चतुरध्यायात्मक-पातञ्जल-योग-सूत्रम्

पातञ्जल योगसूत्राणि

प्रथमोऽध्यायः

सम्पाद्यताम्

1.1 अथातो युज्यते क्रियाम्।

1.2 तदनुशासनम् सर्वस्मिन्नपि।

1.3 आत्मनः प्रत्यवायेषु व्यवसायेषु च योगात्।

1.4 योगश्चित्तवृत्तिनिरोधः।

1.5 वृत्तयोऽक्रियाविपरिणामात् अर्थविपरिणामः।

1.6 तच्च गुणवत्त्वात्।

1.7 पदार्थानुदेशे मनोविभ्रान्तिः।

1.8 तन्निरोधोभिविषयात्।

1.9 अर्थक्रियायाम् सिद्ध्यादिविरोधात्।

1.10 सर्वत्र विपरिणामे मिथ्यात्वम्।

1.11 कालदेशाभ्याम् तद्विपर्ययम्।

1.12 सङ्ख्यापूर्वकस्तद्व्यवहारभेदः।

1.13 तत्त्वानाम् क्रियानिर्वचनेऽनवकाशात्।

1.14 निरोधस्यापि प्रयत्नपरत्वात्।

1.15 युज्यते समाधिना समधिकरणमात्मनि संयोगात्।

1.16 मनश्चित्ताभ्याम् बुद्ध्या च निग्रहणम्।

1.17 इन्द्रियादेर्वृत्तेर्निवर्त्तनात्।

1.18 सत्त्वेऽज्ञानविपर्ययात्।

1.19 तन्मन्त्राधाराभ्यासात्।

1.20 लभते तदुपासनात् क्रियानिवृत्तेश्च।

1.21 तत्त्वानामात्मनः संस्करणम्।

1.22 निदिध्यासनमर्थेऽसंपर्कात्।

1.23 संयुक्ते वृत्तेरनवरोधाद्विरोधः।

1.24 प्रतिभासमाने निरस्ते त्वात्मकल्पनम्।

1.25 तदध्यासेन शक्तेर्वृद्धिः।

1.26 कालादिनिरोधेन तत्संस्करणम्।

1.27 कालादेशयोर्वृत्त्यवयवनिरोधात्।

1.28 कर्मणामिन्द्रियाणां च प्रत्यवायात्।

1.29 सर्वत्राधारे तदात्मने वृत्तिरनवस्थनात्।

1.30 अन्यस्मादपि कालदेशाभ्याम् सम्यग्विसर्गः।

1.31 सर्वस्य तत्त्वपरिहारात्।

1.32 परिज्ञानाच्च।

1.33 बुद्धिवृत्त्या सर्वस्यावरोधः।

1.34 अहंकृतो भावपरिहारात्।

1.35 शारीरकक्रियया सर्वावरोधस्य संस्कारेण तदधिकरणे शमनम्।

1.36 आत्मनि सिद्धरभियोगात्।

1.37 समाधौ नाभिव्याप्तेः।

1.38 तस्मिन्नवरोधे कालदेशाभ्यामविपर्ययः।

1.39 त्यागस्य मुख्यत्वात्।

1.40 सर्वं क्रियायोगे तदात्मयोगे च तदर्थेनानुसन्धानात्।

1.41 निवृत्तिमूलको विहिताविहितः।

1.42 प्रवृत्तेश्च सामान्येनावरोधः।

1.43 युज्यमानधर्मेणैव पदार्थाश्रयणवृत्तिनिवृत्तिः।

1.44 स्थैर्ये समधिकरणे समाधिः।

1.45 समाधौ द्वयोरप्यवरोधः।

1.46 बहिरन्तरयोः क्रियाकालयोश्चैकप्रदेशात्।

1.47 शक्तेः क्रियायामभियोगे कलेवरोदयः।

1.48 सर्वत्र प्रवृत्तिनिवृत्त्योरेकमात्रत्वात्।

1.49 अधिकारे त्वात्मनः समभियोगात्।

1.50 आत्मोदयः सार्वकालिकत्वे संवित्प्रम।

1.51 शक्तेश्च प्रमयाभियोगेन च सिद्ध्यधिकरणम्।

1.52 अन्तराधिकरणेन बाह्याधिकरणदर्शनम्।

1.53 व्यवहिताव्यहिताभ्याम् कालदेशाभिव्याप्तिः।

1.54 व्यवहितत्वावरोधो निवृत्तेर्बीजम्।

1.55 अव्यवहितशासनात्।

1.56 आत्मन्यवयवेत्वव्यवहितत्वम्।

1.57 पञ्चभूतानाम् क्रियाभेदस्यानवगम्यात्।

1.58 ज्ञानावकाशेन सर्वप्रकाशः।

1.59 तस्य श्लिष्टावरोधाभावात्।

1.60 अनिमित्तं च।

1.61 इत्थं करणे नित्ये सर्वनिमित्तम्।

1.62 अविभेदस्य प्रवृत्तिमूलकत्वात्।

1.63 चेष्टाधिकारे तदभ्यासे च।

1.64 क्रियावृत्तौ समधिकरणमपवर्गः।

1.65 सिद्धेश्च सर्वत्रावधाने सन्तन्त्रम्।

1.66 समधिकरण श्वाससंस्कारात्।

1.67 यमनियमाभ्यां तत्साधनम्।

