महाकविश्रीक्षेमेन्द्रकृतः
सत्यस्कन्धस्तरुणकरुणापूतपीयूषसिक्तः
क्षान्तिच्छायः शुभमतिलतालंकृतः शीलमूलः।
भूयात्सत्त्वसविलसत्पल्लवः पुण्यभाजां
धर्मः प्रोद्यत्कुशलकुसुमः श्रीफलो मङ्गलाय ॥ १ ॥
|
उपदेशाय शिष्याणां संतोषाय मनीषिणाम् ।
क्षेमेन्द्रेण निजश्लोकैः क्रियते वर्गसंग्रहः ॥ २ ॥
धर्मः शर्म परत्र चेह च नृणां धर्मोऽन्धकारे रविः
सर्वापत्प्रशमक्षमः सुमनसां धर्माभिधानो निधिः ।
धर्मो बन्धुरबान्धवे पृथुपथे धर्मः सुहृन्निश्चलः
संसारोरुमरुस्थले सुरतरुर्नास्त्येव धर्मात्परः ॥ ३ ॥
कर्णे धर्मकथा मुखे परिचितं धर्माभिरामं वच-
श्चित्ते धर्ममनोरथः प्रणयिनी सर्वत्र धर्मस्थितिः ।
काये धर्ममयी क्रिया परिकरः सोऽयं शुभप्राप्तये
कल्पापायपदेऽप्युपप्लवलवैस्पृष्टवेलाफलः ॥ ४ ॥
निन्द्यं जन्म प्रमोहस्थिरतरतमसां यन्मनुष्यत्वहीनं
बुद्ध्या हीनो मनुष्यः शुभफलविकलस्तुल्याचेष्टः पशूनाम् ।
बुद्धिः पाण्डित्यहीना भ्रमति सदसतोस्तत्त्वचर्चाविचारे
पाण्डित्यं धर्महीनं शुकसदृशगिरां निष्फलक्लेशमेव ॥ ५ ॥
पाण्डित्यं यन्मदान्धानां परोत्कर्षविनाशनम् ।
मात्सर्यपांसुपूरेण मात्तङ्गस्नानमेव तत् ॥ ६ ॥
तत्प्राज्ञत्वं हरति विमलं येन शीलं न काम-
स्तद्धीरत्वं प्रशमवशतां यान्ति येनेन्द्रियाणि ।
तवैदग्ध्यं भुवनजयिनी वञ्चयते येन माया
तत्पाण्डित्यं भवपरिभवः शान्तिमायाति येन ॥ ७ ॥
अन्धः स एव [१]श्रुतवर्जितो यः शठः स एवार्थिनिरर्थको यः
मृतः स एवास्ति यशो न यस्य धर्मे न वीर्यस्य स एव शोच्यः ॥८॥
|
हितं न किंचिद्विहितं परस्य दत्तं न वित्तं न च सत्यमुक्तम् ।
यस्मिन्दिने निष्फलता प्रयातमायुः स कालः परिदेवनस्य ॥ ९ ॥
न दानतुल्यं धनमन्यदस्ति न सत्यतुल्यं व्रतमन्यदस्ति ।
न शीततुल्यं शुभमन्यदस्ति न क्षान्तितुल्यं हितमन्यदस्ति ॥ १० ॥
सत्यं वाचि दृशि प्रसादमयता सर्वाशयाश्वासिनी
पाणौ दा[२]नविमुक्तिरात्मजननक्लेशान्तचिन्ता मतौ ।
संसक्ता हृदये दयैव दयिता का[३]ये पराथोंद्यमो
यस्यैकः पुरुषः स जीवति भवे भ्राम्यन्त्यजीवाः परे ॥ ११ ॥
परप्राणत्राणप्राणहितधियां धर्मजननी
दयैवैका लोके सकलजनताजीवितसुधा ।
असामान्यं पुण्यं मुनिभिरुदितं ज्ञाननयनै-
रहिंसा संसारे स्वपरकुशलश्लाव्यसरणिः ॥ १२ ॥
प्राणानां परिरक्षणाय सततं सर्वाः क्रियाः प्राणिनां
प्राणेभ्योऽप्यधिकं समस्तजगतां नास्त्येव किंचित्प्रियम् ।
