गौतमसंहिता ।

प्रथमोऽध्यायः ।

वेदो धर्म्ममूलं तद्विदाञ्च स्मृतिशीले, दृष्टो धर्म्मव्यतिक्रमः साहसञ्च महतां, न तु दृष्टोऽर्थो वरदौर्वल्यात्, तुल्यबलविरोधे विकल्पः । उपनयनं ब्राह्मणस्याष्टमे नवमे, पञ्चमे वा काम्यं, गर्भादिः सङ्ख्या वर्षाणां, तद्द्वितीयं जन्म । तद्यस्मात् स आचार्य्यो वेदानुवचनाच्च । एकादशद्वादशयोः क्षत्रियवैश्ययोः । आषोड़शाद्‌ब्राह्मणस्यापतिता सावित्री, द्वाविंशते राजन्यस्य, द्व्यधिकाया वेश्यस्य । मौञ्जीज्यामौर्व्वीसौत्र्यो मेखलाः, क्रमेण कृष्णरूरूवस्ताजिनानि वासांसि, शाणक्षौमचोरकुतपाः, सर्व्वेषां कार्पासञ्चाविकृतम् । काषायमप्येके । वार्क्षं ब्राह्मणस्य, माञ्जिष्ठहारिद्रे इतरयोः । वैल्वपालशौ ब्राह्मणस्य दण्डावश्वत्यपैलवौ शेषे, यज्ञिया वा सर्व्वेषामपीरिता यूपचक्राः सवल्कला (सशल्कला) मूर्द्धललाटनासाग्रप्रमाणाः । सुण्डजटिलशिखाजटाश्च । द्रव्यहस्त उच्छिष्टोऽनिधायाचामेद्‌द्रव्यशुद्धिः, परिमार्ज्जनप्रदाहतक्षणनिर्णेजनानि तैजसमार्त्तिकदारवतान्तवानां, तैजसवदुपलमणिशंखशुक्तौनां, दारूवदस्थिभूम्यारावपनञ्च, भूमेश्चेलवद्रज्जुविदलचर्म्मणमुत्‌मर्गो वात्यन्तोपहतानाम् । प्राङ्भुख उदङ्मुखो वा शौचमारभेत् । शुचौ देशे आसीनो दक्षिणं बाहुं जान्वन्तरा कृत्वा यज्ञोपवीत्या मणिबन्धनात् पाणी प्रक्षाल्य वाग्‌यतोः हृदयस्पृशस्त्रिश्चतुर्व्वापआचामेद्द्विः प्रमृज्यात् पादौ, चाभ्युक्षेत् खानि, चोपस्पृशेच्छोर्षण्यानि मूर्द्धनि च दद्यात् । सुप्ता भुक्त्वा क्षुत्वा च पुनः । दन्तश्लिष्टेषु दन्तवदन्यत्र जिह्वाभिमर्षणात् । प्राक्‌च्युतेरित्येके । चुतेष्वास्राववद्विद्यान्निगिरन्नेव तच्छुचिः । न मुख्या विप्रुष उच्छिष्टं कुर्वन्ति ताश्चेदङ्गेन निपतन्ति । लेपगन्धापकर्षणे शौचममेध्यस्य । तदद्भिः पूर्वं मृदा च मूत्रपुरीषरेतोविस्रंसनाभ्यबहारसंयोगेषु च यत्र चाम्नाया विदध्यात् । पणिना सव्यमुपसंगृह्याङ्गुष्ठमधौहि भो इत्यामन्त्र्येत गुरूः । तत्र चक्षुर्म्मनः-प्राणापस्पर्शनं दर्भेः प्राणायामास्त्रयः पञ्चदशमात्राः । प्राक्तनेन्वासनञ्च ॐपूर्वा व्याहृतयः पञ्चसप्तान्ताः । गुरोः पादोपसंग्रहणं प्रातर्ब्रह्मानुवचने चाद्यन्तयोरनुज्ञात उपविशेत् । प्राङ्मुखो दक्षिणतः शिष्य उदङ्मुखो वा सावित्रोञ्चनुवचनमादिनो ब्राह्मण आदाने ॐकारस्याऽन्यत्रापि । अन्तरागमने पुनरूपसदनं श्वनकुलसर्पमण्डूकमार्ज्जाराणां त्र्यहमुपवासो विप्रवासश्च ; प्राणायाम् घृतप्राशनञ्चेतरेषाम् । श्मशानाध्ययने चैवं चैवम् ।
इति गौतमीये धर्म्मशास्त्रे प्रथमोऽध्यायः ।। 1 ।।

द्वितीयोऽध्यायः ।

प्रागुपनयनात् कामचारवादभक्षोऽहुतोऽब्रह्मचारौ यथोपपादमूत्रपुरीषो भवति ; नास्याचमनकल्पो विद्यतेऽन्यत्रापोमार्ज्जनप्रधावनावोक्षणेभ्यो । न तदुपस्पर्शनाशौचं न त्वेवैनमग्निहवनबलिहरणयोर्नियुञ्ज्यान्न ब्रह्मभिव्याहारयेदन्यत्र स्वधानिनयनात् । उपनयनादिनियमः । उक्तं ब्रह्मचर्य्यमग्नीन्धन भेक्षचरणे सत्यवचनमपामुपस्पर्शनम् । एके गोदानादि । बहिः सन्ध्यर्थंञ्चातिष्ठेत् पूर्व्व मामोतोत्तरां सज्योतिष्या ज्योतिषो दर्शनाद्वाग्यतः । नादित्यमौक्षेत, वर्ज्जयेन्मधुमांसगन्धमाल्यदिवास्वप्नाञ्चनाभ्यञ्जनयानोपानच्छत्रकामक्रोधलोभमोहवाद्यवादनम्नादन्तधावनहर्षनृत्यगौतपरिवादभयानि गुरूदर्शने कर्णप्रावृतावसक्थिकायाश्रयणपादप्रसारणानि निष्ठीवितहसितविजृम्भितास्फाटनानि स्त्रोप्रेक्षणालम्भने मैथुनशङ्कायां द्यूतं होनवर्णसेवामदत्तादानं हिंसाम् आचार्य्यतत्‌पुत्रस्त्रीदीक्षितसामानि शुष्कां वाच मद्यं नित्यं ब्राह्मणः । अधः शय्याशायौ पूर्व्वोत्थायी जघन्यसवेशो वाग्वाहूदरसयतः । नामगोत्रे गुरोः समानतो निर्द्दिशेत् । अर्च्चिते श्रेयसि चैवम् । शय्यासनस्थानानि बिहाय प्रतिश्रवणमभिक्रमणं वचनादृष्टेनाधः स्थानासनस्तिर्य्यग्वा तत्सेवायाम् । गुरूदर्शने चोत्तिष्ठेत्, गच्छन्तमनुव्रजेत्, कर्म्म विज्ञाप्याख्यायाहूताध्यायो युक्तः प्रियहितयोस्तद्भार्य्यापुत्रेषु चैवम् । नोच्छिष्टाशनस्नपनसाध्नपादप्रक्षालनोन्मर्द्दनोपसंग्रहणानि । विप्रोष्योपसंग्रहणं गुरूभार्य्याणां तत्पुत्रस्य च । नैके युवतीनाम् । व्यवहारप्राप्तेन सार्व्ववर्णिकं भैक्षचरणमभिशस्तपतितवर्ज्जम् । आदिमध्यान्तेषु भवच्छब्दः प्रयोज्या वर्णानुपूर्व्वेण । आचार्य्यज्ञातिगुरूस्वेष्वलाभेऽन्यत्र । तेषां पूर्व्वं परिहरन् निवेद्य गुरूवेऽनुज्ञातो भुञ्जीत । असन्निधौ तद्भार्य्यापुत्रसब्रह्मचारिसद्भ्यः । वाग्यतस्तृप्यन्नलोलुप्यमानः सन्निधायोदकं स्पृशेत् । शिष्यशिष्टिरवधेनाशक्तो रज्जुवेणुविदलाभ्यां तनुभ्यामन्येन घ्नन् राज्ञा शास्यः । द्वादशवर्षाण्येकैकवेदे ब्रह्मचर्य्यं चरेत् प्रतिद्बादशवर्षेषु ग्रहणान्तं वा । विद्यान्ते गुरूरर्थे निमन्त्र्यः ततः कृतानुज्ञानस्य ज्ञानम् । आचार्य्यः श्रेष्ठो गुरूणां मातेत्येके मातेत्येके ।
इति गौतमीये धर्म्मशास्त्रे द्वितीयोऽध्यायः ।। 2 ।।

तृतीयोऽध्यायः ।

तस्याश्रमविकल्पमेके व्रवते ब्रह्मचारी गृहस्थो भिक्षुर्व्वैखानस इति तेषां गृहस्था योनिरपजनत्वादितरेषाम् । तथोक्तं ब्रह्मचारिण आचार्य्याधौनत्वमात्रं गुराः । कर्म्मशेषेण जपेत् । गुर्व्वभावे तदपत्यवृत्तिस्तदवृद्धे सब्रह्मचारिण्यग्नौ वा । एवंवृत्तौ ब्रह्मलोकमवाप्नाति जितेन्द्रियः । उत्तरेषाञ्चैतदविरोधी ।
अनिचया भिक्षुरूर्द्धरेता ध्रुवशोला वर्षासु भिक्षार्थो ग्राममियात् । जघन्यमनिवृत्तं चरेत् । निवृत्ताशोर्व्वाक्‌चक्षुः कर्म्मसंयतः । कौपीनाच्छादनार्थं वासो विभृयात् प्रहीणमेके निर्णेजनाविप्रयुक्तम् । ओषधिवनस्पतीनामङ्गमुपाददीत । न द्वितीयामुपहर्त्तुं रात्रिं ग्रामे वसेत् । मुण्डः शिखी वा वर्ज्जयेज्ज्वाबधम् । समा मूतेषु हिंसानुग्रहयोरनारम्भो । वैखानसो वने मूनफलाशो तपः शीलः श्रावणकेनाग्निमाधायाग्राम्यभोजो देवपितृमनुथ्यभूतर्षिपूजकः सर्व्वातिथिः प्रतिसिद्धवर्ज्ज भैक्षमप्यपयुञ्जीत, न फालकृष्टमधितिष्ठेद, ग्रामञ्च न प्रविशेज्जटिलश्चीराजिनवासा नातिशयं भुञ्जोत । एकाश्रमं त्वाचार्य्याः प्रत्यक्षबिधानाद्गार्हस्थस्य गार्हस्थस्य ।
इति गौतमीये धर्म्मशास्त्रे तृतीयोऽध्यायः ।। 3 ।।

