प्रमुखा विकल्पसूचिः उद्घाट्यताम्

भोजचम्पूरामायणम्

श्रीः

अथ सुन्दरकाण्डम्

ततो हनूमान्दशकण्ठनीतां सीतां विचेतुं पथि चारणानाम् । महेन्द्रशैलस्य खगेन्द्रवेगः प्रस्थादुदस्थात्प्रथमानवेगः ॥१॥

तदानीमुदन्वदुल्लङ्घनदृढतरनिहितचरणनिष्पीडनं सोढुमक्षमः क्ष्माभृदेष निःशेषनिःसरन्निर्झरौघतया निरन्तरनिष्पतद्वाष्पवर्ष इव, इतस्ततो विततजीमूतवृन्दतया पारिप्लवशिथिलधम्मिल्ल इव, संत्रस्यमानकुञ्जरयूथतया संजातश्वयथुरिव, साध्वसधावमानहरिणगणचरणखरतरखुर-कोटिपाटनोद्धूतधातुधूलीपालिपाटलितविकटकटकतया क्षरितशोणित इव, तत्क्षणप्रबुद्धकण्ठीरवमुखरितकन्दरतया कृताक्रन्द इव, परिसरगह्वरनिबि-रीसनिःसृतसरीसृपतया निर्गलितान्त्रमालइव, घूर्णमानतरुविटपकोटि-ताडितजलदवृन्दस्यन्दितसीकरनिकरकोरकिताकारतया समुपजातस्वेद इव, स्फटिकतटोपलपतनदलितकीचकसुषिरसंमूर्छत्पवनफूत्कारपरिपूरितगगनतया प्रवर्धमानोर्ध्वश्वास इव वचसामविषयं दौःस्थ्यमभजत ।

कृत्वा मारुतिलङ्घनोत्थितरयात्तत्रानुयात्रां ततः पर्यायात्पतिता महेन्द्रगहनक्षोणीरुहाणां ततिः । मध्येवारिनिधि प्रकाशितशिखा सेतोः कृते भाविनः सूत्रन्यासनिखातशङ्कुनिवहभ्रान्तिं पयोधौ दधौ ॥२॥

पक्षाभिघातरयरेचितवीचिमालात्- पाथोनिधेः पवननन्दनविश्रमाय । उत्तुङ्गशृङ्गकुलकीलितनाकलोको मैनाकभूभृदुदजृम्भत संभ्रमेण ॥३॥

तत्र यात्राप्रत्यूहः प्रत्युद्भूत इति वक्षसा तमधः पातयित्वा प्रयान्तमेनं सान्त्वयन्हिरण्यनाभो बभाषे ।

सागरेण कृतज्ञेन तवाध्वश्रान्तिशान्तये । मारुते प्रेरितोऽस्म्यद्य सौम्य विश्रम्य गम्यताम् ॥४॥

त्वत्पित्राहं परित्रातः पूर्वं पर्वतभेदिनः । तास्मान्नास्मि विपक्षोऽद्य सपक्ष इति मां भज ॥५॥

एवं प्रार्थयमानमेनं सम्मान्य कार्यगत्या गते सति हनूमति ॥

अवलोक्य हिरण्यनाभमब्धौ वलमानं बलमानमाथिवज्रः । शतमन्युरपेतमन्युरासीत् पवमानात्मजसेवनादमुष्मिन् ॥६॥

तदनु यथापुरं लङ्कापुरं प्रति प्रधावतो हनूमतः सरणिमरुणदरुणसारथेः पदवीं विन्ध्य इव वदनं व्यादाय द्विरसनजननी रंहसा सुरसा ।

उज्जृम्भितस्य तरसा सुरसां विजेतुं पादौ पयोधिकलितौ पवमानसूनोः । तस्योत्तमाङ्गमभवद् गगनस्रवन्तीवीचीचयस्खलितसीकरमालभारि ॥७॥

तनुं तनूकृत्य तदा हनूमान्कृत्वा प्रवेशं जठरे तदीये । ततो विनिष्क्रम्य स चक्रपाणेस्‍त्रिविक्रमस्य क्रममेव चक्रे ॥८॥

भूयोऽपि सोऽयं रघुनाथदूतश्चिच्छेद गच्छन्नखरैः खराग्रैः । नृसिंहरंहाः पथि सिंहिकाङ्गं छायानिरोधादुपपन्नमन्युः ॥९॥

तदनु पारावारस्य पारे लम्बशिखरिणि लम्बमानः प्रतनुतरवपुर्लङ्कापुरोत्तरगोपुरद्वारमासाद्य नितान्तचिन्तातन्तुसन्तानितान्तःकरणोऽभूत् ।