पुण्यं तस्य न शक्यते गणयितुं यः पूर्णकारुण्यवा-
न्प्राणानामभयं ददाति सुकृती तेषामहिंसाव्रतः ॥ १३ ॥
स एव सत्त्वाभरणप्रभावभूर्भुवः प्रकामाभरणं नरोत्तमः ।
मुखाम्बुजे यस्य वसत्यनत्यया सदैव सत्याभरणा सरस्वती ॥ १४ ॥
क्लिन्नं कोषनिषण्णमर्थिविफलं शल्यायते यत्परं
वित्तं क्लेशनिमित्तमेव मलिनं यातु स्वयं तत्क्षयम् ।
यत्कारुण्यपरोपकारविकलं भूभारभूतं वपुः
स्वार्थासक्तमनर्थसार्थसदनं मा मास्तु तत्कस्यचित् ॥ १५ ॥
|
वन्धः स पुंसां त्रिदन्नाभिवन्धः कारुण्यपुण्योपच[४]यक्रियाभिः ।
संसारमारत्वमुपैति यस्य परोपकाराभरण शरीरम् ॥ १६ ॥
पदविणनिःस्पृहः पर कलत्रनिष्कौतुकः
परप्रणयवत्सलः परनिकारबद्धक्षमः।
परस्तुति विशारदः परगुणापवादोज्झितः
परार्तिहरणोद्यतो भवति भूरिपुण्यैर्नरः ॥ १७ ॥
पद्मानासिव सा सत्यं सगुणता या संथयार्हा श्रियः
सा श्रीर्भद्रगजेन्द्रमूर्तिरिव या दानेन विभ्राजते ।
तद्दानं नवचन्द्रवद्यदनिशं मानेन सम्पूर्यते
मानोऽसौ तृणयन्न यः परिचयम्लानः शनैः शुष्यति ॥१८॥
लक्ष्मीदानफला श्रुतं शमफलं पाणिः सुरा फल-
श्वेष्टा धर्मफला परार्तिहरणक्रीड फलं जीवितम् ॥
वाणी सत्यफला जगसुखफलस्फीता प्रभावोन्नति-
र्भव्यानां भवशान्तिचिन्तनफल भूत्यै भवत्येव वीः ॥ १९ ॥
शीलं शीलयता कुलं कलयतां सद्भावमभ्यस्वतां
व्याजं वर्जयतां गुणं गणयता धर्मे घिय बन्धताम् ।
क्षान्तिं चिन्तयतां तमः शमयतां तत्त्वश्रुतिं श्रृण्वतां
संसारे न परोपकारसदृशं पश्यामि पुण्यं सताम् ॥ २० ॥
तीर्थानि दीर्घावपरिश्रमाणि बहुव्ययानि क्रतुडम्बराणि ।
तमांसि मुक्त्वा तनुशोषमानि हिंसाविरामे रमतां मतिर्वः ॥ २१ ॥
यज्वा विप्रः शुचिरनुचरः संयतात्मा तपस्वी
मन्त्री विद्वानवनिनिवाभूषणं भूमिपालः।
|
धर्मोद्याने सुकृतसलिलासारसंसिंच्यमाने
पूर्णः सोऽयं कृतयुगतरोर्भाबिनो बीजवापः ॥ २२ ॥
दभ्मेन शीलव्रतमस्पृह वं विरक्तता श्रोत्रियता मृदुत्वम् ।
एतानि मूलानि निगूढगूढकौटिल्यलीनानि कलिद्रुमस्य ॥ २३ ॥
गावन्ति दानानि वदन्ति सन्तस्तपांसि तीर्थानि च यानि सन्ति ।
सत्पुण्यभेकत्र विभाति सर्व महार्हमेकत्रं च निःस्पृहत्वम् ॥ २४॥
सतामदैन्यं वदनस्य शोभाः निर्लोभतान्तर्वचसामयाच्या।
कायस्य सत्सेव्यमसेवकत्वं पाणेरनुत्तानतलत्वमेव ॥ २५ ॥
मान्यः कुलीनः कुलजात्कलावान्विद्वान्कलाज्ञाद्विदुषः सुशीलः ।
धनी सुशीलाद्धनिनोऽपि दाता दातुर्जिता कीर्तिरयाचकेन ॥२६॥