चतुर्थोऽध्यायः ।

गृहस्थः मदृशीं भार्य्यां विन्देतानन्यपूर्वां यवोयसीम । अममानप्रवरैर्विबाह ऊर्द्धं सप्तमात् पितृवन्धुभ्य वीजिनश्च मातृवन्धुभ्यः पञ्चमात् । ब्राह्मो विद्याचारित्रवन्धुशीलसम्पन्नाय दद्यादाच्छाद्यालङ्कृताम् (1) । संयोगमन्त्रः प्रजापत्ये सहधर्म्मे चरतामिति (2) । आर्षे गोमिथुनं कन्यावते दद्यात् (3) । अन्तर्वेद्युत्विजे दानं देवः (4) । अलङ्कृत्येच्छन्त्या स्वयं संयोगो गान्धर्वः (5) । वित्तेनानतिस्त्रोमतामासुरः (6) । प्रहह्यादानाद्राक्षसः (7) । असंविज्ञानोपसङ्ग्रमनां पैशाचः (8) । चत्वारो जाताः सवर्णाम्बष्ठाग्रनिषाददौष्मन्तपारशवाः । प्रतिलोमासु सुतभागधायोगवक्षत्तृवैदेहकचाण्डालाः । ब्राह्मण्यजीजनत् पुत्रान् वर्णेभ्य आनुपुर्व्याद् ब्राह्मणसुतमागधचण्डालान् तेभ्य एव क्षत्रिया मूर्द्धेविसिक्तक्षत्रियधौवरपुक्काशान्, तभ्य एव वेश्या भृज्यकण्टकमादिष्यवैश्यवेदेहान तेभ्य एव पारशवयवनकरणशूद्रान् शूद्रत्यके । वर्णान्तरगमनमुत्कर्षाभ्यां सप्तमेन पञ्चमेन चाचार्य्याः । मृष्टान्तरजातानाञ्च प्रतिलोमस्तु धर्म्महीनाः शूद्रायाञ्च असमानायाञ्च शूद्रात् प्रतितवृत्तिरन्त्य पापिष्ठः । पुनन्ति साधवः पुत्रास्त्रिपौरूषानार्षाद्दश, दैवाद्यशैव, प्राजापत्याद्दश, पूर्वान दश वरानात्नानञ्च ब्राह्मोपुत्राः ब्राह्मोपुत्राः ।
इति गौतमीये धर्म्मशास्त्रे चतुर्थोऽध्यायः ।। 4 ।।

पञ्चमोऽध्यायः ।

ऋतावुपेयात् सर्वत्र वा प्रतिषिद्धवर्ज्जम् । देवपितृमनुष्यभूतर्षिपूजका नित्यस्वाध्यायः । पितृभ्यश्चादकदानं यथोत्साहमन्यदकार्य्यदिरग्निर्दायादिर्वा । तस्मिन् गृह्यानि देवपितृमनुष्ययज्ञाः स्वाध्यायश्च । वलिकर्म्माग्नावग्निर्धन्वन्तरिर्विश्वेदेवाः प्रजापतिः मृष्टिकृदितिहोमः । दिग्देवताभ्यश्च यथास्वं द्वारेषु मरूद्‌भ्यो गृहतेवताभ्यो प्रविश्य ब्रह्मणे मध्ये अद्भ्य उतकूम्भे आकाशायेत्यन्तरिक्षे नक्तञ्चरेभ्यश्च सायम् । स्वस्तिवाच्य भिक्षादानप्रश्रपूर्वन्तु ददातिषु चैवं धर्म्मेषु समद्विगुणसाहस्रानन्त्यानि फलान्यब्राह्मणब्राह्मणश्रोत्रियवेदपारगेभ्यः । गुर्वर्थनिबेशौषधार्थवृत्रिक्षीण्यक्ष्यमाणाध्ययनाध्वसंयोगवैश्वजितेषु द्रव्यसंविभागो बहिर्वेदि भिक्षमाणेषु कृतान्नमितरेषु । प्रतिश्रुत्याप्यधर्म्मसंयुक्ताय न दद्यात् । क्रुद्धहृष्टभौतार्त्तलुब्धबालस्थविरमूढ़मत्तोन्मत्तवाक्यान्यनृतान्यपातकानि । भोजयेत् । पूर्वमतिथिकुमारव्याधितगर्भिणीसुवासिनीस्थविरान् जघन्यांश्च आचार्य्यपितृसखोनान्तु निवेद्य वचनक्रिया ऋत्विगाचार्य्यश्वशुरपितृव्यमातुलानामुपस्थाने मधुपर्कः संवत्सरे पुनः पूजिता यज्ञविबाहयारर्वाक् राज्ञश्च श्रोत्रियस्य । अश्रोत्रियस्यासनोदके श्रोत्रियस्य तु पाद्यमार्ध्यमन्नविशेषांश्च प्रकारयेन्नित्यं वा संस्कारविशिष्टं मध्यतोऽन्नदानमवैद्यसाधुवृत्ते विपरीते तु तृणोदकभूमिः स्वागतमन्ततः पूज्यानत्याशश्च शय्यासनावसथानुव्रज्योपासनानि सदृक्‌श्रेयसोः समान्यल्पशोऽपि हीने असमानग्रामोऽतिथिरेकरात्रिकाऽधिवृक्षसूर्य्योपस्थायौ कुशलानामयारोग्याणामनुप्रश्रोत्यं शूद्रस्याब्राह्मणस्यानतिथिरव्राह्मणो यज्ञे संवृतश्चेत् भोजनन्तु क्षत्रियस्योर्द्धं ब्राह्मणेभ्योऽन्यान् भृत्यैः सहानृशं सार्थमानृशंसार्थम् ।
इति गौतमीये धर्म्मशास्त्रे पञ्चमोऽध्यायः ।। 5 ।।

षष्ठोऽध्यायः ।

पादोपसंग्रहणं गुरूसमवायेऽन्वहम् । अभिगम्य तु विप्रोष्य मातृपितृतद्वन्धुनां पूर्वजानां विद्यागुरुणां तत्तद्‌गुरूणाञ्च सन्निपाते परस्य । नाम प्रोच्याहमयमित्यभिवादोऽज्ञसमवाये स्त्रीपुंयोगेऽभिवादतोऽनियमेके नाविप्रोष्य स्त्रीणाममातृपितृव्यभार्य्याभगिनौनां नोपसंग्रहणं भ्रातृभार्य्याणां श्वश्वाश्च । ऋत्विकश्वशुरपितृव्यमातुलानान्तु यवीयसां प्रत्युत्तानमनभिवाद्यान्तथान्यः पूर्वः पौरोऽशीतिकारयः शूद्रोऽप्यपत्यसमेनावरोऽपार्य्यः शूद्रेण नाम चास्य वर्ज्जयेद्राज्ञश्चाजपः प्रेष्यो भो भवन्निति वयस्यः समानेऽहनि जातो दशवर्षवृद्धः पौरः पञ्चभिः कलाभरः श्रात्रियश्चारणस्त्रिभिः राजन्यो वैश्वकर्म्मविद्याहौनो दीक्षितस्य प्राक् क्रयात् । वित्तवन्धुकर्म्मजातिविद्यावयांसि मान्यानि परबलीयांसि श्रुतस्तु सर्वेभ्यो गरौयस्तन्मूलत्वाद्धर्म्मस्य श्रुतेश्च । चक्रिदशमौस्थानुग्राह्यबधृस्नातकराजभ्यः पथो दानं राज्ञो तु श्रोत्रियाय श्रोत्रियाय ।
इति गौतमीये धर्म्मशास्त्रे षष्ठोऽध्यायः ।। 6 ।।

सप्तमोऽध्यायः ।

अपत्‌कल्पो ब्राह्मणस्याब्राह्मणाद्विद्यापयोगोऽनुगमनं शुश्रूषासमाप्तेर्ब्राह्मणा गुरूर्यजनाध्यापनप्रतिग्रहाः सर्वेषां पूर्वः पूर्वो गुरूस्तदलाभे क्षत्रवृत्तिस्तदलाभे वैश्यवृत्तिः । तस्यापण्यं गन्धरसकृतान्नतिलशाणक्षौमाजिनानि रक्तनिर्णिक्ते वाससी क्षोरञ्च मविकारं मूलफलपुष्पौषधमधुमांसतृणोदकापथ्यानि पशवश्च हिंमासंयागे पुरुषवमाकुमारौहेतवश्च नित्यं भूमिब्रीहियवाजाव्यश्च ऋषमधेन्वनडुहश्चेके । विनिमयस्तु रसानां रसैः पशूनाञ्च न लवणाकृतान्नयास्तिलानाञ्च समेनामेन तुपक्वस्य सम्प्रत्यर्थे सर्वधातुवृत्तिशक्तावशूद्रेण तदप्यके प्राणसंशये तद्वर्णसङ्कराऽभक्ष्यतायमस्तु । प्राणसंशये ब्राह्मणोऽपि शस्त्रमाददीन राजन्यो वैश्यकर्म्म वैश्यकर्म्म ।
इति गौतमौये धर्म्मशास्त्रे सप्तमोऽध्यायः ।। 7 ।।

