प्रमुखा विकल्पसूचिः उद्घाट्यताम्
चरकसंहिता
सिद्धिस्थानम्
चरकः


प्रथमोऽध्यायः
अथातः कल्पनासिद्धिं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
का कल्पना पञ्चसु कर्मसूक्ता क्रमश्च कः किं च कृताकृतेषु लिङ्गं तथैवातिकृतेषु संख्या का किंगुणः केषु च कश्च बस्तिः ३
किं वर्जनीयं प्रतिकर्मकाले कृते कियान् वा परिहारकालः
प्रणीयमानश्च न याति केन केनैति शीघ्रं सुचिराच्च बस्तिः ४
साध्या गदा स्वैः शमनैश्च केचित् कस्मात् प्रयुक्तैर्न शमं व्रजन्ति
प्रचोदितः शिष्यवरेण सम्यगित्यग्निवेशेन भिषग्वरिष्ठः ५
पुनर्वसुस्तन्त्रविदाह तस्मै सर्वप्रजानां हितकाम्ययेदम्
त्र्यहावरं सप्तदिनं परं तु स्निग्धो नरः स्वेदयितव्य उक्तः ६
नातः परं स्नेहनमादिशन्ति सात्म्यीभवेत् सप्तदिनात् परं तु
स्नेहोऽनिलं हन्ति मृदूकरोति देहं मलानां विनिहन्ति सङ्गम् ७
स्निग्धस्य सूक्ष्मेष्वयनेषु लीनं स्वेदस्तु दोषं नयति द्रवत्वम्
ग्राम्यौदकानूपरसैः समाषैरुत्क्लेशनीयः पयसा च वम्यः ८
रसैस्तथा जाङ्गलजैः सयूषैः स्निग्धः कफावृद्धिकरैर्विरेच्यः
श्लेष्मोत्तरश्छर्दयति ह्यदुःखं विरिच्यते मन्दकफस्तु सम्यक् ९
अधः कफेऽल्पे वमनं विगच्छेत् द्विरेचनं वृद्धकफे तथोर्ध्वम्
स्निग्धाय देयं वमनं यथोक्तं वान्तस्य पेयादिरनुक्रमश्च १०
स्निग्धस्य सुस्विन्नतनोर्यथावद्विरेचनं योग्यतमं प्रयोज्यम्
पेयां विलेपीमकृतं कृतं च यूषं रसं त्रिर्द्विरथैकशश्च ११
क्रमेण सेवेत विशुद्धकायः प्रधानमध्यावरशुद्धिशुद्धः
यथाऽणुरग्निस्तृणगोमयाद्यैः संधुक्ष्यमाणो भवति क्रमेण १२
महान् स्थिरः सर्वपचस्तथैव शुद्धस्य पेयादिभिरन्तरग्निः
जघन्यमध्यप्रवरे तु वेगाश्चत्वार इष्टा वमने षडष्टौ १३
दशैव ते द्वित्रिगुणा विरेके प्रस्थस्तथा द्वित्रिचतुर्गुणश्च
पित्तान्तमिष्टं वमनं विरेकादर्धं कफान्तं च विरेकमाहुः १४
द्वित्रान् सविट्कानपनीय वेगान्मेयं विरेके वमने तु पीतम्
क्रमात् कफः पित्तमथानिलश्च यस्यैति सम्यग्वमितः स इष्टः १५
हृत्पार्श्वमूर्धेन्द्रियमार्गशुद्धौ तथा लघुत्वेऽपि च लक्ष्यमाणे
दुश्छर्दिते स्फोटककोठकण्डूहृत्खाविशुद्धिर्गुरुगात्रता च १६
तृण्मोहमूर्च्छानिलकोपनिद्राबलादिहानिर्वमनेऽति च स्यात्
स्रोतोविशुद्धीन्द्रियसंप्रसादौ लघुत्वमूर्जोऽग्निरनामयत्वम् १७
प्राप्तिश्च विट्पित्तकफानिलानां सम्यग्विरिक्तस्य भवेत् क्रमेण
स्याच्छ्लेष्मपित्तानिलसंप्रकोपः सादस्तथाऽग्नेर्गुरुता प्रतिश्या १८
तन्द्रा तथा च्छर्दिररोचकश्च वातानुलोम्यं न च दुर्विरिक्ते
कफास्रपित्तक्षयजानिलोत्थाः सुप्त्यङ्गमर्दक्लमवेपनाद्याः १९
निद्राबलाभावतमःप्रवेशाः सोन्मादहिक्काश्च विरेचितेऽति
संसृष्टभक्तं नवमेऽह्नि सर्पिस्तं पाययेताप्यनुवासयेद्वा २०
तैलाक्तगात्राय ततो निरूहं दद्यात्त्र्यहान्नातिबुभुक्षिताय
प्रत्यागते धन्वरसेन भोज्यः समीक्ष्य वा दोषबलं यथार्हम् २१
नरस्ततो निश्यनुवासनार्हो नात्याशितः स्यादनुवासनीयः
शीते वसन्ते च दिवाऽनुवास्यो रात्रौ शरद्ग्रीष्मघनागमेषु २२
तानेव दोषान् परिरक्षता ये स्नेहस्य पाने परिकीर्तिताः प्राक्
प्रत्यागते चाप्यनुवासनीये दिवा प्रदेयं व्युषिताय भोज्यम् २३
सायं च भोज्यं परतो द्व्यहे वा त्र्यहेऽनुवास्योऽहनि पञ्चमे वा
द्व्यहे त्र्यहे वाऽप्यथ पञ्चमे वा दद्यान्निरूहादनुवासनं च २४
एकं तथा त्रीन् कफजे विकारे पित्तात्मके पञ्च तु सप्त वाऽपि
वाते नवैकादश वा पुनर्वा बस्तीनयुग्मान् कुशलो विदध्यात् २५
नरो विरिक्तस्तु निरूहदानं विवर्जयेत् सप्तदिनान्यवश्यम्
शुद्धो निरूहेण विरेचनं च तद्ध्यस्य शून्यं विकसेच्छरीरम् २६
बस्तिर्वयः स्थापयिता सुखायुर्बलाग्निमेधास्वरवर्णकृच्च
सर्वार्थकारी शिशुवृद्धयूनां निरत्ययः सर्वगदापहश्च २७
विट्श्लेष्मपित्तानिलमूत्रकर्षी दार्ढ्यावहः शुक्रबलप्रदश्च
विष्वक्स्थितं दोषचयं निरस्य सर्वान् विकारान् शमयेन्निरूहः २८
देहे निरूहेण विशुद्धमार्गे संस्नेहनं वर्णबलप्रदं च
न तैलदानात् परमस्ति किञ्चिद्द्रव्यं विशेषेण समीरणार्ते २९
स्नेहेन रौक्ष्यं लघुतां गुरुत्वादौष्ण्याच्च शैत्यं पवनस्य हत्वा
तैलं ददात्याशु मनःप्रसादं वीर्य बलं वर्णमथापि पुष्टिम् ३०
मूले निषिक्तो हि यथा द्रुमः स्यान्नीलच्छदः कोमलपल्लवाग्र्यः
काले महान् पुष्पफलप्रदश्च तथा नरः स्यादनुवासनेन ३१
स्तब्धाश्च ये सङ्कुचिताश्च येऽपि ये पङ्गवो येऽपि च भग्नरुग्णाः
येषां च शाखासु चरन्ति वाताः शस्तो विशेषेण हि तेषु बस्तिः ३२
आध्मापने विग्रथिते पुरीषे शूले च भक्तानभिनन्दने च
एवंप्रकाराश्च भवन्ति कुक्षौ ये चामयास्तेषु च बस्तिरिष्टः ३३
याश्च स्त्रियो वातकृतोपसर्गा गर्भं न गृह्णन्ति नृभिः समेताः
क्षीणेन्द्रिया ये च नराः कृशाश्च बस्तिः प्रशस्तः परमं च तेषु ३४
उष्णाभिभूतेषु वदन्ति शीताञ्छीताभिभूतेषु तथा सुखोष्णान्
तत्प्रत्यनीकौषधसंप्रयुक्तान् सर्वत्र बस्तीन् प्रविभज्य युञ्ज्यात् ३५
न बृंहणीयान् विदधीत बस्तीन् विशोधनीयेषु गदेषु वैद्यः
कुष्ठप्रमेहादिषु मेदुरेषु नरेषु ये चापि विशोधनीयाः ३६
क्षीणक्षतानां न विशोधनीयान्न शोषिणां नो भृशदुर्बलानाम्
न मूर्च्छितानां न विशोधितानां येषां च दोषेषु निबद्धमायुः ३७
शाखागताः कोष्ठगताश्च रोगा मर्मोर्ध्वसर्वावयवाङ्गजाश्च
ये सन्ति तेषां न हि कश्चिदन्यो वायोः परं जन्मनि हेतुरस्ति ३८
विण्मूत्रपित्तादिमलाशयानां विक्षेपसंघातकरः स यस्मात्
तस्यातिवृद्धस्य शमाय नान्यद्बस्तिं विना भेषजमस्ति किञ्चित् ३९
तस्माच्चिकित्सार्धमिति ब्रुवन्ति सर्वां चिकित्सामपि बस्तिमेके
नाभिप्रदेशं कटिपार्श्वकुक्षिं गत्वा शकृद्दोषचयं विलोड्य ४०
संस्नेह्य कायं सपुरीषदोषः सम्यक् सुखेनैति कृतः स बस्तिः
प्रसृष्टविण्मूत्रसमीरणत्वं रुच्यग्निवृद्ध्याशयलाघवानि ४१
रोगोपशान्तिः प्रकृतिस्तथा च बलं च तत् स्यात् सुनिरूढलिङ्गम्
स्याद्रुक्छिरोहृद्गुदबस्तिलिङ्गे शोफः प्रतिश्यायविकर्तिके च ४२
हृल्लासिका मारुतमूत्रसङ्गः श्वासो न सम्यक् च निरूहिते स्युः
लिङ्गं यदेवातिविरेचितस्य भवेत्तदेवातिनिरूहितस्य ४३
प्रत्येत्यसक्तं सशकृच्च तैलं रक्तादिबुद्धिन्द्रियसंप्रसादः
स्वप्नानुवृत्तिर्लघुता बलं च सृष्टाश्च वेगाः स्वनुवासिते स्युः ४४
अधःशरीरोदरबाहुपृष्ठपार्श्वेषु रुग्रूक्षखरं च गात्रम्
ग्रहश्च विण्मूत्रसमीरणानामसम्यगेतान्यनुवासिते स्युः ४५
हृल्लासमोहक्लमसादमूर्च्छा विकर्तिका चात्यनुवासितस्य
यस्येह यामाननुवर्तते त्रीन् स्नेहो नरः स्यात् स विशुद्धदेहः ४६
आश्वागतेऽन्यस्तु पुनर्विधेयः स्नेहो न संस्नेहयति ह्यतिष्ठन्
त्रिंशन्मताः कर्म न बस्तयो हि कालस्ततोऽर्धेन ततश्च योगः ४७
सान्वासना द्वादश वै निरूहाः प्राक् स्नेह एकः परतश्च पञ्च
काले त्रयोऽन्ते पुरतस्तथैकः स्नेहा निरूहान्तरिताश्च षट् स्युः ४८
योगे निरूहास्त्रय एव देयाः स्नेहाश्च पञ्चैव परादिमध्याः
त्रीन् पञ्च वाऽहुश्चतुरोऽथ षड्वा वाताधिकेभ्यस्त्वनुवासनीयान् ४९
स्नेहान् प्रदायाशु भिषग्विदध्यात् स्रोतोविशुद्ध्यर्थमतो निरूहान्
विशुद्धदेहस्य ततः क्रमेण स्निग्धं तलस्वेदितमुत्तमाङ्गम् ५०
विरेचयेत्त्रिर्द्विरथैकशो वा बलं समीक्ष्य त्रिविधं मलानाम्
उरःशिरोलाघवमिन्द्रियाच्छ्यं स्रोतोविशुद्धिश्च भवेद्विशुद्धे ५१
गलोपलेपः शिरसो गुरुत्वं निष्ठीवनं चाप्यथ दुर्विरिक्ते
शिरोक्षिशङ्खश्रवणार्तितोदावत्यर्थशुद्धे तिमिरं च पश्येत् ५२
स्यात्तर्पणं तत्र मृदु द्रवं च स्निग्धस्य तीक्ष्णं तु पुनर्न योगे
इत्यातुरस्वस्थसुखः प्रयोगो बलायुषोर्वृद्धिकृदामयघ्नः ५३
कालस्तु बस्त्यादिषु याति यावांस्तावान् भवेद्द्विः परिहारकालः
अत्यासनस्थानवचांसि यानं स्वप्नं दिवा मैथुनवेगरोधान् ५४
शीतोपचारातपशोकरोषांस्त्यजेदकालाहितभोजनं च
बद्धे प्रणीते विषमं च नेत्रे मार्गे तथाऽर्शःकफविड्विबद्धे ५५
न याति बस्तिर्न सुखं निरेति दोषावृतोऽल्पो यदि वाऽल्पवीर्यः
प्राप्ते तु वर्चोऽनिलमूत्रवेगे वातेऽतिवृद्धेऽल्पबले गुदे वा ५६
अत्युष्णतीक्ष्णश्च मृदौ च कोष्ठे प्रणीतमात्रः पुनरेति बस्तिः
मेदःकफाभ्यामनिलो निरुद्धः शूलाङ्गसुप्तिश्वयथून् करोति ५७
स्नेहं तु युञ्जन्नबुधस्तु तस्मै संवर्धयत्येव हि तान् विकारान्
रोगास्तथाऽन्येऽप्यवितर्क्यमाणाः परस्परेणावगृहीतमार्गाः ५८
संदूषिता धातुभिरेव चान्यैः स्वैर्भेषजैर्नोपशमं व्रजन्ति
सर्वं च रोगप्रशमाय कर्म हीनातिमात्रं विपरीतकालम् ५९
मिथ्योपचाराच्च न तं विकारं शान्ति नयेत् पथ्यमपि प्रयुक्तम्
तत्र श्लोकः--
प्रश्नानिमान् द्वादश पञ्चकर्माण्युद्दिश्य सिद्धाविह कल्पनायाम् ६०
प्रजाहितार्थं भगवान् महार्थान् सम्यग्जगादर्षिवरोऽत्रिपुत्रः ६१
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने
कल्पनासिद्धिर्नाम प्रथमोऽध्यायः १

द्वितीयोऽध्यायः
अथातः पञ्चकर्मीयां सिद्धिं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
येषां यस्मात् पञ्चकर्माण्यग्निवेश न कारयेत्
येषां च कारयेत्तानि तत् सर्वं संप्रवक्ष्यते ३
चण्डः साहसिको भीरुः कृतघ्नो व्यग्र एव च
सद्राजभिषजां द्वेष्टा तद्द्विष्टः शोकपीडितः ४
यादृच्छिको मुमूर्षुश्च विहीनः करणैश्च यः
वैरी वैद्यविदग्धश्च श्रद्धाहीनः सुशङ्कितः ५
भिषजामविधेयश्च नोपक्रम्या भिषग्विदा
एतानुपचरन् वैद्यो बहून् दोषानवाप्नुयात् ६
एभ्योऽन्ये समुपक्रम्या नराः सर्वैरुपक्रमैः
अवस्थां प्रविभज्यैषां वर्ज्यं कार्यं च वक्ष्यते ७
अवम्यास्तावत्--
क्षतक्षीणातिस्थूलातिकृशबालवृद्धदुर्बलश्रान्तपिपासितक्षुधितकर्मभाराध्वह-तोपवासमैथुनाध्ययनव्यायामचिन्ताप्रसक्तक्षामगर्भिणीसुकुमारसंवृतकोष्ठदु-श्छर्दनोर्ध्वरक्तपित्तप्रसक्तच्छर्दिरूर्ध्ववातास्थापितानुवासितहृद्रोगोदावर्तमू-त्राघातप्लीहगुल्मोदराष्ठीलास्वरोपघाततिमिरशिरःशङ्खकर्णाक्षिशलार्ताः ८
