प्रमुखा विकल्पसूचिः उद्घाट्यताम्

चतुर्थो विलासः

चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्रविरचिता चतुर्थो विलासः। रूपादय इवाङ्गस्य स्वरूपोत्कर्षहेतवः। काव्यस्यैतान्विजानन्ति गुणान् गुणविवेकिनः ।। 1 ।। श्लेषप्रसादौ समता माधुरी सुकुमारता। अर्थव्यक्तिरुदारत्वमोजः कान्तिरुदात्तता ।। 2 ।। प्रेयान् समाधिरौर्जिंत्यं सौम्यं गाम्भीर्यविस्तरौ। संक्षेपः शब्दसंस्कारो भाविकत्वं च सम्मितः ।। 3 ।। गत्युक्तिरीतयः काव्ये ते त्रायोविंशतिर्मताः। तत्र श्लेषः मसृणश्लिष्टपदता श्लेष इत्यभिधीयते ।। 4 ।। यथा अव्याजसुन्दरमनिन्दितसच्वसार- माजानुवाहुमरविन्ददलायताक्षम्। श्रीसिङ्गभूपमवलोकयतां जनाना- मानन्दितानि नयनानि सुधाम्बुनेव ।।1।। अत्र भिन्नानामपि पदानामेकपदवत्पाठसमये प्रतिभानं श्लेषः। द्रागर्थावगतिर्यत्र स प्रसादो निगद्यते ।। 5 ।। यथा सौगन्धिके च घनसारिणि चन्दने च बिम्बाधरे च सुदृशां वदने च तासाम्। श्रीसिङ्गभूपरचिते च गिरां कदम्बें को वा न नन्दति जनो जगदेकसारे ।।2।। अत्र पादानां समकालमेवार्थसमर्पकत्वात् प्रसादः। मृदुस्फुटविमिश्राणां वर्णानां बन्धक्ल्टप्तिषु। आमूलचूडंड्डत्ध्; निर्वाहः समता धीमतां मता ।। 6 ।। अत्र स्फटवर्णनिर्वाहो यथा युद्धेषु प्रतिपक्षलक्षतुरगप्रध्वंसनोत्तंसिते त्वत्कौक्षेयकशिक्षितैरपि परं सिङ्गक्षमारक्षक। सप्ताश्वे प्रतिभेदमात्रमरिभिः प्रायेण संधार्यते कष्टं क्लिष्टधियां गुरोरपि वृथा सर्वैव विद्या भवेत् ।।3।। अत्र पादचतुष्टयेऽपि घोषपराक्षरप्रायत्वनिर्वहणात्स्फुटवर्णा समता। मिश्रवर्णबन्धनिर्वाहो यथा आक्षेपोक्तिविधायिनां क्षितिभुजामात्मावरोधान्तिके युद्धाग्रे तु निरीक्ष्य साध्वसवतां त्वां खङ्गनारायण। रूक्षोदग्र तृणाङ्कुरग्रसनता जिढद्धठ्ठड़14;वाग्रविच्छेदनं दण्डड्डत्ध्;ोऽभूदत एव ते हि भवता स्वे स्वे पदे स्थापिताः ।।4।। अत्र पादचतुष्टयेऽपि नातिवर्णमृदुप्रायता नातिरूक्षाक्षरप्रायता चेति मिश्रबन्धसमता। अग्रन्थिला पृधग्भूतिः पतानां माधुरी मता। ।। 7 ।। यथा चम्मं पोम्मोत्त उत्तं .... .... .... .... .... .... .... .... .... .... .... .... .... .... बोम्मो कापूण सोम्मं त्विहुवण रअणं कण्ण अंकित्ति सण्णं द्विहा उंतिए णाहं कुण इव रउणं मंगलं सिंगभूवम् ।।5।। अत्र पाठसमय एव पदविभागः प्रतिभातीति माधुर्यम्। संयुक्ताक्षरसच्वेऽपि श्रव्यत्वं सुकुमारता ।। 