चरकसंहिता
कल्पस्थानम्
चरकः

प्रथमोऽध्यायः
अथातो मदनकल्पं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
अथ खलु वमनविरेचनार्थं वमनविरेचनद्रव्याणां सुखोपभोगतमैः सहान्यैर्द्रव्यैर्विविधैः कल्पनार्थंभेदार्थं विभागार्थं चेत्यर्थः तद्योगानां च क्रियाविधेः सुखोपायस्य सम्यगुपकल्पनार्थं कल्पस्थानमुपदेक्ष्यामोऽग्निवेश ३
तत्र दोषहरणमूर्ध्वभागं वमनसंज्ञकम् अधोभागं विरेचनसंज्ञकम् उभयं वा शरीरमलविरेचनाद्विरेचनसंज्ञां लभते ४
तत्रोष्णतीक्ष्णसूक्ष्मव्यवायिविकाशीन्यौषधानि स्ववीर्येण हृदयमुपेत्य धमनीरनुसृत्य स्थूलाणुस्रोतोभ्यः केवलं शरीरगतं दोषसंघातमाग्नेयत्वाद् विष्यन्दयन्ति तैक्ष्ण्याद् विच्छिन्दन्ति स विच्छिन्नः परिप्लवन् स्नेहभाविते काये स्नेहाक्तभाजनस्थमिव क्षौद्रमसज्जन्नणुप्रवणभावादामाशयमागम्योदानप्रणुन्नो ऽग्निवाय्वात्मकत्वादूर्ध्वभागप्रभावादौषधस्योर्ध्वमुत्क्षिप्यते सलिलपृथिव्यात्मकत्वादधोभागप्रभावाच्चौषधस्याधः प्रवर्तते उभयतश्चोभयगुणत्वात् । इति लक्षणोद्देशः ५
तत्र फलजीमूतकेक्ष्वाकुधामार्गवकुटजकृतवेधनानां श्यामात्रिवृच्चतुरङ्गुलतिल्वकमहावृक्षसप्तलाशङ्खिनीदन्तीद्रवन्तीनां च नानाविधदेशकालसंभवास्वादरसवीर्यविपाकप्रभावग्रहणाद्देहदोषप्रकृतिवयोब-लाग्निभक्तिसात्म्यरोगावस्थादीनां नानाप्रभाववत्त्वाच्च विचित्रगन्धवर्णरसस्पर्शानामुपयोगसुखार्थमसंख्येयसंयोगानामपि च सतां द्रव्याणां विकल्पमार्गोपदर्शनार्थं षड्विरेचनयोगशतानि व्याख्यास्यामः ६
तानि तु द्रव्याणि देशकालगुणभाजनसंपद्वीर्यबलाधानात् क्रियासमर्थतमानि भवन्ति ७
त्रिविधः खलु देशआङ्गलः आनूपः साधारणश्चेति । तत्र जाङ्गलः पर्याकाशभूयिष्ठः तरुभिरपि च कदरखदिरासनाश्वकर्णधवतिनिशशल्लकीशालसोमवल्कबदरीतिन्दुकाश्वत्थवटाम-लकीवनगहनः अनेकशमीककुभशिंशपाप्रायः स्थिरशुष्कपवनबलविधूयमानप्रनृत्यत्तरुणविटपः प्रततमृगतृष्णिकोपगूढतनुखरपरुषसिकताशर्कराबहुलः लावतित्तिरिचकोरानुचरितभूमिभागः वातपित्तबहुलः स्थिरकठिनमनुष्यप्रायो ज्ञेयः अथानूपो हिन्तालतमालनारिकेलकदलीवनगहनः सरित्समुद्रपर्यन्तप्रायः शिशिरपवनबहुलः वञ्जुलवानीरोपशोभिततीराभिः सरिद्भिरुपगतभूमिभागः क्षितिधरनिकुञ्जोपशोभितः भन्दपवनानुवीजितक्षितिरुहगहनः अनेकवनराजीपुष्पितवनगहनभूमिभागः स्निग्धतरुप्रतानोपगूढः हंसचक्रवाकबलाकानन्दीमुखपुण्डरीककादम्बमद्गुभृङ्गराजशतपत्रमत्तकोकिलानुनादित-तरुविटपः सुकुमारपुरुषः पवनकफप्रायो ज्ञेयः अनयोरेव द्वयोर्देशयोर्वीरुद्वनस्पतिवानस्पत्यशकुनिमृगगणयुतः स्थिरसुकुमारबलवर्णसंहननोपपन्नसाधारणगुणयुक्तपुरुषः साधारणो ज्ञेयः ८
तत्र देशे साधारणे जाङ्गले वा यथाबलं शिशिरातपपवनसलिलसेविते समं शुचौ प्रदक्षिणोदके श्मशानचैत्यदेवयजनागारसभाश्वभ्रारामवल्मीकोषरविरहिते कुशरोहिषास्तीर्णे स्निग्धकृष्णमधुरमृत्तिके वा मृदावफालकृष्टेऽनुपहतेऽन्यैर्बलवत्तरैर्द्रुमैरौषधानि जातानि प्रशस्यन्ते ९
तत्र यानि कालजातान्युपागतसंपूर्णप्रमाणरसवीर्यगन्धानि कालातपाग्निसलिलपवन-जन्तुभिरनुपहतगन्धवर्णरसस्पर्शप्रभावाणि प्रत्यग्राण्युदीच्यां दिशि स्थितानि तेषां शाखापलाशमचिरप्ररूढं वर्षावसन्तयोर्ग्राह्यं ग्रीष्मे मूलानि शिशिरे वा शीर्णप्ररूढपर्णानां शरदि त्वक्कन्दक्षीराणि हेमन्ते साराणि यथर्तु पुष्पफलमीति मङ्गलाचारः कल्याणवृत्तः शुचिः शुक्लवासाः संपूज्य देवता अश्विनौ गोब्राह्मणांश्च कृतोपवासः प्राङ्मुख उदङ्मुखो वा गृह्णीयात् १०
गृहीत्वा चानुरूपगुणवद्भाजनस्थान्यागारेषु प्रागुदग्द्वारेषु निवातप्रवातैकदेशेषु नित्यपुष्पोपहारबलिकर्मवत्सु अग्निसलिलोपस्वेदधूमरजोमूषकचतुष्पदामनभिगमनीयानि स्ववच्छन्नानि शिक्येष्वासज्य स्थापयेत् ११
तानि च यथादोषं प्रयुञ्जीत सुरासौवीरकतुषोदकमैरेयमेदकधान्याम्लफलाम्लदध्यम्लादिभिर्वाते मृद्वीकामलकमधुमधुकपरूषकफाणितक्षीरादिभिः पित्ते श्लेष्मणि तु मधुमूत्रकषायादिभिर्भावितान्यालोडितानि च इत्युद्देशः । तं विस्तरेण द्रव्यदेहदोषसात्म्यादीनि प्रविभज्य व्याख्यास्यामः १२
वमनद्रव्याणां मदनफलानि श्रेष्ठतमान्याचक्षते अनपायित्वात् । तानि वसन्तग्रीष्मयोरन्तरे पुष्याश्वयुग्भ्यां मृगशिरसा वा गृह्णीयान्मैत्रे मुहूर्ते । यानि पक्वान्यकाणान्यहरितानि पाण्डून्यक्रिमीण्यपूतीन्यजन्तुजग्धान्यह्रस्वानि तानि प्रमृज्य कुशपुटे बद्ध्वा गोमयेनालिप्य यवतुषमाषशालिकुलत्थमुद्गपलानामन्यतमे निदध्यादष्टरात्रम् । अत ऊर्ध्वं मृदूभूतानि मध्विष्टगन्धान्युद्धृत्य शोषयेत् । सुशुष्काणां फलपिप्पलीरुद्धरेत् । तासां घृतदधिमधुपललविमृदितानां पुनः शुष्काणां नवं कलशं सुप्रमृष्टवालुकमरजस्कमाकण्ठं पूरयित्वा स्ववच्छन्नं स्वनुगुप्तं शिक्येष्वासज्य सम्यक् स्थापयेत् १३
अथ च्छर्दनीयमातुरं द्व्यहं त्र्यहं वा स्नेहस्वेदोपपन्नं श्वश्छर्दयितव्यमिति ग्राम्यानूपौदकमांसरसक्षीरदधिमाषतिलशाकादिभिः समुत्क्लेशितश्लेष्माणं व्युषितं जीर्णहारं पूर्वाह्णे कृतबलिहोममङ्गलप्रायश्चित्तं निरन्नमनतिस्निग्धं यवाग्वा घृतमात्रां पीतवन्तं तासां फलपिप्पलीनामन्तर्नखमुष्टिं यावद्वा साधु मन्येत जर्जरीकृत्य यष्टिमधुकषायेण कोविदारकर्बुदारनीपविदुलबिम्बीशणपुष्पीसदापुष्पीप्रत्यकपुष्पीकषायाणामामन्यतमेन वा रात्रिमुषितं विमृद्य पूतं मधुसैन्धवयुक्तं सुखोष्णं कृत्वा पूर्णं शरावं मन्त्रेणानेनाभिमन्त्रयेत् ब्रह्मदक्षाश्विरुद्रेन्द्रभूचन्द्रार्कानिलानलाः ऋषयः सौषधिग्रामा भूतसङ्खाश्च पान्तु ते रसायनमिवर्षीणां देवानाममृतं यथा सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते इत्येवमभिमन्त्र्योदङ्मुखं वाऽऽतुरं पाययेच्छ्लेष्मज्वरगुल्मप्रतिश्यायार्तं विशेषेण पुनः पुनरापित्तागमनात् तेन साधु वमति हीनवेगं तु पिप्पल्यामलकसर्षपवचाकल्कलवणोष्णोदकैः पुनः पुनः प्रवर्तयेदापित्तदर्शनात् । इत्येष सर्वश्छर्दनयोगविधिः १४