1.68 आसनादेव दैर्ध्यात् शरीरप्रत्यवायः।

1,69 इन्द्रियार्थ सन्निकर्षनिग्रहहेतुः।

1.70 प्राणायामस्य चात्मनि संस्कारात्।

1.71 निवृत्तिरूपस्य समाधावभिधानात्।

1.72 अनवधाने सर्वस्य च हेयात्।

1.73 श्वासप्रश्वासयोरान्तर्येण क्रियायाः सन्निकर्षात्।

1.74 धारणा समाभ्यन्तरेषु बाह्यवृत्तेस्तिरस्काराः।

1.75 तच्च विरागात्।

1.76 तयोरपि चित्तप्रतिरोधात्।

1.77 समुत्पद्यते च कालव्यायामात्।

1.78 देशाद्यनवच्छिन्ने सिद्धेस्तिरस्करणम्।

1.79 मनोऽवग्रहात् चित्तावग्रहेण कालसमवायादात्मनि स्थितिः।

1.80 आत्मसमवाये तदभावे चापवर्गो हेयः।

1.81 वृत्तिनाम् व्यायामाधिकारेत्वनवस्थानात्।

1.82 कालदेशाधिकारे क्रियाधिकारे च प्रत्यन्तरदर्शनात्।

1.83 संख्यादेरभावादव्यवहिताच्च।

1.84 कालक्रिययात्वनवधानशक्तेर्बलवत्त्वात्।

1.85 गतेः सङ्ख्यानवच्छिन्ने भेदत्रयाधिकारात्।

1.86 कालव्यायामेन क्रियाव्यायामस्य सर्वत्र विरामः।

1.87 आत्मनोभियोगात् कालाभियोगाच्च देशक्रियाभ्याम् दीर्घत्वम्।

1.88 अप्रसङ्गोपसङ्गयोः श्वासेनाभिलक्षणात्।

1.89 श्वासस्तम्भनात्प्रकृतेः स्तम्भनम्।

1.90 संसरणस्तम्भनविरेचनविभावनसम्भावनादेस्तिरस्कारात्।

1.91 परिस्फुटवृत्तौ चित्तविश्लेषः।

1.92 तमःप्रकाशयोरपि तेनान्तर्यम्।

1.93 तच्च स्थानकृतम् कालकृतं च।

1.94 अनवस्थादेः संप्रकाशत्वात्।

1.95 अव्यवहितक्रियया निर्योगात्।

1.96 इन्द्रियावरोधान्मनोऽवरोधाच्च संस्थितिः।

1.97 क्रियाप्रतिरोधे समाधेश्चञ्चलत्वम्।

1.98 तद्धारणायाम् अभिव्यक्तेः प्रस्थितिः।

1.99 कालाधिकरणे क्रियाधिकरणे च तत्संश्लेषः।

1.100 आत्मकृतेकालसंस्करणात्।

1.101 श्वासावरोधव्यायामेन चित्तावग्रहः।

1.102 अनिश्चितकालदेशाभ्यां तत्संक्षतेरधिकारात्।

1.103 असंशयितकालेन मनोवृत्तेर्निरोधावभासात्।

1.104 सम्यक्काले तं धत्तेश्चानकाशः।

1.105 कालधर्मेण क्रियाधर्मण च प्रत्यबाधितः।

1.106 आत्मनोऽभियोगः कालसङ्ग्रहात्।

1.107 प्राणायामस्य तन्निदिध्यासनस्य च संपर्के सूक्ष्मत्वम्।

1.108 कालदेशयोः प्राणादिवृत्तेश्च समाधौ सन्नियोगात्।

1.109 वृत्त्युदयेऽनवकाशः।

1.110 क्रियाकालोदये च सर्वावकाशः।

1.111 समभियोगे न वृत्त्यादेरध्यासः ।

1.112 अनवधानिके देशे श्वासादेरवकाशः।

1.113 अन्तराक्षिप्त बाह्याक्षिप्तस्य च तद्देशेन संवणात्।

1.114 अनवस्थानादधिकारात् वृत्त्युपलक्षणाच्च।

1.115 आश्रुतेरभ्यासः।

1.116 प्रत्यह्ना स्वकृताभ्यासस्मरणात्।

1.117 सङ्कल्पावगम्ये विकल्पानिर्बाधः।

1.118 आधिभौतिकानां क्रियायां त्वविपरिणामात्।

1.119 आत्मन्यवकाशे न विपर्ययाभिव्याप्तिः।

1.120 शेषेण संस्कारस्य कालेनाभिदर्शनात्।

1.121 देशप्रसङ्गे संख्याकालयोरभेदात्।

1.122 वृत्त्यनवच्छिन्ने कालाद्यनवच्छिन्नत्वं धारणाभ्युपहितं श्वासप्रश्लेषः।

1.123 अनेकेन वृत्त्या चात्मनो व्यवच्छेदात्।

1.124 कृतेर्व्यवच्छेदेन शक्तिमूलकत्वात्।

1.125 क्रियाभ्यासे संसिद्धेः कालविमर्षणात्।

इति पातञ्चलीये योगसूत्रे योगसूत्रे प्रथमोऽध्यायः।

( written on 28-4-1910 to the dictation of Pandit Dhanaraj )

