प्रमुखा विकल्पसूचिः उद्घाट्यताम्

प्रथमो विलासः

चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्रविरचिता प्रथमो विलासः

वाग्देवी वदने मम स्फुरतु या ध्वन्यात्मनोल्लासिनी वर्णव्यक्तिमुपागता च तदनु स्थानप्रयत्नादिभिः।

भावानां पदसंज्ञया विदधती त्रेधा समुल्लेखना- न्यानन्दाननुसंदधाति विदुषां प्राप्ता महावाक्यताम् ।। 1 ।।

रम्योच्कयर्थतनूज्ज्वला रसमयप्राणा गुणोल्लासिनी चेतोरज्जकरीतिवृत्तिकलिता पाकं वयो बिभ्रती।

नानालङ्करणोज्ज्वला रसवती सर्वत्र निर्दोषतां शय्यामञ्चति कामिनीव कविता कस्यापि पुण्यात्मनः ।। 2 ।।

कृतिरभिमतकृतिचतुरा यदि चतुरोदात्तनायकगुणोदारा।

इति लज्ञणकृतिरत्नं रचये श्रीसिङ्गनृपगुणोदाहरणम् ।। 3 ।।

लोके राघवपाण्डड्डत्ध्;वाद्भुतकथागन्धानुसंधायिनौ तौ ग्रन्थाविब तन्मुनिप्रणिहितौ श्रीसिङ्गभूपाश्रयः ।

यायादादरणीयतां कृतधियां ग्रन्थोऽयमस्मत्कृतो नाहं यद्यपि तादृशोऽस्म्ययमसौ राजा हि तादृग्गुणः ।। 4 ।।

नृणां विधौ च नाथे च शिक्षा काव्यप्रयोजनम्। शिक्ष च सचमत्कारं बोधिता स्थिरतां भजेत् ।। 5 ।।

चमत्कारस्तु विदुषामानन्दपरिवाहकृत्। गुणं रीतिं रसं वृतिं पाकं शय्यामलङ्कृतीम् ।। 6 ।।

सप्तैतानि चमत्कारकारणं ब्रुवते बुधाः । गुणादीनां वाक्यशोभाकृतौ साधम्र्ययोगतः ।। 7 ।।

एकाङ्गतैव काव्यस्य कथिता कुब्जकादिभिः। गुणभूषारसान्यत्र त्रीण्यङ्गान्याह भोजराट् ।। 8 ।।

सप्ताङ्गसङ्गतं काव्यं साम्राज्यमिव भासते। लक्ष्यते तदितं साङ्गं मया कृतधियां मुदे ।। 9 ।।

अत्रालङ्करशो भवन्तु सुधियऋः स्निग्धा इति प्रार्थना व्यर्था यद्भरतादिभक्तिषु मतिर्येषां तलस्पर्शिनी।

ते सारज्ञतयैव बिभ्रति मुदं ये संशयेनास्फुटा- स्ते सन्देहनिवृत्तये हृदि धइयं कर्तुं यतन्ते स्वयम् ।। 10 ।।

वागर्थौ सचमत्कारौ काव्यं काव्यविदो विदुः। वाक्छब्द इति पर्यायौ वाग्भिरर्थः शिवः स्मृतः ।। 11 ।।

सा वाक त्रेधा स्मृता वर्णाः पदं वाक्यमिति क्रमात्। अकारादिहकारान्ता वर्णाः स्युर्मातृकाढद्धठ्ठड़14;वयाः ।। 12 ।।

अल्पप्राणा महाप्राणा इति ते द्देविधा मताः। बुधास्तत्र महाप्राणानाहुरूष्मचतुष्टयम् ।। 13 ।।

वर्गेषु समवर्णाश्व सवर्णं केचिदीरते। अल्पप्राणास्तु शेषाःस्युः शसावपि परैः स्मृतौ ।। 14 ।।

उभयो तेऽपि कथिता स्निग्धा रूक्षा इति द्बिधा। अल्पप्राणाः सजाती यैर्युक्ताः स्निग्धा इति स्मृताः ।। 15 ।।

स्वै रन्यैर्वा महाप्राणा युक्ता रूक्षाः परैः पुनः। अल्पप्राणाश्व कथिता रूक्षा यरलवैर्युताः ।। 16 ।।

सानुस्वारतया स्नैग्ध्यं यान्ति रूक्षा अपि क्वचित्। भेदो ज्ञेयस्तस्य संख्यावन्द्यवन्ध्यादिके बुधैः ।। 17 ।।

यथोचितमिमे वर्णा रसादेरुपयोगिनः। न्यस्ता काव्यमुखे वर्णास्तत्त द्दैवतमूर्तयः ।। 18 ।।

कर्तुः कारयितुः श्रौतुः कल्पयन्ति शुभाशुभे। अकारः प्रीतिदायी स्यान्निषेधे तु विपर्ययः ।। 19 ।।

त्र्प्राकारो हर्षदः सौऽपि कोधात्र्यादिषु नोचितः। इकारादिचतुप्कं तु कुर्यात्तुष्टिमनोरथौ ।। 20 ।।

ऋकारादीनि चत्वारि संततिस्तम्भहेतवः। एकाराद्याश्व चत्वारः कामवाङ्मोक्षभूतिदाः ।। 21 ।।

लक्ष्मीकरः कवर्गः स्याच्चकारः कीर्तिनाशनः। छ्जकारौ रौगहरौ झजौ तु मरणप्रदौ ।। 22 ।।

टठकारौ खेदकरौ डड्डत्ध्;ः शुभो ढस्त्वकान्तिकृत्। वस्तुलाभकरो णस्तु तकारो विघ्ननाशनः ।। 23 ।।

थकरो युद्धकारी स्याद्दधकारौ धृतिप्रदौ । नकारस्तापकृत् कश्विदनिषेधे शुभः स्मृतः ।। 24 ।।

रक्षादायी पकारः स्यात्फकारः साध्वसप्रदः । आरोग्यकृद्बकारः स्याद्भकारः स्मृतिभाग्यकृत् ।। 25 ।।

