षष्ठो विलासः ।

चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्रविरचिता अलङ्कारविलासः। एकदेशगतास्सर्वं शरीरं कटकादिवत्। अलङ्कुर्वन्ति ये काव्यं तेऽलङ्कारतया मताः ।। 1 ।। त्रैविध्यं कथितं तेषां शब्दार्थोभयसंभयात्। अत्र शब्दगताः प्राज्ञैरेकादश समीरिताः ।। 2 ।। छाया मुद्रा युक्तिः श्लेषानुप्रासगुम्भनाश्चित्रम्। यमकं वाकोवाक्यं गूढं प्रश्नोत्तरं चेति ।। 3 ।। अन्योक्तीनामनुकृतिः छाया सेयमुदाढद्धठ्ठड़14;टता। त्रेधा नागरिकग्राम्यसामान्योक्त्यनुसारतः ।। 4 ।। तत्र नागरिकोक्तिछाया यथा सिक्तोऽपि सिङ्गभूपालकल्याणोक्तिसुधारसैः। यो न पल्लवितस्तस्मै जङ्गमस्थाणवे नमः ।।1।। अत्र जङ्गमस्थाणवे नम इति सोल्लुण्ठने नमःशब्दं वदतां विदग्धानामुक्तेरनुकृतिः छाया। ग्राम्योक्तिच्छाया यथा सखि सिङ्गनृपतिपदयुगशरणागतराजवेभवं पश्य। सुन्दरि किमिदं चित्रं राज्ञि भुजङ्गेऽपि काचवलयः किम् ।।2।। अत्र तुरीयपाद आश्रयविशेषेणाब्युदयविशेषं वदतां ग्राम्याणामुक्तेरनुकृतिः छाया। सामान्योक्तिच्छाया यथा कोऽयं वाञ्छितमर्थिनां वितनुते नन्वेष चिन्तामणिः सग्रावा किल किन्तु नैव हि पुमान् हासेन किं भूयसा। सोऽयं श्री अनवोतसिङ्गनृपतिः कस्मादिदं ज्ञायते रत्नोल्लासिनि कङ्ब्त्णे करतले किं दर्पणापेक्षया ।।3।। अत्र तुरीयपादे प्रत्यक्षसिद्धे वस्तुनि किमन्यापेक्षयेत्यस्मिन्नर्थे करकङ्कणदर्शने किमादर्शविम्बेनेति सर्वजनसाधारणोक्तेरनुकरणादियं सामान्योक्तिच्छाया। साभिप्रायस्य वाक्ये यद्वचसोऽभिनिवेशनम्। मुद्रां तां मुत्प्रदायित्वात् काव्यमुद्राविदो विदुः ।। 5 ।। सेयं द्वेधा बुधैरुक्ता पदेन वचनेन च ।। 6 ।। पदमुद्रा यथा अस्मत्कल्पलातादलानि गिलति त्वत्कामगौर्वार्यतां मच्चिन्तामणिवेदिभिः परिणमेद्दूरान्ननयोच्चैर्गजम्। इत्यारूढवितर्दिकाः प्रतिपदं जल्पन्ति भूदेवताः सिङ्गक्ष्माभुजि कल्पवृक्षसुरभीहस्त्यादिदानोद्यते ।।4।। अत्र कल्पलतादीनां देवतायोग्यत्वात् सद्ब्राढद्धठ्ठड़14;नणा इत्यादिपदतोऽपि भूदेवता इति पदस्याभिजातत्वमितीयं पदमुद्रा। वचनमुद्रा यथा भो चिन्दामणिवेदिकापरिसरे सन्तानसन्तानक- च्छायायां सुरभीपयोधरपयोधाराभिराराधिताः। मा गर्वीयत देवता वयममी दृष्टाःस्म आविस्मितैः श्रीसिङ्गक्षितिनायकस्य करुणारङ्गैरपाङ्गैः स्फुटम् ।।5।। अत्र देवतासाम्यबहुवचनाभिप्रायणात्मनि वक्त्रा वयमिति बहुवचनं प्रयुक्तमितीयं वचनमुद्रा। आयुज्यमानस्य मिथः शब्दर्य प्रकृतोचितम्। योजना क्रियते यासौ युक्तिरित्युच्यते बुधैः ।। 