गौः अवध्या सदा वन्द्या

अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः ।


गावो विश्वस्य मातर: । भारतीयजीवने गोसम्बन्ध: तु अर्वाचीन: । आ ऋग्वेदकालात् अपि स: दृश्यते एव । ऋग्वेदे हि दृश्यते - ‘यो अघ्नाये क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्व:’ (ऋक्संहिता 17 - 161) इति । ‘य: गोमनुष्यमांसभक्षणं करोति, यश्च गो: अपहरणं करोति तस्य भक्षणं करोतु’ इति अत्र अग्नि: प्रार्थ्यते । महाभारते पाण्डवानाम् अस्तित्वं ज्ञातुं कौरवा: विराटराज्यस्य गवाम् अपहरणं (गोग्रहणम्) कृतवन्त: इति कथा अस्माभि: ज्ञायते एव । महाभारतस्य अनुशासनपर्वणि उच्यते - ‘तृषार्ताय गवे जलं दद्यात्’ इति । तथा हि -

गोकुलस्य तृषार्तस्य जलार्थे वसुधाधिप: ।
उत्पादयति यो विघ्नं तं विद्यात् ब्रह्मघातिनम् ॥

आ सहस्राधिकेभ्य: वर्षेभ्य: अस्माकं देशस्य कृषि: गोशक्त्याधारितम् एव वर्तते । गोशक्त्याधारितकृषिम् अवलम्ब्य एव अस्माकं देश: प्राचीने काले स्वावलम्बि राष्ट्र्रं जातम् आसीत् इति इतिहासाध्ययनात् ज्ञायते । स्वातन्त्र्योत्तरभारते अस्माकं देशे गवां सङ्ख्या दिने दिने क्षीणा जायमाना अस्ति । 1947 तमे वर्षे प्रति-सहस्रजनं 430 गाव: आसन्, परन्तु अधुना तु प्रतिसहस्रजनं 110 सन्ति । सङ्ख्याशास्त्रज्ञा: वदन्ति - 2020 तमवर्षाभ्यन्तरे गवां सङ्ख्या प्राय: प्रतिसहस्रजनं 40 भवेत् इति । अधुना कृषिका: गोपालनं दुग्धमात्रार्थं कुर्वन्ति । अन्यगव्यपदार्थानाम् अपि उपयोग: लाभदायक: एव इति अस्माकं कृषिका: विस्मृतवन्त: सन्ति । या: गाव: क्षीरं न दद्यु: तासां विक्रयणं कुर्वन्ति कृषिका: । एष: नितरां शोचनीय: अंश: । अत: रामचन्द्रापुरमठस्य श्रीराघवेश्वरभारती-स्वामिनां दिव्यसङ्कल्पेन श्री रविशङ्करगुरुवर्यस्य, श्री पेजावरमठाधीशानां विश्वेशतीर्थस्वामिपादानाम्, अन्येषां सज्जनशक्तीनां साहाय्येन च विश्वमङ्गलगोग्रामयात्रा अस्माकं देशे आयोजिता अस्ति । वर्षस्यास्य सप्टेम्बर्मासस्य 30 दिनाङ्कत: आरब्धा इयं यात्रा 2010 तमस्य वर्षस्य जनवरीमासस्य 14 दिनाङ्कपर्यन्तम् समग्रे देशे प्रचलिष्यति । यात्रावसरे पञ्चलक्षाधिकानां ग्रामाणां सम्पर्क: चतुश्शताधिकेषु स्थलेषु सभा: च आयोक्ष्यन्ते । ग्रामीणप्रदेशे गव्योत्पादानाम् उपयोग: कथं भवेत्, भारतीयगोसन्ततिसंरक्षणं कथं करणीयम् इत्यादिषु विषयेषु जनजागरणं करणीयम् इति अस्ति अस्या: यात्राया: उद्देश: । न केवलं गो: दुग्धेन, अपि तु गोमयगोमूत्रादीनाम् उपयोगेन अपि जीवनभरणं शक्यते इत्यादिषु विषयेषु जनजागरणं यदि स्यात् तर्हि भारतीयगोसन्ततिसंरक्षणं भवेत् । नो चेत् या गौ: दुग्धं न दद्यात् सा गोहत्याकेन्द्रं प्रति प्रेष्येत ।

सर्वोपनिषदो गावो दोग्धा गोपालनन्दन: ।
पार्थो वत्स: सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥

इति गीताध्यानश्लोके उपनिषदां गोसमानता प्रतिपादिता अस्ति । पुराणेषु कामधेनो: सृष्टि: समुद्रमथनकाले अभूदिति कथा अपि श्रूयते । कामधेनुनिमित्तं वसिष्ठस्य कौशिकस्य (विश्वामित्रस्य) च युद्धम् अभूत्, कौशिक: ब्रह्मर्षि: भूत्वा विश्वामित्र: अभूत् । कौशिक: ‘धिक् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्’ इति बलस्य माहात्म्यं वर्णयति इत्यपि कथा अस्ति । महाभारतस्य अनुशासनपर्वणि उच्यते -