सर्वेषु तु मधुसैन्धवं कफविलयनच्छेदार्थं वमनेषु विदध्यात् । न चोष्णविरोधो मधुनश्छर्दनयोगयुक्तस्य अविपक्वप्रत्यागमनाद्दोषनिर्हरणाच्च १५
फलपिप्पलीनां द्वौ द्वौ भागौ कोविदारादिकषायेण त्रिःसप्तकृत्वःस्रावयेत्तेन रसेन तृतीयं भागं पिष्ट्वा मात्रां हरीतकीभिर्बिभीतकैरामलकैर्वा तुल्यां वर्तयेत् तासामेकां द्वे वा पूर्वोक्तानां कषायाणामन्यतमस्याञ्जलिमात्रेण विमृद्य बलवच्छ्लेष्मप्रसेकग्रन्थिज्वरोदरारुचिषु पाययेदिति समानं पूर्वेण १६
फलपिप्पलीक्षीरं तेन वा क्षीरयवागूमधोभागे रक्तपित्ते हृद्दाहे च तज्जस्य वा दध्न उत्तरकं कफच्छर्दितमकप्रसेकेषु तस्य वा पयसः शीतस्य सन्तानिकाञ्जलिं पित्ते प्रकुपिते उरःकण्ठहृदये च तनुकफोपदिग्धे इति समानं पूर्वेण १७
फलपिप्पलीशृतक्षीरान्नवनीतमुत्पन्नं फलादिकल्ककषायसिद्धं कफाभिभूताग्निं विशुष्कदेहं च मात्रया पाययेदिति समानं पूर्वेण १८
फलपिप्पलीनां फलादिकषायेण त्रिःसप्तकृत्वः सुपरिभावितेन पुष्परजःप्रकाशेन चूर्णेन सरसि संजातं बृहत्सरोरुहं सायाह्नेऽवचूर्णयेत् तद्रात्रिव्युषितं प्रभाते पुनरवचूर्णितमुद्धृत्य हरिद्राकृशरक्षीरयवागूनामन्यतमं सैन्धवगुडफाणितयुक्तमाकण्ठं पीतवन्तमाघ्रापयेत्सुकुमारमुत्क्लिष्टपित्तकफमौषधद्वेषिणमिति समानं पूर्वेण १९
फलपिप्पलीनां भल्लातकविधिपरिस्रुतं स्वरसं पक्त्वा फाणितीभूतमातन्तुलीभावाल्लेहयेत् आतपशुष्कं वा चूर्णीकृतं जीमूतकादिकषायेण पित्ते कफस्थानगते पाययेदिति समानं पूर्वेण २०
फलपिप्पलीचूर्णानि पूर्ववत् फलादीनां षण्णामन्यतमकषायस्रुतानि वर्तिक्रियाः फलादिकषायोपसर्जनाः पेया इति समानं पूर्वेण २१
फलपिप्पलीनामारग्वधवृक्षकस्वादुकण्टकपाठापाटलाशाङ्गेष्टामूर्वासप्तपर्णनक्तमाल-पिचुमर्दपटोलसुषवीगुडूचीसोमवल्कद्वीपिकानां पिप्पलीपिप्पलीमूलहस्तिपिप्पलीचित्रकशृङ्गवेराणां चान्यतमकषायेण सिद्धो लेह इति समानं पूर्वेण २२
फलपिप्पलीष्वेलाहरेणुकाशतपुष्पाकुस्तुम्बुरुतगरकुष्ठत्वक्चोरकमरुबकागुरुगुग्गुल्वेल-वालुकश्रीवेष्टकपरिपेलवमांसीशैलेयकस्थौणेयकसरलपरावतपद्यशोकरोहिणानां विंशतेरन्यतमस्य कषायेण साधितोत्कारिका उत्कारिकाककल्पेन मोदका वा मोदककल्पेन यथादोषरोगभक्ति प्रयोज्या इति समानंपूर्वेण २३
फलपिप्पलीस्वरसकषायपरिभावितानि तिलशालितण्डुलपिष्टानि तत्कषायोपसर्जनानि शष्कुलीकल्पेन वा शष्कुल्यः पूपकल्पेन वा पूपाः इति समानं पूर्वेण २४
एतेनैव च कल्पेन सुमुखसुरसकुठेरककाण्डीरकालमालकपर्णासकक्षवकफणिज्झकगृञ्जनकासमर्दभृ-ङ्गराजानां पोटक्षुवालिकाकालङ्कतकदण्डैरकाणां चान्यतमस्य कषायेण कारयेत् २५
तथा बदरषाडवरागलेहमोदकोत्कारिकातर्पणपानकमांसरसयूषमद्यानां मदनफलान्यन्यतमेनोपसृज्य यथादोषरोगभक्ति दद्यात् तैः साधु वमतीति २६
मदनः करहाटश्च राठः पिण्डीतकः फलम् । श्वसनश्चेति पर्यायैरुच्यते तस्य कल्पना २७
तत्र श्लोकाः--
नव योगाः कषायेषु मात्रास्वष्टौ पयोघृते
पञ्च फाणितचूर्णे द्वौ घ्रेये वर्तिक्रियासु षट् २८
विंशतिविंशतिर्लेहमोदकोत्कारिकासु च
शष्कुलीपूपयोश्चोक्ता योगाः षोडश षोडश २९
दशान्ये षाडवाद्येषु त्रयस्त्रिंशदिदं शतम्
योगानां विधिवद्दिष्टं फलकल्पे महर्षिणा ३०
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते कल्पस्थाने
मदनकल्पो नाम प्रथमोऽध्यायः १

द्वितीयोऽध्यायः
अथातो जीमूतककल्पं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
कल्पं जीमूतकस्येमं फलपुष्पाश्रयं शृणु
गरागरी च वेणी च तथा स्याद्देवताडकः ३
जीमूतकं त्रिदोषघ्नं यथास्वौषधकल्पितम्
प्रयोक्तव्यं ज्वरश्वासहिक्काद्येष्वामयेषु च ४
यथोक्तगुणयुक्तानां देशजानां यथाविधि
पयः पुष्पेऽस्य निर्वृत्ते फले पेया पयस्कृता ५
लोमशे क्षीरसंतानं दध्युत्तरमलोमशे
शृते पयसि दध्यम्लं जातं हरितपाण्डुके ६
जीर्णानां च सुशुष्काणां न्यस्तानां भाजने शुचौ
चूर्णस्य पयसा शुक्तिं वातपित्तार्दितः पिबेत् ७
आसुत्य च सुरामण्डे मृदित्वा प्रस्रुतं पिबेत्
कफजेऽरोचके कासे पाण्डुरोगे सयक्ष्मणि ८
द्वे चापोथ्याथवा त्रीणि गुडूच्या मधुकस्य वा
कोविदारादिकानां वा निम्बस्य कुटजस्य वा ९
कषायेष्वासुतं पूत्वा तेनैव विधिना पिबेत्
अथवाऽऽरग्वधादीनां सप्तानां पूर्ववत् पिबेत् १०
एकैकस्य कषायेण पित्तश्लेष्मज्वरार्दितः
मात्राः स्युः फलवच्चाष्टौ कोलमात्रास्तु ता मताः ११
जीवकर्षभकेक्षूणां शतावर्या रसेन वा
पित्तश्लेष्मज्वरे दद्याद्वातपित्तज्वरेऽथवा १२
तथा जीमूतकक्षीरात् समुत्पन्नं पचेद्धृतम्
फलादीनां कषायेण श्रेष्ठं तद्वमनं मतम् १३
तत्र श्लोकौ--
षट् क्षीरे मदिरामण्डे एको द्वादश चापरे
सप्त चारग्वधादीनां कषायेऽष्टौ च वर्तिषु १४
जीवकादिषु चत्वारो घृतं चैकं प्रकीर्तितम्
कल्पे जीमूतकानां च योगास्त्रिंशन्नवाधिकाः १५
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते कल्पस्थाने
जीमूतककल्पो नाम द्वितीयोऽध्यायः २

तृतीयोऽध्यायः
अथात इक्ष्वाकुकल्पं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
सिद्धं वक्ष्याम्यथेक्ष्वाकुकल्पं येषां प्रशस्यते
लम्बाऽथ कटुकालाबूस्तुम्बी पिण्डफला तथा ३
इक्ष्वाकुः फलिनी चैव प्रोच्यते तस्य कल्पना
कासश्वासविषच्छर्दिज्वरार्ते कफकर्शिते ४
प्रताम्यति नरे चैव वमनार्थं तदिष्यते
अपुष्पस्य प्रवालानां मुष्टिं प्रादेशसंमितम् ५
क्षीरप्रस्थे शृतं दद्यात् पित्तोद्रिक्ते कफज्वरे
पुष्पादिषु च चत्वारः क्षीरे जीमूतके यथा ६
योगा हरितपाण्डूनां सुरामण्डेन पञ्चमः
फलस्वरसभागं च त्रिगुणक्षीरसाधितम् ७
उरः स्थिते कफे दद्यात् स्वरभेदे च पीनसे
जीर्णे मध्योद्धृते क्षीरं प्रक्षिपेत्तद्यदा दधि ८
जातं स्यात् सकफे कासे श्वासे वम्यां च तत् पिबेत्
अजाक्षीरेण बीजानि भावयेत् पाययेत्तथा ९
विषगुल्मोदरग्रन्थिगण्डेषु श्लीपदेषु च