8 ।। यथा युष्माभिः प्रतिगण्डड्डत्ध्;भैरवरणे प्राणाः कथं रक्षिता इत्यन्तः पुरपृच्छया यदरिषु प्राप्तेषु चाज्ञावशम्। शंसत्युन्नतमान्स व्यतिकरव्यापारपारङ्गता गण्डड्डत्ध्;ान्दोलितकर्णकुण्डड्डत्ध्;लहरिन्माणिक्य वर्णाङ्कुराः ।।6।। अत्र संयुक्ताक्षरप्रायत्वे श्रुतेरकटुत्वात्सौकुमार्यम्। अद्याहारानपेक्षत्व मर्थव्यक्तिरितीरिता ।। 9 ।। यथा नमन्ति सिङ्गभूपालं राजानो नीतिकोविदाः। निजराज्यप्रतिष्ठायै शरणागतवत्सलम् ।।7।। अत्र वाक्यस्य संपूर्णता स्पष्टैव। विकटाक्षरता बन्धे प्राज्ञैरौदार्य मीर्यते ।। 10 ।। यथा गर्जद्घूर्जरगर्वपर्वतभिदे नेपालभूपालक- ध्वान्तध्वान्तविरोधिने कटुरटत्सौराष्ट्रराष्ट्रद्रुहे। दृप्यत्केरलमौलिमोटनकृते श्रीसिङ्गपृथ्वींपते भूयासुर्भुवनाभयव्रतभृते श्रेयांसि भूयांसि ते ।।8।। अत्र विकटाक्षरतया नृत्यद्भिरिव पदैर्या बन्धरचना तदौदार्यम्। ओजस्समास्बाहुल्यमेतद् द्वेधा निगद्यते। समासानामदीर्घाणां प्राचुर्यात्प्रथमं भवेत् ।। 11 ।। इदं कोमलमार्गानुसारिणां प्राणसंमितम्। समासस्यातिदीर्घत्वाद् द्वितीयं गौडड्डत्ध्;सम्मतम् ।। 12 ।। अत्राल्पसमासप्राचुर्यं यथा नायकस्यैव आकीर्णघर्मजलमाकुलकेशपाश- मामीलिताक्षियुगमादृतपारवश्यम्। आनन्दकन्दलितमस्तमितान्यभाव- माशास्महे किमपि चेष्टितमायताक्ष्याः ।।9।। यथा च सङ्गीतक्रमचङ्क्रमप्रियसखी शृढद्धठ्ठड़14;गारसंजीवनी सौजन्यद्रुमसारणी चतुरतासाम्राज्यसिंहासनम्। श्रीसिङ्गक्षितिपालशेखरमणेर्वैयात्यघण्टापथ- श्चाटुव्याढद्धठ्ठड़14;टतिवैखरी विजयते साहित्यशिल्पावधिः ।।10।। अत्र स्वल्पसमासत्वं (?) स्पष्टमेव --- --- --- दीर्घसमासत्वं यथा ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... पिशाचाः सह सहचटैः हस्ततालानुकूलं (?) क्रीडड्डत्ध्;न्ति क्रेंक्रियाभिः कहकहनिनदाडड्डत्ध्;म्बरालम्बिनीभिः ।।11।। अत्र दीर्घसमासत्वं स्पष्टमेव। कान्तिश्छाया हि बन्धस्य कथिता बन्धकोविदैः ।। 13 ।। यथा आकृष्टा मूÐध्न कृष्णा गहनमणिगता मैथिली पूर्वमूर्वो- श्छन्ना पर्णैरपर्णा किल नलमहिषी कल्पिता शित्पिनीति। आस्तां तत्तद्दशायामपि दधति शुचं यावदाक्षेपरूपै- राख्यातैः सिङ्गभूप त्वदरिमृगदृशां स्थैर्यवत्यो जरत्यः ।।12।। यथा (वा) ललितरसविलाकव्यासविन्यासधन्यां प्रथयति मधुरार्थां भारतीं सिङ्गभूपे। गरनिगरणरूक्षैरक्षरै र्वावदूको विषधरकुलमूर्धा न स्फुटी यः स्फुटीति ।।13।। अत्र बन्धस्यात्युज्ज्वलत्वं छाया सैव कान्तिः। श्लाग्यैर्विशेषणैर्योगं बुधा विदुरुदात्तताम् ।। 