चम्पूरामायणम्
बालकाण्डः
श्रीभोजराजः


लक्ष्मीं तनोतु नितरामितरानपेक्षमङ्घ्रिद्वयं निगमशाखिशिखाप्रवालम् ।
हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नं विघ्नाद्रिभेदशतधारधुरन्धरं नः ॥१॥

उच्चैर्गतिर्जगति सिद्ध्यति धर्मतश्चेत् तस्य प्रमा च वचनैः कृतकेतरैश्चेत् ।
तेषां प्रकाशनदशा च महीसुरैश्चेत् तानन्तरेण निपतेत् क्व नु मत्प्रणामः ॥२॥

गद्यानुबन्धरसमिश्रितपद्यसूक्तिः हृद्या हि वाद्यकलया कलितेव गीतिः ।
तस्माद्दधातु कविमार्गजुषां सुखाय चम्पूप्रबन्धरचनां रसना मदीया ॥३॥

वाल्मीकिगीतरघुपुङ्गवकीर्तिलेशैस्तृप्तिं करोमि कथमप्यधुना बुधानाम् ।
गङ्गाजलैर्भुवि भगीरथयत्नलब्धैः किं तर्पणं न विदधाति नरः पितॄणाम् ॥४॥

वाचं निशम्य भगवान् स तु नारदस्य प्राचेतसः प्रवचसां प्रथमः कवीनाम् ।
माध्यन्दिनाय नियमाय महर्षिसेव्यां पुण्यामवाप तमसां तमसां निहन्त्रीम् ॥५॥

तत्र कञ्चन क्रौञ्चमिथुनादेकं पञ्चशरविद्धमपि व्याधेनानुविद्धं निध्यायतो बद्धानुकम्पस्य भगवतो वाल्मीकेर्वदनारविन्दाच्छन्दोमयी काचिदेवं निःससार सरस्वती ---

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत्कौञ्चमिथुनादेकमवधीः काममोहितम् ॥६॥

तदनु समयोचितकृत्यं विर्वर्त्य स्वाश्रमं प्रति गतवति भगवति वाल्मीकौ,

वाणीविलासमपरत्र कृतोपलम्भम्म्भोजभूरसहमान इवाविरासीत् ।
आभाति यत्कृतिरनेकविधप्रपञ्च-व्याजेन्द्रजालविधिसाधकपिञ्छिकेव ॥७॥
(व्याजेन्द्रजालविधिसाधकपिच्छिकेव इति पाठभेदः)

ततः परमहर्षेण महर्षिणा विधिवदभ्यर्चितः परमेष्ठी मध्यमलोकेऽपि स्ववृत्तं प्रकाशयितुं किल भवन्तमेवोपतिष्ठमानयानया भारत्या रामचरितं यथाश्रुतं व्याक्रियतामिति व्याहृत्यान्तरधात् ।
(उपतिष्ठमानया इति पाठभेदः)

अथ सरसिजयोनेराज्ञया रामवृत्तं करबदरसमानं प्रेक्ष्य दृष्ट्या प्रतीच्या |
शुभमतनुत काव्यं स्वादु रामायणाख्यं मधुमयफणितीनां मार्गदर्शी महर्षिः ॥८॥
(भणितीनां इति पाठभेदः)

एनं प्रबन्धं प्रयोक्तुं कः समर्थ इति चिन्तामुपगतवति सति भगवति वाल्मीकौ,
(लोके कः इति पाठः)

उपागतौ मिलितपरस्परोपमौ बहुश्रुतौ श्रुतिमधुरस्वरान्वितौ ।
विचक्षणौ विविधनरेन्द्रलक्षणौ कुशीलवौ कुशलवनामधारिणौ ॥९॥

एतौ मुनिः परिगृह्य स्वां कृतिमपाठयत् । तौ पुनरितस्ततो गायमानौ दृष्ट्वा रामः प्रहृष्टमनाः स्वभवनमानीय भ्रातृभिः परिवृतो निजचरितं गातुमन्वयुङ्क्त । ततश्च

छन्दोमयीनां निलयस्य वाचामन्तेवसन्तौ मुनिपुङ्गवस्य |
एतौ कुमारौ रघुवीरवृत्तं यथाक्रमं गातुमुपाक्रमेताम् ॥१०॥

अस्ति प्रशस्ता जनलोचनानामानन्दसन्दायिषु कोसलेषु ।
आज्ञासमुत्सारितदानवानां राज्ञामयोध्येति पुरी रघूणाम् ॥११॥

तामावसद्दशरथः सुरवन्दितेन सङ्क्रन्दनेन विहितासनसंविभागः ।
वृन्दारकारिविजये सुरलोकलब्धमन्दारमाल्यमधुवासितवासभूमिः ॥१२॥

अथास्मिन्ननपत्यतया दूयमानमानसे पुत्रार्थं क्रतुमश्वमेधं विधातुं मन्त्रिभिः समं मन्त्रयमाणे दशरथे सुमन्त्रः प्रहृष्टमना महर्षेरङ्गदेशसङ्गतावग्रहनिग्रहशौण्डस्य विभाण्डकसूनोरवश्यमृष्यशृङ्गस्य प्रसादात्प्रभवो भविता कुमाराणामिति सनत्कुमारोदीरितं पुरावृत्तमस्मै दशरथाय कथयामास ।

सोऽपि सुमन्त्रवचनाच्छान्ताधिः शान्ताकुटुम्बिनं सम्बन्धिनं मुनिमानीय वसिष्ठादिष्टमश्वमेधाध्वरं सरयूरोधसि विधाय तत्र पुत्रीयामिष्टिं विधिवत्कर्तुमारभत ।

तदनु हविराहरणाय धरणौ कृतावतरणाः सर्वे गीर्वाणगणाः शतमखप्रमुखाश्चतुर्मुखाय दशमुखप्रतापग्रीष्मोष्मसम्प्लोषणमावेद्य तेन सह शरणमिति शार्ङ्गधन्वानं मन्वाना नानाविधप्रस्तुतस्तुतयः क्षीराम्बुराशिमासेदुः ।

सन्तापघ्नं सकलजगतां शार्ङ्गचापाभिरामं लक्ष्मीविद्युल्लसितमतसीगुच्छसच्छायकायम् ।
वैकुण्ठाख्यं मुनिजनमनश्चातकानां शरण्यं कारुण्यापं त्रिदशपरिषत्कालमेघं ददर्श ॥१३॥

