प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सप्तमो विलासः।

चमत्कारचन्द्रिका विश्वेश्वरकविचन्द्रविरचिता सप्तमो विलासः। अलमर्थानलङ्कर्तुं ये तदाश्रयशोभिनः। ये तु जात्यादयः प्राज्ञैः तेऽर्थालङ्कारसंज्ञया ।। 1 ।। जातिर्विभावना हेतुरहेतुस्सूक्ष्ममुत्तरम्। विरोधः सम्भवो ऽन्योन्यं परिवृत्तिर्निदर्शना ।। 2 ।। भेदः समाहितं भ्रान्तिः वितर्को मीलितं स्मृतिः। भावोऽनुमानार्थापत्ती इति ते विंशतिर्मताः ।। 3 ।। तत्र जातिः नानावस्थासु सिद्धानि यानि रूपाणि वस्तुनः। साक्षाद्विदधती तानि जातिरित्यभिधीयते ।। 4 ।। सेयं द्विधा निसर्गतत्कारभेदात्। आद्या यथा असकृत्परिधूलवालधीन् मुहुराकम्पितबक्त्रकन्धरान्। रिपुभूभृदुपायनीकृतान् तुरगान् पश्यति सिङ्गभूपतिः ।।1।। अत्र तुरगाणामय ... ... ... ... ... ... । तात्कालिकी यथा पूर्वाङ्गं ललितं निधाय मृदुले सिंहासनोपाश्रये पश्यन् बाणमृजूकृतं सवयसा स्मेरैरपाङ्गेक्षणैः। कुर्वन् कर्णपुटीं सुधारसमयीं वाचं परीक्षावता- मास्थान्यामनवोतसिङ्गनृपतिः पुष्णाति नेत्रोत्सवम् ।।2।। अत्र राज्ञस्तात्कालिकस्वरूपावस्थानकथनात् तात्कालिकी जातिरियम्। प्रसिद्धहेतुव्यावृच्या यत्किञ्चित्कारणान्तरम्। विभाव्यते खभावो वा विज्ञेया सा विभावना ।। 5 ।। अत्र कारणान्तरसंभावना यथा तन्वन्न भारविनतिं फणिराजमूध्र्नां कुर्वन्न धौतशुचितां हरशाटिकानाम्। बध्रन्ननम्बर वितानमजाण्डड्डत्ध्;भागे श्रीसिङ्गभूप तव भाति यशोविलासः ।।3।। अत्र विनतिशुचित्ववितानानां भारधावनांशुकानि हेतुतया प्रसिद्धानि तानि निर्वत्र्य यशसो धावल्यनैर्मल्यबाहुल्यान्यन्यानि कारणानि विभाव्यन्त इतीयं कारणान्तरविभावना। स्वभावविभावना यथा अनुल्लिखिततीक्ष्णाग्रा प्रज्ञा श्रीसिङ्गभूपते। अवासितसुगन्धईनि यशांसि तव सन्ततम् ।।4।। अत्र तीक्ष्णत्वसुगन्धित्वयोर्लोके उल्लेखनवासने प्रसिद्धभूते इति निर्वत्र्य प्रज्ञायशसोः स्वभावोऽपि विभाव्यत इतीयं स्वभावविभावना। क्रियायाः कारणं हेतुः मुख्यो गौण इति द्विधा। मुख्यहेतुर्द्विधा तत्र कारकज्ञापकक्रमात् ।। 6 ।। प्रवृत्तेश्च निवृत्तेश्च प्रयुक्तेश्च त्रिधादिमः ।। 7 ।। अत्र प्रवर्तकक्रियाविशिष्टकारकहेतुर्यथा पापक्रियापटलखण्डड्डत्ध्;नपण्डिड्डत्ध्;तानि पुण्यक्रियापुनरुदीरणपूरणानि। संपादयन्ति सततं प्रमदं जनानां श्रीसिङ्गभूपचरितानि महाद्भुतानि ।।5।। अत्र नायकचरितान्येवं भूतानि प्रचानां प्रागसतः सन्तोषस्य प्रवर्तनक्रियायामाविष्टानीति क्रियाविष्टोऽयं प्रवर्तकः कारकहेतुः। स एवानाविष्टो यथा अवितुरकृतभङ्गुं सिङ्गभूपालमौले- स्त्रिभुवनमपि सिद्धं कीर्तिकल्लोलिनीभिः । विषमविषमचक्षुर्जूटकोटीरश्रृङ्ग- स्खलनवलितफेनस्वर्धुनीस्पधिनीभिः ।।6।। अत्र भुवनविशदभावे कीर्तावनाविष्टां हेतौ तृतीयां प्रयोजयति। न तु कर्तरीति क्रियानाविष्टोऽयं प्रवर्तकः कारकहेतुः। निवर्तकक्रियाविष्टः कारकहेतुर्यथा प्रध्वंसाय प्रभवतितरामुग्रसङ्ग्रामरङ्ग- प्रामोदाग्रे प्रतिभटचमूचक्र दुर्विक्रमाणाम्। सिङ्गक्षोणीपतिरभिवहन् घोरदंभोलिपाली- जृम्बारम्भप्रकटनधुरा बन्धुरां खड्ड्डत्ध्;गधाराम् ।।7।। अत्र करवालैकसहायस्य नायकस्य प्रतिभटविक्रमध्वंसनक्रियाकर्तृत्वेनावेशादाविष्टोऽयं निवर्तकः कारकहेतुः। स एवानाविष्टो तथा श्रीसिङ्गभूपकोदण्डड्डत्ध्;ादत्यारूढ गुणध्वनेः। भजन्ति निर्गुणीभावं वैरस्त्रीकण्ठभूमयः ।।8।। अत्र वैरिकुलपालिकाकण्ठसूत्रनिवर्तनक्रियामनाविशन् नायककोदण्डड्डत्ध्;दण्डड्डत्ध्;ो हेतौ पञ्चमीं प्रयोजयतीति क्रियानाविष्टोऽयम् निवर्तकः कारकहेतुः। क्रियाविष्टप्रयोजकहेतुः यथा कुमारे श्रीसिङ्गे जलधिरशनां शासति मही- ममर्यादाध्वस्ताः पतनपरिणाहप्रतिभुवः। अधर्मा निर्मूला नरकपरिपाकप्रणिधयो विनष्टा दुश्चेष्टाः कलि कलुषपेशीपरिधयः ।।9।। अत्र मर्यादाध्वंसादिषु क्रियासु सप्तमीवाच्यनैमित्तिकाधिकरणकारकभावेन नायकोऽयमाविशन् प्रयोजको भवतीति यथोक्तः। स एवानाविष्टो यथा श्रीसिङ्गक्षितिनाथपाश्र्वमयतामज्ञातपूर्वं हि नः तत्सेवाभ्यसनं विधेयमिति ते प्रत्यर्थिपृथ्वीभूजः। वृद्धामात्यजनानुपांशु विनयाÏत्सहासने स्थापितान् संबद्धाञ्जलयो भजन्ति महिता स्तोत्रैकचित्रोक्तयः ।।