← तृतीयप्रकरणम् गौडपादकारिका/चतुर्थप्रकरणम्
गौडपादः



अथालातशान्त्याख्यं चतुर्थप्रकरणम्

 

ज्ञानेनाकाशकल्पेन धर्मान् यो गगनोपमान्  ।

ज्ञेयाभिन्नेन संबुद्धस्तं वन्दे द्विपदां वरम्  ॥ ४.१ ॥

अस्पर्शयोगो वै नाम सर्वसत्त्वसुखो हितः  ।

अविवादो अविरुद्धश्च देशितस्तं नमाम्यहम्  ॥ ४.२ ॥

भूतस्य जातिमिच्छन्ति वादिनः केचिदेव हि  ।

अभूतस्यापरे धीरा विवदन्तः परस्परम्  ॥ ४.३ ॥

भूतं न जायते किंचिदभूतं नैव जायते  ।

विवदन्तो (द्वया /अद्वया) ह्येवमजातिं ख्यापयन्ति ते  ॥ ४.४ ॥

ख्याप्यमानामजातिं तैरनुमोदामहे वयम्  ।

विवदामो न तैः सार्धमविवादं निबोधत  ॥ ४.५ ॥

अजातस्यैव धर्मस्य जातिमिच्छन्ति वादिनः  ।

अजातो ह्यमृतो धर्मो मर्त्यतां कथमेष्यति  ॥ ४.६ ॥

न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा  ।

प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति  ॥ ४.७ ॥

स्वभावेनामृतो यस्य धर्मो गच्छति मर्त्यताम्  ।

कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः  ॥ ४.८ ॥

सांसिद्धिकी स्वाभाविकी (सहजा /सहजाप्य्) अकृता च या  ।

प्रकृतिः सेति विज्ञेया स्वभावं न जहाति या  ॥ ४.९ ॥

जरामरणनिर्मुक्ताः सर्वे धर्माः स्वभावतः  ।

जरामरणमिच्छन्तश्च्यवन्ते तन्मनीषया  ॥ ४.१० ॥

कारणं यस्य वै कार्यं कारणं तस्य जायते  ।

जायमानं कथमजं भिन्नं नित्यं कथं च तत् ॥ ४.११ ॥

कारणाद्(यद्य्/यद्) अनन्यत्वमतः कार्यमजं (तव /यदि)  ।

जायमानाद्धि वै कार्यात्कारणं ते कथं ध्रुवम्  ॥ ४.१२ ॥

अजाद्वै जायते यस्य दृष्टान्तस्तस्य नास्ति वै  ।

जाताच्च जायमानस्य (न व्यवस्था /नव्यवस्था) प्रसज्यते  ॥ ४.१३ ॥

हेतोरादिः फलं येषामादिर्हेतुः फलस्य च  ।

हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते  ॥ ४.१४ ॥

हेतोरादिः फलं येषामादिर्हेतुः फलस्य च  ।

तथा जन्म भवेत्तेषां पुत्राज्जन्म पितुर्यथा  ॥ ४.१५ ॥

संभवे हेतुफलयोरेषितव्यः क्रमस्त्वया  ।

युगपत्संभवे यस्मादसंबन्धो विषाणवत् ॥ ४.१६ ॥

फलादुत्पद्यमानः सन्न ते हेतुः प्रसिध्यति  ।

अप्रसिद्धः कथं हेतुः फलमुत्पादयिष्यति  ॥ ४.१७ ॥

यदि हेतोः फलात्सिद्धिः फलसिद्धिश्च हेतुतः  ।

कतरत्(पूर्वनिष्पन्नं /पूर्वमुत्पन्नं)  यस्य सिद्धिरपेक्षया  ॥ ४.१८ ॥