तत्र क्षतस्य भूयः क्षणनाद्रक्तातिप्रवृत्तिः स्यात् क्षीणातिस्थूलकृशबालवृद्धदुर्बलानामौषधबलासहत्वात् प्राणोपरोधः श्रान्तपिपासितक्षुधितानां च तद्वत् कर्मभाराध्वहतोपवासमैथुनाध्ययनव्यायमचिन्ताप्रसक्तक्षामाणां रौक्ष्याद्वातरक्तच्छेदक्षतभयं स्यात् गर्भिण्या गर्भव्यापदामगर्भभ्रंशाच्च दारुणा रोगप्राप्तिःसुकुमारस्य हृदयापकर्षणादूर्ध्वमधो वा रुधिरातिप्रवृत्तिः संवृतकोष्ठदुश्छर्दनयोरतिमात्रप्रवाहणाद्दोषाः समुत्क्लिष्टा अन्तः कोष्ठे जनयन्त्यन्तर्विसर्पं स्तम्भं जाड्यं वैचित्त्यं मरणं वा ऊर्ध्वगरक्तपित्तिन उदानमुत्क्षिप्य प्राणान् हरेद्रक्तं चातिप्रवर्तयेत् प्रसक्तच्छर्देस्तद्वत् ऊर्ध्ववातास्थापितानुवासितानामूर्ध्वं वातातिप्रवृत्तिः हृद्रोगिणो हृदयोपरोधः उदावर्तिनो घोरतर उदावर्तः स्याच्छीघ्रतरहन्ता मूत्राघातादिभिरार्तानां तीव्रतरशूलप्रादुर्भावः तिमिरार्तानां तिमिरातिवृद्धिः शिरःशूलादिषु शूलातिवृद्धिः तस्मादेते न वम्याः । सर्वेष्वपि तु खल्वेतेषु विषगरविरुद्धाजीर्णाभ्यवहारमकृतेष्वप्रतिषिद्धं शीघ्रतरकारित्वादेषामिति ९
शेषास्तु वम्याः विशेषतस्तु पीनसकुष्ठनवज्वरराजयक्ष्मकासश्वासगलग्रहगलगण्डश्लीपद-मेहन्दाग्निविरुद्धाजीर्णान्नविसूचिकालसकविषगरपीतद-ष्टदिग्धविद्धाधःशोणितपित्तप्रसेकदुर्नामहृल्लासारोचकाविपाकापच्यपस्मा-रोन्मादातिसारशोफपाण्डुरोगमुखपाकदुष्टस्तन्यादयः श्लेष्मव्याधयो विशेषेण महारोगाध्यायोक्ताश्च एतेषु हि वमनं प्रधानतममित्युक्तं केदारसेतुभेदे शाल्याद्यशोषदोषविनाशवत् १०
अविरेच्यास्तु सुभगक्षतगुदमुक्तनालाधोभागरक्तपित्तिविलङ्घितदुर्बलेन्द्रियाल्पाग्निनि-रूढकामादिव्यग्राजीर्णनवज्वरिमदात्ययिताध्मातशल्यार्दिताभिह-तातिस्निग्धरूक्षदारुणकोष्ठाः क्षतादयश्च गर्भिण्यन्ताः ११
तत्र सुभगस्य सुकुमारोक्तो दोषः स्यात् क्षतगुदस्य क्षते गुदे प्राणोपरोधकरीं रुजां जनयेत् मुक्तनालमतिप्रवृत्त्या हन्यात् अधोभागरक्तपित्तिनं तद्वत् विलङ्घितदुर्बलेन्द्रियाल्पाग्निनिरूढा औषधवेगं न सहेरन् कामादिव्यग्रमनसो न प्रवर्तते कृच्छ्रेण वा प्रवर्तमानमयोगदोषान् कुर्यात् अजिर्णिन आमदोषः स्यात् नवज्वरिणोऽविपक्वान् दोषान् न निर्हरेद् वातमेव च कोपयेत् मदात्यथितस्य मद्यक्षीणे देहे वायुः प्राणोपरोधं कुर्यात् आध्मातस्याधमतो वा पुरीषकोष्ठे निचितो वायुर्विसर्पन् सहसाऽऽनाहं तीव्रतरं मरणं वा जनयेत् शल्यार्दिताभिहतयोः क्षते वायुराश्रितो जीवितं हिंस्यात् अतिस्निग्धस्यातियोगभयं भवेत् रूक्षस्य वायुरङ्गप्रग्रहं कुर्यात् दारुणकोष्ठस्य विरेचनोद्धता दोषा हृच्छूलपर्वभेदानाहाङ्गमर्दच्छर्दिमूर्च्छाक्लमाञ्जनयित्वा प्राणान् हन्युः क्षतादीनां गर्भिण्यन्तानां छर्दनोक्तो दोषः स्यात् तस्मादेते न विरेच्याः १२
शेषास्तु विरेच्याः विशेषतस्तु कुष्ठज्वरमेहोर्ध्वरक्तपित्तभगन्दरोदरार्शोव्रध्नप्लीहगुल्मार्बुदगलगण्डग्रन्थिविसूचिकाल-सकमूत्राघातक्रिमिकोष्ठविसर्पपाण्डुरोगशिरःपार्श्वशूलोदावर्तनेत्रास्यदाहहृद्रो-गव्यङ्गनीलिकानेत्रनासिकास्यस्रवणहलीमकश्वासकासकामलापच्यपस्मारोन्मादवात-रक्तयोनिरेतोदोषतैमिर्यारोचकाविपाकच्छर्दिश्वयथूदरविस्फोटकादयः पित्तव्याधयो विशेषेण महारोगाध्यायोक्ताश्च एतेषु हि विरेचनं प्रधानतममित्युक्तमग्न्युपशमेऽग्निगृहवत् १३
अनास्थाप्यास्तु अजीर्ण्यतिस्निग्धपीतस्नेहोत्क्लिष्टदोषाल्पाग्नियानक्लान्तातिदु-र्बलक्षुत्तृष्णाश्रमार्तातिकृशभुक्तभक्तपीतोदकवमितविरिक्तकृतनस्तःकर्म-कुद्धभीतमत्तमूर्च्छितप्रसक्तच्छर्दिनिष्ठीविकाश्वासकासहिक्काबद्धच्छिद्रोदको-दराध्मानालसकविसूचिकामप्रजातामातिसारमधुमेहकुष्ठार्ताः १४
तत्राजीर्ण्यतिस्निग्धपीतस्नेहानां दूष्योदरं मूर्च्छा श्ववथुर्वा स्यात् उत्क्लिष्टदोषमन्दाग्न्योररोचकस्तीव्रः यानक्लान्तस्य क्षोभव्यापन्नो बस्तिराशु देहं शोषयेत् अतिदुर्बलक्षुत्तृष्णाश्रमार्तानां पूर्वोक्तो दोषः स्यात् अतिकृशस्य कार्श्यं पुनर्जनयेत् भुक्तभक्तपीतोदकयोरुत्क्लिश्योर्ध्वमधो वा वायुर्बस्तिमुत्क्षिप्य क्षिप्रं घोरान् विकाराञ्जनयेत् वमितविरिक्तयोस्तु रूक्षं शरीरं निरूहः क्षतं क्षार इव दहेत् कृतनस्तःकर्मणो विभ्रंशं भृशसंरुद्धस्रोतसः कुर्यात् क्रुद्धभीतयोर्बस्तिरूर्ध्वमुपप्लवेत् मत्तमूर्च्छितयोर्भृशं विचलितायां संज्ञायां चित्तोपघाताद् व्यापत् स्यात् प्रसक्तच्छर्दिर्निष्ठीविकाश्वासकासहिक्कार्तानामूर्ध्वीभूतो वायुरूर्ध्वं बस्तिं नयेत् बद्धच्छिद्रोदकोदराध्मानार्तानां भृशतरमाध्याप्य बस्तिः प्राणान् हिंस्यात् अलसकविसूचिकामप्रजातामातिसारिणामामकृतो दोषः स्यात् मधुमेहकुष्ठिनोर्व्याधेः पुनर्वृद्धिः तस्मादेते नास्थाप्याः १५
शेषास्त्वास्थाप्याः विशेषतस्तु सर्वाङ्गैकाङ्गकुक्षिरोगवातवर्चोमूत्रशुक्रसङ्गबलवर्णमांसरेतःक्षयदोषध्मा-नाङ्गसुप्तिक्रिमिकोष्ठोदावर्तशुद्धातिसारपर्वभदा-भितापप्लीहगुल्मशूलहृद्रोगभगन्दरोन्मादज्वरब्रध्नशिरः कर्णशूलहृदयपार्श्वपृ-ष्ठकटीग्रहवेपनाक्षेपकगौरवातिलाघवरजःक्षयार्तविषमाग्निस्फिग्जानुजङ्घोरु-गुल्फपार्ष्णिप्रपदयोनिबाह्वङ्गुलिस्तनान्तदन्तनखपर्वास्थिशूलशोषस्तम्भान्त्र-कूजपरिकर्तिकाल्पाल्पसशब्दोग्रगन्धोत्थानादयो वातव्याधयो विशेषेण महारोगाध्यायोक्ताश्च एतेष्वास्थापनं प्रधानतममित्युक्तं वनस्पतिमूलच्छेदवत् १६
य एवानास्थाप्यास्त एवाननुवास्याः स्युः विशेषतस्त्वभुक्तभक्तनवज्वरपाण्डुरोगकामलाप्रमेहार्शः प्रतिश्यायारोचकमन्दाग्निदुर्बलप्लीहकफोदरोरुस्त-म्भवर्चोभेदविषगरपीतपित्तकफाभिष्यन्दगुरुकोष्ठश्लीपदगलगण्डापचिक्रिमिकोष्ठिनः १७
तत्राभुक्तभक्तस्यानावृतमार्गत्वादूर्ध्वमतिवर्तते स्नेहः नवज्वरपाण्डुरोगकामलाप्रमेहिणां दोषानुत्क्लिश्योदरं जनयेत् अरोचकार्तस्यान्नगृद्धिं पुनर्हन्यात् मन्दाग्निदुर्बलयोर्मन्दतरमग्निं कुर्यात् प्रतिश्यायप्लीहादिमतां भृशमुत्क्लिष्टदोषाणां भूय एव दोषं वर्धयेत् तस्मादेते नानुवास्याः १८
य एवास्थाप्यास्त एवानुवास्याः विशेषतस्तु रूक्षतीक्ष्णाग्नयः केवलवातरोगार्ताश्च एतेषु ह्यनुवासनं प्रधानतममित्युक्तं मूले द्रुमप्रसेकवत् १९
अशिरोविरेचनार्हास्तु अजीर्णिभुक्तभक्तपीतस्नेहमद्यतोयपातुकामाः स्नातशिराः स्नातुकामः क्षुत्तृष्णाश्रमार्तमत्तमूर्च्छितशस्त्रदण्डहतव्यवायव्यायामपान-क्लान्तनवज्वरशोकाभितप्तविरिक्तानुवासितगर्भिणीनवप्रति श्यायार्ताः अनृतौ दुर्दिने चेति २०
तत्राजीर्णिभुक्तभक्तयोर्दोष ऊर्ध्ववहानि स्रोतांस्यावृत्य कासश्वासच्छर्दिप्रतिश्यायाञ्जनयेत् पीतस्नेहमद्यतोयपातुकामानां कृते च पिबतां मुखनासास्रावाक्ष्युपदेहतिमिरशिरोरोगाञ्जनयेत् स्नातशिरसः कृते च स्नातस्य प्रतिश्यायं क्षुधार्तस्य वातप्रकोपं तृष्णार्तस्य पुनस्तृष्णाभिवृद्धिं मुखाशोषं च श्रमार्तमत्तमूर्च्छितानामास्थापनोक्तं दोषं जनयेत् शस्त्रदण्डहतयोस्तीव्रतरां रुजं जनयेत् व्यवायव्यायामपानक्लान्तानां शिरःस्कन्धनेत्रोरःपीडनं नवज्वरशोकाभितप्तयोरूष्मा नेत्रनाडीरनुसृत्य तिमिरं ज्वरवृद्धिं च कुर्यात् विरिक्तस्य वायुरिन्द्रियोपघातं कुर्यात् अनुवासितस्य कफः शिरोगुरुत्वकण्डूक्रिमिदोषाञ्जनयेत् गर्भिण्या गर्भे स्तम्भयेत् स काणः कुणिः पक्षहतः पीठसर्पी वा जायते नवप्रतिश्यायार्तस्य स्रोतांसि व्यापादयेत् अनृतौ दुर्दिने च शीतदोषान् पूतिनस्यं शिरोरोगं च जनयेत् तस्मादेते न शोरोविरेचनार्हाः २१
शेषास्त्वर्हाः विशेषतस्तु शिरोदन्तमन्यास्तम्भगलहनुग्रहपीनसगलशुण्डिकाशालूकशुक्रितिमिर-वर्त्मरोगव्यङ्गोपजिह्विकार्धावभेदकग्रीवास्कन्धांसा-स्यनासिकाकर्णाक्षिमूर्धकपालशिरोरोगार्दितापतन्त्रकापतानगलगण्डदन्तशू-लहर्षचालाक्षिराज्यर्बुदस्वरभेदवाग्ग्रहगद्गदक्रथनादय ऊर्ध्वजत्रुगताश्च वातादिविकाराः परिपक्वाश्च एतेषु शिरोविरेचनं प्रधानतममित्युक्तं तद्ध्युत्तमाङ्गमनुप्रविश्य मुञ्जादीषिकामिवासक्तां केवलं विकारकरं दोषमपकर्षति २२
प्रावृट्शरद्वसन्तेतरेष्वात्ययिकेषु रोगेषु नावनं कुर्यात् कृत्रिमगुणोपधानात् ग्रीष्मे पूर्वाह्णे शीते मध्याह्ने वर्षास्वदुर्दिने चेति २३
तत्र श्लोकाः--
इति पञ्चविधं कर्म विस्तरेण निदर्शितम्
येभ्यो यन्न हितं यस्मात् कर्म येभ्यश्च यद्धितम् २४
न चैकान्तेन निर्दिष्टेऽप्यर्थेऽभिनिविशेद्बुधः
स्वयमप्यत्र वैद्येन तर्क्यं बुद्धिमता भवेत् २५
उत्पद्येत हि साऽवस्था देशकालबलं प्रति
यस्यां कार्यमकार्यं स्यात् कर्म कार्यं च वर्जितम् २६
छर्दिर्हृद्रोगगुल्मानां वमनं स्वे चिकित्सिते
अवस्थां प्राप्य निर्दिष्टं कुष्ठिनां बस्तिकर्म च २७
तस्मात् सत्यपि निर्देशे कुर्यादूह्य स्वयं धिया
विना तर्केण या सिद्धिर्यदृच्छासिद्धिरेव सा २८
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने
पञ्चकर्मीयसिद्धिर्नाम द्वितीयोऽध्यायः २

तृतीयोऽध्यायः
अथातो बस्तिसूत्रीयां सिद्धिं व्याख्यास्यामः १
कृतक्षणं शैलवरस्य रम्ये स्थितं धनेशायतनस्य पार्श्वे
महर्षिसङ्घैर्वृतमग्निवेशः पुनर्वसुं प्राञ्जलिरन्वपृच्छत् ३
बस्तिर्नरेभ्यः किमपेक्ष्य दत्तः स्यात् सिद्धिमान् किम्मयमस्य नेत्रम्
कीदृक्प्रमाणाकृति किङ्गुणं च केभ्यश्च किंयोनिगुणश्च बस्तिः ४
निरूहकल्पः प्रणिधानमात्रा स्नेहस्य का वा शयने विधिः कः
के बस्तयः केषु हिता इतीदं श्रुत्वोत्तरं प्राह वचो महर्षिः ५
समीक्ष्य दोषौषधदेशकालसात्म्याग्निसत्त्वादिवयोबलानि
बस्तिः प्रयुक्तो नियतं गुणाय स्यात् सर्वकर्माणि च सिद्धिमन्ति ६
सुवर्णरूप्यत्रपुताम्ररीतिकांस्यायसास्थिद्रुमवेणुदन्तैः
नलैर्विषाणैर्मणिभिश्च तैस्तैर्नेत्राणि कार्याणि सुकर्णिकानि ७
षड्द्वादशाष्टाङ्गुलसंमितानि षड्विंशतिद्वादशवर्षजानाम्
स्युर्मुद्गकर्कन्धुसतीनवाहिच्छिद्राणि वर्त्याऽपिहितानि चैव ८
यथावयोऽङ्गुष्ठकनिष्ठिकाभ्यां मूलाग्रयोः स्युः परिणाहवन्ति
ऋजूनि गोपुच्छसमाकृतीनि श्लक्ष्णानि च स्युर्गुडिकामुखानि ९
स्यात् कर्णिकैकाऽग्रचतुर्थभागे मूलाश्रिते बस्तिनिबन्धने द्वे
जारद्गवो माहिषहारिणौ वा स्याच्छौकरो बस्तिरजस्य वाऽपि १०
दृढस्तनुर्नष्टसिरो विगन्धः कषायरक्तः सुमृदुः सुशुद्धः
नृणां वयो वीक्ष्य यथानुरूपं नेत्रेषु योज्यस्तु सुबद्धसूत्रः ११
बस्तेरलाभे प्लवजो गलो वा स्यादङ्कपादः सुघनः पटो वा
आस्थापनार्हं पुरुषं विधिज्ञः समीक्ष्य पुण्येऽहनि शुक्लपक्षे १२
प्रशस्तनक्षत्रमुहूर्तयोगे जीर्णान्नमेकाग्रमुपक्रमेत