मकारः क्षोभकृद्यस्तु श्रीदो रेफस्तु दाहकृत। लो जाडड्डत्ध्;्यकृद्वकारस्तु वागारोग्यायुषां खनिः ।। 26 ।।

ऊष्माणः सुखभेदश्रीनिर्वाणनिधयः क्रमात्। क्षं विना क्रूरसंयुक्तः सौम्यस्त्याज्यो विषान्नवत् ।। 27 ।।

श्लेषस्तु कुभयोः श्रेयान् श्रीविश्राणनयोरिव। गुरुः पुनरमी द्वेधा .... .... .... .... ।। 28 ।।

अनुस्वारविसर्गान्ता दीर्धा युक्तपराः प्लुताः। गुरवो लघवस्त्वन्ये स्मृतास्ते तु त्रयो गणाः ।। 29 ।।

मयरसतजभनसंज्ञा गणाः प्रसूता परस्तु पूर्वस्मात्। जन्योऽत्र जनकनिकटे सुतवद्वितनोति नाशुभं कर्म ।। 30 ।।

सर्वमूलं तु मगणं प्राप्य सर्वगणःझ शुभः। पूर्वाचार्योदितं तेषां लक्ष्म दैवं फलं ब्रुवे ।। 31 ।।

क्षेमं सर्वगुरुर्दत्ते मगणो भूमिदैवतः। करोत्यर्थानादिलघुर्यगणो वारिदैवतः ।। 32 ।।

भीतिदायी मध्यलधू रगणो वढिद्धठ्ठड़14;नदैवतः। कुरुतेऽन्त्यगुरुर्नाशं सगणो वायुदैवतः ।। 33 ।।

ईशत्वमन्तिमहघुस्तगणो व्योमदैवतः। रुजाकरो मध्यगुरुर्जगणो भानुदैवतः ।। 34 ।।

आदिगुरुः सौख्यदायी भगणश्वन्द्रदैवतः। धनङ्करः सर्वलघुर्नगणो यज्ञदैवतः ।। 35 ।।

अष्टौ जातिष्वमी प्रोक्ता मात्रायां तु त्रयः स्मृताः ।। 36 ।।

गण इहतु लघुचतुष्कं द्वे वा गुरुणी लघुद्वयं चैकगुरु। सर्वलधोः सर्वगुरोरेकगुरोरपिच पूर्ववद्दैवफलै ।। 37 ।।

शुभं काव्यमुखे न्यस्यैद्गणं वर्ण च नासुभम् ।। 38 ।।

अस्त्युत्तरस्यां वागर्थौ कश्वित्कान्तेत्युदाहृतिः। कालिदासत्रये ज्ञेया शुभयोर्गणवर्णयोः ।। 39 ।।

श्रियः कुरूणामित्यत्र श्रियः पतिरितीह च । वेष्टुं जगणदोषस्य कृते श्रीश्रीपतिस्मृतिः ।। 40 ।।

यद्वा तगणसान्निध्यात्तज्जन्यो जगणः शुभः। इदं कविभ्य ङत्यत्र पुनर्मगणयोगतः ।। 41 ।।

मङ्गलार्थेऽभिधाने वा देवनामाङ्कनेऽपि वा। गणो न दूप्यो वर्णश्व देवताधिष्टिताश्मवत् ।। 42 ।।

चतुर्मुखमुखे त्यादौ चवर्णो जगणोऽपि च। ब्रढद्धठ्ठड़14;ननामाङ्कितत्वेन कव्यादावपि शोभनौ ।। 43 ।।

शृङ्गारवीरसौहार्दमित्यत्र तु कृतेर्मुखे। ऋवर्णगः शकारोऽपि मङ्गलार्थो विशिष्यते ।। 44 ।।

प्रशस्तेः पात्रनित्यादौ प्रकर्षस्याभिधानतः। पकारो रेफयुक्तोऽपि स्फुटं काव्यमुखे शुभः ।। 45 ।।

मुखे प्राक्तनकाव्यस्य प्रामाण्यमनुबध्नतः। दुष्टे वर्णे गणे धीमान् कुर्यादेवं विचारणाम् ।। 46 ।।

प्राचां प्रायेण गंभीरा वाचः तदधुनातनैः । तदुदाढद्धठ्ठड़14;टतिमात्रेण लङ्घ्या लक्षणसंस्थितिः ।। 47 ।।

नियमोऽयं वर्तमाननायकस्तुतिगोचरः। न भूतपुर्वविषय इति केचन मन्वते ।। 48 ।।

तच्चिन्त्यमथवा त्याज्यं दाक्षिण्येन किमीदृशा। प्रबन्धेऽपि पुराभूत निवृच्यन्त निबन्धने ।। 49 ।।

कर्तुः कारयितुः श्रोतुः फलकाङ्क्षाप्रवृत्तितः। निर्दोषस्यैव काव्यस्य पोत्पादनशक्तितः ।। 50 ।।

मर्यादाया अभावेन यथेच्छोक्तिप्रसङ्गतः। पक्षे दोषश्रुतेश्वैव नैवत्प्रज्ञावतां मतम् ।। 51 ।।

एकस्मिन्नपि नष्टं स्याद् दृष्टे दोषे व्रतायुतम्। दोषस्यैतादृशी शक्तिः सहजा किं नु कुर्महे ।। 52 ।।

तस्मात्सर्वप्रयत्नेन धर्मार्थाद्यभिलाषिणा। कविना दोषलेशोऽपि त्याज्य एवेति निश्चयः ।। 53 ।।

गुणस्तु श्रुतिमाधुर्यं वर्णदोषो विपर्ययः ।। 54 ।।

।। इति वर्णविवेकः ।।

विभक्त्यन्तं पतं तच्च वाचकं लक्षकं द्विधा। व्यञ्जकञ्चापरं प्रोक्तं ध्वनिप्रस्थानवेदिभिः ।। 55 ।।

यथासङ्केतमर्थस्य बोधकं वाचकं मतम्। यौगिकं रूढमित्येतद् द्विधा स्यात्तत्र यौगिकम् ।। 56 ।।