अशक्तिरपरिज्ञानं क्रमकोपोऽथ वा पुनः  ।

एवं हि सर्वथा बुद्धैरजातिः परिदीपिता  ॥ ४.१९ ॥

बीजाङ्कुराख्यो दृष्टान्तः सदा साध्यसमो हि (सः /नः)  ।

न (हि /च) साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते  ॥ ४.२० ॥

पूर्वापरापरिज्ञानमजातेः परिदीपकम्  ।

जायमानाद्धि वै धर्मात्कथं पूर्वं न गृह्यते  ॥ ४.२१ ॥

स्वतो वा परतो वापि न किंचिद्वस्तु जायते  ।

सदसत्सदसद्वापि न किंचिद्वस्तु जायते  ॥ ४.२२ ॥

हेतुर्न जायते (अनादेः /अनादिः)  फलं (चापि /वापि)  स्वभावतः ।

आदिर्न विद्यते यस्य तस्य (ह्यादिर्/जातिर्) न विद्यते  ॥ ४.२३ ॥

प्रज्ञप्तेः सनिमित्तत्वमन्यथा द्वयनाशतः  ।

संक्लेशस्योपलब्धेश्च परतन्त्रास्तिता मता  ॥ ४.२४ ॥

प्रज्ञप्तेः सनिमित्तत्वमिष्यते युक्तिदर्शनात् ।

निमित्तस्यानिमित्तत्वमिष्यते भूतदर्शनात् ॥ ४.२५ ॥

चित्तं न संस्पृशत्यर्थं नार्थाभासं तथैव च  ।

अभूतो हि यतश्चार्थो नार्थाभासस्ततः पृथक् ॥ ४.२६ ॥

निमित्तं न सदा चित्तं संस्पृशत्यध्वसु त्रिषु  ।

अनिमित्तो विपर्यासः कथं तस्य भविष्यति  ॥ ४.२७ ॥

तस्मान्न जायते चित्तं चित्तदृश्यं न जायते  ।

तस्य पश्यन्ति ये जातिं खे वै पश्यन्ति ते पदम्  ॥ ४.२८ ॥

अजातं जायते यस्मादजातिः प्रकृतिस्ततः  ।

प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति  ॥ ४.२९ ॥

अनादेरन्तवत्त्वं च संसारस्य न सेत्स्यते  ।

अनन्तता चादिमतो मोक्षस्य न भविष्यति  ॥ ४.३० ॥

आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा  ।

वितथैः सदृशाः सन्तो अवितथा इव लक्षिताः  ॥ ४.३१ ॥

सप्रयोजनता तेषां स्वप्ने (विप्रतिपद्यते /अपि प्रतिपद्यते)  ।

तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः  ॥ ४.३२ ॥

सर्वे धर्मा मृषा स्वप्ने कायस्यान्तर्निदर्शनात् ।

संवृतेऽस्मिन् प्रदेशे वै भूतानां दर्शनं कुतः  ॥ ४.३३ ॥

न युक्तं दर्शनं गत्वा कालस्यानियमाद्गतौ  ।

प्रतिबुद्धश्च वै सर्वस्तस्मिन् देशे न विद्यते  ॥ ४.३४ ॥

मित्राद्यैः सह संमन्त्र्य (संबुद्धो /प्रबुद्धो) न प्रपद्यते  ।

गृहीतं चापि यत्किंचित्प्रतिबुद्धो न पश्यति  ॥ ४.३५ ॥

स्वप्ने चावस्तुकः कायः पृथगन्यस्य दर्शनात् ।

यथा कायस्तथा सर्वं चित्तदृश्यमवस्तुकम्  ॥ ४.३६ ॥

ग्रहणाज्जागरितवत्तद्धेतुः स्वप्ने इष्यते  ।