10।। अत्र नीचैरवस्थानाञ्जलिबन्धनस्तोत्रकरणादिरूपायां सेवाभ्यसनक्रियायामात्मन्येवात्मनः समावेशो न संभवतीति क्रियानाविष्टोऽयमिति शब्दाबिधेयप्रयोजको नाम कारकहेतुः। द्वितीया च तृतीया च चतुर्थई सप्तमी च यम्। क्रियानाविष्टमाचष्टे लक्षको ज्ञापकश्च सः ।। 8 ।। तत्र द्वितीयावाच्यो लक्षकहेतुर्यथा श्रीसिङ्गभूपतिं प्रति शीतकरकरवालखण्डिड्डत्ध्;तारातिम्। सङ्गरसीमनि विविधाः कातरचेष्टा भवन्ति विमतानाम् ।।11।। अत्र क्रियानाविष्टेनैव नायकेनन विमतानां भयजनककातरचेष्टा लभ्यन्ते विशेष्यन्त इति सोऽयं लक्षणहेतुः। प्रतिना योगे द्वितीयामुत्पादयतीति द्वितीयावाच्योऽयम्। तद्वत्तृतीयावाच्यो यथा साधारणाश्रययुजे युधि बन्धुतायां पश्यन्ति राजाचलराजधान्याम्। राजानमाज्ञासहजेन पौराः प्रफुल्लसौगन्धिकशेखरेण ।।12।। अत्र सौगन्धिकशेखरं दर्शनक्रियायामनाविशदेव राजानं ज्ञापयतीतीत्थंभावलक्षणतृतीयया वाज्योऽयं ज्ञापकहेतुः। चतुर्थी वाच्यो यथा श्रीसिङ्गधरणीपालपादसेवा पराङ्मुखः। अकाण्डेड्डत्ध्; शेमुषी राज्ञां राज्यभ्रंशाय वैरिणाम् ।।13।। अत्रोत्पातभूतया राज्ञामकाण्डड्डत्ध्;तो नायकसेवापराङ्मुखीभावबुद्ध्या तेषां राज्यभ्रंशो ज्ञाप्यते। तेनायमुत्पातेन ज्ञाप्यमान इति चतुथ्र्या वाच्यो ज्ञापकहेतुः। सप्तमीवाच्यो यथा मा भूत प्रतिराजकात्प्रतिमुखाः कीर्ति विहायाधुना प्राणेभ्यः क्व नुयात धूतमतयो भोः पश्यतास्मानिति। शासत्सु स्वपताकिनी रधिकृतेष्वारूढमन्दस्मितः श्रीसिङ्गक्षितिपो रिपूनभिमुखो बध्नाति दोस्सम्पदः ।।14।। अत्र सेनाधिपतीनां बलानुशासनक्रियया नायकस्य प्रकाशनक्रिया लक्ष्यते। हेतुर्गौण इति प्रोक्तो गौणवृत्तिव्यपाश्रयात्। वैचित्रीकारणत्वेन चित्रहेतुश्च सत्कृतः ।। 9 ।। समकालो विपर्यस्तो युक्तायुक्तावसंगतः। इति तस्य समासेन पञ्च भेदाः प्रकीर्तिताः ।। 10 ।। तत्र कार्येणैव समुत्पन्नो हेतुः समकालः। यथा श्रीसिङ्गभूपः कविताभिषङ्गो रणाङ्गणे वीरगुरुर्निषङ्गात्। बाणान् समाकर्षति शातकोणान् प्राणैररीणां समकालमेव ।।15।। अत्र कार्यपूर्वक्षण वर्ति कारणमित्येतदुल्लङ्ध्य कारणभूतस्य बाणाकर्षणस्य तत्कार्यभूतस्य विमतप्राणाकर्षणस्य च समकालमेवोत्पत्तिकथनात् समकालो नामायं गौणहेतुः। कार्यादनन्तरमुत्पन्नो हेतुर्विपर्यस्तः। यथा पश्चान्मुञ्चति ते शङ्गः कोशं श्रीसिङ्गभूपते। कोशं मुञ्चन्ति पौरस्त्याः पुरस्तादेव भूभुजः ।।16।। अत्र पूर्वदिक्पार्थिवभाण्डड्डत्ध्;ागारत्यागलक्षणस्य कार्यस्योत्पत्तेरनन्तरत्वात् कारणभूतस्य नायकखड्ड्डत्ध्;गमोक्षस्योत्पत्तिकथनादियं विपर्यस्तो नाम चित्रहेतुः। युक्तकार्यकारी हेतुर्युक्तः। तद्विपरीतो हेनुरयुक्तः। तौ यथा कृपाणभोगी तव सिङ्गभूपते करोत्वरिप्राणसमीरपारणाम्। भवत्प्रतापातपवैभवात्कथं विरोधिनां शोकतमिस्रमेधते ।।17।। अत्र प्रथमार्धे यत्सर्पाणामुचितं पवनपारणकार्यं तदेव कृतमित्ययं युक्तो नाम गौणहेतुः। उत्तरार्धे तेजसो यदुक्तं तमोवर्धनं तदेवकृतमित्यत्युक्तोऽयं गौणहेतुः। अधिकरणहेतुरसङ्गतः। यथा भूभारस्तव दक्ष बाहुशिखरे मूध्र्ना नताः पार्थिवाः प्रागल्भ्यं त्वयि सिङ्गभूवर परं वीतत्रपा वैरिणः। औन्नत्यं त्वयि गर्विताः प्रतिभट व्याप्तान्तरिक्षान्तरा- श्चित्रं कारणमेकतः परिगतः कार्योदयस्त्वन्यतः ।।18।। अत्र नायकगतानां भूभरणादिकारणानां प्रतिनायकगतानां नम्रत्वादिकार्याणां वैयधिकरण्येनासंबद्धत्वादसङ्गतो नामायं गौणहेतुः। इति हेतुविकल्पानां दर्शिता गतिरीदृशी। अभावहेतवोऽप्येवं खयमूह्या विचक्षणैः ।। 11 ।। वस्तुस्वभावादन्येन हेतुना वा पराहतः। नोत्पादयति यः कार्यं सोऽहेतुरिति गीयते ।। 12 ।। वस्तुस्वभावपराहतोऽहेतुर्यथा रूक्षाहंकृतयो न सन्ति ललिते भेदं गते न भ्रुवौ दृक्कोणोऽपि न रागमेति हसितं मन्दं च नान्तर्हितम्। दृष्ट्वापि प्रतिगर्जतां क्षितिभुजां संरंभगर्भक्रिया मूर्तिर्दारुणचेष्टयाप्यविकृता श्रीसिङ्गपृथ्वीपते ।।19।। अत्रातिसंरंभप्रतिनायकचेष्टाविकरण समर्थस्यापि सतताकार्य (?) नायक मूर्तिस्वभावप्रभावपराहता हुंकारादिकालुष्यरूपं कार्यं नोत्पादयतीति सोऽयं तथोक्तः। द्वितीयो यथा दोस्सारं समरेषु सिङ्गनृपतेः प्रायेण जानन्नपि क्ष्मापालेषु भवादृशेष्वपि चिरात् तत्पादसंसेविषु। श्रुण्वन्नाप्तजनोद्धतां गिरमपि प्राणेश धीमान् भवान् तत्सेवां न चिकीर्षतीति यदिदं तहैव दुश्चेष्टितात् ।।