क्षीराम्भोधेर्जठरमभितो देहभासां प्ररोहैः कालोन्मीलत्कुवलयदलाद्वैतमापादयन्तम् ।
आतन्वानं भुजगशयने कामपि क्षौमगौरे निद्रामुद्रां निखिलजगतीरक्षणे जागरूकाम् ॥१४॥

प्रह्लादस्य व्यसनममितं दैत्यवर्गस्य दम्भं स्तम्भं वक्षःस्थलमपि रिपोर्यौगपद्येन भेत्तुम् ।
बद्धश्रद्धं पुरुषवपुषा मिश्रिते विश्वदृष्टे दंष्ट्रारोचिर्विशदभुवने रंहसा सिंहवेषे ॥१५॥

नारायणाय नलिनायतलोचनाय नामावशेषितमहाबलिवैभवाय ।
नानाचराचरविधायकजन्मदेश-नाभीपुटाय पुरुषाय नमः परस्मै ॥१६॥

इति प्रणम्योत्थितानेतान् स्तुतिरवमुखरितहरिन्मुखान् हरिहयप्रमुखानखिलानमरानरुणारुणतामरसविलासचोरैर्लोचनमरीचिसन्तानैरानन्दयन्नरविन्दलोचनः स्फुटमभाषत ।

अपि कुशलममर्त्याः स्वागतं साम्प्रतं वः शमितदनुजदम्भा किं नु दम्भोलिकेलिः ।
अपि धिषणमनीषानिर्मिता नीतिमार्गाः त्रिदशनगरयोगक्षेमकृत्ये क्षमन्ते ॥१७॥

एवं भगवतः कुशलानुयोगपुरःसरीममृतासारसरसां सरस्वतीमाकर्ण्य सम्पूर्णमनोरथानां सुमनसां संसत्पुंसे परस्मै विज्ञापयामास ।

देव ! कथमकुशलमाविर्भवेद्भवता कृतावलम्बानामस्माकम्? किन्तु |

अस्ति प्रशस्तविभवैर्विबुधैरलङ्घ्या लङ्केति नाम रजनीचरराजधानी ।
माणिक्यमन्दिरभुवां महसां प्ररोहैः तेजस्त्रयाय दिनदीपदशां दिशन्ती ॥१८॥

एनां पुराणनगरीं नगरीतिसालां सालाभिरामभुजनिर्जितयक्षराजः ।
हेलाभिभूतजगतां रजनीचराणां राजा चिरादवति रावणनामधेयः ॥१९॥

यद्बाहुराहुरसनायितशस्त्रधाराः दिक्पालकीर्तिमयचन्द्रमसं ग्रसन्ति ।
यद्वैरिणां रणमुखे शरणप्रदायी नैवास्ति कश्चिदमुमन्तकमन्तरेण ॥२०॥

अम्भोजसम्भवममुं बहुभिस्तपोभिः
आराधयन् वरमवाप परैर्दुरापम् ।
तस्मादशेषभुवनं निजशासनस्य
लक्ष्यीकरोति रजनीचरचक्रवर्ती ॥२१॥

तेन वयं पराधीना इव भवामः ।

तथा हि
सोऽयं कदाचित् क्रीडाधराधरमारुह्य सावरोधवधूजनश्चरणाभ्यां सञ्चरेत चेदागमिष्यत्याग इत्यनाविष्कृतातपो भयेन भगवान् सहस्रभानुरपि सङ्कुचितभानुरेव तत्सानूनि नूनं संश्रयते ।

एष मृगाङ्कोऽपि मृगयायासपरिश्रान्तिविश्रान्त्यै ससम्भ्रमं नमज्जनपरिवृते मज्जनगृहाभिमुखे दशमुखे तत्रत्यविचित्रतरशातकुम्भस्तम्भाग्रप्रत्यग्रप्रत्युप्त-स्फटिकशिलाशालभञ्जिकापुञ्जकरतलकलितनिजोपलमयकलशमुखादच्छाच्छामविच्छिन्नधारामम्बुधारां निजकराभिमर्शादापादयंस्तस्य प्रसादपिशुनानां शुनासीरचिरकाङ्क्षितानां विंशतिविधवीक्षणानां क्षणमात्रं पात्रं भवति ।

तेन पुलस्त्यनन्दनेन सङ्क्रन्दननन्दनात्स्वमन्दिरोद्यानमानीतस्य मन्दारप्रमुखस्य वृन्दारकतरुवृन्दस्य बन्दीकृतसुरसुन्दरीनयनेन्दीवरद्वन्द्वाच्च करारविन्दकलितकनककलशाच्च मन्दोष्णं स्यन्दमानैरम्बुभिर्जम्बालितालवालस्य पचेलिमानामपि कुसुमानां पतनभयमाशङ्कमानाः पवमानाः परिस्पन्दितुमपि प्रभवो न भवन्ति ।

एतेऽपि पावका रूढिशङ्कावहां हुतवहाख्यां वहन्तस्तद्गृहे गार्हपत्यपुरोगाः पौरोगवधुरं दधते ।

किं बहुना । स एष मानुषादवमाननमागमिष्यतीत्यमन्वान-स्तदितरैरवध्यत्वं चतुराननवराल्लब्ध्वा समुद्धतः सम्प्रति सम्प्रहारसमाक्रान्तदिगन्तदन्तावलदन्तकुन्तव्रणकिणस्थपुटित-वक्षःस्थलः स्थलकमलिनीं वनवारण इव रावणस्त्रिलोकीमभिभवन् भवदीयानित्यस्मान्न जातु किञ्चिदपि जानातीति ।

अथ भगवानाकर्ण्य गीर्वाणगणवाणीम्
इन्द्रनीलाचलोदञ्चच्चन्द्रिकाधवलस्मितः ।
वाचमूचे सुधाधारां मधुरां मधुसूदनः ॥२२॥

भवतामपराधविधायिनस्तस्य यातुधानस्य निधनमधुनैव विधातुं शक्यम् ।

किन्तु सरसिजासनशासनमप्यमोघीकुर्वन्नुर्वीतले पुत्रीयतः सुत्राममित्रस्य दशरथस्य मनोरथमपि पूरयितुमादृतमानुषवेषः सन्नहमेव तं हनिष्यामीति व्याहृत्यान्तरधात् ।