अष्टमोऽध्यायः ।

द्वौ लोके धृतव्रतो राजा ब्राह्मणश्च बहुश्रुतस्तयो । श्चतुर्बिधस्य मनुष्यजातस्यान्तः संज्ञानां चलनतपनसर्पणानामायत्तं जीवन प्रसूतिरक्षणमसङ्करा धर्म्मः । स एष बहुश्रुतो भवति लोकवेदवेदाङ्गविद्वाकावाक्यतिहाम पुराण-कुशलस्तदपेक्षस्तद्वत्तिश्चत्वारिंशता संस्कारैः संस्कृतस्त्रिषु कर्म्मस्वभिरतः षटसु वासामयचारिकेष्वभिविनोतः षड़्‌भिः परिह्मर्य्यो राज्ञा बध्यश्चाबध्यश्चादण्ड्यश्चाबहिष्कार्य्यश्चापरिवाद्यश्चापरिहार्य्यश्चति । गर्भाधानपंसवनसोमन्तोन्नयनजातकर्म्मनामकरणान्नप्राशनचौड़ोपनयनं चत्वारि वेदव्रतानि स्नानं सहधर्म्मचारिणोमंयागः पञ्चाना यज्ञानामानुष्ठानं देव-पितृ मनुष्य भूत ब्रह्मणामेतेषाञ्चाष्टकापावेणश्राद्धश्रावण्याग्रहायणाचैत्राश्वयुजोति सप्त पाकयज्ञसंस्था अग्न्य धेयमग्निहात्रदर्शपौर्णमासावग्रहणं चातुर्म्मास्यनिरुढ़पशुबन्धपौत्रामणीति सप्त दुविर्यज्ञसंस्था आग्नष्टोमोऽत्यग्नियोम उक्‌थः षोड़शि वाजपेयाऽतिरात्रोऽप्तार्य्याम इति सप्त सामसंस्था इत्येते चत्वारिंशत् संस्काराः । अथाष्टावात्मगुणाः दथा सर्वभूतेषु क्षातिरनसूया । शौचमनायासो मङ्गलमकार्पण्यमस्पृहेति यस्यैते न चत्वारिंशत् संस्कारा न वाष्टावात्मगुणा न स ब्राह्मणः सायुज्यं सालोक्यञ्च गच्छति । यस्य तु खलु संस्काराणामेकदेशाऽप्यष्टावात्मगुणा अथ स ब्रह्मणः सायुज्यं सालोक्यञ्च गच्छति गच्छति ।
इति गौतमीये धर्म्मशास्त्रे अष्टमोऽध्यायः ।। 8 ।।

नवमोऽध्यायः ।

स बिधिपूर्वं स्नात्वा भार्य्यामभिगम्य यथोक्तान् गृहस्थधर्म्मान् प्रयुञ्जान इमानि व्रतान्यनुकर्षेत् । स्नातका नित्यं शुचिः सुगन्धः स्नानशोलः सति विभवे न जार्णमलवद्वासाः स्यान्न रक्तमलवदन्यधृतं वा वासो विभृयान्न स्रगुप्रानहौ निर्णिक्तमशक्तौ न रुढ़श्मश्रुरकस्मान्नाग्निमपश्च युगपद्यारयेन्नाञ्जलिना पिवेन्न तिष्ठन्नद्धतोदकेनाचामेन्न शूद्राशुच्येकपाण्यावर्ज्जितेन न वायग्निविप्रादित्यापो देवता गाश्च प्रतिपश्यन् वा मूत्रपुरीषामेध्यान्युदस्येन्नैव देवताः प्रति पादौ प्रसारयेन्न पर्णलोष्ट्राश्मभिर्मूत्रपुरौषापाकर्षणं कुर्य्यान्न भस्मकेशतुषकपालान्याधितिष्ठेन्न म्लेच्छाशुच्यधार्म्मिकैः सह सम्भाषेत सम्भाष्य पुण्यकृतो मनसा ध्यायेदब्राह्मणेन वा सह सम्भाषेतः । अधेनुं धेनुभव्येति व्रूयादभद्रं भद्रमिति कपालं भगालमिति मणिधनुरितीन्द्रधनुः । गां धयन्तीं परस्मै नाचक्षौत न चैनां वारयेन्न मिथुनीभूत्वा शौचं प्रति विलम्बेत न च तस्मिन् शयने स्वाध्यायमधीयीत नचापररात्रमधीत्य पुनः प्रतिसंविशेन्नाकल्पां नारौमभिरमयेन्न रजस्वलां न चैनां श्लिष्यन्न कन्यामग्निमुखोपधमनविगृह्यवाद--बहिर्गन्धमाल्य--धारण पापीयसावलेखनभार्य्यासहभोजनाञ्जन्त्यवेक्षणकुद्वारप्रवेशनपादधावनासन्दिग्धस्थबोजन-नदीबाहुतरण वृक्षविषमारोहणावरोहणप्राणव्यवस्थानानि च वर्ज्जयेन्न सन्दिग्धां नावमधिरोहेत् । सर्वत एवात्मानां गोपायेन्न प्रावृत्य शिरोऽहनि पर्य्यटेत् प्रावृत्य तु रात्रौ । मूत्रोच्चारे च न भूमावनन्तर्द्धाय नाराच्चावसथान्न भस्मकरीषकृष्टच्छायापथिकाम्येषु उभे मूत्रपुरोषे दिवा कुर्य्यादुदङ्भुखः सन्ध्ययोश्च रात्रो तु दक्षिणामुखः पालाशवासनं पादुके दन्तधावनमिति वर्ज्जयेत् । सोपानत्‌कश्चाशनासनशयनाभिवादननमस्कारान् वर्ज्जयेत् । न पूर्वाह्नमध्यन्दिनापराह्नानफलान् कुर्य्यार्थद्यथाशक्ति धर्म्मार्थं कामेभ्यस्तेषु च धर्म्मोत्तरः स्यान्न नग्नां परयोषितमौक्षेत न पदासनमाकर्षेन्न शिश्रादरपानिपादवाक्चक्षुश्चापलानि कुर्य्याच्छेदन भेदनबिलिखनविमर्द्दनावस्फोटनानि नाकस्मात् कुर्य्यान्नापरि वत्‌सतन्त्रीं गच्छन्ने कुलस्कुलः स्यान्न यज्ञमवृतो गच्छेद्दर्शनाय तु कामं न भक्ष्यानुत्‌सङ्गे भक्षयेन्न रात्रौ प्रेष्याहृतमुद्धृतस्नेहबिलपनपिण्याकमथितप्रभृतौनि चातुर्वीर्य्याणि नाश्रीयात् । सायं प्रातस्त्वन्नमभिपूजितमनिन्दन् भुञ्जोत न कदाचिद्रात्रो नग्नः स्वपेत् स्नायाद्वा । यच्चात्मवन्तो बृद्धाः सम्यग्विनौता दम्भलाभमोहवियुक्ता वेदविद आचक्षते तत् समाचरेद्योगक्षेमार्थमौ श्वरमधिगच्छेन्नान्यमन्यत्र देवगुरूधार्म्मिकेभ्यः प्रभूतैधोदकयवसकुशमाल्यापनिष्क्रमणमार्य्यजनभूयिष्ठमनलसमृद्धं धार्म्मिकाधिष्ठितं निकेतनमावसितूं यतेत । प्रशस्तमङ्गल्यदेवतायतनचतुष्पथादौन् प्रदक्षिणमावर्त्तेत । मनसा वा तत्समग्रमाचारमनुपालयेदापत्‌कल्पः । सत्यधर्म्मा आर्य्यवृत्तः शिष्टाध्यापकशौचशिष्टः श्रुतिनिरतः स्यान्नित्यमहिंस्रो मृदुः दृढ़कारो दमदानशील एवमाचारो मातापितरौ पूर्वापरान् सम्बन्धान् दुरितेभ्यो मोक्षयिष्यन् स्नातकः शश्वद्‌ब्राह्मलोकान्न च्यते न च्यवते ।
इति गौतमीये धर्म्मशास्त्रे नवमोऽध्यायः ।। 9 ।।

दशमोऽध्यायः ।

द्विजातीनामध्ययनमिज्या दानं बाह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः पूर्वेषु नियमस्त्वाचार्य्यज्ञातिप्रियगुरूधनविद्याविनिमयेषु ब्रह्मणः सम्प्रदानमन्यत्र यथोक्तात् कृषिवाणिज्ये चास्वयंकृते कुसीदञ्च । राज्ञोऽधिकं रक्षणं सर्वभूतानां न्याय्यदण्डत्वं विभृयाद् ब्राह्मणान् श्रोत्रियान् निरूत्‌माहांश्चाब्राह्मणानकरांश्चापकुर्वाणांश्च योगश्च विजये भये विशेषेण चर्य्या च रथधनुर्भ्यां मंग्रामे संस्थानमनिवृत्तिश्च न दोषो हिंसायामाहवेऽन्यत्र व्यश्वसारथ्यायुधकृताञ्जलिप्रकीर्णकेशपराङ्म खोपविष्टस्थल-वृक्षारुढ़-दूतगोब्राह्मण-वादिभ्यः क्षत्रियश्चदन्यस्तमुपजीवेत् तद्‌वृत्तिः स्यात् जेता लभेत सांग्रामिक वित्तं बाहनन्तु राज्ञ उद्धारश्चापृथग्‌जयेऽन्यत् तु यथार्हं भाजयेद्राजा राज्ञे बलिदानं कर्षकेर्दशममष्टमं षष्टं वा पशुद्विरण्ययोरप्येके पञ्चाशद्भागात् विंशतिभागः शुल्कः पण्ये मूलफलपुष्पौषधमधुमांसतृणेन्धनानां षष्ठं तंद्रक्षणधर्म्मित्वात् तेषु तु नित्ययुक्त स्यादधिकेन वृत्तिः शिल्पिता मासि मास्येकैकं कर्म्म कुर्य्युरेतेनात्मोपजीविनो व्याख्याता नौचक्रौवन्तश्च भक्त तेभ्यो दद्यात पण्यं वणिगभिरर्घापचये न देयं प्रनष्टमस्वामिकमधिगम्य राज्ञे प्रभूयुविख्याप्य संवत्सरं राज्ञो रक्ष्यमूर्द्धमधिगन्तुश्चतुर्थं राज्ञः शेषः स्वामौ ऋक्‌थक्रयमंविभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजोतं निर्विष्टं वैश्यशूद्रयोर्निध्यधिगमो राजधनं न ब्राह्मणस्याभिरपस्याब्राह्मणा व्याख्यातः षष्ठं लभेतेत्येके चौरहतमुपजित्य यथास्थानं गमयेत् काशाद्वा दद्याद्रक्ष्यं बालधनमाव्यवहारप्रापणात् भमावृत्तेर्वा । वैश्यस्याधिकं कृषिवणिक्पाशुपाल्यकुमीदम् । शूद्रश्चतुर्थो पाणिपादप्रक्षालनमेवेके श्राद्धकर्म्म भृत्यभरणं स्वदारवृत्तिः परिचर्य्या चात्तरेषां तेभ्यो वृत्ति लिप्सेत जार्णान्यपानच्छत्रवासः कूच्चान्युच्छिष्ठाशनं शिल्पवृत्तिश्च यञ्चायाश्रितो भर्त्तव्यस्तन क्षीणोऽपि तेन चोत्तरस्तदर्थोऽस्य निचय; स्यादनुज्ञातोऽस्य नमस्कारो मन्त्रः पाकयज्ञैः स्वयं यजेतेत्येके । सर्वे चोत्तरोत्तरं परिचरेयुरार्य्यानार्य्ययोर्व्यतिक्षेपे कर्म्मणः साम्य साम्यम् ।
इति गौतमीये धर्म्मशास्त्रे दशमोऽध्यायः ।। 10 ।।