मस्तुना वा फलान्मध्यं पाण्डुकुष्ठविषार्दितः १०
तेन तक्रं विपक्वं वा सक्षौद्रलवणं पिबेत्
तुम्ब्या फलरसैः शुष्कैः सपुष्पैरवचूर्णितम् ११
छर्दयेन्माल्यमाघ्राय गन्धसंपत्सुखोचितः
भक्षयेत् फलमध्यं वा गुडेन पललेन च १२
इक्ष्वाकुफलतैलं वा सिद्धं वा पूर्ववद्घृतम्
पञ्चाशद्दशवृद्धानि फलादीनां यथोत्तरम् १३
पिबेद्विमृद्य बीजानि कषायेष्वासुतं पृथक्
यष्ट्याह्वकोविदाराद्यैर्मुष्टिमन्तर्नखं पिबेत् १४
कषायैः कोविदाराद्यैर्मात्राश्च फलवत् स्मृताः
बिल्वमूलकषायेण तुम्बीबीजाञ्जलिं पचेत् १५
पूतस्यास्य त्रयो भागाश्चतुर्थः फाणितस्य तु
सघृतो बीजभागश्च पिष्टानर्धांशिकांस्तथा १६
महाजालिनिजीमूतकृतवेधनवत्सकान्
तं लेहं साधयेद्दर्व्या घट्टयन्मृदुनाऽग्निना १७
यावत् स्यात्तन्तुमत्तोये पतितं तु न शीर्यते
तं लिहन्मात्रया लेहं प्रमथ्यां च पिबेदनु १८
कल्प एषोऽग्निमन्थादौ चतुष्के पृथगुच्यते
सक्तुभिर्वा पिबेन्मन्थं तुम्बीस्वरसभावितैः १९
कफजेऽथ ज्वरे कासे कण्ठरोगेष्वरोचके
गुल्मे मेहे प्रसेके च कल्कं मांसरसैः पिबेत्
नरः साधु वमत्येवं न च दौर्बल्यमश्नुते २०
तत्र श्लोकाः--
पयस्यष्टौ सुरामण्डमस्तुतक्रेषु च त्रयः
घ्रेयं सपललं तैलं वर्धमानाः फलेषु षट् २१
घृतमेकं कषायेषु नवान्ये मधुकादिषु
अष्टौ वर्तिक्रिया लेहाः पञ्च मन्थो रसस्तथा २२
योगा इक्ष्वाकुकल्पे ते चत्वारिंशच्च पञ्च च
उक्ता महर्षिणा सम्यक् प्रजानां हितकाम्यया २३
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते कल्पस्थाने
इक्ष्वाकुकल्पो नाम तृतीयोऽध्यायः ३

चतुर्थोऽध्यायः
अथातो धामार्गवकल्पं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
कर्कोटकी कोठफला महाजालिनिरेव च
धामार्गवस्य पर्याया राजकोशातकी तथा ३
गरे गुल्मोदरे कासे वाते श्लेष्माशयस्थिते
कफे च कण्ठवक्त्रस्थे कफसंचयजेषु च ४
रोगेष्वेषु प्रयोज्यं स्यात् स्थिराश्च गुरवश्च ये
फलं पुष्पं प्रवालं च विधिना तस्य संहरेत् ५
प्रवालस्वरसं शुष्कं कृत्वा च गुलिकाः पृथक्
कोविदारादिभिः पेयाः कषायैर्मधुकस्य च ६
पुष्पादिषु पयोयोगाश्चत्वारः पञ्चमी सुरा
पूर्ववत् जीर्णशुष्काणामतः कल्पः प्रवक्ष्यते ७
मधुकस्य कषायेण बीजकण्ठोद्धृतं फलम्
सगुडं व्युषितं रात्रिं कोविदारादिभिस्तथा ८
दद्याद्गुल्मोदरार्तेभ्यो ये चाप्यन्ये कफामयाः
दद्यादन्नेन संयुक्तं छर्दिहृद्रोगशान्तये ९
चूर्णैर्वाऽप्युत्पलादीनि भावितानि प्रभूतशः
रसक्षीरयवाग्वादितृप्तो घ्रात्वा वमेत् सुखम् १०
चूर्णीकृतस्य वर्ति वा कृत्वा बदरसंमिताम्
विनीयाञ्जलिमात्रे तु पिबेद्गोऽश्वशकृद्रसे ११
पृषतर्ष्यकुरङ्गाह्वगजोष्ट्राश्वतराविके
श्वदंष्ट्रखरखङ्गानां चैवं पेया शकृद्रसे १२
जीवकर्षभकौ वीरामात्मगुप्तां शतावरीम्
काकोलीं श्रावणीं मेदां महामेदां मधूलिकाम् १३
एकैकशोऽभिसंचूर्ण्य सह धामार्गवेण ते
शर्करामधुसंयुक्ता लेहा हृद्दाहकासिनाम् १४
सुखोदकानुपानाः स्युः पित्तोष्मसहिते कफे
धान्यतुम्बुरुयूषेण कल्कः सर्वविषापहः १५
जात्याः सौमनसायिन्या रजन्याश्चोरकस्य च
वृश्चीरस्य महाक्षुद्रसहाहैमवतस्य च १६
बिम्ब्याः पुनर्नवाया वा कासमर्दस्य वा पृथक्
एकं धामार्गवं द्वे वा कषाये परिमृद्य तु १७
पूतं मनोविकारेषु पिबेद्वमनमुत्तमम्
तच्छृतक्षीरजं सर्पिः साधितं वा फलादिभिः १८
तत्र श्लोकौ--
पल्लवे नव चत्वारः क्षीर एकः सुरासवे
कषाये विंशतिः कल्के दश द्वौ च शकृद्रसे १९
अन्न एकस्तथा घ्रेये दश लेहास्तथा घृतम्
कल्पे धामार्गवस्योक्ताः षष्टिर्योगा महर्षिणा २०
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते कल्पस्थाने
धामार्गवकल्पो नाम चतुर्थोऽध्यायः ४

पञ्चमोऽध्यायः
अथातो वत्सककल्पं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
अथ वत्सकनामानि भेदं स्त्रीपुंसयोस्तथा
कल्पं चास्य प्रवक्ष्यामि विस्तरेण यथातथम् ३
वत्सकः कुटजः शक्रो वृक्षको गिरिमल्लिका
बीजानीन्द्रयवास्तस्य तथोच्यन्ते कलिङ्गकाः ४
बृहत्फलः श्वेतपुष्पः स्निग्धपत्रः पुमान् भवेत्
श्यामा चारुणपुष्पा स्त्री फलवृन्तैस्तथाऽणुभिः ५
रक्तपित्तकफघ्नस्तु सुकुमारेष्वनत्ययः
हृद्रोगज्वरवातासृग्वीसर्पादिषु शस्यते ६
काले फलानि संगृह्य तयोः शुष्काणि निक्षिपेत्
तेषामन्तर्नखं मुष्टिं जर्जरीकृत्य भावयेत् ७
मधुकस्य कषायेण कोविदारादिभिस्तथा
निशि स्थितं विमृद्यैतल्लवणक्षौद्रसंयुतम् ८
पिबेत्तद्वमनं श्रेष्ठं पित्तश्लेष्मनिबर्हणम्
अष्टाहं पयसाऽऽर्केण तेषां चूर्णानि भावयेत् ९
जीवकस्य कषायेण ततः पाणितलं पिबेत्
फलजीमूतकेक्ष्वाकुजीवन्तीनां पृथक् तथा १०
सर्षपाणां मधूकानां लवणस्याथवाऽम्बुना
कृशरेणाथवा युक्तं विदध्याद्वमनं भिषक् ११
तत्र श्लोकः--
कषायैर्नव चूर्णैश्च पञ्चोक्ताः सलिलैस्त्रयः
एकश्च कृशरायां स्याद्योगास्तेऽष्टादश स्मृताः १२
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते कल्पस्थाने
वत्सककल्पो नाम पञ्चमोऽध्यायः ५

षष्ठोऽध्यायः
अथातः कृतवेधनकल्पं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
कृतवेधननामानि कल्पं चास्य निबोधत
क्ष्वेडः कोशातकी चोक्तं मृदङ्गफलमेव च ३
अत्यर्थकटुतीक्ष्णोष्णं गाढेष्विष्टं गदेषु च
कुष्ठपाण्ड्वामयप्लीहशोफगुल्मगरादिषु ४
क्षीरादि कुसुमादीनां सुरा चैतेषु पूर्ववत्
सुशुष्काणां तु जीर्णानामेकं द्वे वा यथाबलम् ५
कषायैर्मधुकादीनां नवभिः फलवत् पिबेत्
क्वाथयित्वा फलं तस्य पूत्वा लेहं निधापयेत् ६
कृतवेधनकल्कांशं फलाद्यर्धांशसंयुतम्
पृथक् चारग्वधादीनां त्रयोदशभिरासुतम् ७
शाल्मलीमूलचूर्णानां पिच्छाभिर्दशभिस्तथा
वर्तिक्रियाः षट्फलवत् फलादीनां घृतं तथा ८
कोशातकानि पञ्चाशत् कोविदाररसे पचेत्
तं कषायं फलादीनां कल्कैर्लेहं पुनः पचेत् ९
क्ष्वेडस्य तत्र भागः स्याच्छेषाण्यर्धांशिकानि तु
कषायैः कोविदाराद्यैरेवं तत् कल्पयेत् पृथक् १०