20।। अत्र नायकदोस्सारज्ञानादिकारणानां प्रतिनायकगिरा लक्षणकार्यकरणसामथ्र्येऽपि भवितव्यतापराहतशक्तित्वकथनात् कारणान्तरपराहतोऽयमहेतुः। निरूढे साहित्ये सरसढद्धठ्ठड़14;टदयानन्दसदने वदान्ये श्रीसिङ्गक्षितिपतिलके तिष्ठति पुरः। कृतार्थः सर्वार्थे भवति भुवि यः कश्चन न चे- ल्ललाटे दुर्लंघा दुरितलिपिरस्यैव महती ।।21।। अत्र विद्यापक्षपातव्रत नायकौदार्यस्य सकलार्थि कृतार्थीकरणसामथ्र्येऽपि यत्र कुत्र चित् कार्यस्यानुत्पादकत्वे तदर्थिलालाटिक दुर्लिपिपराहतत्वकथनादन्यपराहतोऽयमहेतुः। यस्तु कारणमालेति हेतुसन्तान उच्यते। पृथक् पृथगसामय्र्थात् सोऽप्यहेतुर्मतो मम ।। 13 ।। यथा प्राज्ञैः प्राक्तनवासनापरिकरैर्विद्वज्जवोपासनं तेनापि प्रतिभा तथा मधुरया साहित्यसाक्षात्क्रिया। तत्प्रोढीरनवोतसिङ्गनृपतेस्स्मेराः कटाभक्रमाः ते लक्ष्मीरधिकां तथा कृतधियां सिद्ध्येत् त्रिवर्गोदयः ।।22।। अत्र विद्वज्जनोपासनादीनामुत्तरोत्तरहेतुभूतानामपि त्रिवर्गोदये पूर्वपूर्वव्यपेक्षया समुचितनामेव कारणत्वमिति पृथक् पृथगसामथ्र्यात् कारणमालाप्यहेतुरेव। सूक्ष्मं विदग्धलक्ष्यार्थो द्विधाकारेढिद्धठ्ठड़14;गतक्रमात् ।। 14 ।। यथा केयूररत्नमुपलालयता नृपेण यत्प्रार्थितं निजसखीजनसन्निधाने। श्यामा पयोधरयुगे परमादरेण तस्योत्तरं कृतवती पुलकप्ररोहान् ।।23।। अत्र केयूरनायकरत्नसंक्रान्तनायिकाप्रतिबिम्बपयोधरोपलालनकरणमिङ्गितम्। तेन नायकस्य मनोरथो विदग्धया नायिकया लक्ष्यते स्म। नायिकायाश्च रोमाञ्च आकारः। तेनाङ्गीकरणरूपा स्वाभिलषितचिकीर्षा नायिकाया विदग्धेन नायकेन ज्ञायत इतीदमुभयविधं सूक्षमम्। तदुत्तरं महोत्कर्षो योऽर्थानामुत्तरोत्तरम् ।। 15 ।। यथा जम्बूद्वीपे लसति नितरामन्ध्रदेशो विशेषः श्रेयस्तस्मिन् भवति नगरं राजशैलाभिधानम्। तत्रोत्कर्षं कलयति सभा सिङ्गभूपालमौले- स्सारात्सारं वचनरचनं तत्र तस्यापि राज्ञः ।।24।। अत्र आन्ध्रदेशादीनामुत्तरोत्तरक्रमेण सारत्वाभिधानादुत्तरमिदम्।। विरोधक्तु पदार्थानां परस्परमसंहतिः। असङ्गतप्रत्यनीकविषमाधीरभेदवान् ।। 16 ।। सोऽयं द्विधा बुधैरुक्तरताच्विकाभास भेदतः। ताच्विको ऽपि द्विधा शुद्धो ग्रथितश्चेति गीयते ।। 17 ।। अत्र शुद्धस्ताच्विकविरोधो यथा धनप्रदानं द्वविणार्जनं च साम्राज्यक्ष्मीर्भुवि भारती च। धीवृद्धसेवा नवयौवनं च श्रीसिङ्गभूपे विलसन्ति नित्यम् ।।25।। अत्र धनप्रदानार्जनयोः तक्ष्मीसरस्वत्योः वृद्धसेवानवयौवनयोश्च विरोधस्ताच्विको विविक्तश्चेति यथोक्तः। ग्रथितस्ताच्विकविरोधो यथा किं निद्र्वेषकथस्य दैत्यहननं तत्रापि किं निद्रया निद्रालोरुरसि स्त्रिया किमथ सा निस्संभवा स्यात्कथम्। दैत्यारेरिति तत्पुराणसमये गोष्ठीषु विद्वज्जन- प्रौढोक्त्तीर्निशमय्य सिङ्गनृपतिः स्मेराननो जायते ।।26।। अत्र विरोधस्योत्तरोत्तरग्रथनेन ग्रथितो नामायं तच्वविरोधः। यत्र श्लेषादिसामथ्र्यात् विरोधश्चावभासते। प्रतीतिमात्रचारुत्वमाभासोऽयं द्विधोच्यते ।। 18 ।। शुद्धाभासविरोधो यथा ब्रूमहे सिङ्गभूपालं वयं सौजन्यपण्डिड्डत्ध्;तम्। कामं वदति वीरालिः तमसौजन्य पण्डिड्डत्ध्;तम् ।।27।। अत्र राजन्यसौजन्ययोगरूपो विरोधः शब्दश्लोषमात्रेण प्रतीयते। तच्वतस्तु वीरपङ्क्तिरसौजन्यपण्डिड्डत्ध्;तं रणकुशलं वदतीति परिहारः। स एव ग्रथितो यथा। राज्ञस्ते गुरुता कथं बद गुरोः पझात्तता स्यात्कथम् पझात्तस्य च जिष्णुता कथमहो जिष्णोः कथं सौम्यता। सौम्यस्य क्षितिनन्दनत्वमुचितं लोके कथं भूपतेः श्रीसिङ्गक्षितिनन्दन्त्वमपि तल्लक्ष्णीश्वरोल्लासितम् ।।28।। अत्रोत्तरोत्तरसंकलनया ग्रथितस्य श्लेषमूलत्वादाभासत्वं स्पष्टमेव। किं भूपतित्वं कुतः श्रीसिङ्गक्षितिनन्दनस्य तदिदं लक्ष्मीश्वरोल्लासितमिति। जात्याद्यसङ्गतेर्भेदा बहवो ह्यनयोर्मताः ।। 19 ।। तत्र जातेः जातिक्रियागुणद्रव्यैर्यथा श्रीसिङ्गभूपालमनोऽपि भूभृत्- पझाकरोऽपि स्फुजपङ्कशोषः ख्यातोऽसि भोगीजनवत्सलोऽपि भूमौ सुपर्वोऽपि च सार्वभौमः ।।