्तेरिति ।
तदलं विस्तरेण संग्रहव्याख्याने इति प्रत्यक्षस्य लक्षणं वक्तुमाकाङ्क्षामुद्भावयति - किं पुनरिति ।
पुनःशब्दो वाक्यालङ्कारे ।
प्रत्यक्षस्य लक्षणमिति प्रश्नस्यार्थः ।
तल्लक्षणमभिधत्ते - साक्षात्कारिणीति ।
साक्षात्कारिणी चासौ प्रमा च सा तथोक्ता ।
स्त्रियाः पुंवद्भाषितपुंस्कादनङ् ।
समानाधिकारे स्त्रियामपूरणीप्रियादिषु इति पुंवद्भावः ।
तस्याः करणं प्रत्यक्षमित्यर्थः ।
कीदृशी सा साक्षात्कारिणी प्रमेति जिज्ञासायामाह ? साक्षात्कारिणीति ।
नन्विन्द्रियजन्यत्वमनुमित्यादीनामप्यस्ति ज्ञानमात्रस्य मनोजन्यत्वादिति चेत् तदसारम् ।
अज्ञानकरणजन्यज्ञानानुवृत्तो ज्ञानकरणजन्यव्यावृत्तौ धर्मविशेषः साक्षात्तत्त्वमिति निरुच्यमानत्वादिति ।
साक्षात्कारिप्रमाया भेदमाह ? सेति ।
कुतो द्वैविध्यमित्यत आह ? सविकल्पकेति ।
सकलव्यवहारनिदानत्वेन प्रसिद्धस्य सविकल्पकस्य प्रथममुद्देशः ।
निर्विकल्पकज्ञानानङ्गीकारे संबन्धिदर्शनात् संबन्ध्यन्तरे स्मृतिरुत्पद्यत इति न्यायेन वाचकशब्दस्मरणभावात् सविकल्पकमेव नोदयमासादयोदिति द्वैविध्यसिद्धिरिति भावः ।
तत्करणभेदमाह ? तस्याः करणमिति ।
कथं त्रयः प्रकारा इत्याशङ्क्य तानेव प्रकारान् दर्शयति - कदाचिदित्यादिना ।
कदेन्द्रियं करणमिति बुभुत्सायामाह ? यदेति ।
इन्द्रियस्य निर्विकल्पकप्रमां प्रति कारणत्वं दर्शयिष्यन् ज्ञानोत्पत्तिप्रक्रियां प्रदर्शयितुं प्रतिजानीते
120.
- तथाहीति ।
प्रक्रियां दर्शयति - आत्मेति ।
सुषुप्त्यवस्थायां मनसः सर्वाणीन्द्रियाणि परिहृत्य पुरीतति वर्तमानत्वेन प्रलीनमनस्कस्यात्मनो ज्ञातृत्वाभावादात्ममनःसंयोगेन भवितव्यम् ।
सत्यप्यात्ममनःसंयोगे स्वप्नावस्थायामुपरतेन्द्रियग्रामस्य बाह्यविषयज्ञानाभावादिन्द्रियाणां च मनसश्च संबन्धेन भवितव्यम् ।
सत्यप्येतस्मिन् सर्वस्मिन् बाह्यार्थस्य चेन्द्रियस्य च संबन्धाभावे प्रतीत्यनुदयाच्चतुर्णां संबन्धेन भवितव्यमिति भावः ।
ननु चक्षुरुन्मीलनसमयानन्तरमनेकयोजनस्थितमार्तण्डमण्डलमुपलभ्यते ।
तथा च राजमन्दिरे भेर्यां ताड्यमानायां स्वमन्दिरमध्यमध्यासीनस्य पुंसः शब्दप्रतिपत्तिः संजायते ।
तथा पण्यवीथ्यां पर्यटतः पुष्पवाटिकास्थितपुष्पगन्धोपलब्धिर्दृश्यते ।
तत्कथमिन्द्रियार्थयोः संबन्ध इत्युच्यत इत्याशङ्क्याह ? इन्द्रियाणामिति ।
विमतानीन्द्रियाणि प्राप्य प्रकाशकानि बाह्येन्द्रियत्वात् ।
त्वगिन्द्रियवत् ।
दृष्टो हि लाघवातिशयेन तेजसो वेगातिशयो यदुदयाचलचूडावलम्बिन्येव मयूखमालिनि भुवनोदरेष्वालोकः प्रसरीसरीति ।
तद्वन्नयनोन्मीलनान्तरं नयनरश्मयः सूर्यमण्डलं प्राप्यैव प्रकाशयन्ति ।
तथा वीचीतरङ्गन्यायेन कर्णपथप्राप्तस्यैव शब्दस्योपलब्धिः ।
तथा गन्धाधारत्वेन स्थितानां पुष्पावयवानां घ्राणस्य च संबन्धे सत्येव गन्धोपलम्भसंभव इति न काचिदनुपपत्तिरिति भावः ।
किमतो यद्येवं तत्राह ? तत इति ।
यत इन्द्रियार्थयोः संनिकर्षः साधितस्ततोऽर्थसंबद्धेनेन्द्रियेण निर्विकल्पकं
121.
ज्ञानं जन्यत इति योजना ।
निर्विकल्पकस्य स्वरूपमाह ? वस्तुमात्रेति ।
वस्त्ववगाहित्वं सविकल्पकेप्यस्तीति तन्निवृत्यर्थं मात्रग्रहणम् ।
मात्रवचोर्थमाह ? नामेति ।
नाम संज्ञा ।
जातिर्ब्राह्मणत्वादिः ।
आदिशब्देन गुणक्रियादीनां ग्रहणम् ।
तेषां योजना विशेषणत्वेन संबन्धः ।
तेन हीनं तद्रहितमित्यर्थः ।
निर्विकल्पकज्ञानमभिनीय दर्शयति - किंचिदिदामिति ।
नन्विन्द्रियस्य करणत्वं वक्तुमुपक्रम्य ज्ञानोत्पत्तिप्रकारः कथं कथ्यत इत्यत्राह ? तस्येति ।
निर्विकल्पकज्ञानस्येत्यर्थः ।
अत्र दृष्टान्तमाह ? छिदिक्रियाया इति ।
व्यापारवद्धि करणमिति सद्भावाद् व्यापारो वक्तव्य इत्यत आह ? इन्द्रियार्थेति ।
तज्जन्यस्तज्जन्यजनकोऽवान्तरव्यापारः इन्द्रियजन्य इन्द्रियार्थसंनिकर्ष इन्द्रियजन्यज्ञानजनकः ।
फलकरणयोर्मध्ये वर्तमानत्वादवान्तरत्वम् ।
यथाहुः ।
'अन्तराले तु यस्तत्र व्यापारः कारकस्य सः ।
' इति ।
अत्रापि दृष्टान्तमाह ? छिदाकरणस्येति ।
किमत्र फलं तत्राह ? निर्विकल्पक इति ।
तत्करणस्य तदेव फलमित्येतत् कुत्र दृष्टमित्यत्राह ? परशोरिति ।
इन्द्रियस्य सव्यापारफलस्य करणत्वमवसितम् ।
इन्द्रियार्थसंनिकर्षस्य किमवान्तरव्यापारीकृत्य किं वा फलमुद्दिश्य करणत्वमिति जिज्ञासते - कदेति ।
यदा सविकल्पकं ज्ञानमुत्पद्यते तदेन्द्रियार्थसंनिकर्षः करणमित्यन्वयः ।
कदा तच्च ज्ञानमुत्पद्यत इत्यत आह ? निर्विकल्पकेति ।
तदनेन निर्विकल्पकस्य ज्ञानस्य करणत्वमुक्तं भवति ।
अन्यथा संज्ञास्मरणभावे 'नागृहीतविशेषणा विशेष्ये बुद्धिरुत्पद्यते' इति
122.
न्यायेन सविकल्पकस्योत्पादो न स्यादिति ।
तस्य स्वरूपमाह ? विशेषणेति ।
कानि तानि विशेषणानीत्यत आह ? नामेति ।
अभिनीय दर्शयति - डित्थोऽयमिति ।
अत्र करणव्यापारफलानि क्रमेण विविनक्ति - तदेत्यादिना ।
ज्ञानस्य करणत्वमुक्तं तत् कदेत्याकाङ्क्षति - कदा पुनरिति ।
गुणवत्युपादेयत्वबुद्धिरुत्पद्यते, दोषवति हेयत्वबुद्धिः तदुभयाभाववत्युपेक्षणीयताबुद्धिरित्यर्थः ।
अत्र करणव्यापारफलानि विविनक्ति - तदेत्यादिना ।
नन्वेकस्मिन् पक्षे सविकल्पकहानोपादानादिबुद्धिषु सर्वत्रेन्द्रियस्यैव करणत्वमुपपद्यते न संनिकर्षादेः ।
स्वाङ्गमव्यवधायकमिति न्यायेनान्तरालिकस्य तस्य व्यापारवत्त्वोपपत्तेरित्याशङ्क्यापरितोषात् पक्षान्तरं लक्षीकरोति - कश्चिदाहेति ।
करणस्य भेदमभिधाय संनिकर्षस्य भेदमाह ? इन्द्रियार्थयोरिति ।
तानेव षट् प्रकारान् दर्शयति - तद्यथेति ।
द्रव्यस्य सर्वाश्रयत्वेन प्रधानत्वात्तत्संबन्धस्य संयोगस्य प्रथमं ग्रहणमनन्तरं तदाश्रितगुणसंबन्धस्य ततस्तदाश्रितसामान्यसंबन्धस्य ततो भावधर्मस्य समवायस्य पश्चात्तदाश्रितसामान्यसंबन्धस्यान्ते विशेषणविशेष्यभावस्येति विवेकः ।
अत्र संयोगसमवाययोर्मुख्यः संबन्धव्यवहारः संबन्धो हीत्यादिलक्षणसद्भावात् ।
तदभावेऽप्यन्यत्रोभयत्र दत्तपदत्वादिसंबन्धव्यपदेश इति ।
संयोगस्य साक्षात्कारिप्रमाहेतुत्वं कदेत्यत आह ? यदेति ।
घटो विषयो यस्य तत्तथोक्तम् ।
अत्र किमिन्द्रियं को वा विषयः को वा संबन्ध इत्यपेक्षमाणं प्रत्याह ? तदेति ।
चक्षुर्घटयोः संबन्धः संयोग इत्युक्तं तत्रोपपत्तिमाह ? अयुतेति ।
चक्षुर्घटयोः परस्परपरिहारेण पृथगाश्रयाश्रितत्वादिति भावः ।
त्रिपुटीप्रत्यक्षवादिनः प्राभाकरा आत्मनः स्वप्रकाशसंविदाश्रयत्वेन प्रत्यक्षत्वमाचक्षते ।
स्वप्रकाशचिद्रूपत्वेनापरोक्षत्वमात्मनो वदन्ति अनिर्वचनीयवादिनो वेदान्तिनः ।
तन्मतद्वयं निराकर्तुमाह ? एवमिति ।
यथा घटस्य ग्राह्यत्वमस्त्येवमात्मनोऽपीत्येवंशब्दार्थः ।
आत्मविषयं ज्ञानमभिनीय दर्शयति - अहमिति ।
अत्र किमिन्द्रियं को वार्थः कस्तयोः संबन्ध इत्यत्र आह ? तदेति ।
इदमत्राकूतम् - न तावत् स्वप्रकाशसंविदाश्रयत्वेनात्मनः प्रसिद्धिः, संविदः स्वप्रकाशकत्वासिद्धेः ।
विषयविषयिज्ञानेनात्मनो भासमानतानुपपत्तेश्च ।
न ह्यन्यविषयज्ञानेऽन्यस्य स्फुरणं संभवति ।
स्फुरणे वाच्ये तदवेद्यत्वप्रसङ्गात् 'यस्यां संविदि योऽर्थोऽवभासते स तस्या विषयः' इति शालिका-(क?) नाथस्य वचनात् ।
घटज्ञानवानहमिति ज्ञानाश्रयत्वेन सर्वानुभवसिद्धतया कुतश्चिद्रूपत्वमात्मनः कुतस्तरां स्वप्रकाशकत्वं कुतस्तमां स्वप्रकाशत्वेनापरोक्षत्वम् ।
अत्रायं पुरुषः स्वयंज्योतिरित्याद्यागमादात्मनः स्वप्रकाशकत्वत्वमेवावगच्छामीति चेन्मैवं मंस्थाः ।
अनुभवविरोधेन ग्रावप्लवनादिवाक्यवदुपचरितार्थत्वादित्यलमतिप्रसङ्गेन ।
द्वितीयस्य संबन्धस्य साक्षात्कारिप्रमाहेतुत्वं दर्शयति - यदा चक्षुरादिनेति ।
प्रथमेनादिशब्देन घ्राणरसनत्वगिन्द्रियाणां ग्रहणम् ।
द्वितीयेन गन्धरसस्पर्शानामिति ।
सुखादिग्रहणेप्ययमेव संबन्ध इत्याह ? एवमिति ।
ननु परिमाणादिग्रहणेप्येतावतैव कारणेनालं किम् ।
नेत्याह ? घटगतेति ।
124.
चतुष्टयसंनिकर्ष इति चतुर्णामिन्द्रियतदवयवार्थतदवयवानां परस्परसंबन्धे संबन्धा अपि चत्वारो भविष्यन्तीत्यर्थः ।
ननु संयुक्तसमवायेनालं किं चतुष्टयसंनिकर्षेणेत्याशङ्क्य तदभावे परिमाणग्रहणाभावादन्वयव्यतिरेकाभ्यामवधृतसामर्थ्येन कारणत्वमङ्गीकरणीयमित्याह ? सत्यपीति ।
अयमाशयः ।
वृक्षवाटिकायां पर्यटतः पुरुषस्योच्चतरशिखरिशिखरमध्यमध्यासीने शाखिनि किमयं पुरुषद्वयस आहोस्विद्गजदघ्न उत तालमात्र इति संदेहो जायते ।
नयनरश्मीनामन्तराले विशीर्णावयवानामर्थप्राप्त्यभावात् तन्निकटमटतः संदेह एव नोदयमासादयेत् इति चतुष्टयसंनिकर्षसंभवेनायमेतावत्परिमाण इत्यवधारणसंभवात् ।
अतस्तद्भावाभावानुविधायिनः कारणत्वं सिद्धमिति चतुष्टयसंनिकर्षमुदाहृत्य दर्शयति - यथेति ।
तृतीयस्य संबन्धस्यापरोक्षप्रमाहेतुत्वप्रकारं दर्शयति - यदा पुनरिति ।
तत्रोपपत्तिं कथयति - यत इत्यादिना ।
चतुर्थस्य संबन्धस्यापरोक्षप्रमाहेतुत्वं जिज्ञासते - कदेति ।
उत्तरमभिधत्ते - यदेति ।
कर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रम् ।
शब्दोऽपि तद्गुणः ।
अतस्तयोः समवायः ।
शब्दस्य गुणत्वेऽनुमानमभिधीयते ।
शब्दो गुणः सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वात् ।
रूपादिवत् ।
शब्दः क्वचिदाश्रितो गुणत्वादित्यनेन पृथिव्याद्याश्रयत्वानुपपत्तावाकाशाश्रयत्वे सिद्धे स च गुणत्वावान्तरजात्या स्वसमानजातीयगुणवतेन्द्रियेण गृह्यते ।
बाह्येन्द्रियग्राह्यविशेषगुणत्वात् ।
रूपादिवत् ।
ततश्च श्रोत्रसमवायाच्छब्दगुणोपपत्तिरिति ।
शब्दत्वादिग्रहणं पञ्चमसंबन्धादित्याह ? यदा पुनरित्यादिना ।
125.
'भावान्तरमभावो हि कयाचित्तु व्यपेक्षया ।
'
इत्यभावाख्यः पदार्थ एव नास्तीति प्रभाकरादयः प्रवदन्ति ।
तन्मतं प्रतिक्षेप्तुं षष्ठसंबन्धादभावस्य ग्रहणाकाङ्क्षां दर्शयति - कदा पुनरिति ।
उत्तरमाह ? यदेत्यादिना ।
अभावग्रहणमभिनीय दर्शयति - इह भूतल इति ।
व्यावर्तकं विशेषणं व्यावर्त्यं विशेष्यम् ।
घटो नास्तीत्युक्ते कुत्रेत्याकांक्षायामिह भूतले इत्युच्यते ।
तत्र भूतलस्य व्यावर्तकत्वाद्विशेषणता, घटाभावस्य व्यावर्त्यत्वाद्विशेष्यता ।
अघटं भूतलमित्यत्र तु घटाभावस्य व्यावर्तकत्वाद्विशेषणतेति ।
भूतलस्य व्यावर्त्यत्वाद्विशेष्यतेति ।
अभावाभावे अभावशब्दप्रत्यययोर्निरालम्बनत्वप्रसङ्गादभावोऽभ्युपगन्तव्य इति भावः ।
तदनेनाभावस्य षष्ठप्रमाणगम्यत्वं प्रत्युक्तम् ।
तस्य पृथक्प्रमाणत्वाभावादिति ।
आत्मनि सुखाद्यभावग्रहणमस्मादेव संबधादित्याह ? यदा पुनरित्यादिना ।
आत्मनि सुखं नास्तीति विशेष्यत्वेन ग्रहणमिति ।
गकारे घत्वाभावः केन संबन्धेन गृह्यत इत्यपेक्षायां समवेतेन विशेषणविशेष्यभावेनेत्याह ? यदेति ।
घत्वरहितो गकार इति विशेषणत्वेन, गकारे घत्वं नास्तीति विशेष्यत्वेन ग्रहणमित्यर्थः ।
नन्वितरत्राप्यभावग्रहणं प्रदर्श्यतामित्याशङ्क्य सर्वं प्रदर्शितप्रायमेवेति मत्त्वा निगमयति - तदेवमिति ।
तत् तस्मात्समानन्यायत्वादेवमुक्तया रीत्या संक्षेपतः सामान्येन पञ्चविधसंबन्धसंबद्धविशेषणविशेष्यभावेन संबन्धेनाभावग्रहणमुक्तं भवति ।
अवशिष्टं बुद्धिमता स्वयमूहितुं शक्यम् ।
रसत्वरहितं घटरूपम् ।
रूपे रसत्वं नास्तीति संयुक्तसमवेतविशेषणविशेष्यभावेनाभिन्नं रूपत्वम् ।
126.
रूपत्वे भेदो नास्तीति संयुक्तसमवेतसमवेतविशेषणविशेष्यभावेनाभिन्नं गत्वं गत्वे भेदो नास्तीति समवेतसमवेतविशेषणविशेष्यभावेन ग्रहणमिति भावः ।
समवायस्याप्रत्यक्षत्वमन्ये मन्यन्ते तन्मतं निरसितुमभाववच्छष्ठसंबन्धात् समवायस्य ग्रहणमित्याह ? एवं समवायोऽपीति ।
पटसमवायवन्तस्तन्तव इति समवायस्य विशेषणविशेष्यत्वेन ग्रहणमित्यर्थः ।
रूपत्वसमवायवद्रूपं रूपे रूपत्वसमवायः ।
शब्दत्वसमवायवान् शब्द इत्युदाहरणीयम् ।
उक्तं संनिकर्षषट्कमुपसंहरति - तदेवमिति ।
यतः संबन्धिनोऽभिमता अत एवमुक्तप्रकारेणापरोक्षप्रमाहेतुः षट्प्रकारः संबन्धो व्याख्यात इत्यर्थः ।
अत्र संग्रहश्लोकश्च -
घटतन्नीलनीलत्वशब्दशब्दत्वजातयः ।
अभावसमवायौ च ग्राह्यौ संबन्धषट्कतः ॥ १ ॥
विदुषां कण्ठभूषार्थं प्रतिपादितस्य प्रमेयजातस्य कारिकया संग्रहश्च क्रियत इत्याह ? संग्रहश्चेति ।
उक्तप्रमेयानन्तरवतानेन कारिका निगदव्याख्यातेति ।
ननु साक्षात्कारिणी प्रमा द्विविधा सविकल्पकनिर्विकल्पकभेदादित्युक्तम् ।
तदरमणीयम् ।
आरोपितविषयत्वेन सविकल्पकस्य प्रामाण्यासंभवात् ।
वस्तुमात्रावभासिनो निर्विकल्पकस्यानारोपितविषयत्वेन प्रामाण्योपपत्तेश्चेति सविकल्पकस्य प्रामाण्यमसहमानो बौद्धः प्रत्यवतिष्ठते - नन्वित्यादिना ।
तत्र निर्विकल्पस्य प्रत्यक्षत्वमभ्युपगच्छति - निर्विकल्पकं प्रत्यक्षं भवत्विति ।
अत्र प्रत्यक्षशब्देन साक्षात्कारिणी प्रमितिर्विवक्ष्यते तत्रैव प्रतिगतमक्षं प्रत्यक्षमिति व्युत्पत्तेरुपपत्तेः ।
साक्षात्कारिप्रमाया अक्षजन्यत्वेनाक्षं प्रतिगतत्वात् ।
तत्संबन्धत्वादितरत्र प्रत्यक्षशब्दो योगमनपेक्ष्य गोपङ्कजादिशब्दवद्रूढ्या प्रवर्तत इति ।
निर्विकल्पकस्य प्रत्यक्षत्वे युक्तिमाह ? परमार्थेति ।
स्वं स्वीयं रूपं लक्षणं व्यावर्तकं यस्य तत्तथोक्तम् ।
सर्वतो व्यावृत्तं वस्तुस्वरूपं स्वलक्षणशब्दार्थः ।
स्वलक्षणस्य परमार्थत्त्वादनारोपितत्वात्तद्विषयं ज्ञानं प्रत्यक्षमित्यर्थः ।
ननु निर्विकल्पकवत्सविकल्पकं प्रत्यक्षं भवतु किमपराद्धमनेनेत्यत आह ? सविकल्पकं त्विति ।
तु तथा न भवतीत्यर्थः ।
तदेव दर्शयति - कथं प्रत्यक्षमिति ।
प्रत्यक्षं न भवतीत्यर्थः ।
निर्विकल्पकवत्सविकल्पकमपि स्वलक्षणविषयं चेद्भविष्यति प्रत्यक्षमित्याशङ्क्याह ? सामान्यविषयमिति ।
सामान्यं कल्पितम् ।
अतस्तद्विषयत्वाप्रत्यक्षं न भवतीत्यर्थः ।
सविकल्पकस्य सामान्यविषयत्वं कुतोऽवसीयते तत्राह ? अनुगतेति ।
तत्र दृष्टान्तमाह ? शब्दलिङ्गवदिति ।
शब्द आगमः ।
लिङ्गमनुमानम् ।
ताभ्यामवगम्यमानोऽर्थः सामान्यात्मना प्रतीयते ।
न तु सर्वतो व्यावृत्तः ।
तद्वत्सविकल्पकमप्यनुगतमेवाकारमवगाहत इत्यर्थः ।
ननु स्वलक्षणविषयं निर्विकल्पकं प्रत्यक्षं सामान्यविषयं सविकल्पकं प्रत्यक्षं (न?) भवतीति कुतः समायातमिदं वैषम्यं तत्राह ।
अर्थजस्येति ।
अर्थजन्यत्वेन निर्विकल्पकं ज्ञानं प्रत्यक्षमित्यर्थः ।
ननु निर्विकल्पकवत्सविकल्पकमप्यर्थजत्वातप्रत्यक्षं भवतु तत्राह ? अर्थस्य च परमार्थेति ।
सांवृतसत्यत्वेऽपि सामान्यस्य परमार्थसत्यत्वाभावात् प्रत्यक्षजनकत्वं नास्तीत्यर्थः ।
नन्वबाधितत्वात्स्वलक्षणवत्सामान्यं तर्हि परमार्थतः सद्भवतु नेत्याह ? स्वलक्षणमिति ।
पक्षान्तरं वारयति - नन्विति ।
अबाधितत्वादिति हेतुरसिद्ध इत्यर्थः ।
तत्र युक्तिं वक्ति - तस्य प्रमाणेति ।
सामान्यं व्यक्तिषु वर्तत इति वदन् वादी प्रष्टव्यो जायते किं कार्त्स्न्येन वर्तत उतैकदेशेनेति ।
नाद्यः ।
व्यक्त्यन्तरे तस्य प्रतिपत्त्युनुपपत्तेः ।
न द्वितीयः ।
निरंशस्य तस्यैकदेशासंभवात् ।
अनेन वृत्तिविकल्पेन प्रमाणवद् दृढेन निरस्तः पराकृतो विधिभावोऽस्तित्वं यस्य तत्तथोक्तम् ।
तस्य तुच्छत्वाच्छशविषाणवदन्यन्तासत्त्वादित्यर्थः ।
यद्येवं घटोऽयं घटोयमिति व्यवहारस्य का गतिस्तत्राह ? अन्यव्यावृत्त्यात्मन इति ।
घटोऽयमित्यघटव्यावृत्तोऽयमित्यर्थः ।
एवं पटोऽयमित्यपटव्यावृत्तोऽयमिति ।
सर्वत्रान्यापोहरूपा जातिः सर्वव्यवहारालम्बनमतः सामान्यस्य परमार्थत्वाभावात्तद्विषयं सविकल्पकं प्रत्यक्षं न भवतीत्यर्थः ।
समाधत्ते - नैवमिति ।
न हि प्रतिज्ञामात्रेणार्थसिद्धिरित्याशङ्क्य तत्र युक्तिं कथयति - सामान्यस्येति ।
अयमाशयः ।
विमतं सविकल्पकं ज्ञानं प्रत्यक्षम् ।
अबाधितत्वे सत्यपरोक्षावभासितत्वात् ।
निर्विकल्पकवत् ।
न चाबाधितत्वमसिद्धं शुक्तिकायामिदं रजतमित्यादिवत् ।
अत्र बाधकस्यानुपलम्भात् ।
ननु सामान्यविषयं सविकल्पकं सामान्यं च कृत्स्नैकदेशवृत्तिविकल्पपराहतम् ।
अतस्तद्विषयस्य प्रत्यक्षत्वकल्पना कथमत्र कल्प्यत इति चेत् तथागततथामतिं वितथां मा कृथाः ।
समवायलक्षणया वृत्त्या सर्वासु व्यक्तिषु सामान्यं च वर्तत इत्युक्ते कृत्स्नैकदेशविकल्पस्यानवकाशपराहतत्वात् ।
व्यावृत्तासु व्यक्तिष्वनुगतसामान्यानभ्युपगमे एकाकारप्रत्ययप्रयोगयोर्निरालम्बनतापत्तेश्च ।
नन्वपोहरूपा जातिरालम्बनमस्त्विति चेत् ।
मैवम् ।
129.