कषायेषु फलादीनामानूपं पिशितं पृथक्
कोशातक्या समं पक्त्वा रसं सलवणं पिबेत् ११
फलादिपिप्पलीतुल्यं तद्वत् क्ष्वेडरसं पिबेत्
क्ष्वेडं कासी पिबेत् सिद्धं मिश्रमिक्षुरसेन च १२
तत्र श्लोकौ--
क्षीरे द्वौ द्वौ सुरा चैका क्वाथा द्वाविंशतिस्तथा
दश पिच्छा घृतं चैकं षट् च वर्तिक्रियाः शुभाः १३
लेहेऽष्टौ सप्त मांसे च योग इक्षुरसेऽपरः
कृतवेधनकल्पेऽस्मिन् षष्टिर्योगाः प्रकीर्तिताः १४
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते कल्पस्थाने
कृतवेधनकल्पो नाम षष्ठोऽध्यायः ६

सप्तमोऽध्यायः
अथातः श्यामात्रिवृत्कल्पं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
विरेचने त्रिवृन्मूलं श्रेष्ठमाहुर्मनीषिणः
तस्याः संज्ञा गुणाः कर्म भेदः कल्पश्च वक्ष्यते ३
त्रिभण्डी त्रिवृता चैव श्यामा कूटरणा तथा
सर्वानुभूतिः सुवहा शब्दाः पर्यायवाचकाः ४
कषाया मधुरा रूक्षा विपाके कटुका च सा
कफपित्तप्रशमनी रौक्ष्याच्चानिलकोपनी ५
सेदानीमौषधैर्युक्ता वातपित्तकफापहैः
कल्पवैशेष्यमासाद्य सर्वरोगहरा भवेत् ६
मूलं तु द्विविधं तस्याः श्यामं चारुणमेव च
तयोर्मुख्यतरं विद्धि मूलं यदरुणप्रभम् ७
सुकुमारे शिशौ वृद्धे मृदुकोष्ठे च तच्छुभम्
मोहयेदाशुकारित्वाच्छ्यामा क्षिण्वीत मूर्च्छयेत् ८
तैक्ष्ण्यात् कर्षति हृत्कण्ठमाशु दोषं हरत्यपि
शस्यते बहुदोषाणां क्रूरकोष्ठाश्च ये नराः ९
गुणवत्यां तयोर्भूमौ जातं मूलं समुद्धरेत्
उपोष्य प्रयतः शुक्ले शुक्लवासाः समाहितः १०
गम्भीरानुगतं श्लक्ष्णमतिर्यग्विसृतं च यत्
तद्विपाट्योद्धरेद्गर्भं त्वचं शुष्कां निधापयेत् ११
स्निग्धस्विन्नो विरेच्यस्तु पेयामात्रोषितः सुखम्
अक्षमात्रं तयोः पिण्डं विनीयाम्लेन ना पिबेत् १२
गोऽव्यजामहिषीमूत्रसौवीरकतुषोदकैः
प्रसन्नया त्रिफलया शृतया च पृथक् पिबेत् १३
एकैकं सैन्धवादीनां द्वादशानां सनागरम्
त्रिवृद्द्विगुणसंयुक्तं चूर्णमुष्णाम्बुना पिबेत् १४
पिप्पली पिप्पलीमूलं मरिचं गजपिप्पली
सरलः किलिमं हिङ्गु भार्गी तेजोवती तथा १५
मुस्तं हैमवती पथ्या चित्रको रजनी वचा
स्वर्णक्षीर्यजमोदा च शृङ्गवेरं च तैः पृथक् १६
एकैकार्धांशसंयुक्तं पिबेद्गोमूत्रसंयुतम्
मधुकार्धांशसंयुक्तं शर्कराम्बुयुतं पिबेत् १७
जीवकर्षभकौ मेदां श्रावणीं कर्कटाह्वयाम्
मुद्गमाषाख्यपर्ण्यौ च महतीं श्रावणीं तथा १८
काकोलीं क्षीरकाकोलीमिन्द्रां छिन्नरुहां तथा
क्षीरशुक्लां पयस्यां च यष्ट्याह्वं विधिना पिबेत् १९
वातपित्तहितान्येतान्यन्यानि तु कफानिले
क्षीरमांसेक्षुकाश्मर्यद्राक्षापीलुरसैः पृथक् २०
सर्पिषा वा तयोश्चूर्णमभयार्धांशिकं पिबेत्
लिह्याद्वा मधुसर्पिर्भ्यां संयुक्तं ससितोपलम् २१
अजगन्धा तुगाक्षीरी विदारी शर्करा त्रिवृत्
चूर्णितं क्षौद्रसर्पिर्भ्यां लीढ्वा साधु विरिच्यते २२
सन्निपातज्वरस्तम्भदाहतृष्णार्दितो नरः
श्यामात्रिवृत्कषायेण कल्केन च सशर्करम् २३
साधयेद्विधिवल्लेहं लिह्यात् पाणितलं ततः
सक्षौद्रां शर्करां पक्त्वा कुर्यान्मृद्भाजने नवे २४
क्षिपेच्छीते त्रिवृच्चूर्णं त्वक्पत्रमरिचैः सह
मात्रया लेहयेदेतदीश्वराणां विरेचनम् २५
कुडवांशान् रसानिक्षुद्राक्षापीलुपरूषकात्
सितोपलापलं क्षौद्रात् कुडवार्धं च साधयेत् २६
तं लेहं योजयेच्छीतं त्रिवृच्चूर्णेन शास्त्रवित्
एतदुत्सन्नपित्तानामीश्वराणां विरेचनम् २७
शर्करामोदकान् वर्गीर्गुलिकामांसपूपकान्
अनेन विधिना कुर्यात् पैत्तिकानां विरेचनम् २८
पिप्पलीं नागरं क्षारं श्यामां त्रिवृतया सह
लेहयेन्मधुना सार्धं श्लेष्मलानां विरेचनम् २९
मातुलुङ्गाभयाधात्रीश्रीपर्णीकोलदाडिमात्
सुभृष्टान् स्वरसांस्तैले साधयेत्तत्र चावपेत् ३०
सहकारात् कपित्थाच्च मध्यमम्लं च यत् फलम्
पूर्ववद्बहलीभूते त्रिवृच्चूर्णं समावपेत् ३१
त्वक्पत्रकेशरैलानां चूर्णं मधु च मात्रया
लेहोऽयं कफपूर्णानामीश्वराणां विरेचनम् ३२
पानकानि रसान् यूषान्मोदकान् रागषाडवान्
अनेन विधिना कुर्याद्विरेकार्थं कफाधिके ३३
भृङ्गैलाभ्यां समा नीली तैस्त्रिवृत्तैश्च शर्करा
चूर्णं फलरसक्षौद्रसक्तुभिस्तर्पणं पिबेत् ३४
वातपित्तकफोत्थेषु रोगेष्वल्पानलेषु च
नरेषु सुकुमारेषु निरपायं विरेचनम् ३५
शर्करात्रिफलाश्यामात्रिवृत्पिप्पलिमाक्षिकैः
मोदकः सन्निपातोर्ध्वरक्तपित्तज्वरापहः ३६
त्रिवृच्छाणा मतास्तिस्रस्तिस्रश्च त्रिफलात्वचः
विडङ्गपिप्पलीक्षारशाणास्तिस्रश्च चूर्णिताः ३७
लिह्यात् सर्पिर्मधुभ्यां च मोदकं वा गुडेन तु
भक्षयेन्निष्परीहारमेतच्छोधनमुत्तमम् ३८
गुल्मं प्लीहोदरं श्वासं हलीमकमरोचकम्
कफवातकृतांश्चान्यान् व्याधीनेतद्व्यपोहति ३९
विडङ्गपिप्पलीमूलत्रिफलाधान्यचित्रकान्
मरिचेन्द्रयवाजाजीपिप्पलीहस्तिपिप्पलीः ४०
लवणान्यजमोदां च चूर्णितं कार्षिकं पृथक्
तिलतैलत्रिवृच्चूर्णभागौ चाष्टपलोन्मितौ ४१
धात्रीफलरसप्रस्थांस्त्रीन् गुडार्धतुलां तथा
पक्त्वा मृद्वग्निना खादेद्बदरोदुम्बरोपमान् ४२
गुडान् कृत्वा न चात्र स्याद्विहाराहारयन्त्रणा
मन्दाग्नित्वं ज्वरं मूर्च्छां मूत्रकृच्छ्रमरोचकम् ४३
अस्वप्नं गात्रशूलं च कासं श्वासं भ्रमं क्षयम्
कुष्ठार्शःकामलामेहगुल्मोदरभगन्दरान् ४४
ग्रहणीपाण्डुरोगांश्च हन्युः पुंसवनाश्च ते
कल्याणका इति ख्याताः सर्वेष्वृतुषु यौगिकाः ४५
इति कल्याणकगुडः
व्योषत्वक्पत्रमुस्तैलाविडङ्गामलकाभयाः
समभागा भिषग्दद्याद्द्विगुणं च मुकूलकम् ४६
त्रिवृतोऽष्टगुणं भागं शर्करायाश्च षड्गुणम्
चूर्णितं गुडिकाः कृत्वा क्षौद्रेण पलसंमिताः ४७
भक्षयेत् कल्यमुत्थाय शीतं चानु पिबेज्जलम्
मूत्रकृच्छ्रे ज्वरे वम्यां कासे श्वासे भ्रमे क्षये ४८
तापे पाण्ड्वामयेऽल्पेऽग्नौ शस्ता निर्यन्त्रणाशिनः
योगः सर्वविषाणां च मतः श्रेष्ठो विरेचने ४९
मूत्रजानां च रोगाणां विधिज्ञेनावचारितः