यत् प्रकाशयति स्वार्थमङ्गव्युत्पच्यपेक्षया ।। 57 ।।

यथा चन्द्रे चन्दनसरसे राज्ञि श्रीसिङ्गनामधेये च । चरितार्थानि जनानां रूपग्राहीणि करणानि ।। 1 ।।

अत्र चन्द्रचन्दनसरसादिशब्दानामाङ्लादयतीत्यादिव्युत्पत्तिपुरस्सरमेवार्थबोधकत्वमिति यौगिकत्वम् ।।

रूढं पुनश्चावयवव्युत्पत्तिनिरपेक्षकम् ।। 58 ।।

यथा दानेन कर्णो दयया दिलीपो नयेन काव्यो विनयेन रामः। यदि प्रसिदिं्ध दधताममीभिः श्रीसिङ्गभूपो निखिलैः प्रसिद्धः ।। 2 ।।

अत्र कर्णादीनां शब्दानामवयवव्युत्पत्तिमन्तरेणाप्यर्थबोधकत्वाद्रूढत्वम्।। सङ्केतितार्थबाधेन तत्सम्बन्धिनि वस्तुनि । व्यापृतं लक्षकं तच्च द्विधा रूढेः प्रयोजनात् ।। 59 ।। तत्र रूढं लक्षकं यथा श्रीसिङ्गक्षितिपाल पालनकलानिष्णात सेवावतां संशिक्षाकुशलप्रतीतमनसां प्राप्तौ प्रवीणश्रियाम्। त्वत्पाददयमर्चयन्त्यरिनृपाः कोटीरकोटीगतै - र्माणिक्यैर्नवशक्रगोपसुषमाहंकारसंकोचकैः ।। 3 ।। अत्र निष्णातकुशलप्रवीणशक्रगोपशब्दानां नितरां स्नातः, कुशान् लाति, प्रकृष्टा वीणास्य, शक्रं गोपायतीति मुख्यार्थानमविवक्षया चातुर्येन्द्रगोपकीटलक्षणाया रूढिरेव मूलम्, नान्यत्सढद्धठ्ठड़14;टदया ढद्धठ्ठड़14;लादकारणं किंचिदिति रूढलक्षकत्वम्।। सप्रयोजनलक्षकं यथा श्रीसिङ्गभूप समये समये भवन्त - मास्थानमण्टपगतं जनरञ्जनाय। कल्याणहेमकलशैः सममातपत्रै - रान्दोलिकाः सपदि सेवितुमापतन्ति ।। 4 ।। अत्राचेतनानां हेमकलशाङ्कितछत्राणामान्दोलिकानाञ्च सेवार्थमागमनमसंभावितमिति छत्राधाराः पुरुषाः, आन्दोलिकाधेया राजानो विद्वांसो वा संलक्ष्यन्ते। अनेन चास्थानमण्टपाङ्गणे छत्रान्तोलिकानामतिबाहुल्यं प्रयोजनतया विवक्षितम्। तेन च नायकमाश्रितानामान्दोलिकाद्यवधयो विभूतय इति च। तदिदं प्रयोजनलभकम्।। अमुख्यया मुख्यया वा वृच्यार्थे प्रतिपादिते। उत्कर्षाय यदन्यार्थद्योतकं व्यञ्जकं हि तत् ।। 60 ।। यथा अहो साहित्यसौभाग्यं श्रीसिङ्गधरणीपतेः। श्लाघायै यस्य सन्नद्धा वाचो विश्वेश्वरस्य मे ।। 5 ।। अत्र सरससाहित्यचातुरीविश्रामभूमिरहमिति विशिष्टोऽस्मदर्थोऽर्थान्तरसंक्रमितेन ममेति पदेन लक्ष्यते। अनेन साहित्यसहजसैरभं विना नान्यस्मै चमत्कारकारितेति व्यज्यते। संनद्धा इति पदेनात्यन्ततिरस्कृतवाच्ये (न?) तत्परतया ग्रथिता इति लक्ष्यते। अत्रानेन च नायकसाहित्यस्य सर्वसाजात्यातिशायित्वं द्योत्यत इति पदव्यञ्जकमेतत्।। मुख्यया यथा सिङ्गप्रभुरलंकारी लङ्कारी रावणः पुनः। वर्णान्तरत्वमुभयोः श्रूयते सर्वसंमतम् ।। 6 ।। वर्णेनाक्षरेणान्तरं भेदो ययोस्तच्वमिति मुख्यया वृच्या वाच्ये प्रतिष्ठिते वर्णां वैश्यजातिरन्तरं नायकरघुनायकयोरिति परस्परव्यतिरेकारङ्कारो वर्णान्तरमिति पदेन व्यज्यत इति पदव्यञ्जकमेतत्।। यथा वा कृतायस्तम्भनिर्भेदो भक्तप्रढद्धठ्ठड़14;लादपोषकः। श्रीपतिर्नरसिंहोऽयं राजते राजशेखरः ।। 7 ।। कृतो रचित अयस्तम्भस्य शुभावहविधिजाडड्डत्ध्;्यस्य निर्भेदो निवारणं येन सः कृतायस्तम्भनिर्भेदः। दैवानुकूल्यसंपादनचतुर इत्यर्थः। भक्तप्रङ्लादपोषकः सेवकसन्तोषवर्धनः राजशेखरो भूपालमौलिः नरसिंहः श्रीसिङ्गभूपालो राजत इत्यसिद्धया प्राकरणिकेऽर्थे प्रतिपादिते येऽयं कृतलोहस्तम्भभेदनस्य प्रढद्धठ्ठड़14;लादाभिधानभक्तपोषकस्य चन्द्रकलाधारिणो भगवतः श्रीनृसिंहस्य प्रतीतिस्तया शब्दशक्तिमूलया नायककण्ठीरवकपटकण्ठीरवयोरुपमालङ्कारध्वनिरनुसन्धीयत इति व्यञ्जकमिदम्। अथ पददोषाः पदं दुष्टमपभ्रष्टमप्रयुक्तं निरर्थकम्। विरुद्धार्थमपुष्टार्थमप्रतीतमनिश्चयम् ।। 