तद्(धेतुत्वात्तु /धेतुत्वाच्च) तस्यैव सज्जागरितमिष्यते  ॥ ४.३७ ॥

उत्पादस्याप्रसिद्धत्वादजं सर्वमुदाहृतम्  ।

न च भूतादभूतस्य संभवोऽस्ति कथंचन  ॥ ४.३८ । B ४.४० ॥

असज्जागरिते दृष्ट्वा स्वप्ने पश्यति तन्मयः  ।

असत्स्वप्नेऽपि दृष्ट्वा च प्रतिबुद्धो न पश्यति  ॥ ४.३९ । B ४.३८ ॥

नास्त्यसद्धेतुकमसत्सदसद्धेतुकं तथा  ।

सच्च सद्धेतुकं नास्ति सद्धेतुकमसत्कुतः  ॥ ४.४० । B ४.४१ ॥

विपर्यासाद्यथा जाग्रदचिन्त्यान् भूतवत्स्पृशेत् ।

तथा स्वप्ने विपर्यासाद्धर्मांस्तत्रैव पश्यति  ॥ ४.४१ । B ४.३९ ॥

उपलम्भात्समाचारादस्तिवस्तुत्ववादिनाम्  ।

जातिस्तु देशिता बुद्धैरजातेस्त्रसतां सदा  ॥ ४.४२ ॥

अजातेस्त्रसतां तेषामुपलंभाद्वियन्ति ये  ।

जातिदोषा न सेत्स्यन्ति दोषोऽप्यल्पो भविष्यति  ॥ ४.४३ ॥

उपलम्भात्समाचारान्मायाहस्ती यथोच्यते  ।

उपलम्भात्समाचारादस्ति वस्तु तथोच्यते  ॥ ४.४४ ॥

जात्याभासं चलाभासं वस्त्वाभासं तथैव च  ।

अजाचलमवस्तुत्वं विज्ञानं शान्तमद्वयम्  ॥ ४.४५ ॥

एवं न जायते चित्तमेवं धर्मा अजाः स्मृताः  ।

एवमेव विजानन्तो न पतन्ति विपर्यये  ॥ ४.४६ ॥

ऋजुवक्रादिकाभासम् (अलातस्पन्दितं /अलातं स्पन्दितं) यथा  ।

ग्रहणग्राहकाभासं (विज्ञानस्पन्दितं /विज्ञानं स्पन्दितं) तथा  ॥ ४.४७ ॥

अस्पन्दमानम् (अलातम् /आलातम्)  अनाभासमजं यथा ।

अस्पन्दमानं विज्ञानमनाभासमजं तथा  ॥ ४.४८ ॥

अलाते स्पन्दमाने वै नाभासा अन्यतोभुवः  ।

न ततोऽन्यत्र निस्पन्दान्नालातं प्रविशन्ति ते  ॥ ४.४९ ॥

न निर्गता अलातात्ते द्रव्यत्वाभावयोगतः  ।

विज्ञानेऽपि तथैव स्युराभासस्याविशेषतः  ॥ ४.५० ॥

विज्ञाने स्पन्दमाने वै नाभासा अन्यतोभुवः  ।

न ततोऽन्यत्र निस्पन्दान्न विज्ञानं विशन्ति ते  ॥ ४.५१ ॥

न निर्गतास्ते विज्ञानाद्द्रव्यत्वाभावयोगतः  ।

कार्यकारणताभावाद्यतोऽचिन्त्याः सदैव ते  ॥ ४.५२ ॥

द्रव्यं द्रव्यस्य हेतुः स्यादन्यदन्यस्य चैव हि  ।

द्रव्यत्वमन्यभावो वा धर्माणां नोपपद्यते  ॥ ४.५३ ॥

एवं न चित्तजा धर्माश्चित्तं वापि न धर्मजम्  ।

एवं हेतुफलाजातिं प्रविशन्ति मनीषिणः  ॥ ४.५४ ॥

यावद्धेतुफलावेशस्तावद्धेतुफलोद्भवः  ।

क्षीणे हेतुफलावेशे नास्ति हेतुफलोद्भवः  ॥ ४.५५ ॥

यावद्धेतुफलावेशः संसारस्तावदायतः  ।