7 ।। तत्रायुज्यमानपदयोजना यथा शम्भोस्स्थिता भूषणपेटिकायां श्रियः सपत्नीमभितः स्फुरन्ती। विष्णोः पदं मध्यममाविशन्ती विराजते सिङ्गनृपालकीर्तिः ।।6।। अत्र पातालमित्यादि प्रकृतार्थे शम्भुभूषणपेटिकादि पदानामक्लेशयोगपरंपरया योजना कृतेति पदयुक्तिरियम्। एवं वाक्यप्रकरणप्रबन्धविशेषाणामप्युदाहारणानि द्रष्टव्यानि। एकरूपेण वाक्येन द्वयोर्भणनमर्थयोः। तन्त्रेण यत्र हि श्लेषः सोऽयं नैकविधो मतः ।। 8 ।। प्रकृतिप्रत्ययपदविभक्तिवचनादिभिः ।। 9 ।। तत्र प्रकृतिश्लेषो यथा कल्याणदस्त्वदीयोयं नतः श्रीसिङ्गभूपते। अर्थसारविदां लोके विदुषां विद्विषामपि ।।7।। अत्र कल्याणद इत्यत्र ददातिददत्योः सारविदामित्यत्र वेत्तिविदन्त्योश्च प्रकृत्योः श्लेषः। करोति सिङ्गभूपाल करस्ते विदुषां मुदम्। कर्ता वैरिविपत्तीनां संपदं सुढद्धठ्ठड़14;टदां स्फुटम् ।।8।। तत्र कर्तेति पदे तृच्प्रत्ययतृन्प्रत्यययोः श्लेषः। वैरिविपत्तीनां कर्तेति तृच्प्रत्ययः। संपदंकर्तेति तृन्प्रत्ययः। अन्यथा कृद्योगषष्ठ्यावश्यंभावित्वात्तदुभयविभक्तिसंबंधाय प्रत्ययद्वयस्य विवक्षितत्वात् तथोक्तोऽयम्। पदश्लेषो यथा हरिश्चन्द्रो रक्षाकरणरुचिसत्येषु वचसां विलासे वागीशो महति नियमे नीतिनिगमे। विजेता गाङ्गेयं जनभरण संमोहनकला- व्रतेषु श्रीसिङ्गक्षितिपतिरुदारो विजयते ।।9।। अत्र हरिश्चन्द्र इति चक्रवर्तिवाचके पदे हरिश्चन्द्रश्चन्द्रश्चेति पदयोः वागीशः वागीशश्चेति पदयोः गाङ्गेय इति भीष्म इति वाचके पदे गाङ्गोयं चेति पदयोः श्लेषः, इत्ययं पदश्लेषः। विभक्तिश्लेषो द्विधा। सजातीयो विजातीय इति। तत्राद्यो यथा स्थितो विराजिराजीववासिन्या कौस्तुभेन च। वक्षःस्थलं दधानोऽव्याद्देवः श्रीसिङ्गभूपतिम् ।।10।। अत्र वीनां पक्षिणां राट् तस्मिन् विराजीति सप्तमी। लक्ष्मीकौस्तुभाभ्यां विराजी विराजनशीलमिति द्वितीया। तेद्वे सुब्विभक्त्ती विराजीति पदे श्लिष्टेइति सजातीयविभक्तिश्लेषोऽयम्। द्वितीयो यथा कीर्तिर्विशाला द्विषतामहारि व्यतानि तद्वामदृशां च वक्षः। अभेदि तद्दुर्गमपि व्यधायि श्रीसिङ्गभूपेन निजाप्तचित्तम् ।।11।। अत्र नायकेन द्विषतां कीर्तिरहारि ढद्धठ्ठड़14;टता। तेनैव रिपुस्त्रीणां वक्षः अविद्यमानहारं व्यतानीत्यत्र अतीत्येकपदे लुङि प्रथमपुरुषश्च नपुंसककर्म च द्वितीया च तिङ्सुब्विभक्त्ती श्लिष्टे इति विजातीयविभक्तिश्लेषः। एवमभेदीत्यत्रापि विज्ञेयम्। वजनश्लेषो यथा आशानां प्रभवस्सीमा श्रियां सत्त्रभुजश्शुभाः। शौरिर्देवाश्च ददतां कल्याणं सिङ्गभूभुजे ।।