तप्तैस्तीव्रवतैः किं विकसति करुणास्यन्दिनी यद्यहिंसा
किं दूरैस्तीर्थसारैर्यदि शमविमलं मानसं सत्यपूतम्
यत्नादन्योपकारे प्रसरति यदि धीर्दानपुण्यैः किमन्यैः
किं मोक्षोपाययोगयदिः शुचिमनसामच्युते भक्तिरस्ति ॥२७॥
|
इति धर्मप्रशंसा नाम प्रथमः परिच्छेदः ।
प्रधानधाम्नां निधये धनाय नमोऽस्तु तस्मै गुणिनोऽपि यत्रात् ।
यदाशया निर्गुण भूपतीनामग्रे गुणान्पण्यदशा नयन्ति ॥ १ ॥
दानादिधर्मः क्रियते धनेन धनेन धन्या धनमाप्नुवन्ति ।
धनैर्विना कामकथापि नास्ति विवर्गमूलं धनमेव नान्यत् ॥ २ ॥
यत्क्लीबैर्भटकुक्कटोत्कटरणक्रीडा समादिश्यते
यन्मूर्खैः सुखलीलया कविशुकालापश्चिरं चर्व्यते ।
|
नीचैरुचतरश्च सेवकहयः स्द्वाह्येन यद्रावते
तद्वित्तस्य विलासनृत्तवसतेरुद्धृत्तवृत्तावितम् ॥ ३ ॥
पूजा धनेनैव न सत्कुलेन कीर्तिर्धनेनैव न विक्रमेण ।
रूपं धनेनैव न यौवनेन क्रिया धनेनैव न जीवितेन ॥ ४ ॥
वृद्धाः प्रसिद्धा विबुधा विदग्धाः शूराः श्रुतिज्ञाः कवयः कुलीनाः ।
विलोकयन्तः सधनस्य वक्रं जयेति जीवेति सदा वदन्ति ॥ ५ ॥
ऋद्ध्या युत निश्चलपक्ष्मनेत्रं मौनान्वितं देवमिवाकुलीनम् ।
दीनः कुलीनः प्रणमत्कुलीनः कृताञ्जलिः स्तौति धनाभिकामः ॥६॥
तस्मादलब्धद्रविणस्य लाभे लब्धस्य रक्षानियमे यतेत ।
संरक्षमाणस्य सदा विवृद्धौ वृद्धस्य च स्थानविभागसर्गे ॥ ७॥ (युग्मम् )
धर्माधानोऽशशिशुचियम: प्रेयसीमित्रबन्धु-
स्थानोत्साहोपचयविजयप्राणविद्याकलाप्तौ
श्लाध्ये देहप्रशमसमये निर्विवादे विभागे
वित्तत्यागे न भवति सतां ग्रन्थिबन्धानुबन्धः ॥ ८ ॥
गोष्टी विटैश्चारणचक्रचर्या वेश्यारतिः साधुविशेषगन्धः
स्पर्धा सुवेषैर्निजवृत्तिलज्जा प्रधानमेतन्निधनं धनानाम् ॥ ९ ॥
जाया शीलविवर्जिता व्ययवती मायानिकायः सुहृ-
द्दुष्पूरो गुरुरर्थभोगनिचयैर्वन्धुर्दरिद्रः शठः ।
दासश्चौर्यपरोऽसलश्च कुपदे पुनः खलैः पातितः
सोऽयं क्लेशशताप्तसंचयनिधेः प्रत्यक्षलक्ष्यः क्षयः ॥१०॥
दाक्ष्यं वित्तस्य मूलं मुनयपरिचयः संपदुद्यानसेकः
प्रागल्भ्यं रत्लवर्षि व्यसनवनसमुन्मूलनं संयतत्वम् ।
|
श्रीरक्षा मनगुप्तिर्विषदुपशमनं वर्जनं दुर्जनाना-
मालस्यं मानवानां धनवननलिनासह्यभारस्तुषारः ॥ ११ ॥
हिमासहत्वं रवितापमीतिः कथामतिर्मार्गजनप्रतीक्षा
लज्जाभिमानः क्षणसंमुखत्वं नक्षत्रचर्चा च धनस्य विघ्नाः ॥१२॥
वेषः परिक्लेशनिशेषचिन्ता परोपरोधः स्ववशावलेपः ।