29।। अत्र प्रथमे पादे मेघपर्वतजात्योः द्वितीये पझाकरपङ्कशोषणक्रिययोः तृतीये सर्वजातिवत्सलत्पगुणयोः चतुर्थे देवजातेः सार्वभौमनान्रो दिग्गजलक्षणस्य द्रव्यस्य चासंहतिरिति चत्वारो जातिविरोधाः। क्रियायाः क्रियागुणद्रव्यविरोधो यथा कविप्रीतिं कुर्वन् तिरयसि कविं नीतिनिगमे तव प्रज्ञा तीक्ष्णा रचयति न भेदं कृतधियाम् । कलानाथोऽपि त्वं त्यजसि ननु नभत्रपदवीं विचित्रं श्रीसिङ्गक्षितिवर चरित्रं तव परम् ।।30।। अत्र कविप्रीतिकरण कवितिरस्करणक्रिययोः प्रथमपादे द्वितीये तीक्ष्णत्वगुणभेदक्रिययोः तृतीये कलानाथनाम्नः चन्द्रलक्षणद्रव्यस्य नक्षत्रमार्गत्यजनेक्रियायाश्च सङ्गतिरिति त्रयः क्रियाविरोधाः। गुणस्य गुणद्रव्याभ्यां विरोधे द्वौ भेदौ। तत्र गुणयोर्विरोधो थया श्री सिङ्गभूप नापि द्वयमदन मेकवृक्षयैकस्मिन्। दाक्षिण्यमुत्तरत्वं भवति तु निर्ऋत्यपेक्षया भवति ।।31।। अत्र दक्षिणत्वोत्तरत्वयोद्र्वयोर्गुणयोर्विरोधः। गुणद्रव्ययोर्यथा चित्रं श्री सिङ्गभूपाल तावकैरर्जुनैरपि। भूयते यशसां बृन्दैर्मित्रनन्दनवत्सलैः ।।32।। अत्रार्जुनलक्षणद्रव्यस्य कर्ण वात्सल्यगुणस्य विरोधः। द्रव्यस्य द्रव्येण विरोधे एक एव भेदः । यथा राजाद्रिराजदातुव्यां (धान्यां?) मधुरायामपि सदा विशालायाम्। श्री सिङ्गनृपो धरणीं मांधातापि प्रशास्ति कृतवीर्यः ।।33।। अत्र प्रथमार्धे मधुराया विशलानगरत्वं द्वितीये मांधातुः कृतवीर्यत्वमिति द्रव्यविरोधः। इत्याभासविरोधस्य दश भेदा निरूपिताः। एवं ताच्विक भेदास्तु खयमूह्या विचक्षणैः ।। 20 ।। विरोधभेदेष्वसङ्गतो यथा विराजते मध्यमलोकभाग्यं राजाचले कश्चन राजसिंहः। यत्प्रान्तदृप्ताप्तवतां विलीनो मादातिरेका रिपुमञ्जरीणाम् ।।34।। अत्र सिंहान्तिकमाप्तानां कुञ्जराणां मदशोषो नसंगच्छत इत्यसंगतो नामायं विरोधभेदः। प्रत्यनीकं यथा श्रोतुं रंभारचनां निर्भरानन्दगर्भां (?) प्रासादेषु प्रतिदिशतटिनीं वीक्षितुं जालमार्गेः। चित्रं सिङ्गक्षितिप भवतः खड्ड्डत्ध्;गधारा निमग्ना निद्रामुद्रां निरवधिकथामाश्रयन्ति द्विषन्तः ।।35।। अत्र वचनश्रवणनिरीक्षणार्थिनां निरवधिनिद्राश्रयणं प्रतिकूलत्वेनासङ्गतमिति प्रत्यनीकमपि विरोध एव। विषमं यथा दिशां दुकूलं हसितं जयश्रिया यशो विलासस्तव सिङ्गभूपते। स्वभावशुद्धोऽपि मुशे विरोधिनां करोति मालिन्यतरङ्गितां दिशाम् ।।36।। अत्र धवलस्य यशसो विरोधिमुखेषु यदतिमालिन्यकरणं तस्य च यादृशोऽप्युपजायते तादृगेव तद्भवतीति प्रसिद्धिवैषम्यात् परस्परासङ्गतेरयं विषमं नाम विरोधः । अथवा दिङ्मुखेषु विशदीकरणं विरोधिमुखेषु मलिनीकरणञ्च समवर्तनप्रकारो न भवतीति वैषम्याद्विषम् विरोधः। अधिकं यथा श्री सिङ्गक्षितिपो वहन्निशितधी राकर्णकृष्टं धनुः प्रत्यश्वं प्रतिकुञ्जरं प्रतिनरं मुञ्चन्नमोघान् शरान्। यावन्ति द्विषतां बलानि बलवत्याश्चर्यमेकोऽप्यसौ तावद्वा सममेव तैरभिमुखैरध्यक्षमालभ्यते ।।37।। अत्रै कस्यापि नायकस्यानेकैरपि सैन्यै रनेकधा दृश्यमानत्वे नैकत्वसंख्याविरुद्धसंख्याधिक्यं प्रतीयत इत्यधिकं नाम विरोधभेदः। प्रभूतकारणालोकाद्यत्र संभाव्यते विधिः। निषेधो वा विशेषज्ञैस्स संभव इतीरितः ।। 21 ।। अत्र विधिसंभवो यथा रैचर्लीयक्षितिवर भवद्घोर नासीरघोटी- कोटीक्षुण्णक्षितितलरजस्यावृताशावकाशे। स्यात्संभाव्यं तनुयवनिकाथन्नदीपोपमानं पर्यन्तोद्यत्परिवृढ शिखा पझरागोपलानाम ।।38।। अत्रैवंविधे रजसि सामन्तशिखामणीनां तादृशी दशा संभाव्येति विधेस्संभाव्यमानत्वादयं विधिसंभवः। निषेधसंभवो यथा सोमोल्लासिनि पारशीकनृपतौ संधानुसंधायके कन्यारत्नसमर्पणाद् गजपतौ संबन्धगन्धस्पृशि। रैचर्लान्वयशार्ङिणं नरपतिं द्रष्टुं रणे साहसं संभाव्यं न हि गौतमीपरिसरक्षुद्रक्षमाभृद्गणे ।।39।। एवंविधनायकसंरंभसहनसाहसं क्षुद्रक्षत्रियेषु न संभाव्यमिति निषेधान्निषेधसंभवः। अन्योन्यं प्रतीकारो यस्तदन्योन्यं मतं मम ।। 22 ।। यथा निर्वातस्तंभितौर्व धरणिसुरकरस्पशंपूतैः सुशीलै- स्त्वद्दानाम्बुप्रवाहैस्सहिमहिमनिधे सिङ्गभूपालमौले। भाण्डड्डत्ध्;ागारान्यनर्घैरनुदिनमवते पूरयत्यैष रत्नै- रित्यन्योन्योपकारप्रसृमरविभवौ त्वं च वारां निधिश्च ।।