← पञ्चमोध्यायः षष्ठोध्यायः
घेरण्डः
सप्तमोध्यायः →

<poem> घेरण्ड उवाच- स्थूलं ज्योतिस्तथा सूक्ष्मं ध्यानस्य त्रिविधं विदुः। स्थूलं मूर्तिमयं प्रोक्तं ज्योतिस्तेजोमयं तथा। सूक्ष्मं बिन्दुमयं ब्रह्म कुण्डलीपरदेवता ॥१॥
अथ स्थूलध्यानम्। स्वकायहृदये ध्यायेत् सुधासागरमुत्तमम्। तन्मध्ये रत्नद्वीपं तु सुरत्नवालुकामयम् ॥२॥
चतुर्दिक्षु नीपतरुं बहुपुष्पसमन्वितम्। नीपोपवनसंकुलैर्वेष्ठितं परिखा इव ॥३॥
मालतीमल्लिकाजातीकेशरैश्चम्पकैस्तथा। पारिजातैः स्थलपद्मैर्गन्धामोदितदिङ्मुखैः ॥४॥
तन्मध्ये संस्मरेद्योगी कल्पवृक्षं मनोहरम्। चतुःशाखाचतुर्वेदं नित्यपुष्पफलान्वितम् ॥५॥
भ्रमराः कोकिलास्तत्र गुञ्जन्ति निगदन्ति च। ध्यायेत्तत्र स्थिरो भूत्वा महामाणिक्यमण्डपम् ॥६॥
तन्मध्ये तु स्मरेद्योगी पर्यङ्कं सुमनोहरम्। तत्रेष्टदेवतां ध्यायेत्यद्ध्यानं गुरुभाषितम् ॥७॥
यस्य देवस्य यद्रूपं यथा भूषणावाहनम्। तद्रूपं ध्यायते नित्यं स्थूलध्यानमिदं विदुः ॥८॥
प्रकारन्तरम्। सहस्रारे महापद्मे कर्णिकायां विचिन्तयेत्। विलग्नसहितं पद्मं द्वादशैर्दलसंयुतम् ॥९॥
शुक्लवर्णं महातेजौ द्वादशौर्बीजभाषितम्। हसक्षममलवरयुं हसखफ्रें यथाक्रमम् ॥१०॥
तन्मध्ये कर्णिकायां तु अकथादि रेखात्रयम्। हलक्षकोणसंयुक्तं प्रणवं तत्र वर्तते ॥११॥
नादबिंदुमयं पीठं ध्यायेत्तत्र मनोहरम्। तत्रोपरि हंसयुग्मं पादुका तत्र वर्तते ॥१२॥
ध्यायेत्तत्र गुरुं देवं द्विभुजं च त्रिलोचनम्। श्वेताम्बरधरं देवं शुक्लगन्धानुलेपनम् ॥१३॥
शुक्लपुष्पमयं माल्यं रक्तशक्तिसमन्वितम्। एवंविधगुरुध्यानात् स्थूलध्यानं प्रसिध्यति ॥१४। अथ ज्योतिध्यानम्। घेरण्ड उवाच कथितं स्थूलध्यानं तु तेजोध्यानं शृणुस्व मे। यद्ध्यानेन योगसिद्धिरात्मप्रत्यक्षमेव च ॥१५॥
मूलाधारे कुण्डलिनी भुजगाकाररूपिणि। जीवात्मा तिष्ठति तत्र प्रदीपकलिकाकृतिः। ध्यायेत्तेजोमयं ब्रह्म तेजोध्यानं परात्परम् ॥१६॥
प्रकारन्तरम्। भ्रुवोर्मध्ये मनेर्ध्वे च यत्तेजः प्रणवात्मकम्। ध्यायेत् ज्वालावतीयुक्तं तेजोध्यानं तदेव हि ॥१७॥
अथ सूक्षमध्यानम्। घेरण्ड उवाच तेजोध्यानं श्रुतंचण्ड सूक्ष्मध्यानं शृणुस्व मे। बहुभाग्यवशाद् यस्य कुण्डली जाग्रती भवेत् ॥१८॥
आत्मना सहयोगेन नेत्ररन्ध्राद्विनिर्गता। विहरेद राजमार्गे च चञ्चलत्वान्न दृश्यते ॥१९॥
शाम्भवीमुद्रया योगी ध्यानयोगेन सिध्यति। सूक्ष्मध्यानमिदं गोप्यं देवानामपि दुर्लभम् ॥२०॥
स्थूलध्यानाच्छतगुणं तेजोध्यानं प्रचक्षते। तेजोध्यानाल्लक्षगुणं सूक्ष्मध्यानं परात्परम् ॥२१॥
इति ते कथितं चण्ड ध्यानयोगं सुदुर्लभम्। आत्मा साक्षाद् भवेद् यस्मात्तस्माद्ध्यानं विशिष्यते ॥२२॥

इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगप्रकरणे सप्तमसाधने ध्यानयोगो नाम षष्ठोपदेशः ॥