61 ।। क्लिष्टं देश्यं सनेयार्थं प्रतिहस्तमवाचकम्। जुगुप्सितमकल्याणं व्रीडड्डत्ध्;ाकरमितीरितम् ।। 62 ।। तत्राशिष्टमपभ्रष्टं यथा वाग्देव्याः प्रभविष्यता प्रभवता गाढं प्रभुतेन च श्रेयःपाकभरेण सिङ्गनृपते भावज्ञचूढामणिम्। त्वां जेतारमजीजनत् प्रसविता सर्गस्य नोचेदियं सत्ये वा विफलायुषां कृतधियां शापे न जीवेत विम् ।। 8 ।। अत्र जीवेतेत्यान्मनेपदित्वमनुशासनविरुद्धम्। तेन जीवेत्कथमिति साधीयान् पाठः।। तदप्यनुकृतौ गुणः ।। 63 ।। राजा संस्कृतवादिषु प्रणयवानित्याशया गुण्भितं तद्भृत्यत्र भवामहे पदरजैरेधेम मौलिस्थितैः।। इत्थं पण्डिड्डत्ध्;तमानिनां क्षितिभुजां दुस्संस्कुतं वाचिनां तैः साकं सुपदीकरोति कृपया श्रीसिङ्गनारायणः ।। 9 ।। अत्र भृत्यत्नेत्यसर्वनाम्नो भृत्यशब्दात् त्रल्प्रत्ययः, भवामहे इत्यात्मनेपदम् पदरजैरित्यकारान्तत्वम् एधेमेत्येधतेः परस्मैपदित्वं चापभ्रंशाः। तथाप्यव्युत्पन्नजनवचनानुकरणान्न दोषः ।। अप्रयुक्तं शिष्टमपि कविभिर्यदनादृतम् ।। 64 ।। यथा पझास्त्यक्ता महीपालस मुखलोतुपया श्रिया। न चेदेषामलक्ष्मीकैः कुमुदैर्न सहासिका ।। 10 ।। अत्र "वा पुंसि पझं नलिनं" इत्यनुशासनेऽपि कविभिः पुंलिङ्गे प्रायेण न प्रयुज्यत इति पझा इत्यप्रयुक्तमिदम्। पजं त्यक्तमिति प्रथमार्धे, न चेदस्य गतश्रीकैरिति द्वितीयार्घे च पाठो रमणीयः।। गुणात्वमिष्यते तञ्ज्ञेरस्यापि यमकादिषु ।। 65 ।। यथा या पङ्क्तिब्र्राढद्धठ्ठड़14;नणेन्द्राणामाशास्ते स र्वदैवताः। श्री सिङ्गभूप दधतामाशास्ते सर्वदैवताः ।। 11 ।। अत्र दैवतशब्दस्य पुंलिङ्गे कविभिरनादृतस्यापि हेयत्वाद् आवृत्तियमके प्रयोगो न दुष्टः। पादपूरणमात्रं यदविशेषकरं च यत्। तन्निरर्थकमित्युक्तं पदोपस्कारवेदिभिः ।। 66 ।। यथा कमला कमलापायशङ्किनी शिशिरादिषु। अध्यास्ते सर्ववन्द्या वै मुखं श्री सिङ्गभूपतेः ।। 12 ।। अत्र वै इति पादपूरणमात्रमा। क्षियः सर्ववन्द्येति विशेषणं सशङ्कायामध्यासनक्रियायां विशेषं नोपपादयतीति तद्द्वयं निरर्थकम्। "अध्यास्ते सर्वदा रम्यम्" इति द्वितीयार्घपाठो रमणीयः । आहुरस्यापि सार्थत्वं यमकादिषु सूरयः ।। 67 ।। यथा या प्रङ्क्तिब्र्राढद्धठ्ठड़14;नणेन्द्राणामाशास्त इति पूर्वोदाढद्धठ्ठड़14;टतम्। अत्र निरर्थकत्वादेवकारस्य पादपूरणमात्रत्वेऽपि यमकनिर्वाहकत्वादेव सार्थत्वम्।. विरुद्धार्थत्वम्। विरुद्धार्थ हि तद्यत्र विरुद्धार्थः प्रतीयते ।। 68 ।। इन्द्राणीनथभोगोऽयं गुह्यकेशनिभः श्रिया। राजते पाण्डड्डत्ध्;्यभूपालो गोपालसमवैभवः ।। 13 ।। पुरातनकविप्रोक्तः सोऽपि दोषाय नो भवेत् ।। 69 ।। यथा धनुषि जनकपुत्रीनायकप्रौडिड्डत्ध्;भाजा विदलितनिजधर्मैः सिङ्गभूपालकेन। वपुषि कृतजौभिश्वर्मचेलैर्जटालै- रधिगतमरिभूपैरम्बिकानाथसाम्यम् ।। 14 ।। अत्र जनकपुत्रीनायको रघुराम इति विवक्षायामपि पितृसुतापतिरिति यद्यपि विरुद्धार्थः; अम्बिकानाथ इत्यत्र च पार्वतीपतिरिति विवक्षायां जननीपतिरिति प्रतीयते तथापि न विरोधः। ननु-विरुद्धार्थप्रतीतिसाधारण्ये अम्बिकानाथादीनां गुणत्वं, इन्द्राणीनाथादीनां दोषत्वमितिकथं व्यवस्थेति चेत्; उच्यते-प्रायिकप्रयोगरूपेण शिष्टानां परिग्रहेणैव। कैपुनरत्र सिष्टाः? यत्र प्रथमं मार्गमुपदिशन्ति तत्र त एव सिष्टा इति स्थितिररोचकिनः। पुरातनाः कवीन्द्रा एव शिष्टाः न पुनः सतृणाभ्यवहारिणः। अतः "दिनकरकुलरत्नं जानकीचानिरेषः" इति; "तदितिजनकपुत्री शिक्षिता च" इति; "जनकतनयास्नानपुण्योदकेषु" इति; "पायाद्वः सोऽम्बिकारमणः" इति; "अम्बिकानितम्बविम्बस्पर्शलम्पटकराम्बुजा" इति; "तामपाययत पानमम्बिकाम्" इति च महाकविभिरङ्गीकृता गुणप्रयोगाः। जनकपुत्रीनायकाम्बिकारमणादीनां गुणत्वं स्वकपोलकल्पितानां पुनरिन्द्रणीनाथादीनामारूढेरसुन्दरत्वमिति सोऽयं सरससाहित्यतीर्थकरसंमतो घण्टापथः।। यत्तुच्छार्थमतिस्थूलं तदपुष्टार्थमुच्यते ।। 