12।। अत्र शौरिः नारायणो नायकाय कल्याणं ददतां वितरतु। दद दाने इति धातोरात्मनेपदिनो लोटि प्रथमपुरुषैवकचनम्। कीदृशः शौरिः। आशानां नतजनमनोरथानां प्रभव उत्पत्तिस्थानं दातेत्यर्थथः श्रियां सौभाग्यविष्ये सीमा परमावधिः। सतस्त्रायत इति सत्त्रः। तादृशो भुजो बाहुरस्येति सत्त्रभुजः। शोभना भासो दीप्तयोऽस्येति शुभाः देवपक्षे तु देवाः। कल्याणं ददतां वितरन्तु। ददतामिति डुड्डत्ध्;दाञ् दाने इति धातोरात्मनेपदिनो लोटि प्रथमपुरुषबहुवचनम्। किं भूताः देवाः? आशानां दिशां प्रभवो नाथाः, श्रियां संपदां सीमा अवधयः। सत्रे भुजत इति सत्रभुजः। शोभना भाः कान्तिः येषां ते शुबा इत्युक्तमार्गेण क्रियापदे विशेषणपतं एकवचनबहुवचने श्लिष्टे इत्ययं वचनश्लेषः। आदिशब्दाद्भाषाश्लेषः यथा मेलायनाय ते राज्यमस्तु गादनसिंगन। वीराय मनसा पोररामाकाजनकेतन ।।13।। हे गादन ! गदयति पूर्वमभिभाषयतीति गादनः। तस्य संबुद्धिः पूर्वभिभाषिन्नित्यर्थः। तादृशाय ते राज्यम्। पौररामाकाटनकेतन पौररामाणां पोरस्त्रीणां काटनकेतन मत्स्यकेतन रामामदनेत्यर्थः। हे सिगन सिङ्गभूपाल। मनसा वीराय मेलायनाय। मा च इला च मेते लक्ष्मीभूम्यौ तयोरयनं मार्गः मेलायनं तस्मै मेलायनाय लक्ष्मीभूमिनिवासस्थानायेत्यर्थः। तादृशाय ते राज्यमिति प्रजापालनसामथ्र्यरूपकर्मास्तु सर्वोत्कर्षेण भूयादिति संस्कृतभाषा प्रतीयते। मेलायनायेत्यादिपदेषु भद्रमभवद्वे त्याद्यार्थवाचिषु तद्देशभाषाविदुषामान्ध्रभाषा च प्रतीयते। तदय#ं भाषाश्लेषः। एवं संस्कृतप्राकृतादिभाषाश्लेषास्तु तत्र तत्र महाकविप्रबन्धेषु चित्रतरेषु स्वयमनुसंधेयाः। अनुप्रासस्तु वर्णानामावृत्तिरविदूरगा। अव्यापको व्यापकश्चेत्ययं द्वेधा समासतः ।। 10 ।। अव्यापको यथा गौडड्डत्ध्;ीसङ्गीतभङ्गी रहसि विलसितं कोसलीकौशलानां नेपालीगण्डड्डत्ध्;पाली मृगमदमकरीं कैरलीं पानकेलीम्। लाटीपाटीरचर्चां कुसुमविरचनां कुन्तलीकुन्तलानां सिङ्गक्ष्माकान्त भिन्ते तव विजयरमास्निघ्धवेणिः कृपाणिः ।।14।। अत्रानुप्रासस्य प्रतिवाक्यं भिन्नरूपत्वादव्यापकानुप्रासोऽयम्। यथा च जयति जगदुदारो जाल्मवृत्तातिदूरः सुजनभजनशीलः स्तुत्यसत्यानुकूलः। अभिनवसुरधेनोरन्नवोतस्य सूनुः क्षितिनुतगुणसान्द्रः सिङ्गभूपालचन्द्रः ।।