प्रमुखा विकल्पसूचिः उद्घाट्यताम्
चम्पूभारतम्
प्रथमः स्तबकः
श्रीमदन्तकविः

कल्याणं वो विधत्तां करटमदधुनीलोलकल्लोलमाला-
खेलल्लोलम्बकोलाहलमुखरितदिक्चक्रवालान्तरालम् ।
प्रत्नं वेतण्डरत्नं सततपरिचलत्कर्णतालप्ररोह-
द्वाताङ्कूराजिहीर्षादरविवृतफणाशृङ्गभूषाभुजङ्गम् ॥ १ ॥

तुहिनकिरणवंशस्थूलमुक्ताफलानां
विपुलभुजविराजद्विरल्क्ष्मीविभूम्नाम् ।
हसितसुरपुरश्रीरस्ति सा हस्तिनाख्या
रिपुजनदुरवापा राजाधानी कुरूणाम् ॥ २ ॥

यस्यामुदग्रनृपमन्दिरचन्द्रशाला-
वातायने गतिवशाद्वपुषि प्रसक्तम् ।
दीपग्रधूममषिकां शिशिरांशुबिम्बे
मोहात्कुरङ्ग इति मुग्धजना वदन्ति ॥ ३ ॥
   
ग्रीष्मेषु शीतकरकान्तकृतोदरासु
यद्गोपुराग्रिमद्रीषु पथागतस्य ।
विश्राम्यतो हरिहयस्य विलम्बनेषु
चिह्नं तदीयदिनसंततिदीर्घभावः ॥ ४ ॥

यत्राङ्गनावदनयामवतीशहृष्य-
चन्द्राश्मसौधगलितः सलिलप्रवाहः ।
वृन्दारकेन्द्रनगरीबृहदुत्सवाय मन्दा-
किनीति लभते महतीमभिख्याम् ॥ ५ ॥
    
दीप्रैरगारमणिभिर्दिवसायमानां
निशिन्वते मनसि यत्र निशां युवानः ।
कार्तान्तिकैरखिलकालनिवेदनाय
घण्टामणेरभिहितस्य घनारवेण ॥ ६ ॥

वक्त्रं विलासमणिदर्पणधार्यमाणं
वामा हिमाशुरयमित्यवधार्य यस्याम् ।
आदर्शबिम्बधृतिरश्रुतदृष्टपूर्वा
तस्येति तादृशधियं विनिवर्तयन्ति ॥ ७ ॥

आलापकालसमपल्लविताङ्कवीणा-
सौरभ्यपातिमधुपारवसंकुलस्य ।
तन्त्रीस्वनस्य समितौ तरूनीस्वनस्य
जानाति यत्र चतुरोऽपि न तारतम्यम् ॥ ८ ॥

शालीनतामविगणय्य सखीसमाजे
पश्चाकृतस्य कमितुः प्रणयप्रकोपात् ।
मुग्धाः समीक्ष्य मुकुरायितरन्तबित्तौ
छायां क्षणानुतपनं शमयन्ति यस्याम् ॥ ९ ॥

चित्रं दिदर्शयिषुणा जनितस्य यस्यां
मध्यं विनैव निधिना महिलाजनस्य ।
अङ्कं वितम्बजघनादि यतो यतोऽध-
स्तुङ्गं कुचाद्युपरि याति ततोऽनुकूलम् ॥ १० ॥

पङ्केरुहाणि परिखामवतीर्य यस्यां
प्रकारभित्तिमभितः परिवेष्टयन्ति ।
अन्तःस्तितिं विदधातामबलाजनाना-
मास्यानि जेतुमखिलानि किलात्मभासा ॥ ११ ॥

या खलु पुरा करुधराधिपापराधसमेधितक्रोधेन हलधरेण निजायुधेन हठात्कर्षणशिक्षया समुत्क्षिप्तदक्षिणक्षितिभागा तदीयभुवनभूषणायमानां भोगवतीमात्मना विजेतुं किल भागीरथीपथःपथेनावतीर्य कृतप्रस्थानेवाद्यापि परिदृश्यते ।
उपेत्य तां पाण्डुरुदारविक्रमः
प्रजामनः पल्लवयन् प्रशासनात् ।
यशःप्रकशैर्यमुनासखीसखै
र्निनाय लोकं निजानामवाच्यताम् ॥ १२ ॥

यं किल पराशरसुतो निखिलावनीदेशावनाय निजजननीनिदेशावनम्रमना मनागितराश्चर्यतपश्चर्यालंकर्मीणः समानोदर्यस्य विचित्रवीर्यस्य कुटुम्बिन्यामम्बालिकायां संपादयामास ।