पथ्याधात्र्युरुबूकाणां प्रसृतौ द्वौ त्रिवृत्पलम् ५०
दश तान्मोदकान् कुर्यादीश्वराणां विरेचनम्
त्रिवृद्धैमवती श्यामा नीलिनी हस्तिपिप्पली ५१
समूला पिप्पली मुस्तमजमोदा दुरालभा
कार्षिकं नागरपलं गुडस्य पलविंशतिम् ५२
चूर्णितं मोदकान् कुर्यादुदुम्बरफलोपमान्
हिङ्गुसौवर्चव्योषयवानीबिडजीरकैः ५३
वचाजगन्धात्रिफलाचव्यचित्रकधान्यकैः
मोदकान् वेष्टयेच्चूर्णैस्तान् सतुम्बुरुदाडिमैः ५४
त्रिकवङ्क्षणहृद्बस्तिकोष्ठार्शःप्लीहशूलिनाम्
हिक्काकासारुचिश्वासकफोदावर्तिनां शुभाः ५५
त्रिवृतां कौटजं बीजं पिप्पलीं विश्वभेषजम्
क्षौद्रद्राक्षारसोपेतं वर्षास्वेतद्विरेचनम् ५६
त्रिवृद्दुरालभामुस्तशर्करोदीच्यचन्दनम्
द्राक्षाम्बुना सयष्ट्याह्वसातलं जलदात्यये ५७
त्रिवृतां चित्रकं पाठामजाजीं सरलं वचाम्
स्वर्णक्षीरीं च हेमन्ते पिष्ट्वा तूष्णाम्बुना पिबेत् ५८
शर्करा त्रिवृता तुल्या ग्रीष्मकाले विरेचनम्
त्रिवृत्त्रायन्तिहपुषाः सातलां कटुरोहिणीम् ५९
स्वर्णक्षीरीं च संचूर्ण्य गोमूत्रे भावयेत्त्र्यहम्
एष सर्वर्तुको योगः स्निग्धानां मलदोपहृत् ६०
त्रिवृच्छ्यामा दुरालम्भा वत्सकं हस्तिपिप्पली
नीलिनी त्रिफला मुस्तं कटुका च सुचूर्णितम् ६१
सर्पिर्मांसरसोष्णाम्बुयुक्तं पाणितलं ततः
पिबेत् सुखतमं ह्येतद्रक्षाणामपि शस्यते ६२
त्र्यूषणं त्रिफला हिङ्गु कार्षिकं त्रिवृतापलम्
सौवर्चलार्धकर्षं च पलार्धं चाम्लवेतसात् ६३
तच्चूर्णं शर्करातुल्यं मद्येनाम्लेन वा पिबेत्
गुल्मपार्श्वार्तिनुत्सिद्धं जीर्णे चाद्याद्रसौदनम् ६४
त्रिवृतां त्रिफलां दन्तीं सप्तलां व्योषसैन्धवम्
कृत्वा चूर्णं तु सप्ताहं भाव्यमामलकीरसे ६५
तद्योज्यं तर्पणे यूषे पिशिते रागयुक्तिषु
तुल्याम्लं त्रिवृताकल्कसिद्धं गुल्महरं घृतम् ६६
श्यामात्रिवृतयोर्मूलं पचेदामलकैः सह
जले तेन कषायेण पक्त्वा सर्पिः पिबेन्नरः ६७
श्यामात्रिवृत्कषायेण सिद्धं सर्पिः पिबेत्तथा
साधितं वा पयस्ताभ्यां सुखं तेन विरिच्यते ६८
त्रिवृन्मुष्टींस्तु सनखानष्टौ द्रोणेऽम्भसः पचेत्
पादशेषं कषायं तं पूतं गुडतुलायुतम् ६९
स्निग्धे स्थाप्यं घटे क्षौद्रपिप्पलीफलचित्रकैः
प्रलिप्ते विधिना मासं जातं तन्मात्रया पिबेत् ७०
ग्रहणीपाण्डुरोगघ्नं गुल्मश्वयथुनाशनम्
सुरां वा त्रिवृतायोगकिण्वां तत्क्वाथसंयुताम् ७१
यवैः श्यामात्रिवृत्क्वाथस्विन्नैः कुल्माषमम्भसा
आसुतं षडहं पल्ले जातं सौवीरकं पिबेत् ७२
भृष्टान् वा सतुषान् क्षुण्णान् यवांस्तच्चूर्णसंयुतान्
आसुतानम्भसा तद्वत् पिबेज्जातं तुषोदकम् ७३
तथा मदनकल्पोक्तान् षाडवादीन् पृथग्दश
त्रिवृच्चूर्णेन संयोज्य विरेकार्थं प्रयोजयेत् ७४
भवतश्चात्र--
त्वक्केशराम्रातकदाडिमैलासितोपलामाक्षिकमातुलुङ्गैः
मद्यैस्तथाऽम्लैश्च मनोनुकूलैर्युक्तानि देयानि विरेचनानि ७५
शीताम्बुना पीतवतश्च तस्य सिञ्चेन्मुखं छर्दिविघातहेतोः
हृद्यांश्च मृत्पुष्पफलप्रवालानम्लं च दद्यादुपजिघ्रणार्थम् ७६
तत्र श्लोकाः--
एकोऽम्लादिभिरष्टौ च दश द्वौ सैन्धवादिभिः
मूत्रेऽष्टादश यष्ट्यां द्वौ जीवकादौ चतुर्दश ७७
क्षीरादौ सप्त लेहेऽष्टौ चत्वारः सितयाऽपि च
पानकादिषु पञ्चैव षडृतौ पञ्च मोदकाः ७८
चत्वारश्च घृते क्षीरे द्वौ चूर्णे तर्पणे तथा
द्वौ मद्ये काञ्जिके द्वौ च दशान्ये षाडवादिषु ७९
श्यामायास्त्रिवृतायाश्च कल्पेऽस्मिन् समुदाहृतम्
शतं दशोत्तरं सिद्धं योगानां परमर्षिणा ८०
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते कल्पस्थाने
श्यामात्रिवृत्कल्पो नाम सप्तमोऽध्यायः ७

अष्टमोऽध्यायः
अथातश्चतुरङ्गुलकल्पं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
आरग्वधो राजवृक्षः शम्पाकश्चतुरङ्गुलः
प्रग्रहः कृतमालश्च कर्णिकारोऽवघातकः ३
ज्वरहृद्रोगवातासृगुदावर्तादिरोगिषु
राजवृक्षोऽधिकं पथ्यो मृदुर्मधुरशीतलः ४
बाले वृद्धे क्षते क्षीणे सुकुमारे च मानवे
योज्यो मृद्वनपायित्वाद्विशेषाच्चतुरङ्गुलः ५
फलकाले फलं तस्य ग्राह्यं परिणतं च यत्
तेषां गुणवतां जातं सिकतासु निधापयेत् ६
सप्तरात्रात् समुद्धृत्य शोषयेदातपे भिषक्
ततो मज्जानमुद्धृत्य शुचौ भाण्डे निधापयेत् ७
द्राक्षारसयुतं दद्याद्दाहोदावर्तपीडिते
चतुर्वर्षमुखे बाले यावदद्वादशवार्षिके ८
चतुरङ्गुलमज्ज्ञस्तु प्रर्सृतं वाऽथवाऽञ्जलिम्
सुरामण्डेन संयुक्तमथवा कोलसीधुना ९
दधिमण्डेन वा युक्तं रसेनामलकस्य वा
कृत्वा शीतकषायं तं पिबेत् सौवीरकेण वा १०
त्रिवृतो वा कषायेण मज्ज्ञः कल्कं तथा पिबेत्
तथा बिल्वकषायेण लवणक्षौद्रसंयुतम् ११
कषायेणाथवा तस्य त्रिवृच्चूर्णं गुडान्वितम्
साधयित्वा शनैर्लेहं लेहयेन्मात्रया नरम् १२
चतुरङ्गुलसिद्धाद्वा क्षीराद्यदुदियाद्घृतम्
मज्ज्ञः कल्केन धात्रीणां रसे तत्साधितं पिबेत् १३
तदेव दशमूलस्य कुलत्थानां यवस्य च
कषाये साधितं सर्पिः कल्कैः श्यामादिभिः पिबेत् १४
दन्तीक्वाथेऽञ्जलिं मज्ज्ञः शम्पाकस्य गुडस्य च
दत्त्वा मासार्धमासस्थमरिष्टं पाययेत च १५
यस्य यत् पानमन्नं च हृद्यं स्वाद्वथ वा कटु
लवणं वा भवेत्तेन युक्तं दद्याद्विरेचनम् १६
तत्र श्लोकाः--
द्राक्षारसे सुरासीध्वोर्दध्नि चामलकीरसे
सौवीरके कषाये च त्रिवृतो बिल्वकस्य च १७
लेहेऽरिष्टे घृते द्वे च योगा द्वादश कीर्तिताः
चतुरङ्गुलकल्पेऽस्मिन् सुकुमाराः सुखोदयाः १८
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते कल्पस्थाने
चतुरङ्गुलकल्पो नामाष्टमोऽध्यायः ८

नवमोऽध्यायः
अथातस्तिल्वककल्पं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
तिल्वकस्तु मतो लोघ्रो बृहत्पत्रस्तिरीटकः
तस्य मूलत्वचं शुष्कामन्तर्वल्कलवर्जिताम् ३
चूर्णयेत्तु त्रिधा कृत्वा द्वौ भागौ श्चोतयेत्ततः
लोध्रस्यैव कषायेण तृतीयं तेन भावयेत् ४
भागं तु दशमूलस्य पुनः क्वातेन भावयेत्
शुष्कं चूर्णं पुनः कृत्वा तत ऊर्ध्वं प्रयोजयेत् ५