एकादशोऽध्यायः ।

राजा सर्वस्येष्टे ब्राह्मणवर्ज्जं, साधुकारी स्यात् साधुवादी जय्यामान्वोक्षिक्यञ्चाभिविनीतः शुचिर्जितेन्द्रियो गुणवत्सहायोऽपायसम्पन्नः समः प्रजासु स्याद्धितञ्चासां कुर्वीत । तमुपर्य्यासोनमधस्था उपासौरन्नन्ये ब्राह्मणेभ्यस्तेऽप्येनं मन्येरन् । वर्णानाश्रमांश्च न्यायतोऽभिरक्षेच्चलतश्चैनान् स्वधर्म्मे स्थापयेद्धर्म्मस्थो ह्यंशभागभवतोति विज्ञायते । ब्राह्मणञ्च पुरो दधीत विद्याभिजन-वाग्रपवयः शीलसम्पनं न्वायव्रत्तं तपस्विनं, तत्‌प्रसूतः कर्म्माणि कुर्वीत । ब्रह्मप्रसूतं हि क्षत्रमृध्यतेन व्यथत इति च विज्ञायते । यानि च दैवोत्‌पातचिन्तकाः प्रव्रूयुस्तान्याश्रयेत, तदधीनमपि ह्येके योगक्षेमं प्रतिजानते । शान्तिपुण्याहस्वस्त्ययनायुष्यमङ्गलसंयुक्तान्याभ्युदयिकानि विद्वेषिणां सम्बलनमभिचारद्विषद्व्याधिसंयुक्तानि च शालाग्नौ कुर्य्याद्यथोक्तमृत्विजोऽन्यानितस्य व्यबहारो वेदो धर्म्मशास्त्राण्यङ्गान्युपवेदाः पुराणं देशजातिकुलधर्म्माश्चाम्नायैरविरूद्धाः प्रमाण । कृषिवणिक्पाशुपाल्यकुसौदकारवः स्वे स्वे वर्गे । तेभ्यो यथाधिकारमर्थान् प्रत्यवहृत्य धर्म्मव्यवस्थान्यायाविगमे तर्कोऽभ्युपायस्तेनाभ्यूह्य यथास्थानं गमयेद्विप्रतिपत्तौ त्रयीविद्यावृद्धेभ्यः प्रत्यवहृत्य निष्ठां गमयेदथाहास्य निः श्रेयसं भवति । ब्रह्मक्षत्रेण सम्प्रवृत्तं देवपितृमनुष्यान् धारयतीति विज्ञायते । दण्डो दमनादित्याहुस्तेनादान्तान् दमयेद्बर्णाश्रमाश्च स्वकर्म्मनिष्ठाः प्रेत्य कर्म्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरुपायुः श्रुतवृत्तिवित्तसुखमेधसो जन्म प्रतिपद्यन्ते विद्याञ्च । विपरीता नश्यन्ति । तानाचार्य्योपदेशोदण्डश्च पालयते तस्माद्राजाचार्य्यावनिद्न्यावनिद्न्यौ ।
इति गौतमीये धर्म्मशास्त्रे एकादशोऽध्यायः ।। 11 ।।

द्वादशोऽध्यायः ।

शूद्रो द्विजातीनभिसन्ध्यायाभिऽहत्य च वाग्‌दण्डपारूप्याभ्यामङ्गं मोच्यो येनोपहन्यादार्य्यस्त्र्यभिगमेन लिङ्गोद्धारः । स्वहरणञ्च गोप्ता चेद्वधोऽधिकोऽथाहास्य । वेदमुपशृणवतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणमुदाहरणे जिह्वाच्छेदो धारणे शरीरभेद आसनशयनवाकपथिषु समप्रेप्सुर्दण्ड्यः शतम् । क्षत्रियो ब्राह्मणाक्रोशे दण्डापारूप्ये द्विगुणमध्यर्द्धं, वैश्यो ब्राह्मणस्तु क्षत्रिये पञ्चाशत्तदर्द्धं, वैश्ये न शूद्रे किञ्चित् ब्राह्मणराजन्यवत् क्षत्रियवैश्यावष्टापाद्यं । स्तेयकिल्विषं शूद्रस्य द्विगुणोत्तराणौतरेषां प्रतिवर्णं विदुषोऽतिक्रमे दण्डभूयस्त्वं । फलहरितधान्यशाकादाने पञ्चकृष्णलमल्पे । पशुपीड़िते स्वामिदोष, पालमंयुक्ते तु तस्मिन् । पथि क्षेत्रेऽनावृते पालक्षेत्रिकयोः । पञ्च माषा गवि षड़ष्ट्रेखरेऽश्वमहिष्योर्दशाजाविषु द्वौ द्वौ सर्व्वविनाशे शतं, शिष्टाकरणे प्रतिषिद्धसेवायाञ्च, नित्यं चेलपिण्डादूर्द्धं स्वहरणञ्च । गोऽग्न्यर्थे तृणमेधान् वीरूद्वनस्पतौनाञ्च पुष्पाणि स्वावदाददीत फलानि चापरिवृतानाम् । कुसीदवृद्धिर्धर्म्म्या विंशतिः, पञ्चमाषको मासं नातिसांवत्‌सरीमेके, चिरस्थाने द्वैगुण्यं प्रयोगस्य । मुक्ताधिर्न वर्द्धते दित्सतोऽवरूद्धस्य च । चक्रकालवृद्धिः कारिताकायिकाशिखादिभोगाश्च कुसीदं । पशूपजलोमक्षेत्रशतवाह्येषु जातिपञ्चगुणम । जड़ापोगण्डधनं धसवर्षभुक्तं परैः सन्निधौ भोक्तुरश्रात्रियप्रव्रजितराजन्यधर्म्मपुरूषैः । पशुभूमिस्त्रीणामनतिभोग ऋक्थभाजि ऋणं प्रतिकुर्ष्युः, प्रातिभाव्यवणिक्‌शुल्कमद्यद्युतदण्डान् पुत्रानध्याभवेयुर्निध्यन्नादियाचितावक्रौताधेया नष्टाः सर्व्वा न निन्दिता न पुरूषापराधेन । स्तेनः प्रकीर्णकेशो मुषली राजानमियात् कर्म्माचक्षाणः पूतो वधमोक्षाभ्यामघ्नन्नेनस्वी राजा । न शारौरो ब्राह्मणदण्डः कर्म्मवियोगविख्यापनविवासनाङ्ककरणान्यप्रवृत्तौ प्रायश्चित्ती च चौरसमः सचिवो मतिपूर्व्वे प्रतिग्रहीताप्यधर्म्मसंयुक्ते । पुरूषशक्त्यपराधानुवन्धविज्ञानाद्दण्डनियोगोऽनुज्ञानं वा वेदवित् समवायवचनाद् वेदवित्‌समवायवचनात् ।
इति गौतमीये धर्म्मशास्त्रे द्वादशोऽध्यायः ।। 12 ।।

त्रयोदशोऽध्यायः ।

विप्रतिपत्तौ साक्षिणि मिथ्यासत्यव्यवस्था बहवः स्युरनिन्दिताः स्वकर्म्म्सु प्रात्ययिका राज्ञाञ्च निष्प्नीत्यनभिता पाश्चान्यतरस्मिन्नपि शऊद्रा । ब्राह्मणस्त्वब्राह्मणवचनादनुरोध्योऽनिबन्धाश्चेन्नासमवेताः पृष्टाः प्रब्रूयुरवचने च दोषिणः स्युः स्वर्गः सत्यवचने विपर्य्यये नरकः । अनिवन्धैरपि वक्तव्यं पीड़ाकृते निबन्धः प्रमत्तोक्ते च साक्षिसभ्यराजकर्त्तृषु दोषो धर्म्मतन्त्रपीड़ायां । शपथैर्नैके सत्यकर्म्मणा तद्देवराजब्राह्मणसंसदि स्यादब्राह्मणानां । क्षुद्रपश्वनृते साक्षी दश हन्ति, गोऽश्वपुरूषभूमिषु दशगुणोत्तरान्, सर्वं वा भूमौ हरणे नरको, भूमिवदप्सु, मैथुनसंयोगे च पशुवन्मधुसर्पिषो, र्गोवद्वस्त्रहिरण्यधान्यब्रह्मसु, यानेष्वश्ववन्मिथ्यावचने । याप्यो दण्डश्च साक्षौ, नानृतवचने दोषो जीवनञ्चेत्तदधौनं, न तु पापीयसो जीवनं । राजा प्राड़्‌विवाको ब्राह्मणो वा शास्त्रवित्, प्राड़्‌विवाको मध्यो भवेत् । संवत्सरं प्रतीक्षेत प्रतिभायां धेन्वनडुहस्त्रीप्रजनसंयुक्तेषु । शीघ्रमात्ययिके च । सर्वधर्म्मेभ्यो गरीयः प्राड़्‌विवाके सत्यवचनं सत्यवचनम् ।
इति गौतमीये धर्म्मशास्त्रे त्रयोदशोऽध्यायः ।। 13 ।।

