← सप्तमो मयूखः चन्द्रालोकः
अष्टमो मयूखः
जयदेवः
नवमो मयूखः →

यद्व्यज्यमानं मनसः स्तैमित्याय स नो ध्वनिः ।
अन्यथा तु गुणीभूत-व्यङ्ग्यं आपतितं त्रिधा ।। ८.१ ।।

व्यक्तिरेव क्वचिद्व्यङ्ग्यः क्वचिदर्थस्वभावतः ।
क्वचिच्चारुतरस्याग्रे स विमुञ्चति चारुताम् ।। ८.२ ।।

अगूढं कलयेदर्थान्तरसंक्रमितादिकम् ।
विस्मृतः किं अपांनाथ स त्वया कुम्भसंभवः ।। ८.३ ।।

अपरस्य रसादेश्चेदङ्गमन्यद्रसादिकम् ।
हा हा! मत्कुचकाश्मीर-लिप्तं भिन्नं उरः शरैः ।। ८.४ ।।

तथा वाच्यस्य सिद्ध्यङ्गं नौरर्थो वारिधेर्यथा ।
संश्रित्य तरणिं धीरास्तरन्ति व्याधिवारिधीन् ।। ८.५ ।।

अस्फुटं स्तनयोरत्र कोकसादृश्यवन्मतम् ।
कुङ्कुमाक्तं स्तनद्वन्द्वं मानसं मम गाहते ।। ८.६ ।।

संदिग्धं यदि संदेहो दैर्घ्याद्युत्पलयोरिव ।
संप्राप्ते नयने तस्याः श्रवणोत्तंसभूमिकाम् ।। ८.७ ।।

तुल्यप्राधान्यं इन्दुत्वं इव वाच्येन साम्यभृत् ।
कान्ते त्वदाननरुचा ग्लानिं एति सरोरुहम् ।। ८.८ ।।

असुन्दरं यदि व्यङ्ग्यं स्याद्वाच्यादमनोहरम् ।
सरस्यामीलदम्भोजे चक्रः कान्तां विलोकते ।। ८.९ ।।

काकुस्थं प्रणतोऽम्भोधिरद्य माद्यतु रावणः ।
इत्यष्टधा गुणीभूत-व्यङ्ग्यं अङ्गीकृतं बुधैः ।। ८.१० ।।

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ ।
मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति वसुसंख्यः सुखयतु ।। ८.११ ।।