ततः सा परिषदनिमिषाणामुन्मिषितहर्षा हृषीकेशादेशात्प्रशमितदुर्दशानि निर्दशाननानि चतुर्दशभुवनानि बुद्ध्वा दुग्धसागरान्निरगात् ।

ततस्तानमरान् प्राह स्म पितामहः ।

भवन्तस्तावदवतरिष्यतो लक्ष्मीसहायस्य साहाय्यार्थमप्सरःप्रभृतिषु युवतिषु वानराच्छभल्लगोपुच्छनीलमुखवेषभृतः प्रथितप्रभावाः प्रजाः प्रजनयेयुरिति ।

पुरैव किल मम जृम्भारम्भे सम्भूतवाञ्जाम्बवानिति ।

ततस्ते गीर्वाणास्तथाकुर्वन् ।

अथ वैतानाद्वैश्वानरान्नरः प्राजापत्यः सहेमपात्रः कश्चिदुत्थाय पुत्रीयते दशरथाय पायसममृतप्रायं प्रायच्छत् ।

कौसल्यायै प्रथममदिशद्भूपतिः पायसार्धम्
प्रादादर्धं प्रणयमधुरं केकयेन्द्रस्य पुत्र्यै ।
एते देव्यौ तरलमनसः पत्युरालोच्य भावम्
स्वार्धांशाभ्यां स्वयमकुरुतां पूर्णकामां सुमित्राम् ॥२३॥

अवभृथेऽवसिते सरयूतटाद् अथ यथायथमुच्चलिते जने ।
दशरथः परिपूर्णमनोरथः पुरमगात्पुरुहूतपुरोपमाम् ॥२४॥

अपाटवात् केवलमङ्गकानां मनोज्ञकान्तेर्महिषीजनस्य ।
शनैः शनैः प्रोज्झितभूषणानि चकाशिरे दौहृदलक्षणानि ॥२५॥

मन्दमन्दमपयद्वलित्रया गाधताविषयनाभिगह्वरा ।
कोसलेन्द्रदुहितुः शनैरभूत् मध्ययष्टिरपि दृष्टिगोचरा ॥२६॥

न्यग्रोधपत्रसमतां क्रमशः प्रयाताम्
अङ्गीचकार पुनरप्युदरं कृशाङ्ग्याः ।
जीवातवे दशमुखोरगपीडितानां
गर्भच्छलेन वसता प्रथमेन पुंसा ॥२७॥

मध्यं तनुत्वादविभाव्यमानम्
आकाशमासीदसितायताक्ष्याः ।
गर्भोदये विष्णुपदापदेशात्
कार्श्यं विहायापि विहाय एव ॥२८॥

उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यां तिथौ
लग्ने कर्कटके पुनर्वसुयुते मेषं गते पूषणि ।
निर्दग्धुं निखिलाः पलाशसमिधो मेध्यादयोध्यारणेः
आविर्भूतमभूतपूर्वमपरं यत्किञ्चिदेकं महः ॥२९॥

अथ रामाभिधानेन कवेः सुरभयन् गिरः ।
अलञ्चकार कारुण्याद् रघूणामन्वयं हरिः ॥३०॥

तमेनमन्वजायन्त त्रयस्त्रेताग्नितेजसः ।
अग्रजस्यानुकुर्वन्तस्तैर्तैर्लोकोत्तरैर्गुणैः ॥३१॥

भरतस्तेषु कैकेय्यास्तनयो विनयोज्ज्वलः ।
अन्यौ लक्ष्मणशत्रुघ्नौ सुमित्रायां कृतोदयौ ॥३२॥

एते ववृधिरे वीरा ब्रह्मक्षेमाय दीक्षिताः ।
लोकानन्दमुकुन्दस्य चत्वार इव बाहवः ॥३३॥

अथ कदाचिदपरिमेयमायाभयानकयुद्धसमुद्धतदैत्यबलावस्कन्द-कान्दिशीकवृन्दारकानीकपरिवार्यमाणरथः पङ्क्तिरथस्तपश्चर्याजाताना-माश्चर्याणामायतनं त्रिशङ्कुयाजिनं भगवन्तं पद्यप्रबन्धमिव दर्शितसर्गभेदं प्राकृतव्याकरणमिव प्रकटितवर्णव्यत्यासं बुधमिव सोमसुतं कुशिकसुतमद्राक्षीत् ।

तदनु यथाविधि कृतसपर्येण मर्यादातीतमहिम्ना महितेन गाधेतरहृदयेन गाधिनन्दनेन सत्रपरित्राणार्थमित्थमभ्यर्थितोऽभूत् ।

राजन् भवतस्तनयेन विनयाभिरामेण रामेण शरासनमित्रेण सौमित्रिमात्रपरिजनेन क्रियमाणक्रतुरक्षो रक्षोदुरितमुत्तीर्य कृतावभृथो भवितुमभिलषामीति ।

एतदाकर्ण्य कर्णपरुषं महर्षिभाषितमतिमात्रपुत्रवात्सल्यात् कौसल्याजानिः सशल्यान्तःकरणोऽभूत्।

ततस्तस्मिन् बहुप्रकारैरवार्यनिश्चये भगवति विश्वामित्रे दशरथस्तपनकुलहितेन पुरोहितेनैवमभिहितोऽभूत् ।

पर्याप्तभाग्याय भवानमुष्मै कुर्यात्सपर्यां कुशिकात्मजाय ।
निर्यातुधानां वसुधां विधातुं निर्यातु रामः सह लक्ष्मणेन ॥ ३४ ॥

एवं वसिष्ठेन प्रतिष्ठापितधृतिर्दशरथः सुतप्रदानेन कुशिकसुतमनोरथमेव पूरयामास ।

योगेन लभ्यो यः पुंसां संसारापेतचेतसाम् ।
नियोगेन पितुः सोऽयं रामः कौशिकमन्वगात् ॥ ३५ ॥

तत्र सत्रं परित्रातुं विश्वामित्रो महामुनिः ।
सौमित्रिसहितं रामं नयन्नयमवोचत ॥ ३६ ॥

बलेन तपसां लब्धे बलेत्यतिबलेति च ।
विद्येते मयि काकुत्स्थ विद्ये ते वितरामि ते ॥ ३७ ॥