नदीफलानामिव शीघ्रगानां हानिर्धनानां ग्रहणे विलम्बः ॥ १३ ॥
गुरुगणकैरबुधाना क्षयचतुरैश्चौरस्यकैर्वणिजाम् ।
कायस्थगायनगणैर्भूमिभुजां भुज्यते लक्ष्मीः ॥ १४ ॥
दारिद्येण कुलं मदेन कुशलं द्वेषेण विद्याफलं
शील दुर्जनसंगमेन मलिनाचारेण शुक्लं यशः ।
आलस्येन धनं प्रयाति निधनं लौल्येन मानोन्नति-
र्याच्यादैन्यपरिग्रहेण व गुणाग्रामः समग्रो नृणाम् ॥ १५ ॥
मौग्ध्यान्मृगार्थी रघुनन्दनोऽपि बाणः प्रमादाद्बलिरार्जवेन् ।
नलः कुसङ्गेन ययातिजश्च क्लेशासहत्वाद्व्यसनान्यवायुः ॥ १६ ॥
मौग्ध्यं प्रमादोऽविश्वासः कुसङ्गः क्लेशंभीरूता
पञ्च संकोचदा दोषाः पद्मिन्या इव संपदः ॥ १७ ॥
कुभूयकूपान्तरलम्बनाप्तवित्तानि रन्धैर्घटसंनिभानाम् ।
असंवृतैरिन्द्रियनामधेयैः पुंसां पर्यासीव परिस्रवन्ति ॥ १८ ॥
सास्वादे नवसौरभे मधुलिहां पद्मोदरे बन्धनं
दीपे रूपरताः प्रयान्ति सततापातात्पतङ्गाः क्षयम् ।
गीतेनैव मृगाः पतन्ति करिणीस्पर्शेन नीता गजा-
स्तस्मादिन्द्रियसक्तिरेव सहसा पुंसां विपद्दूतिका ॥ १९ ॥
|
कुलं कुवृत्त्या कलुषीकृतं तैः कृतो गुणौघ स्तुणतुल्यमूल्यः
मानस्य मूले निहितः कुठारः प्राप्तं न वित्तं परिरक्षितं य़ैः ॥ २० ॥
जातः सत्कुलजः स नीचत्विनयी सेवावमानैरध-
स्तस्वोग्रं पतितः स्वमानयशसोद्रोहेण शापानलः
तेनास्वस्तिमता स्वहस्तनिहितं याच्ञाविषं भक्षितं
वित्तं येन न रक्षितं रिपुमुखं तेन स्थितं वीक्षितुम् ॥ २१ ॥
धावन्सेवितुमेति साधुरधमं बन्ध्यस्ततो यात्यसौ
नीता मूल्यतुलां गुणाश्च गुणिभिः कश्चिन्न गृह्णाति तान् ।
याच्ञा मानमहाशनिर्धनकृता प्राप्तं न किंचित्तया
किं किं वा न विधीयते धनधिया धन्यः स यस्यास्ति तत् ॥२२॥
विद्याकलापरिचयः क्षितिपालसेवा
दिग्द्वीपमार्ग:गरिसंभ्रमणप्रयासः
युद्धक्रियाश्च भुवि भोजनलाभलोभा
तद्वितलभ्यमिति वित्तक्तां प्रवादः ॥ २३ ॥
तावद्धर्मकथा मनोभवरूचिमोक्षस्पृहा जायते
यावत्तृप्तिसुखोदयेन न जनः क्षुत्क्षामकुक्षिः क्षणम् ।
प्राप्ते भोजनचिन्तनस्य समये वितं निमित्तं विना
धर्म कस्य धियः स्मरं स्मरति का केनेक्ष्यते मोक्षभूः॥२४॥
व्यर्थाकृष्टिं विधातुं कटुरटनपटुर्दान्भिकः श्रीजडानां
जानास्यन्यासहिष्णुर्वितथनिजगुणस्तोत्रपाठेष्वलज्जः ।
आर्यः कुर्यान्न सेवां कुलविनयगुणैस्तेन मूकोऽर्थनायां
तीक्ष्णानां मागंणानां भवति हि पुरतः क्ष्मापतेर्लक्षलाभः ॥२५॥
|
इत्यर्थप्रशंसा नाम द्वितीयः परिच्छेदः ।