दधितक्रसुरामण्डमूत्रैर्बदरसीधुना
रसेनामलकानां वा ततः पाणितलं पिबेत् ६
मेषशृङ्ग्यभयाकृष्णाचित्रकैः सलिले शृते
मरुजान् सुनुयात्तच्च जातं सौवीरकं यदा ७
भवेदञ्जलिना तस्य लोध्रकल्कं पिबेत् सदा
सुरां लोध्रकषायेण जातां पक्षस्थितां पिबेत् ८
दन्तीचित्रकयोर्द्रोणे सलिलस्याढकं पृथक्
समुत्क्वाथ्य गुडस्यैकां तुलां लोध्रस्य चाञ्जलिम् ९
आवपेत्तत् परं पक्षान्मद्यपानां विरेचनम्
कम्पिल्लककषायेण दशकृत्वः सुभाविताम् १०
मात्रां कम्पिल्लकस्यैव कषायेण पुनः पिबेत्
चतुरङ्गुलकल्पेन लेहोऽन्यः कार्य एव च ११
त्रिफलायाः कषायेण ससर्पिर्मधुफाणितः
लोध्रचूर्णयुतः सिद्धो लेहः श्रेष्ठो विरेचने १२
तिल्वकस्य कषायेण कल्केन च सशर्करः
सघृतः साधितो लेहः स च श्रेष्ठो विरेचने १३
अष्टाष्टौ त्रिवृतादीनां मुष्टींस्तु सनखान् पृथक्
द्रोणेऽपां साधयेत् पादशेषे प्रस्तं घृतात् पचेत् १४
पिष्टैस्तैरेव बिल्वांशैः समूत्रलवणैरथ
ततो मात्रां पिबेत् काले श्रेष्ठमेतद्विरेचनम् १५
लोध्रकल्केन मूत्राम्ललवणैश्च पचेद्घृतम्
चतुरङ्गुलकल्पेन सर्पिषी द्वे च साधयेत् १६
तत्र श्लोकौ--
पञ्च दध्यादिभिस्त्वेका सुरा सौवीरकेण च
एकोऽरिष्टस्तथा योग एकः कम्पिल्लकेन च १७
लेहास्त्रयो घृतेनापि चत्वारः संप्रकीर्तिताः
योगास्ते लोध्रमूलानां कल्पे षोडश दर्शिताः १८
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते कल्पस्थाने
तिल्वककल्पो नाम नवमोऽध्यायः ९

दशमोऽध्यायः
अथातः सुधाकल्पं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
विरेचनानां सर्वेषां सुधा तीक्ष्णतमा मता
सङ्घातं हि भिनत्त्याशु दोषाणां कष्टविभ्रमा ३
तस्मान्नैषा मृदौ कोष्ठे प्रयोक्तव्या कदाचन
न दोषनिचये चाल्पे सति मार्गपरिक्रमे ४
पाण्डुरोगोदरे गुल्मे कुष्ठे दूषीविषार्दिते
श्वयथौ मधुमेहे च दोषविभ्रान्तचेतसि ५
रोगैरेवंविधैर्ग्रस्तं ज्ञात्वा सप्राणमातुरम्
प्रयोजयेन्महावृक्षं सम्यक् स ह्यवचारितः ६
सद्यो हरति दोषाणां महान्तमपि संचयम्
द्विविधः स मतोऽल्पैश्च बहुभिश्चैव कण्टकैः ७
सुतीक्ष्णात् कण्टकैरल्पैः प्रवरो बहुकण्टकः
स नाम्ना स्नुग्गुडा नन्दा सुधा निस्त्रिंशपत्रकः ८
तं विपाट्याहरेत् क्षीरं शस्त्रेण मतिमान् भिषक्
द्विवर्षं वा त्रिवर्षं वा शिशिरान्ते विशेषतः ९
बिल्वादीनां बृहत्या वा कण्टकार्यास्तथैकशः
कषायेण समांशं तं कृत्वाऽङ्गारेषु शोषयेत् १०
ततः कोलसमां मात्रां पिबेत् सौवीरकेण वा
तुषोदकेन कोलानां रसेनामलकस्य वा ११
सुरया दधिमण्डेन मातुलुङ्गरसेन वा
सातलां काञ्चनक्षीरीं श्यामादीनि कटुत्रिकम् १२
यथोपपत्ति सप्ताहं सुधाक्षीरेण भावयेत्
कोलमात्रां घृतेनातः पिबेन्मांसरसेन वा १३
त्र्यूषणं त्रिफलां दन्तीं चित्रकं त्रिवृतां तथा
स्नुक्क्षीरभावितं सम्यग्विदध्याद्गुडपानकम् १४
त्रिवृतारग्वधं दन्तीं शङ्खिनीं सप्तलां समम्
गोमूत्रे रजनीं कृत्वा शोषयेदातपे ततः १५
सप्ताहं भावयित्वैवं स्नुक्क्षीरेणापरं पुनः
सप्ताहं भावयेच्छुष्कं ततस्तेनापि भावितम् १६
गन्धमाल्यं तदाघ्राय प्रावृत्य पटमेव च
सुखमाशु विरिच्यन्ते मृदुकोष्ठा नराधिपाः १७
श्यामात्रिवृत्कषायेण स्नुक्क्षीरघृतफाणितैः
लेहं पक्त्वा विरेकार्थं लेहयेन्मात्रया नरम् १८
पाययेत्तु सुधाक्षीरं यूषैर्मांसरसैर्घृतैः
भाविताञ्छुष्कमत्स्यान् वा मांसं वा भक्षयेन्नरः १९
क्षीरेणामलकैः सर्पिश्चतुरङ्गुलवत् पचेत्
सुरां वा कारयेत् क्षीरे घृतं वा पूर्ववत् पचेत् २०
तत्र श्लोकौ--
सौवीरकादिभिः सप्त सर्पिषा च रसेन च
पानकं घ्रेयलेहौ च योगा यूषादिभिस्त्रयः २१
द्वौ शुष्कमत्स्यमांसाभ्यां सुरैका द्वे च सर्पिषी
महावृक्षस्य योगास्ते विंशतिः समुदाहृताः २२
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते कल्पस्थाने
सुधाकल्पो नाम दशमोऽध्यायः १०

एकादशोऽध्यायः
अथातः सप्तलाशङ्खिनीकल्पं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
सप्तला चर्मसाह्वा च बहुफेनरसा च सा
शङ्खिनी तिक्तला चैव यवतिक्ताऽक्षिपीडकः ३
ते गुल्मगरहृद्रोगकुष्ठशोफोदरादिषु
विकासितीक्ष्णरूक्षत्वाद्योज्ये श्लेष्माधिकेषु तु ४
नातिशुष्कं फलं ग्राह्यं शङ्खिन्या निस्तुषीकृतम्
सप्तलायाश्च मूलानि गृहीत्वा भाजने क्षिपेत् ५
अक्षमात्रं तयोः पिण्डं प्रसन्नालवणायुतम्
हृद्रोगे कफवातोत्थे गुल्मे चैव प्रयोजयेत् ६
प्रियालपीलुकर्कन्धुकोलाम्रातकदाडिमैः
द्राक्षापनसखर्जूरबदराम्लपरूषकैः ७
मैरेये दधिमण्डेऽम्ले सौवीरकतुषोदके
सीधौ चाप्येष कल्पः स्यात् सुखं शीघ्रविरेचनः ८
तैलं विदारिगन्धाद्यैः पयसि क्वथिते पचेत्
सप्तलाशङ्खिनीकल्के त्रिवृच्छ्यामार्धभागिके ९
दधिमण्डेन सन्नीय सिद्धं तत् पाययेत च
शङ्खिनीचूर्णभागौ द्वौ तिलचूर्णस्य चापरः १०
हरीतकीकषायेण तैलं तत्पीडितं पिबेत्
अतसीसर्षपैरण्डकरञ्जेष्वेव संविधिः ११
शङ्खिनीसप्तलासिद्धात् क्षीराद्यदुदियाद्घृतम्
कल्कभागे तयोरेव त्रिवृच्छ्यामार्धसंयुते १२
क्षीरेणालोड्य संपक्वं पिबेत्तच्च विरेचनम्
दन्तीद्रवन्त्योः कल्पोऽयमजशृङ्ग्यजगन्धयोः १३
क्षीरिण्या नीलिकायाश्च तथैव च करञ्जयोः
मसूरविदलायाश्च प्रत्यक्पर्ण्यास्तथैव च १४
द्विवर्गार्धांशकल्केन तद्वत् साध्यं घृतं पुनः
शङ्खिनीसप्तलाधात्रीकषाये साधयेद्घृतम् १५
त्रिवृत्कल्पेन सर्पिश्च त्रयो लेहाश्च लोध्रवत्
सुराकम्पिल्लयोर्योगः कार्यो लोध्रवदेव च १६
दन्तीद्रवन्त्योः कल्पेन सौवीरकतुषोदके
अजगन्धाजशृङ्ग्योश्च तद्वत् स्यातां विरेचने १७
तत्र श्लोकौ--
कषाया दश षट् चैव षट् तैलेऽष्टौ च सर्पिषि
पञ्च मद्ये त्रयो लेहा योगः कम्पिल्लके तथा १८
सप्तलाशङ्खिनीभ्यां ते त्रिंशदुक्ता नवाधिकाः
योगाः सिद्धाः समस्ताभ्यामेकशोऽपि च ते हिताः १९
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते कल्पस्थाने
सप्तलाशङ्खिनीकल्पो नामैकादशोध्यायः ११