क्षीणे हेतुफलावेशे (संसारं न प्रपद्यते /संसारो नोपपद्यते)  ॥ ४.५६ ॥

संवृत्या जायते सर्वं शाश्वतं (नास्ति तेन /तेन नास्ति) वै  ।

(सद्/स्व)भावेन ह्यजं सर्वमुच्छेदस्तेन नास्ति वै  ॥ ४.५७ ॥

धर्मा ये इति जायन्ते (जायन्ते /संवृत्या) ते न तत्त्वतः  ।

जन्म मायोपमं तेषां सा च माया न विद्यते  ॥ ४.५८ ॥

यथा मायामयाद्बीजाज्जायते तन्मयोऽङ्कुरः  ।

नासौ नित्यो न चोच्छेदी तद्वद्धर्मेषु योजना  ॥ ४.५९ ॥

नाजेषु सर्वधर्मेषु शाश्वताशाश्वताभिधा  ।

यत्र वर्णा न वर्तन्ते विवेकस्तत्र नोच्यते  ॥ ४.६० ॥

यथा स्वप्ने द्वयाभासं चित्तं चलति मायया  ।

तथा जाग्रद्द्वयाभासं चित्तं चलति मायया  ॥ ४.६१ ॥

अद्वयं च द्वयाभासं चित्तं स्वप्ने न संशयः  ।

अद्वयं च द्वयाभासं (तथा /चित्तं) जाग्रन्न संशयः  ॥ ४.६२ ॥

स्वप्नदृक्प्रचरन् स्वप्ने दिक्षु वै दशसु स्थितान्  ।

अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा  ॥ ४.६३ ॥

स्वप्नदृक्चित्तदृश्यास्ते न विद्यन्ते ततः पृथक् ।

तथा तद्दृश्यमेवेदं स्वप्नदृक्चित्तमिष्यते  ॥ ४.६४ ॥

चरञ्जागरिते जाग्रद्दिक्षु वै दशसु स्थितान्  ।

अण्डजान् स्वेदजान् वापि जीवान् पश्यति यान् सदा  ॥ ४.६५ ॥

जाग्रच्चित्तेक्षणीयास्ते न विद्यन्ते ततः पृथक् ।

तथा तद्दृश्यमेवेदं जाग्रतश्चित्तमिष्यते  ॥ ४.६६ ॥

उभे ह्यन्योअन्यदृश्ये ते किं तदस्तीति चोच्यते  ।

लक्षणाशून्यमुभयं तन्मतेनैव गृह्यते  ॥ ४.६७ ॥

यथा स्वप्नमयो जीवो जायते म्रियतेऽपि च  ।

तथा जीवा अमी सर्वे भवन्ति न भवन्ति च  ॥ ४.६८ ॥

यथा मायामयो जीवो जायते म्रियतेऽपि च  ।

तथा जीवा अमी सर्वे भवन्ति न भवन्ति च  ॥ ४.६९ ॥

यथा निर्मितको जीवो जायते म्रियतेऽपि च  ।

तथा जीवा अमी सर्वे भवन्ति न भवन्ति च  ॥ ४.७० ॥

न कश्चिज्जायते जीवः संभवोऽस्य न विद्यते  ।

एतत्तदुत्तमं सत्यं यत्र किंचिन्न जायते  ॥ ४.७१ ॥

चित्तस्पन्दितमेवेदं ग्राह्यग्राहकवद्द्वयम्  ।

चित्तं निर्विषयं नित्यमसङ्गं तेन कीर्तितम्  ॥ ४.७२ ॥

योऽस्ति कल्पितसंवृत्या परमार्थेन नास्त्यसौ  ।

(परतन्त्राभिसंवृत्या /परतन्त्रोऽभिसंवृत्या)  स्यान्नास्ति परमार्थतः  ॥ ४.७३ ॥

अजः कल्पितसंवृत्या परमार्थेन नाप्यजः  ।

(परतन्त्राभिनिष्पत्त्या /परतन्त्रोऽभिनिष्पत्त्या)  संवृत्या जायते तु सः  ॥ ४.७४ ॥