चित्रं चरित्रं जगतीतलेऽस्य न श्लाघयामा स नरेषु को वा ।
स यत्खयं पाण्डुरपि स्वकेन गुणेन रक्तानकरोत्समस्तान् ॥ १३ ॥

अन्तर्भवत्कृष्णमृगाजिनाङ्कैः सुनिर्मलैः षोडशदानकीर्तेः ।
खण्डैरमुष्येन्दुरकारि घात्रा मृषायमब्धेरजनीति वार्ता ॥

जग्राह निग्रहपरः परश्रियां
करैः कराग्रेण करेणुचङ्गमः ।
कुन्तीं शकुन्तीशरथो यथा रमां
समुद्रकाञ्चीं च स मद्रकन्यकाम् ॥ १५ ॥

अथ कदाचिन्मृगयोपलालितहृदयो नरेश्वरोऽयमश्वे शशिश्वेतरोचिषि विश्वातिशायिनि विजितमातरिस्वनि कृताधिरोहः पार्श्वधृतविश्वकद्रुभिरनेकवागुराद्युपकरणैर्योधैरनुद्रुतो मृदुभद्रविनयाभ्यां यदुमद्रतनयाभ्यामनुविद्धः सिद्धगणगणनीयमहिमवतो हिमवतो जगाहेमहतीमटवीतटवीथिकाम् ।

तत्र स तावत् अतिक्षुल्लकवनमल्लिकामतल्लिकोद्वेल्लितधम्मिल्लोऽवलग्नदृढ- लग्नकच्छपुटविच्छुरितच्छुरिको निषङानुषङ्गमांसलिततमांसललितः परनिरसनपरं शरासनवरं करे कुर्वाणो गीर्वाणचक्रवर्तिविक्रमः क्रमेण विविधमृगवधं विधतुमुपक्रमे ।

भूभुजोऽस्य सविधे विचरन्त्योर्भोजमद्रसुतयोदृशि शोभाम् ।
जेतुकाममिव सर्वसमष्ट्या प्रादुरास पुरतो मृगयूथम् ॥ १६ ॥

क्षोणीपतौ मदकलं प्रति कृष्णसारं
तूणीमुखे पतितपाणिनखाङ्कुरेऽस्मिन् ।
एणीकुलानि तरलैर्यमुनाजलानां
एणीमिवाक्षिवलनैर्विपिने वितेनुः ॥ १७ ॥

कुरङ्गयूनां कुरुते स्म भीतिं गुरोः कुलस्यामृतदीधितेर्नः ।
सजातिरेषां तनुते कलङ्कमितीव रोषादिषुभिः स पण्डुः ॥ १८ ॥

प्रजवं हयं गमयते ततस्ततः पतिता नृपाय शललीशलाकिकाः |
गहने वनेपि पषुनत्वमाचरन्ग्रहणे वराहकुलवर्तनीभुवम् || १८ ।।

वेशान्तपङ्कविहृतेर्विनिवृत्य सद्यः ।
प्रत्युद्यतां ध्वनिषु मत्सरिणां हयस्य ।
भूदार एष वनपोत्रवतामतानी-
भ्दूदारशव्दमसहिष्णुरिवान्तमेषाम् ।। २० ।।

तूर्णाम् प्रधाव्य तुरगं स्वयमन्यतोऽसौ पाण्डुः कुलं परिववार लुलाययूनाम् ।
अग्रे विशालकरधूननर्विधात्वात्सत्यापितद्विरदभावविपर्ययाणाम् ॥ २१ ॥

आकर्ण्य क्षितिपहयारवान्सह्यानामूलं कुपितधियस्तिरो विषाणम् ।
व्याधूयान्तिकातरुषु क्षणान्निचख्नुर्व्याक्रष्टुं पुनरथ तच्चिरान्न शेकुः ॥ २२ ॥

कुरुतेति ततः सहैव किलकूटस्थकृतान्तवाहनेन ।
मदधूतविषाणमण्डलाग्रे महिषैघे निचखान मण्डलाग्रम् ॥ २३ ॥

तन्न चित्रमवपतेस्ततश्चन्द्रहासपतनं चकार यत् ।
पोषितेषु वनमध्यचर्यया पुण्ड्रीकनिवहेषु मीलनम् ॥ २४ ॥

गहनमस्तशरारुमृगर्वजं कृतवताऽप्यमुना जविवाजिना ।
ममृगिरे हरयो मदशालिनो मनुजपेन गिरिशदरीशयाः ॥ २५ ॥

विस्फारघोषमवकर्ण्य विनिर्गतानां
हुंकुर्वतां तरूणकेसरिणां गुहाभ्यः ।
या केवलं प्रथममानन एव भल्लै-
स्तां पञ्चतां स विदधे सकलेऽपि देहे ॥ २६ ।।