14 ।। यथा आकल्पमाकल्पविशेषभाजा भुजेन रेखाकुलिशाङ्कितेन। श्रीसिङ्गभूपाल तवायतेन रक्षावती सागरमेखलेयम् ।।14।। अत्र भुजविशेषणानां भाग्यविशेषप्रतिपादकत्वादतिश्लाघ्यत्वम्। प्रेयान् प्रियोक्तेर्विन्यासश्चाटुसाहित्यजीवितम् ।। 15 ।। यथा सौभाग्यभाग्य युवतीजनचित्तचोर दाक्षिण्यगण्य धरणीतलपारिजात। शृङ्गारभाव करुणाकर सिङ्गभूप गां रक्ष रक्ष तव रक्षणमेव धर्मः ।।15।। अत्र नायकं प्रति दूत्याः प्रियोक्तिः स्पष्टैव। समाधिरिह शब्दस्य वृत्तिस्स्यादौपचारिकी ।। 16 ।। यथा अध्यास्ते फणिलोकपुङ्गवफणानिव्र्यूढपर्यङ्किका- माक्रामत्यनुवेलमब्धिरशना काञ्चीगुणाडड्डत्ध्;म्बरम्। निंस्ते विस्मयधूतधूर्जटिजटाकूलंकषाहंक्रियां श्रीसिङ्गक्षितिपालकीर्तिमहिमासाकल्यकल्पोदयः ।।16।। अत्राध्यासनाक्रमणचुम्बनानामुपचरितत्वं कीर्तेरचेतनत्वात्। यद्बन्धस्यातिगाढत्वं तदौर्जित्यमुदाढद्धठ्ठड़14;टतम् ।। 17 ।। यथा करिपतिदृढकुम्भालम्बन्प्रक्रमां च .... .... घोरकोणः कृपाणः। तव रचयति धनुरध्वंसनं सिङ्गभूप प्रदनकदनगन्धप्रङ्वणब्वान् पिशाचान् ।।17।। अत्र ह्रस्वाक्षराणां संयुक्तपूर्वतया गुरुत्वे यद्गाढत्वं तदौर्जित्यं नाम। अन्तस्संजल्पसामथ्र्यं शब्दानां सौक्ष्म्यमुच्यते ।। 18 ।। यथा भूधातुं कर्तृभावादनुगतमनुना मानयत्यात्ममाने पर्याये संपदां स्यादभिपरिसहितं विद्विषां कर्मभावः। पुंलिङ्गे त्वन्मनोऽब्जं स्पृशति शिवपदं त्वद्गृहाली न पुंसि स्त्रीलिङ्गे शात्रवाणां निखिलमपि पुरं सिङ्गभूपालचन्द्र ।।18।। अत्र नायकः सम्पदोऽनुभवतीति, द्विषः परिभवति, नायकस्य मानसं शिवो महादेवः स्पृशति, तद्विरोधिनगरं शिवा जम्बूकः स्पृशतीति पदानां भूधातुं कर्तुभावादित्यादिषु गर्भितत्वादन्तः संजल्पनशक्तिःप्रतीयत इति सौक्ष्म्यमिदम्। घ्वनिमत्ता तु गाम्भीर्यं .... .... .... यथा एकेनैव तुरङ्गमेण ककुभो व्याक्रम्य सौम्यक्रमा- नङ्गीकृत्य करान् कदाचिदगतः कांचित्तमोग्रस्तताम्। उल्लासाय सतामनन्तमुदयं धत्ते तथापि स्फुटं त्वं प्राज्ञैर्ननु सिङ्गभूपतिलक ज्ञातोऽसि भासां निधिः ।।19।। अत्र सूर्यस्तु दिशस्तुरङ्गमैस्सप्तभिराक्रमति, तीव्रान् किरणानङ्गीकरोति, रहुग्रस्ततां गच्छति नक्षत्राणामनुल्लासाय सान्तमुदयं धत्त इति ध्वनिर्विद्यते। तस्माद्गम्भीरत्वम्। .... .... .... प्रपञ्चोक्तिस्तु विस्तरः ।। 