ततो गृहीतविद्यस्य दाशरथेः प्रदेशमेकं प्रदर्श्य भगवानित्थमकथयत् |

अस्मिन्पुरा पुरभिदः परमेश्वरस्य
फालान्तरालनयनज्वलने मनोभूः ।
सद्यः प्रपद्य शलभत्वममुञ्चदङ्गं
तस्मादमुं जनपदं विदुरङ्गसंज्ञम् ॥ ३८ ॥

तदनु मानससरःप्रसृतां सरयूमतिक्रम्य वृत्रवधप्रवृद्धवृद्धश्रवःपङ्क-क्षालनलब्धमलयोर्मलदकरूषनाम्नोर्जनपदयोः सीम्नि कृतपदयोर्दाशरथ्योः पुनरप्येवमब्रवीत् ।

यक्षः सुकेतुर्द्रुहिणप्रसादाल्लेभे सुतां कामपि ताटकाख्याम् ।
सुन्दः किलैनां परिणीय तस्यां मारीचनीचं जनयाम्बभूव ॥ ३९ ॥

एकदा सुन्दे निहते मारीचः कुम्भसम्भवमभिभूय तस्य शापादवाप कौणपताम् । ताटकाप्यभूत्पुरुषादिनी ।

सेयमब्जासनसिद्धसिन्धुरसहस्रप्राणात्मजेन सह जनपदविपदं विदधाना व्यापादनीया त्वयेति । रामस्तमाकर्ण्य स्त्रीवधशङ्कामकरोत् ।

किञ्च वैरोचनीं मन्थरां वसुन्धरापराधधुरन्धरां पुरन्दरेण निहतां जनार्दनकृतमर्दनां च भार्गवजननीं प्रदर्श्य दाशरथेरमन्दां सुन्दवधूवधविचिकित्सामुत्सारयामास ।

आश्रुतः श्रुतवृत्तेन तेन सुन्दप्रियावधः ।
तमेवान्ववदत्तस्य चापः शिञ्जारवच्छलात् ॥ ४० ॥

तत्काले पिशिताशनाशपिशुना सन्ध्येव काचिन्मुने-
रध्वानं तरसा रुरोध रुधिरक्षोदारुणा दारुणा ।
स्वाधीने हनने पुरीं विदधती मृत्योः स्वकृत्यात्यय-
क्रीडत्किङ्करसङ्घसङ्कटमहाशृङ्गाटकां ताटका ॥ ४१ ॥

अथ दाशरथेः कर्णमविशत्ताटकागुणः ।
तथा धनुर्गुणस्तूर्णं प्राविशत्तज्जिघांसया ॥४२॥

ततो भाविनि सङ्ग्रामे बद्धश्रद्धस्य ताटका ।
स्वप्राणान् रामबाणस्य वीरपाणमकल्पयत् ॥ ४३ ॥

मुनिर्भृशाश्वोपज्ञानि ताटकामाथिने ददौ ।
अस्त्राणि जृम्भकादीनि जम्भशासनशासनात् ॥ ४४ ॥

तत्र कञ्चन विरिञ्चिलोकप्रत्यादेशं प्रदेशं प्रदर्शयन्नवोचत् ।

प्रतिदिनमवदातैर्ब्रह्मभिर्ब्रह्मनिष्ठैः
प्रशमितभवखेदैः सादरं सेव्यमाने ।
बलिनियमनहेतोर्वामनः काननेऽस्मिन्
बलिनियमपरस्सन् ब्रह्मचारी चचार ॥४५॥

अपहृतविबुधार्तेर्वामनस्याजमूर्ते-
रखिलभुवनभिक्षोराश्रमानोकहानाम् ।
ततिरियमतिनीला व्याप्तदिग्व्योमसीमा
स्वयमपि परिमातुं लोकमभ्युद्यतेव ॥४६॥

इति विविधरसाभिः कौशिकव्याहृताभिः
श्रुतिपथमधुराभिः पावनीभिः कथाभिः ।
गलितगहनकृच्छ्रं गच्छतोर्दाशरथ्योः
समकुचदिव सद्यस्तादृशं मार्गदैर्घ्यम् ॥४७॥

ततः सिद्धाश्रमं प्रविश्य विश्वामित्रः सत्रमारभत ।

तदनन्तरमन्तरिक्षान्तरालादापतन्तमन्तकानीकभयानकं तं पलाशगणमवलोक्य पलायमानाः करगलितसमित्कुशाः कुशिकनन्दनान्तेवासिनः ससम्भ्रममभिलषिताहवाय राघवाय न्यवेदयन् ।

हृत्वाद्रेः शिखराणि तानि परितः क्षिप्त्वा हसित्वा क्रुधा
कृत्वा हस्तविघट्टनं तत इतः स्थित्वा नटित्वा मुहुः ।
सिक्त्वा क्ष्मामसृजा स्रजान्त्रकृतया बद्ध्वा कचान् खेचरान्
दग्ध्वाग्नेः सदृशा दृशा निशिचरा रुन्धन्ति रन्ध्रं दिवः ॥४८॥

सङ्क्रान्तवर्णान्तरगाधिसूनोः सम्पर्कपुण्यादिव रामभद्रः ।
क्षात्रक्रमात् पिप्पलदण्डयोग्यः पलाशदण्डादृतपाणिरासीत् ॥४९॥

मारीचनीचमतिराहवमारचय्य क्षिप्तः क्षणेन रघुनायकसायकेन ।
मध्येपयोनिधि भयेन निमग्नमूर्तिर्वेषं पुपोष जलमानुषनिर्विशेषम् ॥५०॥

सुबाहुराहवोन्मत्तः कृत्तः काकुत्स्थपत्रिणा ।
मुनीनामनभिप्रेतः प्रेतनाथातिथिः कृतः ॥ ५१ ॥

वंशस्पृशा हृदयहारिफलान्वितेन
रामेरितेन सहसा सह सायकेन ।
स्नेहार्दितेन निरगादनुरागिणीव
प्राणावलिर्हृदयतः पिशिताशनानाम् ॥ ५२ ॥

अथ निशिचरमाथाद्वीतवैतानविघ्नः
मुनिरवभृथकृत्यं विश्वहृद्यं समाप्य ।
अमनुत जयलक्ष्म्या राममाजौ समेतं
यजनजनितमूर्त्या योक्तुमव्याजलक्ष्म्या ॥ ५३ ॥