अभूताभिनिवेशोऽस्ति द्वयं तत्र न विद्यते  ।

द्वयाभावं स बुद्ध्वैव निर्निमित्तो न जायते  ॥ ४.७५ ॥

यदा न लभते हेतूनुत्तमाधममध्यमान्  ।

तदा न जायते चित्तं हेत्वभावे फलं कुतः  ॥ ४.७६ ॥

अनिमित्तस्य चित्तस्य यानुत्पत्तिः समाद्वया  ।

अजातस्यैव सर्वस्य चित्तदृश्यं हि तद्यतः  ॥ ४.७७ ॥

बुद्ध्वानिमित्ततां सत्यां हेतुं पृथगन्(आप्नुवन् /आप्नुवत्)  ।

वीतशोकं (तथा/तदा)काममभयं पदमश्नुते  ॥ ४.७८ ॥

अभूताभिनिवेशाद्धि सदृशे तत्प्रवर्तते  ।

वस्त्वभावं स बुद्ध्वैव निःसङ्गं विनिवर्तते  ॥ ४.७९ ॥

निवृत्तस्याप्रवृत्तस्य निश्चला हि तदा स्थितिः  ।

विषयः स हि बुद्धानां तत्साम्यमजमद्वयम्  ॥ ४.८० ॥

अजमनिद्रमस्वप्नं प्रभातं भवति स्वयम्  ।

सकृद्विभातो ह्येवैष धर्मो (धातुस्वभावतः /धातुः स्वभावतः)  ॥ ४.८१ ॥

सुखमाव्रियते नित्यं दुःखं विव्रियते सदा  ।

यस्य कस्य च धर्मस्य ग्रहेण भगवानसौ  ॥ ४.८२ ॥

अस्ति नास्त्यस्ति नास्तीति नास्ति नास्तीति वा पुनः  ।

चलस्थिरोभयाभावैरावृणोत्येव बालिशः  ॥ ४.८३ ॥

कोट्यश्चतस्र एतास्तु ग्रहैर्यासां (सदावृतः /सहावृतः)  ।

भगवानाभिरस्पृष्टो येन दृष्टः स सर्वदृक् ॥ ४.८४ ॥

प्राप्य सर्वज्ञतां कृत्स्नां ब्राह्मण्यं पदमद्वयम्  ।

अनापन्नादिमध्यान्तं किमतः परमीहते  ॥ ४.८५ ॥

विप्राणां विनयो ह्येष शमः प्राकृत उच्यते  ।

दमः प्रकृतिदान्तत्वादेवं विद्वाञ्शमं व्रजेत् ॥ ४.८६ ॥

सवस्तु सोपलम्भं च द्वयं लौकिकमिष्यते  ।

अवस्तु सोपलम्भं च शुद्धं लौकिकमिष्यते  ॥ ४.८७ ॥

अवस्त्वनुपलम्भं च लोकोत्तरमिति स्मृतम्  ।

ज्ञानं ज्ञेयं च विज्ञेयं सदा बुद्धैः प्रकीर्तितम्  ॥ ४.८८ ॥

ज्ञाने च त्रिविधे ज्ञेये क्रमेण विदिते स्वयम्  ।

सर्वज्ञता हि सर्वत्र भवतीह महाधियः  ॥ ४.८९ ॥

हेयज्ञेयाप्यपाक्यानि विज्ञेयान्यग्र(याणतः /यानतः)  ।

तेषामन्यत्र विज्ञेयादुपलम्भस्त्रिषु स्मृतः  ॥ ४.९० ॥

प्रकृत्याकाशवज्ज्ञेयाः सर्वे धर्मा अनादयः  ।

विद्यते न हि नानात्वं तेषां क्वचन किंचन  ॥ ४.९१ ॥

आदिबुद्धाः प्रकृत्यैव सर्वे धर्माः सुनिश्चिताः  ।

यस्यैवं भवति क्षान्तिः सोऽमृतत्वाय कल्पते  ॥ ४.९२ ॥

आदिशान्ता ह्यनुत्पन्नाः प्रकृत्यैव सुनिर्वृताः  ।

सर्वे धर्माः समाभिन्ना अजं साम्यं विशारदम्  ॥ ४.९३ ॥

वैशारद्यं तु वै नास्ति भेदे विचरतां सदा  ।

भेदनिम्नाः पृथग्वादास्तस्मात्ते कृपणाः स्मृताः  ॥ ४.९४ ॥

अजे साम्ये तु ये केचिद्भविष्यन्ति सुनिश्चिताः  ।

ते हि लोके महाज्ञानास्तच्च लोको न गाहते  ॥ ४.९५ ॥

अजेष्वजमसंक्रान्तं धर्मेषु ज्ञानमिष्यते  ।

यतो न क्रमते ज्ञानमसङ्गं तेन कीर्तितम्  ॥ ४.९६ ॥

अणुमात्रेऽपि वैधर्म्ये जायमानेऽविपश्चितः  ।

असङ्गता सदा नास्ति किमुतावरणच्युतिः  ॥ ४.९७ ॥

अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः  ।

आदौ बुद्धास्तथा मुक्ता बुध्यन्ते इति नायकाः  ॥ ४.९८ ॥

क्रमते न हि बुद्धस्य ज्ञानं धर्मेषु (तापिनः /तायिनः)  ।

(सर्वे धर्मास्/सर्वधर्मास्) तथा ज्ञानं नैतद्बुद्धेन भाषितम्  ॥ ४.९९ ॥

दुर्दर्शमतिगम्भीरमजं साम्यं विशारदम्  ।

बुद्ध्वा पदमनानात्वं नमस्कुर्मो यथाबलम्  ॥ ४.१०० ॥

 

[चोलिति (गौडपादाचार्यकृता माण्डूक्योपनिषद्कारिकाः संपूर्णाः /गौडपादीये आगमशास्त्रे

ऽलातशान्त्याख्यं चतुर्थं प्रकरणं समाप्तम्) चोल्]