वानरसेना कथं तरेदिममन्तरायं वितन्वन्तमुदन्वन्तम् तरतु नाम कथमुपयातु यातुधानराजधानीमिमाम्, सर्वथा वितथमनोरथो दाशरथिः, मोघीकृतार्णवलङ्घनः केवलमहमभवम्, जीविता वा न वेति न जानामि जानकीति तत्र भगवतीं सीतामवजिगमिषुराञ्जनेयः प्रच्छन्नसञ्चारहेतोरस्तमयं गभस्तिमालिनः केवलमभिललाष ।

तदनु शातमखस्यागस्त्यसंनिधौ निक्षिप्तचापस्य प्रत्यासीदति प्रयोजनवेलेति प्रचेतसे कथयितुमिव प्रतीचीं दिशं प्रविशति भगवति भास्वति ।

गगनतलमिदमपरमहीधरकटककान्तारसमुद्भवदावपावकशिखाश्रेणिभिः किं शोणितम्, अथवा समीपसमापतत्पतङ्गरश्मिदृढतरवेष्टननिष्ठ्यूतानल-तटतपनोपलजालसमुल्लसज्ज्वालापटलैः किमापाटलितम्, आहोस्विदागताय मित्राय महार्घमर्घ्यं प्रदातुं प्रमुदितचेतसा प्रचेतसा तूर्णमर्णवोदरोद्गीर्यमाणमाणिक्यकिरणैः किमरुणितम्, आहोस्वित्तारापथतरङ्गिणीसलिलमपि रसयितुमुज्जृम्भितस्य चरमसागरौर्वाग्नेरर्चिःपुञ्जेन किमिह रञ्जितमिति सकलजनस्य संदेहसन्दोहं संदधाने संध्यारागे समुदञ्चिते, सरसीरुहश्रेणिषु पत्रपुटकपाटपिधानासु प्रतिकुमुदभवनं मकरन्दभिक्षामटत्सु मधुव्रतद्विजेषु,विकचकुवलयकलिकाकर्षणकषायेषु सायंतनवायुषु, तत इतः संचरत्सु तिमिरेषु, कालागरुधूमस्तोमश्यामलितेषु दिक्पालपुरगोपुरव्यूहेषु, प्रतिकमलाकरं प्रेङ्खिते विश्लेषवेदनापूर्वरङ्गे रथाङ्गविहङ्गदीनक्रेंकारे, नक्षत्रमालालङ्कृते गगनमतङ्गजे ।

आविर्बभूव पूर्वाद्रेः शृङ्गे शृङ्गारजीवितम्। तमस्तमालकान्तारकुठारः शशलाञ्छनः ॥१०॥

तत्करास्तमसा रुद्धा रेजिरे गगनाजिरे । शैवालचयसंच्छन्नाः सरसीव बिसाङ्कुराः ॥११॥

तस्मिन् प्रदोषसमये सहसा हनूमान् कीर्तिच्छटायवनिकामपनीय शत्रोः । आविर्बभूव सुमनःपरितोषणाय लङ्काप्रवेशनवनाटकसूत्रधारः ॥१२॥

तत्काले लङ्काधिदेवतामात्मना सह विग्रहं विधातुं गृहीतयुवतिविग्रहां मार्गप्रसारस्यार्गलीभूय भूयसा तर्जयन्तीं निर्जित्य तया वानररचितावज्ञोपज्ञं निजनिलयविलयं सरसिजासनशासनादावेदयन्त्या विहितानुमतिर्मारुतिर्लङ्कायामविकलमेव मैथिलीं विचिन्वन्नैर्ऋतचक्रवर्तिनः प्रासादमाससाद ।

तत्र - एषा राक्षससार्वभौमनगरी रक्षश्चमूरक्षिता तस्येदं सदनं सुवर्णशिखरं बिभ्राणमभ्रावलिम् । एतत्पुष्पकमाहृतं धनपतेरित्यादरान्मारुते-स्तत्रादर्शयदिन्दुदीपकिरणप्रद्योतिताशा निशा ॥१३॥

अपि च - आदित्यः कृतकृत्य एष भविता सीतापतेरीदृशं साहाय्यं विरचय्य कीर्तिमतुलामादित्सुना सूनुना । इत्यालोच्य तदा किल स्वयमपि ख्यातिं ग्रहीतुं परां लङ्कायां रघुनाथदूतसरणौ चन्द्रेण दीपायितम् ॥१४॥

एवमेव पर्यटन्नस्वप्नसुन्दरीसौन्दर्यमुद्रां निद्रयाप्यतिशय्य शय्यागृहे कृतसंवेशं वेशयुवतिपरिवृतमवरोधवधूजनमप्यनिरोधेन निरीक्ष्य तत्र वितथमनोरथो मारुतिर्विरचितबहु-विधचिन्ताप्रकारः प्राकारादवप्लुतः सन्नशोकवनिकायामपि मैथिलीमन्वेष्टुमिष्टदेवताप्रणतिमतनुत ।