अथ मिथिलां प्रति प्रस्थितः कौशिकः काकुत्स्थमित्थमकथयत् ।

पुरा खलु कुशेशयासनजन्मा कुशाभिधानो राजर्षिः कुशाम्बप्रमुखैश्चतुर्भिः कौशाम्बीमहोदयधर्मारण्यगिरिव्रजाख्यानां पुरीणां कर्तृभिः पुत्री बभूव ।

कुशनाभस्तु घृतीच्यां कन्याशतमजनयत् ।

कन्यास्ताः संनद्धयौवनाः कामयमानः पवमानः प्रत्याख्यानात्प्रत्यापन्नमन्युरासामवयवेष्वनार्जवमतनुत ।

अथ विदितवृत्तान्तेन कुशनाभेन तेन क्षमामेव प्रतिक्रियां मन्यमानेन चूलिसूनवे सौमदेयाय राज्ञे ब्रह्मदत्ताय दत्तास्ताः प्रकृतिस्था बभूवुः ।

पुनरपि कुशनाभस्तु पुतीयन्पितुः प्रसादादगाधसत्त्वान्गाधिसंज्ञानस्मत्तातपादानुदपादयत् ।

इत्थं दाशरथिः कौशिकोत्पत्तिकथानिशमननिरायामयामिनीयामानुबन्धो बन्धूकस्तबकसुन्दरबन्धुरेण सन्ध्यारागेण प्राचीमुखेन शोणीकृतेन शोणाभिधानं दधानेन नदेन प्रवर्तितप्रत्यूषकृत्यः कृतनियमेन मुनिना सह गङ्गामुपतिष्ठमानेन पथा प्रातिष्ठत ।

आजानपावनक्षीरां वृषानन्दविधायिनीम् ।
श्रुतिप्रणयिनीं सोऽयमापगामाप गामिव ॥५४॥

अथ भागीरथीकथां श्रोतुकामाय रामाय भगवानिदमभाषत ।

पुरा मनोरमा नाम सुमेरोरभवत्सुता ।
गृहमेधी तयैवासीच्चक्रवर्त्ती धराभृताम् ॥ ५५ ॥

कन्याद्वयममुष्यासीदेका मन्दाकिनी तयोः ।
अन्या भगवती साक्षाच्चन्द्रचूडकुटुम्बिनी ॥ ५६ ॥

तां नदीं विबुधा लब्ध्वा नाकलोकमनीनयन् ।
तपस्यन्तीं गिरिर्गौरीं देवाय महते ददौ ॥५७॥

शिवयोर्युञ्जतोर्वीर्यं दृष्ट्वा धात्र्यां समर्पितम् ।
पावकः प्रतिजग्राह दैवतैरनुनाथितः ॥५८॥

अनपत्यानथामर्त्यान्बहुभार्यां च मेदिनीम् ।
अकरोदम्बिकाक्रोधः पुत्रालाभसमुद्भवः ॥ ५९ ॥

अथ सेनान्यमिच्छद्भिरुक्तः सब्रह्मभिः सुरैः ।
वह्निरह्नाय जाह्नव्यां न्यषिञ्चद्वीर्यमैश्वरम् ॥ ६० ॥

सापि सप्तार्चिषा क्षिप्तं तेजस्तद्वोढुमक्षमा ।
हिमवत्प्रान्तकान्तारे श्रान्ता शरवणे जहौ ॥ ६१ ॥

तत्राभूत्कृत्तिकाप्रीत्यै षोढारूढमुखाम्बुजम् ।
तारकध्वान्तविध्वंसि सद्यः षाण्मातुरं महः ॥ ६२ ॥

त्रैविध्यं श्रूयतां वत्स सरितस्त्रिदिवौकसाम् ।
यथोक्तं हव्यमश्नन्त्या देवताया इवाध्वरे ॥ ६३ ॥

पुरीमयोध्यामध्यास्त सावित्रः सगरो नृपः ।
केशिनीसुमतिभ्यां च लङ्घितप्रथमाश्रमः ॥ ६४ ॥

स पुत्रीयन्सपत्नीकस्तपस्तेपे समाः शतम् ।
भृगुः प्रीतमनास्तस्मै ददौ दायादसम्पदम् ॥ ६५ ॥

असमञ्जं सुतं लेभे वैदर्भी केशिनी तयोः ।
षष्टिं पुत्रसहस्राणां सुमतिश्च यवीयसी ॥ ६६ ॥

असमञ्जसचारित्रमसमञ्जमपोह्य सः ।
आरब्धहयमेधः सन्नमुञ्चत तुरङ्गमम् ॥ ६७ ॥

क्रव्यादवपुषा सोऽयमहारि हरिणा हयः ।
ततस्तं नष्टमन्वेष्टुं सौमतेयाः प्रतस्थिरे ॥ ६८ ॥

सर्वे सपर्वतामुर्वीं खनन्तः सगरात्मजाः ।
चक्रुर्झर्झरितध्वान्तं नागलोकं नखांशुभिः ॥ ६९ ॥

त एते तपसा दीप्ते तमःस्तोमप्रमाथिनि ।
कापिले ज्वलने वीरा लेभिरे शलभोपमाम् ॥ ७० ॥

असमञ्जसुतं पौत्रमंशुमन्तमथाब्रवीत् ।
सप्तिं हृत्वा समाधत्तां सप्ततन्तुं भवानिति ॥ ७१ ॥

सोऽपि गत्वा बिलं तत्र दृष्ट्वा भस्मीकृतान्पितॄन् ।
साश्रुस्तेभ्योऽञ्जलिं दित्सुश्चरल्ँलेभे तुरङ्गमम् ॥ ७२ ॥

मातुलो गरुडस्तेषामेनं तत्रैवमब्रवीत् ।
गङ्गामिहानयायुष्मन्नेषामेषा गतिः परा ॥ ७३ ॥

ततस्तनयवृत्तान्तं श्रुत्वा लब्धतुरङ्गमः ।
समाप्य सगरः सत्रं पुत्रशोकाद्दिवं गतः ॥ ७४ ॥