यतो घटोयमित्यघटव्यावृत्तोयमिति यद्युच्येत तर्हि घटाप्रतिपत्तौ न तद्व्यवच्छेदेनाघटप्रतिपत्तिस्तदप्रतिपत्तौ च न तद्व्यवच्छेदेन घटप्रतिपत्तिरिति घटप्रतिपत्तावघटप्रतिपत्तिरघटप्रतिपत्तौ च घटप्रतिपत्तिरिति दुरात्मा दुःपरिहरः परस्पराश्रयवज्रप्रहारस्तव शिरसि पतिष्यति ।
किं चानुगतसामान्यानङ्गीकारे संकेताविनाभावयोर्दुर्ग्रहत्वेन शब्दानुमानयोरुच्छेदेन तन्निबन्धनः सर्वो व्यवहारो दत्तजलाञ्जलिकः स्यात् ।
अतः सामान्यं वस्तुभूतमबाधितत्वात् स्वलक्षणवत् ।
अन्यथा सामान्यविषयसविकल्पानन्तरमर्थक्रियासमर्थवस्तुप्राप्तिर्न स्यादिति विपक्षे बाधकस्तर्कः ।
न चाबाधितत्वादिति हेतुरसिद्धे (द्धो?) बाधानुपलम्भात् ।
न च वाच्यं मणिप्रभायां मणिबुद्धेरिव सविकल्पकस्य पारंपर्येणार्थप्रतिबन्धादर्थप्राप्तिरिति ।
अर्थासंस्पर्शिनः सविकल्पकस्य स्वाकारसमपर्कत्वानुपपत्तेः ।
किं च सामान्यमारोपितमिति वदता क्वचित्तस्य वस्तुभूतत्वमभ्युपगन्तव्यम् ।
भ्रान्तेरभ्रान्तिपूर्वकत्वनियमादिति ।
तथा च तद्विषयं सविकल्पकं प्रत्यक्षमेवेतीयता प्रबन्धेनोपपादितमर्थमुपसंहरति - तदेवमिति ।
येन कारणेन परमतं पराकृतं तेन सविकल्पकनिर्विकल्पकभेदभिन्नायाः प्रमायाः करणं प्रत्यक्षमिन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षमिति सूत्रोक्तं व्याख्यातं विशेषेण निरूपितमित्यर्थः ।
उपजीव्यं प्रत्यक्षं निरूप्य तदुपजीवकमनुमानं निरूपयितुमुपक्रमते - लिङ्गपरामर्शेति ।
नन्वनुमानशब्दः किं भावसाधनः किं कर्तृसाधनो
130.
वा कर्मसाधनो वा करणसाधनो वाधिकरणसाधनो वा ।
ल्युट् च [३ ।
३ ।
११५] कृत्यल्युटो बहुलम् [३ ।
३ ।
११३] करणाधिकरणयोश्च [३ ।
३ ।
११७] इति सूत्रैर्भावकर्तृकर्मकरणाधिकरणेषु ल्युटो विहितत्वादित्याशङ्क्याभिमतां व्युत्पत्तिं दर्शयति - येनेति ।
ननु करणसाधनस्यानुमानशब्दस्य परामर्शनं परामर्श इति भावसाधनेन परामर्शंशब्देन कथं सामानाधिकरण्यं तत्राह ? लिङ्गपरामर्शेन चेति ।
फलितमाह ? अत इति ।
यतो लिङ्गपरामर्शस्यानुमापकत्वमस्त्यतो लिङ्गपरामर्शोऽनुमानमिति वाचोयुक्तिर्युक्तिमतीत्यर्थः ।
कोऽसौ लिङ्गपरामर्श इति जिज्ञासायामुदाहरणमुखेनाविष्करोति - तच्चेति ।
धूमादिज्ञानापेक्षया तदिति नपुंसकलिङ्गनिर्देशः ।
शैत्यं हि यत् सा प्रकृतिर्जलस्येतिवत् ।
यथाह वृद्धाः - सर्वनामान्युद्देशाभिधेययोरेकत्वमापादयन्ति पर्यायेण तल्लिङ्गभाञ्जि भवन्तीति ।
धूमादिज्ञानस्य लिङ्गपरामर्शत्वं कुत इत्यत आह ? अनुमितिं प्रतीति ।
कासावनुमितिः किं नाम तत्करणमित्याशङ्क्य तदुभयं स्पष्टयति - अग्न्यादीति ।
लिङ्गपरामर्शयोः स्वरूपं जिज्ञासमानः पृच्छति - किं पुनरिति ।
तस्येति तच्छब्देन प्रकृतत्वाल्लिङ्गं परामृश्यते ।
उत्तरं वक्तुं प्रतिजानीते - उच्यत इति ।
लीनमर्थं गमयतीति लिङ्गशब्दो निष्पन्न इति मनसि निधायाह ? व्याप्तिबलेनेति ।
व्याप्तिस्मरणेनानुमापकं लिङ्गमित्यर्थः ।
तदुदाहृत्य दर्शयति - यथेति ।
ननु व्याप्तिबलेन गमकं लिङ्गमित्युक्तम् ।
तादृग् गमकत्वं किं धूमेऽस्ति ।
अस्त्येवेति प्रतिपादयितुं प्रतिजानीते - तथा हीति ।
व्याप्तेः स्वरूपमाह ? यत्रेत्यादिना ।
धूमाग्नी सह चरत इति सहचरौ तयोर्भावः साहचर्यम् ।
तन्नियमो व्याप्तिः ।
साहचर्यमात्रं व्याप्तिर्न भवति ।
किंत्वनौपाधिकः संबन्धो व्याप्तिरिति सूचयितुं नियमग्रहणमित्यर्थः ।
व्याप्तिमेवाभिनीय दर्शयति - यत्र धूमस्तत्राग्निरिति ।
ननु व्याप्त्या गमकं लिङ्गमित्येतावतैवालम् ।
किं बलशब्देनेत्याशङ्क्य बलशब्दस्योपयोगमाह ? तस्यामिति ।
व्याप्तौ गृहीतायामेव धूमोऽग्निमनुमापयति नान्यथेत्यर्थः ।
फलितमाह ? अत इति ।
यतो व्याप्तिग्रहणस्यावश्यंभावोऽत इत्यर्थः ।
अनुमापकत्वादनेनानुमेयज्ञापकत्वादित्यर्थः ।
लिङ्गस्वरूपं निरूप्य लिङ्गपरामर्शस्वरूपं निरूपयति - तस्येति ।
धूमस्येत्यर्थः ।
तृतीयज्ञानमित्युक्ते प्रथमद्वितीयापेक्षा जायते तृतीयशब्दस्य सापेक्षशब्दत्वात् ।
अतस्तृतीयज्ञानस्य परामर्शत्वं कथं स्यादित्याशङ्क्य तृतीयज्ञानस्य परामर्शत्वं प्रतिपादयितुं प्रतिजानीते - तथा हीति ।
प्रथमद्वितीयज्ञानानिरूपणे तृतीयज्ञानस्य निरूपयितुमशक्यत्वात्प्रथमं प्रथमज्ञानं निरूपणीयम् ।
तत्तु व्याप्तिग्रहणदशायां संभवति ।
अतस्तदर्थमुपोद्घातप्रक्रियया व्याप्तिग्रहणप्रकारं दर्शयति - प्रथमं तावदिति ।
प्रतिपाद्यमर्थं बुद्धौ संगृह्य प्रागेव तदर्थमर्थान्तरवर्णनमुपोद्घातः ।
तदुक्तम् -
'चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं प्रचक्षते' इति ।
महानसादाविति ।
अग्न्यङ्गारादिरादि शब्दार्थः ।
तत्र धूमाग्न्योः
132.
स्वाभाविकं संबन्धमवधारयति निश्चिनोतीत्यर्थः ।
केन निश्चिनोतीत्यत आह ? तेन भूयोदर्शनेनेति ।
तद्भूयोदर्शनं कुत्र भवतीत्यत्राह ? महानसादाविति ।
भूयोदर्शनमेवाविष्करोति - भूयो भूय इति ।
व्याप्तिमभिनीय प्रदर्शयति - यत्र धूम इति ।
यद्यपि धूमधूमध्वजयोः प्रथमदर्शनेन संबन्धोऽवधारितस्तथापि संबन्धमात्रेणाविनाभावोऽपि त्वनौपाधिकः संबन्धः ।
स च भूयो भूयः संबन्धग्रहणजनितसंस्कारसहकृतेन चरमप्रत्यक्षेणाध्यवसीयत इति भावः ।
ननु संबन्धावधारणेनालं किं स्वाभाविकग्रहणेनेत्याशङ्क्य स्वाभाविकपदस्योपयोगमाह ? यद्यपीत्यादिना ।
धूमाग्निवन्मैत्रीतनयत्वश्यामत्वयोः संबन्धे समानेऽपि संबन्धः स्वाभाविको न भवति ।
किं त्वौपाधिकः ।
उपाधेरागत इति भावः ।
कस्तत्रोपाधिस्तत्राह ? शाकादीति ।
शाकाद्याहारपरिणतिभेदस्यौपाधिकत्वम् प्रतिपादयितुं प्रतिजानीते - तथा हीति ।
कश्चन्मैत्र्याः प्राचीनान् सप्त पुत्रान् श्यामाननुभूयाष्टमः पुत्रो जात इत्याकर्ण्येत्थमनुमानं प्रयुङ्क्ते ।
विमतोऽष्टमः पुत्रः श्यामो भवितुमर्हति मैत्रीतनयत्वात् ।
प्राचीनमैत्रीतनयोदिति ।
तत्रान्यो ब्रूते - श्यामत्वे मैत्रीतनयत्वं न प्रयोजकं किं तु शाकाद्याहारपरिणाम एवेति भावः ।
ननु शाकाद्याहारपरिणतिभेदस्योपाधित्वं प्रतिपादयितुमुपक्रम्य प्रयोजकत्वप्रतिपादनमयुक्तमित्याशङ्क्य संज्ञाभेदो न संज्ञिभेद इत्याह ? प्रयोजक इति ।
133.
'व्याप्तेश्च दृश्यमानायाः कश्चिद्धर्मः प्रयोजकः ।
अस्मिन् सत्यमुना भाव्यमित्याशङ्क्य निरूप्यते ॥
समासमाविनाभावावेकत्र स्तो यदा तदा ।
समेन यदि नो व्याप्तिस्तयोर्हीनोऽप्रयोजकः ॥' इति ।
आभ्यां श्लोकाभ्यामुपाधिः प्रयोजक उपाधिमानप्रयोजक इत्यभियुक्तैरुच्यत इत्यर्थः ।
उपाधिर्नाम साधनाव्यापकत्वे सति साध्यसमव्याप्तिः ।
तदुक्तं वरदराजेन -
'साधन व्यापकाः साध्यसमव्याप्ता ह्युपाधयः' ।
इति ।
साध्यसमव्याप्तिरुपाधिरित्युक्तेऽनित्यः शब्दः कृतकत्वाद् घटवदिति प्रयोगे सकर्तृकत्वमुपाधिः स्यात् ।
यत्र यत्र सकर्तृकत्वं तत्र तत्रानित्यत्वम् ।
यत्र यत्रानित्यत्वं तत्र तत्र सकर्तृकत्वमिति समव्याप्तेः सद्भावात् ।
अत उक्तं साधनाव्यापकत्वे सतीति ।
तावत्युक्ते तत्रैव घटत्वमुपाधिः स्यात् शब्दे कृतकत्वस्य सत्त्वेऽपि घटत्वाभावात् ।
अत उक्तं - साध्यव्याप्तिरिति ।
तावत्युक्ते तत्रैवाश्रावणत्वमुपाधिः स्यात् ।
शब्देऽश्रावणत्वं नास्ति ।
यत्रानित्यत्वं तत्राश्रावणत्वमस्ति ।
तस्मादुक्तलक्षणसद्भावात्तस्योपाधित्वं व्यावर्तयितुं समग्रहणम् ।
यथा जपाकुसुमं स्वसंनिहिते स्फटिके स्वगतं रक्तिमानमाधाय रक्तः स्फटिक इति व्यवहारं जनयति तद्वदुपाधिरपि स्वसंस्पृष्टे साधनत्वाभिमते वस्तुनि स्वनिष्ठां व्याप्तिमासञ्जयति ।
अत एव स्वस्मिन्निव स्वसंसर्गिणि स्वधर्मासञ्जक उपाधिरित्युपाधिशब्दार्थं निराहुः ।
134.
अतस्तेन क्वचित् साध्येन सह दृष्टेनापि व्यापकावधारणा नेष्टा ।
यथाहुराचार्याः -
'अन्ये परप्रयुक्तानां व्याप्तीनामुपजीवकाः ।
तैर्दृष्टैरपि नैवेष्टा व्यापकांशावधारणा' ॥ इति ।
ननु मैत्रीतनयत्वशामत्वयोः संबन्धे यथोपाधिरस्ति तथा धूमधूमध्वजयोः संबन्धे किमुपाधिरस्ति ।
नेत्याह ? न चेति ।
उपाधिरस्तीति वदन्वादी प्रष्टव्यः किं योग्योस्त्युतायोग्यः ।
न चरमः ।
अयोग्यस्य शशविषाणवद्बुद्ध्यनारोहे शङ्काया अनवकाशपराहतत्वादित्याह ? अयोग्यस्येति ।
अस्तु तर्हि प्रथमः ।
तत्राह ? योग्यस्येति ।
उपलब्धुं योग्यश्चेद् घटादिवदुपलभ्येत ।
न चोपलभ्यते तस्मान्नास्तीति निश्चीयत इति भावः ।
ननु उपलब्धुं योग्यस्योपाधेरुपलभ्यमानत्वं कुत उपलब्धं तत्राह ? यत्रेति ।
तादृशमुपाधिकमुदाहरति - यथेति ।
यत्र धूमोऽस्ति तत्राग्निरस्तीति धूमस्याग्निसंबन्धो निश्चेतुं पार्यते ।
धूमधूमध्वजयोः कार्यकारणभावस्यान्वयव्यतिरेकाभ्यां निश्चितत्वेन कारणातिपाते कार्यभावस्यासंभवात् ।
यत्राग्निरस्ति तत्र धूमोऽस्तीति नियमो नास्ति ।
अग्नेर्धूमसंबन्धस्यार्द्रेन्धनसंबन्धिनिबन्धनत्वादिति भावः ।
'सर्वव्याख्याविकल्पानां द्वयमिष्टं प्रयोजनम् ।
पूर्वत्रापरितोषो हि विषयव्याप्तिरेव च ॥'
इति सद्भावाद्विषयव्याप्त्यर्थमुदाहरणान्तरमाह ? हिंसात्वस्येति
135.
अत्राहिंसा परमो धर्म इत्यभिमानवानार्हतः पण्डितंमन्यो मन्यते ।
अग्नीष्टोमीयहिंसा अधर्मो हिंसात्वाद् व्यर्थहिंसावदिति ।
तत्र सकललोकानुग्राहको महाजनपरिगृहीतवेदधर्मपालको वैदिकशिरोमणिर्ब्रूते - अधर्मत्वे हिंसात्वं न प्रयोजकं किं तु निषिद्धत्वमिति ।
यत्र निषिद्धत्वं तत्राधर्मत्वं यथाभक्ष्यभक्षणादाविति व्याप्तेः सत्त्वात् ।
ननु यत्र हिंसात्वं तत्राधर्मत्वं यथा व्यर्थहिंसायामिति व्याप्तिरस्तीति चेत् ।
तदेतत्पण्डितहृदयपुण्डरीकं नावलम्बते विकल्पासहत्वात् ।
तथाहि व्यर्थहिंसायामधर्मत्वं केन प्रमाणेनावसितं देवानां प्रियेण त्वया प्रत्यक्षेणानुमानेनागमेन वा ।
नाद्यः ।
तस्यातीन्द्रियत्वेनेन्द्रियग्रहणानर्हत्वात् ।
न द्वितीयः ।
तद्व्याप्तिलिङ्गाभावात् ।
अतो निषेधशास्त्रगम्यमिति वक्तव्यम् ।
तथा सति निषिद्धत्वमेव अधर्मत्वप्रयोजकम् ।
निषिद्धत्वव्यावृत्त्यामधर्मव्यावृत्तेर्देवपूजादौ दृष्टत्वादिति भावः ।
निश्चितोपाधेरुदाहरणमभिधाय शङ्कितोपाधेरुदाहरणमभिधत्ते - मैत्रीतनयत्वस्येति ।
श्यामत्वे साध्ये मैत्रीतनयत्वस्य हेतोः शाकाद्याहारपरिणतिभेद उपाधिः ।
पक्षत्वेनाभिमते मैत्रीतनये शाकाद्याहारपरिणतिभेदाभावेऽपि बाधकाभावान्मैत्रीतनयत्वं प्रति न व्यापक उपाधिः ।
श्यामिकां प्रति कारणत्वेन व्यापकः ।
ननु यत्र श्यामत्वं तत्र शाकाद्याहारपरिणतिभेद इति न संगच्छते ।
श्यामेऽपि नीलोत्पलदलादावुक्तोपाधेरसंभवादिति चेत् ।
तदसमञ्जसम् ।
यतः श्यामत्वं मनुष्यधर्म इति
136.