द्वितीयोऽध्यायः

सम्पाद्यताम्

2.1 प्रकृत्यनवस्था विनष्टे क्लेशनाशः।

2.2. तत्संस्करणं विभूतिः।

2.3 शक्तिव्यवच्छेदात्।

2.4 तच्च प्रमाणपरम्।

2.5 प्रत्यक्षानुमानागम सन्निहितानि प्रमाणानि।

2.6 प्रमेये तत्त्व सन्निकर्षस्तदवरोधश्च।

2.7 विभूत्यधिकारे सर्वक्रियासिद्धः।

2.8 शक्तिसिद्ध्या मनःसाध्यम्।

2.9 प्रकृत्यवग्रहेण सर्ववृत्तीनाम् निरोधसिद्धिः।

2.10 आत्मनोऽभ्युपगमत् ।

2.11 शक्तिव्यवच्छेदे प्रकृतिव्यवच्छेदः।

2.12 प्रमाणाभ्युपगमसिद्धेः कारणात्।

2.13 प्रकृत्यनवस्थानमं क्रियासिद्धानां तद्धर्मेणाविष्कारः।

2.14 अर्थोदये लब्धसिद्धिः।

2.15 तत्तिरस्कृतम्।

2.16 प्रकृतिसाम्ये वृद्ध्युपहाराद् विभूतिसिद्धिः।

2.17 तत्त्वसंस्कारात्।

2.18 शक्त्यासने क्रियासमन्वयः।

2.19 आत्मसमन्वये वृत्तिसमन्वयः।

2.20 श्वाससमासेन क्रियाभियोगात्।

2.21 प्रकृत्यनवस्थाने मनोऽनवस्थानत्वात्।

2.22 आत्मसंस्कारे कृयासंस्कारस्य व्यवच्छेदात्।

2.23 प्रवृत्तिसत्त्वे प्रकृत्या निबन्धनम्।

2.24 निवृत्तिसत्त्वे सर्वप्रतिरोधः।

2.25 निरुद्धे सत्त्वे सर्वसत्त्वम्।

2.26 अन्तर्वृत्त्या श्वासप्रश्वासयोर्निर्धारणम्।

2.27 तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः।

2.28 प्रकृतिवृत्त्यां श्वासप्रश्वासयोरवस्थानः प्रथमः।

2.29 तच्च मनोऽविग्रहात्।

2.30 अनभिस्नेहे सर्वप्रतिषेधः।

2.31 क्रियासत्त्वे लोकस्थितिः।

2.32 सिद्धेस्तिरस्कारात्।

2.33 समवाये सत्यात्मनः श्वासप्रश्वासयोरभिनवात्।

2.34 तत्त्वानां विवेचनात्सर्वार्थसिद्धिः।

2.35 तद्गुणेनेन्द्रियाद्यवरोधः।

2.36 मनोव्यवच्छेदेन तद्भावाधिकरात्।

2.37 आत्मसमवाये क्रियाऽव्यवहितत्वात्।

2.38 इन्द्रियार्थानां त्वात्मनि संश्लेषात्।

2.39 प्रकृत्यान्तर्यभावात्।

2.40 आत्मनो व्यायामाधिकरणं श्वासप्रश्वासधारणहेतुः।

2.41 समभ्युपगमे श्वासप्रश्वासयोर्निरिक्षणं कालेन।

2.42 बाह्याभ्यन्तरयोः श्वासविषयारोधात्।

2.43 आभ्यान्तरश्वासो निर्धारणं सम्पत्तिः।

2.44 बाह्यश्वासप्रक्षेपः क्रियाभिपत्तिः।

2.45 तयोः स्तम्भनम् कालविपरिणामात्।

2.46 बाह्याभ्यन्तर श्वासव्यवच्छेदो द्वितीयः।

2.47 सङ्ख्या समवायात्।

2.48 द्रव्यादेर्निवत्तनम्।

2.49 तद्गुणानाम् प्रतिषेधात्।

2.50 बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः।

2.51 आत्मसंस्कारागमप्रत्याहारैः च।

2.52 अनालोचने श्वासप्रश्वासयोरान्तर्ये तृतीयः।

2.53 लोकानागतातीत विच्छेदात्।

2.54 अनागतातीतयोश्चात्मनि निदिध्यासनात्।