40।। अत्र नायकनदीनायकयोर्दानाम्बुप्रवाहप्रशस्तरत्नसमुदायाभ्यामन्योन्योपकारकभावादन्योन्यमिदम्। एकता चूलिका भ्रान्तिरन्योन्यस्यैव भूमिकाः ।। 23 ।। अत्रान्योन्यैकता यथा उद्दण्डड्डत्ध्;ीकृतपुण्डड्डत्ध्;रीकपटलस्पष्टप्रकाशं यशः चञ्चच्चम्पकमित्ररुचिराकारः प्रतापश्च ते । प्रत्यथिक्षितिपालमन्दिरभुवि श्रीसिङ्गभूपोज्ज्वला- न्यन्योन्य द्युतिमेलनेन भवतः र्सकीर्णवर्णा इव ।।41।। अत्र कीर्तिप्रतापयो रन्योन्यं विकार्यविका रकभावात् प्रतीकारप्रतीतेरन्योन्यैक्यताप्यन्योन्य एव। अन्योन्यचूलिका यथा विद्याश्रिया राजति विद्यया श्रीः श्रीसिढद्धठ्ठड़14;गभूपो वचसा श्रिया च। नयोऽपि सत्त्वेन नयेन सत्त्वं नयेन सत्त्वेन यथा स एव ।।42।। अत्र विद्याश्रियोर्विराजने परस्परमुपकार्योपकारकतया वर्तमानयोद्र्वयोर्नायकविराजमानक्रियाया अपकारकत्वं यत् सेयं चूलिकोपरि वर्धत इत्यन्योन्यचूलिकेयमन्योन्यभेद एव। अन्योन्यभ्रान्तिर्यथा लीयन्ते गहत्नान्तरेषु शनकैरान्मैक्षणाशङ्किनो भूपालान् भवदीय सैनिकधिया वीक्ष्याध्वगान् वैरिणः। तानालोक्य मलिम्लुचा इति धिया पाश्र्वद्वयालोकिनः सन्नद्धास्त्वरितं प्रयान्ति पथिकाः श्री सिङ्गपृथ्वीपते ।।43।। अत्र कान्तारसञ्चारिणां नायकविरोधिनां पथिकानां परस्परमुद्देश्योद्देशकताभावात् प्रतीकारप्रतीतेरन्योन्यभ्रान्तिरन्योन्यभेद एव। व्यत्ययो वस्तुनोन्यस्तु यो वा विनिमयो मिथः। परिवृत्तिरियं प्रोक्ता मुख्या गौणीति सा द्विधा ।। 24 ।। व्यत्ययवती मुख्या यथा सुजनमयति लक्ष्णीर्दुर्जनानुज्झति श्रीः व्रजति लयमधर्मो वर्धते धर्ममार्गः। अवितरि मणिगर्भामच्युतस्यावतारे श्रितबुधपरिचर्ये सिङ्गभूपालवर्ये ।।44।। अत्र नायकराज्ये सुजनदुर्जनयोर्लक्ष्मीपरिवृत्तिः। धर्माधर्मयोर्लयपरिवृत्तिश्च मुख्यत एव प्रतींयत इति व्यत्यवती मुख्या नाम परिवृत्तिरियम्। व्यत्ययवती गौणी यथा श्री सिङ्गभूपयशसापाकृतमिन्दुमालिन्यम्। भवति हि तदेव लक्ष्यं विमतक्षितिपालवदनकमलेषु ।।45।। अत्र नायकयशसापाकृतस्य चन्द्रकलङ्कस्य विरोधिनरनाथवदनेषु लक्ष्यमाणत्वं तदिदमनुपपद्यमानतया न मुख्यमिति गौणीयं व्यत्ययवती परिवृत्तिः। मुख्या विनिमया यथा श्री सिङ्गक्षितिपालजैत्रपटहध्वानानु सन्धायिनो धावन्तो निजरूपगोपनकृते प्रत्यर्थिपृथ्वीभुजः। दत्त्वा व्याधकुलाय मण्डड्डत्ध्;नभरं केयूरहारादिकं गुञ्जाबीजविभूषणानि विनयात्क्रीणन्ति हीनान्यपि ।।46।। अत्र मणिगुञ्जाविभूषणयोर्विनिमययोः मुख्यतयैव संभवतीति विनिमयवतीयं मुख्या नाम परिवृत्तिः। सैव गौणी यथा वक्रेतराभिव्यवहारदक्षा श्री सिङ्गभूपाल तवासिधारा। प्रदाय कम्पं रिपुभूपतीनां सप्ताङ्गराज्यश्रियमाददति ।।47।। अत्र नायकखड्ड्डत्ध्;गे रिपुभूपतींनां स्वकम्पप्रदानं तेभ्यः सप्ताङ्गराज्यश्रियामादानं च मुख्या वृत्त्या न संभवतीति गौणविनिमया नाम परिवृत्तिः। दृष्टान्तः प्रोक्तसिद्धयै यः सिद्धेऽर्थे सा निदर्शना। पूर्वोत्तरसमत्वेन त्रिधेयं मन्यते बुधैः ।। 25 ।। तत्र पूर्वा निदर्शना यथा परं कुर्वन्ति पारुष्यं दुर्जना राजवल्लभाः। श्री सिङ्गभूपखड्ड्डत्ध्;गोऽयं परमर्मैव कृन्तति ।।48।। अत्र राजवल्लभक्रूरजनदृष्टान्तस्य पूर्वमुक्तत्वात् पूर्वा नाम निदर्शना। उत्तरा यथा श्री सिङ्गभूपचापं विदधाति विरोधिजीवद्रोहम्। नमतामपि वक्राणां परसन्तापाय राजकर्णासक्तिः ।।49।। अत्र राजसमीपवर्तिकुटिलजनवृत्तान्तस्य पश्चादुक्तत्वादुत्तरेयं निदर्शना। समा यथा मेदिन्यां गगनाङ्गनाङ्गननतो मन्दाकिनीवेणिकां वेणीतो जलजातसंभवसभासौगन्धमारोहति। श्री सिङ्गक्षितिपालकीर्तिलतिका तत्संश्रयाणां नृणां शंसत्यद्भतमुत्तरोत्तरतया जातानुबन्धोदयाम् ।।50।। अत्र नायकपरिग्रहेणोत्तरोत्तरोदयवतः कीर्तिदृष्टान्तस्य नायकाश्रितजनोत्तरोत्तरौन्नत्यलक्षणदाष्र्टान्तिकस्य च शंसन्तीति वर्तमानलक्षणशत्र समकालमेवोक्तत्वादियं समा नाम निदर्शना। कथिते वा प्रतीते वा सादृश्ये वस्तुनो द्र्वयोः। भेदाभिधानं भेदस्स्याद्य्वतिरेकश्च संस्मृतः ।। 26 ।। अत्र कथित सादृश्यस्वजातीयव्यतिरेको यथा श्री सिङ्गभूमिपतिना न तुलां प्रयान्ति विश्राणनक्रतुभुवोऽपि परे नरेन्द्राः। नन्दन्ति तेहि विदुषां कविताविलासैः सोऽयं प्रतिनन्दयति च प्रकामम् ।।