केचिदूचिरे ।
पुरुषस्य श्यामत्वमिति साध्यस्य विशेषितत्वं परे मेनिरे ।
उक्तोपाधेर्मैत्रीतनयत्वं प्रत्यव्यापकत्वानिश्चयाच्छङ्कितत्वं शङ्कितोपाधेरगमकत्वमुदितं तौतातितैः ।
'यावच्चाव्यतिरेकित्वं शतांशेनापि शङ्क्यते ।
विपक्षस्य कुतस्तावद्धेतोर्गमनिकाबलम् ॥' इति ।
ननु प्रकृते किं तादृश उपाधिरस्ति नेत्याह ? न चेति ।
ननूपाध्यभावः केन प्रमाणेनावसीयते तत्राह ? यद्यभविष्यदित्यादिना ।
प्रत्यक्षेणैवावधार्यत इति प्रथमसमन्वयः कर्तव्यः ।
ननु घटोपलम्भे सति घटाभाववदुपाध्युपलम्भेऽपि तदभावो दुरवधारण इत्याशङ्क्याह ? अनुपलम्भेति ।
लोके यथा सनाथः पुमान् कार्यं कर्तुं शक्नोति तद्वदनुपलम्भध्रीचीनं प्रत्यक्षमुपाध्यभावमध्यक्षयितुं क्षमते इति भावः ।
ननूपलम्भसहितमपि प्रत्यक्षं नोपाध्यभावग्रहणसमर्थं तथाऽदर्शनादित्याशङ्क्याह ? तर्कसहकारिणेति ।
तर्कं प्रदर्शयति - यद्यभविष्यदिति ।
क्रियातिपत्तौ लॄङ् ।
यथा दहनव्याप्ते धूमे सति दहनोऽस्त्येव ।
तथोपलब्धुं योग्यस्य भवनमुपलम्भेन व्याप्तमिति भूतले दृष्टम् ।
ततश्च व्याप्ये सति व्यापकेन भवितव्यमिति भावः ।
विपर्यये पर्यवसानमाह ? दर्शनाभावादिति ।
तर्कानुपलम्भनसहायेन प्रत्यक्षेणोपाध्यभावस्यावधारणे सति किं फलं भवतीत्यत आह ? तथा चेति ।
उपाध्यभावः भूयः सहभावदर्शनजनितसंस्कारसहायेन चरमप्रत्यक्षेण धूमसामान्यस्याग्निसामान्येन स्वभावमात्रनिबन्धनः संबन्धोऽवसीयते ।
इदमनेन नियतमिति भावः ।
उपपादितमुपसंहरति - तेनेति ।
येन कारणेन व्याप्तिग्राहकं प्रमाणं निरणायि तेनेत्यर्थः ।
पक्षान्तरं प्रतिक्षिपति - न त्वौपाधिक इति ।
व्याप्तिं निरूपयितुमुपक्रम्य स्वाभाविकसंबन्धनिरूपणमरमणीयमित्याशङ्क्य संज्ञाभेदमात्रं न संज्ञिभेद इति कथयति - स्वाभाविक इति ।
अस्त्येवमविनाभावावधारणप्रकारः ।
प्रस्तुते किमुपन्यस्तं तत्राह ? तदनेनेति ।
यस्माद् व्याप्तिग्रहणप्रकारः प्रदर्शितस्तस्मादनया रीत्या पूर्वोक्तेन चरमप्रत्यक्षेण व्याप्तौ गृह्यमाणायामित्यर्थः ।
तृतीयज्ञानस्य प्रथमद्वितीयसापेक्षत्वात्प्रथमं [प्रथम] ज्ञानं दर्शयति - महानस इति ।
किं द्वितीयज्ञानं तत्राह ? पर्वतादाविति ।
यत्र साध्यो धर्मः सिषाधयिषितस्तस्मिन् पक्ष इत्यर्थः ।
पक्षत्वेनाभिमते पर्वते पुनर्धूमज्ञानं तृतीयमित्याह ? तत्र चेति ।
परामृशत्यनुसंधत्त इत्यर्थः ।
अनुसंधानमाविष्करोति - अस्त्यत्रेति ।
व्याप्तिज्ञानाभावे कथमग्निना व्याप्तो धूम इत्यनुसंधानं संजाघटीति विशेषणज्ञानस्य प्रतिपत्तावङ्गत्वात्तत्राह ? व्याप्तिं स्मृत्वेति ।
स्मरणं ग्रहणमन्तरेण न संभवति अगृहीतस्य स्मरणादर्शनात् तत्राह ? गृहीतायामिति ।
इदानीं ग्रहणं चेन्नोपनीपद्यते कारणभावादित्यत आह ? पूर्वेति ।
लिङ्गदर्शनव्याप्त्यनुस्मरणाभ्यामेवानुमेयप्रतीतिरिति कन्दलीकारो जगाद ।
तन्मतं प्रतिक्षेप्तुं तृतीयज्ञानस्याभ्युपेतव्यत्वमुपक्षिपति - एतच्चेति ।
नन्वभ्युपेतव्यमिति नियम्यते ।
केयं राज्ञामाज्ञा न विपक्षे दण्डसद्भावादभ्युपेतव्यमित्याह ? अन्यथेति ।
अग्निव्याप्तो धूमोऽस्तीति तृतीयज्ञानानङ्गीकारे यत्र धूमस्तत्राग्निरस्त्विह तु कथमिति यदि कश्चिद् ब्रूयात् प्रत्यनङ्गीकारे वादी किं ब्रूयात् ।
अनुमेयस्यानियतदिग्देशप्रतिपत्तिपरिहारायेहापि धूमोऽस्तीति तेनापि वक्तव्यमित्यर्थः ।
ततश्च तृतीयज्ञानमङ्गीकरणीयमित्याह ? तस्मादिति ।
यस्मादनङ्गीकारेऽनुमेयप्रतिपत्तेरनियतदिग्देशता स्यात्तस्मादित्यर्थः स्यात् ।
अस्त्वेतत्तृतीयं ज्ञानं लिङ्गपरामर्शोऽनुमानमित्यत्र किमायातं तत्राह ? अयमेवेति ।
तृतीयज्ञानमेव लिङ्गपरामर्श इत्यर्थः ।
अस्यानुमानत्वं कथमित्याशङ्क्योक्तं मा विस्मार्षीरित्याह ? अनुमितीति ।
अतिशयितं कारणं करणम् ।
अतिशयश्चाविलम्बेन प्रमोत्पादकत्वं तत्तृतीयज्ञाने जागर्तीत्याह ? तस्मादिति ।
तृतीयज्ञानादित्यर्थः ।
प्रथमद्वितीययोर्ज्ञानयोरनुमितिं प्रति करणत्वासंभवात्तृतीयज्ञानस्य करणत्वमभ्युपगन्तव्यमित्यभिधातुं प्रथमं प्रथमज्ञानस्य करणत्वशङ्कामुद्भावयति - नन्विति ।
अस्त्येव प्राथमिकं ज्ञानं तत्तु नाग्न्यनुमितिं जनयेदिति व्याप्तिग्रहणभावादित्याह ? सत्यमित्यादिना ।
नन्वसत्यपि व्याप्तिग्रहणे धूमज्ञानादग्न्यनुमितिरुत्पद्यतां को दोष इत्याशङ्क्य तद्भावाभावानुविधायित्वेन कारणस्यातिपात एव कार्यस्य दोष इत्याह ? गृहीतायामिति ।
ननु तर्हि गृहीतव्याप्तिकस्य महानस एव धूमज्ञानादग्न्यनुमितिरुदयमासादयत्विति शङ्कते - अथ व्याप्तीति ।
परिहरति - मैवमिति ।
तत्रोपपत्तिं कथयति - अग्नेरिति ।
संदेहाभावे हेतुमाह ? दृष्टत्वेनेति ।
मास्तु संदेहस्तथाप्यनुमीयतामित्यत आह ? संदिग्ध इति ।
उक्तार्थे भाष्यकारोक्तिं प्रमाणयति - तथोक्तमिति ।
नरविषाणवदत्यन्ताज्ञाने करतलामलकवन्निर्णीतेऽर्थे न्यायोऽनुमानं न प्रवर्तत इति ।
तर्हि कुत्र प्रवर्तत इति जिज्ञासते - अपि तर्हीति ।
उत्तरमाह ? संदिग्ध इति ।
द्वितीयज्ञानस्य करणत्वं शङ्कते - अथ पर्वतेति ।
मात्रपदे पर्वते ननु संदेहाभावान्नाग्न्यनुमितिरित्यत आह ? अस्ति चेति ।
तत्र युक्तिं वक्ति - साधकेति ।
साधकं हि वस्तुनः सत्त्वं प्रत्याययति बाधकमसत्त्वम् ।
तदुभयाभावात्संदेहो न्याय्य इत्यर्थः ।
सत्यपि संदेहे व्याप्तिस्मरणाभावान्नानुमितेरुदय इत्यत आह ? असत्यमित्यादिना ।
कस्मात्पुनर्व्याप्तिस्मरणं जायत इत्यत आह ? धूमदर्शनादिति ।
व्याप्तिस्मरणप्रकारमाविष्करोति - यो यो धूमवानिति ।
भवतु नामैतत्तृतीयं ज्ञानं कदोत्पद्यत इत्यत आह ? तेन धूमदर्शन इति ।
तृतीयज्ञानमभिनीय प्रदर्शयति - धूमवांश्चायमिति ।
अग्निव्याप्तो धूमः पर्वतेऽस्तीति ज्ञानं तृतीयमित्यर्थः ।
अनुमितिकरणत्वं चास्य विद्यत इत्याह ? तदेवेति ।
लिङ्गपरामर्शोऽप्ययमेवेत्याह ? तदेवेति ।
पुनःकथनं विस्मरणशीलं प्रति न विस्मरणीयमिति सूचयितमिति भावः ।
उपपादितं लिङ्गपरामर्शस्यानुमानत्वं निगमयति - तेनेति ।
येन प्रथमद्वितीययोः करणत्वं न संभवति तेनेत्यर्थः ।
एतच्छब्दार्थमाह ? लिङ्गेति ।
140.
अनुमानं विभजते - तच्चेति ।
ते एव विधे दर्शयति - स्वार्थमिति ।
स्वयमेवाबुद्ध्य पश्चात्परो बोधनीय इति स्वार्थस्य प्रथममुद्देशः ।
स्वस्यानुमेयप्रतिपत्तिलक्षणं प्रयोजनं यस्माद्भवति तत् स्वार्थम् ।
परस्यानुमेयप्रतिपत्तिलक्षणं प्रयोजनं यस्माद्भवति तत्परार्थमित्यर्थः ।
इदमेव प्रवृत्तिनिमित्तं हृदि निधाय स्वार्थस्य लक्षणमाह ? स्वार्थमिति ।
तदेतदुपपादयति - तथाहीति ।
ननु लिङ्गपरामर्शोऽनुमानमित्युक्तम् ।
लिङ्गपरामर्शश्चाग्निव्याप्तो धूमः पक्षेस्तीति तृतीयज्ञानात्मकः ।
स च व्याप्तिज्ञानमन्तरेण न संभवति ।
विशेषणज्ञानाभावे विशिष्टज्ञानानुदयात् ।
तत्राह ? व्याप्तिं स्मरतीति ।
एतावन्तमनेहसमजायमानं व्याप्तिस्मरणं कथमिदानीं जातमित्यत्राह ? उद्बुद्धसंस्कार इति ।
उद्बोधो नाम कार्योन्मुख्यम् ।
ननु संस्कारस्योद्बोधः कुतो जायत इत्यत आह ? धूमदर्शनादिति ।
ननु प्रशान्तेऽपि धूमध्वजे प्रतीयमानधूमज्ञानाज्जायमानं दहनज्ञानं किमनुमितिरित्याशङ्क्य विशिष्टधूमदर्शनेन भवितव्यमित्याह ? अविच्छिन्नेति ।
संदिग्धे न्यायः प्रवर्तत इति न्यायात् संदेहोऽप्यनुमानाङ्गम् ।
सोऽपि विद्यत इत्याह ? अग्नौ संदिहान इति ।
ननु महानसादावग्नेर्दृष्टत्वेन संदेहो नोदयमासादयेदित्यत आह ? तद्गते चेति ।
पर्वतनिष्ठे इत्यर्थः ।
ननु स्वगृहस्थितस्य पर्वतादर्शनात्तन्निष्ठाग्निसंदेहः कथं संबोभवीतीत्यत्राह ? पर्वतेति ।
अन्यत्र धूमं दृष्ट्वान्यत्राग्निसंदेहः कथं जायत इति शङ्कामपनयति - पर्वतान्तर्वर्तिनीमिति ।
नन्वननुभूतधूमधूमध्वजाविनाभावस्य
141.
तत्र स्मरणं न संपनीपद्यते ।
अननुभूते स्मरणायोगादित्यत आह ? धूमाग्न्योरिति ।
व्याप्तिः पूर्वं केन प्रमाणेन गृहीतेत्यत आह ? विशिष्टेनेति ।
उक्तसंस्कारद्वयसनाथेन प्रत्यक्षेणेत्यर्थः ।
कुत्रेत्यत आह ? महानसादाविति ।
अन्यानुभूतेऽन्यस्मरणं न संजाघटीति शङ्कां वारयति - स्वयमिति ।
व्याप्तिस्मरणमभिनीय प्रदर्शयति - यत्रेति ।
विशेषणज्ञानसद्भावाद्विशिष्टज्ञानमुत्पद्यत इत्याह ? अत्रापीति ।
अग्निव्याप्तो धूमोऽस्तीति प्रतिपत्तिर्जायत इत्यर्थः ।
ततः किमित्यत आह ? तस्मादिति ।
लिङ्गपरामर्शादग्न्यनुमितिरुत्पद्यत इत्यर्थः ।
उक्तमर्थमुपसंहरति - तदिति ।
स्वप्रतिपत्तिहेतुत्वात्स्वार्थानुमानमित्यर्थः ।
स्वार्थानुमानं निरूप्य क्रमप्राप्तं परार्थानुमानं निरूपयति - यत्त्विति ।
यच्छब्दस्य तत्परार्थानुमानमित्यत्र स्थितेन तच्छब्देनान्वयः ।
किं तदिति तत्राह ? पञ्चावयवमिति ।
प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्च अवयवा यस्य तत्तथोक्तम् ।
अनुमानवाक्यैकदेशत्वादवयवा इवावयवाः प्रतिज्ञादय इत्युपचारः ।
ननु स्वप्रतिपत्तये कोपि वाक्यं न प्रयुङ्क्ते परप्रतिपत्त्यर्थत्वाद्वाक्यप्रयोगस्येत्यत आह ? परं बोधयितुमिति ।
ननु स्वयमप्रतिपन्नः कथं परं बोधयितुं शक्नुयादित्यत आह ? स्वयं धूमादिति ।
तदुदाहरति - तद्यथेति ।
तत् पञ्चावयवस्य वाक्यस्यानुमानत्वं यथा स्पष्टं भवति तथोच्यत इत्यर्थः ।
पर्वतोऽग्निमानिति प्रतिज्ञा ।
धूमवत्वादिति हेतुः ।
यो यो धूमवान् स सोऽग्निमानिति यथा महानस इत्युदाहरणम् ।
तथा चायमित्युपनयः ।
तस्मात्तथेति निगमनमिति विभागः ।
ननु लिङ्गपरामर्शोऽनुमानमित्यनुमानसामान्यलक्षणम् ।
तस्य विशेषानुगमेन भवितव्यम् ।
न च परार्थानुमाने-
142.
ऽनुगतिरस्ति ।
तस्य वाक्यत्वेन लिङ्गपरामर्शत्वाभावादित्याशङ्क्य वाक्यस्य साक्षादनुमितिसाधनत्वाभावेऽपि तत्समर्थलिङ्गप्रतिपादकं वाक्यमनुमानमित्युपचारादुच्यत इति मनसि निधायाह ? अनेन हीति ।
संबन्धस्तादर्थ्यमनुपपत्तिस्तु दर्शितैवेत्युपचारनिदानं प्रसिद्धमिति द्योतयितुं हिः प्रयुक्तः ।
पक्षधर्मत्वादीनि पञ्च रूपाणि ।
तद्युक्ताल्लिङ्गात्तृतीयज्ञानविषयीकृतात्परस्याप्यग्न्यनुमितिर्जायत इत्यर्थः ।
उक्तमर्थमुपसंहरति - तेनेति ।
परप्रतिपत्तिहेतुत्वेनेत्यर्थः ।
अत्र साध्यसाधनविभागं करोति - तत्रेति ।
तस्मिन्ननुमान इत्यर्थः ।
ननु धूमवत्त्वं हेतुः किमन्वयी व्यतिरेकी अन्वयव्यतिरेकी वेति संशये निर्णयमाह ? स चेति ।
तत्र हेतुमाह ? अन्वयेनेति ।
यदा व्याप्तिशब्देन व्याप्यव्यापकभावो विवक्ष्यते तदान्वयेन व्यतिरेकेण चेति तृतीया इत्थंभावे वर्तते ।
तदयमर्थः - द्विविधो व्याप्यव्यापकभावः ।
अन्वयरूपो व्यतिरेकरूपश्चेति ।
तथा च भूषणे भासर्वज्ञग्रन्थः ।
'तत्र साधनसामान्यं व्याप्यं साध्यसामान्यं व्यापकमित्ययं व्याप्यव्यापकभावोन्वयः ।
साध्यसामान्याभावो व्याप्यः साधनसामान्याभावो व्यापक इत्ययं व्याप्यव्यापकभावो व्यतिरेकः' इत्युभयरूपव्याप्तेः सद्भावादित्यर्थः ।
यदा तु व्याप्तिशब्देनाविनाभावापरपर्यायः साहचर्यनियमो विवक्ष्यते तदान्वयेन व्यतिरेकेण चेति तृतीया चक्षुषा रूपं पश्यतीतिवत्करणार्थे वर्तते ।
तथा चायमर्थः - अन्वयव्यतिरेकौ व्याप्तिनिश्चायकाविति ।
तथा च न्यायकुसुमाञ्जलावुदयनग्रन्थः-
143.
'साध्यधर्मेणाविनाभवनमन्वयिन इव व्यतिरेकिणोऽप्यविशिष्टं तन्निश्चयश्चान्वयव्यतिरेकाभ्यामन्यतरेण च' इति ।
अन्वयव्यतिरेकाभ्यां व्याप्तेर्निश्चितत्वादित्यर्थः ।
अथवान्वयोऽनुगमो व्यतिरेको व्यावृत्तिः ।
उभयथा व्याप्यत्वात्संबन्धत्वादित्यर्थः ।
एतदेव प्रपञ्चयति - तथाहीत्यादिना व्यतिरेकसद्भावदर्शनादित्यन्तेन ।
व्याप्तिर्व्याप्यं व्यापकं चापेक्षते तदुभयपरतन्त्रत्वात्तस्याः ।
अतः किं तदुभयमित्याकाङ्क्षायां तदुभयं विभजते - व्यतिरेकेति ।
अधिकवृत्तिव्यापकं न्यूनवृत्ति व्याप्यम् ।
अङ्गारावस्थायां धूमाभावेऽप्यग्नेः सत्त्वादग्निर्व्यापको धूमो व्याप्यः ।
तत्रैवाग्न्यभावभावे सति धूमाभावस्य सत्त्वाद्धूमाभावो व्यापकोऽग्न्यभावो व्याप्य इत्यर्थः ।
उक्तेऽर्थेऽभियुक्तोक्तिं प्रमाणयति - तदुक्तमिति ।
भावयोर्धूमाग्न्योरित्यर्थः ।
तयोरभावयोरग्न्यभावधूमाभावयोरित्यर्थः ।
शब्दो गुणः सामान्यवत्त्वे सत्यस्मदादिबाह्यैकेन्द्रियग्राह्यत्वात् ।
यदुक्तसाधनं तदुक्तसाध्यम् ।
यथा रूपादि ।
तथा चायं तस्मात्तथेति ।
इत्यादयो द्रष्टव्या इति भावः ।
साधितमर्थं निगमयति - तदेवमिति ।
ननु सत्यपि व्याप्तिद्वये प्रयोगवेलायां केवलमन्वयव्याप्तिरेव प्रदर्शिता न तूभयव्याप्तिरित्याशङ्क्याह ? यत्त्विति ।
प्रदर्श्यत इति यत्तत्प्रदर्शनमित्यन्वयः ।
युक्तमिति शेषः ।
तत्र युक्तिमाह ? एकेनेति ।
नन्वेकेन फलसिद्धिर्भविष्यति चेत्तर्हि व्यतिरेकव्याप्तिः प्रदर्श्यतां किमन्वयव्याप्तौ पक्षपातस्तत्राह ? तत्रापीति ।
तयोर्मध्य इत्यर्थः ।
विध्यध्यवसायपूर्वकत्वान्निषेधाध्यवसायस्येत्यर्थः ।
ननु क्वचिद्व्यतिरेकव्याप्त्यापि
144.
फलसिद्धिर्दरीदृश्यत इत्यत आह ? ॠजुमार्गेणेति ।
यत्रर्जुमार्गेण नेष्टसिद्धिस्तत्र वक्रमार्ग आश्रयणीय एव ।
यत्रर्जुमार्गेणेष्टसिद्धिस्तत्र वक्रमार्गाश्रयणमयुक्तमित्यर्थः ।
प्रतिपादितमर्थं निगमयति - तदेवमिति ।
'व्यावृत्तं यद्विपक्षेभ्यः सपक्षेषु कृतान्वयम् ।
व्याप्त्या पक्षे वर्तमानमन्वयव्यतिरेकि तत् ॥'
इत्यन्वयव्यतिरेकिलक्षणलक्षितत्वादित्यर्थः ।
उक्तन्यायमन्यत्राप्यतिदिशति - एवमिति ।
अनित्यः शब्दः, कृतकत्वात्, यद्यत्कृतकं तत्तदनित्यं यथा घटः ।
तथा चायम् ।
तस्मात्तथेति ।
पञ्चरूपोपपन्नमन्वयव्यतिरेकिणं हेतुं निरूप्य चतूरूपोपपन्नं केवलव्यतिरेकिणं निरूपयति - कश्चिद्धेतुरिति ।
उक्तमर्थमुदाहरति - तद्यथेति ।
साध्यसाधनविभागं विदधाति - सात्मकत्व इति ।
अत्र प्राणादिशब्देन प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मनो लिङ्गानीति तृतीयाध्याये द्वितीयाह्निके कणादसूत्रोक्ताः प्राणादयो विवक्षिताः ।
प्रयोगप्रकारं दर्शयति - यथेत्यादिना ।
देहातिरिक्तमात्मानमङ्गीकुर्वाणं चार्वाकं वराकं प्रति देहातिरिक्त आत्मा साध्यते ।
शरीरमात्रपक्षीकरणे मृतशरीरे प्राणादिमत्त्वाभावेन भागासिद्धः स्यादत उक्तम् - जीवदिति ।
प्रतिज्ञाद्यवयवविभागप्रकारास्तु प्रागेव दर्शिताः ।
ननु प्राणादिमत्त्वहेतोः केवलव्यतिरेकित्वं कथमित्याशङ्क्यान्वयव्याप्तेरभावादित्याह ? अत्र हीत्यादिना ।
तदेतदुपपादयति - तथाहीति ।
धूमानुमाने महानसवन्निश्चितसाध्यो धर्मी नास्ति चार्वाकमते ।
सर्वस्य
145.
जीवच्छरीरस्य पक्षकुक्षिनिक्षिप्तत्वादित्यर्थः ।
ननु दृष्टान्ते धर्मिणि दृष्टो धर्मस्तद्व्याप्तेन हेतुना पक्षे विधीयते विपक्षे वा साध्यनिवृत्त्या साधननिवृत्तिः प्रदर्श्यते ।
अत्र तु सात्मकत्वं प्राणादिमत्त्वव्यापकत्वेन क्वापि न दृष्टम् ।
अतः कथं जीवच्छरीरे प्राणादिमत्त्वेन सात्मकत्वसिद्धिः कथं च घटादिषु सात्मकत्वनिवृत्त्या प्राणादिमत्त्वनिवृत्तिरिति चेत् ।
उच्यते ।
श्रूयतामवधानेन ।
लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्त इति गौतमेन भगवता प्रथमाध्यायप्रथमाह्निके दृष्टान्तलक्षणमभिहितम् ।
घटादिषु नैरात्म्य प्राणादिमत्त्वं चेत्यस्मिन्नर्थे सर्वसंप्रतिपत्तिरस्ति ।
अतः कथंकारं नायं दृष्टान्तः ।
व्याप्तिनिश्चयश्च क्वचिदन्वयव्यतिरेकाभ्यां क्वचिदन्यतरेणेति प्रागेव प्रपञ्चितम् ।
ततश्च व्याप्तस्य हेतोर्गमकत्वात् साध्यसिद्धिं को वारयेदित्यलम् ।
असाधारणधर्मत्वाद्व्यतिरेक्येवं लक्षणमिति तार्किकरक्षोक्तन्यायाचार्यरीतिमवलम्ब्य शिष्यव्युत्पादनाय प्रसक्तं किंचिदभिधत्ते - लक्षणमिति ।
'असपक्षं विपक्षेभ्यो व्यावृत्तं पक्षभूमिषु ।
सर्वासु वर्तमानं यत् केवलव्यतिरेकि तत् ॥'
इति व्यतिरेकिलक्षणलक्षितत्वाल्लक्षणस्यापि व्यतिरेकित्वमुपपद्यत इति भावः ।
सर्वद्रव्यादिभूतायाः पृथिव्या लक्षणस्य व्यतिरेकित्वं दर्शयितुं तल्लक्षणं च दर्शयति - गन्धवत्त्वमिति ।
गन्धात्यन्ताभावानधिकरणत्वमित्यर्थः ।
लक्षणस्य व्यतिरेकित्वं दर्शयति - विवादपदमिति ।
पृथिवी भवति न वेति विवादास्पदं पृथिवीति व्यवहर्तव्यम् ।
इतरेभ्यो भिद्यत इति वा साध्यनिर्देशः कर्तव्यः ।
व्यावृत्तिर्व्यवहारो वा लक्षणार्थ इत्यभियुक्तोक्तेरन्यथासाध्या विशिष्टता दोषप्रसङ्गाच्चेति ।
त्रीनुदाहरणान्तान् वा यद्वोदाहरणादिकानिति न्यायात् प्रतिज्ञादयस्त्रयोऽवयवा दर्शिताः ।
आ परमाणोरा च भूगोलकं पृथ्वीमात्रस्य पक्षीकृतत्वात् सपक्षाभावः ।
पृथिवीस्वरूपस्य प्रमाणसिद्धत्वान्नाश्रयासिद्धिः ।
लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिरिति तयोः कृत्यं वर्णयन्ति वृद्धाः ।
प्रमाणं वस्तुस्वरूपं ज्ञापयति - लक्षणमितरव्यावृत्तिमिति ।
ननु केवलव्यतिरेकि साध्यं क्वचित् प्रसिद्धमप्रसिद्धं वा ।
प्रसिद्धौ केवलव्यतिरेकित्वभङ्गप्रसङ्गोऽप्रसिद्धावप्रसिद्धविशेषणत्वमिति चेत् मैवम् ।
यतोऽप्रसिद्धविशेषणत्वं केवलव्यतिरेकिणो भूषणं न तु दूषणमित्यन्ये ।
यद्येवं तर्हि शशविषाणोल्लिखिता भूर्भूत्वान्न यदेवं न तदेवं ।
यथा गगनमित्यादेरपि साध्यसिद्धिः स्यादिति चेत् ।
मैवं विपक्षे बाधकसाधकतर्कसाहित्यराहित्याभ्यां साध्यसिद्ध्यसिद्ध्योरुपपत्तेरिति ।
अन्ये तु संदिग्धसिद्धावपि विशेषतः साध्यमानत्वान्नाप्रसिद्धविशेषणत्वं नापि साधनवैयर्थ्यमित्याचक्षते ।
विषयव्याप्त्यर्थं लक्षणान्तरस्य केवलव्यतिरेकित्वं प्रदर्शयति - प्रमाणेति ।
यथा पृथिवीलक्षणं गन्धवत्त्वं केवलव्यतिरेकि तथा प्रमाणलक्षणमपीति वा शब्दार्थः ।
प्रयुज्य प्रदर्श्यतामित्यत आह ? तथाहीत्यादिना ।
पक्षादीत्यादिशब्देनानुमानोपमानशब्दानां ग्रहणम् ।
ननु पर्वतोऽग्निमान् भवितुमर्हतीत्यादिवदत्रापि प्रत्यक्षादि प्रमाणं भवितुमर्हतीति साध्यनिर्देशः क्रियताम् ।
किं व्यवहारसाध्यत्वेनेत्यत आह ? अत्र तु व्यवहार इति ।
तत्र युक्तिमाह ? तस्येति ।
प्रमाणत्वस्य साध्यस्य प्रमाकरणत्वहेतोर्भेदाभावेन साध्याभेददोषः प्रसज्येत ।
साध्यं हि तद्भवति यत्साधनमर्हति ।
हेतुश्च सिद्ध एव साध्यं साधयितुं क्षमते ।
भेदसमानाधिकरणयोः सिद्धत्वसाध्यत्वयोरेकत्रावस्थानं न संगच्छते ।
अतः साध्यावैशिष्ट्यं दोष इत्यर्थः ।
साधितमर्थं निगमयति - तदेवमिति ।
एवमन्येऽप्येवंविधा हेतवः केवलव्यतिरेकिणो द्रष्टव्या इति ।
'सर्वेषु केषुचिद्वापि सपक्षेषु समन्वयि ।
विपक्षशून्यं पक्षस्य व्यापकं केवलान्वयि ॥'
इति लक्षणलक्षितं केवलान्वयिहेतुं निरूपयति - कश्चिदिति ।
प्रयोगप्रकारमाविष्करोति - यथेत्यादिना ।
अत्र वैशेषिकैः पञ्चमपदार्थत्वेनाभिमतो विशेषो यदवलम्बनेन तेषां वैशेषिकव्यवहारभाक्त्वं जातम् ।
अत्र हेतुसाध्यविभागं विधत्ते - अत्रेति ।
ननु कथमस्य विपक्षाभावः ।
स्तम्भकुम्भादिशब्दानभिधेयानामप्रत्यक्षप्रमेयाणां पर्वतगुहान्तवर्तिनामनेकेषां जागरूकत्वादित्याशङ्क्याभिधातृमात्रस्यानभिधेयस्य प्रमातृमात्रस्य प्रमाणमात्रापेक्षया अप्रमेयस्यार्थस्यासंभवादविद्यमानविपक्षत्वं युक्तमित्यभिप्रेत्य परिहारमाह ? स चेति ।
नन्वस्तु पुरुषमात्रस्यानभिधेयोऽप्रमेयश्च नरविषाणादिः स भवतु विपक्ष इत्यत आह ? सर्वत्रेति ।
अप्रामाणिकस्य निषेधानर्हत्वमुक्तमाचार्यैः ।
148.