अथांशुमानयं राज्यं चिराय परिपालयन् ।
दिलीपे न्यस्तभूभारस्तपस्तेपे हिमालये ॥ ७५ ॥

दिलीपेऽपि दिवं याते श्रुत्वा वृत्तं भगीरथः ।
अमर्त्यसरितं कर्तुं मेने मर्त्यतरङ्गिणीम् ॥ ७६ ॥

ततो गोकर्णमासाद्य तपस्यति भगीरथे ।
देवो देवापगां वोढुमन्वमंस्त दयानिधिः ॥ ७७ ॥

अथ वीचीचयच्छन्नदिगन्तगगनान्तरा ।
शशाङ्कशङ्खसम्भिन्नतारामौक्तिकदन्तुरा ॥ ७८ ॥

तरङ्गाकृष्टमार्ताण्डतुरङ्गायासितारुणा ।
फेनच्छन्नस्वमातङ्गमार्गणव्यग्रवासवा ॥ ७९ ॥

आविःशाखाशिखोन्नेयनन्दनद्रुमकर्षणा ।
एकोदकनभोमार्गदिङ्मूढदिवसेश्वरा ॥ ८० ॥

आवर्तगर्तसम्भ्रान्तविमानप्लवविप्लवा ।
नीलजीमूतशैवालकृतरेखाहरित्तटा ॥ ८१ ॥

अवलेपभराक्रान्ता सुरलोकतरङ्गिणी ।
पपात पार्वतीकान्तजटाकान्तारगह्वरे ॥ ८२ ॥

अलब्धनिर्गमा शम्भोः कपर्दादमरापगा ।
दधौ दूर्वाशिखालग्नतुषारकणिकोपमाम् ॥ ८३ ॥

अदृष्ट्वा तां नदीं तत्र तुष्टाव परमेश्वरम् ।
भगीरथो विधेः क्रौर्यात्परिक्षीणमनोरथः ॥ ८४ ॥

गङ्गा सप्ताकृतिर्जाता न्यपतद्धरमूर्धनि ।
तेन स्तुत्या प्रसन्नेन क्षिप्ता बिन्दुसरस्यपि ॥ ८५ ॥

तासु प्राचीं गतास्तिस्रस्तिस्रः प्राचेतसीं दिशम् ।
अन्या पितृक्रियोद्युक्तभगीरथपथानुगा ॥ ८६ ॥

सैषा भागीरथी जह्नोः सत्रक्षेत्रं समावृणोत् ।
तां स पीत्वा ततः शान्तो जहौ श्रोत्रेण वर्त्मना ॥ ८७ ॥

तया तटिन्या जाह्नव्या प्रापयन्त्रिदिवं पितॄन् ।
भगीरथः पुरं प्राप परिपूर्णमनोरथः ॥ ८८ ॥

अथ दाशरथिराकर्णितभागीरथीकथस्तां सरितं विलङ्घ्य विशालां विलोक्य पुरीं कस्येयमिति गाधिनन्दनमपृच्छत् ।

सोऽप्येवमवोचत् ।

पुरा खलु सुरासुराणां सुधानिमित्तं मिथो विरोधे प्रवृत्ते मायां विश्वमोहिनीं विश्वरूपः प्रदर्श्य दैतेयनिधनं शतधारपाणिना कारयामास ।

तेषां जननी दितिरतिवेलमन्युः शतमन्युशासनं कमपि पुत्रं लब्धुकामा पत्युर्मारीचस्य वचनात्कुशप्लवे सुचिरं तपश्चचार ।

तां कैतवेन शुश्रूषमाणः शतधारपाणिः पादकलितकचकलापामापन्ननिद्रामपवित्रेति निर्वर्ण्यावगाहिततदीयजठरः सप्तधा गर्भं निर्भिद्य निर्जगाम।

दितिरपि विदिततनयवृत्तान्ता तान्यपि खण्डान्याखण्डलेन सप्तमरुतः कारयित्वा त्रिविष्टपं प्रविष्टा।

ततः।
अलम्बुसायामिक्ष्वाकोर्जातः कश्चिन्महीपतिः ।
विशालेति स्वनाम्नात्र विशालां विदधे पुरीम् ॥८९॥

तदनु तद्वास्तव्येन सुमतिनाम्ना नृपतिना कृतातिथ्यः सराजपुत्रो भगवान्विश्वामित्रस्तत्र निशीथिनीं नीत्वा मिथिलां प्रति प्रस्थितः प्रतपसामुत्तमस्य गौतमस्याश्रमं प्रदर्श्य तद्दारानुषक्तां कथामित्थमकथयत्।

अत्रागमद्गौतमधर्मदाराननार्यजुष्टेन पथा महेन्द्रः ।
स च क्रुधा निर्वृषणं वृषाणं भार्यामदृश्यां च मुनिश्चकार ॥ ९० ॥

वनमेतद्गते रामे शापान्मुक्ता भविष्यसि ।
इत्युक्त्वा गौतमः पत्नीं हिमाद्रिं तपसे ययौ ॥ ९१ ॥

इत्थं विदितवृत्तान्ते देवतानां गणे तदा ।
पितॄणां प्राभवाल्लेभे मेषस्य वृषणं वृषा ॥ ९२ ॥

तदेनामेनसो मुक्तां प्रतिगृह्णातु गौतमः ।
इति तस्याश्रमं भेजे साकं रामेण कौशिकः ॥ ९३ ॥

दुःखे सुखे च रज एव बभूव हेतुः
तादृग्विधे महति गौतमधर्मपत्न्याः ।
यस्माद्गुणेन रजसा विकृतिं गता सा
रामस्य पादरजसा प्रकृतिं प्रपेदे ॥ ९४ ॥

तस्मिन्नहल्यया गौतमेन च कृतमातिथ्यं विश्वामित्रः सराजपुत्रः प्रतिगृह्य मिथिलोपकण्ठभुवि जनकयजनभवनमभजत ।

तदनु जनकेन विधिवदभ्यर्चिते तस्मिन्निमिकुलपुरोधाः शतानन्दो रघुनन्दनमेवमभाषत।

तिष्ठन्क्षत्रार्हवृत्तौ मुनिरगमदसावाश्रमं ब्रह्मसूनो-
रातिथ्यं तत्र लब्ध्वा निरवधि सुरभेः प्राभवादित्यवेत्य ।
सा तेन प्रार्थिताभूत्तदनु मुनिवरे नाभ्युपेते चकर्ष
क्रोशन्तीं तां तयैव प्रचुरबलजुषा कान्दिशीको बभूव ॥ ९५ ॥