बलां गुडूचीं त्रिफलां सरास्नां द्वे पञ्चमूले च पलोन्मितानि १३
अष्टौ फलान्यर्धतुलां च मांसाच्छागात् पचेदप्सु चतुर्थशेषम्
पूतं यवानीफलबिल्वकुष्ठवचाशताह्वाघनपिप्पलीनाम् १४
कल्कैर्गुडक्षौद्रघृतैः सतैलैर्युतं सुखोष्णैस्तु पिचुप्रमाणैः
गुडात् पलं द्विप्रसृतां तु मात्रां स्नेहस्य युक्त्या मधु सैन्धवं च १५
प्रक्षिप्य बस्तौ मथितं खजेन सुबद्धमुच्छ्वास्य च निर्वलीकम्
अङ्गुष्ठमध्येन मुखं पिधाय नेत्राग्रसंस्थामपनीय वर्तिम् १६
तैलाक्तगात्रं कृतमूत्रविट्कं नातिक्षुधार्तं शयने मनुष्यम्
समेऽथवेषन्नतशीर्षके वा नात्युच्छ्रिते स्वास्तरणोपन्ने १७
सव्येन पार्श्वेन सुखं शयानं कृत्वर्जुदेहं स्वभुजोपधानम्
सङ्कोच्य सव्येतरदस्य सक्थि वामं प्रसार्य प्रणयेत्ततस्तम् १८
स्निग्धे गुदे नेत्रचतुर्थभागं स्निग्धं शनैरृज्वनु पृष्ठवंशम्
अकम्पनावेपनलाघवादीन् पाण्योर्गुणांश्चापि विदर्शयंस्तम् १९
प्रपीड्य चैकग्रहणेन दत्तं नेत्रं शनैरेव ततोऽपकर्षेत्
तिर्यक् प्रणीते तु न याति धारा गुदे व्रणः स्याच्चलिते तु नेत्रे २०
दत्तः शनैर्नाशयमेति बस्तिः कण्ठं प्रधावत्यपि पीडितश्च
शीतस्त्वतिस्तम्भकरो विदाहं मूर्च्छां च कुर्यादतिमात्रमुष्णः २१
स्निग्धोऽतिजाड्यं पवनं तु रूक्षस्तन्वल्पमात्रालवणस्त्वयोगम्
करोतिमात्राभ्यधिकोऽतियोगं क्षामं तु सान्द्रः सुचिरेण चैति २२
दाहातिसारौ लवणोऽति कुर्यात्तस्मात् सुयुक्तं सममेव दद्यात्
पूर्वं हि दद्यान्मधु सैन्धवं तु स्नेहं विनिर्मथ्य ततोऽनु कल्कम् २३
विमथ्य संयोज्य पुनर्द्रवैस्तं बस्तौ निदध्यान्मथितं खजेन
वामाश्रये हि ग्रहणीगुदे च तत् पार्श्वसंस्थस्य सुखोपलब्धिः २४
लीयन्त एवं वलयश्च तस्मात् सव्यं शयानोऽर्हति बस्तिदानम्
विड्वातवेगो यदि चार्धदत्ते निष्कृष्य मुक्ते प्रणयेदशेषम् २५
उत्तानदेहश्च कृतोपधानः स्याद्वीर्यमाप्नोति तथाऽस्य देहम्
एकोऽपकर्षत्यनिलं स्वमार्गात् पित्तं द्वितीयस्तु कफं तृतीयः २६
प्रत्याग ते कोष्णजलावसिक्तः शाल्यन्नमद्यात्तनुना रसेन
जीर्णे तु सायं लघु चाल्पमात्रं भुक्तोऽनुवास्यः परिबृंहणार्थम् २७
निरूहपादांशसमेन तैलेनाम्लानिलघ्नौषधसाधितेन
दत्त्वा स्फिचौ पाणितलेन हन्यात् स्नेहस्य शीघ्रागमरक्षणार्थम् २८
ईषच्च पादाङ्गुलियुग्ममाञ्छेदुत्तानदेहस्य तलौ प्रमृज्यात्
स्नेहेन पार्ष्ण्यङ्गुलिपिण्डिकाश्च ये चास्य गात्रावयवा रुगार्ताः २९
तांश्चावमृद्नीत सुखं ततश्च निद्रामुपासीत कृतोपधानः
भागाः कषायस्य तु पञ्च पित्ते स्नेहस्य षष्ठः प्रकृतौ स्थिते च ३०
वाते विवृद्धे तु चतुर्थभागो मात्रा निरूहेषु कफेऽष्टभागः
निरूहमात्रा प्रसृतार्धमाद्ये वर्षे ततोऽर्धप्रसृताभिवृद्धिः ३१
आद्वादशात् स्यात् प्रसृताभिवृद्धिराष्टादशाद् द्वादशतः परं स्यात्
आसप्ततेस्तद्विहितं प्रमाणमतः परं षोडशवद्विधेयम् ३२
निरूहमात्रा प्रसृतप्रमाणा बाले च वृद्धे च मृदुर्विशेषः
नात्युच्छ्रितं नाप्यतिनीचपादं सपादपीठं शयनं प्रशस्तम् ३३
प्रधानमृद्वास्तरणोपपन्नं प्राक्शीर्षकं शुक्लपटोत्तरीयम्
भोज्यं पुनर्व्याधिमवेक्ष्य सम्यक् प्रकल्पयेद्यूषपयोरसाद्यैः ३४
सर्वेषु विद्याद्विधिमेतमाद्यं वक्ष्यामि बस्तीनत उत्तरीयान्
द्विपञ्चमूलस्य रसोऽम्लयुक्तः सच्छागमांसस्य सपूर्वपेष्यः ३५
त्रिस्नेहयुक्तः प्रवरो निरूहः सर्वानिलव्याधिहरः प्रदिष्टः
स्थिरादिवर्गस्य बलापटोलत्रायन्तिकैरण्डयवैर्युतस्य ३६
प्रस्थो रसाच्छागरसार्धयुक्तः साध्यः पुनः प्रस्थसमस्तु यावत्
प्रियङ्गुकृष्णाघनकल्कयुक्तः सतैलसर्पिर्मधुसैन्धवश्च ३७
स्याद्दीपनो मांसबलप्रदश्च चक्षुर्बलं चापि ददाति बस्तिः
एरण्डमूलं त्रिपलं पलानि ह्रस्वानि मूलानि च यानि पञ्च ३८
रास्नाश्वगन्धातिबलागुडूचीपुनर्नवारग्वधदेवदारु
भागाः पलांशा मदनाष्टयुक्ता जलद्विकंसे क्वथितेऽष्टशेषे ३९
पेष्याः शताह्वा हपुषा प्रियङ्गुः सपिप्पलीकं मधुकं बला च
रसाञ्जनं वत्सकबीजमुस्तं भागाक्षमात्रं लवणांशयुक्तं ४०
समाक्षिकस्तैलयुतः समूत्रो बस्तिर्नृणां दीपनलेखनीयः
जङ्घोरुपादत्रिकपृष्ठशूलं कफावृतिं मारुतनिग्रहं च ४१
विण्मूत्रवातग्रहणं सशूलमाध्मानतामश्मरिशर्करे च
आनाहमर्शोग्रहणीप्रदोषानेरण्डबस्तिः शमयेत् प्रयुक्तः ४२
चतुष्पले तैलघृतस्य भृष्टाच्छागाच्छतार्धौ दधिदाडिमाम्लः
रसः सपेष्यो बलमांसवर्णरेतोग्निदश्चान्ध्यशिर्रोर्तिशस्तः ४३
जलद्विकंसेऽष्टपलं पलाशात् पक्त्वा रसोऽर्धाढकमात्रशेषः
कल्कैर्वचामागधिकापलाभ्यां युक्तः शताह्वाद्विपलेन चापि ४४
ससैन्धवः क्षौद्रयुतः सतैलो देयो निरूहो बलवर्णकारी
आनाहपार्श्वामययोनिदोषान् गुल्मानुदावर्तरुजं च हन्यात् ४५
यष्ट्याह्वयस्याष्टपलेन सिद्धं पयः शताह्वाफलपिप्पलीभिः
युक्तं ससर्पिर्मधु वातरक्तवैस्वर्यवीसर्पहितो निरूहः ४६
यष्ट्याह्वलोध्राभयचन्दनैश्च शृतं पयोऽग्र्यं कमलोत्पलैश्च
सशर्करं क्षौद्रयुतं सुशीतं पित्तामयान् हन्ति सजीवनीयम् ४७
द्विकार्षिकाश्चन्दनपद्मकर्धियष्ट्याह्वरास्नावृषसारिवाश्च
सलोध्रमञ्जिष्ठबलायवासस्थिराशरादिद्वयपञ्चमूलम् ४८
तोये समुत्क्वाथ्य रसेन तेन शृतं पयोऽर्धाढकमम्बुहीनम्
जीवन्तिमेदर्द्धिशतावरीभिर्वीराद्विकाकोलिकशेरुकाभिः ४९
सितोपलाजीवकयुग्मरेणुप्रपौण्डरीकैः कमलोत्पलैश्च
लोध्रात्मगुप्तामधुकैर्विदारीमुञ्जातकैः केशरचन्दनैश्च ५०
पिष्टैर्घृतक्षौस्द्रयुतैर्निरूहं ससैन्धवं शीतलमेव दद्यात्
प्रत्यागते धन्वरसेन शालीन् क्षीरेण वाऽद्यात् परिषिक्तगात्रः ५१
दाहातिसारप्रदरास्रपित्तहृत्पाण्डुरोगान् विषमज्वरं च
सगुल्ममूत्रग्रहकामलादीन् सर्वामयान् पित्तकृतान्निहन्ति ५२
द्राक्षर्द्धिकाश्मर्यमधूकसेव्यैः ससारिवाचन्दनशीतपाक्यैः
पयः शृतं श्रावणिमुद्गपर्णीतुगात्मगुप्तामधुयष्टिकल्कैः ५३
गोधूमचूर्णैश्च तथाऽक्षमात्रैः सक्षौद्रसर्पिर्मधुयष्टितैलैः
तथाविदारीक्षुरसैर्गुडेन बस्तिं युतं पित्तहरं विदध्यात् ५४
हृन्नाभिपार्श्वोत्तमदेहदाहे दाहेऽन्तरस्थे च सकृच्छ्रमूत्रे
क्षीणे क्षते रेतसि चापि नष्टे पैत्तेऽतिसारे च नृणां प्रशस्तः ५५
कोषातकारग्वधदेवदारुशार्ङ्गेष्टमूर्वाकुटजार्कपाठाः
पक्त्वा कुलत्थान् बृहतीं च तोये रसस्य तस्य प्रसृता दश स्युः ५६
तान् सर्षपैलामदनैः सकुष्ठैरक्षप्रमाणैः प्रसृतैश्च युक्तान्
फलाह्वतैलस्य समाक्षिकस्य क्षारस्य तैलस्य च सार्षपस्य ५७
दद्यान्निरूहं कफरोगिणे ज्ञो मन्दाग्नये चाप्यशनद्विषे च
पटोलपथ्यामरदारुभिर्वा सपिप्पलीकैः क्वथितैर्जलेऽग्नौ ५८
द्विपञ्चमूले त्रिफलां सबिल्वां फलानि गोमूत्रयुतः कषायः
कलिङ्गपाठाफलमुस्तकल्कः ससैन्धवः क्षारयुतः सतैलः ५९
निरूहमुख्यः कफजान् विकारान् सपाण्डुरोगालसकामदोषान्
हन्यात्तथा मारुतमूत्रसङ्गं बस्तेस्तथाऽऽटोपमथापि घोरम् ६०
रास्नामृतैरण्डविडङ्गदार्वीसप्तच्छदोशीरसुराह्वनिम्बैः
शम्पाकभूनिम्बपटोलपाठातिक्ताखुपर्णीदशमूलमुस्तैः ६१
त्रायन्तिकाशिग्रुफलत्रिकैश्च क्वाथः सपिण्डीतकतोयमूत्रः
यष्ट्याह्वकृष्णाफलिनीशताह्वारसाञ्जनश्वेतवचाविडङ्गैः ६२
कलिङ्गपाठाम्बुदसैन्धवैश्च कल्कैः ससर्पिर्मधुतैलमिश्रः
अयं निरूहः क्रिमिकुष्ठमेहब्रध्नोदराजीर्णकफातुरेभ्यः ६३
रूक्षौषधैरप्यपतर्पितेभ्य एतेषु रोगेष्वपि सत्सु दत्तः
निहत्य वातं ज्वलनं प्रदीप्य विजित्य रोगांश्च बलं करोति ६४
पुनर्नवैरण्डवृषाश्मभेदवृश्चीरभूतीकबलापलाशाः
द्विपञ्चमूलं च पलांशिकानि क्षुण्णानि धौतानि फलानि चाष्टौ ६५
बिल्वं यवान् कोलकुलत्थधान्यफलानि चैव प्रसृतोन्मितानि
पयोजलद्व्याढकवच्छृतं तत् क्षीरावशेषं सितवस्त्रपूतम् ६६
वचाशताह्वामरदारुकुष्ठयष्ट्याह्वसिद्धार्थकपिप्पलीनाम्
कल्कैर्यवान्या मदनैश्च युक्तं नात्युष्णशीतं गुडसैन्धवाक्तम् ६७
क्षौद्रस्य तैलस्य च सर्पिषश्च तथैव युक्तं प्रसृतैस्त्रिभिश्च
दद्यान्निरूहं विधिना विधिज्ञः स सर्वसंसर्गकृतामयघ्नः ६८
स्निग्धोष्ण एकः पवने समांसो द्वौ स्वादुशीतौ पयसा च पित्ते
त्रयः समूत्रा कटुकोष्णतीक्ष्णाः कफे निरूहा न परं विधेयाः ६९
रसेन वाते प्रतिभोजनं स्यात् क्षीरेण पित्ते तु कफे च यूषैः
तथाऽनुवास्येषु च बिल्वतैलं स्याज्जीवनीयं फलसाधितं च ७०
इतीदमुक्तं निखिलं यथावद्बस्तिप्रदानस्य विधानमग्र्यम्
योऽधीत्य विद्वानिह बस्तिकर्म करोति लोके लभते स सिद्धिम् ७१
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने
बस्तिसूत्रीयसिद्धिर्नाम तृतीयोऽध्यायः ३

चतुर्थोऽध्यायः
अथातः स्नेहव्यापत्सिद्धिं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
स्नेहबस्तीन्निबोधेमान् वातपित्तकफापहान्
मिथ्याप्रणिहितानां च व्यापदः सचिकित्सिताः ३
दशमूलं बलां रास्नामश्वगन्धां पुनर्नवाम्
गुडूच्येरण्डभूतीकभार्गीवृषकरोहिषम् ४
शतावरीं सहचरं काकनासां पलांशिकम्
यवमाषातसीकोलकुलत्थान् प्रसृतोन्मितान् ५
चतुर्द्रोणेऽम्भसः पक्त्वा द्रोणशेषेण तेन च
तैलाढकं समक्षीरं जीवनीयैः पलोन्मितैः ६
अनुवासनमेतद्धि सर्ववातविकारनुत्
अनूपानां वसा तद्वज्जीवनीयोपसाधिता ७
शताह्वायवबिल्वाम्लैः सिद्धं तैलं समीरणे
सैन्धवेनाग्नितप्तेन तप्तं चानिलनुद्धृतम् ८
जीवन्तीं मदनं मेदां श्रावणीं मधुकं बलाम्
शताह्वर्षभकौ कृष्णां काकनासां शतावरीम् ९
स्वगुप्तां क्षीरकाकोलीं कर्कटाख्यां शटीं वचाम्
पिष्ट्वा तैलं घृतं क्षीरे साधयेत्तच्चतुर्गुणे १०
बृंहणं वातपित्तघ्नं बलशुक्राग्निवर्धनम्
मूत्ररेतोरजोदोषान् हरेत्तदनुवासनम् ११
लाभतश्चन्दनाद्यैश्च पिष्टैः क्षीरचतुर्गुणम्
तैलपादं घृतं सिद्धं पित्तघ्नमनुवासनम् १२
सैन्धवं मदनं कुष्ठं शताह्वां निचुलं वचाम्
ह्रीबेरं मधुकं भार्गीं देवदारु सकटफलम् १३
नागरं पुष्करं मेदां चविकां चित्रकं शटीम्
विडङ्गातिविषे श्यामां हरेणुं नीलिनीं स्थिराम् १४
बिल्वाजमोदे कृष्णां च दन्तीं रास्नां च पेषयेत्
साध्यमेरण्डजं तैलं तैलं वा कफरोगनुत् १५
ब्रध्नोदावर्तगुल्मार्शःप्लीहमेहाढ्यमारुतान्
आनाहमश्मरीं चैव हन्यात्तदनुवासनात् १६
मदनैर्वाऽम्लसंयुक्तैर्बिल्वाद्येन गणेन वा
तैलं कफहरैर्वाऽपि कफघ्नं कल्पयेद्भिषक् १७
विडङ्गैरण्डरजनीपटोलत्रिफलामृताः
जातीप्रवालनिर्गुण्डीदशमूलाखपर्णिकाः १८
निम्बपाठासहचरशम्पाककरवीरकाः