2.55 संस्कारवृत्तौ फलहेतुरनिच्छितस्य विच्छेदात्।

2.56 क्षीयते प्रकाशावरणात्।

2.57 कालदेशसङ्ख्याभिः समन्वये सर्वत्राधिकारः।

2.58 कालान्निरुध्यते क्रिया।

2.59 देशात्सम्बध्यते संस्कारः।

2.60 सङ्ख्यायाश्च समभिवरणात्।

2.61 अन्तर्धौ सञ्जनित प्रकृत्यापूरात्।

2.62 तत्त्वानां विप्रतिषेधस्य साम्यात्।

2.63 अन्तर्गतवृत्तीनाम् श्वासेनावधारणात्।

2.64 बाह्यवृत्तिविपरिणामः साध्योऽर्थः।

2.65 पञ्चक्लेशनिवर्त्तनात्।

2.66 रागद्वेषयत्नसुखदुःखानि सन्निहितक्लेशानि।

2.67 प्रकृत्यवस्थानेरमृतवस्थानम्।

2.68 स्मृत्याम् बुद्धिपरिणयः।

2.69 तत्र विषयाक्षेपः।

2.70 समाक्षिप्ते क्लेशकारणम्।

2.71 तदनवस्थानादात्मयुक्तिः।

2.72 बाह्याभ्यान्तरविषयाक्षेपी चतुर्थः।

2.73 तत्त्वात्मसन्निधाने तयोः सन्निधानम्।

2.74 अनवक्षिप्तकालसङ्ख्याभ्याम् तिरस्कारात्।

2.75 तत्त्वार्थादर्शनपर्याप्ति फलाश्रयात्।

2.76 युक्तेत्वत्मन्यमृतम्।

2.77 सर्वतत्त्वेषु तद्गतिः।

2.78 शब्दयोगादाकाशस्थितिः।

2.79 सर्वत्र श्वासेन सञ्चरण समधिकरणात्।

2.80 तत्तद्गुणेन द्रव्य विच्छेदः।

2.81 सत्त्वात्मवृत्तौ रजस्तमोनिवर्त्तनम्।

2.82 सर्वनिष्ठातत्त्वेन श्वासप्रश्वासयोर्निर्धारणं पञ्चमः।

2.83 प्राणादेस्तिरस्कारात्।

2.84 वाय्वाकाशान्तरस्थितिस्समधिकरण संसकारात्।

2.85 निरोधप्रतिरोधादेः स्वगानात्।

2.86 दुःखजन्मप्रवृत्तीनामपायः।

2.87 आत्मना न तप्यते सर्वतिरस्कारात्।

2.88 श्वासप्रश्वासयोः स्वतन्त्रात्।

2.89 देशकालसङ्ख्याभिः वृत्तिविच्छेदात्।

2.90 निग्रहणं कालसम्बन्धेन श्वासाभियोगे।

2.91 द्रव्यगुणभूतानाम् अनवस्थभिरामात्।

2.92 स्वेच्छया तन्त्रेणाभिधारणम्।

2.93 निवृत्तिपूर्वक संस्कारप्रस्थितिः।

2.94 अवस्थासंसर्गेण फलाप्तेः संस्कारः।

2.95 तत्क्रियानन्ताश्च।

2.96 श्वासप्रश्वासनिश्वासधर्मेण प्राणायामेषु परिणयः।

2.97 प्राणायामस्थितस्य तत्त्वाधिकारात्।

2.98 प्रकृताधिकारे तद्विभेदे च तन्त्र वैलक्षण्यात्।

2.99 अन्तर्लक्षणेत्वात्मसिद्धिविस्तारः।

2.100 सर्वप्रसारणगमनादेः स्वतन्त्रात्।

2.101 श्वासेन सर्वाप्तिः समवायात्।

2.102 आकालिक सङ्ख्यादेशानाम् तत्त्वविमर्शः।

2.103 क्रियासिद्धोपसिद्धानाम् श्वासे स्थितिः।

2.104 प्रश्वासात् सर्वनिष्कर्षः।

2.105 प्राणायामे ब्रह्मोदयनिर्देशात्।

2.106 पृथिव्यप्तेजोवाय्वा काशेषु निरस्तम्भनः।

2.107 आत्माधिकरणे श्वासप्रश्वासाभ्यां सर्वनियन्त्रणम्।

इति पातञ्चलीये योगसूत्रे योगसूत्रे द्वितीयोऽध्यायः।

(written on 30-4-1910)