51।। अत्र नायकस्य सजातीयैः नरेन्द्रैस्सह वितरणे सादृश्यमभिधाय प्रतिप्रीणनहेतुभूतकविताविलासविशेषकथनादयं यथेक्तः। स एव प्रतीतसादृश्ये यथा श्री सिङ्गभूप भवदीयपरिग्रहेण धर्माय यद्बलवते कविरेष भीतः। क्रीतादिबन्धुमुषिता च ददाति भागौ तत्ते तुलां न दधते प्रथमे नरेन्द्राः ।।52।। अत्र रकत्वेन (?) त्रेताद्वापरमहीनाथजातिसाम्ये प्रतीते नायकस्य तद्राज्यचोरितधमभावप्रत्यर्पणपारभूत परिपालनविशेषभेदकथनादयं प्रतीतसादृश्यसजातीयव्यतिरेकः। कथितसादृश्ये स्वव्यक्तिव्यतिरेको यथा श्री सिङ्गभूपाल भवान् दोषा भावे भवानिव। श्रियापुनस्त्वदन्यस्त्वं प्रत्यहं वढद्धठ्ठड़14;घमानया ।।53।। अत्र नायकस्य दोषाभावे स्वेनैव तुल्यतामभिधाय प्रत्यहं वर्धमानया तुरगादिसंपदा स्वस्यैव स्वतो प्रतिदिनापेक्षया विशेषकथनादयं कथितसादृश्ये स्वव्यक्तिव्यतिरेकः। यदि प्रतीयमानसादृश्ये स्वव्यक्तिव्यतिरेकस्योदाहरणं संभवति चारुतां पुष्णाति वा तदपि निरूपणीयम्। कथितसादृश्थे एकव्यतिरेको यथा श्री सिङ्गधरणीपाल करुणावरुणालय। अनुदाता कथं तुल्यस्तव जीमूतवाहनः ।।54।। अत्र करुणानिधित्वेन कथितसादृश्ययोर्नायकविद्याधरनायकयोरुत्तरत्रैव भेदकधर्मकथनादयं यथोक्तः। तत्रैवोभयव्यतिरेको यथा नायकस्यैव वंशावल्याम् सौदर्यो बलभद्रमूर्तिरनिशं देवी प्रिया रुक्मिणी प्रद्युम्रस्तनयोऽपि पौत्रनिवहो यस्यानिरुद्धादयः। सोयं श्रीपतिरन्नवोतनृपतिः किं त्वाननाम्भोरुहे धत्ते चारु सुदर्शनश्रियमसौ सर्वात्म हस्ताम्बुजे ।।55।। अत्र बलभद्रसौदर्यत्वादिभिरभिहितसादृश्ययोः नायकरुस्मिणीनायकयोः सुदर्शनमुखत्वं, सुदर्शनकरत्वं चेदुभयगतभेदकधर्मकथनादयं कथितसादृश्य उभयव्यतिरेकः। प्रतीतसादृश्ये एकव्यतिरेको यथा मित्रममित्रं कुर्वन्नर्वाग द्विजराजकबलनव्यग्रः। राहुः कथमुपमानं श्रीसिङ्गनृपालखड्ड्डत्ध्;गधारायाः ।।56।। अत्र विवणात्वेन (?) प्रतीतसाम्ययोः सैहिकेयककौक्षेयकयोः पूर्वत्रैव भेदकधर्मकथनादयं यथोक्तः। तत्रैवोभयव्यतिरेको यथा अशेषभोगाधिष्ठायी निस्तन्द्रस्सिङ्गभूपतिः। सशेषभोगाधिष्ठायी निद्रालुर्नीरजावरः ।।57।। अत्र जगत्त्राणदीक्षितत्वेन प्रतीयमानसादृश्ययोः नारायणनायकयोरुभयगतभेदकधर्मकथनादयं प्रतीयमानसादृश्य उभयव्यतिरेकः। कथितसादृश्येन सदृशव्यतिरेको यथा राजाद्रिसुरराजाद्री सकल्याणौ सदाश्रयौ। अयं श्री सिङ्गभूपेन राजते न तु वज्रिणा ।।58।। अत्र कथितसाम्ययोः शैलयोः प्रतीयमानसादृश्याभ्यामेव नायकत्रिदिवनायकाभ्यां भेदकथनादयं तथोक्तः। तत्रैव विसदृशव्यतिरेको यथा दिग्दन्तीनां सिङ्गमहीपतेश्च समुद्भवाल्लोकहिताय कामम्। मातङ्गतायामपि ते मदान्धा वंशोन्नतावप्ययमस्तगर्वः ।।59।। अत्र लोकहितत्वेन दिक्कुञ्जराणां नायककुञ्जरस्य च साम्यमभिधाय सदृशाभ्योमेव मातङ्गत्ववंशोन्नतिभ्यां मदान्धत्वनिर्गर्वत्वाभ्यां च भेदकथनादयं कथितसादृश्यो विसदृशव्यतिरेकः। प्रतीतसादृश्ये सदृशव्यतिरेको यथा रत्वैरयत्नविमलैर्विभाति पयसां प्रभुः। अयं श्रीसिङ्गभूपालो गुणैनैर्मल्यमिश्रितैः ।।60।। अत्र गम्भीरत्वादिना प्रतीतसाम्ययोर्नायकनदीनायकयोः कथितसादृश्यै रेव रत्नैर्गुणैश्च भेदकथनादयं तथोक्तः। तत्रैव विसदृशव्यतिरेको यथा निद्रालौ श्रुतिवर्जिते विषमुखे वक्रां दधाने सतीं शेषे नूनमपायशङ्किढद्धठ्ठड़14;टदया स्थातुं समुद्वेगिनीम्। निस्तन्द्रे विशदश्रुतौ सुवदने वक्रेतराध्वक्रमे श्री सिङ्गक्षितिपालके वसुमती याति प्रतिष्ठा पराम् ।।61।। अत्र विद्यापरिज्ञानमहीभरणादिनाप्रतीतसाम्ययोः शेषनायकविशेषयोर्विसदृशनिद्रालुनिस्तन्द्रत्वादिभेदक धर्मकथनादयं प्रतीयमानसादृश्ये विसदृशव्यतिरेकः। एवं हि व्यतिरेकस्य भेदाः केचिन्निदर्शिताः। अनेनैव पथान्योऽपि स्वयमूह्या विचक्षणैः ।। 27 ।। किञ्चिदारभ्यमाणेन कार्यं तत्सहकारिणः। आकस्मिकस्य संप्राष्तेस्समाहितमितीहितम् ।। 28 ।। दैविकं समाहितं यथा श्री सिङ्गक्षितिपालसैनिकभिया भूभृद्गुहागाहिनां कान्तारेषु चिकीषंता निजपदप्रस्तारसंमार्जनाम्। निव्र्यूढा सहकारिता विधिवशादस्माकमाकस्मिकैः कुल्याक्षासलितकन्दरा परिसरप्रारंभमंभोधरैः ।।