एषां क्वाथेन विपचेत्तैलमेभिश्च कल्कितैः १९
फलबिल्वत्रिवृत्कृष्णारास्नाभूनिम्बदारुभिः
सप्तपर्णवचोशीरदार्वीकुष्ठकलिङ्गकैः २०
लतागौरीशताह्वाग्निशटीचोरकपौष्करैः
तत् कुष्ठानि क्रिमीन् मेहानर्शांसि ग्रहणीगदम् २१
क्लीबतां विषमाग्नित्वं मलं दोषत्रयं तथा
प्रयुक्तं प्रणुदत्याशु पानाभ्यङ्गानुवासनैः २२
व्याधिव्यायामकर्माध्वक्षीणाबलनिरोजसाम्
क्षीणशुक्रस्य चातीव स्नेहबस्तिर्बलप्रदः २३
पादजङ्घोरुपृष्ठांसकटीनां स्थिरतां पराम्
जनयेदप्रजानां च प्रजां स्त्रीणां तथा नृणाम् २४
वातपित्तकफात्यन्नपुरीषैरावृतस्य च
अभुक्ते च प्रणीतस्य स्नेहबस्तेः षडापदः २५
शीतोऽल्पो वाऽधिके वाते पित्तेऽत्युष्णः कफे मृदुः
अतिभुक्ते गुरुर्वर्चःसंचयेऽल्पबलस्तथा २६
दत्तस्तैरावृतः स्नेहो न यात्यभिभवादपि
अभुक्तेऽनावृतत्वाच्च यात्यूर्ध्वं तस्य लक्षणम् २७
अङ्गमर्दज्वराध्मानशीतस्तम्भोरुपीडनैः
पार्श्वरुग्वेष्टनैर्विद्यात् स्नेहं वातावृतं भिषक् २८
स्निग्धाम्ललवणोष्णैस्तं रास्नापीतद्रुतैलिकैः
सौवीरकसुराकोलकुलत्थयवसाधितैः २९
निरूहैर्निर्हरेत् सम्यक् समूत्रैः पाञ्चमूलिकैः
ताभ्यामेव च तैलाभ्यां सायं भुक्तेऽनुवासयेत् ३०
दाहरागतृषामोहतमकज्वरदूषणैः
विद्यात् पित्तावृतं स्वादुतिक्तैस्तं बस्तिभिर्हरेत् ३१
तन्द्राशीतज्वरालस्यप्रसेकारुचिगौरवैः
समूर्च्छाग्लानिभिर्विद्याच्छलेष्मणा स्नेहमावृतम् ३२
कषायकटुतीक्ष्णोष्णैः सुरामूत्रोपसाधितैः
फलतैलयुतैः साम्लैर्बस्तिभिस्तं विनिर्हरेत् ३३
छर्दिमूर्च्छारुचिग्लानिशूलनिद्राङ्गमर्दनैः
आमलिङ्गैः सदाहैस्तं विद्यादत्यशनावृतम् ३४
कटूनां लवणानां च क्वाथैश्चूर्णैश्च पाचनम्
विरेको मृदुरत्रामविहिता च क्रिया हिता ३५
विण्मूत्रानिलसङ्गार्तिगुरुत्वाध्मानहृद्ग्रहैः
स्नेहं विडावृतं ज्ञात्वा स्नेहस्वेदैः सवर्तिभिः ३६
श्यामाबिल्वादिसिद्धैश्च निरूहैः सानुवासनैः
निर्हरेद्विधिना सम्यगुदावर्तहरेण च ३७
अभूक्ते शून्यपायौ वा वेगात् स्नेहोऽतिपीडितः
धावत्यूर्ध्वं ततः कण्ठादूर्ध्वेभ्यः खेभ्य एत्यपि ३८
मूत्रश्यामात्रिवृत्सिद्धो यवकोलकुलत्थवान्
तत्सिद्धतैल इष्टोऽत्र निरूहः सानुवासनः ३९
कण्ठादागच्छतः स्तम्भकण्ठग्रहविरेचनैः
छर्दिघ्नीभिः क्रियाभिश्च तस्य कार्यं निवर्तनम् ४०
यस्य नोपद्रवं कुर्यात् स्नेहबस्तिरनिःसृतः
सर्वोऽल्पो वाऽऽवृतो रौक्ष्यादुपेक्ष्यः स विजानता ४१
युक्तस्नेहं द्रवोष्णं च लघुपथ्योपसेवनम्
भुक्तवान् मात्रया भोज्यमनुवास्यस्त्र्यहात्त्र्यहात् ४२
धान्यनागरसिद्धं हि तोयं दद्याद्विचक्षणः
व्युषिताय निशां कल्यमुष्णं वा केवलं जलम् ४३
स्नेहाजीर्णं जरयति श्लेष्माणं तद्भिनत्ति च
मारुतस्यानुलोम्यं च कुर्यादुष्णोदकं नृणाम् ४४
वमने च विरेके च निरूहे सानुवासने
तस्मादुष्णोदकं देयं वातश्लेष्मोपशान्तये ४५
रूक्षनित्यस्तु दीप्ताग्निर्व्यायामी मारुतामयी
वङ्क्षणश्रोण्युदावृत्तवाताश्चार्हा दिने दिने ४६
एषां चाशु जरां स्नेहो यात्यम्बु सिकतास्विव
अतोऽन्येषां त्र्यहात् प्रायः स्नेहं पचति पावकः ४७
न त्वामं प्रणयेत् स्नेहं स ह्यभिष्यन्दयेद्गुदम्
सावशेषं च कुर्वीत वायुः शेषे हि तिष्ठति ४८
न चैव गुदकण्ठाभ्यां दद्यात् स्नेहमनन्तरम्
उभयस्मात् समं गच्छन् वातमग्निं च दूषयेत् ४९
स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत्
उत्क्लेशाग्निवधौ स्नेहान्निरूहात् पवनाद्भयम् ५०
तस्मान्निरूढः संस्नेह्यो निरूह्यश्चानुवासितः
स्नेहशोधनयुक्त्यैवं बस्तिकर्म त्रिदोषनुत् ५१
कर्मव्यायामभाराध्वयानस्त्रीकर्शितेषु च
दुर्बले वातभग्ने च मात्राबस्तिः सदा मतः ५२
यथेष्टाहारचेष्टस्य सर्वकालं निरत्ययः
ह्रस्वायाः स्नेहमात्राया मात्राबस्तिः समो भवेत् ५३
बल्यं सुखोपचर्यं च सुखं सृष्टपुरीषकृत्
स्नेहमात्राविधानं हि बृंहणं वातरोगनुत् ५४
तत्र श्लोकौ--
वातादीनां शमायोक्ताः प्रवराः स्नेहबस्तयः
तेषां चाज्ञप्रयुक्तानां व्यापदः सचिकित्सिताः ५५
प्राग्भोज्यं स्नेहबस्तेर्यद् ध्रुवं येऽर्हास्त्र्यहाच्च ये
स्नेहबस्तिविधिश्चोक्तो मात्राबस्तिविधिस्तथा ५६
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने
स्नेहव्यापत्सिद्धिर्नाम चतुर्थोऽध्यायः ४

पञ्चमोऽध्यायः
अथातो नेत्रबस्तिव्यापत्सिद्धिं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
अथ नेत्राणि बस्तींश्च शृणु वर्ज्यानि कर्मसु
नेत्रस्याज्ञप्रणीतस्य व्यापदः सचिकित्सिताः ३
ह्रस्वं दीर्घं तनु स्थूलं जीर्णं शिथिलबन्धनम्
पार्श्वच्छिद्रं तथा वक्रमष्टौ नेत्राणि वर्जयेत् ४
अप्राप्त्यतिगतिक्षोभकर्षणक्षणनस्रवाः
गुदपीडा गतिर्जिह्मा तेषां दोषा यथाक्रमम् ५
विषममांसलच्छिन्नस्थूलजालिकवातलाः
स्निग्धः क्लिन्नश्च तानष्टौ बस्तीन् कर्मसु वर्जयेत् ६
गतिवैषम्यविस्रत्वस्रावदौर्ग्राह्यनिस्रवाः
फेनिलच्युत्यधार्यत्वं बस्तेः स्युर्बस्तिदोषतः ७
सवातातिद्रुतोत्क्षिप्ततिर्यगुल्लुप्तकम्पिताः
अतिबाह्यगमन्दातिवेगदोषाः प्रणेतृतः ८
अनुच्छ्वास्य च बद्धे वा दत्ते निःशेष एव वा
प्रविश्य कुपितो वायुः शूलतोदकरो भवेत् ९
तत्राभ्यङ्गो गुदे स्वेदो वातघ्नान्यशनानि च
द्रुतं प्रणीते निष्कृष्टे सहसोत्क्षिप्त एव वा १०
स्यात् कटीगुदजङ्घार्तिबस्तिस्तम्भोरुवेदनाः
भोजनं तत्र वातघ्नं स्नेहाः स्वेदाः सबस्तयः ११
तिर्यग्वल्यावृतद्वारे बद्धे वाऽपि न गच्छति
नेत्रे तदृजु निष्कृष्य संशोध्य च प्रवेशयेत् १२
पीड्यमानेऽन्तरा मुक्ते गुदे प्रतिहतोऽनिलः
उरःशिरोर्तिमूर्वोश्च सदनं जनयेद्बली १३
बस्तिः स्यात्तत्र बिल्वादिफलश्यामादिमूत्रवान्
स्याद्दाहो दवथुः शोफः कम्पनाभिहते गुदे १४
कषायमधुराः शीताः सेकास्तत्र सबस्तयः
अतिमात्रप्रणीतेन नेत्रेण क्षणनाद्बलेः १५
स्यात् सार्ति दाहनिस्तोदगुदवर्चःप्रवर्तनम्
तत्र सर्पिः पिचुः क्षीरं पिच्छाबस्तिश्च शस्यते १६
न भावयति मन्दस्तु बाह्यस्त्वाशु निवर्तते
स्नेहस्तत्र पुनः सम्यक् प्रणेयः सिद्धिमिच्छता १७
अतिप्रपीडितः कोष्ठे तिष्ठत्यायाति वा गलम्
तत्र बस्तिर्विरेकश्च गलपीडादि कर्म च १८
तत्र श्लोकः--
नेत्रबस्तिप्रणेतॄणां दोषानेतान् सभेषजान्
वेत्ति यस्तेन मतिमान् बस्तिकर्माणि कारयेत् १९
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने
नेत्रबस्तिव्यापत्सिद्धिर्नाम पञ्चमोऽध्यायः ५

षष्ठोऽध्यायः
अथाऽतो वमनविरेचनव्यापत्सिद्धिं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
अथ शोधनयोः सम्यग्विधिमूर्ध्वानुलोमयोः
असम्यक्कृतयोश्चैव दोषान् वक्ष्यामि सौषधान् ३
अत्युष्णवर्षशीता हि ग्रीष्मवर्षाहिमागमाः
तदन्तरे प्रावृडाद्यास्तेषां साधारणास्त्रयः ४
प्रावृट् शुचिनभौ ज्ञेयौ शरदूर्जसहौ पुनः
तपस्यश्च मधुश्चैव वसन्तः शोधनं प्रति ५
एतानृतून् विकल्प्यैवं दद्यात् संशोधनं भिषक्
स्वस्थवृत्तमभिप्रेत्य व्याधौ व्याधिवशेन तु ६
कर्मणा वमनादीनामन्तरेष्वन्तरेषु च
स्नेहस्वेदौ प्रयुञ्जीत स्नेहं चान्ते प्रयोजयेत् ७
विसर्पपिडकाशोफकामलापाण्डुरोगिणः
अभिघातविषार्तांश्च नातिस्निग्धान् विरेचयेत् ८
नातिस्निग्धशरीराय दद्यात् स्नेहविरेचनम्
स्नेहोत्क्लिष्टशरीराय रूक्षं दद्याद्विरेचनम् ९
स्नेहस्वेदोपपन्नेन जीर्णे मात्रावदौषधम्
एकाग्रमनसा पीतं सम्यग्योगाय कल्पते १०
स्निग्धात् पात्राद्यथा तोयमयत्नेन प्रणुद्यते
कफादयः प्रणुद्यन्ते स्निग्धाद्देहात्तथौषधैः ११
आर्द्रं काष्ठं यथा वह्निर्विष्यन्दयति सर्वतः
तथा स्निग्धस्य वै दोषान् स्वेदो विष्यन्दयेत् स्थिरान् १२
क्लिष्टं वासो यथोत्क्लिश्य मलः संशोध्यतेऽम्भसा
स्नेहस्वेदैस्तथोत्क्लेश्य शोध्यते शोधनैर्मलः १३
अजीर्णे वर्धते ग्लानिर्विबन्धश्चापि जायते
पीतं संशोधनं चैव विपरीतं प्रवर्तते १४
अल्पमात्रं महावेगं बहुदोषहरं सुखम्
लघुपाकं सुखास्वादं प्रीणनं व्याधिनाशनम् १५
अविकारि च व्यापत्तौ नातिग्लानिकरं च यत्
गन्धवर्णरसोपेतं विद्यान्मात्रावदौषधम् १६
विधूय मानसान् दोषान् कामादीनशुभोदयान्
एकाग्रमनसा पीतं सम्यग्योगाय कल्पते १७
नरः श्वो वमनं पाता भुञ्जीत कफवर्धनम्
सुजरं द्रवभूयिष्टं लघ्वशीतं विरेचनम् १८
उत्क्लिष्टाल्पकफत्वेन क्षिप्रं दोषाः स्रवन्ति हि
पीतौषधस्य तु भिषक् शुद्धिलिङ्गानि लक्षयेत् १९
ऊर्ध्वं कफानुगे पित्ते विट्पित्तेऽनुकफे त्वधः
हृतदोषं वदेत् कार्श्यदौर्बल्ये चेत् सलाघवे २०
वामयेत्तु ततः शेषमौषधं न त्वलाघवे
स्तैमित्येऽनिलसङ्गे च निरुद्गारेऽपि वामयेत् २१
आलाघवात्तनुत्वाच्च कफस्यापत् परं भवेत्
वमिते वर्धते वह्निः शमं दोषा व्रजन्ति हि २२
वमितं लङ्घयेत् सम्यग्जीर्णलिङ्गान्यलक्षयन्
तानि दृष्ट्वा तु पेयादिक्रमं कुर्यान्न लङ्घनम् २३
संशोधनाभ्यां शुद्धस्य हृतदोषस्य देहिनः
यात्यग्निर्मन्दतां तस्मात् क्रमं पेयादिमाचरेत् २४
कफपित्ते विशुद्धेऽल्पं मद्यपे वातपैत्तिके
तर्पणादिक्रमं कुर्यात् पेयाऽभिष्यन्दयेद्धि तान् २५
अनुलोमोऽनिलः स्वास्थ्यं क्षुत्तृष्णोर्जो मनस्विता
लघुत्वमिन्द्रियोद्गारशुद्धिर्जीर्णौषधाकृतिः २६
क्लमो दाहोऽङ्गसदनं भ्रमो मूर्च्छा शिरोरुजा
अरतिर्बलहानिश्च सावशेषौषधाकृतिः २७
अकालेऽल्पातिमात्रं च पुराणं न च भावितम्
असम्यक्संस्कृतं चैव व्यापद्येतौषधं द्रुतम् २८
आध्मानं परिकर्तिश्च स्रावो हृद्गात्रयोर्ग्रहः
जीवादानं सविभ्रंशः स्तम्भः सोपद्रवः क्लमः २९
अयोगादतियोगाच्च दशैता व्यापदो मताः
प्रेष्यभैषज्यवैद्यानां वैगुण्यादातुरस्य च ३०
योगः सम्यक्प्रवृत्तिः स्यादतियोगोऽतिवर्तनम्
अयोगः प्रातिलोम्येन न चाल्पं वा प्रवर्तनम् ३१
श्लेष्मोत्क्लिष्टेन दुर्गन्धमहृद्यमति वा बहु
विरेचनमजीर्णे च पीतमूर्ध्वं प्रवर्तते ३२
क्षुधार्तमृदुकोष्ठाभ्यां स्वल्पोत्क्लिष्टकफेन वा
तीक्ष्णं पीतं स्थितं क्षुब्धं वमनं स्याद्विरेचनम् ३३
प्रातिलोम्येन दोषाणां हरणात्ते ह्यकृत्स्नशः
अयोगसंज्ञे कृच्छ्रेण याति दोषो न वाऽल्पशः ३४
पीतौषधो न शुद्धश्चेज्जीर्णे तस्मिन् पुनः पिबेत्
औषधं न त्वजीर्णेऽन्यद्भयं स्यादतियोगतः ३५
कोष्ठस्य गुरुतां ज्ञात्वा लघुत्वं बलमेव च
अयोगे मृदु वा दद्यादौषधं तीक्ष्णमेव वा ३६