तृतीयोऽध्यायः

सम्पाद्यताम्

3.1 श्वासप्रश्वासयोर्विसर्गेण कैवल्यस्थितिः।

3.2 प्रत्यगात्मनि प्रकृत्यानियोगः।

3.3 मनोऽवस्थाने संसर्गव्यायामे च श्वासप्रक्षेपः।

3.4 अर्थकारणत्वे कैवल्याभ्यासः।

3.5 मनोऽव्यवच्छेदे वाय्वन्तरात्मकत्वात्।

3.6 श्वासानवस्थाने प्रश्वासनियोजनम्।

3.7 बाह्याभ्यन्तरयोः संप्रयोज्यमानत्वात्।

3.8 पञ्चक्लेशानाम् चाभिगतवारणम्।

3.9 द्वेषप्रयत्नरागत्रितय संस्कारनाशः।

3.10 अभिलक्षणे प्रश्वासान्तरे निवासः।

3.11 तत्तवानुभूतेऽवगम्ये च।

3.12 कालक्रियासिद्धौ वृत्त्यन्तरापायात्।

3.13 सिद्धे विमोक्षे सत्त्वमात्मनि योगः।

3.14 श्वासावधारणात्।

3.15 प्राणायामे व्यायामतत्त्वं मनोऽवगृह्यते।

3.16 नित्याधिकारे सम्भावनत्वात्।

3.17 आभ्यन्तरश्वासे विषयाक्षेपः।

3.18 प्रश्वासे प्रवृत्त्याक्षेपः।

3.19 आसत्त्वे जगतोत्त्वेन्ऽन्तवृत्तेः।

3.20 निष्क्लेशे सर्वाप्तिप्रयोगात्।

3.21 कर्मकालाभ्यां वृत्तेर्निग्रहणात्।

3.22 इन्द्रियानुगमनं तदर्थेभ्यश्च।

3.23 सौम्यवृत्तौ निकर्षक्षयः।

3.24 सन्निकृष्टे दोषापायात्।

3.25 दुःखजन्मप्रवृत्तीनाम् संशयानाम् च निबर्हणात्।

3.26 आकालदेशाभ्याम् जन्मतो निष्कर्षणम्।

3.27 दृष्टेरूपलब्धेश्च श्वासप्रश्वासाभ्याम् शेषः।

3.28 कृत्रिमे शक्तिप्रधानः।

3.29 मनोऽ भिव्याप्तौ कार्यस्मरणाभिव्यक्तिः।

3.30 अनैरन्तर्यात् बहुजन्यज्ञानम्।

3.31 तत्र जन्मकल्पनञ्च।

3.32 तत्रावस्था व्यवच्छेदात् संरणपरिग्रहः।

3.33 श्वासप्रश्वासाभ्याम् च्मि औमित्यवधारणम्।

3.34 तत्रोपन्यासश्च।

3.35 स्वाभ्युपगमस्थितित्वात्।

3.36 प्रश्वासव्यवहारेण नियन्त्रितात्मानम् प्रदृश्यः।

3.37 जगतो वैषम्यात्।

3.38 अन्तर्धौ कालशक्तेश्च क्रियाशक्तेश्च निग्रहणम्।

3.39 अवरोधप्रतिरोधाभ्याम् तस्मिन्नवस्तम्भनम्।

3.40 सन्निकर्षे क्रियाभिव्याप्तौ दृष्ट्यर्थः।

3.41 भ्रूमध्ये चात्मनो लिङ्गप्रदर्शनम्।

3.42 रूपान्तरे क्रियापायात्।

3.43 गुणगुणिनो निर्द्रव्यावगम्यात्।

3.44 आत्मनस्स्वरूपे त्ववैषम्यात्।

3.45 निर्दृष्टे तत्त्वे सर्वापाये निवृत्त्यात्मकः।

3.46 कालाभिलक्षणे क्रिया वैलक्षण्यम्।

3.47 श्वासानुकर्षणात् प्रश्वासस्थितिः।

3.48 अन्तर्बाह्ययोः सङ्ख्यायाम् संयोगात्।

3.49 आलक्षणे कालदेशक्षेपः।

3.50 ततस्तद्विषयाक्षेपः।

3.51 निकृष्टे शब्दे सर्वादेरभावः।

3.52 सिद्धेऽपवर्गे शब्दत्यागः।

3.53 इच्छाप्रकृतिपरा तत्साधर्म्यात्।

3.54 साध्याभिलक्ष्ये तेजो वरेण्यः।

3.55 तत्त्वानामपाये चापवर्गापायः।

3.56 संस्थैर्यं तदान्तर्य वृत्त्या निष्कर्ष योगात्।

3.57 कृत्रिमाकृत्रिमयोः सांसर्गिके स्थितिः।

3.58 श्वासवरणात्।

3.59 प्रश्वासे कालादेर्निगमनात्।

3.60 गन्धादेः पञ्चगुणाः परिणये सम्क्षीयन्ते।

3.61 आत्मक्लेशप्रकृत्यपायभेदात्।

3.62 प्रतिलक्षणे विकृतेरवारकत्वात्।

3.63 विक्रियादौ कैवल्यवारणात्।

3.64 कालदेशाभ्यां निष्क्लेशाभ्युदये त्वसर्गः।

3.65 श्वासप्रश्वासयोस्सर्वहेतौ निबध्नम्।