असौ जनकनन्दिनीं तत इतो विचिन्वन्क्षणा- दशोकवनिकामगादपगतान्यमार्गभ्रमः । परामभिलषन्गतिं शमधनो यथा निर्मम- स्त्रयीमखिलकिल्बिषप्रशमनैकदिव्यौषधिम् ॥१५॥

ततस्तस्यां नागपुंनागतालहिन्तालतमालकृतमालसरलबकुलवञ्जुलतिलकामलक-कुटजलिकुचकतक-कक्कोलाङ्कोललवङ्गविकङ्कतकेतकीकदंबोदुम्बरकपित्थाश्वत्थ-कुरवकमरुवकमाकन्दकुन्दतिन्दुक-चन्दनस्यन्दनचम्पकचाम्पेयपनसवेतसपलाश-पाटलारसालप्रियालुप्रायैरनेकैरनोकहनिवहैः परिवृतायां परिभ्रमन्नभ्रङ्कषविकट-विटपनिबिडितगगनप्रपञ्चां काञ्चन काञ्चनमयीं शिंशपामारुरोह ।

तत्र तत्पत्रसंछन्नगात्रः पुत्रो नभस्वतः । न्यग्रोधदलसंलीनजनार्दनदशां दधौ ॥१६॥

पुनरयमेनामालोक्यैवं चिन्तां ततान ।

मल्लीं चूतवनादिव स्नुहिवने म्लेच्छेन संस्थपितां मालां देवकुलादिवामिषधिया क्षिप्तां श्मशाने शुना | देवीमाश्रमतस्तथा स्वभवनं नक्तंचरेण च्छला- दानीतामपनीतवेषरचनामालोकयन्मारुतिः ॥१७॥

ज्योत्स्नां विनापि निवसेन्निशि शीतभानु- श्छायां विनापि विलसेद्दिवसेश्वरोऽपि एनां विना रघुपतिः परिगृह्य धैर्यं सप्राण एव वसतीति विचित्रमेतत् ॥१८॥

एवं चिन्तयता हनूमता कथमपि निशीथसमये गते निशीथिनीनाथेऽपि चरमगिरिशिखरोपकण्ठ-सेवामुत्कण्ठमाने दशकण्ठस्तु निद्राशेषेण स्मरशरप्रहारेण च कलुषीकृताक्षः सरसहरिचन्दनचर्चया जानकीदर्शनेच्छया च प्रकटितरागः परिवर्तितवैकक्षकमालया मकुटरत्नप्रभया च तिरस्कृतनक्षत्रमालः शनैः शनैरविशदशोकवनिकाम् ।

रजनिचरमभागे वारसीमन्तिनीनां करतलकलिताभिर्दीपिकामार्जनीभिः । दिशि दिशि परिमृष्टं यत्तमस्तत्समस्तं हृदयमवजगाहे केवलं रावणस्य ॥१९॥

सोऽयं मदान्धहृदयो रघुवीरपत्नीं सीमन्तिनीति हतनीतिरवाप पापः । आमूलपल्लवितकोमलसल्लकीति वैतानपावकशिखामिव वारणेन्द्रः ॥२०॥

एतद्दर्शनेन वेपमानतनुलता मैथिली कापुरुषविषयपरुषवचनपारम्पर्येण विदीर्यमाणहृदया हृदयदयिताशयप्रत्ययादमुमेव तृणमन्तरतः कृत्वा स्थिता पर्यभाषत ।

अयि, सकलसमचारप्रतिष्ठानिष्ठः परमेष्ठी ननु कुलगुरुर्भवतः परकलत्ररतिरपत्रपां जनयति हि गोत्रजातानाम् ।

भूयोऽपि पञ्चवटीपरिसरममुं जनमनुकूलप्रभञ्जन इवानुकूलः कूलोपकण्ठं परिभ्रष्टां नावमिव यदि नयेथाः, तर्हि तवापि दयते नियतं मदीयो जीवितेशः साक्षाज्जीवितेशोऽपि त्वयि दयालुर्भवेत् ।

दाशरथेरजर्य्याया मैत्र्याः पात्रमपि भवितासि ।

किन्तु खरप्रमुखनिशाचरबलमथनसमयरुचिरलग्नसान्द्रवसापङ्किलमुखमार्यपुत्रस्य शिलीमुखं भवन्तमन्तरेण कः श्रद्दधीत निजहृदयगलितरुधिरधारया प्रक्षालयितुम् ।

अथवा जनस्थानसमरादारभ्य समराभावावग्रहतृषितानां, सौमित्रिपत्त्रिचातकानां शोणिताम्बुपारणाम् तवापनयश्चेत्कः समर्थो निवारयितुम् ।

अथ निशिचरनाथं पञ्चबाणीविभिन्नं न हि जनकसुतायाः प्रापदेकापि वाणी । जनमुपनतमृत्युं पञ्चववक्त्राहिदष्टं विशति हृतविशाधेरोषधेः किं नु शक्तिः ॥२१॥