वमनं न तु दुश्छर्दं दुष्कोष्ठं न विरेचनम्
पाययेतौषधं भूयो हन्यात् पीतं पुनर्हि तौ ३७
अस्निग्धास्विन्नदेहस्य रूक्षस्यानवमौषधम्
दोषानुत्क्लिश्य निर्हर्तुमशक्तं जनयेद्गदान् ३८
विभ्रंशं श्वयथुं हिक्कां तमसो दर्शनं भृशम्
पिण्डिकोद्वेष्टनं कण्डूमूर्वोः सादं विवर्णताम् ३९
स्निग्धस्विन्नस्य चात्यल्पं दीप्ताग्नेर्जीर्णमौषधम्
शीतैर्वा स्तब्धमामे वा दोषानुत्क्लिश्य नाहरेत् ४०
तानेव जनयेद्रोगानयोगः सर्व एव सः
विज्ञाय मतिमांस्तत्र यथोक्तां कारयेत् क्रियाम् ४१
तं तैललवणाभ्यक्तं स्विन्नं प्रस्तरसङ्करैः
पाययेत पुनर्जीर्णे समूत्रैर्वा निरूहयेत् ४२
निरूढं च रसैर्धान्वैर्भोजयित्वाऽनुवासयेत्
फलमागधिकादारुसिद्धतैलेन मात्रया ४३
स्निग्धं वातहरैः स्नेहैः पुनस्तीक्ष्णेन शोधयेत्
न चातितीक्ष्णेन ततो ह्यतियोगस्तु जायते ४४
अतितीक्ष्णं क्षुधार्तस्य मृदुकोष्ठस्य भेषजम्
हृत्वाऽऽशु विट्पित्तकफान् धातून्विस्रावयेद्द्रवान् ४५
बलस्वरक्षयं दाहं कण्ठशोषं भ्रमं तृषाम्
कुर्याच्च मधुरैस्तत्र शेषमौषधमुल्लिखेत् ४६
वमने तु विरेकः स्याद्विरेके वमनं पुनः
परिषेकावगाहाद्यैः सुशीतैः स्तम्भयेच्च तत् ४७
कषायमधुरैः शीतैरन्नपानौषधैस्तथा
रक्तपित्तातिसारघ्नैर्दाहज्वरहरैरपि ४८
अञ्जनचन्दनोशीरमज्जासृक्शर्करोदकम्
लाजचूर्णैः पिबेन्मन्थमतियोगहरं परम् ४९
शुङ्गाभिर्वा वटादीनां सिद्धां पेयां समाक्षिकाम्
वर्चःसांग्राहिकैः सिद्धं क्षीरं भोज्यं च दापयेत् ५०
जाङ्गलैर्वा रसैर्भोज्यं पिच्छाबस्तिश्च शस्यते
मधुरैरनुवास्यश्च सिद्धेन क्षीरसर्पिषा ५१
वमनस्यातियोगे तु शीताम्बुपरिषेचितः
पिबेत् फलरसैर्मन्थं सघृतक्षौद्रशर्करम् ५२
सोद्गारायां भृशं वम्यां मूर्च्छायां धान्यमुस्तयोः
समधूकाञ्जनं चूर्णं लेहयेन्मधुसंयुतम् ५३
वमनेऽन्तःप्रविष्टायां जिह्वायां कवलग्रहाः
स्निग्धाम्ललवणैर्हृद्यैर्यूषक्षीररसैर्हिताः ५४
फलान्यम्लानि खादेयुस्तस्य चान्येऽग्रतो नराः
निःसृतां तु तिलद्राक्षाकल्कलिप्तां प्रवेशयेत् ५५
वाग्ग्रहानिलरोधेषु घृतमांसोपसाधिताम्
यवागूं तनुकां दद्यात् स्नेहस्वेदौ च बुद्धिमान् ५६
वमितश्च विरिक्तश्च मन्दाग्निश्च विलङ्घितः
अग्निप्राणविवृद्ध्यर्थं क्रमं पेयादिकं भजेत् ५७
बहुदोषस्य रूक्षस्य हीनाग्नेरल्पमौषधम्
सोदावर्तस्य चोत्क्लिश्य दोषान्मार्गान्निरुध्य च ५८
भृशमाध्मापयेन्नाभिं पृष्ठपार्श्वशिरोरुजम्
श्वासविण्मूत्रवातानां सङ्गं कुर्याच्च दारुणम् ५९
अभ्यङ्गस्वेदवर्त्यादि सनिरूहानुवासनम्
उदावर्तहरं सर्वं कर्माध्मातस्य शस्यते ६०
स्निग्धेन गुरुकोष्ठेन सामे बलवदौषधम्
क्षामेण मृदुकोष्ठेन श्रान्तेनाल्पबलेन वा ६१
पीतं गत्वा गुदं साममाशु दोषं निरस्य च
तीव्रशूलां सपिच्छास्रां करोति परिकर्तिकाम् ६२
लङ्घनं पाचनं सामे रूक्षोष्णं लघु भोजनम्
बृंहणीयो विधिः सर्वः क्षामस्य मधुरस्तथा ६३
आमे जीर्णेऽनुबन्धश्चेत् क्षाराम्लं लघु शस्यते
पुष्पकासीसमिश्रं वा क्षारेण लवणेन वा ६४
सदाडिमरसं सर्पिः पिबेद्वातेऽधिके सति
दध्यम्लं भोजने पाने संयुक्तं दाडिमत्वचा ६५
देवदारुतिलानां वा कल्कमुष्णाम्बुना पिबेत्
अश्वत्थोदुम्बरप्लक्षकदम्बैर्वा शृतं पयः ६६
कषायमधुरं बस्तिं पिच्छाबस्तिमथापि वा
यष्टीमधुकसिद्धं वा स्नेहबस्तिं प्रदापयेत् ६७
अल्पं तु बहुदोषस्य दोषमुत्क्लिश्य भेषजम्
अल्पाल्पं स्रावयेत् कण्डूं शोफं कुष्ठानि गौरवम् ६८
कुर्याच्चाग्निबलोत्क्लेशस्तैमित्यारुचिपाण्डुताः
परिस्रावः स तं दोषं शमयेद्वामयेदपि ६९
स्नेहितं वा पुनस्तीक्ष्णं पाययेत विरेचनम्
शुद्धे चूर्णासवारिष्टान् संस्कृतांश्च प्रदापयेत् ७०
पीतौषधस्य वेगानां निग्रहान्मारुतादयः
कुपिता हृदयं गत्वा घोरं कुर्वन्ति हृद्ग्रहम् ७१
स हिक्काकासपार्श्वार्तिदैन्यलालाक्षिविभ्रमैः
जिह्वां खादति निःसंज्ञो दन्तान् किटिकिटापयन् ७२
न गच्छेद्विभ्रमं तत्र वामयेदाशु तं भिषक्
मधुरैः पित्तमूर्च्छार्तं कटुभिः कफमूर्च्छितम् ७३
पाचनीयैस्ततश्चास्य दोषशेषं विपाचयेत्
कायाग्निं च बलं चास्य क्रमेणोत्थापयेत्ततः ७४
पवनेनातिवमतो हृदयं यस्य पीड्यते
तस्मै स्निग्धाम्ललवणं दद्यात् पित्तकफेऽन्यथा ७५
पीतौषधस्य वेगानां निग्रहेण कफेन वा
रुद्धोऽति वा विशुद्धस्य गृह्णात्यङ्गानि मारुतः ५६
स्तम्भवेपथुनिस्तोदसादोद्वेष्टनमन्थनैः
तत्र वातहरं सर्वं स्नेहस्वेदादि कारयेत् ७७
अतितीक्ष्णं मृदौ कोष्ठे लघुदोषस्य भेषजम्
दोषान् हृत्वा विनिर्मथ्य जीवं हरति शोणितम् ७८
तेनान्नं मिश्रितं दद्याद्वायसाय शुनेऽपि वा
भुङ्क्ते तच्चेद्वदेज्जीवं न भुङ्क्ते पित्तमादिशेत् ७९
शुक्लं वा भावितं वस्त्रमावानं कोष्णवारिणा
प्रक्षालितं विवर्णं स्यात् पित्ते शुद्धं तु शोणिते ८०
तृष्णामूर्च्छामदार्तस्य कुर्यादामरणात् क्रियाम्
तस्य पित्तहरीं सर्वामतियोगे च या हिता ८१
मृगगोमहिषाजानां सद्यस्कं जीवतामसृक्
पिबेज्जीवाभिसन्धानं जीवं तद्ध्याशु गच्छति ८२
तदेव दर्भमृदितं रक्तं बस्तिं प्रदापयेत्
श्यामाकाश्मर्यबदरीदूर्वोशीरैः शृतं पयः ८३
घृतमण्डाञ्जनयुतं शीतं बस्तिं प्रदापयेत्
पिच्छाबस्तिं सुशीतं वा घृतमण्डानुवासनम् ८४
गुदं भ्रष्टं कषायैश्च स्तम्भयित्वा प्रवेशयेत्
साम गान्धर्वशब्दांश्च संज्ञानाशेऽस्य कारयेत् ८५
यदा विरेचनं पीतं विडन्तमवतिष्ठते
वमनं भेषजान्तं वा दोषानुत्क्लिश्य नावहेत् ८६
तदा कुर्वन्ति कण्ड्वादीन् दोषाः प्रकुपिता गदान्
स विभ्रंशो मतस्तत्र स्याद्यथाव्याधि भेषजम् ८७
पीतं स्निग्धेन सस्नेहं तद्दोषैर्मार्दवाद्वृतम्
न वाहयति दोषांस्तु स्वस्थानात् स्तम्भयेच्च्युतान् ८८
वातसङ्गगुदस्तम्भशूलैः क्षरति चाल्पशः
तीक्ष्णं बस्तिं विरेकं वा सोऽर्हो लङ्घितपाचितः ८९
रूक्षं विरेचनं पीतं रूक्षेणाल्पबलेन वा
मारुतं कोपयित्वाऽऽशु कुर्याद्घोरानुपद्रवान् ९०
स्तम्भशूलानि घोराणि सर्वगात्रेषु मुह्यतः
स्नेहस्वेदादिकस्तत्र कार्यो वातहरो विधिः ९१
स्निग्धस्य मृदुकोष्ठस्य मृदूत्क्लिश्यौषधं कफम्
पित्तं वातं च संरुध्य सतन्द्रागौरवं क्लमम् ९२
दौर्बल्यं चाङ्गसादं च कुर्यादाशु तदुल्लिखेत्
लङ्घनं पाचनं चात्र स्निग्धं तीक्ष्णं च शोधनम् ९३
तत्र श्लोकौ--
इत्येता व्यापदः प्रोक्ताः सरूपाः सचिकित्सिताः
वमनस्य विरेकस्य कृतस्याकुशलैर्नृणां ९४
एता विज्ञाय मतिमानवस्थाश्चैव तत्त्वतः
दद्यात् संशोधनं सम्यगारोग्यार्थी नृणां सदा ९५
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने
वमनविरेचनव्यापत्सिद्धिर्नाम षष्ठोऽध्यायः ६

सप्तमोऽध्यायः
अथातो बस्तिव्यापत्सिद्धिं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
धीधैर्यौदार्यगाम्भीर्यक्षमादमतपोनिधिम्
पुनर्वसुं शिष्यगणः पप्रच्छ विनयान्वितः ३
काः कति व्यापदो बस्तेः किंसमुत्थानलक्षणाः
का चिकित्सा इति प्रश्नाञ्छ्रुत्वा तानब्रवीद्गुरुः ४
नातियोगौ क्लमाध्माने हिक्का हृत्प्राप्तिरूर्ध्वता
प्रवाहिका शिरोङ्गार्तिः परिकर्तः परिस्रवः ५
द्वादश व्यापदो बस्तेरसम्यग्योगसंभवाः
आसामेकैकशो रूपं चिकित्सां च निबोधत ६
गुरुकोष्ठेऽनिलप्राये रूक्षे वातोल्बणेऽपि वा
शीतोऽल्पलवणस्नेहद्रवमात्रो घनोऽपि वा ७
बस्तिः संक्षोभ्य तं दोषं दुर्बलत्वादनिर्हरन्
करोति गुरुकोष्ठत्वं वातमूत्रशकद्ग्रहम् ८
नाभिबस्तिरुजं दाहं हृल्लेपं श्वयथुं गुदे
कण्डूगण्डानि वैवर्ण्यमरुचिं वह्निमार्दवम् ९
तत्रोष्णायाः प्रमथ्यायाः पानं स्वेदाः पृथग्विधाः
फलवर्त्यौऽथवा कालं ज्ञात्वा शस्तं विरेचनम् १०
बिल्वमूलत्रिवृद्दारुयवकोलकुलत्थवान्
सुरादिमूत्रवान् बस्तिः सप्राक्पेष्यस्तमानयेत् ११
स्निग्धस्विन्नेऽतितीक्ष्णोष्णो मृदुकोष्ठेऽतियुज्यते
तस्य लिङ्गं चिकित्सा च शोधनाभ्यां समा भवेत् १२
पृश्निपर्णीं स्थिरां पद्मं काश्मर्यं मधुकोत्पलम्
पिष्ट्वा द्राक्षां मधूकं च क्षीरे तण्डुलधावने १३
द्राक्षायाः पक्वलोष्टस्य प्रसादे मधुकस्य च
विनीय सघृतं बस्तिं दद्याद्दाहेऽतियोगजे १४
आमशेषे निरूहेण मृदुना दोष ईरितः
मूर्च्छयत्यनिलं मार्गं रुणद्ध्यग्निं हिनस्ति च १५
क्लमं सदाहं हृच्छूलं मोहवेष्टनगौरवम्
कुर्यात् स्वेदैर्विरूक्षैस्तं पाचनैश्चात्युपाचरेत् १६
पिप्पलीकत्तृणोशीरदारुमूर्वाशृतं जलम्
पिबेत् सौवर्चलोन्मिश्रं दीपनं हृद्विशोधनम् १७
वचानागरशट्येला दधिमण्डेन मूर्च्छिताः
पेयाः प्रसन्नया वा स्युररिष्टेनासवेन वा १८
दारु त्रिकटुकं पथ्यां पलाशं चित्रकं शटीम्
पिष्ट्वा कुष्ठं च मूत्रेण पिबेत् क्षारांश्च दीपनान् १९
बस्तिमस्य विदध्याच्च समूत्रं दाशमूलिकम्
समूत्रमथवा व्यक्तलवणं माधुतैलिकम् २०
अल्पवीर्यो महादोषे रूक्षे क्रूराशये कृतः
बस्तिर्दोषावृतो रुद्धमार्गो रुन्ध्यात् समीरणम् २१
स विमार्गोऽनिलः कुर्यादाध्मानं मर्मपीडनम्
विदाहं गुरुकोष्ठस्य मुष्कवङ्क्षणवेदनाम् २२
रुणद्धि हृदयं शूलैरितश्चेतश्च धावति
श्यामाफलादिभिः कुष्ठकृष्णालवणसर्षपैः २३
धूममाषवचाकिण्वक्षारचूर्णगुडैः कृताम्
कराङ्गुष्ठनिभां वर्तिं यवमध्यां निधापयेत् २४
अभ्यक्तस्विन्नगात्रस्य तैलाक्तां स्नेहिते गुदे
अथवा लवणागारधूमसिद्धार्थकैः कृताम् २५
बिल्वादिना निरूहः स्यात् पीलुसर्षपमूत्रवान्
सरलामरदारुभ्यां सिद्धं चैवानुवासनम् २६
मृदुकोष्ठेऽबले बस्तिरतितीक्ष्णोऽतिनिर्हरन्
कुर्याद्धिक्कां हितं तस्मै हिक्काघ्नं बृंहणं च यत् २७
बलास्थिरादिकाश्मर्यत्रिफलागुडसैन्धवैः
सप्रसन्नारनालाम्लैस्तैलं पक्त्वाऽनुवासयेत् २८
कृष्णालवणयोरक्षं पिबेदुष्णाम्बुना हितम्
धूमलेहरसक्षीरस्वेदाश्चान्नं च वातनुत् २९
अतितीक्ष्णः सवातो वा न वा सम्यक् प्रपीडितः
घट्टयेद्धृदयं वस्तिस्तत्र काशकुशेत्कटैः ३०
स्यात् साम्ललवणस्कन्धकरीरबदरीफलैः
शृतैर्बस्तिर्हितः सिद्धं वातघ्नैश्चानुवासनम् ३१
वातमूत्रपुरीषाणां दत्ते वेगान्निगृह्णतः
अति वा पीडितो बस्तिर्मुखेनायाति वेगवान् ३२
मूर्च्छाविकारं तस्यादौ दृष्ट्वा शीताम्बुना मुखम्
सिञ्चेत् पार्श्वोदरं चाधः प्रमृज्याद्वीजयेच्च तम् ३३
केशेष्वालम्ब्य चाकाशे धुनुयात्त्रासयेच्च तम्
गोखराश्वगजैः सिंहै राजप्रेष्यैस्तथोरगैः ३४
उल्काभिरेवमन्यैश्च भीतस्याधः प्रवर्तते