19 ।। पुण्यैः पूर्वमुपार्जितैस्तनुमतो जन्मास्तु सन्मानुषं जन्माप्यस्य तदान्ध्रदेशतिलके राजाचले संभवेत्। तत्राप्येष दधातु तां परिणतिं भाग्यस्य योग्यां तथा गत्वा नन्दति सिङ्गभूवर गिरं त्वत्कां चमत्कारिणीम् ।।20।। अत्र नायकस्य सन्निधौ सर्वदा स्थातुमिच्छामीति विवक्षितार्थस्यातिविवृत्य करणाद्विस्तरः। संक्षेपस्तु समस्योक्तिरनल्पस्यापि वस्तुनः ।। 20 ।। यथा षड्ड्डत्ध्;भिः षोडड्डत्ध्;शभिर्भूपैगौरेका महिषी कृता। सैव श्रीसिङ्गभूपालकुञ्जरेण वशीकृता ।।21।। अत्र षड्ड्डत्ध्;भिरित्यनेन "हरिश्चन्द्रो नलो राजा पुरुकुत्सः पुरूरवाः। सगरः कार्तवीर्यश्च षडेड्डत्ध्;ते चक्रवर्तिनः।।" इति श्लोकार्थस्य, षोडड्डत्ध्;शभिः भूपैरित्यनेन "गयोऽम्बरीषः शशिबिन्दुरङ्ग पृथुर्मरुत्तो भरतस्सुहोत्तः। रामो दिलीपः शिबिरन्तिदेवौ ययातिमान्धातृभगीरथाश्च।।" इति श्लोकार्थस्य च प्रपञ्चकथनप्रसिद्धस्यात्रातिसङ्कोचेन कथनाच्चमत्कारातिशयकारी संक्षेपो नाम गुणः अयम् --- "स मारुतसुतानीतमहौषधिधृतव्यथः।" इत्यादौ कविभिरङ्गीकृतो लक्षणीयः। सुपां तिङां च व्यत्पत्तिश्शब्दसंस्कार उच्यते ।। 21 ।। यथा दिक्कूलङ्कषवैभवा घनपथव्याप्तिप्रियंभावुका श्रीसिङ्गक्षितिपालकीर्तिविभवाः शम्भोस्तुलालम्बिनः। गामध्यासितुमीशते प्रगुपते पर्याप्तमार्योत्सवान् कल्पान्ते तव कल्पितां विवृणुते धाम्रा महिम्रां श्रियम् ।।22।। अत्र दिक्कूलंकषेति प्रियंभावुकेति गामध्यासितुमित्यादौ सुबन्तानामीशत इत्यादिषु तिङ्न्तानां च दिग्व्यापिनोऽन्तरिक्षव्यापिनो गवि तिष्ठन्त्यादिभि र्विशेषप्रतिभानाच्छब्दसंस्कार इत्युच्यते। हर्षादि भाववशतो वाग्वृत्तिर्भाविकं मतम् ।। 22 ।। यथा विद्यादैवत तात तावकगुरो सर्वज्ञचूडड्डत्ध्;ामणे स्तोतव्योऽसि मनीषिणां त्वमथवा वन्द्यो जवाकैरलम्। इत्थं सिङ्गमहीपतिं गुरुजनोऽप्याभाषते तोषवान् तत्तत्पद्धतिधर्ममर्मणि परिच्छेदानि संवादिनम् ।।23।। परिछेदसंभूतसंतोषवशेन प्रवृत्तत्वाद् भाविकत्वम्। तत्सम्मितत्वं शब्दार्थकूलाबधृतिरुच्यते ।। 23 ।। यथा विक्रमे न क्रमे केचित्क्रमे केचिन्न विक्रमे। विक्रमे च क्रमे चायं दक्षः श्रीसिङ्गभूपतिः ।।24।। अत्र यावदर्थपदत्वं सम्मितत्वम्। आरोहमवरोहञ्च स्वराणां गतिरीरिता ।। 24 ।। यथा श्रीसिङ्गक्ष्मापाले क्षोणीं धारयति सारधौरेये। अकरणि मदयति फणिपतिहरिदिभकुलकुधर कपटकमठानाम् ।।25।। पूर्वार्धे दीर्वतयास्वराणामारोहः। उत्तरार्धे ह्रस्वतयावरोहश्चेति गतिः। उक्तिर्विवक्षितस्या न्यभङ्ग्या भणनमुच्यते ।। 