चतुर्दशोऽध्यायः ।

शावमाशौचं दशरात्रमृत्विग्दीक्षितव्रह्यचारिणां सपिण्डानामेकादशरात्रं । क्षत्रियस्य द्वादशरात्रं वैश्यस्यार्द्धमासमेकं मासं शूद्रस्य । तच्चेदन्तः पुनरापतेत् तच्छेषेण शुध्येरन्, रात्रिशेषे द्वाभ्यां, प्रभाते तिमृभिर्गोब्राह्मणहतानामन्वक्षं राजक्रोधाच्च युद्धे प्रायोनाशकशस्त्राग्निविषोदकोद्‌बन्धनप्रपतनैश्चेच्छतां । पिण्डनिवृत्तिः सप्तमे पञ्चमे वा जननेऽप्येवं । मातापित्रोस्तन्मातुर्वागर्भमाससमा रात्रिः स्रंसने गर्भस्य । त्र्यहंवा श्रुत्वा चोर्द्धं दशम्याः पक्षिण्यसपिण्डयोनिसम्बन्धे सहाध्यायिनि च सब्रह्मचारिण्येकाहं श्रोत्रिये चोपसम्पन्ने प्रेतोपस्पर्शने । दशरात्रमाशौचमभिसन्धाय चेदुक्तं वैश्यशूद्रयोरार्त्तवीर्वापूर्वयोश्च । त्र्यहं वाचार्य्यतत्‌पुत्रस्त्रीयाज्यशिष्येषु चैवमवरश्चद्वर्णः पूर्वं वर्णमुपस्पृशेत् पूर्वो वावरं तत्र शावोक्तमाशौचं । पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्‌स्पृष्ट्यपस्पर्शने सचेलोदकोपस्पर्शनाच्छुध्येच्छवानुगमे च । शुनश्च यदुपहन्यादित्येके उदकदानं सपिण्डैः । कृतचड़स्य तत्‌स्त्रीणाञ्चानतिभोग एकेऽप्रदत्तानामधः शय्यासनिनो ब्राह्मचारिणः सर्वे न मार्जयेरन्न मासं भक्षयेयुराप्रदानात् । प्रथमतृतीयपञ्चमसप्तमनवमेषदकक्रिया वाससाञ्च त्यागः अन्त्ये त्वन्त्यानां दन्तजन्मादि मातापितृभ्यां तूष्णीं माता बालदेशान्तरितप्रव्रजितासपिण्डानां सद्यः शोचं । राजाञ्च कार्य्यविरोधाद्‌ब्राह्मणस्य च स्वाध्यायनिवृत्त्यर्थं स्वाध्यायानिवृत्त्यर्थम् ।
इति गौतमीये धर्म्मशास्त्रे चतुर्द्दशोऽध्यायः ।। 14 ।।

पञ्चदशोऽध्यायः ।

अथ श्राद्धममावस्यायां पितृभ्यो दद्यात् । पञ्चमीप्रभृति वापरपक्षस्य यथाश्राद्धं सर्वस्मिन् वा द्रव्यदेशब्राह्मणसन्निधाने वा कालनियमः ; शक्तितः प्रकर्षेद्‌गुणसंस्कारबिधिरन्नस्य । नवावरान् भोजयेदरूजो यथोत्‌साहं वा ब्राह्मणान् श्रोत्रियान् वागरुप वयः शीलसम्पन्नान् । युवेभ्यो दानं प्रथममेके पितृवन्न च तेन मित्रकर्म्म कुर्य्यात् । पुत्राभावे सपिण्डा । मातृसपिण्डाः शिष्याश्च दद्यु स्तदभावे ऋत्विगाचार्य्यौ । तिलमाषव्रौहियवोदकदानैर्मासं पितरः प्रीणन्ति, मत्‌स्यहरिणरूरूशशकूर्म्मवराहमेषमांसैः संवत्सराणि, गव्यपयः पायसैर्द्वादशवर्षाणि, बार्द्धीणसेन मांसेन कालशाकच्छागलौहखड़्‌गमांसैर्मधुमिश्रैश्चानन्त्यम् । न भोजयेत् स्तेनक्लीवपतितनास्तिकतद्‌वृत्तिवीरहाग्रेदिधिषुपतिषुपतिस्त्री-ग्रामयाजकाजपालोत्‌मृष्टाग्निमद्यप-कुचरकूटसाक्षिप्रतिहारिकानुपपत्तिर्यस्य च कुण्डाशी सोमविक्रय्यगारदाहो गरदाकीर्णिगणप्रेष्यागम्यागामिहिंसुपरिवित्तिपरिवेत्तृपर्य्याहृतपय्याधातृत्यक्तात्मदुर्वलाः कुनखिश्यावदन्तः श्वित्रिपौनर्भवकितवाजप्रेष्यप्रातिरुपकशूद्रापतिनिराकृतिकिलासी कुसीदी वणिक्‌शिल्पोपजीविज्यावादित्रतालनृत्यगीतशीलान्, पित्रा चाकामेन विभक्तान्, शिष्यांश्चैके सगोत्रांश्च । भोजयेदूर्द्धं त्रिभ्यो गुणवन्तम् । सद्यः श्राद्धोः शूद्रातल्पगस्तत्‌पुरीषे मासं नयति पितॄंस्तस्मात् तदहर्व्रह्मचारी स्यात् । श्वपचचाण्डालपतितावेक्षणे दुष्टं तस्मात् परिश्रुते दद्यात् तिलौर्वा किरेत्, पङ्‌क्तिपावनो वा शमयेत् । पङ्‌क्तिपावनाः षड़ङ्गविज्ज्येष्ठसामिकस्त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः पञ्चाग्निः स्नानको मन्त्रब्राह्मणबिद्धर्म्मज्ञो ब्रह्मदेयानुसन्दान् इति हविषु चैव दुर्वलादीन् श्राद्ध एवैके श्राद्ध एवैके ।
इति गौतमीय धर्म्मशास्त्रे पञ्चदशोऽध्यायः ।। 15 ।।

षोड़शोऽध्यायः ।

श्रवणादि वार्षिकं प्रोष्ठपदीं वोपाकृत्याधीयीत च्छन्दांस्यर्द्धपञ्चममासान् पञ्चदक्षिणायनं वा ब्रह्मचार्य्युत्‌सृष्टलोमा । न मांसं भुञ्जोत द्वैमास्यो वा नियमी नाधीयीत वायौ दिवा पांशुहरे कर्णश्राविणि नक्तं वाणभेरीमृदङ्गगर्ज्जार्त्तशब्देषु च श्वशृगालगर्द्दभसंह्नादे लोहितेन्द्रधनुनीहारेष्वभ्रदर्शने चापत्तौ मूत्रित उच्चरिते निशासन्ध्योदकेषु वर्षति चैके वल्मीकसन्तानमाचार्य्यपरिवेषणे ज्योतिषोश्च भीतो यानस्थः शयानः प्रौढ़पादः श्मशानग्रामान्तमहापथाशौचेषु पूतिगन्धान्तः शवदिवाकीर्त्तिशूद्रसन्निधाने सूतके चोद्गारे ऋग्यजुषञ्च सामशब्दे यावदाकालिका निर्घातभूमिकम्पराहुदर्शनोल्कास्तनयित्नुवर्षविद्युतः प्रादुष्कृताग्निष्वनृतौ विद्युति नक्तञ्चापररात्रात् त्रिभागादिप्रवृतौ सर्वम् । उल्का विद्युत्‌समेत्यकेषां । स्तनयित्नूरपराह्नेऽपि प्रदोषे सर्वं नक्तमर्द्धरात्रादहश्चेत् सज्योतिर्विषयस्थे च राज्ञि प्रेते विप्रोष्य चान्याऽन्येन सह सङ्कुलोपाहितवेदसमाप्तिच्छर्द्दिश्राद्धमनुष्ययज्ञभोजनेष्वहोरात्रममावास्यायाञ्च द्व्यहं वा कार्त्तिकौ फाल्गुन्याषाढ़ी पौर्णमासौ तिस्रोऽष्टकास्त्रिरात्रमन्त्यात्मके अभितो वार्षिकं सर्वे वर्षविद्युत्‌स्तनयितनूसन्निपाते प्रस्यन्दिन्यूर्द्धं भोजनाद्युत्‌सवे प्राधौतस्य च निशायां चतुर्म्मुहूर्त्तं नित्यमेके नगरे मानसमप्यशुचि श्राद्धिनामाकालिकमकृतान्नश्राद्धिकसंयागे च प्रतिविद्यञ्च यावत् स्मरन्ति प्रतिविद्यञ्च यावत् स्मरन्ति ।
इति गौतमीये धर्म्मशास्त्रे षोड़शोऽध्यायः ।। 16 ।।

सप्तदशोऽध्यायः ।

प्रशस्तानां स्वकर्म्मसु द्विजातीनां ब्राह्मणो भुञ्जीत प्रतिगृह्नीयाच्चैधोदकयवसमूल-फलमध्वभयाभ्युद्यतशय्यासनयान--पयोदधिधानाशफरि प्रियङ्गमृङ्खार्गशाकान्यप्रनोद्यानि । सर्वेषां पितृदेवगुरूभृत्यभरणे चान्यवृत्तिश्चेन्नान्तरेण शूद्रात् पशुपालक्षेत्रकर्षककुलसङ्गतकारपितृपरिचारका भोज्यान्ना वणिक् चोशिल्पौ नित्यमभोज्यं केशकोटावपन्नं रजस्वलाकृष्टशकुनिपदोपहतं भ्रूणघ्नप्रेक्षितं गवोपघ्रातं भावदुष्टं शुक्तं केवलमदधि पुनः सिद्धं पर्य्युषितमशाकभक्ष्यस्नेहमांस-मधुन्युत्‌सृष्ट पंश्चस्यभिशप्तानपदेश्यदन्तिकतक्षकदर्य्यबन्धनिकचिकित्सक मृगयु-कारुच्छिष्टभोजिगण-विद्विषाणामपाङ्‌क्त्यानां । प्रागदुर्वलाद्‌वृथान्नाचमनोत्थानव्यपेतानि । समासमाभ्यां विषमसमे पूजान्तरानिर्ष्टितञ्च । गोश्च क्षीरमनिर्द्दशायाः सूतके चाजामहिष्योश्च नित्यमाविकमपेयमौष्ट्रमैकशफञ्च । स्यन्दिनौयमसूसन्धिनी नाञ्च याश्च व्यपेतवत्साः । पञ्चनखाश्चाशल्यकशशश्वादिद्‌गोधाखड़्‌गकच्छपा । उभयतोदत्‌केशलोमेकशफकलविङ्कल्पलवचक्रवाकहंसाः काककङ्कगृध्रश्येना जलजा रक्तपादतुण्डा ग्राम्यकुक्कुटशूकरौ धेन्वनडुहौ, चापन्नदावसन्नवृथामांसानि किसलयक्याकुलशुननिर्य्यासलोहित---व्रश्चनाश्वनिचिदारूवकलाक टिट्रिभ मान्धातृनक्तञ्चरा अभक्ष्याः । भक्ष्याः प्रतुदा विष्किरा जालपादा मत्‌स्याश्याविकृता बध्याश्च धर्म्मार्थे व्यालहता दृष्टदोषघाक्‌प्रशस्तान्यभ्युक्ष्योपयुञ्जीतोपयुञ्जौत ।
इति गौतमीये धर्म्मशास्त्रे सप्तदशोऽध्यायः ।। 17 ।।