एवं जनकदुहितुरवधीरणाफणितिमाकर्ण्य कोपपराङ्ग्मुखो दशमुखस्तामभितो निवसन्तीरारक्षिकराक्षसीरुद्दिश्य ‘भवत्यः चतुर्भिरप्युपायैरेनामवश्यं वश्यां कुरुध्वम्।इयमननुकूला चेदिमां हताशां प्रातरशनाय महानसं नयत ‘ इत्यादिश्य निशान्ते प्रत्यासन्ने निशान्तमेव प्रविवेश ।

तदनु क्षणदाचरीणां भीषणवीक्षणवाग्दोषोन्मेषेण मुकुलितहृदयपुण्डरीका पुण्डरीकयूथपरिवृत-सारङ्गाङ्गना-भङ्गीमङ्गीकुर्वाणा गीर्वाणतरुणीव शापबलाद्वसुधां प्रपन्ना जनकनन्दिनी चिन्तामेवमकरोत् ।

नूनं विदितवृत्तान्ते जटायुषि गतायुषि । मामिहस्थामार्यपुत्रः किं नाधिगतवान्प्रभुः ॥२२॥

आहोस्वित्क्रव्यादमायया विपर्यस्तप्रकृतेः काकुत्स्थस्य किम्वनास्था सञ्जायते ।

न केवलं मामहरद्दुरात्मा कृपां च रामस्य निसर्गसिद्धाम् । इदं न चेत्संश्रितवत्सलः किं भवेत्स तूष्णीं जगदेकवीरः ॥२३॥

इत्थं विलप्य रघुपुङ्गवमेव सन्ततं चिन्तयन्ती कृच्छ्रान्मूर्च्छामगमत् ।

निशाचरीस्तां निरवद्यशीलां निर्भर्त्सयन्तीर्निभृतं निवार्य । अस्वप्नलोकोत्सवमात्मदृष्टं दुःस्वप्नमेकं त्रिजटा जगाद ॥२४॥

किञ्च- उपघ्‍नवृक्षस्य परोक्षभावाद् उपेत्य पृथ्वीं सुचिरं लुठन्त्याः । नक्तंचरस्‍त्रीमुखकर्शितायाः सीतालतायास्‍त्रिजटा जटाभूत् ॥२५॥

तदनन्तरमात्मत्यागाय स्पृहयन्त्यां मैथिल्यां मारुतिरियमनुपेक्षणीया तपस्विनी नीतिममुञ्चतीति चिन्तां परिगृह्य नेदीयानस्या बभूव ।

ततः देव्या दशाननवचोमयवज्रदीर्ण- कर्णान्तरव्रणविरोपणभेषजानि । विस्रम्भणार्थमयमन्वयसंगतानि रामाभिकीर्तनमधूनि शनैर्न्यषिञ्चत् ॥२६॥

तदनन्तरं समन्तात्प्रसारितनयना जनकतनया तस्यां शाखायां शाखामृगमुद्वीक्ष्य दुःस्वप्नबुद्ध्या चकितहृदया सलक्ष्मणाय रामाय भर्त्रे भद्रमाशंसमाना जनमिमं दुरापस्वापं स्वप्नः कथमाप्नुयादिति विचिन्त्य मायया समायातनैर्ऋतपतिबुद्ध्या तस्मान्मारुतपुत्रात्तत्रास ।

सोऽपि समवतीर्य वचनवैचित्र्याज्जनकपुत्रीं प्रत्याययितुमाञ्जनेयः कृताञ्जलिर्व्यजिज्ञपत् ।

कल्याणि त्वद्वियोगेन तीव्रवेगेन ताम्यतः । राघवेन्द्रस्य दूतं मामन्यथा मा स्म मन्यथाः ॥२७॥

त्वया सह प्रस्थितचित्तवृत्ति- र्विभावरीकोकसमानधर्मा । वचोऽब्रवीन्मैथिलि मन्मुखेन त्वां कौशलं कोसलराजपुत्रः ॥२८॥

अपि च । शिरसा तव सौमित्रिरकरोदभिवादनम् । अपृच्छत्सोऽपि भद्रं त्वामधिपश्च वनौकसाम् ॥२९॥

एवमभिहितया तया सम्भूतविस्रम्भतया भयादपेतया तावदनुयुक्तः पवनतनयो वालिमरणकारणं सुग्रीवस्य सख्यमाख्याय प्राचेतसचेत इव सन्ततसन्निहितरामनाममङ्गलमङ्गुलीयकमस्यै प्रायच्छत् ।

सौख्यावहस्य पवनात्मजनीयमान- रामाङ्गुलीयकविलोकनवासरस्य । सत्यं कलां शततमीं भुवि नैव भेजे पाणिग्रहोत्सवदिनं जनकात्मजायाः ॥३०॥