25 ।। यथा तस्याः किं गुणजीवितस्य कुशलं राजन् सती जीवति प्रश्नस्तत्कुशलक्रमो हि कथितं सा जीवतीति स्फुटम्। भद्रे दूति पुनस्तदेव किमिदं मुग्धेव संभाषसे श्वासे तिष्ठति सा मृतेति गदितुं श्रीसिढद्धठ्ठड़14;ग किं युज्यते ।।26।। अत्र तस्याः किं कुशलमिति नायकप्रश्ने दूत्या कुशलमकुशलं वेति प्रतिवक्तव्यजीवतीत्यादियुक्तिभङ्ग्या योऽयं त्वद्विरहे जीवितमात्रशेषेति सूचनाप्रकारस्सोऽयमुक्तिर्नाम गुणः। उपक्रमस्य निर्वाहो रीतिरित्यभिधीयते ।। 26 ।। एकं याचितमर्थिना द्बिगुणितं चित्ते त्वदीये पुन- र्वाक्ये तन्त्रिगुणं चतुर्गुणयुतं हस्ते ततस्त्वर्थिनः। पाणौ पञ्जगुणं प्रकल्पितमहो षाड्ड्डत्ध्;गुण्यदीक्षागुरो- रौदार्ये तव सिङ्गभूप नितरामाश्चर्यमाचार्यकम् ।।27।। अत्र्रकादीनां षडड्डत्ध्;न्तानां यथाक्रमं निर्वाहो रीतिः। इति गुणविवेकः। रीतिः पदानां घटना प्रोक्ता रीतिविशारदैः। रीङ् गतावित्यतो धातोरियं रीतिरितीर्यते ।। 27 ।। असमासा समासेन मध्यमेव विभूषिता। अतिदीर्घसमासा चमिश्रा चेति चतुर्विधा ।। 28 ।। असमासा यथा राजानः सन्तु लोके दिनरजनिकृतोरत्र वंशावतंसा विष्णोरैतिह्यसिद्धानभिदधति गुणान् कीर्तिगन्धाः प्रवन्धाः। अद्य क्षोणी कृतार्था नृपतिकुलगुरू चक्षुषी यस्य सौऽयं देवो रेचर्लवंशो विहरति भगवान् सिङ्गभूपालमूर्तिः ।।28।। नन्वत्र समासः श्रूयते कथमसमासेति चेत् श्रूयताम्। अत्र नञा समासस्वरूपनिषेधो नाभिधीयते। किन्तु तस्य तीर्गत्वं द्राघीयस्त्वं च। यथा-अनुदरेयं कन्या; निस्सारः पुमान्; इति। तस्माद् द्वयोः त्रयाणां वा (न) पदानां समासे रीतेः सढद्धठ्ठड़14;टदयढद्धठ्ठड़14;टदयानामनुद्वेगदायिनामसमासत्वम#ेव । यथा च दृष्टमसमासमार्गानुसारिणां महाकवीनां प्रबन्धरत्नेषु। "तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी" ।।29।। इत्यादि मेघसन्देशे "वरतनुकबरीविधायिना सुरभिनखेन नरेन्द्रपाणिना। अपचितकुसुमापि वल्लरीयं समजनि वृन्तनिलीनषट्पदा"।। ।।30।। इति कर्णामृते। "उत्फुल्लगण्डड्डत्ध्;युगमद्भुतमन्दहासमुद्वेलरागमुररीकृतकामतन्त्रम्। हस्तेन हस्तमवलम्ब्य कदा नु सेवे सल्लापरूपममृतं सरसीरुहाक्ष्याः ।।31।। इति सिङ्गभूपालीये। "मुखप्रधानैरवलंबपूर्वैः कण्ठग्रहैर्विप्रतिपीडिड्डत्ध्;ताङ्गैः। नखप्रचारै श्शिथिलोपगूढैर्लब्धैः प्रियाया मुमुदे मुकुन्दः ।।