अष्टोदशोऽध्यायः ।

अस्वतन्त्रा धर्म्मे स्त्रौ नातिचरेद्भर्त्तारं । वाक्‌चक्षुः कर्म्मसंयता पतिरपत्यलिपसुर्द्देवराद् गुरूप्रसूता नर्त्तुमतीयात् पिण्डगोत्रऋषिसम्बन्धिभ्यो योनिमात्राद्वा । नादेवरादित्येके । नातिद्वितीयं जनयितुरपत्यं समयादन्यत्र जीवतश्च क्षेत्रे परस्मात् तस्य द्वयोर्वा रक्षणाद्भर्त्तुरेव नष्टे भर्त्तरि षाडुवार्षिकं क्षपणं श्रूयमाणेऽभिगमनं प्रव्रजिते तु निवृत्तिः प्रसङ्गात् तस्य द्वादशवर्षाणि ब्राह्मणस्य विद्यासम्बन्धे भ्रातरि चैवं ज्यायसि यवौयान् कन्याग्न्युपषमेषु षड़ित्येके त्रीन् कुमार्य्युतूनतौत्य स्वयं युज्येतानिन्दितेनोत्‌मृद्य पित्र्यानलङ्कारान् प्रदानं प्रागृतोरप्रयच्छन् दोषो प्राग्वाससः प्रतिपत्तेरित्येक द्रव्यादानं विबाहसिद्धर्थं धर्म्मतन्त्रसंयोगे च शूद्रादन्यत्रापि शूद्राद्धहुषशोर्होनकर्म्मणः शतगोरनाहिताग्नेः सहस्रगोश्च सोमपात् सप्तमौञ्चामुक्त्वा निचयायाप्यहीनकर्म्मभ्य आचक्षीत राज्ञा पृष्टस्तेन हि भर्त्तव्यः श्रुतशीलसम्पन्नश्चेधर्म्मतन्त्रपौड़ायां तस्याकरणे दोषो दोषः ।
इति गौतमीये धर्म्मशास्त्रेऽष्टादशोऽध्यायः ।। 18 ।।

एकोनविंशोऽध्यायः ।

उक्तो वर्णधर्म्मश्चाश्रमधर्म्मश्चाथ खल्वयं पुरूषो येन कर्म्मणा लिप्यतेऽथेतदयोज्ययाजनमभक्ष्यभक्षणमवद्यवदनं शिष्टस्याक्रिया प्रतिषिद्धसेवनमिति च तत्र प्रायश्चित्तं कुर्य्यान्न कुर्य्यादिति मौमांसन्ते न कुर्य्यादित्याहुर्नहि कर्म्म क्षीयत इति कुर्य्यादित्यपरे पुनः स्तोमेनेष्ट्वा पुनः सवनमायातीति विज्ञायते व्रात्यस्तोमेनेष्ट्वा तरति सर्व्वं पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजतेऽग्निष्टताभिशस्यमानं याजयेदिति च । तस्य निष्क्रयणानि जपस्तपो होम उपवासो दानसुपनिषदो वेदान्ताः सर्व्वच्छन्दः सु सहिता मधून्यघमर्षणमथर्व्वशिरोरूद्राः पुरूषसूक्तं राजनसैहिणे सामनी वृहद्रथन्तरे पुरूषगतिर्महानाम्ल्यो महावैराजं महादिकाकीर्त्त्यं ज्येष्ठसाम्नामन्यतमद्वहिष्यवमानं कुष्माण्डानि पावमान्यः सावित्रो चेति पावनानि । पयोव्रतता शकभक्षता फलभक्षता प्रमृतयावको हिरण्यप्राशनं घृतप्राशनं सोमपानमिति च मेध्यानि । सर्व्वे शिलोच्चयाः सर्व्वाः स्रवन्त्यः पुण्या ह्नदास्तीर्थानि ऋषिनिवासगोष्ठपरिस्कन्दा इति देशाः । ब्रह्मचर्य्यं सत्यवचनं सवनेषूदकोपस्पर्शनमार्द्रवस्त्रताधः शायितानाशक इति तपांसि । हिरण्यं गौर्व्वासोऽश्वो भूमिस्तिला घृतमन्नमिति देयानि । संवत्सरः षण्मासाश्चत्वारस्त्रयो द्वावेकश्चतुर्विंशत्यहो द्वादशाहः षड़हस्त्र्यहोऽहोरात्र इति कालाः । एतान्येवानादेशे विकल्पेन क्रियेरन् एनः सु गुरूषु गुरुणि लघुषु लघुनि कृच्छ्रातिकृच्छ्रं चान्द्रायणमिति सर्वप्रायश्चित्तं सर्वप्रायश्चित्तम् ।
इति गौतमीये धर्म्मशास्त्रे एकोनविंशोऽध्यायः ।। 19 ।।

विंमोऽध्यायः ।

अथ चतुः षष्टिषु यातनास्थानेषु दुः खान्यनुभूय तत्रेमानि लक्षणानि भवन्ति । ब्रह्महार्द्रकुष्ठी, सुरापः श्यावदन्तो, गुरूतल्पगः पङ्गन्धः, स्वर्णंहारी कुनखो, श्वित्री वस्त्रापहारी हिरण्यहारौ दर्द्दृरी, तेजोऽपहारी मण्डली, स्नेहापरारी क्षयी, तथाजीर्णवानन्नापहारी, ज्ञानापहारी मूकः, प्रतिहन्ता गुरोरपस्मारी, गोघ्नो जात्यन्धः, पिशुनः पूतिनासः, पूतिवक्तस्तु सूचकः, शूद्रोपाध्यायः श्वापकस्त्रपुसौसचामरविक्रयी मद्यप, एकशफविक्रयी मृगब्याधः, कुण्डाशी भृतकश्चैलिको वा नक्षत्रौ चार्वुदौ, नास्तिको रङ्गोपजीव्यभक्ष्यभक्षी गण्डरी, ब्रह्मपुरूषतस्कराणां देशिकः पिण्डितः षण्डो महापथिक गण्डिकश्चण्डालौ पुक्कसी गोष्ववकीर्णी मध्वामेही, धर्म्मपत्नीषु स्यान्मैथुनप्रवर्त्तकः खल्वाटसगोत्रसमयस्त्र्यभिगामी पितृमातृभगिनीख्यभिगाम्यावौजितस्तेषां कुब्जकुण्ठमण्डव्याधितव्यङ्गदरिद्राल्पायुषोऽल्पबुद्धयश्चण्ड पण्डशैलूष-तस्कर परपुरूष-प्रेष्यपरकर्म्मकराः खल्वाटचक्राङ्गसङ्कौर्णाः क्रूरकर्म्माणः क्रमशश्चान्त्याश्चोपपद्यन्ते तस्मात् कर्त्तव्यमेवेह प्रायश्चित्तं विशुद्धैर्लक्षणैर्जायन्ते धर्म्मस्य धारणादिति धर्म्मस्य धारणादिति ।
इति गौतमौये धर्म्मशास्त्रे विंशोऽध्यायः ।। 20 ।।

एकविंशोऽध्यायः ।

त्यज्येत् पितरं राजघातकं शूद्रायाजकं वेदविप्लावकं भ्रूणहनं यश्चान्त्यावसायिभिः सह संवसेदन्त्यावसायिन्या वा तस्य विद्यागुरुन् योनिसम्बन्धांश्च सन्निपात्य सर्व्वाण्युदकादीनि प्रेतकर्म्माणि कुर्य्युः पात्रञ्चास्य विपर्यस्येयूः । दासः कर्म्मकरो वावकरादमेध्यपात्रमानौय दासी घटान् पूरयित्वा दक्षिणामुखः पदा विपर्य्यस्येदमनुदकं करोमिति नामग्राहस्तं सर्व्वेऽन्वालभेरन् प्राचीनावीतिनो मुक्तशिखा विद्यागुरवो योनिसम्बन्धाश्च वीक्षेरन्नप उपस्पृश्य ग्रामं प्रविशन्ति । अत ऊर्द्धं तेन सम्भाष्य तिष्ठेदेकरात्रं जपन् सावित्रौमज्ञानपूर्व्वं ज्ञानपूर्व्वञ्चेत् त्रिरात्रम् । यस्तु प्रायश्चित्तेन शुध्येत् तस्मिन् शुद्धे शातकुम्भमयं पात्रं पुण्यतमार्द्धदात् पूरयित्वा स्रवन्त्रीभ्यो वा त इनमप उपस्पर्शेयुः । अथास्मै तत्पात्रं दद्युस्तत् सम्प्रतिगृह्य जपेच्छान्ता द्यौः शान्ता पृथिवी शान्तं शिवमन्तरौक्षं यो रोचनस्तमिह गृह्नामीत्येतैर्यजुभिः पावमानीभिस्तरत्समन्दीभिः कुष्माण्डैश्चाज्यं जुहुयाद्धिरण्यं ब्राह्मणाय वा दद्याद्गामाचार्य्याय । यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतः शुध्येत् । तस्य सर्व्वाण्युदकादीनि प्रेतकर्म्माणिकुर्य्युरेतदेव शान्त्युदकं सर्व्वेषूपपातकेषूपपातकेषु ।
इति गौतमीये धर्म्मशास्त्रे एकविंशोऽध्यायः ।। 21 ।।