15।। अत्र पदाद्यान्तानुप्रासस्य प्रतिपादं भिन्नरूपत्वम्। व्यापकानुप्रासो यथा-नायकस्यैव वंशावल्याम् यत्र चरणसन्नाहिनी तृणचरणं निजपुराच्च निस्सरणम्। वनचरणं तच्चरणकपरिचरणं वा विरोधिनां शरणम् ।।16।। अत्र रेफणकारयुगलस्य सर्वत्रानुवृत्तत्वाद्य्वापकानुप्रासोऽयम्। एवं वृत्तिलाटानुप्रासातयो द्रष्टव्याः। शब्दस्य प्रकृते सम्यग्घटना गुंफना मता। अत्रशब्दो द्विविधः निरर्थकोऽन्यग्रथितश्चेति तत्राद्यास्य यथा श्रीसिङ्गक्षितिपालसङ्गरजयप्रस्थापकै स्तावकै- र्धाटीदुंदुविनिस्स्वनैरभिनवव्यापारिणो वैरिणः। स्वच्छायामनुधाविनीं प्रतिभट #ानाशङ्क्य शङ्काकुला- स्त्रायध्वं बे बे बे इति प्रतिपदं जल्पन्ति धावन्ति च ।।17।। अत्र बे इत्यादि निरर्थकशब्दस्य प्रस्तुतानुगुण्येन ग्रथनादियं निरर्थकशब्दगुंफना। अन्.यग्रथितशब्दगुंफना त्रिविधा। पादगुंफना पादद्वयगुंफना पादत्रयगुंफनां चेति। तत्राद्या यथा अर्थस्य पुरुषो दास इति वक्त व्यलज्जताम्। दासो हि पुरुषस्यार्थः पश्यतः सिङ्गभूपतिम् ।।18।। अत्राद्योक्तस्य प्रथमस्य प्रस्तुतानुगुण्येन घटितत्वादियमन्यग्रथिता पादगुंफना। द्वितीया यथा युवा युगव्यायतबाहुरंसलः कवाटवक्षाः परिणद्धकंधरः। इतीदमन्यत्र कवित्वपद्धति- र्विगाहते सिङ्गनृपे तु सार्थताम् ।।19।। अत्र कालिदासग्रथितस्य प्रथमार्धस्य प्रस्तुतानुगुण्यानुघटनादियं पादद्वयगुंफना। तृतीया यथा सजातीयैर्विजातीयैरतिरस्कृतमूर्तिमान्। यावद्रसं वर्तमानो राजते सिङ्गभूपतिः ।।20।। अत्र पूर्वालङ्कारशास्त्रकारग्र थितस्यापि पादत्रयस्य प्रथमार्धे सपक्षैर्विपक्षैश्चानतिक्रमणीयो यावद्रसं वर्तमान इति प्रस्तुतानुगुण्येन घटनादियं पादत्रयगुफना। चित्रं तु चक्रबन्धाद्यं न सर्वकविसम्मतम्। रसोल्लासविरोधित्वाच्चित्तक्लेशैककारणम् ।। 12 ।। चक्रबन्धो यथा सक्षमाचक्रदिशाविलासिविभुना तिग्मांशुहारिश्रिया विश्रामक्षणविश्वरङ्गवियता कल्पं यशो ज्योतिषा। विद्वत्कान्तिमवाप यः प्रविशदाविर्भूतकृत्स्नागमां मांधाता स च तद्विशेषविदुषो याति त्विषा नोपमाम् ।।21।। अत्र नेमिमारभ्य तृतीयस्मिन्नन्तरे चमत्कारज्योत्स्नेति कृतिनाम। सप्तमे विश्वपतिकविरिति तत्कर्तृनाम। नवमे नायकनाम च प्रकटीक्रियते। आदिशब्दात्पङबन्धादयः। अत्र पझबन्धो यथा सा च मा क्षपितभावराक्षसा साक्षरावगतपादमारसा। सारसा दयतु सिङ्गयं रसा सारयं गजवती क्षणा च सा ।।