ततस्तं जानकी निःसीमहर्षा बभाषे ।

महाभाग ! सर्वथास्य दुरात्मनः प्रत्यासीदति मृत्युरेवमनलाभिधानया विभीषणदुहित्रा स्वमात्रा प्रेषितया भाषितम् । अयमप्यनार्यशीलस्तुरीयमुपायमन्तरेण न मामार्यपुत्रस्य समर्पयिष्यति। नियतमहमपि मासादूर्ध्वं न शक्नुयां प्राणान्कृपणान्धारयितुमिति ।

एतदाकर्ण्य मारुतिर्महानुभावे ! मा भैषीः। भवतीं वहन्नेव तूर्णमुल्लङ्घितसागरो रघुवरचरणसरसिजसमीपमुपयास्यामि । मामसमर्थं न समर्थयेथा इत्यभिहितवान् ।

किञ्च । महामहीध्रसध्रीचीं सोऽयं वृद्धिमुपेयिवान् । यया नूनमपां राशिः कुल्यातुल्यां दशां दधौ ॥३१॥

अथ तमुवाच सा जनकराजसुता मुदिता किमु तव दुष्करं चरणलङ्घितवारिनिधेः। अपि तु मया सह प्लवगपुङ्गव यास्यसिचे- न्नियतमपायिनी परिणमेद्भवतः पदवी ॥३२॥

अन्यच्च पातिव्रत्यहुताशनेन यदि तं कुर्यामहं भस्मसा- त्सत्यं दाशरथेः शरस्य न भवेदात्मोचिता पारणा। किं चैतस्य यशोनिशापतिरपि प्रम्लानकान्तिर्भवेत् भ्रातः शासितरावणे रघुपतौ यात्रा मम श्रेयसी ॥३३॥

एवं व्याहृतः पवनसुतो विनीतां सीतां पुनराबभाषे ।

मायामृगेण तव मैथिलि वञ्चितायाः शाखामृगेण पुनरागतिरित्ययुक्तम् एषा कथापि भुवने वितता यदि स्या- त्का नाम रामधनुषः प्रथिता प्रशस्तिः ॥३४॥

किं बहुना । इत्येतदेव चिन्तितम् । यदर्हं राघवगृहिण्यास्तदेव निश्चितम् । यत्सदृशमीदृशस्य समाचारस्य तदेव प्रकाशितम् । यदनुगुणं रावणापराधप्रतिक्रियायास्तदेवानुमोदितम् । यदनुकूलं कुलवधूशीलस्य तदेव कथितम् । यदुचितं क्षत्रियाणीवाणीप्रक्रमस्य तदेवोपक्रान्तमिति बहुशः प्रशस्य सर्वथा रामलक्ष्मणौ लङ्कामिमां प्राप्ताविति जानकि, जानीहि । अनुजानीहीमं जनं प्रस्थातुम् ।

काकुत्स्थेन विदितपूर्वमभिज्ञानं किमपि दीयतामिति ।

सा तु दीर्घं निश्वस्य निश्चित्य पुरा खलु चित्रकूटतटवने तरुणतरतरुरमणीयतया मन्दीभवन्नन्दनवैभवे रघुनन्दनेनोपधानीकृताङ्काया मम पयोधरपरिसरे खरतरनखराग्रविरचितविदारणं धाराधरनामानं काकं रघुपतिर्व्यलोकयत् ।

कुशरूपकुशेशयासनास्‍त्रं विजहौ वासविवायसे स वीरः । अथ तत्कृपया हृताक्षिमात्र- श्चिरजीवी स दधौ यथार्थसंज्ञाम् ॥३५॥

सैषा परिचितकथास्मरणाद्विगुणितदुर्दशा केशपिनद्धमपरमिदमभिज्ञानमुन्मुच्य

चूडामणिं कपिवरस्य ददौ दशास्य- संत्रासपुञ्जितरुषाग्निदशं कृशाङ्गी । आदाय तम्प्रणतिपूर्वमसौ प्रतस्थे माणिक्यगर्भवदनोरगतुल्यबाहुः ॥३६॥

ततः कृतकृत्य एव निर्गत्य निजागमनं निशाचरपतेः प्रकाशयितुम् अशोकवनिकां बभञ्ज प्रभञ्जनात्मजः ।

स्वकृत्यैः शाखानामवनतिमतीव प्रकटय- न्नमार्गेण भ्राम्यन्परिकलितभङ्गः सुमनसाम् । द्विजानां संत्रासं श्रुतिमधुरवाचां विरचय- न्नयं लङकोद्याने दशवदनलीलामतनुत ॥३७॥

तदनु सरभसमारक्षिकरक्षोगणनिवेदित-प्रमदावन-कदन-कुपित-दशवदन-प्रेषितान्पितृपतिकिङ्करभयङ्करान्किङ्करान्प्रहस्तपुत्रेण जम्बुमालिना सह निहत्य चैत्यतोरणमुपगतवति हनूमति ।