द्वाविंशोऽध्यायः ।

ब्रह्महःसुराप-गुरूतल्पग-मातृयोनिसम्बन्धगस्तेननास्तिक निन्दितकर्म्माभ्यासि-पतितात्याग्यपतितत्यागिनः पातकसंयोजकाश्च तैश्चाब्दं समाचरन् । द्विजातिकर्म्मभ्यो हानिः पतनं परत्र चासिद्धिस्तामेकै नरकं । त्रोणि प्रथमान्यनिद्देश्यानि मनुर्न स्त्रौष्वगुरूतल्पगः पततीत्येके भ्रूणहनि हीनवर्णसेवायाञ्च स्त्री पतति कौटसाक्ष्यं राजगामिपैशुनं गुरोरनृताभिशंसन महापातकसमानि । अपाङ्‌क्त्यानां प्राग्‌दुर्व्वलाद्गोहन्तब्रह्मोज्‌भ्यतन्मन्त्रकृदवकीर्णपतितसावित्रीकेषुपपातकं, याजनाध्यपनादृत्विगाचार्य्यौ पतनीयसेवायाञ्चहेयावन्यत्र हानात् पतति । तस्य च प्रतिग्रहीतेत्यके । न कर्हिचिन्मातापित्रोरवृत्तिदायन्तु न भजेरन् । ब्राह्मणाभिशंसने दोषस्तावान् द्विरनेनसि दुर्व्वलहिंसायामपि मोचने शक्तश्चेत् । अभिक्रध्यावगोरणं ब्राह्मणस्य वर्षशतमस्वर्ग्यं, निर्घाते सहस्रं, लोहितदर्शने यावतस्तत्‌प्रस्कद्न्य पांशून् संगृह्णौयात् ।
इति गौतमिये धर्म्मशास्त्रे द्वाविंशोऽध्यायः ।। 22 ।।

त्रयोविंशोऽध्यायः ।

प्रायश्चित्तमग्नौ शक्तिर्व्रह्मघ्नस्त्रिरवच्छादितस्य लक्ष्यं वा स्याज्जन्ये शस्त्रभृताम् । खट्वाङ्गकपालपाणिर्व्वा द्वादश संवत्‌सरान् ब्रह्मचारी भैक्षाय ग्रामं प्रविशेत् स्वकर्म्माचक्षाणः, पथोपक्रामेत् सन्दर्शनादार्य्यस्य । स्नानासनाभ्यां विहरन् सवणेषुदकोपस्पर्शी शुध्येत् । प्राणलाभे वा तन्निमित्ते ब्राह्मणस्य द्रव्यापचये वा त्र्यवरं प्रति राज्ञोऽश्वमेधावमृथे वान्ययज्ञेऽप्यग्निष्टुदन्तश्चोत्‌मृष्टश्चेद्‌ब्राह्मणवधे । हत्वापि आत्रेय्याञ्चैवं गर्भे चाविज्ञाते वा । ब्राह्मणस्य राजन्यवधे षड़वार्षिकं प्राकृतं ब्रह्मचर्य्यं ऋषबैकसहस्राश्च गादद्यात् । वैश्ये त्रैवार्षिकं ऋषभैकशताश्च गा दद्यात् । शूद्रे संवत्सरमृषभैकदशाश्च गा दद्यादनात्रेय्याञ्चैवं गाञ्च । वैश्यवन्मण्डूकनकुलकाकविवरचरमूषिकाश्च । हिंसासु चास्थिमतां सहस्रं हत्वानस्थिमतामनडुद्भारे च । अपि वास्थिमतामेकैकस्मिन् किञ्चिद्दद्यात् । षण्ढे च पलालभारः सीसमाषश्च, वराहे घृतघटः, सर्पे लौहदण्डो, ब्रह्मवन्धाञ्च ललनायां जीवोवैशिकेन किञ्चित्तल्पान्नधनलाभवधेषु पृथग्वर्षाणि द्वे, परदारे त्रीणि । श्रोत्रियस्य द्रव्यलाभे चोत्सर्गो यथास्थानं वा गमयेत् । प्रतिसिद्धमन्त्रसंयोगे सहस्रवाक् चेदग्न्युत्सादिनिराकृत्युपपातकेषु, चैवं स्त्रौ चातिचारिणौ गुप्ता पिण्डन्तु लभेत । अमानुषौषु गोवर्ज्जं स्त्रीकृते कुष्माण्डैर्घृतहोमो घृतहोमः ।
इति गौतमीये धर्म्मशास्त्रे त्रयोविंशोऽध्यायः ।। 23 ।।

चतुर्व्विंशोऽध्यायः ।

सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः सुरामास्ये मृतः शुध्यदमत्या पाने पयोघृतमुदकं वायुं प्रतित्र्यहं तप्तानि सकृच्छ्रस्ततोऽस्य संस्कारः । मूत्रपुरीषरेतसाञ्च प्राशने श्वापदोष्ट्रखराणाञ्चाङ्गस्य ग्राग्यकुक्कुटशूकरयोश्च गन्धाघ्राणे सुरापस्य प्राणायामो घ्रतप्राशनञ्च पूर्व्वैश्च दष्टस्य (दृष्टस्य) । तल्पे लोहशयने गुरूतल्पगः शयीत सूर्म्मीं वा ज्वलन्तीं श्लिष्येल्लिङ्गं वा सवृषणमुत्‌कृत्याञ्जलावाधाय दक्षिणाप्रतीचीं व्रजेदजिह्ममा शरीरनिपातान्मृतः शुध्येत । सखीसयोनिसगोत्राशिष्यभार्य्यासु स्नुषायां गवि च तल्पसमोऽवकर इत्येके श्वभिरादायेद्राजा निहीनवर्णगमने स्त्रियं प्रकाशं पुमांसं खादयेद्‌यथोक्तं वा गर्द्दभेनावकौर्णो निऋतिं चतुष्पथे यजते तस्याजिन मूर्द्धवालं परिधाय लोहितपात्रः सप्त गृहान् भैक्षं चरेत् कर्म्माचक्षाणः संवत्सरेण शुध्येत् । रतेस्कन्दने भये रोगे सुप्तेऽग्नीन्धनभैक्षचरणाणि सप्तरात्रं कृत्वाज्यहोमः साभिसन्धेर्व्वा रेतस्याभ्यां सूर्य्याभ्युदिते ब्रह्मचारी तिष्ठेदह रहर्भुञ्जानोऽभ्यस्तमिते च रात्रिं जपन् सावित्रीमशुचिं दृष्ट्वादित्यमीक्षेत प्राणायामं कृत्वाभोज्यभोजनेऽमेध्यप्राशने वा निष्पुरीषीभावस्त्रिरात्रावरमभोजनं सप्तरात्रं वा स्वयं शीर्णान्युपयुञ्जानः फलान्यनतिक्रामन् प्राक्‌पञ्चनखेभ्यश्छर्द्दिनो घृतप्राशनञ्चाक्रोशानृतहिंसासु त्रिरात्रं परमन्तपः सत्यवाक्ये चेद्वारूणीपावमानीभिर्होमो विवाहमैथुननिर्म्मातृसंयोगेष्वदोषमेकेऽनृतं न तु खलु गुर्व्वर्थेषु यतः सप्त पुरूषानितश्च परतश्च हन्ति मनसापि गुरोरनृतं वदन्नल्पेष्वप्यर्थेष्वन्त्यावसायिनीगमने कृच्छ्राब्दोऽमत्या द्वादशरात्रमुदक्यागमने त्रिरात्रं त्रिरात्रम् ।
इति गौतमीये धर्म्मशास्त्रे चतुर्व्विंशोऽध्यायः ।। 24 ।।

पञ्चविंशोऽध्यायः ।

रहस्यं प्रायश्चित्तमविख्यातदोषस्य चतुर्ऋचं तरत्‌मसमन्दीत्यसु जपेदप्रतिग्राह्यं प्रतिजिघृक्षन् प्रतिगृह्य वाभोज्यं वुभुक्षमाणः पृथिवीमावपेदृत्वन्तरारमण उदकोपम्पर्शनाच्छुद्धिमेके स्त्रीषु पयोव्रतो वा दशरात्रं घृतेन द्वितीयमद्भिस्तृतीयं दिवादिष्वेकभक्तको जलक्लिन्नवासा लोमानि नखानि त्वचं मांसं शोणितं स्नाय्वस्थिमज्जानमिति होम आत्मनो मुखे मृत्योरास्ये जुहोमीत्यन्ततः । सर्व्वेषामेतत् प्रायश्चित्तं भ्रूणं हत्यायाः । तथान्य उक्तो नियमोऽग्ने त्वं वारयेति महाव्याहृतिभिर्जुहुयात् कुष्माणडैश्चाज्यं तद्‌व्रत एव वा ब्रह्महत्यासुरापानस्तेयगुरूतल्पेषु प्राणायामैः स्नातोऽघमर्षणं जपेत् सममश्वमेधावभृथेन सावित्रीं वा सहस्रकृत्व आवर्त्तयन् पुनोतेहैवात्मानमन्तर्ज्जले वाघमर्षणं त्रिरावर्त्तयन् पापेभ्यो मुच्यते मुच्यते ।
इति गौतमीये धर्म्मशास्त्रे पञ्चविंशोऽध्यायः ।। 25 ।।

षड़विंशोऽध्यायः ।

तदाहुः कतिधावकीर्णो प्रविशतीति मरूतः प्राणेनेन्द्रं वलेन वृहस्पतिं ब्रह्मवर्च्चसेनाग्निमेवेतरेण सर्व्येणेति सोऽमावास्यायां निश्यग्निमुपसमाधाय प्रायश्चित्ताज्याहुतीर्जुहोति कामावकीर्णोऽस्म्यावकीर्णोऽस्मि कामकामाय स्वाहा कामातिमुग्धोऽस्म्याभिमुग्धोऽस्मि कामकामाय स्वाहेति समिधमाधायानुपर्य्यक्ष्य यज्ञवास्तु कृत्वोपस्थाय सन्मासिञ्चत्वित्येतया त्रिरूपतिष्ठेत त्रय इमे लोका एषां लोकानामभिजित्या अभिक्रान्त्या इत्येतदेवैकेषां कर्म्माधिकृत्ययोः पूत इव स्यात् स इत्यं जुहुयादित्थमनुमन्त्रयेद्वरो दक्षिणेति । प्रायश्चित्तामविशेषादनार्ज्जवपैशुन-प्रतिषिद्धाचारानाद्य प्राशनेषु । शूद्रायाञ्च रेतः सिक्त्वा योनौ च दोषवति कर्म्मण्यभिसन्धिपूर्वेष्वविङ्गाभिरप उपस्पृशेद्वारूणौभिरन्यैर्वा पवित्रैः प्रतिषिद्धवाङ्मनसयोरपचारे व्याहृतयः सङ्क्याताः पञ्च सर्वास्वपो वाचामेदहस्य आदित्यश्च पुनातु स्वाहेति प्रातः रात्रिश्च मा वरूणश्च पुनात्विति सायमष्टौ वा समिधमादध्याद्देवकृतस्येति हुत्वैवं सर्वस्मादेनसो मुच्यते मुच्यते ।
इति गौतमीये धर्म्मशास्त्रे षड़्‌विंशोऽध्यायः ।। 26 ।।