वस्त्रपाणिग्रहैः कण्ठं रुन्ध्यान्न म्रियते यथा ३५
प्राणोदाननिरोधाद्धि प्रसिद्धतरमार्गवान्
अपानः पवनो बस्तिं तमाश्वेवापकर्षति ३६
ततः क्रमुककल्काक्षं पाययेताम्लसंयुतम्
औष्ण्यात्तैक्ष्ण्यात् सरत्वाच्च बस्तिं सोऽस्यानुलोमयेत् ३७
पक्वाशयस्थिते स्विन्ने निरूहो दाशमूलिकः
यवकोलकुलत्थैश्च विधेयो मूत्रसाधितः ३८
बिल्वादिपञ्चमूलेन सिद्धो बस्तिरुरःस्थिते
शिरःस्थे नावनं धूमः प्रच्छाद्यं सर्षपैः शिरः ३९
स्निग्धस्विन्ने महादोषे बस्तिर्मृद्वल्पभेषजः
उत्क्लिश्याल्पं हरेद्दोषं जनयेच्च प्रवाहिकाम् ४०
स बस्तिपायुशोफेन जङ्घोरुसदनेन वा
निरुद्धमारुतो जन्तुरभीक्ष्णं संप्रवाहते ४१
स्वेदाभ्यङ्गान्निरूहांश्च शोधनीयानुलोमिकान्
विदध्याल्लङ्घयित्वा तु वृत्तिं कुर्याद्विरिक्तवत् ४२
दुर्बले क्रूरकोष्ठे च तीव्रदोषे तनुर्मृदुः
शीतोऽल्पश्चावृतो दोषैर्बस्तिस्तद्विहतोऽनिलः ४३
मार्गैर्गात्राणि सन्धावन्नूर्ध्वं मूध्नि विहन्यते
ग्रीवां मन्ये च गृह्णाति शिरः कण्ठं भिनत्ति च ४४
बाधिर्यं कर्णनादं च पीनसं नेत्रविभ्रमम्
कुर्यादभ्यञ्जनं तैललवणेन यथाविधि ४५
युञ्ज्यात् प्रधमनैर्नस्यैर्धूमैर्शीर्षविरेचनम्
तीक्ष्णानुलोमिकेनाथ स्निग्धं भुक्तेऽनुवासयेत् ४६
स्नेहस्वेदैरनापाद्य गुरुस्तीक्ष्णोऽतिमात्रया
यस्य बस्तिः प्रयुज्येत सोऽतिमात्रं प्रवर्तयेत् ४७
स्रुतेषु तस्य दोषेषु निरूढस्यातिमात्रशः
स्तब्धोदावृतकोष्ठस्य वायुः संप्रतिहन्यते ४८
विलोमनसमुद्भूतो रुजत्यङ्गानि देहिनः
गात्रवेष्टननिस्तोदभेदस्फुरणजृम्भणैः ४९
तं तैललवणाभ्यक्तं सेचयेदुष्णवारिणा
एरण्डपत्रनिष्क्वाथैः प्रस्तरैश्चोपपादयेत् ५०
यवान् कुलत्थान् कोलानि पञ्चमूले तथोभये
जलाढकद्वये पक्त्वा पादशेषेण तेन च ५१
कुर्यात् सबिल्वतैलोष्णलवणेन निरूहणम्
तं निरूढं समाश्वस्तं द्रोण्यां समवगाहयेत् ५२
ततो भुक्तवतस्तस्य कारयेदनुवासनम्
यष्टीमधुकतैलेन बिल्वतैलेन वा भिषक् ५३
मृदुकोष्ठाल्पदोषस्य रूक्षस्तीक्ष्णोऽतिमात्रवान्
बस्तिर्दोषान्निरस्याशु जनयेत् परिकर्तिकाम् ५४
त्रिकवङ्क्षणबस्तीनां तोदं नाभेरधो रुजम्
विबन्धोऽल्पाल्पमुत्थानं बस्तिनिर्लेखनाद्भवेत् ५५
स्वादुशीतौषधैस्तत्र पय इक्ष्वादिभिः शृतम्
यष्ट्याह्वतिलकल्काभ्यां बस्तिः स्यात् क्षीरभोजिनः ५६
ससर्जरसयष्ट्याह्वजिङ्गिनीकर्दमाञ्जनम्
विनीय दुग्धे बस्तिः स्यात् व्यक्ताम्लमृदुभोजिनः ५७
पित्तरोगेऽम्ल उष्णो वा तीक्ष्णो वा लवणोऽथवा
बस्तिर्लिखति पायुं तु क्षिणोति विदहत्यपि ५८
स विदग्धः स्रवत्यस्रं पित्तं चानेकवर्णवत्
सार्यते बहुवेगेन मोहं गच्छति चासकृत् ५९
आर्द्रशाल्मलिवृन्तैस्तु क्षुण्णैराजं पयः शृतम्
सर्पिषा योजितं शीतं बस्तिमस्मै प्रदापयेत् ६०
वटादिपल्लवेष्वेव कल्पो यवतिलेषु च
सुवर्चलोपोदिकयोः कर्बुदारे च शस्यते ६१
गुदे सेकाः प्रदेहाश्च शीताः स्युर्मधुराश्च ये
रक्तपित्तातिसारघ्नी क्रिया चात्र प्रशस्यते ६२
तीक्ष्णत्वं मूत्रपील्वग्निलवणक्षारसर्षपैः
प्राप्तकालं विधातव्यं क्षीराद्यैर्मार्दवं तथा ६३
आपादतलमूर्धस्थान् दोषान् पक्वाशये स्थितः
वीर्येण बस्तिरादत्ते खस्थोऽर्को भूरसानिव ६४
यद्वत् कुसुम्भसंमिश्रात्तोयाद्रागं हरेत् पटः
तद्वद्द्रवीकृताद्देहान्निरूहो निर्हरेन्मलान् ६५
तत्र श्लोकः--
इत्येता व्यापदः प्रोक्ता बस्तेः साकृतिभेषजाः
बुद्ध्वा कार्त्स्न्येन तान् बस्तिन्नियुञ्जन्नापराध्यति ६६
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने
बस्तिव्यापत्सिद्धिर्नाम सप्तमोऽध्यायः ७

अष्टमोऽध्यायः
अथातः प्रासृतयोगीयां सिद्धिं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
अथेमान् सुकुमाराणां निरूहान् स्नेहनान् मृदून्
कर्मणा विप्लुतानां च वक्ष्यामि प्रसृतैः पृथक् ३
क्षीराद्द्वौ प्रसृतौ कार्यौ मधुतैलघृतात्त्रयः
खजेन मथितो बस्तिर्वातघ्नो बलवर्णकृत् ४
एकैकः प्रसृतस्तैलप्रसन्नाक्षौद्रसर्पिषाम्
बिल्वादिमूलक्वाथाद्द्वौ कौलत्थाद्द्वौ स वातनुत् ५
पञ्चमूलरसात् पञ्च द्वौ तैलात् क्षौद्रसर्पिषोः
एकैकः प्रसृतो बस्तिः स्नेहनीयोऽनिलापहः ६
सैन्धवार्धाक्ष एकैकः क्षौद्रतैलपयोघृतात्
प्रसृतो हपुषाकर्षो निरूहः शुक्रकृत् परम् ७
पटोलनिम्बभूनिम्बरास्नासप्तच्छदाम्भसः
चत्वारः प्रसृता एको घृतात् सर्षपकल्कितः ८
निरूहः पञ्चतिक्तोऽयं मेहाभिष्यन्दकुष्ठनुत्
विडङ्गत्रिफलाशिग्रुफलमुस्ताखुपर्णिजात् ९
कषायात् प्रसृताः पञ्च तैलादेको विमथ्य तान्
विडङ्गपिप्पलीकल्को निरूहः क्रिमिनाशनः १०
पयस्येक्षुस्थिरारास्नाविदारीक्षौद्रसर्पिषाम्
एकैकः प्रसृतो बस्तिः कृष्णाकल्को वृषत्वकृत् ११
चत्वारस्तैलगोमूत्रदधिमण्डाम्लकाञ्जिकात्
प्रसृताः सर्षपैः कल्कैर्विट्सङ्गानाहभेदनः १२
श्वदंष्ट्राश्मभिदेरण्डरसात्तैलात् सुरासवात्
प्रसृताः पञ्च यष्ट्याह्वकौन्तीमागधिकासिताः १३
कल्कः स्यान्मूत्रकृच्छ्रे तु सानाहे बस्तिरुत्तमः
एते सलवणाः कोष्णा निरूहाः प्रसृतैर्नव १४
मृदुबस्तिजडीभूते तीक्ष्णोऽन्यो बस्तिरिष्यते
तीक्ष्णैर्विकर्षिते स्वादु प्रत्यास्थापनमिष्यते १५
वातोपसृष्टस्योष्णैः स्युर्गदा दाहादयो यदि
द्राक्षाम्बुना त्रिवृत्कल्कं दद्याद्दोषानुलोमनम् १६
तद्धि पित्तशकृद्वातान् हृत्वा दाहादिकाञ्जयेत्
शुद्धश्चापि पिबेच्छीतां यवागूं शर्करायुतान् १७
अथवाऽतिविरिक्तः स्यात् क्षीणविट्कः स भक्षयेत्
माषयूषेण कुल्माषान् पिबेन्मध्वथवा सुराम् १८
सोमं चेत् कुणपं शूलैरुपविशेदरोचकी
स घनातिविषाकुष्ठनतदारुवचाः पिबेत् १९
शकृद्वातमसृक् पित्तं कफं वा योऽतिसार्यते
पक्वं तत्र स्ववर्गीयैर्बस्तिः श्रेष्ठं भिषग्जितम् २०
षण्णामेषां द्विसंसर्गात् त्रिंशद्भेदा भवन्ति तु
केवलैः सह षट्त्रिंशद्विद्यात् सोपद्रवानपि २१
शूलप्रवाहिकाध्मानपरिकर्त्यरुचिज्वरान्
तृष्णोष्णदाहमूर्च्छादींश्चैषां विद्यादुपद्रवान् २२
तत्रामेऽन्तरपानं स्यात् व्योषाम्ललवणैर्युतम्
पाचनं शस्यते बस्तिरामे हि प्रतिषिध्यते २३
वातघ्नैर्ग्राहिवर्गीयैर्बस्तिः शकृति शस्यते
स्वाद्वम्ललवणैः शस्तः स्नेहबस्तिः समीरणे २४
रक्ते रक्तेन पित्ते तु कषायस्वादुतिक्तकैः
सार्यमाणे कफे बस्तिः कषायकटुतिक्तकैः २५
शकृता वायुना वाऽऽमे तेन वर्चस्यथानिले
संसृष्टेऽन्तरपानं स्याद् व्योषाम्ललवणैर्युतम् २६
पित्तेनामेऽसृजा वाऽपि तयोरामेन वा पुनः
संसृष्टयोर्भवेत् पानं सव्योषस्वादुतिक्तकम् २७
तथाऽऽमे कफसंसृष्टे कषायव्योषतिक्तकम्
आमेन तु कफे व्योषकषायलवणैर्युतम् २८
वातेन विशि पित्ते वा विट्पित्ताभ्यां तथाऽनिले
मधुराम्लकषायः स्यात् संसृष्टे बस्तिरुत्तमः २९
शकृच्छोणितयोः पित्तशकृतो रक्तपित्तयोः
बस्तिरन्योन्यसंसर्गे कषायस्वादुतिक्तकः ३०
कफेन विशि पित्तेऽस्रे कफे विट्पित्तशोणितैः
व्योषतिक्तकषायः स्यात् संसृष्टे बस्तिरुत्तमः ३१
स्याद्बस्तिर्व्योषतिक्ताम्लः संसृष्टे वायुना कफे
मधुरव्योषतिक्तस्तु रक्ते कफविमूर्च्छिते ३२
मारुते कफसंसृष्टे व्योषाम्ललवणो भवेत्
बस्तिर्वातेन पित्ते तु कार्यः स्वाद्वम्लतिक्तकः ३३
त्रिचतुःपञ्चसंसर्गानेवमेव विकल्पयेत्
युक्तिश्चैषातिसारोक्ता सर्वरोगेष्वपि स्मृता ३४
युगपत् षड्रसं षण्णां संसर्गे पाचनं भवेत्
निरामाणां तु पञ्चानां बस्तिः षाड्रसिको मतः ३५
उदुम्बरशलाटूनि जम्ब्वाम्रोदुम्बरत्वचः
शङ्खं सर्जरसं लाक्षां कर्दमं च पलांशिकम् ३६
पिष्ट्वा तैः सर्पिषः प्रस्थं क्षीरद्विगुणितं पचेत्
अतीसारेषु सर्वेषु पेयमेतद्यथाबलम् ३७
कच्छुराधातकीबिल्वसमङ्गारक्तशालिभिः
मसूराश्वत्थशुङ्गैश्च यवागूः स्याज्जले शृतैः ३८
वटोदुम्बरकट्वङ्गसमङ्गाप्लक्षपल्लवैः
मसूरधातकीपुष्पबलाभिश्च तथा भवेत् ३९
स्थिरादीनां बलादीनामिक्ष्वादीनामथापि वा
क्वाथेषु समसूराणां यवाग्वः स्युः पृथक् पृथक् ४०
कच्छुरामूलशाल्यादितण्डुलैरुपसाधिताः
दधितक्रारनालाम्लक्षीरेष्विक्षुरसेऽपि वा ४१
शीताः सशर्कराक्षौद्राः सर्वातीसारनाशनाः
ससर्पिर्मरिचाजाज्यो मधुरा लवणाः शिवाः ४२
भवन्ति चात्र श्लोकाः--
स्निग्धाम्ललवणमधुरं पानं बस्तिश्च मारुते कोष्णः
शीतं तिक्तकषायं मधुरं पित्ते च रक्ते च ४३
तिक्तोष्णकषायकटु श्लेष्मणि संग्राहि वातनुच्छकृति
पाचनमामे पानं पिच्छासृग्बस्तयो रक्ते ४४
अतिसारं प्रत्युक्तं मिश्रं द्वन्द्वादियोगजेष्वपि च
तत्रोद्रेकविशेषाद्दोषेषूपक्रमः कार्यः ४५
तत्र श्लोकः--
प्रासृतिकाः सव्यापत्क्रिया निरूहास्तथाऽतिसारहिताः
रसकल्पघृतयवाग्वश्चोक्ता गुरुणा प्रसृतसिद्धौ ४६
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने
प्रासृतयोगीयसिद्धिर्नामाष्टमोऽध्यायः ८

नवमोऽध्यायः
अथातस्त्रिमर्मीयां सिद्धिं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
सप्तोत्तरं मर्मशतमस्मिञ्छरीरे स्कन्धशाखासमाश्रितमग्निवेश । तेषामन्यतमपीडायां समधिका पीडा भवति चेतनानिबन्धवैशेष्यात् । तत्र शाखाश्रितेभ्यो मर्मभ्यः स्कन्धाश्रितानि गरीयांसि शाखानां तदाश्रितत्वात् स्कन्धाश्रितेभ्योऽपि हृद्बस्तिशिरांसि तन्मूलत्वाच्छरीरस्य ३
तत्र हृदये दश धमन्यः प्राणापानौ मनो ग्बुद्धिश्चेतना महाभूतानि च नाभ्यामरा इव प्रतिष्ठितानि शिरसि इन्द्रियाणि इन्द्रियप्राणवहानि च स्रोतांसि सूर्यमिव गभस्तयः संश्रितानि बस्तिस्तु स्थूलगुदमुष्कसेवनीशुक्रमूत्रवाहिनीनां नाडीनां मध्ये मूत्राधारोऽम्बुवहानां सर्वस्रोतसामुदधिरिवापगानां प्रतिष्ठाबहुभिश्च तन्मूलैर्मर्मसंज्ञकैः स्रोतोभिर्गगनमिव दिनकरकरैर्व्याप्तमिदं शरीरम् ४
तेषां त्रयाणामन्यतमस्यापि भेदादाश्वेव शरीरभेदः स्यात् आश्रयनाशादाश्रितस्यापि विनाशः तदुपघातात्तु घोरतरव्याधिप्रादुर्भावः तस्मादेतानि विशेषेण रक्ष्याणि बाह्याभिघाद्वातादिभ्यश्च ५
तत्र हृद्यभिहते कासश्वासबलक्षयकण्ठशोषक्लोमाकर्षणजिह्वानिर्गममुखतालु-शोषापस्मारोन्मादप्रलापचित्तनाशादयः स्युः शिरस्यभिहते मन्यास्तम्भार्दितचक्षुर्विभ्रममोहोद्वेष्टनचेष्टानाशकासश्वासह-नुग्रहमूकगद्गदत्वाक्षिनिमीलनगण्डस्पन्दनजृम्भणलालास्रावस्वर-हानिवदनजिह्मत्वादीनि बस्तौ तु वातमूत्रवर्चोनिग्रहवङ्क्षणमेहनबस्तिशूलकुण्डलोदावर्तगुल्मानिलाष्ठीलोपस्तम्भ-नाभिकुक्षिगुदश्रोणिग्रहादयः वाताद्युपसृष्टानां त्वेषां लिङ्गानि चिकित्सिते सक्रियाविधीन्युक्तानि ६