गवां मूत्रपुरीषस्य नोद्विजेत कथञ्चन ।
न चासां मांसमश्नीयाद्गवां पुष्टि तथाप्नुयात् ॥ इति ।

गोमूत्रगोमयसेवनेन बलं पुष्टि: च प्राप्येत इति एतस्य तात्पर्यम् । आयुर्वेदग्रन्थेषु गव्यचिकित्साया: वर्णनं दृश्यते विशेषत: । अधुनापि आयुर्वेदशास्त्रज्ञा: गव्यचिकित्साविषये संशोधनं कुर्वन्त: सन्ति । भारतीयवृक्षायुर्वेदग्रन्थेषु गोमूत्रगोक्षीरदधिसर्पिर्गोमयानाम् उपयोग: कृषिकार्येषु कथं भवेत् इति वर्णितं दृश्यते । कृषिकार्येषु पञ्चानां गव्यानाम् उपयोगेन फलपुष्पाणां विकास: भवेत्, वर्धने आधिक्यं च भवेत् इति उल्लेख: कृत: दृश्यते ।

पद्मपुराणे उच्यते -

गावो बन्धुर्मनुष्याणां मनुष्या बान्धवा गवाम् ।
गौर्हि यस्मिन् गृहे नास्ति तद्बन्धुरहितं गृहम् ॥ इति ।

गोरहितं गृहं बन्धुरहितगृहसमानम् इति एतस्य आशय: । पूर्वस्मिन् काले सर्वेषु अपि गृहेषु गोमयेन गृहभूम्यादीनाम् उपलेपनं क्रियते स्म । गोमयम् आन्टिबयोटिक्सहितम् । तस्मात् तत् परिसरे स्थितानां शरीरपीडाकराणां सूक्ष्मजीविनां नाशं करोति । कठोपनिषदि गोदानस्य प्राशस्त्यम्, उत्तमाया: गो: दानस्य श्रेष्ठता च उक्ता अस्ति । ‘उत्तमा एव गौ: दातव्या’ इति पितरम् उक्तवता नचिकेतसा आत्मविद्याज्ञानं प्राप्तम् इत्येषा कथा गोदानमाहात्म्यं सूचयति ।

अधुना भारतदेशे 30,000 गोहत्याकेन्द्राणि सन्ति । गोशाला: तु अत्यल्पा: । एतस्मात् एव ज्ञायते - समस्याया: गभीरता कियती स्यात् इति । अधुना केषुचन गृहेषु देवालयेषु च नैवेद्यार्थं भारतीयाया: गो: क्षीरस्य उपयोग: न क्रियते, अपि तु आपणेषु यत् क्षीरं लभ्येत तस्य उपयोग: क्रियते । बहव: जना: गोक्षीरस्य उपयोगं सम्यक् जानीयु:, परं गोमूत्रगोमयादीनाम् प्रयोग: कथं करणीय: इति न जानन्ति ते । एषा विश्वमङ्गलगोग्रामयात्रा भारतीयानां पञ्चलक्षाधिकेषु स्थलेषु अस्माकं संस्कृतिं संस्कारं च बोधयितुं, गोरक्षा-गोपालन- गव्योत्पादानाम् उपयोगस्य ज्ञापने च समर्था भवेत्, समग्रे देशे ऐक्य-सम्पादने च निश्चयेन उपकुर्यात् च इति भावयाम: वयम् ।

गोषु षड्विधतां वक्ति वेदः सम्पाद्यताम्

अथर्ववेद: गुणस्वभावानुगुणं गोषु षड् भेदान् वदति । ते च - 1. वशा 2. सूतवशा 3. विलिप्ती 4. वशतमा 5. अवशा 6. भीमा (भीमतमा वा) इति ।