69 ।। यथा ईशानगरिमैश्वर्यप्रतीपैश्वर्ययोग्यताम्। भजन्ते रिपुभूपालास्तव श्री सिङ्गभूपते ।। 15 ।। अत्र लाघवयोग्यतामिति वक्तव्ये गरिमैश्वर्थप्रतीपैश्वर्यमिति शब्दगौरवम्।। उत्कर्षादिविवक्षायामस्यापि गुणता व्कचित् ।। 70 ।। यथा नायकस्यैव वंशाबलल्याम् तस्य पादाम्बुजाज्जातो वर्णो विगतकल्मषः। यस्य सोदरतां प्राप्तं भगीरथतपःफलम् ।। 16 ।। अत्र गङ्गेत्यर्थे कनीयसि भगीरथतपःफलमिति पदाधिक्यम्। तथापि तस्य सगरकुतपाबनक्रियासूचकत्वेन गङ्गाशब्दादत्युत्कर्षापादकत्वमिति गुणत्वम्। वेदशास्त्रैकविख्यातमप्रतीतमिहोच्यते ।। 71 ।। यथा श्रीसिङ्गधरणीपाल भवतः स्फ्येन भूयते। मित्रश्रीराममनुना गर्ववृद्धिकिता द्विषाम् ।। 17 ।। अत्र स्फ्यस्य खङ्गाकारवस्तुवाचकत्वं वेद एव; मनोर्मन्त्रवाचकत्वमागम एव; वृद्धिनिरासकत्वं शब्दशास्त्र एव प्रसिद्धमिति तदप्रतीतम्।। तद्विद्याक्रमनिर्वाहप्रवृत्तौ तदिदं गुणः ।। 72 ।। यथा ईडड्डत्ध्;ापिङ्गलयोः पिधाय वदनं बद्ध्वा त्रिश्टङ्गाटिकां सौषुम्नोपरि संक्रमय्य सरुतः षड्ड्डत्ध्;ग्रन्थिगन्धच्छिदः। प्रात्यग्ज्योतिषरोचिषा प्रसरता संद्राव्य चांद्रींकलां तन्निष्ठ्यूतपरामृतैः परिचितो योगी चिरं जीवति ।। 18 ।। अत्र ईडड्डत्ध्;ापिङ्गलादीनां योगशास्त्रमात्रप्रसिद्धत्वादप्रतीतत्वेऽप्यभ्यासयोगप्रकारस्य सर्वतो निर्वाहाद्गुणत्वम्। अनिश्वितं तद्यत्र स्यादनुत्कर्षाय संशयः ।। 73 ।। यथा श्रीसिङ्गभूपपादाब्जसेवाहेवाकगर्वितः सामन्तराजसन्तानो धात्रीभोगाय कल्पकृत्। ।। 19 ।। अत्रोपमाता धात्री धरित्री वा धात्रीति संशयप्रतीतेरिदमनिश्चितम्। भूमिभोगायेति पाठो रमणीयः। इदं प्रकरणादिभ्यो विशेषावगमेपि च, उत्कर्षे वाऽविरोघे च दोषकक्ष्यां न गाहते ।। 74 ।। यथा रेचर्लान्वयमौलिमण्डड्डत्ध्;नमणे श्रीसिङ्गभूपालक त्वत्खङ्गस्य घनद्युतेः स महिमा लोके कथं वण्र्यते। यस्मिन् कम्पितमात्र एव समितिक्षोणीभृतां मण्डड्डत्ध्;लं सान्तत्येन विमानवर्तनकथामाप्नोति मित्रैस्समम् ।। 20 ।। अत्र घनद्युतेरित्यस्य घना सान्द्रा द्युतिरस्येति, घनस्य मेघस्येव द्युतिरस्येति वा संशयेऽप्यविरोधान्न दुष्टत्वम्। विमानवर्त नकथामित्यत्र विगताभिमानवर्तनस्य वा व्योमयानवर्तनस्य वेति संशयेप्यत्यन्तोत्कर्षान्न दोषः। क्षोणीभृतामित्यत्र राज्ञां गिरीणां वेतिसंशये नायकखढद्धठ्ठड़14;गवर्णनपर्रकरणात् प्रतिराजलक्षणविशेषावगमान्न दोषः। एवं संयोगविप्रयोगादिभिरपि विशेषावगमे द्रष्टव्यम्।। दूरदूरे भवेद्यस्मादर्थः क्लिष्टं तदुच्यते। ।। 75 ।। यथा वाराशिमित्रजनकप्रभवासहाय- केयूरवेतनकयानविलोचनानाम्। श्रीसिङ्गभूवर विरोधिनृपाढद्धठ्ठड़14;गनानां। वन्यस्थली समभवन्निजराजधानी ।। 21 ।। अत्र वारासिमित्रं मैनाकः, तस्य जन्को हिमवान्, तत्प्रभवा पार्वती, तत्सहायो महेश्वरः, तत्केयूराणि सर्पाः, तेषां वेतनकं जीवनकारणं वायुः, तस्य यानं वाहनं मृगः तस्य लोचने इव लोचने यासां ताः, इत्यतिव्यवहितार्थत्वात् क्लिष्टमिदम्।। प्रक्रमस्य च निर्वाहे महतां हैन्यसूचने। प्रयुक्तस्य व्कचित् काव्ये क्लिष्टस्य गुणथा भवेत् ।। 76 ।। प्रक्रमनिर्वाहे यथा-- श्रीसिढद्धठ्ठड़14;गनृपो विभवे धनुषि नये वपुषि रञ्जने जिष्णुम्। तत्पुत्रं तन्मित्रं तत्पुत्रं जयति तन्मित्रम् ।। 