किंत्वेतानि विशेषतोऽनिलाद्रक्ष्याणि अनिलो हि पित्तकफसमुदीरणे हेतुः प्राणमूलं च स बस्ति कर्मसाध्यतमः तस्मान्न बस्तिसमं किञ्चित् कर्म मर्मपरिपालनमस्ति । तत्र षडास्थापनस्कन्धात् विमाने द्वौ चानुवासनस्कन्धाविह च विहितान् बस्तीन् बुद्ध्या विचार्य महामर्मपरिपालनार्थं प्रयोजयेद्वातव्याधिचिकित्सां च ७
भूयश्च हृद्युपसृष्टे हिङ्गुचूर्णं लवणानामन्यतमचूर्णसंयुक्तं मातुलुङ्गस्य रसेनान्येन वाऽम्लेन हृद्येन वा पाययेत् स्थिरादिपञ्चमूलीरसः सशर्करः पानार्थं बिल्वादिपञ्चमूलरससिद्धा च यवागूः हृद्रोगविहितं च कर्म मूर्ध्नि तु वातोपसृष्टेऽभ्यङ्गस्वेदनोपनाहस्नेहपाननस्तःकर्मावपीडनधूमादीनि बस्तौ तु कुम्भीस्वेदः वर्तयः श्यामादिभिर्गोमूत्रसिद्धो निरूहः बिल्बादिभिश्च सुरासिद्धः शरकाशेक्षुदर्भगोक्षुरकमूलशृतर्क्षीरैश्च त्रपुसैर्वारुखराश्वाबीजयवर्षभकवृद्धिकल्कितो निरूहः पीतदारुसिद्धतैलेनानुवासनं तैल्वकं च सर्पिर्विरेकार्थं शतावरीगोक्षुरकबृहतीकण्टकारिकागुडूचीपुनर्नवोशीरमधुकद्विसारिवालो-ध्रश्रेयसीकुशकाशमूलकषायक्षीरचतुर्गुणं बलावृषर्षभकखराश्वोपकुञ्चिकाव-त्सकत्रपुसैर्वारुबीजशितिवारकमधुकवचाशतपुष्पाश्मभेदकवर्षाभूमदनफ-लकल्कसिद्धं तैलमुत्तरबस्तिर्निरूहो वा शुद्धस्निग्धस्विन्नस्य बस्तिशूलमूत्रविकारहर इति ८
भवन्ति चात्र श्लोकाः--
हृदये मूर्ध्नि बस्तौ च नृणां प्राणाः प्रतिष्ठिताः
तस्मात्तेषां सदा यत्नं कुर्वीत परिपालने ९
आबाधवर्जनं नित्यं स्वस्थवृत्तानुवर्तनम्
उत्पन्नार्तिविघातश्च मर्मणां परिपालनम् १०
अत ऊर्ध्वं विकारा ये त्रिमर्मीये चिकित्सिते
न प्रोक्ता मर्मजास्तेषां कांश्चिद्वक्ष्यामि सौषधान् ११
कद्धः स्वैः कोपनैर्वायुः स्थानादूर्ध्वं प्रपद्यते
पीडयन् हृदयं गत्वा शिरः शङ्खौ च पीडयन् १२
धनुर्वन्नमयेद्गात्राण्याक्षिपेन्मोहयेत्तथा
कृच्छ्रेण चाप्युच्छ्वसिति स्तब्धाक्षोऽथ निमीलकः १३
कपोत इव कूजेच्च निःसंज्ञः सोऽपतन्त्रकः
दृष्टिं संस्तम्भ्य संज्ञां च हृत्वा कण्ठेन कूजति १४
हृदि मुक्ते नरः स्वास्थ्यं याति मोहं वृते पुनः
वायुना दारुणं प्राहुरेके तमपतानकम् १५
धमनीः कफवाताभ्यां रुद्धास्तस्य विमोक्षयेत्
तीक्ष्णैः प्रधमनैः संज्ञा तासु मुक्तासु विन्दति १६
मरिचं शिग्रुबीजानि विडङ्गं च फणिज्झकम्
एतानि सूक्ष्मचूर्णानि दद्याच्छीर्षविरेचनम् १७
तुम्बुरूण्यभया हिङ्गु पौष्करं लवणत्रयम्
यवक्वाथाम्बुना पेयं हृद्ग्रहे चापतन्त्रके १८
हिङ्ग्वम्लवेतसं शुण्ठीं ससौवर्चलदाडिमम्
पिबेद्वातकफघ्नं च कर्म हृद्रोगनुद्धितम् १९
शोधना बस्तयस्तीक्ष्णा न हितास्तस्य कृत्स्नशः
सौवर्चलाभयाव्योषैः सिद्धं तस्मै घृतं हितम् २०
मधुरस्निग्धगुर्वन्नसेवनाच्चिन्तनाच्छ्रमात्
शोकाद्व्याध्यनुषङ्गाच्च वायुनोदीरितः कफः २१
यदाऽसौ समवस्कन्द्य हृदयं हृदयाश्रयान्
समावृणोति ज्ञानादींस्तदा तन्द्रोपजायते २२
हृदये व्याकुलीभावो वाक्चेष्टेन्द्रियगौरवम्
मनोबुद्ध्यप्रसादश्च तन्द्राया लक्षणं मतम् २३
कफघ्नं तत्र कर्तव्यं शोधनं शमनानि च
व्यायामो रक्तमोक्षश्च भोज्यं च कटुतिक्तकम् २४
मूत्रौकसादो जठरं कृच्छ्रमुत्सङ्गसंक्षयौ
मूत्रातीतोऽनिलाष्ठीला वातबस्त्युष्णमारुतौ २५
वातकुण्डलिका ग्रन्थिर्विड्घातो बस्तिकुण्डलम्
त्रयोदशैते मूत्रस्य दोषास्ताँल्लिङ्गतः शृणु २६
पित्तं कफो द्वयं वाऽपि बस्तौ संहन्यते यदा
मारुतेन तदा मूत्रं रक्तं पीतं घनं सृजेत् २७
सदाहं श्वेतसान्द्रं वा सर्वैर्वा लक्षणैर्युतम्
मूत्रौकसादं तं विद्यात् पित्तश्लेष्महरैर्जयेत् २८
विधारणात् प्रतिहतं वातोदावर्तितं यदा
पूरयत्युदरं मूत्रं तदा तदनिमित्तरुक् २९
अपक्तिमूत्रविट्सङ्गैस्तन्मूत्रजठरं वदेत्
मूत्रवैरेचनीं तत्र चिकित्सां संप्रयोजयेत् ३०
हिङ्गुद्विरुत्तरं चूर्णं त्रिमर्मीये प्रकीर्तितम्
हन्यान्मूत्रोदरानाहमाध्मानं गुदमेढ्रयोः ३१
मूत्रितस्य व्यवायात्तु रेतो वातोद्धतं च्युतम्
पूर्वं मूत्रस्य पश्चाद्वा स्रवेत् कृच्छ्रं तदुच्यते ३२
खवैगुण्यानिलाक्षेपैः किञ्चिन्मूत्रं च तिष्ठति
मणिसन्धौ स्रवेत् पश्चात्तदरुग्वाऽथ चातिरुक् ३३
मूत्रोत्सङ्गः स विच्छिन्नमुच्छेषगुरुशेफसः
वाताकृतिर्भवेद्वातान्मूत्रे शुष्यति संक्षयः ३४
चिरं धारयतो मूत्रं त्वरया न प्रवर्तते
मेहमानस्य मन्दं वा मूत्रातीतः स उच्यते ३५
आध्मापयन् बस्तिगुदं रुद्ध्वा वायुश्चलोन्नताम्
कुर्यात्तीव्रार्तिमष्टीलां मूत्रविण्मार्गरोधिनीम् ३६
मूत्रं धारयतो बस्तौ वायुः क्रुद्धो विधारणात्
मूत्ररोधार्तिकण्डूभिर्वातबस्तिः स उच्यते ३७
ऊष्मणा सोष्मकं मूत्रं शोषयन् रक्तपीतकम्
उष्णवातः सृजेत् कृच्छ्राद्बस्त्युपस्थार्तिदाहवान् ३८
गतिसङ्गादुदावृत्तः स मूत्रस्थानमार्गयोः
मूत्रस्य विगुणो वायुर्भग्नव्याविद्धकुण्डली ३९
मूत्रं विहन्ति संस्तम्भभङ्गगौरववेष्टनैः
तीव्ररुङ्मूत्रविट्सङ्गैर्वातकुण्डलिकेति सा ४०
रक्तं वातकफाद्दुष्टं बस्तिद्वारे सुदारुणम्
ग्रन्थिं कुर्यात् स कृच्छ्रेण सृजेन्मूत्रं तदावृतम् ४१
अश्मरीसमशूलं तं मूत्रग्रन्थिं प्रचक्षते
रूक्षदुर्बलयोर्वातेनोदावृत्तं शकृद्यदा ४२
मूत्रस्रोतः प्रपद्येत विट्संसृष्टं तदा नरः
विड्गन्धं मूत्रयेत् कृच्छ्राद्विड्विघातं विनिर्दिशेत् ४३
द्रुताध्वलङ्घनायासादभिघातात् प्रपीडनात्
स्वस्थानाद्बस्तिरुद्वृत्तः स्थूलस्तिष्ठति गर्भवत् ४४
शूलस्पन्दनदाहार्तो बिन्दुं बिन्दुं स्रवत्यपि
पीडितस्तु सृजेद्धारां संस्तम्भोद्वेष्टनार्तिमान् ४५
बस्तिकुण्डलमाहुस्तं घोरं शस्त्रविषोपमम्
पवनप्रबलं प्रायो दुर्निवारमवुद्धिभिः ४६
तस्मिन् पित्तान्विते दाहः शूलं मूत्रविवर्णता
श्लेष्मणा गौरवं शोफः स्निग्धं मूत्रं घनं सितम् ४७
श्लेष्मरुद्धबिलो बस्तिः पित्तोदीर्णो न सिध्यति
अविभ्रान्तबिलः साध्यो न तु यः कुण्डलीकृतः ४८
स्याद्बस्तौ कुण्डलीभूते तृण्मोहः श्वास एव च
दोषाधिक्यमवेक्ष्यैतान् मूत्रकृच्छ्रहरैर्जयेत् ४९
बस्तिमुत्तरबस्तिं च सर्वेषामेव दापयेत्
पुष्पनेत्रं तु हैमं स्याच्छ्लक्ष्णमौत्तरबस्तिकम् ५०
जात्यश्वहनवृन्तेन समं गोपुच्छसंस्थितम्
रौप्यं वा सर्षपच्छिद्रं द्विकर्णं द्वादशाङ्गुलम् ५१
तेनाजबस्तियुक्तेन स्नेहस्यार्धपलं नयेत्
यथावयोविशेषेण स्नेहमात्रां विकल्प्य वा ५२
स्नातस्य भुक्तभक्तस्य रसेन पयसाऽपि वा
सृष्टविण्मूत्रवेगस्य पीठे जानुसमे मृदौ ५३
ऋजोः सुखोपविष्टस्य हृष्टे मेढ्रे घृताक्तया
शलाकयाऽन्विष्य गतिं यद्यप्रतिहता व्रजेत् ५४
ततः शेफःप्रमाणेन पुष्पनेत्रं प्रवेशयेत्
गुदवन्मूत्रमार्गेण प्रणयेदनु सेवनीम् ५५
हिंस्यादतिगतं बस्तिमूने स्नेहो न गच्छति
सुखं प्रपीड्य निष्कम्पं निष्कर्षेन्नेत्रमेव च ५६
प्रत्यागते द्वितीयं च तृतीयं च प्रदापयेत्
अनागच्छन्नुपेक्ष्यस्तु रजनीव्युषितस्य च ५७
पिप्पलीलवणागारधूमापामार्गसर्षपैः
वार्ताकुरसनिर्गुण्डीशम्पाकैः ससहाचरैः ५८
मूत्राम्लपिष्टैः सगुडैर्वर्तिं कृत्वा प्रवेशयेत्
अग्रे तु सर्षपाकारां पश्चार्धं माषसंमिताम् ५९
नेत्रदीर्घां घृताभ्यक्तां सुकुमारामभङ्गुराम्
नेत्रवन्मूत्रनाड्यां तु पायौ चाङ्गुष्ठसंमिताम् ६०
स्नेहे प्रत्यागते ताभ्यामानुवासनिको विधिः
परिहारश्च सव्यापत् ससम्यग्दत्तलक्षणः ६१
स्त्रीणामार्तवकाले तु प्रतिकर्म तदाचरेत्
गर्भासना सुखं स्नेहं तदाऽऽदत्ते ह्यपावृता ६२
गर्भं योनिस्तदा शीघ्रं जिते गृह्णाति मारुते
बस्तिजेषु विकारेषु योनिविभ्रंशजेषु च ६३
योनिशूलेषु तीव्रेषु योनिव्यापत्स्वसृग्दरे
अप्रस्रवति मूत्रे च बिन्दुं बिन्दुं स्रवत्यपि ६४
विदध्यादुत्तरं बस्तिं यथास्वौषधसंस्कृतम्
पुष्पनेत्रप्रमाणं तु प्रमदानां दशाङ्गुलम् ६५
मूत्रस्रोतःपरीणाहं मुद्गस्रोतोऽनुपाति च
अपत्यमार्गे नारीणां विधेयं चतुरङ्गुलम् ६६
द्व्यङ्गुलं मूत्रमार्गे तु बालायास्त्वेकमङ्गुलम्
उत्तानायाः शयनायाः सम्यक् सङ्कोच्य सक्थिनी ६७
अथास्याः प्रणयेन्नेत्रमनुवंशगतं सुखम्
द्विस्त्रिश्चतुरिति स्नेहानहोरात्रेण योजयेत् ६८
बस्तौ बस्तौ प्रणीते च वर्तिः पीनतरा भवेत्
त्रिरात्रं कर्म कुर्वीत स्नेहमात्रां विवर्धयेत् ६९
अनेनैव विधानेन कर्म कुर्यात् पुनस्त्र्यहात्
अतः शिरोविकाराणां कश्चिद्भेदः प्रवक्ष्यते ७०
रक्तपित्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः
तीव्ररुग्दाहरागं हि शोफं कुर्वन्ति दारुणम् ७१
स शिरो विषवद्वेगी निरुध्याशु गलं तथा
त्रिरात्राज्जीवितं हन्ति शङ्खको नाम नामतः ७२
परं त्र्यहाज्जीवति चेत् प्रत्याख्यायाचरेत् क्रियाम्
शिरोविरेकसेकादि सर्वं वीसर्पनुच्च यत् ७३
रूक्षात्यध्यशनात् पूर्ववातावश्यायमैथुनैः
वेगसंधारणायासव्यायामैः कुपितोऽनिलः ७४
केवलः सकफो वाऽर्धं गृहीत्वा शिरसस्ततः
मन्याभ्रूशङ्खकर्णाक्षिललाटार्धेऽतिवेदनाम् ७५
शस्त्रारणिनिभां कुर्यात्तीव्रां सोऽर्धावभेदकः
नयनं वाऽथवा श्रोत्रमतिवृद्धो विनाशयेत् ७६
चतुःस्नेहोत्तमा मात्रा शिरः कायविरेचनम्
नाडीस्वेदो घृतं जीर्णं बस्तिकर्मानुवासनम् ७७
उपनाहः शिरोबस्तिर्दहनं चात्र शस्यते
प्रतिश्याये शिरोरोगे यश्चोद्दिष्टं चिकित्सितम् ७८
सन्धारणादजीर्णाद्यैर्मस्तिष्कं रक्तमारुतौ
दुष्टौ दूषयतस्तच्च दुष्टं ताभ्यां विमूर्च्छितम् ७९
पूर्योदयेंऽशुसंतापाद्द्रवं विष्यन्दते शनैः
ततो दिने शिरःशूलं दिनवृद्ध्या विवर्धते ८०
दिनक्षये ततः स्त्याने मस्तिष्के संप्रशाम्यति
सूर्यावर्तः स तत्र स्यात् सर्पिरौत्तरभक्तिकम् ८१
शिरःकायविरेकौ च मूर्ध्ना त्रिस्नेहधारणम्
जाङ्गलैरुपनाहश्च घृतक्षीरैश्च सेचनम् ८२
बर्हितित्तिरिलावादिशृतक्षीरोत्थितं घृतम्
स्यान्नावनं जीवनीयक्षीराष्टगुणसाधितम् ८३
उपवासातिशोकातिरूक्षशीताल्पभोजनैः
दुष्टा दोषास्त्रयो मन्यापश्चाद्घाटासु वेदनाम् ८४
तीव्रां कुर्वन्ति सा चाक्षिभ्रूशङ्खेष्वेवतिष्ठते
स्पन्दनं गण्डपार्श्वस्य नेत्ररोगं हनुग्रहम् ८५
सोऽनन्तवातस्तं हन्यात् सिरार्कावर्तनाशनैः
वातो रूक्षादिभिः क्रुद्धः शिरःकम्पप्तुदीरयेत् ८६
तत्रामृताबलारास्नामहाश्वेताश्वगन्धकैः