ललिताललनालीलोदञ्चद्विलोलविलोचनो
त्पलवनरुचां चञ्चन्तीनां चयैरिव चर्चिता
सुरभिसुहृदः पक्षच्छायावृत्तेव च षट्पदैः
कुसुमधनुषः श्यामा मूर्तिस्तनोतु सुखानि वः ॥ १ ॥
भ्रमद्भ्रमरकेतकीविकसदेवपत्रप्रभाः
सनीलमणिनायका इव विमुक्तमुक्तालताः
दृशः शशिकला इव प्रचितपक्ष्मलेशाङ्किता
जयन्ति हरिणीदृशाममृतकालकूटच्छटाः ॥ २ ॥
ऋतुं धनानां फलमग्र्यमाहुः फलं ऋतूनामविवादि पुण्यम् ।
पुण्यस्य पूर्णं फलमिन्द्रलोको द्विरष्टवर्षाः स्त्रिय एव नाकः ॥ ३ ॥
एताः सन्ति वधूविलासकुटिला भ्रूकार्मुकश्रेणयः
कर्णान्तायतपातिनश्च तरुणीनेत्रत्रिभागेषवः ।
निर्दधोऽन्धकवैरिणा नवमनःक्षोभाभियोगोद्भवा-
त्संरम्भादविचार्य केवलमसौ मिथ्या तपस्वी स्मरः ॥ ४ ॥
लज्जावको मनसिजधनुर्भ्रूविलासेन तन्व्या-
श्चिन्ता पाण्डुः स्पृशति कृशतां वक्रकान्त्या शशाङ्कः
यात्येवाधः प्रहसितरुचिर्दोलताभ्यां मृणाली
क्लीबं धत्ते कुवलयकुलं कालिमानं कटाक्षः ॥ ५ ॥
अयोमयानां हृदयेषु तेषां कोऽप्यस्ति नूनं कुलिशोपदेशः ।
सोढानि यः प्रौढविलासिनीनां कर्णान्तमुक्तानि विलोचनानि ॥ ६ ॥
कुवलयमयी लोलापाङ्गे तरङ्गमयी भ्रुवो;
शशिशतमयी वक्रे गात्रे मृणाललतामयी ।
|
मलयजमयी स्पर्शे तन्वी तुषारमयी स्मिते.
दिशतिः विषमं स्मृत्या तापं किमग्निमयीच मा ॥ ७ ॥
स्मरशरनिशिताक्ष्याः कम्पयन्ते न केषां
कुरव इवः कटाक्षाः प्रौढशल्या मनांसि।
भुवनजनजिगीषोत्साहयोगाय येषा-
मधिचपलतराणां निश्चला कर्णमैत्री ॥८॥
स्तनस्थली हारिणि सुन्दरीणां नितम्बबिम्ने रशनासनाथे ।
भत्ते विशेषाभरणाभिमानलीलानवोल्लेखलिपिप्रपञ्चम् ॥ ९ ॥
कान्ताया विलसद्विलासहसितस्वच्छांशवश्चासरं
संसक्तावभिषेकहेमकलशौ यच्चन्दनाङ्कौ स्तनौ ।
युत्कार्तस्वरकान्ति चारु जघनं सिंहासनं भूभुजां
साम्राज्यं तदिदं जयाजयमयः शेषस्तु चिन्तामयः॥१०॥
नासादितानि वनवासदृढव्रतेन
चित्राणि नेत्रचरितानि मृगैर्मृगाक्ष्याः
तत्कान्तिरुज्वलरुचिव्यसनादहो नु
हेम्ना हुताशपतनैरपि नैव लब्धा ॥ ११ ॥
अभिनवपयोधरोदतिविषमस्थितिहारहंसमुखपतिता।
शैवलवलीव चास्यास्त्रिककलिता भाति रोमलता ॥ १२ ॥
नेय तरुण्यास्त्रिवली तरङ्गकुसङ्गिनी राजति रोमराजिः ।
स्नात्वा गतोऽस्यां स्मरकेलिवाप्यां कलकलेखामपहाय चन्द्रः ॥ १३ ॥
कर्णे कोकिलकामिनीकलरवः संतससूचीचयः
फुल्लाशोकपलाशचम्पकवनाद्युद्दामदावानलः
तन्वङ्या विरहे वसन्तसमयः कालः किमन्यन्नृणां