62।। अत्र पलायमानमार्गेषु निजपदपङ्क्तिमार्जनचिकीर्षूणां नायकविरोधिनामाकस्मिकवर्षेण तत्सुनिष्पन्नमिति दैविकं समाहितम्। अढैविकं यथा वर्षादिप्रथमप्रबोधसमयाचारेण पझालया- दाढासिघ्दनभेकुमनसो व्याजादनिद्रात्यजः। दैत्यारेरुपकारकारणतया जागर्ति जाग्रद्धिया श्री सिङ्गस्य विभो र्दिगन्तविजयप्रस्थानभेरीध्वनिः ।।63।। अत्र निद्राव्याजेन लक्ष्मीगाढालिङ्गनस्य शैथिल्यं चिकीर्षता भगवता लव्धस्य पझ्लयातङ्कहेतुतया सहकारिणो नायकसन्नाहनिस्साणराणस्य पौरुषेयतया तदिदमदैविकं समाहितम्। भ्रान्तिर्विपर्ययज्ञानं संस्कारात्साम्यतोऽपि वा। आलम्बवत्यनालम्बवती चेत्यादि सा द्विधा ।। 29 ।। आलम्बनवती यथा औत्सुक्यादनवोतसिङ्गनृपतेराकारमालिख्य सा निर्वण्र्यायमसौ मम प्रिय इति प्रेमाभियोगभ्रमात्। आशुद्धाय ततोपसृत्य तरसा किञ्चिद्विवृत्तानना सानूनं सदरस्मितं सचकितं साकाङ्क्षमालोकते ।।64।। अत्र नायकानुरक्तायाः कस्याश्चिन्नायकचित्रे अयं साक्षान्नायक इति प्रतीतेः सेयं सततनायकानुध्यानवासनाबलेन चित्रस्थ नायकाकारमालम्ब्य जायत इति संस्कारजा सालम्बा नामभ्रान्तिरियम्। निरालम्बा यथा प्राचण्डड्डत्ध्;्यं प्रतिगण्डड्डत्ध्;भैरवविभोरलोक्य युद्धाङ्गणे दावन्तो गिरिकन्दरापरिसरं प्रत्यर्थिपृथ्वीभुजः। दोरुद्धूतकरालखड्ड्डत्ध्;गलतिकाव्यग्रं तमेवान्तिके प्रत्र्याद्र प्रतिपादपं प्रतिदिशं पश्यन्ति पर्याकुलाः ।।65।। अत्र रणमुखे तादृशप्रचण्डिड्डत्ध्;मानुसन्धायकं नायकं साक्षात्कृतवतां द्विषता मविगतेन वासनाबलेन नायकसादृश्यालम्बनं विनापि शैलादिषु या नयकादिप्रतीतिः सेयं निरालंबना नाम संस्कारतो भ्रान्तिः। द्वितीया च परिज्ञेया द्विप्रकारा मनीषिभिः। अतत्तवे तत्त्वरूपा च तत्त्वे चातत्त्वरूपिणी ।। 30 ।। आद्या यथा नर्तुं वाञ्छति धूर्जटिः फणधरास्तिष्ठन्ति पर्यन्ततः प्रत्युत्तिष्ठति जाढद्धठ्ठड़14;नवी न सहते मानाग्रहं मानिनी। सेष्र्यं पश्यति पार्वती कमलभूरालिङ्गितुं चेष्टते श्री सिङ्गक्षितिनाथकीर्तिमहिमन्याश्चर्यधुर्योदये ।।66।। अत्र सदृशधावल्येन यत्प्रालेयशैलादिरूपे नायकयशसि तत्तद्रूपतया प्रतिभानं सेयमतत्त्वे तत्त्वरूपा भ्रान्तिः। द्वितीया यथा तृष्णाक्रान्ता जलमिति धिया संप्लवे भानुभासां धावं धावं धवलधवलं धान्विनीषु स्थलीषु। क्षामक्षामा रिपुनृपतयः सिङ्गभूपालधाट्यां सत्याकारानपि न पयसां विश्वसन्ति स्म कूपान् ।।67।। अत्र बहुशो मृगतृष्णिकाप्रतारितानां नायकपरिपन्थिनां पारमार्थिकेष्वपि जलेषु न जलानीति या प्रतिपत्तिः सेयं तत्त्वेप्यतत्त्वरूपा भ्रान्तिः सादश्यजनिता भ्रान्तिः। भ्रान्तेः परंपरा भ्रान्तेःऋ श्रुङ्खला इत्युभे इमे। भ्रान्तेः पृथगिति ज्ञानं भ्रान्तिरेवेति मे मतम् ।। 31 ।। अत्र भ्रान्तिपरम्परा यथा शाखासु प्रसवाशया क्षितिरुहां कर्पूरखंडड्डत्ध्;ाशया पेटीकामुदरेषु मोहनविधेरन्ते दुक्लाशया। श्रीसिङ्गक्षितिनायकेन्द्र भवतो गृढद्धठ्ठड़14;णन्ति सिद्धाङ्गनाः लोकालोकदरीपरीसहभुवामाकल्पकल्पं यशः ।।68।। #्त्र सिद्धाङ्गनानां बहुशो मालाक्रमेण नायकयशसि जायमाना प्रसवादिभ्रान्तिरेव ब्रान्तिपरंपरेत्युच्यते। भ्रान्तिशृङ्खला यथा ब्रढद्धठ्ठड़14;ना हंसधियानुरज्यति नभोगङ्गाधिया ते खगाः क्षीरांभोधिधिया च सा तटवती ज्योत्स्नाधिया चाम्बुधिः। सा कान्तिः शरदिन्दुमण्डड्डत्ध्;लधिया त्वत्कीर्तिमव्याहतां श्री सिढद्धठ्ठड़14;गक्षितिनाथ साधुजनतासंकल्पकल्पद्रुम ।।69।। अत्र भ्रान्तीनामुत्तरोत्तरं शृङ्खलान्यायेंन संकलनादियं भ्रान्तिः शृङ्खला नाम भ्रान्तेरेव भेदः। ऊहा वितर्कः स द्वेधा निर्णयानिर्णयावधिः ।। 32 ।। अत्र निर्णयान्तो यथा असौ किं कन्दर्पः किमयममरेशानतनयः किमेषः श्रीरामः किमयमलकानायकसुतः। सखि ज्ञातं सोऽयं युवतिनयनोत्पादकफलं निधानं भाग्यानां जयति खलु सिङ्गक्षितिपतिः ।।70।। अत्र कन्दर्पादिवितर्कानन्तरं सोऽयं नायक इति निर्णयकथनादयं तथोक्तः। अनिर्णयान्तो यथा संवर्तपावकशिखा किमि किन्नु जिढद्धठ्ठड़14;वा मृत्योरियं किमु युगान्तकृतान्तदंष्ट्रा। इत्यूह्यते समरसीमनि वैरिसैन्यैः श्री सिङ्गभूपकरकम्पितखड्ड्डत्ध्;गरेखा ।।71।। अत्र किमिदं किमिदमिति वितर्कयता विमतसैन्येन सेयं नायकखड्ड्डत्ध्;गधारेति निर्णयाकथनादयं तथोक्तः। वस्त्वन्तरेण स्थगनं वस्तुनो मीलितं मतम् ।। 