सप्तविंशोऽध्यायः ।

अथातः कृच्छान् व्याख्यस्यामो । हविष्यान् प्रातराशान् भुक्त्वा तिस्रो रात्रीर्नाश्रीयादथापरं त्र्यहं नक्तं भुञ्जीत अथापरं त्र्यहं न कञ्च न याचेदथापरं त्र्यहमुपवसेत् तिष्ठेदहनि, रात्रावासोत । क्षिप्रकम्मः सत्यं वदेदनार्य्येनं सम्भाषेत , रौरवयौधाजिने नित्यं प्रयुञ्जीतानुसवनमुदकोपस्पर्शनमापोहिष्ठेति तिमृभिः पवित्रवतोभिर्म्मार्ज्जयेत् हिरण्यवर्णाः शुचयः पावका इत्यष्टाभिः । अतोदकतर्पणं । ॐनमो हमाय मोहमाय मंहमाय धुन्वते तापसाय पुनर्वसवे नमो नमो, मोञ्च्यायोर्म्म्याय वसुविन्दाय सर्वविन्दाय नमो नमः, पाराय सुपाराय महापाराय पारसिष्णवे नमो नमो, रूद्राय पशुपतये महते देवाय त्रम्वकायैकचराधिपतये हवाय शर्व्वायेशानायोप्राय वज्रिणे घृणिने कपर्द्दिने नमी नमः, सूर्य्यायादित्याय नमो नमा नीलग्रावाय शितिकण्ठाय नमो नमः, सूर्य्यादित्याय नमो नमा, नीलग्रावाय शितिकण्ठाय नमो नमः, कृष्णाय पिङ्गलाय नमो नमो, ज्येष्ठाय श्रेष्ठाय बृद्धायेन्द्राय हरिकेशायोर्द्धरेतसे नमो नमः, मत्याय पावकाय पावकवर्णाय कामरुपिणे नमो नमो, दीप्ताय दीप्तरुपिणे नमो नमस्तीक्ष्णरुपिणे नमोनमः, सौम्याय सुपुरूषाय महापुरूषाय मध्यमपुरूषायोत्तमपुरूषाय ब्रह्मचारिणे नमो नमश्चन्द्रललाटाय कृत्तिवाससे पिनाकहस्ताय नमो नम इति । एतदेवादित्योपस्थानमेता एवाज्याहुतयो; द्वादशरात्रस्यान्ते चरूं श्रपयित्वैताभ्यो देवताभ्यो जुहुयात् अग्नये स्वाहा, सोमाय स्वाहाग्नीषोमाभ्यामिन्द्राग्निभ्यामिन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतये अग्नये स्विष्टिकृत इति । तता ब्राह्मणतर्पणम् । एतेनैवातिकृच्छ्रो व्याख्यातो यावत् । मकृदाददौत तावदश्रीयादवभक्षस्तृतीयः स कृच्छ्रातिकृच्छ्रः । प्रथमं चरित्वा शुचिः पूतः कर्म्मण्यो भवति । द्वितीयं चरित्वा यत्‌किञ्चिदन्यन्महापातकेभ्यः पापं कुरूते तस्मात् प्रमुच्यते । तृतीयं चरित्वा सर्वस्मादेनसा मुच्यते । अथैतास्नोन् कृच्छ्रान् चरित्वा सर्वेषु वेदेषु स्नातो भवति सर्वैर्द्देवैर्ज्ञातो भवति यश्चैवं वेद यश्चैवं वेद ।
इति गौतमीये धर्म्मशास्त्रे सप्तविंशोऽध्यायः ।। 27 ।।

अष्टाविंशोऽध्यायः ।

अथातश्चान्द्रायणं । तस्योक्तो विधिः ; कृच्छ्रेः वपनं व्रतं चरेत् श्वीभूतां पौर्णमासीमुपवसेदाप्यायस्व सन्ते पयांसि नवो नव इति चैताभिस्तर्पणमाज्यहोमाहविषश्चानुमन्त्रणमुपस्थानं चन्द्रमसो यद्देवा देवहेलनमिति चतमृभिराज्यं जुहुयाद्देवकृतस्येति चान्ते समिद्भिरों भूर्भुवः स्वस्तपः सत्यं यशः श्री रुपं गिरौजस्तेजः पुरूषा धर्म्मः शिवः शिव इत्येतैर्ग्रासानुमन्त्रणं । प्रतिमन्त्रं मनसा नमः स्वाहेति वा । सर्वग्रासप्रमाणमास्याविकारेण चरूभैक्षशक्तुकणयाकशाकपयोदधिघृतमूलफलोदकानि हवींषि । उत्तरात्तरं प्रशस्तानि । पौर्णमास्यां पञ्चदश ग्रासान् भुक्त्वैकापचयेन परपक्षमश्रीयादमावास्यायामुपोष्यैकोपचयेन पूर्वपक्षं विपरीतमेकेषाम् । एष चान्द्रायणो मासो । मासमेतमाप्त्वा विपापो विपाप्मा सर्वमेनो हन्ति । द्वितीयमाप्त्वा दश पूर्वान् दशावरानात्मानञ्चैकविंशं पड्‌क्तीश्च पुनाति । संवत्सरञ्चाप्त्वा चन्द्रमसः सलोकतामाप्नोति सलोकतामाप्नोति ।
इति गौतमीये धर्म्मशास्त्रेऽष्टाविंशोऽध्यायः ।। 28 ।।

एकोनत्रिंशोऽध्यायः ।

ऊर्द्धं पितुः पुत्रा ऋक्यं भजेरन् । निवृत्ते रजसि भातृर्जीवति चेच्छति सर्वं वा पूर्वजस्येतरान् विभृयात् । पूर्ववद्विभागे तु धर्म्मवृद्धिः । विंशतिभागो ज्येष्ठस्य मिथुनमुभयतोद्‌युक्तो रथा गोवृषः । काणखोरकूटषण्डा मध्यमस्य । अनेकश्चेदबिर्धान्यायसीगृहमनोयुक्तं चतुष्पदाञ्चैकैकं यवीयसः । समञ्चेतरत् सर्वं द्व्यंशी वा पूर्वजः स्यादेकैकमितरेषामेकैकं वा धनरुपं काम्यं पूर्वः पूर्वो लभेत । दशतः पशूनां नैकशफः नैकशफानां वृषभोऽधिको ज्येष्टस्य । वृषभषोड़शा ज्यैष्ठिनेयस्य समं वा ज्यैष्ठिनेयेन यवीयसां । प्रतिमातृ वा स्ववर्गे भागविशेषः । पितात्सजेत् पुत्रिकामनपत्येऽग्निं प्रजापतिञ्चेष्ट्वास्मदर्थमपत्यमिति संवाद्याभिसन्धिमात्रात् पुत्रिकेत्येकेषां । तत्संशयान्नोपयच्छेदभ्रातृकाम् । पिण्डगोत्रऋषिसम्बन्धा ऋकथं भजेरन्, रत्री चानपन्यस्य । वीजं वा लिप्सेत देवरवत्यन्यतो जातमभागम् । स्त्रीधनं दुहितृणामप्रत्तानामप्रतिष्ठितानाञ्च । भगिनिशुल्कं सोदार्य्यणामूर्द्धं मातुः पूर्वञ्चैके । संसृष्टविभागः प्रेतानां ज्येष्ठस्य संसृष्टिनि प्रेते असंसृष्टी ऋवथभाक्, विभक्तजः पित्र्यमेव । स्वमर्ज्जितं वैद्योऽवैद्येभ्यः कामं भजेरन् । पुत्रा श्रौरसक्षेत्रजदत्तकृत्तिमगूढ़ोत्‌पन्नापविद्धा ऋक्‌थभाजः । कानीनसहोढ़पौनर्भवपुत्रिकापुत्रस्वयन्दत्तक्रोता गोत्रभाजश्चतुर्थांशभागिनश्चौरसाद्यभावे । ब्राह्मणस्य राजन्यापुत्रो ज्येष्ठो गुणसम्पन्नस्तुल्यांशभाक् ज्येष्ठां शहीनमन्यत् ; राजन्यावैश्यापुत्रसमवाये स यथा ब्राह्मणीपुत्रेण । क्षत्रियाच्चेत् शूद्रापुत्रोऽप्यनपत्यस्य शुश्रूषुश्चेल्लभेत वृत्तिमूलमन्तवासविधिना । सवर्णापुत्रोऽप्यन्यायवृत्ता न लभेतेकेषा । श्रोत्रियो ब्राह्मणस्यानपत्यस्य ऋकथं भजेरन्, राजेतरेषां । जड़क्लोवो भर्त्तव्यावपत्यं जड़स्य भागार्हं शूद्रापुत्रवत् । प्रतिलोमासूदकयागक्षेमकृतान्नेष्वविभागः, स्त्रोषु च । संयुक्तास्वनाज्ञाने दशावरैः शिष्टेरुहवद्भिरलुब्धः प्रसस्तं कार्य्यम् । चत्वारश्चतुर्णां पारगा वेदानां, प्रागुत्तमास्त्रय आश्रमिणः, पृथग्धर्म्मविदस्त्रय, एतान् दशवरान् परिषदित्याचक्षते । असम्भवे त्वतेषाम्‌श्रोत्रियो देवविच्छिष्टा विप्रतिपत्तौ यदाह, यतोऽयमप्रभवो भूतानां हिंसानुग्रहयोगेषु । धर्म्मिणां विशेषेण स्वर्गं लोकं धर्म्मविदाप्नोति ज्ञानाभिनिवेशाभ्यामिति धर्म्मो धर्म्मः ।
इति गौतमीये धर्म्मशास्त्र एकोनत्रिंशोऽध्यायः ।। 29 ।।


***************---------------
"https://sa.wikisource.org/w/index.php?title=गौतमसंहिता&oldid=399580" इत्यस्माद् प्रतिप्राप्तम्