3.66 श्वासानुबन्धने सर्वत्र प्रबन्धः।

3.67 सर्वानुबन्धने मनोऽवग्रहात्म निबन्धनम्।

3.68 कालकृतेः विसर्गारंभात्।

3.69 आक्षिप्ते परावरे तत्त्रयः।

3.70 कृत्रिमे समाधौ चात्मतन्त्रत्वात् स्थितिः।

3.71 अन्तर्व्यायामे क्लेशादेः समक्षेपात्।

3.72 प्रक्षिप्तवृत्तौ श्वासान्तराकर्षण क्रियाहेतुः।

3.73 प्राणापानाभ्याम् निर्धारणम् शक्तिलयः।

3.74 व्यानोदानाभ्याम् चान्तर्निवेशः।

3,75 समानोदादानाभ्याम् प्रश्वासनिवृत्तिः।

3.76 व्यानापानाभ्याम् विषयाक्षेपः।

3.77 पञ्चभिः प्राणैः क्रियाव्यपदेशात्।

3.78 व्यवसायात्मकानां तत्त्वपरिणयाच्च।

3.79 रूपरसाभ्यां श्वासप्रश्वासप्रवृत्तिः।

3.80 उत्क्षेपणप्रक्षेपणाभ्यां निरोधनस्तम्भः।

3.81 संवृत्तौ प्राणायामे कालसङ्ख्याभ्यां निष्कृष्टः।

3.82 प्रारब्धसञ्चितानाम् प्रतिषेधात् क्लेशच्छेदः।

3.83 प्रकृत्यामभिरामे तत्संक्षिप्तहेतुः।

3.84 कालसङ्ख्याभिरामपि व्यवहार सङ्क्षिप्तहेतुः।

3.85 संसृतिनाशश्च।

3.86 नित्यानित्ययोर्व्यभिचारात्।

3.87 शक्तिपरिग्रहे परिमित तत्त्वप्रतिषेधः।

3.88 आवर्णिते तमसि सङ्काशः।

3.89 कालावकाशे क्रियावकाशे च आत्मप्रकाशः।

3.90 निरोधवृत्तावपि दोषसङ्काशात्।

3.91 कालेनार्थ व्यवच्छेदेन श्वासप्रश्वास संशयः।

3.92 इत्थं कैवल्यमावात्मतत्त्वम्।

3.93 सङ्ख्योदये सर्वविच्छेदात्।

3.94 आगमोदये प्रारब्धोदयात्।

3.95 युक्ते प्रारब्धनाश संस्कारः।

3.96 अर्थे सञ्चिताभावस्थितिः।

3.97 लये ब्रह्मणि विपर्ययः।

3.98 नैरन्तर्ये श्वासमार्गः।

3.99 स्थैर्ये प्रश्वासगमः।

3.100 बुद्धिव्यवच्छेदे रजस्तमोभिनाशः।

3.101 एवं श्वासे संसृतिनिवर्हणम्।

3.102 प्रकृतिसंसृतिमूले चाहमितत्त्वम्।

3.103 संसृतिनष्टे द्वेषादिविनाशः।

3.104 स्फुटितेऽहमि निषेधनिग्रहः।

3.105 प्राणापानयोः श्वासनिक्षेपात्।

3.106 इन्द्रियानां तदर्थानां च प्रश्वासनिक्षेपात्।

3.107 कण्ठकूपे पर्याप्त्यमृतम्।

3.108 तच्च श्वासपरानवगम्यात्।

3.109 आत्मप्रदानप्रदेशात्।

3.110 नमितोऽर्थसमाधिकरणसङ्क्षेपात्।

3.111 संस्कस्कारजनितानां स्मृतीनां विनष्टे सर्वप्रत्यक्षम्।

3.112 करिष्यमाण कार्ये सङ्कल्पाभिरोधात्।

3.113 तदन्तरेणप्रति स्मृत्युदयः।

3.114 तन्निरोधे चानुस्मृतिसम्भवः।

3.115 त्रितयविच्छेदे प्रश्वासावरणात्।

3.116 आवृत्तौ निर्देकालसङ्ख्याक्रमात्।

3.117 युक्तेत्वभिन्नत्वं तद्भवति।

3.118 संवृत्ते कालसर्गात्तद्विसर्गाच्च।

3.119 नियमिते संस्कारे पर्जन्यामृतम्।

3.120 आत्मनिदिध्यासे निर्बन्धः प्रकृतीनाम्।

3.121 क्रियमाणायां क्रियायां मनोऽनवकाशात्।

3.122 तदनुपूर्व्याफलारोधात्।

3.123 कर्तृकत्वे शक्त्यन्तरामासविरोधः।

3.124 तन्निक्षेपे प्रत्यन्तराबाधितापायप्रयोगः।

3.125 असिद्धवादे वाय्वाकाश नैरन्तर्यम्।

3.126 आत्मनः प्रस्फुरणात्।

3.127 स्पन्दस्फुरणाभ्यां श्वासप्रश्वासयोः पुनरुत्पत्तिहेतुः।

3.128 तन्निरोधे स्वशक्तितन्त्रेणावगतिः।

इति पातञ्चलीये योगसूत्रे योगसूत्रे तृतियोऽध्यायः।

(written on 30-4-1910)