द्वादशोऽध्यायः
अथातो दन्तीद्रवन्तीकल्पं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
दन्त्युदुम्बरपर्णी स्यान्निकुम्भोऽथ मुकूलकः
द्रवन्ती नामतश्चित्रा न्यग्रोधी मूषिकाह्वया ३
तथामूषिकपर्णी चाप्युपचित्रा च शम्बरी
प्रत्यक्श्रेणी सुतश्रेणी दन्ती रण्डा च कीर्तिता
तयोर्मूलानि संगृह्य स्थिराणि बहलानि च
हस्तिदन्तप्रकाराणि श्यावताम्राणि बुद्धिमान् ४
पिप्पलीमधुलिप्तानि स्वेदयेन्मृत्कुशान्तरे
शोषयेदातपेऽग्न्यर्कौ हतो ह्येषां विकासिताम् ५
तीक्ष्णोष्णान्याशुकारीणि विकासीनि गुरूणि च
विलाययन्ति दोषौ द्वौ मारुतं कोपयन्ति च ६
दधितक्रसुरामण्डैः पिण्डमक्षसमं तयोः
प्रियालकोलबदरपीलुसीधुभिरेव च ७
पिबेद्गुल्मोदरी दोषैरभिखिन्नश्च यो नरः
गोमृगाजरसैः पाण्डुः कृमिकोष्ठी भगन्दरी ८
तयोः कल्के कषाये च दशमूलरसायुते
कक्ष्यालजीविसर्पेषु दाहे च विपचेद्घृतम् ९
तैलं मेहे च गुल्मे च सोदावर्ते कफानिले
चतुःस्नेहं शकृच्छुक्रवातसङ्गानिलार्तिषु १०
रसे दन्त्यजशृङ्ग्योश्च गुडक्षौद्रघृतान्वितः
लेहः सिद्धो विरेकार्थे दाहसंतापमेहनुत् ११
वाततर्षे ज्वरे पैत्ते स्यात् स एवाजगन्धया
दन्तीद्रवन्त्योर्मूलानि पचेदामलकीरसे १२
त्रींस्तु तस्य कषायस्य भागौ द्वौ फाणितस्य च
तप्ते सर्पिषि तैले वा भर्जयेत्तत्र चावपेत् १३
कल्कं दन्तीद्रवन्त्योश्च श्यामादीनां च भागशः
तत्सिद्धं प्राशयेल्लेहं सुखं तेन विरिच्यते १४
रसे च दशमूलस्य तथा बैभीतके रसे
हरीतकीरसे चैव लेहानेवं पचेत् पृथक् १५
तयोर्बिल्वसमं चूर्णं तद्रसेनेव भावितम्
असृष्टे विशि वातोत्थे गुल्मे चाम्लयुतं शुभम् १६
पाटयित्वेक्षुकाण्डं वा कल्केनालिप्य चान्तरा
स्वेदयित्वा ततः खादेत् सुखं तेन विरिच्यते १७
मूलं दन्तीद्रवन्त्योश्च सह मुद्गैर्विपाचयेत्
लाववर्तीरकाद्यैश्च ते रसाः स्युर्विरेचने १८
तयोर्वाऽपि कषायेण यवागूं जाङ्गलं रसम्
माषयूषं च संस्कृत्य दद्यात्तैश्च विरिच्यते १९
तत्कषायात्त्रयो भागा द्वौ सितायास्तथैव च
एको गोधूमचूर्णानां कार्या चोत्कारिका शुभा २०
मोदको वाऽस्य कल्पेन कार्यस्तच्च विरेचनम्
तयोश्चापि कषायेण मद्यान्यस्योपकल्पयेत् २१
दन्तीक्वाथेन चालेड्य दन्तीतैलेन साधितान्
गुडलावणिकान् भक्ष्यान् विविधान् भक्षयेन्नरः २२
दन्तीं द्रवन्तीं मरिचं यवानीमुपकुञ्चिकाम्
नागरं हेमदुग्धां च चित्रकं चेति चूर्णितम् २३
सप्ताहं भावयेन्मूत्रे गवां पाणितलं ततः
पिबेद्घृतेन चूर्णं तु विरिक्तश्चापि तर्पणम् २४
सर्वरोगहरं मुख्यं सर्वेष्वृतुषु यौगिकम्
चूर्णं तदनपायित्वाद्बालवृद्धेषु पूजितम् २५
दुर्भक्ताजीर्णपार्श्वार्तिगुल्मप्लीहोदरेषु च
गण्डमालास्रवाते च पाण्डुरोगे च शस्यते २६
पलं चित्रकदन्त्योश्च हरीतक्याश्च विंशतिः
त्रिवृत्पिप्पलिकर्षौ द्वौ गुडस्याष्टपलेन तत् २७
विनीय मोदकान् कुर्याद्दशैकं भक्षयेत्ततः
उष्णाम्बु च पिबेच्चानु दशमे दशमेऽह्नि च २८
एते निष्परिहाराः स्युः सर्वरोगनिबर्हणाः ग्रहणीपाण्डुरोगार्शःकण्डूकोठानिलापहाः २९
दन्तीद्विपलनिर्यूहो द्राक्षार्धप्रस्थसाधितः
विरेचनं पित्तकासे पाण्डुरोगे च शस्यते ३०
दन्तीकल्कं समगुडं शीतवारियुतं पिबेत्
विरेचनं मुख्यतमं कामलाहरमुत्तमम् ३१
श्यामादन्तीरसे गौडः पिप्पलीफलचित्रकैः लिप्तेऽरिष्टोऽनिलश्लेष्मप्लीहपाण्डूदरापहः ३२
तथा दन्तीद्रवन्त्योश्च कषाये साजगन्धयोः
गौडः कार्योऽजशृङ्ग्या वा स वै सुखविरेचनः ३३
तच्चूर्णक्वाथमाषाम्बुपिण्वतोयसमुद्भवा
मदिरा कफगुल्माल्पवह्विपार्श्वकटिग्रहे ३४
अजगन्धाकषायेण सौवीरकतुषोदके
सुराकम्पिल्लके योगौ लोध्रवच्च तयोः स्मृतौ ३५
तत्र श्लोकाः--
दध्यादिषु त्रयः पञ्च प्रियालाद्यैस्त्रयो रसे
स्नेहेषु वै त्रयो लेह्याः षट् चूर्णे त्वेक एव च ३६
इक्षावेकस्तथा मुद्गमांसानां च रसास्त्रयः
यवाग्वादौ त्रयश्चैक उक्त उत्कारिकाविधौ ३७
एकश्च मोदके मद्ये चैकस्तत्क्वाथतैलके
चूर्णमेकं पुनश्चैको मोदकः पञ्च चासवे ३८
एकः सौवीरकेऽथैको योगः स्यात्तु तुषोदके
एका सुरैकः कम्पिल्ले तथा पञ्च घृते स्मृताः ३९
दन्तीद्रवन्तीकल्पेऽस्मिन् प्रोक्ताः षोडशकास्त्रयः
नानाविधानां योगानां भक्तिदोषामयान्प्रति ४०
त्रिशतं पञ्च पञ्चाशद्योगानां वमने स्मृतम्
द्वे शते नवकाः पञ्च योगानां तु विरेचने ४१
ऊर्ध्वानुलोमभागानामित्युक्तानि शतानि षट्
प्राधान्यतः समाश्रित्य द्रव्याणि दश पञ्च च ४२
भवन्ति चात्र--
यद्धि येन प्रधानेन द्रव्यं समुपसृज्यते
तत्संज्ञकः स योगो वै भवतीति विनिश्चयः ४३
फलादीनां प्रधानानां गुणभूताः सुरादयः
ते हि तान्यनुवर्तन्ते मनुजेन्द्रमिवेतरे ४४
विरुद्धवीर्यमप्येषां प्रधानानामबाधकम्
अधिकं तुल्यवीर्ये हि क्रियासामर्थ्यमिष्यते ४५
इष्टवर्णरसस्पर्शगन्धार्थं प्रति चामयम्
अतो विरुद्धवीर्याणां प्रयोग इति निश्चितम् ४६
भूयश्चैषां बलाधानं कार्यं स्वरसभावनैः
सुभावितं ह्यल्पमपि द्रव्यं स्याद्बहुकर्मकृत् ४७
स्वरसैस्तुल्यवीर्यैर्वा तस्माद्द्रव्याणि भावयेत्
अल्पस्यापि महार्थत्वं प्रभूतस्याल्पकर्मताम् ४८
कुर्यात् संयोगविश्लेषकालसंस्कारयुक्तिभिः
प्रदेशमात्रमेतावद्द्रष्टव्यमिह षट्शतम् ४९
स्वबुद्ध्यैवं सहस्राणि कोटीर्वाऽपि प्रकल्पयेत्
बहुद्रव्यविकल्पत्वाद्योगसंख्या न विद्यते ५०
तीक्ष्णमध्यमृदूनां तु तेषां शृणुत लक्षणम्
सुखं क्षिप्रं महावेगमसक्तं यत् प्रवर्तते ५१
नातिग्लानिकरं पायौ हृदये न च रुक्करम्
अन्तराशयमक्षिण्वन् कृत्स्नं दोषं निरम्यति ५२
विरेचनं निरूहो वा तत्तीक्ष्णमिति निर्दिशेत्
जलाग्निकीटैरस्पृष्टं देशकालगुणान्वितम् ५३
ईषन्मात्राधिकैर्युक्तं तुल्यवीर्यैः सुभावितम्
स्नेहस्वेदोपपन्नस्य तीक्ष्णत्वं याति भेषजम् ५४
किंचिदेभिर्गुणैर्हीनं पूर्वोक्तैर्मात्रया तथा
स्निग्धस्विन्नस्य वा सम्यङ्मध्यं भवति भेषजम् ५५
मन्दवीर्यं विरूक्षस्य हीनमात्रं तु भेषजम्