32।। इति कन्दर्पसंभवे। एवनम्येष्वपि वैदर्भमार्गानुसारिणां प्रबन्धेषु तत्र तत्र च तुन्नपदसमासस्यासमासत्वकीर्तनानुप्रवेशाकारो ऽवगन्तव्यः। अपरञ्च न्यूनानामदशाधिकानां पदानां समासो मध्यमः तद्वती मध्यमसमासा यथा श्रीसिङ्गभूप भवदीयवचोविलास- धारासुधामधुरिमानुभवानुभावात्। आमीलिताञ्चलविलोचनयुग्मनिर्य- दानन्दबाष्णकणिकाः सुधियो भवन्ति ।।33।। दशाधिकपदसमासातिदीर्घसमासा यथा श्रीसिङ्गक्षोणिपालप्रबलबलभरोद्धूतधूलीवितान- छन्नच्छायासहायद्युतिहरिदुदरस्कन्धबद्धान्धकारे। व्योम्नि व्यामप्रमेयस्तनयुवतिपरीरंभसंहभकेली- प्रत्यूहव्यूहशान्तिप्रमुदितमनसस्तं प्रशंसन्ति सिद्धाः ।।34।। असमासादिरीतीना सहकारान्मिश्रा । असमासातिदीर्घसमासयोर्मिश्रणे यथा अवितुरकृतभङ्गं सिङ्गभूपालमौले- स्त्रिभूवनमपि शुद्धं कीर्तिकल्लोलिनीभिः। विषमविषमचक्षुर्जूटकोटीकुलुङ्ग- स्खलितफलितफेनस्वढद्धठ्ठड़14;धुनीस्पर्धिनीभिः ।।35।। अत्र प्रथमार्धेऽसमासोत्तरार्धेऽतिदीर्घसमासा। असमासामध्यमसमासयोर्यथा प्रतिनृपतिपुरन्ध्रीचारुपाटीरचर्चा- परिकरपरिचर्याद्रोहिणी खड्ड्डत्ध्;गधारा। जयति विजयलक्ष्म्या वेणिकाश्रेणिकान्ती रणभुवि तव बाहासङ्गिनी सिङ्गभूप ।।36।। अत्र प्रथमार्धे मध्यमसमासोत्तरार्घेऽसमासा। अतिदीर्घमध्यमसमासयोर्यथा सिङ्गक्ष्मापाल युद्धे प्रतिभटरथिनीनाथकोटीरकोटी- स्फायल्लीलाकलाची भरितनववसाविस्रकीलालहालाम्। पायं पायं पिशाचाः सह सह चरीहस्ततालानुकूलं क्रीडड्डत्ध्;न्ति क्रेंक्रियाभिः कहकहनिनदाडड्डत्ध्;म्बरालम्बिनीभिः ।।37।। अत्र प्रथमार्धेऽतिदीर्घसमासोत्तरार्धे मध्यमसमासा। एवमन्यदप्येतज्जातीयं द्रष्टव्यम्। इति रीतिविवेकः। या विकासे च विक्षेपे विक्षोभे विस्तरे तथा (चेतसो वर्तयित्री स्यात्सा वृत्तिः सापि षड्ड्डत्ध्;विधा) ।। 29 ।। कैशिक्यारभटी चैव भारती सात्वती तथा। मध्यमारभटी चैव तथा मध्यमकैशिकी ।। 30 ।। मृदू श्रृङ्गारकरुणौ स्वल्पौ हासायाद्भुतौ पुनः। उद्धतौ रौद्रबीभत्सौ किंचिद्वीरभयानकौ ।। 31 ।। शब्दार्थयोर्मृदुत्वेन कैशिकीवृत्तिरिष्यते ।। 32 ।। यथा अलोलैराश्चर्यादविरलितलज्जापरिमलैः प्रमोदादुद्वेलैश्चकितहरिणीप्रेक्षणसखैः। अमन्दैरौत्सुक्यात्प्रणयलहरीमर्मपिशुनै- रपाङ्गैस्सिङ्गक्ष्मारमणमबला वीक्षितवती ।।38।। वृत्तिमारभटीमाहुः प्रौढत्वादर्थशब्दयोः ।। 33 ।। यथा सावष्टम्भ सदम्भजम्भगिरिसद्व्यालम्भनोत्तम्भित प्रारम्भाद्भूतजम्भभेदिभिदुरत्विङ्गेन खङ्गेन ते । श्रीसिङ्गक्षितिरक्षक प्रतिमृधं सिद्ध्येदरि क्ष्माभृतां सा रम्भाकुचकुम्भसम्भ्रमपरी रम्भादिसम्भावना ।।