देहोच्चाटनमेव षट्पदघटाघ्राणातिथिर्मन्मथः ॥ १४ ॥
|
आपाण्डुता मदनकीर्तिसखी मुखेन्दौ
प्रौढिं बिभर्ति विरहे हरिणायताक्ष्याः
अच्छिन्नबाष्पविसरारुणनेत्रकोण-
लीनप्रतापमिव मन्मथमुद्वहन्त्याः ॥ १५ ॥
वियोगे तन्वङ्गया हृदयदमने दैन्यसढ़ने
घने भर्तृस्नेहान्मदनदहने धैर्यचलने
समासन्ने चिन्ताव्यसनशमने प्राणगमते
तनुस्तावम्लाने चलति नलिनीपत्रशयने ॥ १६ ॥
दाक्षिण्यप्रणयेन पादपतिते कान्ते मया नेक्षिते
प्राणानां ज्वलितः प्रवासपिशुनः शापानलः पश्यसि
एतैः संभ्रमकातरे किमधुना. मिथ्यासमाश्वासनैः
संतापाय सखि त्वयैव ननु मे मानोपदेशः कृतः ॥१७॥
स[५]मायाते पत्यौ बहुतरदिनप्राप्यपदवीं
समुलङ्घ्याविघ्नागमन चतुरं चारुनयना
स्वयं हर्षोपाद्बाष्पा हरति तुरंगस्यादरवती
रजः स्कन्धालीन निजवसनकोणावहननैः ॥ १८ ॥
वासः कम्पविशृखलं वितिलकं स्वेदोद्गमादाननं
संदष्टोऽधरपल्लवः कलयति श्वासोष्मणा म्लानताम् ।
|
दूति त्वद्वचने शठस्य कठिनस्याग्रे गते कुण्ठतां
मत्स्नेहाद्विहितस्त्वया कुपितया क्लेशप्रवेशः कियान् ॥१९॥
व्याप्तास्वशोकज्वलनेन दिक्षु निरन्तरापातशिलीमुखासु ।
रुद्धासु जालैर्घनमञ्जरीणां नष्टा गतिः पान्थकुरङ्गकस्य ॥२०॥
विकसति सहकारे दुःसहे कर्णिकारे
मधुकरपरिहारे सस्मिते सिन्धुवारे।
अहह विरहमीत्या कामिनी काठलग्नां
त्यजति नववसन्ते हन्त कापालिकः कः ॥ २१ ॥
तन्वङ्गया नवसंगमे व्यवसिते कान्ते बलान्मेन्खला
मोक्त्तु श्वासविकासकम्पविकलाः कण्ठे लुठन्त्य. सुधाम् ।
मीलत्पद्मनिपीडितालिरणिताः क्लीबाः(1) किरन्ति क्षणं
धन्यानां जननेति निःसहतया हुकारगर्मा गिरः ॥ २२ ॥
गाढ्यालिङ्गननिश्चलाङ्लतिका कान्तेन रुद्धा बला-
दालम्ब्यालकवल्लरी विदधत वक्राम्बुजे चुम्बनम्
कम्प्रप्रस्फुरितारुणाधरदला बाला निमील्याक्षिणी
मन्ये मानसजन्मजीवजननं जप्य समभ्यस्यति ॥ २३ ॥
केनैते विशिखाः स्फुरच्छिखिशिखाशाखासखा मानिनी-
मौनोन्माथपृथुप्रथा विरहिणीनिःश्वासपक्षानिलाः ।
सद्यन्ते रतिवल्लभस्य लदभानेत्रान्ततीक्ष्णानना-
संदष्टाघरपलवाग्रतरूणिसीत्कारशूत्कारिणः ॥ २४ ॥
आयुर्दीर्घतरं तनोतु नयनद्वन्द्वं कुरङ्गीदृशां
कीर्ति ते स्मितसंततिः स्तनतटश्रोणी विशालश्रियम् ।
|
देवस्य निजगञ्जयाय पटहे. दत्ते मृगाक्षीगुरो-
रित्युत्साहसहे हिताय विहिता जाने जनन्याशिषः ॥२५॥
|
इति कामप्रशंसा नाम तृतीयः परिच्छेदः ।
भोगाभोगविलोपकोपकलहैरस्तोकशोकाकुलं