पुनरपि निशमितामितनिशिचरगणमारणो रावणः सचिवान्पञ्च पञ्चाननपराक्रमान्प्रहसन-प्रमुखान्वलीमुखं जीवग्राहं गृह्णीध्वमिति प्राहिणोत् ।

तत्र तानपि तोरणपरिघेण पञ्च पञ्चतां नीत्वा मुहुर्मुहुर्दाशरथिदूतोऽहमित्यात्मानमुद्घोषयन्तं हनूमन्तं नियन्तुं नियन्ता निखिलरक्षसामध्यक्षमक्षकुमारमध्यक्षिपत् ।

वक्षःसंघट्टचूर्णीकृतकनकमहाभित्तिचैत्योत्थधूल्या नक्षत्राणामकाले सरणिमरुणयन्वीरलक्ष्म्या समेतः । रक्षःशूराख्यशारां क्षितितलफलके क्षेपणीयां हनूमान् अक्षक्रीडां विधातुं दशमुखनगरीचत्वरे तत्वरेऽसौ ॥३८॥

तत्क्षणं क्षणदाचराणां मिषतामेव निष्पादित-रङ्ग-निष्पेष-कृत्यश्चैत्य-प्रासादमुत्पाटित-स्तम्भ-जात-जातवेदसा दग्ध्वा भूयोप्युपाश्रिततोरणः समीरणसुतो बभूव । एनमपि वृत्तान्तं श्रुत्वा कुपितस्य निशाचरपतेर्युगपदेव निपेतुः पुत्रे सुत्रामजिति समितिहेतोर्विंशतिदृष्टयः ।

अनिमिषभुवने वा व्योम्नि वा भूतले वा समरमुपगतं त्वां वीक्षितुं कः समर्थः । इति नुतिवचनेन श्लाघयन्मेघनादं प्लवगमिह नयेति प्राहिणोद्राक्षसेन्द्रः ॥३९॥

नेतुं शोकरसं निशाचरपतेर्हन्तुं चमूं रक्षसां तस्यान्तःपुरयोषितां रचयितुं मानं विना रोदनम् । सूर्याचन्द्रमसोः प्रवेशविकलां लङ्कापुरीमग्निना शुद्धां कर्तुममुष्य वासवजिता जातो रणस्तोरणे ॥४०॥

संग्रामदुर्दिने तस्मिञ्जहर्ष शरवर्षिणि । बर्हीव मेघनादेन मेघनादेन मारुतिः ॥ ४१ ॥

तदनु यातुधानबलप्रधाननिधनक्रुद्धो विविधायुधवैतथ्यं विमृश्य विजयश्रीसंगतगन्धं गन्धवहनन्दनं सतानन्दास्त्रेण बबन्ध दशकन्धरात्मजः ।

तेन दिव्यास्‍त्रेण विवशशरीरमेनं पिशिताशनाः शणवल्कलैर्बबन्धुः ।

स मारुतेर्नैऋतपाशजन्मा बन्धोऽभवद्बन्धविमोक्षहेतुः । पुरा पुलस्त्यान्वयपांसनेन बन्दीकृतानां सुरसुन्दरीणाम् ॥४२॥

तदनन्तरमितरहननासहतया निह्रुतस्य दिव्यास्त्रस्य प्रभावं विभावयन्विभावरीचरपतितनूजः पवनतनयं निजपितृसमीपमुपनिनाय ।

सोऽयं ददर्श दशकन्धरमन्धकारि- लीलाद्रितोलनपरीक्षितबाहुवीर्यम् । बन्दीकृतेन्द्रपुरवारवधूकराग्र- व्याधूतचामरमरुच्चलितोत्तरीयम् ॥४३॥

आपाटलाधरपुटान्तविराजमान- दंष्ट्रामहःप्रसरशारशारीरकान्तिम् । संध्याम्बुदान्तरितमध्यसुधामयूख – रेखाभिराममिव वासवनीलशैलम् ॥४४॥

संग्रामकेलिपरिघट्टनभग्‍नमग्‍न– दिग्दन्तिदन्तकृतमुद्रभुजान्तरालम् । छायात्मना प्रतितरङ्गविराजमान- शीतांशुमण्डलसनाथमिवाम्बुराशिम् ॥४५॥

निश्रेयसप्रणयिनीं पदवीं निरोद्धुं त्रैलोक्यपापपरिपाकमिवात्तरूपम् । सूर्येन्दुपावकमहांसि तपोबलेन जित्वा यथेच्छमभिषिक्तमिवान्धकारम् ॥४६॥

सोऽपि प्लवङ्गमभिवीक्ष्य समीरपुत्रं चित्रीयमाणहृदयः पिशिताशनेन्द्रः । कैलासशैलचलनागसि शापदायी नन्दीश्वरः स्वयमुपागत इत्यमंस्त ॥४७॥