39।। अत्र स्निग्धप्राणवर्णप्रायत्वं सन्दर्भस्य मृदुत्वम्। श्रुङ्गारत्वादर्थस्त मृदुत्वम्। अत्र रूक्षमहाप्राणवर्णप्रमायत्वेन संदर्भस्य गाढत्वम्। प्रतिभटध्वंसनरुपत्वादर्थस्यगाढत्वम्। मृद्वर्था प्रौढसंदर्भा भारतीवृत्तिरिष्यते ।। 34 ।। यथा तज्जित्वा परिरम्भणप्रभृतिकं द्यूते सखीनां पुरः शार्यारोपणसूचिते पणविधौ श्रीशिङ्गपृथ्वीक्षिता। हासोत्फुल्लकपोलकान्तिलहरीसंक्रान्तवक्रेक्षणा सा स्विन्नाङ्गुलि शारिकापरिकरं सज्जीकरोति प्रिया ।।40।। अत्र श्रृङ्गारत्वादर्थस्य मृदुत्वम्। बन्धस्य महाप्रणरूक्षवर्णप्रायत्वं प्रौढत्वम्। प्रौढार्थमृदुसंदर्बा सात्वती वृत्तिरिष्यते ।। 35 ।। यथा श्रीसिङ्गभूपकरवालहलारिमौले- र्मुक्ताफलानि पतितान्यभितः स्फुरन्ति। कीलालमांसकलितासु रणस्थलीषु बीजाङ्कुराणि यशसामिव निर्मलानि ।।41।। अत्र रिपुहिंसनरूपत्वा दर्थस्य प्रौढत्वम्। अल्पप्राणवर्णप्रायत्वात्संदर्भस्य मृदुत्वम्। मृद्वर्थ ईषत्प्रौढसंदर्भा मध्यमकैशिकी ।। 36 ।। यथा त्वामाश्रितेष्ववसरोऽपि न हि क्रशिम्नां तच्चितमाश्रयति च त्वयि सा नतभ्रूः। आख्याति हन्त तनिमानमिति प्रसङ्गे कस्यायशो विमृश चेतसि सिङ्गभूप ।।42।। अत्र विप्रलम्भत्वादर्थस्य मृदुत्वम्। बन्धस्य संयुक्तवर्णह्रस्वाक्षरप्रायत्वेनोर्जितत्वादीषद्गाढत्वम्। मद्यमारभटी प्रौढेऽप्यर्थे नातिमृदुक्रमा ।। 37 ।। यथा संवर्तपावकशिखा किमु किं नु जिढद्धठ्ठड़14;वा मृत्योरियं किमु युगान्तकृतान्तदंष्ट्रा। इत्यूह्यते समरसीमनिषेव्यदेशे श्रीसिङ्गभूपकरकम्पितखड्ड्डत्ध्;गरेखा ।।43।। अत्र समरक्रियारूपत्वादर्थस्य प्रौढत्वम्। मिश्रवर्णारब्धत्वात्संदर्भस्य नातिमृदुत्वम्। इति वृत्तिविवेकः। पाकं वाचां परीपाकमाहुराखादमेदुरम्। सोऽयं मृदुः खरश्चेति समासेन द्विधा भवेत् ।। 38 ।। अत्र मृदुपाको यथा किं कामेन किमिन्दुना सुरभिणा किं वा जयन्तेन वा मद्बाग्यादनवोतसिङ्गनृपते रूपं मया वीक्षितम्। धन्यास्तत्परिचर्ययैव सुदृशौ हन्तेति रोमाञ्चिता स्विद्यद्गण्डड्डत्ध्;तलं सगद्गदपदं साख्याति सख्याः पुरः ।।44।। अत्र द्राक्षापाक इवाक्लेशेन समास्वाददायी शब्दपरिणामो मृदुपाक इत्युच्यते। सोऽयं प्रायेण सहजसाहित्यरेखासमुल्लेखानां सरसकवीश्वराणामानन्दनिष्यन्दफले प्रबन्धेषु दृश्यते। तथा हि --- कालिदासस्य। "विवृण्वती शैलसुतापि भावमढद्धठ्ठड़14;गै" रित्यादि कुमारसंभवे ।।