'लब्धरूपं क्वचित् किंचित् तादृगेव निषिध्यते ।
विधानमन्तरेणातो न निषेधस्य संभवः ' ॥ इति ।
नन्वनेन हि वाक्येन प्रतिपादितार्थात् पञ्चरूपोपपन्नाल्लिङ्गात् परोऽप्यग्निं प्रतिपद्यत इति प्राक् प्रतिपादितम् ।
तत्र कानि तानि रूपाणीत्याकाङ्क्षायां तानि रूपाणि विवरीतुं प्रसङ्गं संपादयति - एतेषां चेति ।
एवकारस्य व्यवच्छेद्यमाह ? न त्विति ।
तानि पञ्च रूपाणि निरूपयति - तानि पञ्चेति ।
अनुपदमेव पक्षसपक्षविपक्षाणां लक्षणं वक्ष्यति ।
सिद्धं हि साधनं स्वसाध्यं साधयितुं शक्नोति ।
अतः प्रथममसिद्धत्वं निरसितुं पक्षधर्मत्वमुद्दिष्टम् ।
ततो विरुद्धत्वं व्युदसितुं सपक्षे सत्त्वम् ।
अनन्तरमनैकान्तिकतां निराकर्तुं विपक्षाद्व्यावृत्तिः ।
समनन्तरं कालात्ययापदिष्टतां प्रत्यादेष्टुमबाधितविषयत्वम् ।
पश्चात्प्रकरणसमतां प्रतिक्षेप्तुमसत्प्रतिपक्षत्वम् ।
तदनेन रूपपञ्चकेन हेत्वाभासपञ्चकं निरस्तं वेदितव्यम् ।
नन्वेतानि पक्षधर्मत्वादीनि धूमवत्त्वादिहेतौ किं विद्यन्ते ।
विद्यन्त एवेत्याह ? एतानि रूपाणीति ।
तत्र प्रथमरूपस्य सद्भावं दर्शयति - धूमवत्त्वं हीति ।
धूमवत्त्वं पर्वतनिष्ठतया प्रतीयमानत्वात् संदिग्धसाध्यस्य पर्वतस्य धर्मस्ततो धूमवत्त्वे पक्षधर्मत्वं विद्यत इत्यर्थः ।
द्वितीयरूपस्य सत्तां प्रदर्शयति - एवमिति ।
यथा पक्षधर्मत्वमस्ति तथा सपक्षे सत्त्वमपीत्येवंशब्दार्थः ।
एवमुत्तरत्राप्येवंशब्दार्थो द्रष्टव्यः ।
निश्चितसाध्ये महानसे तस्य सत्त्वादित्यर्थः ।
तृतीयचतुर्थपञ्चमरूपाण्यपि क्रमेण
149.
प्रदर्शयन् विशदयति - विपक्षादित्यारभ्य धूमवत्वमित्यन्तेन ।
धूमवत्त्वस्यासत्प्रतिपक्षत्वं प्रतिपादयितुं प्रतिजानीते - तथाहीति ।
प्रतिपक्षस्वरूपानवगमे असत्प्रतिपक्षत्वं दुरवगममित्याशङ्क्य प्रतिपक्षस्य लक्षणमाह ? साध्येति ।
साध्यविरुद्धधर्मप्रतिपादको हेतुः प्रतिपक्ष इत्यर्थः ।
अस्तु प्रस्तुते किमायातं तदाह ? स चेति ।
योग्यानुपलब्धिबाधितत्वात्सत्प्रतिपक्षः प्रकृते नास्तीत्यर्थः ।
उपपादितां रूपपञ्चकसंपत्तिमुपसंहरति - तदेवमिति ।
यतः पञ्च रूपाणि प्रदर्शितानि तत इत्यर्थः ।
फलितमाह ? तेनेति ।
गम्लॄ सृप्लॄ गतावित्येतस्माद्धातोर्निष्पन्नत्वाद्गमकशब्दस्य प्रापकत्वे भ्रान्तिर्मा भूदित्याह ? अग्निमत्त्वस्येति ।
धूमवत्वं हेतुरग्निमत्त्वं साधयति ज्ञापयतीत्यर्थः ।
ननु धूमवत्वं हेतुरग्निमत्त्वं साधयतीत्युक्तं तदयुक्तम् ।
विकल्पासहत्वात् ।
तथाहि किमत्राग्निसामान्यं साध्यं किं वा पर्वतनिष्ठोऽग्निराहोस्वित्तार्णत्वपार्णत्वादिविशिष्टः ।
नाद्यः ।
अग्निसामान्यस्याविवादास्पदत्वेन सिद्धसाधनत्वात् ।
न द्वितीयः ।
पर्वतनिष्ठेनाग्निना धूमस्य क्वचिदन्वयादृष्टावविनाभावस्य दुर्ग्रहत्वात् ।
न तृतीयः ।
तार्णपार्णादीनामनन्तत्वेन ग्रहणानुपपत्तावुक्तदोषानतिवृत्तेः ।
अत उक्तम् -
'विशेषेऽनुगमाभावात् सामान्ये सिद्धसाधनात् ।
तद्द्वयानुपपन्नत्वादनुमानकथा पुनः (कुतः?) ॥ इति ।
तदेतत्पराकर्तुमाह ? अग्नेः पक्षधर्मत्वमिति ।
धूमस्य पर्वतनिष्ठत्वेन वह्निरपि पर्वतनिष्ठ एव सेत्स्यति ।
व्याप्तिस्तु सामान्यनिष्ठा ।
अतो नोक्तदोषप्रसङ्ग इति भावः ।
उक्तमर्थमुपपादयितुं प्रतिजानीते - तथाहीति ।
अनुमानस्य द्वयं साध्यमित्युक्तम् ।
किं तद् द्वयमित्यत आह ? सामान्यमिति ।
अग्निसामान्यं पर्वतनिष्ठत्वलक्षणो विशेषश्चेत्यर्थः ।
किं केन सिद्ध्यतीत्यत आह ? तत्र व्याप्त्येति ।
अनुमानस्य द्वयं सामर्थ्यं व्याप्तिः पक्षधर्मता चेति पाठान्तरम् ।
तदा व्याप्तिर्नाम उभयविधोपाधिविधुरः संबन्धः ।
पक्षधर्मता नाम पक्षीकृतसकलव्यक्तिनिष्ठत्वम् ।
तत्र व्याप्त्येति तयोरुपयोग उक्तः ।
पक्षधर्मताबलाद्विशेषसिद्ध्यनङ्गीकारे बाधकमाह ? अन्यथेति ।
व्याप्तिग्राहकप्रमाणादेव सामान्यसिद्धेरनुमानस्य वैफल्यं स्यात् ।
अतो व्याप्त्या सामान्यसिद्धिः ।
पक्षधर्मताबलादभिमतविशेषसिद्धिरित्यर्थः ।
अत एवाह भूषणकारः - बहिर्व्याप्त्यन्तर्व्याप्तिप्रसादादुभयसिद्धिरिति पूर्वाचार्याः ।
यतः पक्षबहिर्देशे महानसादावग्निमात्रेण धूमस्य व्याप्तिः प्रतिपन्ना ततो धूमादग्निः सामान्येन सिद्ध्यति ।
यतस्तु पक्षान्तर्देशे धूम उपलभ्यते ।
ततस्तत्संबन्धादग्निविशेष एव सिद्ध्यति ।
न तार्णादिस्तत्सिद्धौ प्रतिबन्धानुपलब्धेः ।
तार्णादिविशेषाविनाभूतं धूमविशेषं यो विवेचयितुं शक्तस्तस्य तद्विदस्तार्णादिविशेषानुमानं भवतीति ।
धूमवत्त्वं हेतुरेक एव सम्यग्हेतुरिति भ्रमं व्युदसितुं धूमवत्त्वहेतुवदन्योऽपि सर्वोऽन्वयव्यतिरेकी पञ्चरूपोपपन्नश्चेति सद्धेतुरित्याह ? यस्त्वित्यादिना ।
तत्र पक्षधर्मताहीनश्चेदसिद्धो भवति ।
पक्षधर्मताहीनस्यासिद्धत्वमुदितमुदयनेन ।
व्याप्तस्य पक्षधर्मताप्रतीतिः सिद्धिस्तदभावोऽसिद्धिरिति ।
तथा सपक्षे सत्त्वेन हीनस्य पक्षविपक्षयोर्वर्तमानत्वेन विरुद्धता स्यात् ।
151.
विपक्षद्व्यावृत्तिरहितस्य पक्षत्रयवर्तित्वेनानैकान्तिकता स्यात् ।
सत्प्रतिपक्षत्वे प्रकरणसमता स्यात् ।
बाधितविषयत्वे कालात्ययापदिष्टता स्यात् ।
अत एकेनापि रूपेण हीनो हेत्वाभासो भवति ।
हेतुलक्षणरहितो हेतुवदाभासमानो हेत्वाभासो भवतीत्यर्थः ।
एतावता किमुक्तं भवतीत्याशङ्क्यासाधकत्वमुक्तं भवतीत्याह ? अहेतुरिति यावदिति ।
अहेतुशब्देन यावदुक्तं भवति तावदुक्तं भवतीत्यर्थः ।
ननु केवलान्वयिनोऽपि किं पञ्चरूपोपत्त्या भाव्यम् ।
नेत्याह ? केवलान्वयीति ।
तत्रोपपत्तिमाह ? तस्य हीति ।
केवलान्वयिसाध्यस्य सर्वपदार्थानुस्यूतत्वेन साध्याभाववतः पदार्थस्याभावादिति भावः ।
केवलव्यतिरेकिसाध्यस्य क्वचिदप्यभावेन सपक्षे सत्त्वाभावाच्चतूरूपोपपत्त्या तस्य साधकत्वमित्याह ? केवलव्यतिरेकीति ।
पक्षादीनां स्वरूपमजानानस्तज्जिज्ञासुः पृच्छति - के पुनरिति ।
पुनःशब्दो वाक्यालंकारे ।
लक्षणोदाहरणाभ्यां क्रमेण तावन्निरूपयितुमारभते - उच्यन्त इत्यादिना तत्रैव हृद इत्यन्तेन ।
तत्र साध्यधर्मा पक्ष इत्युक्ते सपक्षेऽतिव्याप्तिः ।
अत उक्तम् - संदिग्धेति ।
तथा सपक्षलक्षणगतनिश्चितग्रहणं पक्षातिव्याप्तिपरिहारार्थम् ।
केनचिन्मन्दधिया समारोपितसाध्याभावस्य सपक्षस्यापि विपक्षतां निवारयितुं विपक्षलक्षणे निश्चितग्रहणम् सर्वत्र 'धर्मादनिच् केवलात्' (५ ।
४ ।
१२४) इति बहुव्रीहौ धर्मशब्दादनिच् ।
धर्मिग्रहणं पक्षादीनां प्रमाणसिद्धत्वं द्योतयितुम् ।
अन्यथा सर्वत्र प्रमाणशून्यस्य वचनमात्रस्य संभवे हेतुर्हेत्वाभासो वेति
152.
विभागो न स्यादिति भावः ।
संदिग्धसाध्यः पक्षः, निश्चितसाध्यः सपक्षः, साध्यरहितो विपक्ष इति लक्षणसंग्रहः ।
इयता प्रबन्धेनोपपादितमर्थमुपसंहरति - तदेवमिति ।
सम्यग्हेतुत्वपरिज्ञप्तावत्यन्तोपयुक्तानां हेत्वाभासानां स्वरूपं निरूपयितुमुपक्रमते - ततोऽन्य इति ।
उक्तलक्षणेभ्यस्त्रिभ्यो हेतुभ्योऽन्ये इतरस्वरूपसंपत्तावप्येकेन रूपेण हीना हेतवो हेत्वाभासाः ।
तदनेन हेत्वाभासव्यावृत्ता हेतवः सम्यग्हेतव इति व्यतिरेकिणाऽपि सम्यग्हेतुपरिज्ञप्तिः सुकरेत्यर्थः ।
ते कतिप्रकारा इत्याकाङ्क्षायामवान्तरभेदविवक्षया बहुप्रकारा इत्याह ? ते चेति ।
तथापि राशीकरणे कियन्तोराशयो भविष्यन्तीत्यत आह ? असिद्धेत्यादिना ।
केचित् सर्वेषां हेत्वाभासानामसिद्धावेवान्तर्भावं मन्वाना एकविधमेव हेत्वाभासं मन्वते ।
अपरे त्रिविधमन्ये षड्विधमिति वादिविवादिप्रत्यादेशार्थमयोगान्ययोगव्यवच्छेदकमेवकारं प्रायुङ्क्त ।
तदुक्तम् -
'अयोगं योगमपरैरत्यन्तायोगमेव च ।
व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेकि(च)कः' ॥ इति ।
एकविधत्वं तावन्न संभवति ।
अनेकविधत्वव्यवहारदर्शनात् ।
लोके यथा व्यवहारस्तथैव लक्षणं कर्तव्यं नान्यथा ।
तदुक्तम् -
'सिद्धानुगममात्रं हि कर्तुं युक्तं परीक्षकैः ।
न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम् ॥ ' इति ।
अत एव न त्रिविधत्वं पञ्चविधत्वव्यवहारदृष्टेः ।
नापि षड्विधत्वमनध्यवसितस्य सव्यभिचार एवान्तर्भावात् ।
अत एवोक्तम् -
153.
'हेतोः केनापि रूपेण रहिताः कैश्चिदन्विताः ।
हेत्वाभासाः पञ्चविधा (धा ते?) गौतमेन प्रपञ्चिताः ॥' इति ।
गौतमोऽप्यसूत्रयत् - 'सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीता हेत्वाभासाः' ।
इति ।
अतः पञ्चैवेति सुष्ठूक्तम् ।
तत्र व्याप्तस्य हेतोः पक्षधर्म[ता?]प्रतीतिः सिद्धिस्तदभावोऽसिद्धिरिति तल्लक्षणे विचार्यमाणे सपक्षाद्यनपेक्षया पक्षमात्रोपजीवनेन संभवतोऽसिद्धस्य प्रथमं ततः पक्षविपक्षवृत्तेर्विरुद्धस्य ततः पक्षत्रयवृत्तिमुपजीवतोऽनैकान्तिकस्य पश्चात् समबलत्वेनाभिमतस्य प्रकरणसमस्यानन्तरमवशिष्टस्य न्यूनबलस्य कालात्ययापदिष्टस्योद्देश इति विभागः ।
असिद्धं विभागेनोद्दिशति - तत्रेति ।
तेषु पञ्चसु मध्य इत्यर्थः ।
सति धर्मिणि धर्माश्चिन्त्यन्त इति न्यायेनाश्रयोपजीवनेन प्रवर्तमानस्याश्रयासिद्धस्य ततो हेतोः स्वरूपोपजीवनेन प्रवर्तमानस्य स्वरूपासिद्धस्य पश्चात्तद्धर्मव्याप्यत्वोपजीवनेन प्रवर्तमानस्य व्याप्यत्वासिद्धस्येति क्रमः ।
व्याप्तस्य पक्षधर्मताप्रतीतिः सिद्धिः ।
ततश्च व्याप्त्य(प्या?)भावे व्याप्यत्वासिद्धिः पक्षाभावे आश्रयासिद्धिः तद्धर्महेत्वभावे स्वरूपासिद्धिरिति तिस्रोऽसिद्धयो भवन्तीति भावः ।
सर्वत्र बहुव्रीहावाहितान्यादित्वात् अग्न्याहितवन्निष्ठायाः परनिपाते आश्रयासिद्ध्यादिशब्दा उपपत्स्यन्ते ।
तृतीयासमासेन वा तेषामुपपत्तिः ।
प्रथमं प्रथमस्योदाहरणमाह ? आश्रयेति ।
आश्रयासिद्धत्वमेव स्पष्टयति - अत्र हीति ।
द्वितीयस्योदाहरणमाह ? स्वरूपेति ।
यद्यपि चाक्षुषत्वं रूपादावस्ति तथापि पक्षत्वेनाभिमतस्य शब्दस्य श्रोत्रत्वान्नैत्रत्वं नास्तीति
154.
हेतोः स्वरूपत्वं पक्षेऽसिद्धमित्यर्थः ।
तृतीयं विभजते - व्याप्यत्वेति ।
कुत इत्यत आह ? एक इत्यादिना ।
तत्र प्रथममुदाहरति - तत्रेति ।
सौगतसमयावलम्बनेनावयवद्वयोपन्यासो युक्तः ।
तदुक्तम् - सौगतास्तु सोपनीतिमुदाहृतिमिति वदन्ति ।
ननु सत्त्वहेतोर्व्याप्तिग्राहकप्रमाणाभावाद्व्याप्यत्वासिद्धतेत्युक्तमुपाधिसद्भावाद्व्याप्यत्वासिद्धता किमिति नोच्यते तत्राह ? सोपाधिकतयेति ।
यथाऽधर्मवत्त्वं हिंसात्वप्रयुक्तं न भवति किं तु निषिद्धत्वप्रयुक्तमितिवत् क्षणिकत्वं सत्त्वप्रयुक्तं न भवति किं तु परप्रयुक्तमित्युच्यमाने ब्रह्महननादावधर्मत्वमिव क्वचित् क्षणिकत्वमभ्युपगतं स्यात् ।
तच्चानिष्टम् ।
क्षणमात्रावस्थायित्वं निर्हेतुको विनाशो वा क्षणिकत्वमिति सौगतमतानुसारिभिः कक्षीकृतत्वात् ।
तस्मादेतादृशं क्षणिकत्वं क्वापि न दृष्टं नेष्टमिति सत्त्वक्षणिकत्वयोर्व्याप्तिग्राहकप्रमाणाभावादेव सत्त्वहेतोर्व्याप्यत्वासिद्धत्वमित्यर्थः ।
सोपाधिकस्य व्याप्यत्वासिद्धस्योदाहरणमाह ? द्वितीय इति ।
'अहिंसा परमो धर्मस्त्वधर्मः प्राणिनां वधः' इति प्रतिजानाना जैनजनाः पक्षान्तरमजानाना इत्थमनुमानं प्रयुञ्जते - क्रत्वन्तरवर्तिनी हिंसेति ।
सोपाधिकत्वादिदमनुमानं नोदयमासादयेदित्याह ? अत्र हीति ।
उपाधेः किं लक्षणमित्याकाङ्क्षायामुपाधिलक्षणमाह ? साध्येति ।
यावत्साधनदेशमवर्तमानो यावत्साध्यदेशवृत्तिरुपाधिरिति निष्कर्षः ।
तत्रोपाधेः साध्यव्यापकतां दर्शयति - तच्चेत्यादिना ।
साधनाव्यापकतां दर्शयति - एवं साधनमिति ।
यथा निषिद्धत्वोपाधिः साध्यमधर्मत्वं व्याप्नोति तथा साधनं हिंसात्वं न व्याप्नोति ।
पक्ष एव सत्यपि हिंसात्वे तस्योपाधेरभावात् ।
नन्वग्नीषोमीयहिंसा निषिद्धा हिंसात्वाद् द्विजहिंसादिवदिति साधनव्यापकत्वेनोपाधित्वं नोपपद्यत इति चेत्तदेतदॄश्चिकभयात्पलायमानस्याशीविषमुखनिपातमनुसरति ।
प्रयुक्तानुमानस्यौपाधिकभीत्या वैदहिंसायां निषिद्धत्वं साधयतस्तव शिरसि सकलमहाजनपरिगृहीतनिर्णीतप्रमाणभाववेदविरोधलक्षणवज्रप्रहारनिपातापातात् ।
अतो वैदहिंसायां ब्रह्मस्वहरणादौ च परस्परपरिहारेण वर्तमानयोर्हिंसात्वनिषिद्धत्वयोर्ब्रह्महननादावेकेनाधर्मत्वेन संबन्धे सत्यपि निषिद्धत्वाभावस्याधर्मत्वाभावेनेव हिंसात्वाभावस्याधर्मत्वाभावेनाविनाभावाभावान्निषिद्धत्वस्योपाधित्वमुपपद्यते ।
अत एवोदितमुदयनाचार्येण-
'एकसाध्याविनाभावे मिथः संबन्धशून्ययोः ।
साध्याभावाविनाभावी स उपाधिर्भवत्ययम् ॥'
इति समपदप्रक्षेपेण प्रागेवोपाधिलक्षणगतविशेषणव्यावर्त्यानि कीर्तितानीति ।
प्रयुक्तो हेतुरुपाधिनिष्ठं व्याप्यत्वमुपजीवतीति वदता समव्याप्तिरङ्गीकृतैवेति भावः ।
तस्मान्निषिद्धत्वस्योपाधित्वाद्व्याप्य- त्वासिद्धं हिंसात्वमित्युपसंहरति - अन्यप्रयुक्तेति ।
अत्र व्याप्तिर्नाम व्याप्यत्वमित्यर्थः ।
साध्यविशिष्टः साध्यत्वात्साध्यसम इति सूत्रलक्षितमसिद्धं
156.
वर्णयित्वा न्यायाचार्योदीरितं विरुद्धलक्षणं वर्णयति - साध्येति ।
लक्ष्ये लक्षणस्यानुगतिं दर्शयति - स यथेत्यादिना ।
साध्यविपर्ययव्याप्तत्वाद्विरुद्धं कृतकत्वमिति निगमयति - अत इति ।
सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध इति सूत्रलक्षितं विरुद्धलक्षणोदाहरणाभ्यां क्रमेण प्रदर्श्य 'अनैकान्तिकत्वलक्षणमनैकान्तिकः सव्यभिचारः' इति सूत्र व्यत्यासेन पठति - सव्यभिचार इति ।
विभागेनोद्दिशति - स द्विविध इति ।
तत्र साधारणस्य लक्षणमाह ? तत्रेति ।
तयोर्मध्य इत्यर्थः ।
उदाहरति - स यथेति ।
प्रयुक्ते हेतौ लक्षणानुगतिं दर्शयति - अत्र हीति ।
अस्मिन्ननुमान इत्यर्थः ।
असाधारणानैकान्तिकं लक्षणोदाहरणाभ्यां प्रपञ्चयति - सपक्षेति ।
ननु स्वोचितस्थलमतिक्रम्यान्यत्र वर्तनं व्यभिचार इति लोके प्रसिद्धं तत्तु साधारणे विद्यते ।
अनुचितस्थलविपक्षावृत्तेः पक्षमात्रवृत्तेस्त्वसाधारणस्य कथं सव्यभिचारितेति चेदेतावत्तावदाकर्णय ।
अनुचितस्थले वर्तमानमिवोचितस्थलेऽवर्तमानमपि व्यभिचार एव ।
अतो विपक्षवृत्तेः साधारणस्येव सपक्षव्यावृत्तस्याप्यसाधारणस्य सिद्धा सव्यभिचारितेति ।
तदुक्तं भासर्वज्ञेन ? हेतोरुभयत्र वृत्तिर्व्यभिचारस्तथोभयतो व्यावृत्तिरपि व्यभिचारः' इति ।
क्रमप्राप्तस्य प्रकरणसमस्य लक्षणमाह ? प्रकरणसम इति ।
पक्षान्तरव्यावृत्त्यर्थस्तु शब्दः ।
स्वपरपक्षसिद्धावपि
157.