1. वशा - नाम एव सूचयति यत् एषा स्वभावेन साध्वी इति । एषा न पादेन प्रहरति, न वा शृङ्गाभ्यां पीडयति । अल्पवयस्का: बाला: अपि एतस्या: दोहनं कर्तुम् अर्हन्ति । न कापि दुष्टता दर्श्यते अनया ।
2. सूतवशा - स्वपार्श्वे यदा तर्णक: स्यात् तदा एषा साधुस्वभावा भवति । अथवा सुपरिचित: यदा पुरत: उपस्थित: स्यात् तदा अपि साधुतां दर्शयति ।
3. विलिप्ती - घृतलिप्ता इव भासते एषा । एतस्या: रोमाणि अतिमसृणानि चाकचक्ययुतानि च । एतस्या: क्षीरे घृतांशस्य आधिक्यं भवति ।
4. वशतमा - वशाधेनो: अपि एषा साधु: भवति । अत: एव ‘वशतमा’ इति एतस्या: नाम । एषा कदापि कमपि न पीडयति । अधिकक्षीर- दात्री एषा दिने बहुवारं क्षीरदाने समर्था । यदा अपेक्षा तदा क्षीरं ददाति एषा । अत: एव एषा ‘कामधेनु’तुल्या, कामधेनु: एव वा ।
5. भीमा (भीमतमा वा) - या शृङ्गाभ्यां पीडयेत्, पादेन प्रहरेत् च सा भवेत् भीमा गौ: । एतत् एव दौष्ट्यं यदि आधिक्येन स्यात् तर्हि सा उच्यते ‘भीमतमा’ इति । भीमाया: गौ: पालनं क्लेशाय एव ।
6. अवशा - एषा कस्यापि वशा न भवति प्राय: । एतस्या: क्षीरस्य दोहनम् एव असाध्यं कष्टसाध्यं वा । उच्छृङ्खलता एतस्या: मुख्य: स्वभाव: ।

‘आद्यप्रकारचतुष्टये निरूपिता: दानाय अर्हा: । पञ्चमे षष्ठे च प्रकारे अन्तर्भूता गौ: न दानार्हा’ इति वदति वेद: ।

किम् एतत् जानन्ति भवन्तः ? सम्पाद्यताम्

यस्मिन् देशे गौ: अवध्या सदा वन्द्या च अस्ति तस्मिन् एव देशे गोवध: नैरन्तर्येण प्रचलति मांसादिनिमित्तम् । भारते 3600 सर्वकारीया: पशुवधालया: सन्ति, तेषु दशाधिका: तु यन्त्र-प्रधाना: महाकारका: च । एतेषु प्रतिदिनं 2,50,000 पशव: मार्यन्ते । तेषु 50,000 गाव: अपि अन्तर्भवन्ति प्राय: ।

पशुमारणालयेषु य: मारणविधि: भवति स: सर्वथा क्रूर: । (अथवा तत्रत्यस्य क्रौर्यस्य निर्देशाय शब्दा: एव न सन्ति !!) आदौ सहस्रं पशव: कञ्चित् महाकूपं प्रति प्रेष्यन्ते । तत्र चत्वारि दिनानि यावत् आहारं जलं च विना स्थाप्यन्ते ते । शक्तिहीनताकारणत: ते पशव: पतन्ति ।

पतिता: ते आकर्षणपूर्वकं यन्त्रसमीपं नीयन्ते । बहुधा निर्दयप्रहारेण ते उत्थाप्यन्ते । यन्त्रस्य किञ्चन अङ्गं तस्य पशो: पृष्ठभागस्थौ पादौ गृह्णाति दृढतया ।

तत: 200 डिग्रीतापमितम् अत्युष्णं जलं तस्य उपरि पात्यते निरन्तरं 5 निमेषान् यावात् । एतस्मात् रक्तस्थ: हिमोग्लोबिन्-अंश: मांसे विलीन: सन् मांसस्य रक्तवर्णतां वर्धयति । रक्तवर्णोपेतस्य मांसस्य मूल्यं सदा अधिकं भवति इत्यत: एषा प्रक्रिया आश्रीयते ।

 

तत: पशो: पृष्ठभागस्थौ पादौ यन्त्रेण उन्नीयेते । पशु: अधोमुखतया लम्बमान: भवति । जीवत: एव पशो: कण्ठस्य अर्धच्छेदनं क्रियते । रक्तं धाराकारेण निर्गच्छति तदा । अनन्तरक्षणे पशो: उदरे रन्ध्रं निर्माय वायु: पूर्यते । तस्मात् पशो: शरीरम् उत्फुल्लं भवति । तत: तस्य चर्म सवेगम् अपनीयते । एतदवसरे अपि पशु: मृत: न भवति । मृतस्य पशो: चर्म स्थूलं भवति । स्थूलचर्मण: मूल्यं न्यूनम् । अत: सजीवस्य एव पशो: चर्म अपनीयते, यच्च तनु भवति । चर्मापनयनानन्तरं कण्ठ-पाद-शरीरादीकं पृथक्कृत्य मांसं पेटिकायां निक्षिप्यते ।

एकस्मात् पशुवधालयात् प्राय: 10,000 लीटर्मितं रक्तं प्राप्यते । एतस्य उपयोग: गर्भिण्यौषधनिर्माणे दन्तफेननिर्माणे फेविकाल्सन्मैक्प्रभृतीनां निर्माणे, इन्सुलिन्निर्माणे च प्राधान्येन उपयुज्यते । एका मृता धेनु: 50,000 रूप्यकात्मकस्य आयस्य मूलं भवति प्राय: ।

आधारः सम्पाद्यताम्

'सम्भाषणसन्देशः' - डिसेम्बर् २००९
लेखकः - डा ईश्वरप्रसादः