33 ।। यथा नित्यं श्रीअनवोतसिङ्गनृपतेरश्रान्तविश्राणन- श्र्लाघाश्लोककृता च दानरसिके नाकौकसां नायके। स्वर्धेनोर्वदने निसर्गनमनाल्लज्जानतिर्गोप्यते मन्दारस्य च बाष्प विन्दुपटलं श्च्योतन्मधूलीकणैः ।।72।। अत्र नायकवितरणश्लाघयाः पराभूतयोः कामधेनुकल्पवृक्षयोर्जायमानलच्जानतिबा,#्पपूराः स्वभावमुखावनतिपुष्परसाभ्यां स्थगितमिति मीलितमिदम्। तद्भेदास्साम्यपिहित तद्गुणातद्णावपि ।। 34 ।। तत्र सामान्यं यथा रैचर्लीयकुलावतंस नृपते हंसाः प्रशंसानिधे श्लिष्टद्रव्यविवेकिनो विजहति प्रावीण्यगर्वं निजम्। वक्त्रान्ताद्गलितान्मृणालकबलान् कीलौ तव ब्राढद्धठ्ठड़14;नणी प्राप्ताद्वैतकथान्मनागपि परिच्छेत्तुं चिरादक्षमाः ।।73।। अत्र कीर्तिमृणालयोरेकत्वरूपं सामान्यमपि सदृशेन सदृशस्थगनमिति मीरितमेव। पिहितं यथा कस्याशिचित्कुच मण्डड्डत्ध्;ले नववयोमत्तेभकुम्भद्वये दृÏष्ट रागतरङ्गितां विदधता श्रीसिङ्गभूमीभुजा। दाक्षिण्यव्रतभङ्गभीरुमनसा देवेन वामभ्रुवा- मन्यासामपि सा तथैव कृतिना नेत्रेन्द्रियेणार्पिता ।।74।। अत्र प्रकटितस्नेहां प्रेयकीं पश्यतो नायकस्य यदन्यास्वपि तथाविधकटाक्षव्यापारिण स्वकीयभावक प्रख्याकछाकविहितं झ्र्भावप्रच्छादनं विहितं (?)ट तदिदं पिहितमिति केचिदाचक्षते। तदपि सहजानु रागदृष्टिव्यापारस्य साधितानुरागदृष्टिव्यापारेण स्थगनमिति मीलितमेव। तद्गुणो यथ#ापत्रप्रायलताप्रतान कृता निकुञ्जैः पलशोत्तरे (?) स्वच्छासु स्फटिकस्थलीषु धवलक्षोणीरजोलेपनाः। शोणग्रावसु गैरिकेन्द्रदयुजो विद्वेषिणस्तत्क्षणात् लक्ष्यन्ते न हि सिङ्गभूपतिचमूनासीरधाटीभटैः ।।75।। #्त्र नायकद्वेषिणां निकुञ्जापुञ्जादिगुणसमा श्रयणेन स्थगितमिति तद्गुणमीतितमेव। सिङ्गक्ष्मापतिकीर्तिभिर्धवलिते लोकत्रये स्वप्रभोः कण्ठेन व्यतिकालकूटघटनाजीर्णेन ढद्धठ्ठड़14;टष्टा गणाः। वर्णेऽडड्डत्ध्;पि प्रतिकूलतां विजहरी पत्युः प्रिया पार्वती पूर्णेन्दोऽरपि मुद्रिता जनतया रूढा कलङ्कप्रथा ।।76।। अत्रातद्गुणानामपि कालकण्ठ.... ....यद्विकारा विष्करणं सोऽयमतद्गुण इति व्याचक्षते। तदस्मिन् मतेऽपि क्रियाकारणानामसामथ्र्यादहेत्वलङ्कार एव। सदृशादनुभूतार्थप्रतीतिः स्मरणं मतम् ।। 35 ।। यथा संत्रासादुपविन्ध्यकाननबिलैः पर्यन्तनिर्यन्मधु- स्रोतस्का परिलोक्य गण्डड्डत्ध्;दृषदो व्यामावकाशस्पृशः। उद्दण्डड्डत्ध्;प्रतिगण्जभैरवढद्धठ्ठड़14;टताः प्रत्यर्थिभिः पार्थिवैः स्मर्यन्ते निजगन्धबन्धुरघटाः तृट्यत्कटग्रन्थयः ।।77।। अत्र गण्डड्डत्ध्;शैलदर्शनेन तत्सदृशानां नायकापढद्धठ्ठड़14;टतानां निजगजेन्द्राणां या स्मृतिस्सोऽयं स्मृत्यलङ्कारः। अभिप्रायानुकूल्येन प्रवृत्तिर्भाव ईरितः ।। 36 ।। यथा श्रीसिङ्गक्षितिनायकेन विदुषा तत्तत्कलापद्धतेः लोकस्याङ्गान्यकृत्यसौष्ठवकलामङ्गोषु सन्धित्सता। यद्यत्संविहितं रहो वितनुते तत्तत्प्रतीपक्रमं, प्रज्ञाशीतवती विवेकचतुरा काचित्कुरङ्गेक्षणा ।।78।। अत्र नायकस्य योऽयं सौष्ठवोपदेशप्रवृत्तिः तयोर्पटद्वयोरन्योन्यस्पर्शनसुखोपमेय प्रायादित्ययं भावालङ्कारः यथा च कल्याणश्रृङ्गपयसा परिषेक्तुकामा वक्षःस्थलं नववसन्तविहारकाले। अत्यानतेन शिरकेच्छति सिङ्गभूपे तन्मानिनी न विजराति जहाति बाष्पम् ।।79।। अत्र वक्षसि सलिलसेकं नायकः शिरसि यत्समीहितवान् नायिकया तत्शृङ्गसलिलं न मुक्तम् किन्तु बाष्पमिति यत्तदत्र नायकस्य ढद्धठ्ठड़14;टदये काचिदन्या ढद्धठ्ठड़14;टदयवल्लभआ वसतीति भावः। भावप्रतीपस्तु परैर्भाव एवेति दर्शितः। अन्यथाज्ञानरूपत्वाद् भ्रन्तिरेवेति मे मतिः ।। 37 ।। यथा अत्रैवोदाहरणे यथा नायकस्यायमभिप्रायः। मम ढद्धठ्ठड़14;टदये स्थितां त्वामेव त्वं किमिति सेक्तुमिच्छसि। यदि प्रिये मां सेक्तुमिच्छसि तर्हि शिरसि सिञ्चेति। तदापरस्या स्थितिशङ्कया न सेक्तव्योऽयमिति योऽयं नायिकायाः प्रतीप्तोत्कण्ठां बोधयतीत्यर्थापत्तिरियम्। एवंमितरप#्रमाणसिद्धार्थानुपपत्तिहेतुकार्थापत्तिः स्वयमूहनीया। इति सरससाहित्यचातुरीधुरीणविश्वेश्वरकविचन्द्रप्रणीतायां श्री सिङ्गभूपालकीर्तिसुधासारशीतलायां चमत्कारचन्द्रिकायामलङ्कारविवेको नाम सप्तमोविलासः ।।