बहुशस्तद्बलचकितस्य तपोबलाधिगतविविधायुधनिगमस्य भूयोऽपि सुरभिनिमित्तं समारब्धसमरस्य दिव्यास्त्रपरम्परां ब्रह्मदण्डेन निरुन्धन्नरुन्धतीजानिरवतस्थे।

ततोऽयं जातव्यलीकः क्षात्रतेजसः परं ब्राह्ममेव महो महीय इति निश्चित्य तत्सिद्धये दक्षिणस्यां दिशि तीव्रतरं तपश्चचार।

अथ सावित्रः क्षत्रियस्त्रिशङ्कुः सशरीरः स्वर्गसिद्धिमभ्यर्थयमानो वसिष्ठेन प्रत्याख्यातस्तस्य पुत्रैर्महोदयादिभिर्निर्बन्धकुपितै-र्दत्तचण्डालभावस्तमेनं शरणमभजत ।

असावपि तन्मनोरथपरिपूर्तये क्रतुमेकं प्राक्रमत।

तत्र समागतेषु ब्राह्मणेषु जुगुप्सया त्रिशङ्कोरनागतान्वसिष्ठपुत्रानयं शापेन श्वभक्षकानकरोत्।

ततः क्रतुभुजां वर्गेऽपि स्वर्गादनवतीर्णे।

अयं महात्मा तपसः प्रभावादारोपयामास दिवं त्रिशङ्कुम् ।
नीलाम्बरं निह्नतुराजवेषं वर्षानिशीथादविशेषवेषम् ॥ ९६ ॥

अपातयत्स्वर्गमुपाश्रयन्तं सञ्जातमन्युः शतमन्युरेनम् ।
ततोऽवलम्ब्यास्य नियोगशङ्कुं लेभे त्रिशङ्कुर्गगने प्रतिष्ठाम् ॥ ९७ ॥

ततो गीर्वाणगणप्रार्थनया परित्यक्तभुवनान्तरनिर्माणकर्माणं तत्र तपःप्रत्यूहः प्रत्युद्भूत इति पश्चिमायां दिशि पुष्करे पुष्कलं तपश्चरन्तममुमम्बरीषयज्ञपशुविनाशप्रायश्चित्तार्थं बह्वीभिर्गोभिः क्रीत्वा नरपशुतां नीयमानस्तावदृचीकस्य मध्यमपुत्रः शुनःशेपः शरणमयाचत।

अयं भगवान्निजतनयविनिमयेन रक्षितुमेनमुन्मुखः पराङ्मुखेभ्यस्तेभ्यो हविष्यन्दादिभ्यः शापेन वसिष्ठपुत्रदशां दत्त्वा गाथाद्वयप्रीताभ्यामिन्द्रोपेन्द्राभ्यामम्बरीषं शुनःशेपं च परिपूर्णमनोरथौ कारयामास।

ततस्तपस्यन्तमेनं मेनकासङ्गतस्तपोभङ्गश्चिरमङ्गीचकार।

पश्चात्पश्चात्तापाभिभूतोऽयमुत्तरे भूभृति कौशिकीतीरे घोरं तपश्चचार।

तत्र जम्भारिप्रहितां रम्भां शैली भवेति शप्त्वा पूर्वस्यां दिशि निरस्तनिःश्वासं तपश्चरत्यमुष्मिन्नूष्मणा तपोऽग्नेरुद्विग्नितामरसखस्तामरसासनः सन्निधाय जितेन्द्रियत्वाद्ब्रह्मर्षिरसि वसिष्ठोऽप्येवं व्याहरतु भवन्तमित्यभाषत।

असौ वसिष्ठनिर्देशाद्ब्रह्मर्षित्वमविन्दत।
यथोपनयसंस्काराद्द्विजन्मा ब्रह्मवर्चसम् ॥ ९८ ॥

इति जनकपुरोधःश्लाघितो गाधिसूनुः
सह नृपतनयाभ्यां शर्वरीं तत्र नीत्वा ।
विधिवददिशदर्घ्यं पुष्पदर्भाग्रगर्भं
सरसिजदयिताय ज्योतिषे छान्दसाय ॥ ९९ ॥

तदनु जनकराजधानीं रामलक्ष्मणनिरीक्षणकौतुकादनवरतपतितेन विकचकुवलयनिचयोपचीयमानमेचकमरीचिमलिम्लुचेन पौरनारीलोचनरोचिषा कवचितनरपतिपथां विश्वामित्रः प्रविश्य दशरथतनयाविदमभाषत ।

अस्यां खलु नगर्यामारब्धयज्ञस्य राज्ञो जनकस्य भागधेयात्सीतानामधेयभाजनमजीजनत्कन्यारत्नं रत्नगर्भा भगवती ।

अस्याः पुनः किमपरं माहात्म्यम् ।

देव्या यस्या वसनमुदधिः पीठिका हाटकाद्रि-
र्हारः सिन्धुः सगरतनयस्वर्गमार्गैकबन्धुः ।
क्रीडाशैलः प्रथमपुरुषक्रोडदंष्ट्रा च तस्याः
सीतामातुर्जगति मिथिलां सूतिकागेहमाहुः ॥ १०० ॥

तत्र सीताविवाहार्थममरैरपि दुष्करम् ।
जनकः कल्पयामास धनुरारोपणं पणम् ॥ १०१ ॥

ततो महर्षिर्जनकस्य राज्ञः
सभां सुधर्मासदृशीं प्रपेदे ।
तौ चापतुश्चापविलोकलोलौ
सचापकौ कोसलराजपुत्रौ ॥ १०२ ॥

तत्र विधिवदभ्यर्चितः कथितदशरथतनयवृत्तान्तः कौशिकः कौशिकप्रमुखैरमरैरस्मत्कुलमहत्तरे देवराते निक्षिप्तं विशेषतः सीताशुल्कार्थं मया रक्षितमिदमिति जनकेन प्रदर्शितस्य चापस्यारोपणाय राममादिदेश।