ततः प्रहस्तेन विहितविविधानुयोगः प्रत्यभाषत रावणं मारुतिः ।

अयमहमर्हपतिकुलतिलकस्य सत्यसंधस्य पितृनियोगसमुपगतवनवासनिरतस्य शूर्पकारातिबाधितशूर्पणखाप्राप्तवैरूप्यकुप्यत्खरप्रमुखनिशिचरबलपलालजालकल्पान्तानलकल्प-शिलीमुखस्य कपटहरिण-हनन-समयपरिमुषित-दारान्वेषण-संजातसुग्रीवसख्यस्य समुत्खात-वालिकण्टकस्य दुर्वृत्तक्षत्रवंशवनपवनसारथेस्तपोनिधेर्जामदग्न्यस्य भुजबलावलेपलोपहेतोः श्रीमतो दाशरथेर्दूतोऽहं सीतामार्गमार्गणाय दिशि दिशि तपनतनयप्रेषितानां वानराणामेकतमः समुद्रलङ्घनजङ्घालस्तव नगरप्रमदवनसीमनि रघुवरधर्मदारान्प्रणम्य प्रतिष्ठासुर्मदीयमागमनं प्रकाशयितुं प्रमथिताशोकवनिकानोकहनिवहस्त्वद्दर्शनकुतूहलेन केवलमनुभूतनैर्ऋतलूतातन्तुसंनहनस्तव परिसरमुपासरम् ।

आनाकलोकपरिकीर्तितसच्चरित्र- मत्रोपरुद्ध्य रघुवंशपतेः कलत्रम् । वैतानवेदिजनितं पवमानबन्धुं वस्त्रेण बन्द्धुमविनीत कथं यतेथाः ॥४८॥

किञ्च - प्रेङ्खन्ती पिशिताशया रणमुखे सौमित्रिपत्रिक्षतं त्वद्गात्रं परितः पतत्रिपरिषच्छत्रच्छविं मा गमत् । द्राक्पौलस्त्य पुलस्त्यवंशविलये संभाविते त्वत्कृते कान्तानां नयनान्तवान्तसलिलं मा भून्निवापोदकम् ॥४९॥

बद्धादरोऽपि परदारपरिग्रहे त्व- मिक्ष्वाकुनायककलत्रमनार्य मा गाः । वाताशनोऽहमिति किं विनतासुतस्य श्वासानिलाय भुजगः स्पृहयालुतालुः ॥५०॥

बाहुचन्दननिषङ्गकोटरा- दुद्धृतो रघुपतेः शरोरगः । प्राणवायुमविनीत तावकं कालयापनमपास्य पास्यति ॥५१॥

किं बहुना - मायामृगे समरनाटकसूत्रधारे शाखामृगे च भवतः प्रतिकूलवाले । दृष्टोद्यमस्य रघुनायकसायकस्य मुक्त्वा प्रणामकवचं कवचं किमन्यत् ॥५२॥

एवं निशम्य कुपितः पिशिताशनेन्द्रः प्राणानमुष्य हरतेति भटानवादीत् । आजन्मशुद्धमतिरत्र विभीषणस्तं दूतो न वध्य इति शास्त्रगिरा रुरोध ॥५३॥

रावणोऽपि विभीषणभाषणमङ्गीकृत्य ‘प्लवङ्गानामङ्गेषु लाङ्गूलमेव वरम् । तदेव कार्पासवाससा संवीतं वह्निसात्कृत्य चत्वरे चत्वरे दोषानुद्घोष्य सप्रहारं नगरं परितः संचारयत’ इति राक्षसानादिदेश ।

तेषु तथा कुर्वाणेषु । निर्णयाविषयमस्य वालतः कर्णिकारनिकुरुम्बकर्बुरः । निर्निमेषगणभाग्यसंचया - दुन्मिमेष भगवानुषर्बुधः ॥५४॥

एतद्वृत्तान्तमारक्षिकराक्षसीगणगर्वोदीर्णवर्णितम् आकर्ण्य दूयमानमानसा जानकी हुताशनमुपस्थाय ‘शीतो भव हनूमतः’ इति प्राञ्जलिः प्रार्थयत |

घोरस्य राघवकलत्रतपोमयाग्ने- र्मा भूवमिन्धनमहं क्षणमित्यवेत्य । शैत्यं वितत्य दहनः पवमानसूनो- र्वालाग्रसीम्नि मणिदीप इवावतस्थे ॥५५॥

तदनु पवनतनयोऽपि ‘पुरमिदं न खलु सुव्यक्तं नक्तमालोकयम् । तस्मादनलसाक्षिकमेव पुरमखिलमालोकयामि’ इति यामिनीचरगणं परिचिततोरणपरिघेण जघान ।

सीताभिधानकमलां प्रभवे प्रदातुं लङ्कार्णवं क्षुभितसैन्यतरङ्गभीमम् । वेधा ममन्थ किल रज्जुभुजङ्गराज- भोगावृतेन पवनात्मजमन्दरेण ॥५६॥