त्रिरूपो हेतुः प्रकरणसम इति भूषणकारो बभाषे तदसंभवि ।
एकस्य हेतोरुभयत्र त्रैरूप्यासंभवात् ।
तस्मात् प्रतिज्ञातार्थविपरीतार्थज्ञापकहेतुमान् हेतुः प्रकरणसमः ।
उक्तं च सूत्रकारेण -
'यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः' इति ।
अस्यार्थः - यस्मात् प्रयुक्ताद्धेतोरुपरि प्रकरणस्य प्रतिज्ञातार्थविपरीतार्थज्ञापकस्य हेतोश्चिन्तासंभवः स निर्णयार्थं स्वसाध्यनिश्चयायापदिष्टः प्रकरणसम इति ।
उक्तमर्थमुदाहरणनिष्ठं कृत्वा दर्शयति - यथेति ।
नित्यधर्मरहितत्वान्नित्यत्वज्ञापकधर्मरहितत्वादनित्यधर्मानुपलब्धेरनित्यत्वज्ञापकधर्मरहितत्वादित्यर्थः ।
ननु सत्प्रतिपक्षो नाम हेत्वाभासान्तरं विद्यते स किमिति नोच्यते तत्राह ? अयमेवेति ।
सत्प्रतिपक्षो हेतुः प्रकरणसम इति विद्वद्भिर्न्यायाचार्यैरुच्यत इत्यर्थः ।
नन्विमौ हेतू समबलौ हीनाधिकबलौ वा ।
नाद्यः ।
वस्तुनो द्वैरूप्यासंभवेन तुल्यबलवत्वायोगात् ।
न द्वितीयः ।
प्रबलेन हीनस्य बाधितत्त्वेन कालात्ययापदिष्टतया प्रकरणसमत्वानुपपत्तेरिति चेन्मैवम् ।
वस्तुवृत्या द्वयोः समानबलत्वाभावेऽप्यगृहीतविशेषत्वेनाभिमानिकं समबलत्वमादाय प्रकरणसमत्वोपपत्तेरिति ।
अवशिष्टस्य कालात्ययापदिष्टस्य लक्षणमाह ? पक्ष इति ।
यस्य विषयः साध्यधर्मः प्रमाणान्तरेण बाधितः ।
बाधो नाम तद्विपरीतप्रवेदनम् ।
स बाधितविषयः ।
साधनजन्यज्ञानविषयत्वात् साध्यस्य साधनविषयत्वमुपचारादुच्यते ।
कालात्ययापदिष्टः कालातीत इति सूत्रे निर्दिष्टपक्षोपन्यासानन्तरं हेतूपन्यासस्य कालस्तस्यात्ययेऽतिक्रमे सति अपदिश्यते
158.
प्रयुज्यत इति कालात्ययापदिष्टः ।
कालमतीतः कालातीत इत्युक्तं लक्षणमपि संगृहीतं भवतीत्यभिप्रेत्याह ? कालात्ययेति ।
उदाहरति - यथेति ।
अत्रानुष्ण इत्युष्णस्पर्शप्रतिषेधोऽयम् ।
प्रमितं च तत् प्रतिषिद्ध्यते नाप्रमितम् ।
न चोष्णत्वस्य कृष्णवर्त्मनोऽन्यत्रोपलम्भसंभवः ।
तस्मादुष्णत्वग्राहिणोपजीव्यत्वेन बलीयसा स्पर्शनप्रत्यक्षेण बाधितमनुमानमित्यमुमेवार्थं हृदि निधायाह ? अत्र हीत्यादिना उष्णतोपलम्भादित्यन्तेन ।
तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतो दृष्टं चेति सूत्रोक्तं त्रिप्रकारमनुमानं सप्रपञ्चं निरूपितमित्याह ? व्याख्यातमिति ।
अनुमानं सप्रकारं निरूप्य क्रमप्राप्तमुपमानं निरूपयति - अतिदेशेति ।
अतिदेश्यते प्रतिपाद्यतेऽनेन साधर्म्यादिरित्यतिदेशः ।
स चासौ वाक्यं चेति समानाधिकरणसमासः ।
न च पुंनपुंसकयोः कथं सामानाधिकरण्यमिति वाच्यम् ।
परोपदेशस्तु पञ्चावयवं वाक्यमित्यादिवदुपपत्तेः ।
अत एव (धर्म?) प्रसिद्धसाधर्म्यात्साध्यस्य साधनमुपमानमित्यामनन्त्याचार्याः ।
अतिदेशवाक्येन प्रमितात् साधर्म्यादनन्तरं साध्यस्य संज्ञासंज्ञिसंबन्धस्य साधनं ज्ञापकं सादृश्यविशिष्टपिण्डप्रत्यभिज्ञानमुपमानमिति सूत्रार्थः ।
तदुक्तम् -
'अव्युत्पन्नपदोपेतवाक्यार्थस्य च संज्ञिनि ।
प्रत्यक्षप्रत्यभिज्ञानमुपमानमिहोच्यते ' ॥ इति ।
सूत्रगतसाधर्म्यग्रहणं वैधर्म्यादेरुपलक्षणम् ।
159.
'तत्रातिदेशवाक्यार्थस्त्रिविधः परिकल्प्यते ।
साधर्म्यं धर्ममात्रं च वैधर्म्यं चेति भेदतः ॥ इति ।
अतिदेशवाक्यार्थत्रैविध्योक्तेरित्युदाहरति - यथेति ।
लक्षणस्य लक्ष्येऽनुगमनं यथा स्पष्टं भवति तथोच्यत इत्यर्थः ।
सर्वत्रैवंविधस्य यथाशब्दस्यायमेवार्थः ।
पिण्डज्ञानमुपमानमित्युक्ते यत्किंचित् पिण्डज्ञानमुपमानं प्रसज्येत तन्मा प्रसाङ्क्षीदिति गोसादृश्यविशिष्टेत्युक्तम् ।
कश्चिद्वनेचरो नगरे गामुपलभ्य पश्चाद्वनं गतो गोसादृश्यविशिष्टं पिण्डमनुभवति तज्ज्ञानस्योपमानतां वारयितुमुक्तम् - तद्वाक्येति ।
तदेत्युक्तं कदेत्याकाङ्क्षायामाह ? वाक्यार्थं स्मरन् यदेत्यादिना ।
ननु नगरस्थपिण्डदर्शनं न संबोभवीतीत्यत आह ? वनं गत इति ।
अश्रुतवाक्यस्य वाक्यार्थस्मरणं न संपनीपद्यते तत्राह ? पुरुषाच्छ्रुत्वेति ।
ननु नागरिकस्य गवयमजानानस्य नातिदेष्टव्यं (ष्टृत्वं ?) तेनाह ? कुतश्चिदारण्यकादिति ।
अतिदेशवाक्यं दर्शयति - यथा गौरिति ।
गवयं जानानस्याकाङ्क्षाया अभावादतिदेशो व्यर्थ इत्यत्राह ? गवयमिति ।
उक्तज्ञानोपमानस्योपमानत्वे युक्तिमाह ? उपमितीति ।
उपमितिस्वरूपमाह ? गोसादृश्येत्यादिना ।
संज्ञासंज्ञिसंबन्धप्रमितिमभिनयति - अयमसावित्यादिना ।
गोसादृश्यस्यातिदेशवाक्यानुभूतस्य तदा(द?)यमर्थः ।
क्वचित् कर्मणि गवयस्योपयोगं विदित्वा तं जिज्ञासमानेन नागरिकेण कीदृशो गवय इति पृष्टो वनेचरः
160.
समाचारं समाचष्टे यथा गौस्तथा गवय इति ।
अनन्तरमारण्यकादतिदेशवाक्यमाकर्ण्याटव्यामटतो गोस्वामिनः कंचन वृत्तकण्ठं गोसादृश्यविशिष्टं पिण्डमनुभवतः स्मरतश्च वाक्यार्थमयमसौ गवयशब्दवाच्य इति भवति प्रतीतिः ।
सा तावदु(द्दु?)रपलापा सर्वानुभवसिद्धत्वात् ।
न च वाक्यस्य फलमननुभूतपिण्डस्यापि संज्ञासंज्ञिसंबन्धप्रतिपत्तिप्रसङ्गात् ।
नापि प्रत्यक्षफलम् ।
अनाकर्णितातिदेशवाक्यस्यापि तत्प्रसङ्गात् ।
नापि समाहारफलम् ।
नगरस्थस्य वाक्यं वनस्थस्य प्रत्यक्षमिति तयोर्भिन्नकालत्वेन समाहारासंभवात् ।
तस्माद्वाच्यवाचकभावज्ञानमुपमानफलम् ।
तदुक्तम् -
'संबन्धस्य परिच्छेदं संज्ञायाः संज्ञिना सह ।
प्रत्यक्षादेरसाध्यत्वादुपमानफलं विदुः ॥' इति ।
नन्वतिदेशवाक्यादेवावगतो वाच्यवाचकभावः ।
केवलमिदानीं प्रत्यभिजानाति - अयमसौ गवयशब्दवाच्य इति ।
गवयशब्दो गवयत्वस्य वाचकः ।
असति वृत्त्यन्तरे वृद्धेस्तत्र प्रयुज्यमानत्वात् ।
गोशब्दवदित्यनुमानाद्वावसीयते वाच्यवाचकभावः ।
किमुपमानेनेति चेन्मैवम् ।
यत् आहुः -
'सादृश्यस्यानिमित्तत्त्वान्निमित्तस्याप्रतीतितः ।
समयो दुर्ग्रहः पूर्वं शा(श?)ब्देनानुमयापि च ॥' इति ।
न्यायकुसुमाञ्जलिपरिश्रमशालिनामुपमानस्य पृथक् प्रामाण्यं सुगममित्युपगम्यते ।
161.
प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानमित्युपमानलक्षणमभिधाय सूत्रकारेणाप्तोपदेशः शब्द इत्यागमलक्षणमभ्यधायि ।
तत्र उपदिश्यतेऽनेनेति करणव्युत्पत्त्योपदेशः (श?) शब्दस्य वाक्यपर्यायत्वं मनसि निधायागमप्रमाणस्य लक्षणमाचष्टे - आप्तवाक्यमिति ।
वाक्यं शब्द इत्युक्ते भ्रान्तविप्रलम्भकवाक्यस्याप्यागमता स्यादत उक्तम् - आप्तेति ।
कोऽयमाप्तो यस्य वाक्यमागमः स्यात्तत्राह ? आप्तास्त्विति ।
तुशब्दो भ्रान्तविप्रलम्भकयोराप्तत्वनिराकरणार्थः ।
यथाभूतस्याबाधितस्यार्थस्योपदेष्टा पुरुष आप्तः ।
ततश्च भ्रान्तोक्तवाक्यार्थस्य बाधितत्वेनाबाधितत्वं नास्ति ।
भ्रान्तस्य यथार्थदर्शित्वाभावात् ।
विप्रलम्भोक्तवाक्यार्थस्यापि बाधितत्वेनाबाधितत्वं नास्ति ।
विप्रलम्भकस्य यथार्थदर्शितत्वेऽपि यथार्थवादित्वाभावादिति भ्रान्तविप्रलम्भकयोराप्तत्वं पराकृतमित्यर्थः ।
नन्वाप्तवाक्यं शब्द इत्युक्तं तत्राप्तस्वरूपमवसितं वाक्यस्वरूपं नावसीयत इत्यत आह ? वाक्यं त्विति ।
अत्र तुशब्द आकाङ्क्षादिरहितस्य पदसमूहस्य वाक्यत्वनिवृत्त्यर्थः ।
आकाङ्क्षा नाम प्रतिपत्तुर्जिज्ञासा ।
परस्परान्वयसामर्थ्यं योग्यता ।
संनिधिस्त्वविलम्बेनोच्चार्यमाणत्वम् ।
एतत्त्रितयोपेतानां पदानां समूहो वाक्यमित्यर्थः ।
ननु पदानां समूहो वाक्यमित्येतावदेवास्तु किमवशिष्टेनेत्याशङ्क्य यस्मादाकाङ्क्षादिग्रहणं कृतं तस्माद्गौरश्व इत्यादिपदसमूहस्य वाक्यता निरस्ता नो चेदस्यापि वाक्यत्वं स्यात् ।
तच्चानिष्टमित्यभिप्रेत्याह ? अत इति ।
उदाहृतस्य पदसमूहस्यागमप्रमाणत्वाभावे हेतुमाह ? परस्परेति ।
162.
तर्ह्याकाङ्क्षावतां पदानां समूहो वाक्यमित्यस्तु किं योग्यताग्रहणेनेत्याशङ्क्य योग्यताग्रहणस्योपयोगमाह ? अग्निनेति ।
अत इत्यनुषज्यते ।
यस्मादयोग्यताग्रहणं कृतं तस्मादित्यर्थः ।
योग्यताविरहः कथमित्यत आह ? न हीति ।
तदेवोपपादयति - तथाहीति ।
'कर्तृकरणयोस्तृतीया' इति करणार्थे तृतीयाया विहितत्वात्तया करणत्वं प्रतिपादितं चेद्भवतु को दोष इत्यत आह ? न चेति ।
अभूततद्भावे च्वि (च्विः) प्रत्ययः ।
अयोग्यत्वात् करणत्वं न संभवतीत्यतः फलितमाह ? तेनेति ।
येन कारणेन सेकं प्रत्यग्नेः करणीभवतुं योग्यता नास्ति तेनेत्यर्थः ।
संनिधिग्रहणस्य प्रयोजनमाह ? एवमिति ।
यथा गौरश्व इत्यादिपदसमूहस्य न वाक्यत्वं तथा विलम्बेनोचार्यमाणस्य गामानयेत्यादिपदसमूहस्येत्येवंशब्दार्थः ।
अत्राप्यत इत्यनुषङ्गः पूर्ववत् ।
तत्र युक्तिं वक्ति - सत्यामिति ।
एवमाकाङ्क्षादित्रयस्य प्रयोजनत्वादेतत्त्रितयविशिष्टानि पदानि वाक्यमिति फलितमाह ? यानीति ।
वाक्यं द्विविधं लौकिकं वैदिकं चेति ।
तत्र परमाप्तप्रणीतत्वेन प्रधानत्वात् प्रथमं वैदिकवाक्यमुदाहरति - यथेति ।
अनेन वाक्येन स्वर्गकामस्य काम्यमानं स्वर्गं प्रति यागः साधनमिति स्वर्गयागयोः साध्यसाधनभावप्रतिपत्तिः क्रियते ।
अतः परस्पराकाङ्क्षावदन्वययोग्यार्थप्रतिपादकसंनिहितपदकदम्बकत्वाद्वाक्यमित्यर्थः ।
लौकिकं वाक्यमुदाहरति - यथा चेति ।
फलानि सन्तीत्युक्ते कतीत्याकाङ्क्षा जायते ।
ततः पञ्चेत्युपदिष्टे ते कुत्रेत्याकाङ्क्षायां तीर इति ।
पुनः
163.
कस्या इत्याकाङ्क्षायां नद्या इति ।
एवमन्योन्याकाङ्क्षावदन्वययोग्यार्थप्रत्यायकसंनिहितपदनिकुरम्बकत्वाद्वाक्यत्वमित्यर्थः ।
ननु गौरश्वः पुरुषो हस्ती अग्निना सिञ्चेदित्यादिपदवृन्दवद् गामानयेत्यादिपदसमूहोऽपि कदाचिदपि वाक्यतां किं न प्रतिपद्यत इत्याशङ्क्याविलम्बेनोच्चार्यमाणानां तेषां पदानां वाक्यत्वं युज्यत इत्याह ? यथा तानीति ।
यान्याकाङ्क्षायोग्यतावन्त्यपि प्रहर उच्चार्यमाणानि वाक्यत्वं न प्रतिपद्यन्ते तानीत्यर्थः ।
नन्वाकाङ्क्षाया इच्छारूपत्वेन चेतनधर्मत्वादचेतनानां पदानामाकाङ्क्षावत्ता न संगच्छत इत्यनेनाशयेनाशङ्कते - नन्वत्रेति ।
उदाहृतेषु वाक्येषु स्थितानि पदानि न साकाङ्क्षाण्यचेतनत्वादित्यर्थः ।
तर्हि कानि साकाङ्क्षाणीति जिज्ञासते - किं त्विति ।
उत्तरमाह ? अर्था इति ।
अर्थानां साकाङ्क्षत्वे युक्तिमाह ? फलादीनामिति ।
आधेयानि फलान्याधारभूतं तीरमाकाङ्क्षन्ति तीरं च संबन्धित्वेन नदीमपेक्षते ।
एवमन्योन्यसाकाङ्क्षा अर्था इत्यर्थः ।
पदानां साकाङ्क्षत्वं यथा युक्त्या न संभवत्यर्थानामपि तथैव युक्त्या साकाङ्क्षता न संभवतीत्याह ? न चेति ।
वस्तुवृत्त्या विचार्यमाणेऽर्थानामचेतनत्वेन न साकाङ्क्षतेत्यर्थः ।
आकाङ्क्षाधारत्वेन साकाङ्क्षत्वाभावेऽप्याकाङ्क्षाजनकत्वेन साकाङ्क्षता संभवतीत्यभिप्रेत्य परिहरति - सत्यमिति ।
अस्त्यर्थानां साकाङ्क्षत्वं पदानां
164.
साकाङ्क्षत्वे किमायातमत आह ? तद्द्वारेणेति ।
नन्वाकाङ्क्षाजनकत्वेन साकाङ्क्षत्वकक्षीकारे पदानामपि तथा संभवात् किमन्तर्गडुनार्थद्वारेणेत्यपरितोषात् पक्षान्तरं कक्षीकरोति - यद्वेति ।
ननु पदानां यथाकथंचित् साकाङ्क्षत्वमस्त्वन्वययोग्यता कथं स्यादित्याशङ्क्यार्थद्वारा भविष्यतीत्याह ? एवमर्था इति ।
आकाङ्क्षाजनकत्वेन साकाङ्क्षाणामर्थानामन्योन्यान्वययोग्यता स्वाभाविकी तादृगर्थप्रतिपादकत्वेन पदानामपि परस्परान्वययोग्यता संभवतीति भावः ।
संनिधिस्तु पदानां स्वभावत एव सेत्स्यतीति वक्तुं संनिधिशब्दार्थमाह ? संनिहितत्वं त्विति ।
तुशब्दः पूर्वस्माद्वैलक्षण्यं द्योतयति ।
ननु संनिहितत्वं किमाकाङ्क्षादिवदौपचारिकम् ।
नेत्याह ? तच्चेति ।
साक्षादव्यवधानेनेत्यर्थः ।
साक्षाच्छब्दव्यावर्त्यमाह ? नार्थद्वारेति ।
फलितमाह ? तेनायमिति ।
येन पदानामाकाङ्क्षादित्रितयोपेतता साधिता तेन तादृशानां पदानां समूहो वाक्यमित्यर्थः ।
ननु पदानां समूहो वाक्यमित्युक्तं पदं नाम किं तत्राह ? पदं चेति ।
ननु वर्णसमूहः पदमित्युक्तं तन्न घटते वर्णानां समूहीभावासंभवात् ।
तत्र हि समूहव्यपदेशो यत्र पदार्था एकस्मिन् प्रदेशे सहावस्थिता बहवोऽनुभूयन्ते ।
यथैकस्मिन् प्रदेशे सहावस्थिततयानुभूयमानेषु धवखदिरपलाशादिषु समूहव्यपदेशो यथा वा गजनरतुरङ्गादिषु ।
न च ते वर्णास्तथानुभूयन्त उत्पन्नप्रध्वस्तत्वात् ।
अतो वर्णानां समूहो न संभवतीत्याशङ्क्य वास्तवसमूहासंभवेऽपि बौद्धः समूहः संभवतीत्याह ? एकज्ञानेति ।
नन्वेकज्ञानविषयत्वं नामैको वर्ण इति ज्ञानविषयत्वं चेत्तन्न संभवति ।
अनेकेषु घटेष्वेको घट इति ज्ञानवदनेकेषु वर्णेष्वेको वर्ण इति ज्ञानस्यानुदयात् ।
अतो वास्तववत् काल्पनिकोऽपि समूहो वर्णानां न संभवतीत्याशङ्क्यैकज्ञानविषयत्वं नामैकं पदमिति ज्ञानविषयत्वं तत्तु वर्णानां न संभवत्येवेत्यभिप्रेत्य परिहारं प्राह ? एवं तत्रेत्यादिना पदप्रतीतिर्न जन्यत इत्यन्तेन ।
एवं वक्ष्यमाणेन प्रकारेण पदप्रतीतिर्जन्यत इति संबन्धः ।
नन्वेकं पदमिति प्रतीतिः स्फोटमवलम्बते ।
न च तत्र प्रमाणाभावः प्रत्यक्षार्थापत्त्योः संभवात् ।
तथाहि गौरित्येकं पदमिति नानावर्णातिरिक्तैकपदावगतेः सार्वजनीनत्वात् ।
न ह्यसति बाधके पदानुभवः शक्यो मिथ्येति वक्तुम् ।
पदार्थप्रतीत्यन्यथानुपपत्त्यापि स्फोटोऽभ्युपगन्तव्यः ।
अथ मन्यसे वर्णेभ्य एवार्थप्रत्ययो जायत इति तदा वक्तव्यं व्यस्ता वर्णा अर्थं प्रत्याययन्ति समस्ता वा ।
नाद्यः इतरवर्णवैयर्थ्यप्रसङ्गात् ।
एकैकस्माद्वर्णादर्थप्रतीतेरदर्शनाच्च नापि द्वितीयः ।
उत्पन्नप्रध्वस्तानां वर्णानां समस्तत्वासंभवात् ।
न च व्यस्तसमस्ताभ्यामन्यः प्रकारः संभवति ।
तस्माद्वर्णानां वाचकत्वानुपपत्तौ यद्बलादर्थप्रतिपत्तिः स स्फोटः ।
वर्णातिरिक्तो वर्णाभिव्यङ्ग्योऽर्थप्रत्यायको नित्यः शब्दः स्फोट इति तद्विदो वदन्ति ।
अत एव स्फो (स्फु?) ट्यते व्यज्यते वर्णैरिति स्फोटो वर्णाभिव्यङ्ग्यः ।
स्फुटति स्फुटीभवत्यस्मादर्थ इति स्फोटोऽर्थप्रत्यायक इति स्फोटशब्दार्थमुभयता निराहुः ।
तथा चोक्तं भगवता पतञ्जलिना महाभाष्ये-
166.