45।। तथा च श्रीहर्षदेवस्य। "फुल्लो जणाणुरावो लज्जा गुरुई परप्पसो अव्वा। पिअसहि विसमं पेम्मं मरणं सरणं च चरम एत्तं" ।।46।। तथा च ममैव चिक्षेप लक्ष्मीर्निटले नखाग्रैः प्रस्वेदवारातपमाक्षिपन्ती। जुगोप देवोऽपि स रोमहर्षं जवाब्धि वाताहतिकैतवेन ।।47।। इति कन्दर्पसंभवे। एवमन्यत्रापि द्रष्टव्यम्। खरपाको यथा कल्याणेक्षण हेषया प्रकटितस्तम्भप्रतिष्ठाक्रमे मन्दाक्षच्छवि सुन्दरे ललितदृक्कोणक्रियातोरणे। भावोल्लासविलासके वरतनोरस्या मनोमण्टपे श्रीसिढद्धठ्ठड़14;गक्षितिपालमूर्तिरयते साम्राज्यसिंहासनम् ।।48।। अत्र नारिकेलपाक इव विमर्शक्लेशेन विलंब्यास्वाददायी शब्दपरिणामः खरपाक इत्युच्यते। सोऽयमभ्यस्तकविभूमिकानां वक्रोक्तिवासनावासितान्तः करणानां विदग्धानां व्युत्पत्तिमात्रफलेषु लक्ष्यते। तथा हि मुरारेः तदात्वप्रोन्मीलन्म्रदिमरमणीयाः कठिनतां विचिन्त्य प्रत्यङ्गादिव तरुणभावेन नमितौ। स्तनौ संबिभ्राणाः क्षणविनयवैयात्यमसृण- स्मरोन्मेषाः केषामुपरि सरसानां युवतयः ।।49।। तथा नैषधकारस्य सर्वाणि रोमाण्यपि बालभावाद्वरस्त्रियं वीक्षितुमुत्सुकानि। तस्यास्तथा कोरकिताङ्गयष्टेरुद्ग्रीविकादानमिवान्वभूवन् ।।50।। यथा तस्यैव साधु त्वया तर्कितमेतदेव स्वेनानलं यत्किल संश्रयिष्ये। विनामुना स्वात्मनि तु प्रहर्तुं मृषा गिरं त्वां नृपतौ न कर्तुम् ।।51।। एवमन्यत्राप्यनुसंधेयम्। इति पाकविवेकः। शय्या पदानामन्योन्यमैत्री विनिमयासहा। स एवास्य पराकाष्ठा शय्या देशविभेदनः ।। 39 ।। लोके प्रसिद्धमित्येषा प्राज्ञैः शय्येति कीर्तिता ।। 40 ।। संरंभादनवोतसिङ्गनृपतेर्घाटीसमाटीकने निःसाणेषु धणं धणं धणमिति घ्वानानुसन्धायिषु। मोदन्ते हि रणं रणं रणमिति प्रौढा स्तदीया भटाः भ्राÏन्त यान्ति तृणं तृणं तृणमिति प्रत्यर्थिपृथ्वीभुजः ।।52।। यथा लीलालोकनलोलुपं मृगकुलं गन्ता गुहान्तानिमां- स्तत्क्रव्यग्रसन व्रतीह भविता द्वीपी रुषोद्दीपितः। याता तन्मृगयारतेर्वनमिदं श्रीसिङ्गभूपोदया- दित्यादिर्भयमादिशन्त्यरिनृपाः स्त्रीणामनीक्षाव्रतम् ।।53।। अत्र पदानां पर्यायपदसद्भावेऽपि परिवृच्यसहिष्णुत्वादन्योन्यमैत्रीरूपा शय्या। अत्र रसस्य पृथक्प्रकरणे प्रपञ्चनविवक्षया व्युत्क्रम्य वृत्तिपाकशय्यानां स्वरूपं निरूपितम्। इति शय्याविवेकः। इति सरससाहित्यचातुरीधुरीणविश्वेश्वरकविचन्द्रप्रणीतायां श्रीसिङ्गभूपालकीर्तिसुधासार शीतलायां चमत्कारचन्द्रिकायां गुणविवेको नाम चतुर्थो विलासः ।।