कामं काममकामधामसमये योगं वियोगानुगम् ।
रोगोद्गारविकारपकविषमं निर्मूल्य नेत्रव्यथाः
सेकं भोक्षफलस्य संशयतरोरेक विवेकं नुमः ॥ १ ॥
उद्याने मधुचन्द्रिका शशिमुखीगीतं सुहृत्सत्कथा
कस्येद न सुखाधिक सुखसखीं प्रीति परां वर्षति
कि त्वेतत्खलसङ्गसर्परंसनामांतङ्गकर्णाञ्चल-
प्रौढापाङ्गपतङ्गपक्षगणिकानागेन्द्रजालोपमम् ॥ २॥
बाल्यं दुःसहमोहसंहतिहतं. रागोल्बणं यौवनं
वृद्धत्वं सकलोपभोगकलनावैकल्यशल्याकुलम्
वैराग्येण विना विनष्टविमलालोकं सशोकं सदा
संसारे सरता पुनःपुनरहो यातं वृथा जीवितम् ॥ ३ ॥
दृष्टा बालकचेष्टा यौवनदर्पोऽथ वृद्धवैराग्यम् ।
सापि गता सोऽपि गतस्तदपि गतं स्वप्नमायेयम् ॥ ४॥
पुनःपुनर्जन्मसहस्रहेतुर्मलीमसः स्नेहसमोऽस्ति नान्यः ।
पुंसः प्रदीपस्य च यः करोति सेवोन्मुखत्वं गृहसंविभागे ॥ ५ ॥
आक्रान्तं पिशुनैर्नरेन्द्रभवनं विद्यागृह मत्सरै-
रायसिर्द्रविणं कुलं कुतनयैर्नानावियोगैः सुखम्
|
साधुत्वं त्वलवञ्चनापरिभवैश्चिन्तासहस्रैर्मन-
स्तन्नास्त्येव यत्सरोषकलुषं निर्दोष एकः शमः ॥ ६ ॥
भोगे रोगभयं सुखे क्षयभयं वित्तेऽग्निभूभृद्भयं
दास्ये स्वामिभयं गुणे खलभय वंशे कुयोषिद्भयम्
माने म्लानिभयं जये रिपुभयं काये कृतान्ताद्भयं
सर्वं नाम भवे भवेद्भयमहो वैराग्यमेवाभयम् ॥ ७ ॥
कृतं शमजलेन यैर्विरततीव्रतृष्णं मनः
परं भवपराभवोद्धरणवीरधुर्यैर्न ते ।
भजन्ति जननीजनप्रसृतदुग्धधाराधन-
स्तनप्रणयि तत्पुनर्दशनशून्यमास्यं नराः ॥ ८॥
उत्सृज्य संतोषसुखामृतानि प्रीत्यै पराराधनसाधनानि ।।
अहो नु मानानि धनानि पुंसां धनानि निद्रासुखसाधनानि ॥९॥
विवेकस्वाधीने विजन गभने जन्मशमने
विकारे संसारे व्यसनपरिहारेऽपि सुकरे.
परं लज्जा साधोंः प्रसवसमये शोणितमये
पुनः पाणिं मूर्ध्नि क्षिपति यदि धात्रीति पतितः ॥ १० ॥
आयासप्रसवे विचारविरसे लज्जाजुगुप्सास्पदे
रागान्धा विरमन्ति नैव कुपदे स्त्रीभोगनानि च्युताः
चितं नास्ति संचेतसामपि निजाकर्षे विमर्षः क्षणं
रत्यन्येषु पराङ्मुखत्वमनिशं प्राप्नोति नायं जनः ॥ ११ ॥
केशाकुले रक्तकषायपङ्ककपालभाजि प्रकटास्थिदन्ते ।
कायश्मशाने रमतेऽङ्गनानां कामाकुलः कामुककाकलोकः ॥१२॥
अहो तृष्णा वेश्या सकलजनतामोहनकरी
विदग्धा मुग्धानां हरति विवशानां शमधनम् ।
|
विपदीक्षाद[६]क्षासहतरलतारैः प्रणयिनी-
कटाक्षः कूटाक्षैः कपटकुटिलैः कामकितवः ॥ १३ ॥
बाल्यं कुलीरजननीजनकप्रमोहं.