अथ दह्यमानायां लङ्कायाम् ।

रक्षःस्त्रीवदनारविन्दरजनीं विश्वंभराबर्हिणी- वर्षारम्भदशां दशाननयशः कादंबकादंबिनीम् । वैधव्योचितवेषनिश्चितमनोलङ्कावधूटीजटां वैदेह्यास्त्रिजटासमां समकिरद्धूम्यां हनूमान्दिवि ॥५७॥

अपि च- एतद्विक्रमवीक्षणेन जनितामानन्दबाष्पोद्गतिं रक्षोनाथभयात्पिधातुमनसां विद्याधराणाम् मुदा* । व्याजव्याहृतये यथा परिणमेतद्धूम्या तथोज्जृम्भते स्वर्लोकेऽपि कलिन्दशैलतनयाकल्लोलशङ्कावहा ॥५८॥ तदा* - इति पाठभेदः

आदौ नीलांशुकश्रीस्तदनु मरकताबद्धनीवीविभूतिः कस्तूरीपङ्कभङ्गी क्षणमपि विकचेन्दीवरस्रक्सपत्नी । पश्चात्स्निग्धाञ्जनाभा जघनकुचकटीकण्ठनेत्रेषु जाता दिक्कान्तानां तदानीं दशमुखनगरीदाहसंभूतधूम्या ॥ ५९ ॥

हा तात हा जननि हा सुत हा सहाय हा पौत्र हा प्रियसखि क्व नु हा हतोस्मि । इत्यादि पौरपरिदेवनभारवाग्भि - रापूरि रावणपुरी शिखिना परीता ॥६०॥

यैर्वृन्दारकसुन्दरीजनमुखे नीराजनं निर्मितं निर्मेघे गगनेऽपि यैर्विरचिता सौदामिनीसंहतिः । ते द्वित्राण्यपि वासराणि न गता निर्वाणमौर्वानल - ज्वालाडम्बरमम्बुधौ विदधिरे वालानलोद्यत्कणाः ॥ ६१ ॥

आदीप्यमानपवनात्मजवालसङ्गा - दङ्गारशेषविभवामवलोक्य लङ्काम् । व्योम्नि स्थिता निशिचराः स्वगृहाणि नूनं निर्वापयन्त इव नेत्रभवैः पयोभिः ॥ ६२ ॥

चक्रे शक्रजिदाज्ञया रणमुखे यत्कर्म रक्षोगण- स्तत्कर्तुं क्षणदाचरक्षितिभुजा युक्तोऽप्यशक्तो भवेत् । सप्तार्चिश्च हनूमता परिचितो लङ्कामधाक्षीद्यथा तत्पित्रा मरुता युतोऽपि न तथा दाहक्रियायां पटुः ॥ ६३ ॥

तस्मिन्हनूमदरणिप्रभवे हुताशे शुद्धिं विधाय पतिमेव समेतुमैच्छत् । लङ्केश्वरेण रणकेलिकुतूहलेन बाहोर्बलादपहृता सुरराजलक्ष्मीः ॥ ६४ ॥

वाचामिदानीं किमु विस्तरेण लङ्कापुरीं रावणबाहुगुप्ताम् । काकुत्स्थदूतोऽयमुपेत्य चक्रे कृतान्तदूतस्य सुखप्रवेशाम् ॥६५॥

पौलस्त्यपातकिसमागमजायमान - मेनः पुनान इव वानरयायजूकः । निर्वर्तिताक्षविजयो निजवालवह्नौ हुत्वा पलाशसमिधः सुगतिर्बभूव ॥ ६६ ॥

लङ्कादाहेऽप्यनार्तां रघुपतिदयितां चारणोक्त्या विदित्वा सानन्दस्तां प्रणम्य प्रतिगमनविधौ प्राप्य तस्या नियोगम् । आरुह्यारिष्टशैलं निधिमपि पयसां स्वैरमुत्तीर्य वेगा - च्चक्रे गत्वा महेन्द्रं प्लवगकुलपतीन्पूर्णकामान्हनूमान् ॥ ६७ ॥

अथ यथार्हं सैन्याधिपान्संमान्य मारुतिस्तैरनुयुक्तः स्ववृत्तान्तमखिलमाख्यातवान् ।

तदनु पवनतनयवचनमुदिता वानरवरूथिनी यूथनाथानुयाता तद्दर्शनजनितमानन्दं दाशरथौ सुग्रीवे च संविभज्येव विवक्षितुमहमहमिकया धावन्ती मध्येसरणिदधिमुखकृतावनं मधुवनं हनूमदनुमत्याभिभूय मधुपानसुखमनुबभूव ।

अथाब्रवीद्गिरिवरतुङ्गमङ्गदं कृताञ्जलिर्दधिमुख एष रोषवान् । बलीमुखान्मधुभजने शिलीमुखा - न्भवानिमान्झटिति निवारयेदिति ॥ ६८ ॥