अतुल्यवीर्यैः संयुक्तं मृदु स्यान्मन्दवेगवत् ५६
अकृत्स्नदोषहरणादशुद्धी ते बलीयसाम्
मध्यावरबलानां तु प्रयोज्ये सिद्धिमिच्छता ५७
तीक्ष्णो मध्यो मृदुर्व्याधिः सर्वमध्याल्पलक्षणः
तीक्ष्णादीनि बलापेक्षी भेषजान्येषु योजयेत् ५८
देयं त्वनिर्हृते पूर्वं पीते पश्चात् पुनः पुनः
भेषजं वमनार्थीयं प्राय आपित्तदर्शनात् ५९
बलत्रैविध्यमालक्ष्य दोषाणामातुरस्य च
पुनः प्रदद्याद्भैषज्यं सर्वशो वा विवर्जयेत् ६०
निर्हृते वाऽपि जीर्णे वा दोषनिर्हरणे बुधः
भेषजेऽन्यत्प्रयुञ्जीत प्रार्थयन्सिद्धिमुत्तमाम् ६१
अपक्वं वमनं दोषं पच्यमानं विरेचनम्
निर्हरेद्वमनस्यातः पाकं न प्रतिपालयेत् ६२
पीते प्रस्रंसने दोषान्न निर्हृत्य जरां गते
वमिते चौषधे धीरः पाययेदौषधं पुनः ६३
दीप्ताग्निं बहुदोषं तु दृढस्नेहगुणं नरम्
दुःशुद्धं तदहर्भुक्तं श्वोभूते पाययेत् पुनः ६४
दुर्बलो बहुदोषश्च दोषपाकेन यो नरः
विरिच्यते सरौर्भोज्यैर्भूयस्तमनुसारयेत् ६५
वमनैश्च विरेकैश्च विशुद्धस्याप्रमाणतः
भोजनान्तरपानाभ्यां दोषशेषं शमं नयेत् ६६
दुर्बलं शोधितं पूर्वमल्पदोषं च मानवम्
अपरिज्ञातकोष्ठं च पाययेतौषधं मृदु ६७
श्रेयो मृद्वसकृत्पीतमल्पबाधं निरत्ययम्
न चातितीक्ष्णं यत् क्षिप्रं जनयेत्प्राणसंशयम् ६८
दुर्बलोऽपि महादोषो विरेच्यो बहुशोऽल्पशः
मृदुभिर्भेषजैर्दोषा हन्युर्ह्येनमनिर्हृताः ६९
यस्योर्ध्वं कफसंसृष्टं पीतं यात्यानुलोमिकम्
वमितं कवलैः शुद्धं लङ्घितं पाययेत्तु तम् ७०
विबद्धेऽल्पे चिराद्दोषे स्रवत्युष्णं पिबेज्जलम्
तेनाध्मानं तृषा च्छर्दिर्विबन्धश्चैव शाम्यति ७१
भेषजं दोषरुद्धं चेन्नोर्ध्वं नाधः प्रवर्तते
सोद्गारं च सशूलं च स्वेदं तत्रावचारयेत् ७२
सुविरिक्ते तु सोद्गारमाश्वेवौषधमुल्लिखेत्
अतिप्रवर्तनं जीर्णे सुशीतैः स्तम्भयेद्भिषक् ७३
कदाचिच्छ्लेष्मणा रुद्धं तिष्ठत्युरसि भेषजम्
क्षीणे श्लेष्मणि सायाह्ने रात्रौ वा तत्प्रवर्तते ७४
रूक्षानाहारयोर्जीर्णे विष्टभ्योर्ध्वं गतेऽपि वा
वायुना भेषजे त्वन्यत् सस्नेहलवणं पिबेत् ७५
तृण्मोहभ्रममूर्च्छायाः स्युश्चेज्जीर्यति भेषजे
पित्तघ्नं स्वादु शीतं च भेषजं तत्र शस्यते ७६
लालाहृल्लासविष्टम्भलोमहर्षाः कफावृते
भेषजं तत्र तीक्ष्णोष्णं कट्वादि कफनुद्धितम् ७७
सुस्निग्धं क्रूरकोष्ठं च लङ्घयेदविरेचितम्
तेनास्य स्नेहजः श्लेष्मा सङ्गश्चैवोपशाम्यति ७८
रूक्षबह्वनिलक्रूरकोष्ठव्यायामशालिनाम्
दीप्ताग्नीनां च भैषज्यमविरिच्यैव जीर्यति ७९
तेभ्यो बस्तिं पुरा दत्त्वा पश्चाद्दद्याद्विरेचनम्
बस्तिप्रवर्तितं दोषं हरेच्छीघ्रं विरेचनम् ८०
रूक्षाशनाः कर्मनित्या ये नरा दीप्तपावकाः
तेषां दोषाः क्षयं यान्ति कर्मवातातपाग्निभिः ८१
विरुद्धाध्यशनाजीर्णदोषानपि सहन्ति ते
स्नेह्यास्ते मारुताद्रक्ष्या नाव्याधौ तान् विशोधयेत् ८२
नातिस्निग्धशरीराय दद्यात् स्नेहविरेचनम्
स्नेहोत्क्लिष्टशरीराय रूक्षं दद्याद्विरेचनम् ८३
एवं ज्ञात्वा विधिं धीरो देशकालप्रमाणवित्
विरेचनं विरेच्येभ्यः प्रयच्छन्नापराध्यति ८४
विभ्रंशो विषवद्यस्य सम्यग्योगो यथाऽमृतम्
कालेष्वश्यं पेयं च तस्माद्यत्नात् प्रयोजयेत् ८५
द्रव्यप्रमाणं तु यदुक्तमस्मिन्मध्येषु तत् कोष्ठवयोबलेषु
तन्मूलमालम्ब्य भवेद्विकल्प्यं तेषां विकल्प्योऽभ्यधिकोनभावः ८६
षड् ध्वंश्यस्तु मरीचिः स्यात् षण्मरीच्यस्तु सर्षपः
अष्टौ ते सर्षपा रक्तास्तण्डुलश्चापि तद्द्वयम् ८७
धान्यमाषो भवेत्ताभ्यां धान्यमाषद्वयं यवः
अण्डिका ते तु चत्वारस्ताश्चतस्रस्तु माषकः ८८
हेम च धान्यकश्चोत्तो भवेच्छाणस्तु ते त्रयः
शाणौ द्वौ द्रङ्क्षणं विद्यात् कोलं बदरमेव च ८९
विद्याद्द्वौ द्रङ्क्षणौ कर्षं सुवर्णं चाक्षमेव च
बिडालपदकं चैव पिचुं पाणितलं तथा ९०
तिन्दुकं च विजानीयात् कवलग्रहमेव च
द्वे सुवर्णे पलार्धं स्याच्छुक्तिरष्टमिका तथा ९१
द्वे पलार्धं पलं मुष्टिः प्रकुञ्चोऽथ चतुर्थिका
बिल्वं षोडशिका चाम्रं द्वे पले प्रसृतं विदुः ९२
अष्टमानं तु विज्ञेयं प्रसृतौ द्वौ तु मानिका
चतुर्गुणपलं विद्यादञ्जलिं कुडवं तथा ९३
चत्वारः कुडवाः प्रस्थश्चतुःप्रस्थमथाढकम्
पात्रं तदेव विज्ञेयं कंसः प्रस्थाष्टकं तथा ९४
कंसश्चतुर्गुणो द्रोणश्चार्मणं नल्वणं च तत्
स एव कलशः ख्यातो घटमुन्मानमेव च ९५
द्रोणस्तु द्विगुणः शूर्पो विज्ञेयः कुम्भ एव च
गोणीं शूर्पद्वयं विद्यात् खारीं भारं तथैव च ९६
द्वात्रिंशतं विजानीयाद्वाहं शूर्पाणि बुद्धिमान्
तुलां शतपलं विद्यात् परिमाणविशारदः ९७
शुष्कद्रव्येष्विदं मानमेवमादि प्रकीर्तितम्
द्विगुणं तद्द्रवेष्विष्टं तथा सद्योद्धृतेषु च ९८
यद्धि मानं तुला प्रोक्ता पलं वा तत् प्रयोजयेत्
अनुक्ते परिमाणे तु तुल्यं मानं प्रकीर्तितम् ९९
द्रवकार्येऽपि चानुक्ते सर्वत्र सलिलं स्मृतम्
यतश्च पादनिर्देशश्चतुर्भागस्ततश्च सः १००
जलस्नेहौषधानां तु प्रमाणं यत्र नेरितम्
तत्र स्यादौषधात् स्नेहः स्नेहात्तोयं चतुर्गुणम् १०१
स्नेहपाकस्त्रिधा ज्ञेयो मृदुर्मध्यः खरस्तथा
तुल्ये कल्केन निर्यासे भेषजानां मृदुः स्मृतः १०२
संयाव इव निर्यासे मध्यो दर्वीं विमुञ्चति
शीर्यमाणे तु निर्यासे वर्तमाने खरस्तथा १०३
खरोऽभ्यङ्गे स्मृतः पाको मृदुर्नस्तःक्रियासु च
मध्यपाकं तु पानार्थे बस्तौ च विनियोजयेत् १०४
मानं च द्विविधं प्राहुः कालिङ्गं मागधं तथा
कालिङ्गान्मागधं श्रेष्ठमेवं मानविदो विदुः १०५
तत्र श्लोकौ--
कल्पार्थः शोधनं संज्ञा पृथग्घेतुः प्रवर्तने
देशादीनां फलादीनां गुणा योगशतानि षट् १०६
विकल्पहेतुर्नामानि तीक्ष्णमध्याल्पलक्षणम्
विधिश्चावस्थिको मानं स्नेहपाकश्च दर्शितः १०७
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते कल्पस्थाने
दन्तीद्रवन्तीकल्पो नाम द्वादशोऽध्यायः १२
सप्तमं कल्पस्थानं समाप्तम्
इति कल्पस्थान समाप्ता