22।। अत्र क्षपिताः भावेन राक्षसाः क्रूरजनाः यया सा क्षपितभावराक्षसा दरिद्रीकृतक्रूरजनेत्यर्थः। साक्षरावगतपादसारसा विद्वद्ध्यातपादपझा मा लक्ष्मीः रसासारं भूवि श्रेष्ठं वस्तु याति प्राप्नोति इति रसासारयः। तं सिङ्गयं सिङ्गभूपालं सारसादावासपझादयतु भजतु। तथा गजवत#ी स्वाधारदिग्गजवतीत्यर्थः। सा क्षमा भूमिश्च। अन्यदेवं विधमनुसन्धेयम्। यमकं त्वविनाभूतखरव्यञ्जनसंहतेः। पुनःश्रुतिर्विभिन्नार्था तनमध्यान्तादिगं त्रिधा ।। 13 ।। आदियमकं यथा नायकस्यैव सदया सदया बुद्धिरवतारवता मम। मधुरा मधुरानाथ भवता भवतादरम् ।।23।। अत्र चतुर्णामपि पादानामादौ प्रधमाक्षरसहितं वर्णत्रितयमान्तरतमव्यव्थानेन पुनःश्रुतमिति सर्वपादादियमकमिदम्। एवमन्येपि द्विपादादियमकदलयोव्र्यवहिताव्यवहितभेदाः स्वयमवगन्तव्याः। मध्ययमकं यथा घनयशोनयशोभितसंगरोत्सुकतमः कतमः सहते रिपुः। भवदसिं वद सिङ्गमहीपते परमया रमया भरितद्युते ।।24।। अत्र चतुष्र्वपि पादेषु प्रथमाक्षरं विहाय मध्याक्षरयमकमान्तरमव्य वधानेन पुनःश्रुतमिति सर्वपादमध्ययमकमिदम्। एवमन्येऽपि पूर्वपदस्य भेदा निरूपणीयाः। अन्त्ययमकं यथा यशसा सौरभवन्तं सिङ्गमहीपाल मेरुधीर भवन्तम्। सुकृतीकृतवसुदेवः सततं पायाद्वितीर्णघनवसुदेवः ।।25।। हे मेरुधीर सिङ्गमहीपाल यशसा सौरभवन्तं यशस्सुरभिं भवन्तं सुकृतीकृतवसुदेवः स्वजन्मना कृतार्थीकृतानकदुन्दुभिः देवः श्रीकृष्णः वितीर्णघनवसु यथा तथा पायादित्यन्त्याक्षर सहितमक्षरचतुष्टयम् पादद्वये पुनःश्रुतमिति द्विपादान्तयमकमिदम्। एवमन्येऽपि भेदाः स्वयमूह्य#ा#ः। अवान्तरभिदास्तस्य बहवस्सन्ति दुष्कराः। मृदुमार्गविरोधित्वादस्माभिर्न प्रपञ्चिताः ।। 14 ।। उक्तिप्रत्युक्तिमद्वाक्यं वाकोवाक्यमितीरितम् ।। 15 ।। यथा रम्भे किं सखि मेनके न सुलभाः कल्पद्रुमाणां स्रजः ते स्वर्गे न हि सन्ति कुत्र धरणीभागे कुतः कारणात्। दातुः श्रीअनवोतसिङ्गनृपतेस्तैर्दत्तहस्ताङ्गुली- ब्र्रढद्धठ्ठड़14;ना निर्मितनानतो नु धनिकाः सर्वेऽपि धात्रीसुराः ।।26।। अत्र रम्भामेनकयोरुक्तिप्रत्युक्तयः स्पष्टाः। क्रियाकारकसंभन्धगुप्तिमद् गूढमुच्यते ।। 16 ।। तत्र क्रियागूढं यथा कृपाणखण्डिड्डत्ध्;तारातिमण्डड्डत्ध्;लाधीशमण्डड्डत्ध्;लः। श्रीसिङ्गधरणीपाल विभवेति समृद्धताम् ।।27।। अत्र हे विभो समृद्धतामेहीति क्रियापदस्य विभव इति सप्तम्या गोपितत्वमिति गूढक्रियापदत्वात् क्रियागूढम्। यथा च कन्दर्पकल्पनाकारं श्रीसिङ्गधरणीभुजम्। पुरमार्गे पुरन्ध्रीणां निश्चलानयनाञ्चलाः ।।