गौरीदशकम् (मूलसहितम्)
शङ्कराचार्यः
१९१०

॥ श्रीः॥
॥ गौरीदशकम् ॥


लीलालब्धस्थापितलुप्ताखिललोकां
 लोकातीतैर्योगिभिरन्तश्चिरमृग्याम् ।
बालादित्यश्रेणिसमानद्युतिपुञ्जां
 गौरीमम्बामम्बुरुहाक्षीमहमीडे ।। १ ।।

प्रत्याहारध्यानसमाधिस्थितिभाजां
 नित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीम् ।
सत्यज्ञानानन्दमयीं तां तनुरूपां
 गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ २ ॥

चन्द्रापीडानन्दितमन्दस्मितवक्त्रां
 चन्द्रापीडालंकृतनीलालकभाराम् ।
इन्द्रोपेन्द्राद्यर्चितपादाम्बुजयुग्मां
 गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ३ ॥

आदिक्षान्तामक्षरमूर्त्या विलसन्तीं,
 भूते भूते भूतकदम्बप्रसवित्रीम् ।
शब्दब्रह्मानन्दमयीं तां तटिदाभां
 गौरीमम्बामन्बुरुहाक्षीमहमीडे ।। ४ ।।

मूलाधारादुत्थितवीथ्या विधिरन्ध्रं
 सौरं चान्द्रं व्याप्य विहारज्वलिताङ्गीम् ।
येयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपां
 गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ५॥

नित्यः शुद्धो निष्कल एको जगदीशः
 साक्षी यस्याः सर्गविधौ संहरणे च ।
विश्वत्राणक्रीडनलोलां शिवपत्नीं
 गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ६ ॥

यस्याः कुक्षौ लीनमखण्डं जगदण्डं
 भूयो भूयः प्रादुरभूदुत्थितमेव ।
पत्या सार्धं तां रजताद्रौ विहरन्तीं
 गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ७ ॥

यस्यामोतं प्रोतमशेष मणिमाला-
 सूत्रे यद्वत्क्वापि चरं चाप्यचरं च ।
तामध्यासज्ञानपदव्या गमनीयां
 गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ८ ॥

नानाकारैः शक्तिकदम्बैर्भुवनानि
 व्याप्य स्वैरं क्रीडति येयं स्वयमेका ।
कल्याणीं तां कल्पलतामानतिभाजां
 गौरीमम्बामम्बुरुहाक्षीमहमीडे ।। ९ ।।

आशापाशक्लेशविनाशं विदधानां
 पादाम्भोजध्यानपराणां पुरुषाणाम् ।
ईशामीशार्धाङ्गहरां तामभिरामां
 गौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ १० ॥

प्रातःकाले भावविशुद्धः प्रणिधाना-
 द्भक्त्या नित्यं जल्पति गौरीदशकं यः ।
वाचां सिद्धिं संपदमग्र्यां शिवभक्तिं
 तस्यावश्यं पर्वतपुत्री विदधाति ॥ ११ ॥

"https://sa.wikisource.org/w/index.php?title=गौरीदशकम्_(मूलसहितम्)&oldid=289352" इत्यस्माद् प्रतिप्राप्तम्