तद्यौवनं कुलटमासुभगोपयोगम् ।
वृद्धत्वमप्युपचितं कुकलवपुत्रैः
सत्यं न किंचिदिदमत्र खचित्रमित्रम् ॥ १४॥
न कस्य कुर्वन्ति शमोपदेशं स्वप्मोपमानि प्रियसंगतानि ।
जरानिपीतानि च यौवनानि कृतान्तदष्टानि च जीवितानि ॥ १५॥
चिन्त्यन्ते यदि नाम रामनहुषश्वेतादिराजर्षयः
कि तैर्याति विशालकालकलनामीलत्कथाकौतुकैः
गण्यन्तां स्वदृशैव भूरिविभवा दृष्टाश्च नष्टाश्च ये
तस्मात्सर्वमनित्यताकवलितं ज्ञात्वा शमः स्मर्यताम् ॥ १६ ॥
यदा लोला लक्ष्मीः क्षितिपतिरणारण्यहरिणी
यदा स्वप्नोन्मेषा तनुघनतडिद्यौवनरूचिः ।
यदा कालः कामं जनजलजकिञ्जल्ंकमधुप-
स्तदा संसारेऽस्मिन्नविबुधमनो नोपरमते ॥ १७ ॥
संतोषाम्भः पिबति निमृतस्वच्छमिच्छामयूरी
भ्रान्त्वा चान्तःकरणहरिणो याति विश्रान्तिमन्तः
लीनश्वाय शमतरुजले शीतले तापतान्तिं
मीलत्कामस्त्यजति नियतं मत्तचित्तद्विपेन्द्रः ॥ १८ ॥
याते. भोगे स्मरणपदवीं सक्तनानावियोगे
शोक स्तोकं स्पृशति न मनः सर्वथा निर्व्यथानाम् ।
|
काले काले किल कल्यतामन्तवत्सर्वमन्तः
प्रायः कायक्षयपरिचये निश्चये निर्भरं नः ॥ १९ ॥
यातु व्यक्तिं कुसुमसभ संचयः सौरमाणां
खे खेलन्ती मल्यनिलयाः संत[७] तं वान्तु वाताः
कामः कामं क्षपयतु धृतिं पक्ष्मलाक्षीकटाक्षैः
शान्तिश्चित्ते स्थिरसुखसखी निर्विकारे ममास्तुः ॥ २० ॥
जरानिगीर्णे सुभगाभिमाने म्लाने शनैर्भूतिलताप्रताने ।
धनावदाने शिथिलाभिमाने धृतिर्निधाने प्रशमाभिधाने ॥ २१ ॥
रागेण सार्धं वयसि प्रयाते गतेषु भोगेषु सह स्पृहाभिः ।
देहे च मोहेन समं प्रलीने निरर्गलोऽसावपवर्गमार्गः ॥ २२ ॥
चित्तं [८]वातविकासिपांसुसचिवं रूपं दिनान्तातपं
भोगं दुर्गतगेह[९]बन्धचपलं पुष्पस्मितं यौवनम् ।
स्वप्नं बन्धुसमागमं तनुमपि प्रस्थानपुण्यप्रपां
नित्यं चिन्तयतां भवन्ति न सतां भूयो भवग्रन्थयः ॥२३॥
अभिन्नार्थानर्थः सुहृदरिपरिच्छेदरहितः
समावज्ञामानः सदृशसुखदुःखव्यतिकरः ।
न मौनी नामौनी वनजलसमानासनमना
न दैन्यं नादैन्यं स्पृशति गुणनैर्गुण्यविरतः ॥ २४ ॥
सा दूरे हरिचन्दनस्य न परं हारेण किं हारिता
नो कान्ताकुचमण्डलस्य सुलभा चन्द्र दरिद्रे कुतः
गीते संगतिरेव नास्ति समता तस्यां न सिद्धामघो-
र्नैराश्ये सहसैव चेतसि कृते या प्रीतिरुज्जृम्भते ॥ २५ ॥
|
लब्धाबधि: सत्यसुखामृतस्य नवप्रमोदाद्भुतपूर्णकामः ।
भारावतारादिव निर्वुतोऽहम् त्यागेन सर्वाग्रहसंग्रहाणाम् ॥ २६ ॥
धनार्जनविचिन्तनं हृदवरोपिताशावनम्
वृथा चरणशातनं खलकदर्यसंसेवनम् ।
सदा व्यसनशोचनं प्रियवियोगदीनाननं
विहाय गृहमज्जक़नम् व्रजति पुण्यवान्निर्जनम् ॥ २७ ॥
नास्ति खस्तिकरः परः परिभवों धर्मात्मनां प्राणिना-
मापत्ताशम्क्षमम् धनसमं नान्यक्वियाजीवितस् ।
संसारे परमस्ति नोऽत्र सुखदं रम्यं न रामानना-
सर्वक्लेशविनाशनिर्वृतिरसः को नाम मोक्षात्परः ॥ २८ ॥
चतुर्वर्गोपदेशेन क्षेमेन्द्रेण यदर्जितम् ।
पुण्यं तेनाक्तु लोकोऽयं चतुर्वर्गस्य भाजनस् ॥ २९ ॥
|
इति मोक्षप्रशम्ला माम चनुर्थः परिच्छेदः ।
समाप्तोऽयम् चतुर्वर्गसंव्रहः ।