22 ।। विभवे जिणुं देवेन्द्रं, धनुषि तत्पुत्रं देवेन्द्रपुत्रमर्जुनं, नये देवेन्द्रपुत्रमित्रं वासुदेवं, वपुषि देवेन्द्रपुत्रमित्रपुत्रं प्रद्युम्नं, रञ्जने देवेन्द्रपुत्रमित्रमित्रपुत्रमित्रं चन्द्रमिति व्यवधानाद दुर्वितर्कप्रत्ययमपि तच्छब्दप्रक्रमनिर्वाहाद् गुणत्वम्।। महापुरुषहैन्यसूचने यथा श्रीभर्तुरायतसुवर्णकराकृतेर्य- दशास्तदायतसुवर्णकरा द्विषस्ते। श्री सिङ्गभूप नगरार्गलदीर्गबाहो तच्वेऽप्यनायतसुवर्णकरोऽसि चित्रम् ।। 23 ।। अत्र आयतो दीर्घभूतः सुवर्णः सुकारो यस्येति आयतसुवर्णः तादृशः करशब्दो यस्य सः आयतसुवर्णकरः सूकर इत्यर्थः। आयतसुवर्णकराकृतिः सूकराकृतिरिति विष्णोस्तिर्यक्त्वकथनभयेन वक्त्रा दूरार्थप्रत्ययः शब्दः प्रयुक्त इति गुणत्वम्। हठार्थप्रतीत्या च यथा शंभोः स्थिता भूषणपेटिकायां श्रियः सपत्नीमभितः स्फुरन्ती। विष्णोः पदं मध्यममाविशन्ती विराजते सिङ्गनृपालकीर्तिः ।। 24 ।। अत्र शंभुभूषणपेटिका पातालम्, श्रीसपत्नी भूमिः, मध्यमविष्णुपदमाकाशमिति नातिदुर्बोधत्वादक्लेशकरमिति गुणत्वम्। देशप्रसिद्धं व्युत्पत्तिरहितं देश्यमुच्यते ।। 77 ।। यथा पेकापरीतकमनीयनितम्बबिम्बा हालामदद्बिगुणपाटलगण्जेरखा। श्रीसिङ्गभूप भवतो मृगयाविहारे का वानुयाति यवनी परिचारिकेव ।। 25 ।। अत्र पेका परिधानभस्त्रा, हला मदिरा, इमे देश्ये। ननु भस्त्रा पेटिकयोस्साम्यात्पेटिका मध्यलोपिनी। पेका हला च हलिनः प्रिया देश्या न हीति चेत् ।। 78 ।। कन्दादुट्टीकत इति कन्दाट्टादेरदेश्यत्। इत्थं निरुक्तनिर्वाहा दमर्यादा प्रशस्यते ।। 79 ।। तदिदं मार्गसंक्षोभप्रज्ञाकण्डूड्डत्ध्;तिरुज्झ्याम्। अङ्कोपालम्बनामादौ न देश्यं दूषणं भवेत्।। ।। 80 ।। अङ्को बिरुदं। तत्र यथा चलमर्तिगण्डड्डत्ध्;बिरुदो जयति प्रतिगण्डड्डत्ध्;भैरवो राजा। सौमकुलपरशुरामः पाण्डड्डत्ध्;यविभालोऽप्यगायि गोपालः ।। 26 ।। अत्र चलमर्तिगण्डड्डत्ध्;ादीनां देश्यत्वे बिरुदत्वाद्गुणत्वम्।। उपारम्भे यथा किं दारुणा कोंकरवंकरेण किं वाससा चींगिरिमांगिरेण। श्रीसिङ्गभूपारविलोकनाय वैदुष्यमेकं सुधियां सहायः ।। 27 ।। अत्र कोङ्करवंकरेणेति दूषणं पदं देश्यम्। तादृशेन दारुणा आन्दोलिकयेत्यर्थः। नानावर्णविचित्रे चींगिरिमांगिरेणेति पदं देश्यम्। तादृशेन वाससा किं पट्टांशुकेनेत्यर्थः। अत्र कश्चिदान्दोलिकापट्टांबराद्याडड्डत्ध्;य्बर मतिव्ययेन सम्पाद्य नानादिगन्तेषु राजास्थानानि विगाह्य तद्व्ययमात्रमप्यलभमातः ऋणाधिकतया क्लिस्यन्नाढम्बरं विनापि नायकमालोक्य तत्करुणाकटाक्षसमग्रीभूत नानावैबवस्सन कस्मैचिदाडड्डत्ध्;म्बररहितेन भवता कथं सम्पदीदृशी सम्पादितेति पृच्छेते जनाय केवलं व्ययकारिणान्दोलिकापट्टपटादिबाह्याडड्डत्ध्;म्बरविढद्धठ्ठड़14;म्बनापुरःसरमुत्तरं वदति। तदत्र कोंकरवंकरादेरुपालम्बनत्वात् देश्यत्वेऽ पि सुन्दरत्वम्।। नाम्नि यथा नायकस्यैव वंशावल्याम्।। तयोरभूवन् क्षितिकल्पवृक्षाः पुत्रास्त्रयस्त्रासिरवैरिवीराः। सिङ्गप्रभुर्वेन्नमनायकश्व वीराग्रणी रेचमहीपतिश्व ।। 28 ।। अत्र सिङ्गम, वेन्नम, रेचय शब्दानामव्युत्पत्तिमच्वाद्देश्यत्वेऽपि नामपदत्वाददुष्टपदत्वम्।। आत्मना क्ल्टप्तसंकल्पं नेयार्थमिति गीयते ।। 81 ।। यथा व्यत्यस्तपात्ररहिता मेदिनीपालशात्रवाः। लीयन्ते हन्त कान्तारे व्यावृत्तपिकसङ्कुले ।। 29 ।। अत्र पात्रशब्दो वर्णप्रातिलोम्येन त्रपां वदति। तथैव व्यावृत्तः पिकः कपिरिति स्वसङ्केतितत्वान्नेयत्वम्।। प्रहेलिकादौ प्रास्तदभ्यनुज्ञायते बुधैः ।। 