28।। अत्रापुरिति क्रियापदं पुरन्ध्रीणामिति पदेन गोपितमिति क्रियागूढम्। कारकगूढं यथा श्रीसिङ्गभूपनासीरधाटीसाध्वससंभ्रमात्। क्व दरी क्व दरीत्यद्रेः कान्तारे रटति स्फुटम् ।।29।। अत्र रटतिक्रियायाः कर्तृकारकभूता अरेः कान्ताः कान्तार इति सप्तम्या गोपितमिति कारकगूढेषु कर्तृगूढमिदम्। एवं कर्मगूढादयो द्रष्टव्याः। संबन्धपदगूढं यथा शरानपाङ्गश्री राजन् नाभिक्रमति केवलम्। भ्रूवल्लीललितैश्चापं त्वत्सेवा सुदृशामपि ।।30।। अत्र एः कामस्येति सम्बन्धपदं ललितैर्विलासैरिति तृतीया वा (तृतीयया?) गोपितमिति संबन्धगूढमिदम्। पष्ठयाः कारकत्वाभावात् सम्भन्धगूढस्यात्र पृथङ्निर्देशः। यत्रोत्तरर्य निर्मेदः प्रश्ने प्रश्नोत्तरं हि तत्। अन्तःप्रश्र्नं बहिःप्रश्र्नमुभयप्रश्र्नं चेति तत्त्रिधा ।। 17 ।। कमदर्पयन्मनोभूः किं नरपतिवेश्म राजते निधिमत्। कामधुरा कथय सशे त्वयैव कथितं हि सिङ्गभूपाल ।।31।। अत्र मनोभूः कमलोभयदिति प्रश्ने कं ब्रढद्धठ्ठड़14;नाणम्। नरपतिवेश्म किंमिति प्रश्ने किन्नरपतिवेश्म, कुबेरगृहमिति। मधुरा केति प्रश्ने कामधुरा कामभार इति चोत्तराणि प्रश्नावयस्यान्तर इतीदमन्तःप्रश्नम्। प्रत्याननं राजितगण्डड्डत्ध्;मध्यं सुभीषणं भैरवमस्तकं किम्। त्वया नचेदुत्तरमप्रदत्तं राजन् न जानाति भवान् भवन्तम् ।।32।। अत्र प्रतिगण्डड्डत्ध्;भैरव इत्युत्तरस्य प्रश्नवाक्यान्तरे प्रतीयमानत्वादिदञ्चान्तः प्रश्नम्। बहिः प्रश्नं यथा कीदृग्बलं देवविभो शुचेश्च सम्बोधनं त्वद्रिपुमण्डड्डत्ध्;लञ्च। श्रीसिढद्धठ्ठड़14;गभूपाल वदोत्तराणि पूर्वोक्तवर्णभयवृद्धियोगात् ।।33।। अत्र इन्द्रबलं सफलि शुचिसंबुद्धिः पवित्रेति त्वद्विपुमण्डड्डत्ध्;लं वित्रपं वित्रसदिति वा त्रीण्युत्तराणि प्रश्नाद् बहिरेव मृग्याणि। बहिः प्रश्नमिदम्। उभयप्रश्नं यथा योगिनां भोगिनां राजन् क इष्टस्तं न वेत्ति यः। विपरीतो हरस्तेन न ज्ञातो हि सहाम्बरः ।।35।। अत्र रहोवास इत्युत्तरस्य पूर्वभागो रहश्शब्दो विपरीतहरशब्देन प्रश्नवाक्यस्यान्तः प्रतीयते। उत्तरावयवो वास इत्ययं बहिरेव मृग्यत इति बहिरन्तःप्रश्नोत्तरस्य स्थितत्वादिदमुभयप्रश्नम्। एवं निरूपितास्साधु शब्दालङ्कारजातयः। काव्यं विभूषयेदाभिः यथान्यैर्नापहास्यते ।। 18 ।। इति सरससाहित्यचातुरीधुरीणविश्वेश्वरकविचन्द्रप्रणीतायां चमत्कारचन्द्रिकायां शब्दालङ्कारविवेको नाम षष्ठो विलासः ।।