'अयं गौरित्यत्र कः शब्दः ।
येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणानां संप्रत्ययो भवति स शब्दः ।
अथवा प्रतीति (त?) पदार्थको लोके ध्वनिः शब्द इत्युच्यते' इति ॥ तस्मादेकं पदमिति प्रतीतिः स्फोटोवलम्बनेनेति वैयाकरणस्याशङ्कामपनयति - वर्णावगाहिनीति ।
अयमाशयः - पदप्रतीतिर्वर्णातिरिक्तलौकिकस्फोटाख्यपदार्थावगाहिनी न भवति स्फोटे प्रमाणाभावात् ।
न तावत् प्रत्यक्षमत्र क्रमते ।
गौरित्युक्ते गकारौकारविसर्जनीयवर्णातिरिक्तस्य कस्यचिदप्यनुभवानारोहात् ।
भवानपि चक्षुषी निमील्य परिभावयतु ।
गौरित्युक्ते वर्णा एवानुभूयन्ते ततोऽतिरिक्तं किंचिन्नेति ।
तस्मात् स्फोटे न प्रत्यक्षं प्रमाणम् ।
नाप्यर्थापत्तिर्वर्णेभ्य एवार्थप्रतिपत्त्युपपत्तावर्थापत्तेरन्यथैवोपपत्तेः ।
किं च किमभिव्यक्तः स्फोटोऽर्थं प्रत्याययत्यनभिव्यक्तो वा ।
न चरमः ।
सर्वपदार्थप्रत्ययलक्षणकार्योत्पादकप्रसङ्गात् ।
स्फोटस्य नित्यत्वाभ्युपगमेन निरपेक्षस्य हेतोः सदा सत्त्वेन कार्यस्य विलम्बायोगात् ।
अथैतद्दोषपरिजिहीर्षयाभिव्यक्तः स्फोटोऽर्थं प्रत्याययतीति चेत्तदाभिव्यञ्जयन्तो वर्णाः किं प्रत्येकमभिव्यञ्जयन्ति संभूय वा ।
पक्षद्वयेऽपि भवता वर्णानां वाचकत्वपक्षे ये दोषा भाषितास्त एव स्फोटाभिव्यञ्जकत्वपक्षेऽपि व्यावर्तनीयाः ।
तदुक्तम् -
'यस्यानवयवः स्फोटो व्यज्यते वर्णबुद्धिभिः ।
सोऽपि पर्यनुयोगेन नैकेनापि विमुच्यते ॥' इति ।
167.
तथा च -
'यत्रोभयोः समो दोषः परिहारोऽपि वा समः ।
नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे ॥'
इति न्यायाद्भवतस्तूष्णींभाव एव शरणम् ।
किं च स्फोटः कल्पनीयस्तस्य वाचकत्वशक्तिः कल्पनीया ततो वरमुभयसिद्धानां वर्णानां वाचकत्वशक्तिकल्पना ।
तस्मात् पदप्रतीतिर्वर्णावगाहिनी न तु वर्णातिरिक्तं शशविषाणकल्पं स्फोटमवगाहत इति सिद्धम् ।
नन्वेकस्मिन् वर्णे पदप्रतीतिर्न जायते तथात्वे तावतैवार्थप्रतिपत्त्युपपत्तावितरवर्णवैयर्थ्यप्रसङ्गात् ।
तत्राह ? अनेकेति ।
ननु चरमवर्णश्रवणकाले तदितरवर्णाभावात् कथमनेकवर्णावगाहनमित्यत आह ? सदसदिति ।
चरमवर्णः सन् प्राञ्चो वर्णा असन्त इत्यर्थः ।
क्रमेण सदसदनेकवर्णावगाहनसत्त्वेऽपि पदप्रतीतिर्न जायत इत्यत आह ? एकदैवेति ।
यदा युगपत्सदसदनेकवर्णावगाहनं तदा पदप्रतीतिर्जायत एवेत्यर्थः ।
नन्वेवंविधा गृह्णाति नासन्तं बाह्येन्द्रियत्वात् संप्रतिपन्नवदित्याशङ्क्य सहकारिसामर्थ्यादसद्ग्रहणमुपपद्यत इत्यभिप्रेत्याह ? पूर्वपूर्वेति ।
प्रत्यभिज्ञायमानविषयग्राहके चक्षुरादावनैकान्तिकत्वमनुमानस्य दूषणमिति भावः ।
ननु पूर्वपूर्ववर्णानुभवजनितसंस्कारसहकृतेन श्रोत्रेण सदसदनेकवर्णप्रतीतिरुत्पद्यतां पदप्रतीतिः कथमुत्पद्यत इत्यत आह ? पदव्युत्पादनेति ।
विभक्त्यन्तेषु वर्णेषु 'सुप्तिङन्तं पदम्-' इति पाणिनिना 'विभक्त्यन्तपदम्' इति गौतमेन च पदसंज्ञाया विहितत्वात् ।
तत्संकेतग्रहणानुगृहीतेन श्रोत्रेण
168.
वर्णेष्वेव पदबुद्धिर्भवतीति भावः ।
ननु सन्त (संकेतमेव?) मेव चरमवर्णं गृह्णातीत्युक्तं तत्कथमित्याशङ्क्याह ? अन्त्यवर्णेति ।
नन्वन्त्यवर्णस्य प्रागेव श्रुतत्वेन तत्संबन्धत्वं न घटते तत्राह ? अन्त्यवर्णश्रवणेति ।
ननु यदाकदाचित् (पूर्व?) पूर्ववर्णानुभवे जाते तज्जनितसंस्कारसहकृतं श्रोत्रमनेकवर्णग्रहणं करोतीति चेत् तन्न संगच्छते तथादर्शनादित्यत आह ? पूर्वपूर्वेति ।
अनुभूयेत्यनेन पूर्वपूर्ववर्णानुभवान्त्यवर्णश्रवणयोरव्यवहितत्वं विवक्षितमित्यर्थः ।
ननु किमनया क्लिष्टकल्पनया युगपदनुभूयमानेषु वर्णेषु पदप्रतीतिर्जायतामित्यत आह ? एकदानेकेति ।
ननु वर्णानां नित्यत्वाभ्युपगमे युगपदनेकवर्णानुभवः संभाव्यते ।
वर्णनित्यत्वे चानुमानमस्ति शब्दो नित्योऽद्रव (मूर्तद्र?) व्यत्वादाकाशवदिति चेत्तत्राह ? आशुतरेति ।
गुणत्वस्य प्रागेव प्रसाधितत्वाद्धेतुरसिद्ध इत्यर्थः ।
नन्वनेकेषु वर्णेषु पदप्रतीतिर्जायत इत्युक्तं तर्हि सर इत्येतस्मिन् पदे यावन्तो वर्णास्तावन्त एव रस इत्यत्रापि ।
एवं वनं नवं नदी दीनो मारो रामो राजा जारेत्यादिष्वर्थभेदप्रतीतिर्न स्यात्तत्राह ? क्रमवतामिति ।
क्रमः पौर्वापर्यं तच्चोत्पत्तिमतां वर्णानां संभवतीत्यक्षरार्थः ।
अयं भावः - न हि विपरीतक्रमाणां वर्णानां वाचकशक्तिरभ्युपगम्यते येनैवमुपालभ्येत किं तु कार्योन्नेयत्वाच्छक्तेर्यथा तेभ्यः कार्यं दृश्यते तथा तेषां शक्तिः कल्प्यते ।
तदुक्तम् -
169.
'यावन्तो यादृशा ये च यदर्थप्रतिपादने ।
वर्णाः प्रज्ञानसामर्थ्यास्ते तथैवावरोधकाः' ॥ इति ।
अनेन प्रकारेण तत्र वाक्येषु स्थितानामुच्चरितप्रध्वंसित्वेन युगपदनुभवासंभवादुक्तसहकारिसहकृतेन श्रोत्रेणोनेकेषु वर्णेषु पदप्रतीतिर्जायत इति ।
ननु श्रोत्रेन्द्रियस्यैवंविधप्रतीतिजननसामर्थ्यं सत् कुतः समायातमित्याशङ्क्य सहकारिबलादायातमित्याह ? सहकारिदार्ढ्यादिति ।
ननु पूर्वपूर्ववर्णानुभवसंस्कारबलात् श्रोत्रेन्द्रियं सदसदनेकवर्णालम्बनां पदप्रतीतिमुत्पादयतीत्युक्तं तन्न युज्यते संस्कारा हि यद्विषयानुभवसमुत्पादितास्तद्विषयस्मरणसंपादनसमर्थास्तत्कार्यान्तरं कर्तुमुत्सहन्ते ।
अत एव स्फोटसिद्धौ प्रयतमानो मण्डनमिश्रः प्राह -
'संस्काराः खलु यद्वस्तुरूपप्रख्याविभाविताः ।
फलं तत्रैव जनयन्त्यतोऽर्थे धीर्न कल्प्यते' ॥ इति ।
तस्मात्संस्कारसनाथस्य श्रोत्रस्य पदप्रतीतिजनकत्वं न युक्तमिति शङ्कितत्वात् मण्डनवचनं गगनकुसुममण्डनाडम्बरं विलम्बयति ।
संस्कारसहकृतस्य चक्षुषः स्मृतिव्यतिरिक्तप्रत्यभिज्ञानजननं सामर्थ्यस्य दृष्टत्वात् ।
उक्तं च न्यायाचार्यैः -
'यद्यपि स्मृतिहेतुत्वं संस्कारस्य व्यवस्थितम् ।
कार्यान्तरेऽपि सामर्थ्यं तस्य न प्रतिहन्यते ॥' इति ।
तस्मात् संस्कारसहकृतश्रोत्रेन्द्रियजनितायाः प्रतीतेः प्रत्यभिज्ञानवत् सदसदनेकवस्त्ववगाहित्वं संभाव्यत इत्यभिसंधानमभिधत्ते - प्रत्यभिज्ञानवदिति ।
ननु सोऽयं देवदत्त इति प्रत्यभिज्ञानस्य पूर्वापरकालीनवस्तुपरामर्शित्वं न संगच्छते ।
प्रत्यभिज्ञायाः ग्रहणस्मरणात्मकत्वेनैकज्ञानत्वाभावात् ।
तथाहि इन्द्रियं संनिहितं विषयमवगाहते ।
नन्वसंनिहितं पूर्वं देशं कालं चावगाहितुं न शक्नोति ।
अत एवेन्द्रियाज्जायमानायां प्रतीताविदंतैव परिस्फुरति ।
न तत्तासंस्कारोऽपि पूर्वानुभवभाविनस्तद्विषयामेव स्मृतिं जनयितुमीष्टे नापरदेशकालविषयां प्रतीतिम् ।
अत एव तत्र तत्तैवावभासते नेदंता ।
तस्मादिन्द्रियस्य संनिहितमात्रविषयत्वात् संस्कारस्य च पूर्वानुभूतमात्रविषयत्वात्तत्तेदंतोभयविषयज्ञानजनने तयोः सामर्थ्याभावात् ग्रहणस्मरणात्मके द्वे इमे ज्ञाने न त्वेकं विज्ञानम् ।
तथा च नायं दृष्टान्त इत्याशङ्क्याह ? प्रत्यभिज्ञानेति ।
अयमाशयः - सोऽयं देवदत्त इति विज्ञाने पूर्वापरकालावच्छिन्नमेकं वस्तुतत्त्वं तावच्चकास्ति ।
न चैतदस्य विषयो न भवतीति समस्ति सर्वजनीनानुभवविरोधात् ।
ग्रहणस्मरणेन चानेकविषयमवगाहते ।
तस्मादेकमेवेदं विज्ञानमिति प्रतीतिसामर्थ्यादास्थेयमिति ।
तदुक्तम् - 'संविदेव हि भगवती विषयसत्त्वोपगमे शरणम्' ।
इति ।
इन्द्रियसंस्कारयोः प्रत्येकं सामर्थ्याभावेऽपि मिलितयोस्तयोः सामर्थ्यसंभवात् ।
तस्मादेकमेव विज्ञानमनुभवात्मकम् ।
अनुमानं च ।
विमतमनुभवात्मकं प्रत्यक्षत्वात् संमतवदिति ।
अनेनाभिप्रायेण प्रत्यभिज्ञानं प्रत्यक्ष इत्यत्र परमतं निरसितुं प्रत्यक्षग्रहणं परिक्षिप्तम् ।
तस्मात्संस्कारसहकृतेन्द्रियजन्यत्वात्
171.
प्रत्यभिज्ञानस्योभयविषयत्वमुपपत्स्यते ।
प्रतिपत्स्यते च प्रत्यभिज्ञानस्य प्रत्यभिज्ञा विषयेन्द्रियसामर्थ्यानुविधानात् ।
ततश्च न कदाचिदनुपपत्तिरिति प्रत्यभिज्ञानं भवति दृष्टान्तः ।
यथा संस्कारसहकृतेन्द्रियजन्यं प्रत्यक्षज्ञानमसन्तं कालं देशं चावगाहते सन्तमेकं कालं देशं च ।
तद्वत् प्रतीतिरपि सदसदवगाहिनीति ।
ननु नानापदेष्वेकं वाक्यमिति प्रतीतिः संजायते ।
सा च नानापदातिरिक्तवाक्यस्फोटानङ्गीकारे न संभवति ।
परस्परविलक्षणेषु पुष्पेषु विना सूत्रं मालाप्रत्ययवत्पदमालायामन्तरेणाभिन्नं निमित्तमेकप्रतीतेरयोगात् ।
वाक्यार्थप्रत्ययानुपपत्त्या च वाक्यस्फोटोऽङ्गीकरणीय इत्याशङ्क्य वर्णानां वाचकत्ववर्णनया पदस्फोटस्य विघटितत्वाद् वाक्यस्फोटो विघटित एवेति मत्वा वाक्यप्रतीत्युत्पादनप्रकारमाह ? तत इति ।
यतः पदस्फोटो निराकृतस्ततो वर्णेष्वेव पदप्रतीतौ जातायां पदेष्वेव वाक्यप्रतीतिः ।
तत्संस्कारसहकृतेनान्त्यपदसंबन्धे (द्धे?) न श्रोत्रेन्द्रियेण क्रियत इत्यर्थः ।
अप्रतीतपदार्थकस्य पुंसः पदश्रवणेऽपि वाक्यप्रतीतेरनुदयात् वाक्यप्रतीतौ पदार्थप्रतीतिरङ्गमिति दर्शयति - पदार्थेति ।
इयता प्रबन्धेनोपपादितमर्थमुपसंहरति - तदिदमिति ।
यतो वर्णानां समूहः पदं पदसमूहो वाक्यमिति साधितं तस्मादिदं पदसमूहरूपं वाक्यमाप्तेन यथार्थदर्शिना यथार्थवादिना पुरुषेण प्रयुज्यमानं शब्दाभिधं प्रमाणम् ।
शब्द्यतेऽनेनेति
172.
करणव्युत्पत्त्या निष्पन्नः शब्दः शब्द इति भावः ।
यद्येवं करणस्य फलवत्त्वनियमात् फलं वक्तव्यं तत्राह ? फलं त्वस्येति ।
केचन पदानि पदार्थान् प्रतिपादयन्ति ते च पदार्था वाक्यार्थज्ञानं जनयन्ति तथा च वाक्यार्थज्ञाने पदार्था एव करणं पदार्थप्रतिपादने पदानामुपयोग इत्याचक्षते ।
तदपि वाक्यस्य फलं वाक्यार्थज्ञानमिति वदता प्रत्युक्तम् ।
पदार्थानामवगतादिरूपतया कारणत्वानुपपत्तौ तद्विशेषकारणत्वायोगात् ।
पदानां तु पूर्वभावनियमेन पदार्थप्रतिपादनमवान्तरव्यापारीकृत्य वाक्यार्थप्रतीतिजनकत्वोपपत्तेः ।
न हि स्वाङ्गं स्वस्य व्यवधायकमिति न्यायेन व्यापारस्याव्यवधायकत्वाच्च ।
तदुक्तम्-
'साक्षाद् यद्यपि कुर्वन्ति पदर्थप्रतिपादनम् ।
वर्णास्तथापि नैतस्मिन् पर्यवस्यन्ति निष्फले ॥
वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् ।
पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् ' ॥ इति ।
प्रभाकरमतानुसारिणः केचन वैदिकवाक्यस्य पृथक् प्रमाणत्वमास्थाय लौकिकवाक्यस्यानुमानान्तर्भावमास्थिषत ।
तन्निराकर्तुकामो वेदवल्लोकेऽप्याकाङ्क्षादिमत्तया वाक्यार्थप्रतिपादने निर्णीतशक्तेर्वाक्यादेव वाक्यार्थप्रतिपत्त्युपपत्तौ य एव वैदिकास्त एव लौकिका इति लोकवेदाधिकरणन्यायेन लौकिकवाक्यस्य वैदिकवाक्यसमानयोगक्षेमतया नानुमानेऽन्तर्भाव
173.
इत्यभिसंधायाभिधत्ते - तच्चेति ।
तदाप्तवाक्यं शब्द इत्युक्तम् ।
एतदुक्तेन प्रकारेणोदाहरणनिष्ठतया प्रदर्शितम् ।
शब्दाह्वयप्रमाणस्य लक्षणमसाधारणो धर्म आप्तवाक्यत्वं लौकिकवैदिकवाक्ययोः साधारणम् ।
वेदवल्लोकेऽपि वाक्यत्वेनैव प्रमाणं नानुमानत्वेनेत्यर्थः ।
ननु लोकवेदयोः किं सर्वात्मना समानमित्याशङ्क्य विशेषं वक्तुं लोके तावदाप्तानाप्तविभागं विदधाति - लोके त्विति ।
यथार्थदर्शी यथार्थवादी चाप्तो भवति ।
भ्रान्तो विप्रलम्भकश्चाप्तो न भवतीति भावः ।
फलितमाह ? अत इति ।
लोके पुरुषेषु भ्रान्तिविप्रलम्भयोः संभवात् किंचिदेव लौकिकं वाक्यं प्रमाणं न सर्वमित्यर्थः ।
किं तल्लौकिकं वाक्यं यत् प्रमाणभावं भजते तत्राह ? यदिति ।
ननु लोकवद्वेदेऽपि किंचिदेव वाक्यं किं प्रमाणमिति शङ्कमानं प्रत्याह ? वेदे त्विति ।
ननु वेदस्य परमेश्वरप्रणीतत्वेन निराशङ्कं प्रामाण्यं न लभ्यते ।
पुरुषेषु रागद्वेषसंभावनयाऽयथार्थवाक्यप्रणयनस्य संभवात् ।
तदुक्तम् -
'रागद्वेषादिकालुष्यं पुरुषेषूपलभ्यते ।
अतः प्रामाण्यशङ्कापि निष्कलङ्के प्रसज्यते ॥ इति ।
'
तस्माद्वेदस्य निर्विचिकित्सप्रामाण्यलाभाय नित्यत्वमास्थेयमितीमां शङ्कां पराकर्तुमुक्तम् - परमाप्तेति ।
अत्र चाप्तत्वं प्रक्षीणरागादिदोषत्वे सत्युपदेष्टृत्वम् ।
तच्च द्विविधं परमपरं च ।
तत्र परं सर्वविषयं सर्वज्ञस्यैव संभवेत् ।
अपरं पुनरसर्वविषयमार्यम्लेच्छादेरसर्वविद एवेति ।
यथार्थतः सर्वार्थदर्शित्वेन परमाप्तः प्रक्षीणरागद्वेषादिदोषः कृपावान् परमेश्वरः परोपदेशाय प्रवृत्तो यथार्थमुपदिशतीति च संभाव्यते ।
अतस्तप्रणीतं
174.
सर्ववाक्यं प्रमाणमेवेत्यक्षरार्थः ।
इदमत्राकूतम् ।
यदवादि पूर्ववादिना वेदस्य नित्यत्वे न प्रामाण्यमास्थेयमिति तदसारम् ।
प्रामाण्यस्य दोषाभावप्रयुक्तत्वेन नित्यत्वप्रयुक्तत्वाभावात् ।
सत्यपि नित्यत्वे मनसः श्रवणस्य वागन्तुकदोषेण संशयविपर्ययोत्पादनवेलायामप्रामाण्यदर्शनात् ।
असत्यपि नित्यत्वे निर्घूतदोषाणां चक्षुरादीनां प्रामाण्योपलम्भात् ।
दोषास्तु पुरुषधौरेये न संभावनामर्हन्ति ।
यत आहुः -
'क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ।
' इति ।
न चेत्थंभूते परमेश्वरे प्रमाणाभावः ।
अङ्करादिकं सकर्तृकं कार्यत्वात् कुम्भवदित्यादीनामनादीनां नवानामीश्वरसाधकानामनुमानानां जागरूकत्वात् ।
तदुदितमुदयनेन ।
कार्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः ।
वाक्यात् संख्याविशेषाच्च साध्यो विश्वविदव्ययः ॥ इति ।
न च वेदवाक्यानामनादित्वे प्रमाणाभावः ।
वेदवाक्यान्यनित्यानि वाक्यत्वात् कालिदासादिवाक्यवदित्यादेः संभवात् ।
ननु वेदवाक्यानि नित्यान्यस्मर्यमाणकर्तृकत्वादाकाशवदिति नित्यत्वेऽपि प्रमाणमस्तीति चेन्मैवम् ।
अननुभूयमानकर्तृकैर्घटादिभिर्व्याभिचारात् ।
अथाज्ञायमानकर्तृकत्वं हेतुः क्रियते तदाऽसिद्धिरेव ।
अनुमानागमाभ्यां तज्ज्ञानस्य संभवात् ।
अथवा यथाश्रुतमेवास्तु ।
तथापि जीर्णकूपारामादौ व्यभिचारः ।
अथैतद्दोषपरिजिहीर्षया संप्रदायाविच्छेदे सतीति विशेष्यते ।
एवमपि गाथादिशब्दैः सुभाषितश्लोकैश्च व्यभिचारस्तदवस्थ एव ।
किं च
175.