82 ।। यथा योगिनां भोगिनां किं स्यादिष्टमेतन्न वेत्ति यः। विपरीतो हरस्तेन न ज्ञातो मेदिनीपते ।। 30 ।। अत्र योगिनां भोगिनाञ्च किं प्रियमिति प्रश्ने रह इत्युत्तरे वक्तव्ये विपरीतो हर इत्युक्तम्। तस्य स्वसङ्केतितत्वेऽपि प्रहेलिकात्वाददुष्टत्वम्।। स्वपर्यायपदज्ञानसाधनं प्रतिहस्तकम् ।। 83 ।। यथा श्यामदंष्ट्राकरालेन करवालेन खण्डिड्डत्ध्;ताः। त्वया श्रीसिङ्गभूपाल कर्पूरेण विरोधिनः ।। 31 ।। अत्र श्यामसब्दः स्वपर्यायकालशब्दं ज्ञापयति। तेन यमः। कर्पूरशब्दश्व स्वपर्यायं घनसारं ज्ञापयति। तेन अधिसार इति लभ्यते। ततः श्यामकर्पूरश्ब्दयोः स्वपर्यायकालघनसारशभ्दमात्रज्ञापकत्वात् प्रतिहस्तत्वम्।। गूढलेखादिषु प्रायो नैतच्चारूत्वमुज्झति ।। 84 ।। यथा हरिद्रायां राहुप्रसरपिहितेच्छापरिषदि प्रयुक्तालङ्कृत्यै वियुतगरुतां दुर्गकुजरीम्। वयं सार्कान्वीताः प्रहर इति सेनापतिकृता- नमात्येभ्यो लेखान् प्रथयति च सिङ्गक्षितिपतिः ।। 32 ।। अत्र हरिद्रा निशा रात्रिरिति यावत्। राहुस्तमः ध्वान्तमिति यावत्। इच्छा आशा दिक्। प्रयुक्तालङ्कृतिरिति प्रहारः। वियुतगरुतां विपक्षाणाम्। कुजरीं नगरीम्। सार्का सेना चमूः। प्रहरः यामः गच्छामः। एवं हरिद्रादीनां स्वपर्यायमात्रबोधकत्वेन प्रतिहस्तत्वेऽपि सेन#ापतिभिरभियाति दुर्गोच्छित्तये गतैः तदालोचितकार्य वयं सेनान्विताः तिमिरपिहितदशदिशि निशायां प्रहाराय विपक्षाणां दुर्गनगरीं याम इत्येवं लक्षणं मन्त्रभेदभयाद् गूढलेखमुखेन राज्ञि प्रेषितमिति न दुष्टत्वम्।। असमर्थं योगमात्रप्रयुक्तत्वादवाचकम् ।। 85 ।। यथा मेदिनीरमणास्थानप्राङ्गणे वारवासिनः। वाजिनो मञ्जुवाशन्ते शिञ्जनते सत्तकुञ्जराः ।। 33 ।। अत्र तिरश्वां रुतं वासितम्। भूषणशब्दः सिञिजितमिति मर्यादायां "वाश्ट शब्दकुत्सायाम्", "शिज अव्यक्ते शब्दे" इति च योगमात्रेण प्रयुक्तौ वाशितशिञ्जितशब्दौ हेषाबृंहितयोरवाचकौ । अस्यापि गुणता ग्राह्या तच्छास्रस्वीकृतादिषु ।। 86 ।। यथा श्री सिङ्गभूमिरमणे भरितप्रतापे नान्ये स्फुरन्ति रणसीमनि राजलोकाः। किं वा स्फुरन्ति रटितस्पृशि पाञ्चजन्ये लीलानुकारि तरुणीजनकूजितानि ।। 34 ।। अत्र कामिनीनां रतान्तरेषु कामसास्त्रकारैः हंसतित्तिरिलावकादिरुतविकाराम्नानात् पक्षिणो रुतादन्यत्रावाचकस्यापि कूजितस्य समर्थत्वम् ।। चित्तं जुगुप्सते यस्मात्तज्जुगुप्सितकं त्रिधा। हेयार्थं हेयार्थान्तरं हेयार्थस्मृतिहेतुकम् ।। 87 ।। हेयार्थं यथा निस्संस्कारमुखा दृशान्ततदरीनिर्यन्महादूषिका पूत्युद्गार भरानुभूतिसयुजा दीक्षामिषात्मारया। हेयादन्तरदन्तनैष्ठिकतया सीदन्ति दुर्गाङ्गणे कल्याणक्षितिपप्रतीप सरणी संचारिणो वैरिणः ।। 35 ।। अत्र दूषिकापूत्यादीनां साक्षाज्जुगुप्सार्थत्वेन हेयार्थत्वम्।। हेयार्थान्तरत्वं यथा करोपलालितविशामासान्तागूढवर्चसाम्। द्विषामकालराहुस्ते खड्ड्डत्ध्;गः कल्याणभूपते ।। 36 ।। अत्र विड्ड्डत्ध्;गूढवर्चश्शब्दयोः प्रजातेजोलक्षणार्थंवन्मलार्थस्यापि वाचकत्वेन जुगुप्सार्थान्तरत्वम्।। हेयस्मृतिहेतुकं यथा पूयन्ते पृतनोद्धूतरजोरञ्जितविग्रहाः। कल्याणखङ्गधारायां मज्जनेन विरोधिनः ।। 37 ।। अत्र पूयन्ते मज्जनेनेत्यनयोर्वर्णसारूप्य ब्रमेण पूयमज्जार्थे सर्णेजपत्वाज्जुगुप्सार्थस्मारकत्वम्। एषां ग्राह्यो गुणीभावः व्कजिदङ्गीकृतादिषु ।। 88 ।। यथा पल्लवकोमलपाणितलानामुन्नतमांसलवक्षसिजानाम्। मानसमुत्तममानवतीनां रक्ततरं त्वयि सिङ्गनृपाल ।। 