चतुरर्थोऽध्यायः

सम्पाद्यताम्

4.1 यमनियमाभ्यामिन्द्रियार्थपरिग्रहः।

4.2 इन्द्रियाणन्तदर्थेभ्यः सांम्यमोपायात्।

4.3 श्वासप्रश्वासाभ्यामात्मनः स्थैर्यं विकल्पोपवादः।

4.4 तच्च संयमासनाभ्यां निष्कर्षः।

4.5 व्यपदेशप्रतिरोधाभ्यां समासः।

4.6 निरोधप्रश्वासयोरिन्द्रियार्थाधिकारात्।

4.7 श्वासप्रतिरोधाभ्याम् दृष्टः।

4.8 कालेनेन्द्रियार्थ निग्रह संयमात्।

4.9 सिद्ध्याद्यवरोधे प्रश्वास नियोजनम्।

4.10 धृतेश्च।

4.11 कर्मणां व्यायाम श्वासप्रश्वासाभ्यां प्रस्फुरणम्।

4.12 स्पन्दस्फुरणाभ्यां दृद्ध्याप्तिः।

4.13 स्फूर्त्या सिद्धयः समस्ता इमे।

4.14 सत्यात्प्रियात् प्रहृष्टाच्च।

4.15 यमनियमाभ्यां प्राणायामे न क्रिया संश्लेषः।

4.16 श्लिष्टप्रत्याहारेण क्लेशविच्छेदः।

4.17 प्रवर्त्तितचित्तवृत्तीनाम् संयमनियमाश्रितः।

4.18 कर्त्तर्यवरोधे संहृष्टः।

4.19 ईर्षणादिविकाराः प्रस्फुटिताः।

4.20 अवग्रहोपपन्नानां प्रतिषेध क्लेशः।

4.21 बाह्याभ्यन्तरयो श्वासप्रश्वासाभ्यां संशयितविषयः।

4.22 अनभिस्नेहाद्विषयानां तद्व्याप्तिः।

4.23 प्रकृतेरवसायिनां पृथगुपस्थितिः।

4.24 व्यपेक्षाविरहादवग्रहसिद्धिः।

4.25 कालपरिचयेन स्तम्भपूरकरेचकाः प्रकृतिविश्लिष्टः।

4.26 रेचकपूरकाभ्यां क्रियानिर्दिश्यमानः।

4.27 पूरकस्तम्भाभ्यां सिद्धेर्व्यवच्छेदः।

4.28 रेचकस्तम्भाभ्यां प्रारब्धविनाशः।

4.29 स्तम्भवृत्तीनां प्रकृतिव्यायामे संश्लेषः।

4.30 निरोधप्रतिरोधाभ्यां स्तम्भवृद्धिः।

4.31 रेचकपूरकाभ्यां चाभ्यासनिष्कर्षः।

4.32 क्रियोदये चाहम्कृतो नाशः।

4.33 श्लिष्टे कर्मणि व्यभिचारनाशः।

4.34 अवरुद्धे नियमे त्वात्मविन्यासः।

4.35 निरुद्धे वृत्तौ धृतेर्वृद्धिः।

4.36 कालसङ्ख्याभ्यां श्वासस्तम्भनात् सर्वोपस्थितिः।

4.37 रागद्वेषाभ्यां प्रवृत्तिवृद्धिः।

4.38 ताभ्यामेव संस्करणनियुक्तिः।

4.39 सङ्कल्पविकल्पाभ्यां प्रतिलक्षणावरोधः।

4.40 पूरकस्तम्भाभ्यां सङ्कल्पक्षयः।

4.41 रागविकल्पात् क्रियावैकल्प्यम्।

4.42 अर्थविकल्पात्प्रकृतिविपर्यासः।

4.43 स्थितिकैवल्याभ्यां संसर्गनाशः।

4.44 विविक्ते श्वासप्रश्वासयोः संयमसिद्धिः।

4.45 प्राणायामो यथेच्छः क्रियाव्यवहृतः।

4.46 निरिच्छया त्वसंस्करणयुक्तः।

4.47 तत्त्वानामपि तदिच्छयाऽभियोगात्।

4.48 बाह्यविषयानां प्रश्वासस्पन्देन प्रतिषेधः।

4.49 आभ्यन्तरानां श्वासस्पन्दात्।

4.50 मनःस्पन्दस्फुरणावरोधः।

4.51 बुद्धेः स्पन्दस्फुरणं श्वासभ्युदितम्।

4.52 स्पन्दस्फुरणावरोधः सर्वेषाम्।

4.53 स्पन्दस्फुरणेन क्रियादेः स्थितिः।

4.54 श्वासस्तम्भात्कर्मस्पन्दस्फुरणावरोधः।

4.55 आत्मस्पन्दस्फुरणाभ्यां कामोदयः।

4.56 तयोर्विश्रान्ते विश्लिष्टशान्तिः समाधिः।

4.57 ताभ्यामेवार्थविपर्यासः।

4.58 प्रकृतिनिष्ठे विकृतिसंबाधः।

4.59 तयोः क्रियाकालसङ्ख्याभिः प्रकारात्।

4.60 स्तम्भने स्पन्दस्फुरणव्याप्तेश्च।

4.61 संस्कृते संयमप्रत्यवायः।

4.62 एकान्ते तयोर्विवादः।

4.63 निष्ठे कर्मणि कालप्रकृतिभ्यां व्यायामात्।

4.64 देशकालप्रकृत्या च संश्लेष संबाधः।

4.65 स्तम्भे विरोधसंबाधात्।

4.66 विशिष्टप्राणायामेन शब्दादेर्बाधः।

4.67 विकल्पादेरसंबाधात्।

4.68 अविद्याजनित क्लेशबाधाच्च।

4.69 तत्प्रयुक्ते चासंस्करणव्याप्तिः।

4.70 अविद्याक्लेशप्रतिषेधात्।

4.71 स्पन्दस्फुरणाभ्यां विद्योत्पादनम्।

4.72 सर्वसत्त्वज्ञानं सच्चिदानन्दरूपम्।

4.73 मिथ्याज्ञानापाये संसारापायः।

4.74 भ्रान्तिविनाशश्चात्मव्यवच्छेदात्।

4.75 नित्यवैभिन्नादविद्याविश्रुतः।

4.76 मिथ्यात्वं प्रकल्पनात्।