संप्रदायो नाम वृद्धव्यवहारानुगतपदवर्णस्वरनियमः ।
तस्याविच्छेदो नाम यथापूर्वमुच्चारणम् ।
तस्य च सपक्षे विपक्षे चावर्तमानतया दृष्टान्तासिद्धिः ।
तस्मात् परमाप्तेन परमेश्वरेण प्रणीतत्वाद्वेदस्य प्रामाण्यं सिद्धम् ।
अत एव कणादः प्रणिनाय ? 'तद्वचनादाप्तप्रामाण्यमिति' ।
महता प्रबन्धेन प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीति सूत्रोक्तं प्रमाणचतुष्टयं व्याख्यातमित्युपसंहरति - वर्णितानीति ।
एवमिति शेषः ।
नन्वन्यान्यप्यर्थापत्त्यादीनि प्रमाणानीति परिसंचक्षते परीक्षकाः ।
अतः कथमित्थं कथ्यत इत्याशङ्क्य तेषां यथायथमुक्तेष्वेव प्रमाणेष्वन्तर्भावान्न कश्चिच्छङ्काशूक इत्याह ? एतेभ्योऽन्यदिति ।
प्रत्यक्षादिचतुष्टयव्यतिरिक्तं पृथक् प्रमाणं न भवतीत्यर्थः ।
अप्रमाणस्य प्रमाणान्तर्भावो दुर्वच इति सूचयितुं प्रमाणस्य सत इत्युक्तम् ।
उक्तमन्तर्भावमुपश्रुत्य तदमृष्यमाणो मीमांसकः प्रत्यवतिष्ठते - नन्वित्यादिना ।
अर्थापत्तेः पृथक् प्रमाणत्वमुपपादयति - तथाहीति ।
अनुपपद्यमानार्थदर्शनात्तदुपपादकभूतार्थान्तरकल्पनमर्थापत्तिः ।
स च दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यनुपपद्यमानार्थस्य दृष्टत्वश्रुतत्वभेदेन दृष्टार्थापत्तिः श्रुतार्थापत्तिरिति द्विविधेति ।
एतत्सिद्धिवत् कृत्वोदाहरणनिष्ठं कृत्वा प्रदर्शयति - पीनो देवदत्त इति ।
कल्पनाप्रकारं दर्शयति - दिवा अभुञ्जानस्येति ।
दिवा भोजनरहितस्य पुष्टत्वं रात्रिभोजनेन विना नावकल्पत इति रात्रिभोजनं कल्प्यत इत्यर्थः ।
फलितमाह ? अत इति ।
नन्वर्थापत्त्याख्यं प्रमाणं प्रत्यक्षादीनामन्यतमं भवत्वित्याशङ्क्य रात्रिभोजनस्य प्रत्यक्षाद्यविषयत्वान्नैवमित्याह ? प्रत्यक्षादिभ्य इति ।
रात्रिभोजनस्य केवलव्यतिरेक्यनुमानविषयत्वेनार्थापत्तेरनुमानानतिरेकान्न पृथक् प्रमाणत्वमिति परिहरति - नैतदिति ।
तदुपपादयति - तथाहीति ।
पञ्चावयवमनुमानवाक्यं प्रयुङ्क्ते - अयं देवदत्त इति ।
दिवाऽभुञ्जानस्य पीनत्वं रात्रिभोजनमन्तरेणानुपपद्यमानं रात्रिभोजनं कल्पयतीति वदता भवतैव पीनत्वरात्रिभोजनयोः कार्यकारणभावेन धूमधूमध्वजवन्नियम्यनियामकभावो दर्शितः ।
न ह्यनियम्यस्य नियामकं विना किंचिदनुपपन्नमतिप्रसङ्गात् ।
तदुक्तम् -
'अनियम्यस्य नायुक्तिर्नानियन्तोपपादकः' ।
इति ।
' नचानयोर्विरोधोस्ति प्रत्यक्षे चाप्यसौ समः' ।
इति ।
नन्वन्वयाभावान्नेदमनुमानमिति चेन्न ।
व्यतिरेकाभावेनान्वयिनोऽप्यननुमानत्वप्रसङ्गात् ।
तस्माद् व्यतिरेकमुखेन निरूप्यां व्याप्तिमुपजीव्य प्रवर्तमानत्वादर्थापत्तिरनुमानान्नातिरिच्यते ।
ततश्चार्थापत्तेः पृथक्प्रमाणत्वकल्पना नावकल्प्यत इति भावः ॥
नन्वभावाख्यं प्रमाणान्तरमस्तीति षष्ठप्रमाणगम्याभाववादी भाट्टः प्रत्यवतिष्ठते - नन्वित्यादिना ।
प्रमेयाभावप्रतीतौ भावग्राहकप्रत्यक्षादिप्रमाणपञ्चकव्यावृत्तिरूपमभावाख्यं प्रमाणान्तरमङ्गीकरणीयम् ।
अन्यथा अभावप्रतीतिरेव ह नोदयमासादयेदित्याद्यभिप्रेत्याह ? तच्चाभावेति ।
तदेतदुपपादयति - तथाहीति ।
ननु घटाद्यनुपलब्ध्या घटाद्यभावो गृह्यत इत्युक्तं तत्रानुपलब्धिर्नाम नास्तीति ज्ञानं विवक्ष्यते चेत्तदा घटादिनास्तित्वज्ञानेन घटादिनास्तित्वज्ञानं जातमिति स्यात् ।
तन्न संभवति ।
पूर्वापरभावलक्षणस्य कार्यकारणभावस्य भेदसमानाधिकरणत्वेनैकस्यासंभवादित्याशङ्क्य विवक्षितमर्थमाह ? अनुपलब्धिश्चेति ।
उपपादितमर्थमुपसंहरति - इत्यभावप्रमाणेनेति ।
न चेह भूतले घटो नास्तीत्यत्राभावग्रहणमिन्द्रियान्वयव्यतिरेकानुविधायित्वादैन्द्रियकमिति वाच्यम् ।
अधिकरणग्रहणोपक्षीणत्वादिन्द्रियव्यापारस्य ।
तथाहि धूमज्ञानोपक्षीणस्येन्द्रियव्यापारस्य कार्यं न भवति पश्चाद्भवदपि धूमध्वजज्ञानं तथाधिकरणग्रहणोपक्षीणस्येन्द्रियव्यापारस्य कार्यं न भवति पश्चाद्भवदप्यभावग्रहणमिति भावः ।
तदुक्तम्-
'अन्वयाधीजन्मत्वमनुमाने व्यवस्थितम् ।
अर्थापत्तेरियं त्वन्या व्यतिरेकप्रवर्तिनी ॥' इति ।
अघटं भूतलमित्यत्राभावस्य तर्कानुपलम्भसहायेन प्रत्यक्षेणैव गृह्यमाणत्वादुपलम्भाभावस्य पृथक् प्रमाणत्वं नास्थेयमिति समाधत्ते - नैतदित्यादिना अभावग्रहणादित्यन्तेन ।
न हि यद् येनोत्पद्यते तत्सर्वं तस्य व्यापारः ।
किं तु येन विना यस्य यदुत्पादनं न संभवति स एव तस्य कारणं स्यात् तस्मिन् कार्ये जनयितव्येऽवान्तरव्यापारः ।
न च धूमज्ञानेन विना चक्षुर्दहनज्ञानं जनयितुं नेष्टे ।
पुरोवर्तिनि वह्नौ धूमोपलम्भमन्तरेण तदुत्पत्तिदर्शनात् ।
प्रकृते त्वधिकरणग्रहणस्य व्यापारलक्षणस्य व्यापारलक्षणलक्षितत्वेनावान्तरव्यापारतया न व्यवधायकत्वमिति
178.
दृष्टान्तदार्ष्टान्तिकयोर्न साम्यमिति भावः ।
ये तु निवृत्तः कोलाहल इति शब्दप्रध्वंसस्य प्रत्यक्षत्वं मन्वते तेऽधिकरणग्रहणमवर्जनीयसंनिधिकत्वेनाभावप्रतीतावङ्गमिति नाङ्गीकुर्वते ।
तन्मते त्वयमङ्गीकारवादोऽनुमानं च ।
विमतमभावग्रहणमिन्द्रियजन्यमनन्यत्रोपक्षीणेन्द्रियव्यापारभावभावित्वाद् रूपादिज्ञानवदित्यलम् ।
नन्विन्द्रियाभावयोः संबन्धाभावादभावस्येन्द्रियग्राह्यत्वं न संगच्छते ।
तस्मादनिच्छतापि स्थूलमतिना षष्ठप्रमाणगम्यत्वमभावस्याभ्युपगन्तव्यमित्यभिधातुमिन्द्रियाणां प्राप्तप्रकाशकत्वं तावदाह ? नन्वित्यादिना ।
तदेतदुपपादयति - तथाहीति ।
अनुमानप्रयोगप्रकारं दर्शयति - इन्द्रियाणीति ।
ननु ज्ञानकरणत्वादिति हेतोः स्मृतिज्ञानजनके मनस्यनैकान्तिका ।
मनसः स्मर्यमाणैरर्थैः सह संबन्धाभावादिति चेन्मैवम् ।
संस्कारलक्षणप्रत्यासत्त्यपेक्षया मनसोऽपि प्राप्यकारित्वात् ।
अत एवाह कुसुमाञ्जलावुदयनः ।
'असाक्षात्कारित्वेऽपि स्मृतेर्मन एव करणमभ्युपागमन् धीराः संस्कारस्त्वर्थविशेषप्रत्यासत्तावुपयुज्यते' ।
इति ।
ये तु संस्कारमात्रजं ज्ञानं स्मृतिरित्यभिधीयत इति मतमवलम्ब्य मनसः करणत्वं नाभ्युपगच्छन्ति तान् प्रति स्मृतिज्ञाने मनसः करणत्वाभावान्न कोऽपि यत्नः कर्तव्य इति भावः ।
ननु चक्षुःश्रोत्रयोः प्राप्यकारित्वं न संभवति ।
तथाहि - किं चक्षुरर्थदेशं गत्वा संबध्यतेऽथवार्थश्चक्षुर्देशम् ।
नाद्यः ।
प्रतीतिविरोधात् ।
न हि शरवदर्थदेशं गतं चक्षुः
179.
केनचिदुपलभ्यते ।
नापि द्वितीयः ।
वह्निक्षुरिकादिदर्शनेन दाहपाटनादिप्रसङ्गात् ।
इतोपि चक्षुर्न प्राप्यकारि ।
नयनोन्मीलनानन्तरं शाखाशीतमयूखयोः समसमयमुपलम्भसंभवात् ।
काचाभ्रपटलस्फटिकाद्यन्तरितोपलब्धेश्च ।
तर्हि वीचीतरङ्गन्यायेन श्रवणपथमवतीर्णस्य शब्दस्योपलम्भः संभविष्यतीति चेन्मैवम् ।
श्रूयमाणः शब्दः प्राच्यः प्रतीच्य उदीच्योऽवाच्य इति दिग्विशेषव्यपदेशानुपपत्तेः ।
अतश्चक्षुःश्रोत्रयोः प्राप्यकारित्वं न सेत्स्यतीति शङ्कमानं प्रति चक्षुःश्रोत्रे पक्षयित्वानुमानेन प्राप्यकारित्वं साधयामीत्यभिसंधायाभिधत्ते - यद्वेति ।
स्मृतिं प्रति मनसः करणत्वाङ्गीकारवादे बाह्येन्द्रियत्वादिति हेतुः प्रयोक्तव्यः ।
अप्राप्तप्रकाशकत्वे सर्वार्थस्योपलम्भः स्यादिति विपक्षे बाधकस्तर्कः ।
चक्षुषस्तावद्रश्मिद्वारार्थसंबन्धोपपत्तेः ।
समसमयस्योपलम्भस्यासिद्धेरिन्द्रियवृत्तेराशुतरसंचारित्वेनोत्पलपत्रशतव्यतिभेदवद् यौगपद्याभिमानस्य कालसंनिकर्षोपपत्तेः स्वच्छद्रव्यत्वेन काचाभ्रादीनां तेजोगतिप्रतिघातकत्वासंभवाच्च ।
अनेनाभिप्रायेणाक्षेपसमाधाने सूत्रकारोऽपि चकार -
'अप्राप्य ग्रहणं काचाभ्रटलस्फटिकान्तरितोपलब्धेः कुड्यादिव्यवहितानुपलब्धेरप्रतिषेधः ।
अप्रतिघातात् संनिकर्षोपपत्तिः' ।
इति ।
यच्चोक्तं शब्दग्रहणपक्षे दिग्विशेषव्यपदेशानुपपत्तिरिति ।
तन्न ।
दिग्विशेषानुसंधानवतः पुंसस्तदुपपत्तेः ।
तदनुसंधानविधुरस्य कुतो वायं शब्द इति
180.
संदेहदर्शनाच्च ।
तस्माच्चक्षुःश्रोत्रयोः प्राप्यकारित्वं सिद्धमिति भावः ।
दृष्टान्तस्य साध्यविकलतां परिहरति - त्वगादीनामिति ।
ननु भवतु भवदुक्तरीत्या प्राप्यकारित्वमिन्द्रियाणाम् ।
अत एवाभावग्राहकमपीन्द्रियं संबद्धमेवाभावं गृह्णातु ततश्चाभावस्य किं षष्ठप्रमाणगम्यत्वकल्पनयेत्यत आह ? न चेन्द्रियेति ।
इन्द्रियाभावयोः संबन्धाभावं दर्शयितुं प्रसिद्धौ द्वावेव संबन्धावित्याह ? संयोगेति ।
नन्वनयोः संबन्धयोरन्यतरः संबन्धो भवत्विन्द्रियाभावयोरित्यत आह ? न तावदिति ।
न तावदिन्द्रियाभावयोः संयोगः संगंस्यते ।
संयोगस्य द्रव्यमात्रनिष्ठत्वेनाभावस्य द्रव्यत्वाभावात् ।
नापि समवायः ।
इन्द्रियाभावयोरवयवावयव्यादीनामन्यतमत्वाभावादिति भावः ।
ननु संयोगसमवायाविन्द्रियाभावयोर्न संभवतश्चेन्मा संभूतां नाम विशेषणविशेष्यभावस्तु संभविष्यत्येवेत्याशङ्क्याह ? विशेषणेति ।
सत्यम् ।
इन्द्रियाभावयोर्विशेषणविशेष्यभावः संभवति परं तु तस्य संबन्धत्वमेव न संभवतीति भावः ।
न हि प्रतिज्ञामात्रेणार्थसिद्धिरित्याशङ्क्य तत्रोपपत्तिं कथयति - भिन्नेति ।
भिन्नोभयाश्रितत्वाभावे कथंकारं संबन्धत्वं न स्यादित्याशङ्क्य विशेषणविशेष्यभावस्य संबन्धलक्षणलक्षितत्वाभावात् संबन्धत्वं नास्तीति वक्तुं संबन्धलक्षणं प्रथमं कथयति - संबन्धो हीत्यादिना ।
उदाहरणनिष्ठं कृत्वा दर्शयति - यथेति ।
भेरीदण्डसंयोगे लक्षणानुगतिं विशदयति - स हीति ।
ननु विशेषणविशेष्यभावोऽप्येतल्लक्षणलक्षितत्वात् संबन्धो भवत्वित्याशङ्क्य तल्लक्षणलक्षितत्वं नास्तीत्याह ? न चेति ।
तदेतदुपपादयति - तथा हीति ।
ननु यथा घटघटत्वयोर्भेदः स्फुटमुपलभ्यते तद्वद्दण्डतद्गतविशेषणत्वयोरित्यत आह ? न हीति ।
विशेषणत्वस्य दण्डादन्यत्वे बाधकमस्ति ।
घटत्वस्य घटादन्यत्वे बाधकं नास्तीति भावः ।
तर्हि विशेषणत्वं दण्डस्य किं न भवतीति पृच्छति - अपि त्विति ।
उत्तरमाह ? स्वरूपमिति ।
विशेषणत्वं दण्डस्य स्वरूपमित्यर्थः ।
कुत इत्यत आह ? अभावस्यापीति ।
भाववदभावस्यापि विशेषणत्वादित्यर्थः ।
नन्वभावस्यापि विशेषणत्वे तस्यार्थान्तरत्वं भवतु को दोष इत्याशङ्क्य विशेषणत्वस्यार्थान्तरत्वे द्रव्यादीनामन्यतमेन तेन भवितव्यं तदन्यतमत्वमभावे न संभवत्यभावस्य भावाधिकरणत्वासंभवादित्याह ? न चाभाव इति ।
नन्वभावस्य विशेषणत्वं स्वरूपं चेत् स्वरूपत्वं कदाचिदपि विशेष्यत्वं न स्यात्स्वरूपस्यानपायादित्याशङ्क्य यथैकः पुमांस्तेन तेनोपाधिनोपाधीयमानः पिता माता भ्राता चेति व्यवहारभाग् भवति तद्वदेकमेव स्वरूपं तेन तेनोपाधिनोपाधीयमानं तथा व्यवहारभाग् भविष्यतीति परिहरन्नुक्तमर्थमुपसंहरति - तस्मादिति ।
यस्मादर्थान्तरत्वं न संभवति तस्मात्स्वोपरक्तबुद्धिजनकत्वं यत्स्वरूपं कलशशून्यमवनितलमित्यत्र कलशाभावस्य स्वविशिष्टप्रत्ययजननयोग्यता सैव विशेषणता नार्थान्तरमिति भावः ।
उक्तन्यायमन्यत्राप्यतिदिशति - एवमिति ।
ऊह्या इत्युक्तम् ।
कथमूह्या इत्यत आह ? स्वप्रतिबद्धेति ।
अग्निव्याप्तो धूम इत्यत्राग्नेः स्वव्याप्तबुद्धिजननयोग्यता सैव व्यापकत्वमित्यर्थः ।
182.
तत्वादेः कारणत्वस्वरूपं निरूपयति - कारणत्वमपीति ।
व्यापकत्वादेरर्थान्तरत्वाभावे युक्तिमाह ? अभावस्यापीति ।
ननु यथा घटत्वपटत्वादिशब्दानां घटपटादिगतसामान्यवाचकत्वं तद्वद्व्यापकत्वादिशब्दानां सामान्यवाचकत्वमस्त्वित्याशङ्क्याह ? न ह्यभाव इति ।
विशेषणविशेष्यभावस्य साधितमर्थान्तरत्वाभावं निगमयति - तदेवमिति ।
यथा भिन्नत्वं न संभवत्येवमुभयाश्रितत्वमपीत्याह ? नापीति ।
तत्र युक्तिं वक्ति - विशेषण इति ।
यथा घटत्वं घटमात्रनिष्ठं न पटनिष्ठं तद्वद्विशेषणत्वं विशेषणमात्रनिष्ठं न विशेष्यनिष्ठम् ।
एवं विशेष्यत्वमपीति भावः ।
एकत्वमपि नास्तीत्याह ? नाप्येक इति ।
द्वन्द्वान्ते श्रूयमाणो भावशब्दः प्रत्येकमभिसंबद्ध्यत इति न्यायेन भावशब्दस्योभयत्र संबन्धे द्वावेतौ धर्माविति भावः ।
इयता प्रबन्धेन संसाधितं विशेषणविशेष्यभावस्य संबन्धत्वाभावमुपसंहरति - तस्मादिति ।
भिन्नोभयाश्रितत्वाभावादिति भावः ।
उक्तं न्यायमन्यत्राप्यतिदिशति - एवमिति ।
तर्हि विशेषणविशेष्यभावादिषु वृद्धैः प्रयुज्यमानस्य संबन्धशब्दस्य का गतिरित्याह ? संबन्धस्त्विति ।
संयोग इत्युक्ते कयोरित्याकाङ्क्षा जायते ।
एवं विशेषणविशेष्यभाव इत्युक्ते कयोरित्याकाङ्क्षा जायते ।
तस्मादुभाभ्यां निरूप्यमाणत्वसाधर्म्येणोपचारात् संबन्धव्यपदेश इति भावः ।
फलितमाह ? तथा चेति ।
इन्द्रियाभावयोः संबन्धासंभवादभावस्यैन्द्रियकत्वाभावाच्छष्ठप्रमाणगम्यत्वमभ्युपगन्तव्यमिति भावः ।
यद् यदिन्द्रियं तत् तत्संबद्धमेव प्रकाशयतीति
183.
यदुक्तं तदङ्गीक्रियत एव ।
परं त्वस्या व्यवस्थाया भावमात्रविषयत्वादसंबद्धस्याप्यभावस्यैन्द्रियकत्वं न हीयत इत्यभिप्रेत्य परिहारमाह ? सत्यमिति ।
कुत इत्यत आह ? भावावच्छिन्नत्वाद्व्याप्तेरिति ।
तस्या व्याप्तेर्भावमात्रविषयतया संकोचनीयमानत्वादित्यर्थः ।
एतदेव विशदयति - भावं प्रकाशयदिति ।
अभावग्रहणव्यावृत्तिमाह ? नन्विति ।
तर्ह्यभावं प्रकाशयदिन्द्रियं कथं प्रकाशयतीत्यत आह ? अभावमिति ।
ननु सामान्यतः प्रवृत्ताया व्याप्तेर्बाधकमन्तरेण भावविषयतया संकोचो न युज्यते ।
अन्यथा सर्वव्याप्तीनां भावविषयतया प्रसज्येतेति चेन्मैवम् ।
अभावग्रहणस्यैन्द्रियकत्वानङ्गीकारेऽकारणकार्योत्पादप्रसङ्गस्यैव बाधकतया जागरूकत्वात् ।
ननु प्रतियोग्यनुपलब्धौ सत्यामेवाभावग्रहणमिति त्वयाङ्गीकर्तव्यम् ।
तर्हि सैवानुपलब्धिरभावमुपलम्भयति ।
तथा च बाधकाभावान्नोत्सर्गस्यापवादो युक्त इति चेन्न ।
अनुपलब्धेः कारणत्वनिराकरणात् ।
तथा ह्यनुपलब्धिः किं ज्ञाताभावमुपलम्भयत्यज्ञाता वा ।
नाद्यः ।
अनुपलब्धेरप्यभावरूपत्वेनानुपलब्ध्यन्तरापेक्षया तत्रापि ज्ञातत्वाज्ञातत्वविकल्पे क्रियमाणे तत्रापि प्रथमपक्षस्वीकारे च तत्र तत्राप्येवमित्यनवस्थाप्रसङ्गात् ।
न द्वितीयः ।
अभावग्रहणस्याज्ञातकरणत्वाङ्गीकरणे ऐन्द्रियकत्वानुमानस्य सुवचत्वात् ।
प्रयोगश्च ।
विमतमिन्द्रियजन्यमज्ञातकरणत्वात् संप्रतिपन्नवदिति ।
अन्यथा रूपाद्युपलम्भस्याप्यनुपलम्भकरणत्वप्रसङ्गो विपक्षे बाधकस्तर्कः ।
अभावोपलम्भे भावानुपलम्भवद्भावोपलम्भेऽप्यभावानुपलम्भस्य वज्रलेपायमानत्वात् ।
तस्मादनुपलब्धिसहकृतमिन्द्रियमभावं गृह्णातीत्यभ्युपगन्तव्यम् ।
तमर्थं मनसि निधायाभिधत्ते - इति सिद्धान्त इति ।
प्रामाणिकैः प्रमाणवत्तयाऽयमर्थोऽभ्युपगतस्त्वया निवारयितुं न पार्यते ।
तदुक्तम् -
'प्रमाणवत्त्वादायातः प्रवाहः केन वार्यते ।
' इति ।
नन्विन्द्रियस्यासंबद्धार्थग्राहकत्वाभ्युपगमे कुड्यादिव्यवहितार्थग्रहणप्रसङ्ग इत्याशङ्क्याह ? असंबद्धेति ।
ननु दण्डी कुण्डली कमण्डलुमान्नीलमुत्पलमित्यादौ दण्डादेर्विशेषणत्वं संबन्धान्तरपूर्वकं दृश्यते ।
न चाभावेनेन्द्रियस्य संबन्धः संयोगः समवायो वा संभवति ।
तस्मान्मूलसंबन्धाभावाद्विशेषणत्वेनातिप्रसङ्गदोषो दुःपरिहर इत्याशङ्क्य षष्ठेनापि प्रमाणेनाभावः कस्यचिद्विशेषणत्वेन ग्रहीतव्यः ।
ततश्च षष्ठप्रमाणवादिनोऽप्येतत्समानमित्याह ? समश्चेति ।
यथा खलु गोमान्, अश्ववानित्यादौ संयोगसमवायाभावेपि देवदत्तस्य विशेष्यत्वं गवाश्वादीनां विशेषणत्वं भवदपि नानुपपन्नं तद्वदत्रापि मूलसंबन्धाभावेऽपि संयुक्तादेर्विशेषणत्वेन विशेष्यत्वेन वा प्रत्यक्षयोग्यार्थानुपलब्धौ तदभावः प्रत्यक्षः ।
अनुमेयाभावस्त्वनुमानगम्यः कौरवाद्यभावश्चागमगम्य इति प्रत्यक्षादिष्वेव यथासंभवमन्तर्भावान्नानुपलब्धेः पृथक् प्रमाणत्वमिति सिद्धम् ।
संभवैतिह्ययोः पृथक्प्रमाणत्वं निराकृतप्रायमेवेत्युपेक्षितम् ।
तन्निराकरणप्रकारस्तु प्रदर्श्यन्ते ।
संभवो द्विविधः संभावनारूपो निश्चितरूपश्चेति ।
तत्राद्योऽप्रमाणमेव ।
तद्यथा ब्राह्मणे चतुर्वेदाभिज्ञत्वं संभवतीति ।
185.
द्वितीयस्तु प्रमाणम् ।
तदनुमानान्नातिरिच्यते ।
तद् यथा शतं सहस्रे संभवतीति ।
सहस्रं शतेनाविनाभूतमित्यविनाभावपूर्वकत्वात् ।
अनिर्दिष्टप्रवक्तृकं प्रवादपारंपर्यमैतिह्यम् ।
तद् द्विविधं वितथमवितथं चेति ।
तत्राद्यं न प्रमाणं द्वितीयं त्वाप्तोपदेशरूपत्वादागमान्न भिद्यते ।
तद् यथा - इह वटे यक्षस्तिष्ठतीति न चतुष्ट्वमैतिह्यार्थापत्तिसंभवाभावप्रामाण्यात् ।
'शब्द ऐतिह्यानर्थान्तरभावादनुमानेऽर्थापत्तिसंभवाभावानर्थान्तरभावाच्चाप्रतिषेधः' इति सूत्रकारेणाक्षेपपूर्वकमुक्तेष्वेवान्तर्भावस्याभिहितत्वाच्चतुष्ट्वं सिद्धम् ॥
प्रमाणानां प्रामाण्यं स्वतोऽप्रामाण्यं तु परत इति मीमांसकाः संगिरन्ते ।
उभयमपि परत इति नैयायिकाः प्रतिपद्यन्त इति वादिप्रतिपत्तेः सद्भावात् संदेहः स्यात् ।
तन्निवारणाय प्रामाण्यस्य निरूपणीयता युज्यत इत्यभिप्रायेण प्रतिजानीते - इदमिति ।
प्रमाणनिरूपणानन्तरं तद्गतं प्रामाण्यं विचार्यत इत्यर्थः ।
प्रामाण्यस्य स्वतस्त्वं द्विविधमुत्पत्तौ ज्ञप्तौ चेति ।
तत्रोत्पत्तौ स्वतस्त्वं नाम ज्ञानकारणमात्रजन्यत्वम् ।
ज्ञानं येन जायते तेनैव प्रमाण सदैव जायत इत्यर्थः ।
ज्ञप्तौ स्वतस्त्वं तु ज्ञानग्राहकमात्रग्राह्यत्वम् ।
येन ज्ञानं ज्ञायते तेनैव प्रमाणं सदैव ज्ञायत
186.