ततः।
रामे बाहुबलं विवृण्वति धनुर्वंशे गुणारोपणं
नाभूत्केवलमात्मना तिलकिते वंशेऽपि वैकर्तने ।
आकृष्टं नितरां तदेव न परं सीतामनोऽपि द्रुतं
भङ्गस्तस्य न केवलं क्षितिभुजां दोःस्तम्भदम्भस्य च ॥ १०३ ॥

रामाकर्षणभग्नकार्मुकभुवा ध्वानेन रोदोरुधा
दृप्तक्षत्रयशःसितच्छदकुले जीमूतनादायितम् ।
वीरश्रीप्रथमप्रवेशसमये पुण्याहघोषायितं
सीतायाः किल मानसे परिणये माङ्गल्यतूर्यायितम् ॥ १०४ ॥

नवः कठिनकर्षणत्रुटितचापजन्मा क्षणा-
द्दिशां द्विरदघीङ्कृतैः कृतहरित्पतिस्वागतः ।
जगद्भ्रमणकौतुकोच्चलितरामकीर्त्यङ्गना-
प्रयाणपटहध्वनिं प्रथयति स्म तारध्वनिः ॥ १०५ ॥

तत्र दशरथः सीतापरिणयकृतनिश्चयजनकप्रहितदूताहूतः पुरोहिताभ्युपगमान्मिथिलामुपागमत् ।

यत्कीर्तिस्तिलकायते सुरवधूसङ्गीतगोष्ठीमुखे
येनाद्यः पितृमान्पुमान्वसुमती येनैव राजन्वती ।
इन्द्रः सङ्गरसङ्कटेषु विजहौ वीरस्य यस्योन्मुख-
प्रेङ्खत्स्यन्दनकेतनाम्बरदशासन्दर्शनाद्दुर्दशाम् ॥१०६॥

जनकः स्वकनीयांसमाजुहाव कुशध्वजम् ।
हत्वा युधि सुधन्वानं साङ्काश्ये स्थापितं पुरे ॥१०७॥

तदनु ताभ्यामभ्यर्चितः सपुरोहितो दशरथस्तत्र पुत्राणां गोदानमङ्गलं निर्वर्तयामास।

जग्राह जनकात्सीतां तातादेशेन राघवः ।
आम्नायशासनेनार्चां यजमानादिवानलः ॥१०८॥

आश्चर्यमेतत्।
गुणमनिमिषचापे कञ्चिदारोप्य सीतां
कुशिकतनयवाक्यादग्रहीद्रामभद्रः ।
तदनु तदनुजन्मा मैथिलेन्द्रस्य चित्ते
निहितबहुगुणः सन्नूर्मिलां लक्ष्मणोऽपि ॥१०९॥

ततो भरतशत्रुघ्नौ कुशध्वजनियोगतः ।
माण्डवीश्रुतकीर्तिभ्यामभूतां गृहमेधिनौ ॥११०॥

अथ दशरथः स्वतनयैः सह कृतविवाहैर्विदेहेभ्यः प्रतिनिवर्तमानो संवर्तसमयसमुज्जृम्भितहुतवहदुःसहरोषं भीषणदुर्वारपराक्रमं क्षत्रवर्गगर्वसर्वंकषपरश्वधधाराधीनरुधिरधाराकल्पितपितृतर्पणं दर्पवतामग्रेसरमुग्रप्रतापिनं तपःसमुचितवल्कलवसानमपि वासनावशादनतिपरिमुषितयुद्धश्रद्धं मध्येमार्गं भार्गवं मुनिं राममद्राक्षीत्।

अप्राक्षीच्च तन्निरीक्षणादेव प्रक्षीणहर्षोऽपि महर्षिभिः सह विधाय सपर्यामार्यशील कुशलमिति।

अथ दशरथवाणीं तामशृण्वन्प्रसन्नां
भृगुपतिरिदमूचे प्रश्रितं रामभद्रम्।
अवजिगमिषुरासं जीर्णचापात्तकीर्ते-
रविदितपरशोस्ते दोर्मदं कार्मुकेऽस्मिन् ॥ १११ ॥

आदाय तत्सगुणमाशु विधाय तत्र
सन्धाय बाणमवधार्य तपोधनत्वम्।
तज्जीवितस्य दयमानमना मनीषी
सम्भूतघोरसमराद्विरराम रामः॥११२॥

तावुभौ च भृगुवंशसम्भवौ
चापदण्डजमदग्निसम्भवौ।
प्रह्वभावमवलम्ब्य केवलं
राघवार्पितगुणौ बभूवतुः॥११३॥

युगपत्प्राप्तगुणयोश्चापभार्गवरामयोः।
ऋजुता वक्रतां प्राप वक्रतापि तथार्जवम्॥११४॥

ततस्तत्क्षणममोघेन राघवः शरेण भार्गवस्य स्वर्गतिं रुरोध।

स्थाने हि तत् ।

नूनं जनेन पुरुषे महति प्रयुक्त-
मागः परं तदनुरूपफलं प्रसूते।
कृत्वा रघूद्वहगतेः क्षणमन्तरायं
यद्भार्गवः परगतेर्विहतिं प्रपेदे॥११५॥

अथ सङ्क्रान्तया जामदग्न्यशक्तिसम्पदा सम्पन्नं पन्नगपरिवृढभोग-भुजाभिरामं राममविरलमालिङ्ग्य मूर्ध्न्युपाघ्राय दशरथः परिखयेव परिसरे परिसरन्त्या सरयूसरितानुविद्धामयोध्यां दारकान्सदारान् सादरमवलोकयन्तीनां पौरपुरन्ध्रीणां नीरन्ध्रितगवाक्षैः कटाक्षैः सौन्दर्यवञ्चिततापिञ्छैः पिञ्छातपत्रायमाणधवलातपत्रः प्रविवेश।

लज्जावशादविशदस्मरविक्रियाभि-
स्ताभिर्वधूभिरतिवेलमवाप्तसौख्यान् ।
इक्ष्वाकुनाथतनयान्प्रथमो रसानां
तारुण्ययोगचतुरश्चतुरः सिषेवे ॥ ११६ ॥

विद्ययेव त्रयीदृष्ट्या दर्भपत्राग्रधीः सुधीः ।
राजपुत्र्या तया रामः प्रपेदे प्रीतिमुत्तमाम् ॥ ११७ ॥

इति विदर्भराजविरचिते चम्पूरामायणे बालकाण्डं समाप्तम्।