38 ।। अत्र मांसरक्तकोमलशब्दानां जुगुप्सार्थतदर्थान्तरतत्सूचकत्वे जुगुप्सितत्वेऽपि महाकविभिरङ्गीकृतत्वाद्गुणत्वम्।। अमढद्धठ्ठड़14;गलार्थं यथा श्रीसिङ्गभूपालजयप्रयाणसन्नाहनिस्साणधणंक्रियाभिः। सद्यः परिस्फोटितसंधिवन्धाः परिम्रियन्ते परिपन्थिभूपाः ।। 39 ।। अत्र परिम्रियन्त इति साक्षादमङ्गलम्। "निद्रान्ति दीर्घं परिपन्थिभूपाः" इति पाठो रमणीयः। अमङ्गलार्थान्तरं यथा श्रीसिङ्गभूपालचमूसमूहसन्नाहसन्नाहवसंभ्रमाणाम्। संतिष्ठमानैः पूरतो रिपूणां कृतान्निबोधैः स्वविकत्थनानि ।। 40 ।। अत्र सन्तिष्ठमानैरित्यनेन सम्यक् स्थितिरिव मरणमपि प्रतीयते। उत्तिष्ठमानैरिति पाठो रमणीयः। अमङ्गलस्मरणहेतुर्यथा कात्यायनसुतोद्देशबलिरक्षितकुक्षयः। भवन्ति मेदिनीनाधमनमन्तो नरेश्वराः ।। 41 ।। अत्र कुक्षय इति पदेऽन्त्यवर्णद्वयेना मङ्गलार्थस्मरणम्। एषां गुप्तादिषु प्रायो गुणभावोऽपि गण्यते ।। 89 ।। यो निर्यस्य द्रुहिणचरणो जन्मभूम्यां नृपाणां ब्रढद्धठ्ठड़14;नाण्डेड्डत्ध्;शे भगवति परं केशवे भक्तिभाजाम्। कृत्याकृत्यस्फुरणहरणे रक्षिते येन शोऽयं शत्रुछेदव्यसनकुशलो भाति रेचर्लवंश्यः ।। 42 ।। अत्रोच्छेदस्य साक्षादमङ्गलार्थत्वेऽपि शत्रुपदेन गुप्तत्वा द्गुणत्वम्। कृत्येत्यस्यामङ्गलाथत्वेऽपि कृत्याकृत्ये कार्याकार्ये इति साहचर्येण गुप्तत्वम्। केशव इत्यस्यान्त्यवर्णद्वयेनामङ्गलार्थस्मरणहेतुत्वेऽपि भगवन्माहात्म्येन गुप्तत्वम्। केशव इत्यस्यान्त्यवर्णद्वयेनाम ङ्गलार्थस्मरणहेतुत्वेऽपि भगवन्माहात्म्येन गुप्तत्वमित्यमीषां गुप्तत्वम्। व्रीडड्डत्ध्;ाकरमसभ्यं सयात्पूर्ववत्तदपि त्रिधा ।। 90 ।। वंशास्सहस्रं सन्त्वन्ये शिश्नोदरपरायणाः। एको रेचर्लवंशोऽयं साधुरक्षापरायणः ।। 43 ।। अत्र शिपूर्वश्नं साक्षादसभ्यार्थम्। निजोदरेति पाठो रमणीयः। असभ्यार्थान्तरं यथा सिङ्गभूवरवरूधिनीधुनी रंहसा दलितमूलभक्तयः। यान्ति केऽपि यमपालितां द्विषो गुह्यकेशकलितां दिशां परे ।। 44 ।। अत्र गुह्यकेशशब्दः कुबेरमिवकुत्सितकेशार्थमपि व्यनक्तीत्यस्यासभ्यार्थान्तरत्वम्। यक्षराजकलितामिति पाठो रमणीयः। असभ्यत्वस्मारकं यथा श्रीसिङ्गभूपालपदारविन्दसेवाप्रसादीकृतराज्यभोगाः। क्रीडड्डत्ध्;न्ति सामन्तनृपा वनान्ते शेफालिकाचञ्चलचञ्चरीके ।। 45 ।। अत्र शेफालिकापदस्य प्रथमवर्णंयुगलस्यासभ्यार्थस्मृतिहेतुत्वम्। "वासन्तिकाचञ्चल" इति पाठो रमणीयः। अमीषाञ्च गुणीभावो लक्षितादिषु लक्ष्यते ।। 91 ।। यथा योनिर्यंस्य द्रुहिणचरण इति पूर्वस्मिन्नुदाहरणे। योनिरित्यसभ्यार्थत्वेऽपि योनिरिव योनिरिति गौणवृच्या न दुष्टत्वम्। जन्मभूमिभगवच्छब्दयोरसभ्यार्थान्तरत्वेऽपि लोकसंवीतत्वाद्गुणत्वम्। ब्रढद्धठ्ठड़14;नांडेड्डत्ध्;शस्य चोत्तरवर्णंद्वयेनासभ्यार्थस्मृतिहेतुत्वेऽप्यण्डड्डत्ध्;मिवाण्डड्डत्ध्;मित#ि गौणवृच्या गुप्तत्वाद्गुणत्वम्।। न वाच्यमेषां सर्वेषां हेयार्थत्वादिसाम्यतः। गुणत्वमगुणत्वं वा केवलं तर्ककर्कशैः ।। 92 ।। एकस्यैव परान्यत्वमाप्तवान् गुणमानयोः। सचमत्कार साहित्यब्रह्यसाक्षात्क्रियोचितैः ।। 93 ।। अनुज्ञातं बुधैः कैश्वित् कुमारीकमलादिकम्। नैवं श्रविष्ठा संस्थानशिपूर्वश्नादिकं पुरा ।। 94 ।। यैः कैश्वित्प्राक्तनी सीमा न लङ्घ्या कोविदैरपि। तदुक्तेनैव मार्गेण गुणदोषान् परामृशन् ।। 95 ।। काव्यं कल्पान्तरस्थायि कल्पयेदनुपप्लवम् ।। 96 ।। श्रीः इति सरससाहित्यचातुरीधुरीणश्रीविश्वेश्वरकविचन्द्रप्रणीतायां श्रीसिङ्गभूपालसुधासारशीतलायां चमत्कार- चन्द्रिकायां वर्णपदविवेको नाम प्रथमो विलासः ।।