इत्यर्थः ।
परतस्त्वमपि द्विविधमुत्पत्तौ ज्ञप्तौ च ।
तत्रोत्पत्तौ परतस्त्वं च ज्ञानकारणातिरिक्तकारणजन्यत्वम् ।
इन्द्रियार्थसंयोगादिना ज्ञानं जायते तदतिरिक्तेन गुणेन दोषेण वा तज्ज्ञानं प्रमाणमप्रमाणं वा जायत इत्यर्थः ।
ज्ञप्तौ परतस्त्वं च ज्ञानग्राहकातिरिक्तग्राह्यत्वम् ।
ज्ञानं मनसा गृह्यते तद्गतं प्रामाण्यमनुमानेनेत्यर्थः ।
एवं स्थिते स्वतःप्रामाण्यं प्रतिक्षिप्य परतःप्रामाण्यं प्रसाधयितुं लोके प्रवर्तमानानां पुंसां प्रवृत्तिरुभयथोपलभ्यत इति लोके सिद्धां वस्तुस्थितिमनुवदति- जलादिज्ञानेति ।
लोके हि पिपासुः पुमान् पिपासोपशमनाय जलं जिज्ञासमानो जलज्ञाने जाते तस्य ज्ञानस्याभ्यासदशामापन्नस्यापि समर्थप्रवृत्तिजनकजातीयत्वलिङ्गेन यथार्थत्वं निश्चित्य पश्चात् प्रवर्तत इत्येकः पक्षः ।
अन्यस्तु जलज्ञानान्तरं कृष्यादाविव संदेहात् तत्र प्रवर्तमानः फललाभे सति समर्थप्रवृत्तिजनकत्वलिङ्गेन तस्य ज्ञानस्यानभ्यासदशामापन्नस्य यथार्थत्वं निश्चिनोतीत्यपरः पक्षः ।
उभयमपि वस्तुवृत्तमाबालपण्डितमनुभवसिद्धत्वादिति भावः ।
यावत् परमतं न निराक्रियते तावत् स्वमतमप्रतिष्ठितं स्यादिति न्यायमनुसृत्य स्वतःप्रामाण्यपक्षं प्रतिक्षेप्तुमारभते - मीमांसकस्य मतमवतारयति - अत्रेति ।
प्रमाणानां प्रामाण्याप्रामाण्यचिन्तायां कश्चिदित्थमाहेत्यर्थः ।
मीमांसकमतमवतारयति - प्रागेवेति ।
प्रवृत्तेः पूर्वमेव ज्ञानस्य प्रामाण्यं निश्चित्य पश्चात् पुरुषाः प्रवर्तन्त इत्यर्थः ।
187.
न हि प्रतिज्ञामात्रेणार्थसिद्धिरित्याशङ्क्य तत्रोपपत्तिमाह ? स्वत एवेति ।
सर्वेषां प्रमाणानां प्रामाण्यं स्वत एवेति निश्चितत्वादित्यर्थः ।
ननु स्वत एव प्रामाण्यमिति कोऽर्थः ।
स्वस्माज्जायते ज्ञायत इति वा ।
उभयथाप्यसंभव एव ।
स्वस्य स्वस्मादुत्पत्तेः प्रतीतेश्च प्रमाणपथानारोहादित्याशङ्क्याह ।
अस्यार्थः ।
येन ज्ञानं जायते तेन प्रामाण्यं सदैव जायत इत्यर्थः ।
परपक्षं प्रतिक्षिपति - नन्विति ।
फलितमाह ? तेनेति ।
ननु ज्ञानमपि प्रवृत्त्युत्तरकालं गृह्यते चेत् प्रामाण्यनिश्चयोत्तरकालं प्रवृत्तिरिति न घटते ज्ञानप्रामाण्ययोः सहग्रहणाभ्युपगमादित्याशङ्क्याह ? ज्ञानं चेति ।
प्रवृत्तेः प्राग् ज्ञानग्रहणानङ्गीकारे बाधकमाह ? कथमिति ।
धर्मिणो बुद्ध्यनारोहे तद्धर्मविषयः संदेहो नोदयमासादयेत् ।
तस्माज्जलज्ञानान्तरं प्रामाण्याप्रामाण्यसंदेहादपि पुरुषः प्रवर्तत इति वदता भवतापि प्रवृत्तेः पूर्वं ज्ञानं गृहीतमित्यभ्युपगन्तव्यमिति भावः ।
ननु ज्ञानग्राहकेण ज्ञानगतं प्रामाण्यं गृह्यत इत्युक्तम् ।
ज्ञानं वा केन गृह्यत इत्याकाङ्क्षायां ज्ञानग्राहकं प्रामाण्य प्रदर्शयंस्तेनैव तद्गतं प्रामाण्यं प्रवृत्तेः प्रागेव गृह्यत इत्युपपादितमर्थमुपसंहरति - तस्मादिति ।
इन्द्रियार्थसंप्रयोगसमनन्तरमयं घट इति ज्ञानं जायते ।
तेन ज्ञानेन घटे ज्ञातताख्यः कश्चिद्धर्म आधीयते ।
सा ज्ञातता ज्ञानमन्तरेणानुपपद्यमाना ज्ञानमाक्षिपति ।
एवं ज्ञाततान्यथानुपपत्तेरर्थान्तरकल्पनं प्रसूते ।
तया ज्ञाततान्यथानुपपत्तिप्रसूतयार्थापत्त्या ज्ञानप्रामाण्ये सहैव गृह्येते ।
पश्चात् पुरुषः प्रवर्तत इति प्रामाण्यस्य स्वतस्त्वं सिद्धमित्यर्थः ।
एवं प्रामाण्यस्य स्वतस्त्वं प्रसाध्य परतस्त्वपक्षं प्रतिक्षिपति - न त्वित्यादिना ।
यदि ज्ञानमात्रं प्रथमं गृह्यते पश्चादनुमानेन तद्गतं प्रामाण्यं निश्चीयत इत्यभ्युपगम्येत तदानीं निश्चितप्रमाणभावमेवानुमानं प्रामाण्यं निश्चाययतीति वक्तव्यम् ।
ततश्च तन्निश्चयश्च निश्चितप्रमाणाभावेनान्येनेत्यनवस्था दुरवस्था लालगीति ।
तस्मात् परतः प्रामाण्यपक्षस्यानवस्थादुरवस्थत्वाद्बोधात्मकत्वेन सर्वेषां ज्ञानानां प्रामाण्यम् ।
क्वचित्त्वर्थान्यथात्वज्ञानेन कारणदोषज्ञानेन वा तत्प्रामाण्यमपोद्यते ।
यस्मादुक्तम् -
'तस्माद्बोधात्मकत्वेन प्राप्तबुद्धेः प्रमाणता ।
अर्थान्यथात्वहेतुस्थदोषज्ञानादपोद्यते ॥' इति ।
तथा चानिच्छताप्यच्छमतिना प्रामाण्यस्य स्वतस्त्वं कक्षीकर्तव्यमिति पूर्वपक्षसंक्षेपः ।
ज्ञाततया ज्ञानप्रामाण्ययोः सहग्रहणासंभवात् स्वतस्त्वासिद्धेः परतस्त्वमुररीकर्तव्यमिति राद्धान्तमारभते - अत्रोच्यत इति ।
अर्थापत्तेरनुदय एव दूषणमिति वक्तुं परोक्तमनुवदति - ज्ञातेति ।
यदार्थापत्त्या ज्ञानग्रहणं न सहामहे तदानया तद्गतप्रामाण्यग्रहणं दूरोत्सारितमेव ।
विना व्यक्तिग्रहणं जातिग्रहणस्यासंभवात् ।
व्यक्तिग्रहणसामग्रीनिष्ठत्वाज्जातिग्रहणसामग्र्या इत्यभिप्रायेणाह ? तयेति ।
उक्तमर्थमुपपादयितुं प्रतिजानीते - तथाहीति ।
पराभिमतं प्रतिकर्तुमनुभाषते - इदमिति ।
इदंशब्दार्थमाह ? घटादीति ।
ज्ञातता ज्ञानजन्येत्यनुमीयत इत्युक्तम् ।
केन हेतुनानुमीयत इत्याशङ्क्य तदन्वयव्यतिरेकानुविधायित्वहेतोः पक्षधर्मतां प्रदर्शयंस्तेन साध्यमध्यवसीयत इत्याह ? स चेति ।
विमता ज्ञातता ज्ञानजन्या तदन्वयव्यतिरेकानुविधायित्वात् ।
यद्यन्वयव्यतिरेकानुविधायि तत्तज्जन्यम् ।
यथा तन्त्वन्वयव्यतिरेकानुविधायी पटस्तन्तुजन्य इत्यनुमानं द्रष्टव्यम् ।
ज्ञातताया ज्ञानजन्यत्वसाधनस्य फलमाह ? एवं चेति ।
नोपपद्यत इत्युक्तम् ।
कुत इत्याह ? कारणेति ।
असति कारणे कार्योदयो व्याहन्यते ।
ततश्च शङ्काया व्याघातावधिकत्वादतः परं शङ्का पिशाचिका नावकाशं लभत इति भावः ।
फलितमाह ? तेनेति ।
ज्ञाततान्यथानुपपद्यमाना यामर्थापत्तिं प्रसूते तया ज्ञानप्रामाण्ययोः सहग्रहणसिद्धेः स्वतस्त्वसिद्धिरिति मीमांसकस्य मतमिति भावः ।
ज्ञानविषयत्वातिरिक्तायां ज्ञाततायां प्रमाणाभावान्नेष्टसिद्धिरिति परहारमाचष्टे - न चेति ।
यदि घटादेर्ज्ञानविषयत्वं ब्रूषे तर्हि फलितं ममापि मनोरथद्रुमेण ।
प्रत्यक्षार्थापत्त्योरुभयोस्ततत्र सद्भावादित्याशयेनाशङ्कते - नन्वित्यादिना ।
तदेतदुपपादयति - तथाहीति ।
यदि ज्ञानजनितज्ञातताधारत्वं नाभ्युपगच्छसि तर्हि तादात्म्येन विषयत्वं ब्रूषे तदुत्पत्त्या वा ।
नाद्यः तदसंभवादित्याह ? न तावदिति ।
भेदासहिष्णुरभेदस्तादात्म्यम् ।
विशेषनित्यद्रव्यातिरिक्तेषु येषु स्थलेषु समवायमाचक्षते वैशेषिकास्तेषु स्थलेषु
190.
समवायस्थाने तादात्म्यमभिषिच्य व्यवहरन्ति मीमांसकाः ।
अत एवोक्तम् -
'विशेषसमवायौ द्वौ नाङ्गीचक्रुः कुमारिलाः' ॥ इति ।
तस्माद् घटज्ञानयोरवयवावयविभावाद्यभावान्न तादात्म्यमिति भावः ।
अस्तु द्वितीयस्तत्राह ? तदुत्पत्त्येति ।
तस्मादुत्पत्तिस्तदुत्पत्तिस्तया विषयत्वेऽङ्गीक्रियमाणे कर्मण इव घटादेः कारणादिन्द्रियादेः कर्तुश्चात्मनो ज्ञानस्योत्पत्तेस्तत्रापि विषयत्वं प्रसज्येतेति भावः ।
तादात्म्यतदुत्पत्तिभ्यां विषयत्वासंभवाज्ज्ञानजनितज्ञातताधारत्वेनैव विषयत्वमेषितव्यमित्यभिसंधिमानाह ? तेनेति ।
इदं वक्ष्यमाणं निश्चीयत इति भावः ।
इदंशब्दार्थमाह ? ज्ञानेनेति ।
अयं घट इति ज्ञानानन्तरं ज्ञानेन घटे ज्ञातताख्यः कश्चन धर्म उत्पद्यत इत्यर्थः ।
उत्पद्यतां नाम उत्पन्नेन तेन किं भवतीत्यत आह ? येनेति ।
येनोत्पन्नेन ज्ञातताख्येन धर्मेण तदाधारो घट एव तस्य ज्ञानस्य विषयो नान्यः पटादिरिति नियमः सिद्ध्यतीति भावः ।
न केवलं ज्ञातो घट इति ज्ञाततायां प्रत्यक्षमेव प्रमाणं किं तु विषयत्वादन्यथानुपपत्तिप्रसूतार्थापत्तिरपि ।
ततश्च प्रमाणसिद्धया ज्ञाततया ज्ञानप्रामाण्ययोः सहग्रहणसंभवात् स्वतःप्रामाण्यसिद्धिरित्यभिप्रायेणोपसंहरति - अत इत्यादिना ।
ज्ञातो घटः प्रकटो घट इति प्रत्यक्षं न ज्ञाततायां प्रमाणम् ।
इष्टो घटो दृष्टो घटो नष्टो घट इति व्यवहारेषु तत्तत्क्रियाजन्यफलशालित्वाभावेऽपि तन्निरूपणाधीननिरूपणत्वेनेच्छादिवज्ज्ञानस्यापि घटसंबन्धित्वोत्पत्तेः ।
अर्थापत्तिस्त्वन्यथैवोपपन्ना ततश्च नेष्टसिद्धिरित्यभिप्रायेण परिहारमाचष्टे - मैवमिति ।
स्वाभाविकं विषय स्फोटयति - अर्थेति ।
अनङ्गीकारे बाधकमाह ? इतरथेति ।
ज्ञानजनितज्ञातताधारस्यैव विषयित्वमिति यदि नियमस्तर्ह्यतीतानागतयोर्विषयत्वं न स्यादित्यर्थः ।
तत्र हेतुमाह ? तत्रेति ।
वृष्टिरासीद्वृष्टिर्भविष्यतीत्यतीतानागतविषययोर्ज्ञानयोर्ज्ञातताजनकत्वायोगादित्यर्थः ।
कुत इत्यत आह ? असतीति ।
न हि लोके किंचित्कार्यमनाधारं दृश्यत इत्यक्षरार्थः ।
अयमाशयः ।
यदि घटज्ञानयोः स्वभावादेव विषयविषयिभावं नाङ्गीकरोषि तर्हि ज्ञानं ज्ञातताख्यमुपकारं घट एव जनयति नान्यत्रेत्ययं नियमः कथमुपपद्यते इति केनचित्पृष्टः किमुत्तरं दत्से ।
यदि स्वभावादेवेति ब्रूषे तर्हि घटस्यापि स्वभावादेव विषयत्वमङ्गीकुरुष्व ।
तदुक्तम् -
'स्वभावनियमाभावादुपकारोऽपि दुर्घटः ।
सुघटत्वेऽपि सत्यर्थेऽसति का गतिरन्यथा ॥' इति ।
प्रकारान्तरेण ज्ञातताधारत्वेन ज्ञानविषयत्वासंभवं दर्शयति - किं चेति ।
ज्ञानजनितज्ञातताधारत्वेनैव ज्ञातताया अपि विषयत्वं भवत्विति शङ्कमानं प्रत्याह ? तथा चेति ।
ज्ञाततानिष्ठायां ज्ञाततायामप्यस्मिन्न्याये प्रसरति तत्र तत्राप्येवमित्यनवस्थादौः स्वास्थ्यमापद्येतेति भावः ।
समः समाधिरिति वक्तुं परेण स्वभाववादं शङ्कयति - अथेति ।
यद्येवं ज्ञाततायां स्थित्वा किमित्येवमाश्रीयते ।
घट एव हि स्थित्वा स्वभाववाद आश्रीयताम् ।
'प्रथमस्य तथाभावे प्रद्वेषः किंनिबन्धनः' इति न्यायादित्याह ? एवं चेदिति ।
एवं ज्ञाततानिराकरणे तामङ्गीकृत्यापि ज्ञाततां स्वतः -
192.
प्रामाण्यं वक्तुं न शक्यत इत्याह ? अस्त्विति ।
यदि ज्ञातताभ्युपगम्येत तर्हि फलितं ममापि मनोरथद्रुमेण तया ज्ञाततया ज्ञानप्रामाण्ययोः सग्रहणासंभवादित्याशङ्क्याह ? तथापीति ।
ज्ञातताङ्गीकारेऽपि तया ज्ञानप्रामाण्ययोः सहग्रहणं न संभवति ज्ञानं ज्ञाततया गृह्यते प्रामाण्यं तु ज्ञातताविशेषेण प्रमाणज्ञाननियतेनेति ।
ज्ञानग्राहकमात्रग्राह्यत्वलक्षणं प्रामाण्यस्य स्वतस्त्वं न सिद्ध्यतीत्यर्थः ।
परं स्वमते पातयितुं परेण शङ्कयति - अथेति ।
मास्तु ज्ञाततया ज्ञानप्रामाण्ययोः सहग्रहणं ज्ञातताविशेषेण तु स्यात् ।
ततश्च स्वतः प्रामाण्यस्य न काचित् क्षतिरिति भावः ।
यद्येवं तर्हि तादृशस्य स्वतस्त्वस्याप्रामाण्यपक्षेऽपि को वा दण्डं वारयितेत्याह ? एवं चेदिति ।
इदंशब्दार्थमाह ? ज्ञातताविशेषेणेति ।
नन्वेवमपि प्रामाण्यं स्वतः, अप्रामाण्यं तु परत इत्यस्मन्मीमांसागुरुभिरुन्नीतः पक्षो न त्यज्यत इति शङ्कते - अथैवमिति ।
यद्येवं तर्ह्यप्रामाण्यमिव प्रामाण्यमपि परत एवेत्यभ्युपगच्छ किमर्थं वैसादृश्यतेत्याह ? प्रामाण्यमपीति ।
परतःशब्दार्थमाह ? ज्ञानेति ।
अयं भावः ।
मीमांसागुरुभिरभ्युपगतमित्यभ्युपगन्तुं न पार्यते ।
न ह्यभ्युपगमेनार्थाः स्वीक्रियन्ते अनभ्युपगमेन वा निवर्त्यन्ते ।
किंतु यत्प्रामाणिकं तद् ग्राह्यं यदप्रामाणिकं तत्परित्याज्यम् ।
तदुक्तम् -
193.
'बालाग्रशतभागोऽपि न कल्प्यो निष्प्रमाणिकः ।
प्रमाणवन्ति कल्प्यानि वस्तूनि सुबहून्यपि ॥'
तस्मादप्रामाणिकत्वेन स्वतस्त्वपक्षस्त्यक्तव्यः प्रामाणिकत्वेन च परतस्त्वपक्षः स्वीकर्तव्यः ।
विमता प्रमा ज्ञानहेत्वतिरिक्तहेत्वधीना कार्यत्वे सति तद्विशेषत्वादप्रमावत् ।
प्रामाण्यं परतो ज्ञायते अनभ्यासदशायां सांशयिकत्वादप्रामाण्यवदिति ।
उदयनमनुमानद्वयं द्विप्रकारेऽपि परतस्त्वे द्रष्टव्यम् ।
यदि ज्ञानं येन ज्ञायते तेनैव प्रामाण्यं सहैव ज्ञायते तर्हि सर्वं ज्ञानं प्रमाणं प्रसज्येत ।
अत्रोच्यते ।
चक्षुरादिकारणस्य स्वतः प्रामाण्यज्ञानहेतुत्वेऽपि कदाचित्प्रतिबद्धशक्तिकतया दोषवशादप्रमाणज्ञानहेतुत्वमुपपद्यतेऽतो नातिप्रसङ्ग इति ।
तदसारम् ।
स्वरूपसहकारिव्यतिरिक्तशक्तिसद्भावे प्रमाणाभावात् ।
किं च येन ज्ञानं जा(ज्ञा?)यते तेनैव तद्गतप्रामाण्यमपि यदि जा(ज्ञा?)येत तर्हि ज्ञानोत्पत्तेरनन्तरं ममोत्पन्नं ज्ञानं प्रमाणमप्रमाणं चे(वे?)ति कस्यचिदपि संदेहो न स्यात् निश्चिते तदनवकाशात् ।
न हि स्थाणुत्वेन निश्चिते पुरःस्थिते वस्तुनि मुग्धोऽपि संदिग्धे स्थाणुर्वा पुरुषो वेति ।
लोके तु जातं ज्ञानं
194.
प्रमाणमप्रमाणं चेति संदिहाना बहव उपलभ्यन्ते ।
यदुक्तं बोधात्मकत्वेनैव प्रामाण्यमिति तदयुक्तम् ।
शुक्तिरजतादिज्ञानस्यापि प्रमाणत्वोपपत्तेः ।
अथ यावद्बोधं तस्यापि प्रामाण्यमभ्युपगम्यत इति चेत्तदसारम् ।
प्रमाणभूते च बोधे बाधोत्पत्तेरनुपपत्तेः ।
अन्यथा सर्वबोधेषु बाधोदयः प्रसज्येत ।
न च परतःप्रामाण्यपक्षेऽनवस्थापत्तिः ।
स्वतःप्रामाण्यपक्षेऽपि समानत्वात् ।
अथ मन्यसे एवं त्रिचतुरज्ञानजन्मनो नाधिकामिति प्रार्थ्यते तावदेवैकं स्वतःप्रामाण्यमस्वत इत्याचार्यैरेवानवस्थायाः प्रतीकारः कृत इति तदाप्यनवस्थासमाधानं प्रकृते समानमित्यलमतिप्रसङ्गेन ।
ननु माभून्नाम प्रामाण्यस्य स्वतस्त्वं भवतु परतस्त्वं च तथापि ज्ञानं केन च गृह्यते तद्गतं प्रामाण्यं च ज्ञानग्राहकादन्येन केन गृह्यत इत्यपेक्षायामाह ? ज्ञानं हीति ।
ज्ञानं तावद् द्विविधं व्यवसायरूपमनुव्यवसायरूपं चेति ।
तत्र विषयविषयिज्ञानं व्यवसायो विषयविषयं ज्ञानमनुव्यवसायः ।
तथा चायं घट इति ज्ञानानन्तरं मया ज्ञातोऽयं घट इति ज्ञानगोचरस्य ज्ञानस्य सर्वजनीनत्वात् ज्ञानस्य मानसप्रत्यक्षत्वे न काचिद्विप्रतिपत्तिरिति भावः ।
ज्ञानगतप्रामाण्यज्ञापकमनुमानं दर्शयितुं प्रतिजानीते - तथाहीति ।
समर्थप्रवृत्तिजनकत्वलिङ्गेन जलज्ञानस्य प्रामाण्यं प्रसाधयितुं प्रवृत्तिं विभजते - जलज्ञानेति ।
द्वैविध्यमेव दर्शयति - फलवत्यफला चेति ।
तत्र प्रथमायाः स्वरूपमाह ? फलवतीति ।
195.
अत एवोक्तं भाष्यकारेण ? 'सामर्थ्यं पुनरस्याः फलेनाभिसंबन्धः' इति ।
ततः किमित्यत आह ? तथेति ।
फलवत्याः प्रामाण्यमनुमीयत इत्यर्थः ।
उक्तमर्थं प्रमाणरूढं करोति - प्रयोगश्चेति ।
प्रयुज्यत इति प्रयोगः ।
अनुमानं प्रदर्श्यत इत्यर्थः ।
प्रमाणमप्रमाणं चेति विवादेनाधिष्ठितं जलादिज्ञानं प्रमाणं भवितुमर्हतीत्यर्थः ।
कुत इत्यत आह ? समर्थेति ।
व्यतिरेकव्याप्तिपुरःसरं वैधर्म्यदृष्टान्तमाह ? यत्त्वित्यादिना ।
अन्वयव्याप्तेरभावात्केवलव्यतिरेकी हेतुरित्याह ? केवलव्यतिरेकीति ।
पक्षसाध्यविभागं विदधाति - अत्र चेति ।
अत्र प्रमाणशब्देन यथार्थत्वं विवक्ष्यत इत्याह ? यथार्थत्वमिति ।
ननु प्रमाकरणं च प्रमाणमित्यादौ सर्वत्र प्रमाणशब्देन प्रमाकरणत्वमेवोच्यते किमित्यत्र भङ्ग्यन्तरमाश्रीयते तत्राह ? न त्विति ।