4.77 अनवस्थादोषात्प्रतिबाधितः सङ्क्लिष्टधर्मः।

4.78 प्रतिस्मृतेः कारणसंसर्गात्।

4.79 श्वासप्रश्वासाभ्यां तन्निरवधारणे शक्तिव्याप्तिः।

4.80 कालसङ्ख्यासमानत्वे संसृतिः।

4.81 ताभ्यामेव भयादि क्लेशः।

4.82 तन्निःसर्गात् संश्रयाच्च।

4.83 प्राणायामात्प्रायश्चित्तविनाशः।

4.84 अव्यहितत्वादपराधनाशः।

4.85 प्रतिकूलत्वाभावादपापम्।

4.86 स्पन्दस्फुरणाधिकारादपुण्यम्।

4.87 तयोर्विनष्टे सर्वस्मात्परमानन्दम्।

4.88 श्वासप्रश्वासयोरभ्यासाधिकारात् सङ्कुलितप्रस्तम्भनात्।

4.89 स्पन्दस्फुरणविच्छेदे शान्तिर्यज्वनः।

4.90 अफलेप्सया संसृतेर्व्यवच्छेदे प्लुतम्।

4.91 स्पुरणाभियोगे त्वात्मैक्यम्।

4.92 स्पन्दाश्रये चाकर्षणम्।

4.93 तयोर्विरहिते शाश्वतम्।

4.94 अर्थकाम्यानाम् प्रतिबन्धारोधात्।

4.95 जगतोऽनुशासनाच्च।

4.96 प्राणायामे सत्यपि लयानुभवः।

4.97 यथार्थोपलक्ष्यं च।

4.98 स्वभावादनुग्रहात्।

4.99 सत्त्वे स्पन्दस्फुरण प्राधान्यः।

4.100 कालसङ्ख्यादेशानामव्यवहृतिधर्म्यात्।

4.101 असंसृते प्रश्वासक्षेमात्।

4.102 श्वासक्षेमं परावरम्।

4.103 निष्क्लिष्टं मनोऽसंसर्गव्यवच्छेदात्।

4.104 कर्तृकानां त्वभ्यासेन बलवत्वमुख्यात्।

4.105 गुणानाम् कीर्तेश्च प्रतिषेधात्।

4.106 सामर्थ्यम् नावगम्यं क्लिष्टपरम्।

4.107 दृष्टोर्थः समधिकरणगतस्तम्भनम्।

4.108 क्रियमाणस्य प्रवाहरूपाच्च।

4.109 नियमयमयोः प्रत्यापारेण संसृतिः।

4.110 स्पदस्फुरणाभ्यां क्रियाशश्वत्स्वनुवृत्तेः।

4.111 रेचकपूरकस्तम्भकानां प्रत्यवयेऽभ्यासः।

4.112 सङ्कलित नाड्यां श्वासनिरोधः।

4.113 नाभिदेशात्प्रजनितो वायुसंयमादभिवेशः।

4.114 नाड्यां प्रस्फुलनाधिकारात्।

4.115 स्पन्दितस्फुरितानां प्रत्यवये विक्षेपात्।

4.116 मध्यमास्पन्देन सुषुम्नां निर्वृत्तिः।

4.117 पिङ्गलेडाभ्यां निरुध्य कौण्डलिन्याम्।

4.118 संयम्य स्थानान्तरात् प्रत्यवायेऽनादः।

4.119 नादगोषाभ्यां विरहिते चक्रिण्यामवरोधः।

4.120 पश्यन्तिमध्यमाभ्यां बालिकायामवरोधः।

4.121 परामध्यमायां श्वासनियोक्षणम्।

4.122 कण्ठकूपाद्दक्षिणवृत्त्या च स्फुल्यम्।

4.123 आरुद्धे प्रस्फुरणं वामदेशात्।

4.124 दक्षिणेनाकृष्य स्तम्भ्यं समस्तेषु।

4.125 बहिर्निरोधनं रेचकात्परिवृतो कुम्भकः।

4.126 एतच्छरीरहेयशक्तिः।

4.127 विवर्त्तना मनोदेषात्।

4.128 सूक्ष्मकारणाभ्यां च।

4.129 मानसशरीरागमात्।

4.130 बुद्ध्यात्मदेहे निवेशनम्।

4.131 अन्नादिकोशविश्लेषात्।

4.132 ज्ञानकोशैः स्थानम्।

4.133 लिङ्गस्थूलेत्वधिकारवृत्तेः।

4.134 अन्योऽन्याश्रितम् श्वासप्रश्वासं सर्वाभिर्व्यवसायः।

4.135 कालप्रदेशाभ्यां प्रति नाड्याम् अन्तर्धियोयोगात्।

4.136 प्रत्यात्मिके शक्त्यनन्तर्देशात् विवृद्धेश्च।

4.137 लिङ्गसुक्ष्माभ्याम् सर्वज्ञत्वम्।

4.138 कारणसुक्ष्माभ्याम् सङ्कुलवृत्तिश्च।

4.139 आतिदेशिकेत्वात्मन्यव तृप्तात्मा।

(इति पातञ्जलीये योगसूत्रे योगसूत्रे चतुर्थोऽध्यायः।

(written on 1-5-1910)

Taken from this site which is in DV-TTYogesh Font and cnverted to Unicode Devanagari using DV-TTSurekhEN to Unicode Converter_07.htm font Converter.

The text in DV-TT-Yogesh is also available here : https://www.wilbourhall.org/sansknet/sankhyadarsanam/chaturadhyayi.htm

See also, https://sites.google.com/site/bharatasahitya/yogasutra?tmpl=%2Fsystem%2Fapp%2Ftemplates%2Fprint%2F&showPrintDialog=1

See this discussion https://groups.google.com/forum/#!topic/bvparishat/7TonelyrLQk