स्नेहस्वेदादि वातघ्नं शस्तं नस्यं च तर्पणम् ८७
नस्तःकर्म च कुर्वीत शिरोरोगेषु शास्त्रविद्
द्वारं हि शिरसो नासा तेन तद् व्याप्य हन्ति तान् ८८
नावनं चावपीडश्च ध्मापनं धूम एव च
प्रतिमर्शश्च विज्ञेयं नस्तःकर्म तु पञ्चधा ८९
स्नेहनं शोधनं चैव द्विविधं नावनं स्मृतम्
शोधनः स्तम्भनश्च स्यादवपीडो द्विधा मतः ९०
चूर्णस्याध्मापनं तद्धि चेहस्रोतोविशोधनम्
विज्ञेयस्त्रिविधो धूमः प्रागुक्तः शमनादिकः ९१
प्रतिमर्शो भवेत् स्नेहो निर्दोष उभयार्थकृत्
एवं तद्रेचनं कर्म तर्पणं शमनं त्रिधा ९२
स्तम्भसुप्तिगुरुत्वाद्याः श्लैष्मिका ये शिरोगदाः
शिरोविरेचनं तेषु नस्तःकर्म प्रशस्यते ९३
ये च वातात्मका रोगाः शिरःकम्पार्दितादयः
शिरसस्तर्पणं तेषु नस्तःकर्म प्रशस्यते ९४
रक्तपित्तादिरोगेषु शमनं नस्यमिष्यते
ध्मापनं धूमपानं च तथा योग्येषु शस्यते ९५
दोषादिकं समीक्ष्यैव भिषक् सम्यक् च कारयेत्
फलादिभेषजं प्रोक्तं शिरसो यद्विरेचनम् ९६
तच्चूर्णं कल्पयेत्तेन पचेत् स्नेहं विरेचनम्
यदुक्तं मधुरस्कन्धे भेषजं तेन तर्पणम् ९७
साधयित्वा भिषक् स्नेहं नस्तः कुर्याद्विधानवित्
प्राक्सूर्ये मध्यसूर्ये वा प्राक्कृतावश्यकस्य च ९८
उत्तानस्य शयानस्य शयने स्वास्तृते सुखम्
प्रलम्बशिरसः किञ्चित् किञ्चित् पादोन्नतस्य च ९९
दद्यान्नासापुटे स्नेहं तर्पणं बुद्धिमान् भिषक्
अनवाक्शिरसो नस्यं न शिरः प्रतिपद्यते १००
अत्यवाक्शिरसो नस्यं मस्तुलुङ्गेऽवतिष्ठति
अत एवंशयानस्य शुद्ध्यर्थं स्वेदयेच्छिरः १०१
संस्वेद्य नासामुन्नम्य वामेनाङ्गुष्ठपर्वणा
हस्तेन दक्षिणेनाथ कुर्यादुभयतः समम् १०२
प्रणाड्या पिचुना वाऽपि नस्तःस्नेहं यथाविधि
कृते च स्वेदयेद्भूय आकर्षेच्च पुनः पुनः १०३
तं स्नेहं श्लेष्मणा साकं तथा स्नेहो न तिष्ठति
स्वेदेनोत्क्लेशितः श्लेष्मा नस्तःकर्मण्युपस्थितः १०४
भूयः स्नेहस्य शैत्येन शिरसि स्त्यायते ततः
श्रोत्रमन्यागलाद्येषु विकाराय स कल्पते १०५
ततो नस्तःकृते धूमं पिबेत् कफविनाशनम्
हितान्नभुङ्निवातोष्णसेवी स्यान्नियतेन्द्रियः १०६
विधिरेषोऽवपीडस्य कार्यः प्रध्मापनस्य तु
तत् षडङ्गुलया नाड्या धमेच्चूर्णं मुखेन तु १०७
विरिक्तशिरसं तूष्णं पाययित्वाऽम्बु भोजयेत्
लघु त्रिष्वविरुद्धं च निवातस्थमतन्द्रितः १०८
विरेकशुद्धो दोषस्य कोपनं यस्य सेवते
स दोषो विचरंस्तत्र करोति स्वान् गदान् बहून् १०९
यथास्वं विहितां तेषु क्रियां कुर्याद्विचक्षणः
अकालकृतजातानां रोगाणामनुरूपतः ११०
अजीर्णे भोजने भुक्ते तोये पीतेऽथ दुर्दिने
प्रतिश्याये नवे स्नाते स्नेहपानेऽनुवासने १११
नावनं स्नेहनं रोगान् करोति श्लैष्मिकान् बहून्
तत्र श्लेष्महरः सर्वस्तीक्ष्णोष्णादिर्विधिर्हितः ११२
क्षामे विरेचिते गर्भे व्यायामाभिहते तृषि
वातो रूक्षेण नस्येन क्रुद्धः स्वाञ्जनयेद्गदान् ११३
तत्र वातहरः सर्वो विधिः स्नेहनबृंहणः
स्वेदादिः स्याद्घृतं क्षीरं गर्भिण्यास्तु विशेषतः ११४
ज्वरशोकातितप्तानां तिमिरं मद्यपस्य तु
रूक्षैः शीताञ्जनैर्लेपैः पुटपाकैश्च साधयेत् ११५
स्नेहनं शोधनं चैव द्विविधं नावनं मतम्
प्रतिमर्शस्तु नस्यार्थं करोति न च दोषवान् ११६
नस्तः स्नेहाङ्गुलिं दद्यात् प्रातर्निशि च सर्वदा
न चोच्छिङ्घेदरोगाणां प्रतिमर्शः स दार्ढ्यकृत् ११७
तत्र श्लोकौ--
त्रीणि यस्मात् प्रधानानि मर्माण्यभिहतेषु च
तेषु लिङ्गं चिकित्सां च रोगभेदाश्च सौषधाः ११८
विधिरुत्तरबस्तेश्च नस्तःकर्मविधिस्तथा
सव्यापद्भेषजं सिद्धौ मर्माख्यायां प्रकीर्तितम् ११९
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने
त्रिमर्मीयसिद्धिर्नाम नवमोऽध्यायः ९

दशमोऽध्यायः
अथातो बस्तिसिद्धिं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
सिद्धानां बस्तीनां शस्तानां तेषु तेषु रोगेषु
शृण्वग्निवेश गदतः सिद्धिं सिद्धिप्रदां भिषजाम् ३
बलदोषकालरोगप्रकृतीः प्रविभज्य योजिताः सम्यक्
स्वै स्वैरौषधवर्गैः स्वान् स्वान् रोगान्नियच्छन्ति ४
कर्मान्यद्बस्तिसमं न विद्यते शीघ्रसुखविशोधित्वात्
आश्वपतर्पणतर्पणयोगाच्च निरत्ययत्वाच्च ५
सत्यपि दोषहरत्वे कटुतीक्ष्णोष्णादिभेषजादानात्
दुःखोद्गारोत्क्लेशाहृद्यत्वकोष्ठरुजा विरेके स्युः ६
अविरेच्यौ शिशुवृद्धौ तावप्राप्तप्रहीनधातुबलौ
आस्थापनमेव तयोः सर्वार्थकृदुत्तमं कर्म ७
बलवर्णहर्षमार्दवगात्रस्नेहान्नृणां ददात्याशु
अनुवासनं निरूहश्चोत्तरबस्तिश्च स त्रिविधः ८
शाखावातार्तानां सकुञ्चितस्तब्धभग्नरुग्णानाम्
विट्सङ्गाध्मानारुचिपरिकर्तिरुगादिषु च शस्तः ९
उष्णार्तानां शीताञ्छीतार्तानां तथा सुखोष्णांश्च
तद्योग्यौषधयुक्तान् बस्तीन् संतर्क्य विनियुज्यात् १०
बस्तीन्न बृंहणीयान् दद्याद् व्याधिषु विशोधनीयेषु
मेदस्विनो विशोध्या येऽपि नराः कुष्ठमेहार्ताः ११
न क्षीणक्षतदुर्बलमूर्च्छितकृशशुष्कदेहानाम्
युञ्जाद्विशोधनीयान् दोषनिबद्धायुषो ये च १२
वाजीकरणेऽसृक्पित्तयोश्च मधुघृतपयोयुक्ताः
शस्ताः सतैलमूत्रारनाललवणाश्च कफवाते १३
युञ्जाद्द्रव्याणि बस्तिष्वम्लं मूत्रं पयः सुरांक्वाथान्
अविरोधाद्धातूनां रसयोनित्वाच्च जलमुष्णम् १४
सुरदारुशताह्वैलाकुष्ठमधुकपिप्पलीमधुस्नेहाः
ऊर्ध्वानुलोमभागाः ससर्षपाः शर्करा लवणम् १५
आवापा बस्तीनामतः प्रयोज्यानि येषु यानि स्युः
युक्तानि सह कषायैस्तान्युत्तरतः प्रवक्ष्यामि १६
चिरजातकठिनबलेषु व्याधिषु तीक्ष्णा विपर्यये मृदवः
सप्रतिवापकषाया योज्यास्त्वनुवासननिरूहाः १७
अर्धश्लौकैरतः सिद्धान् नानाव्याधिषु सर्वशः
बस्तीन् वीर्यसमैर्भागैर्यथार्हालोडनाञ्छृणु १८
बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिस्तथा
शालपर्णी पृश्निपर्णी बृहत्यौ वर्धमानकः १९
यवाः कुलत्थाः कोलानि स्थिरा चेति त्रयोऽनिले
शस्यन्ते सचतुःस्नेहाः पिशितस्य रसान्विताः २०
नलवञ्जलवानीरशतपत्राणि शैवलम्
मञ्जिष्ठा सारिवाऽनन्ता पयसा मधुयष्टिका २१
चन्दनं पद्मकोशीरं तुङ्गं ते पैत्तिके त्रयः
सशर्कराक्षौद्रघृताः सक्षीरा बस्तयो हिताः २२
अर्कस्तथैव चालर्क एकाष्ठीला पुनर्नवा
हरिद्रा त्रिफला मुस्तं पीतदारु कुटन्नटम् २३
पिप्पल्यश्चित्रकश्चेति त्रयस्ते श्लेष्मरोगिषु
सक्षारक्षौद्रगोमूत्रा नातिस्नेहान्विता हिताः २४
फलजीमूतकेक्ष्वाकुधामार्गवकवत्सकाः
श्यामा च त्रिवृता चैव स्थिरा दन्ती द्रवन्त्यपि २५
प्रकीर्या चोदकीर्या च नीलिनी क्षीरिणी तथा
सप्तला शङ्खिनी लोध्रं फलं कम्पिल्लकस्य च २६
चत्वारो मूत्रसिद्धास्ते पक्वाशयविशोधनाः
व्यस्तैरपि समस्तैश्च चतुर्योगा उदाहृताः २७
काकोली क्षीरकाकोली मुद्गपर्णी शतावरी
विदारी मधुयष्ट्याह्वा शृङ्गाटककशेरुके २८
आत्मगुप्ताफलं माषाः सगोधूमा यवास्तथा
जलजानूपजं मांसमित्येते शुक्रमांसलाः २९
जीवन्ती चाग्निमन्थश्च धातकीपुष्पवत्सकौ
प्रग्रहः खदिरः कुष्ठं शमी पिण्डीतको यवाः ३०
प्रियङ्गू रक्तमूली च तरुणी स्वर्णयूथिका
वटाद्याः किंशुकं लोध्रमिति सांग्राहिका मताः ३१
परिस्रावे शृतं क्षीरं सवृश्चीरपुनर्नवम्
आखुपर्णिकया वाऽपि तण्डुलीयकयुक्तया ३२
कालङ्कतककाण्डेक्षुदर्भपोटगलेक्षुभिः
दाहघ्नः सघृतक्षीरो द्वितीयश्चोत्पलादिभिः ३३
कर्बुदाराढकीनीपविदुलैः क्षीरसाधितैः
बस्तिः प्रदेयो भिषजा शीतः समधुशर्करः ३४
परिकर्ते तथा वृन्तैः श्रीपर्णीकोविदारजैः
देयो बस्तिः सुवैद्यिस्तु यथावद्विदितक्रियैः ३५
बस्तिः शाल्मलिवृन्तानां क्षीरसिद्धो घृतान्वितः
हितः प्रवाहणे तद्वद्वेष्टैः शाल्मलिकस्य च ३६
अश्वावरोहिकाकाकनासाराजकशेरुकैः
सिद्धाः क्षीरेऽतियोगे स्युः क्षौद्राञ्जनघृतैर्युताः ३७
न्यग्रोधाद्यैश्चतुर्भिश्च तेनैव विधिना परः
बृहती क्षीरकाकोली पृश्निपर्णी शतावरी ३८
काश्मर्यबदरीदूर्वास्तथोशीरप्रियङ्गवः
जीवादाने शृतौ क्षीरे द्वौ घृताञ्जनसंयुतौ ३९
बस्ती प्रदेयौ भिषजा शीतौ समधुशर्करौ
गोऽव्यजामहिषीक्षीरैर्जीवनीययुतैस्तथा ४०
शशैणदक्षमार्जारमहिषाव्यजशोणितैः
सद्यस्कैर्मृदितैर्बस्तिर्जीवादाने प्रशस्यते ४१
मधूकमधुकद्राक्षादूर्वाकाश्मर्यचन्दनैः
तेनैव विधिना बस्तिर्देयः सक्षौद्रशर्करः ४२
मञ्जिष्ठासारिवानन्तापयस्यामधुकैस्तथा
शर्कराचन्दनद्राक्षामधुधात्रीफलोत्पलैः
रक्तपित्ते प्रमेहे तु कषायः सोमवल्कजः ४३
गुल्मातिसारोदावर्तस्तम्भसङ्कुचितादिषु
सर्वाङ्गैकाङ्गरोगेषु रोगेष्वेवंविधेषु च ४४
यथास्वैरौषधैः सिद्धान् बस्तीन् दद्याद्विचक्षणः
पूर्वोक्तेन विधानेन कुर्वन् योगान् पृथग्विधान् ४५
तत्र श्लोकाः--
त्रिकास्त्रयोऽनिलादीनां चतुष्काश्चापरे त्रयः
पक्वाशयविशुद्ध्यर्थं वृष्याः सांग्राहिकास्तथा ४६
परिस्रावे तथा दाहे परिकर्ते प्रवाहणे
सातियोगे मतौ द्वौ द्वौ जीवादाने तथा त्रयः ४७
द्वौ रक्तपित्ते मेहे च एकस्त्रिंशच्च सप्त ते
सुलभाल्पौषधक्लेशा बस्तयो गुणवत्तमाः ४८
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने
बस्तिसिद्धिर्नाम दशमोऽध्यायः १०

एकादशोऽध्यायः
अथातः फलमात्रासिद्धिं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
भगवन्तमुदारसत्त्वधीश्रुतिविज्ञानसमृद्धमत्रिजम्
फलबस्तिवरत्वनिश्चये सविवादा मुनयोऽभ्युपागमन् ३
भृगुकौशिककाप्यशौनकाः सपुलस्त्यासितगौतमादयः
कतमत् प्रवरं फलादिषु स्मृतमास्थापनयोजनास्विति ४
कफपित्तहरं वरं फलेष्वथ जीमूतकमाह शौनकः
मृदुवीर्यतयाऽभिनत्ति तच्छकृदित्याह नृपोऽथ वामकः ५
कटुतुम्बममन्यतोत्तमं वमने दोषसमीरणं च तत्
तदयोग्यमशैत्यतीक्ष्णताकटुरौक्ष्यादिति गौतमोऽब्रवीत् ६
कफपित्तनिबर्हणं परं स च धामार्गवमित्यमन्यत
तदमन्यत वातलं पुनर्बडिशो ग्लानिकरं बलापहम् ७
कुटजं प्रशशंस चोत्तमं न बलघ्नं कफपित्तहारि च
अतिविज्जलमौर्ध्वभागिकं पवनक्षोभि च काप्य आह तत् ८
कृतवेधनमस्त्यवातलं कफपित्तं प्रबलं हरेदिति
तदसाध्विति भद्रशौनकः कटुकं चातिबलघ्नमित्यपि ९
इति तद्वचनानि हेतुभिः सुविचित्राणि निशम्य बुद्धिमान्
प्रशशंस फलेषु निश्चयं परमं चात्रिसुतोऽब्रवीदिदम् १०
फलदोषगुणान् सरस्वती प्रति सर्वैरपि सम्यगीरिता
न तु किंचिददोषनिर्गुणं गुणभूयस्त्वमतो विचिन्त्यते ११
इह कुष्ठहिता गरागरी हितमिक्ष्वाकु तु मेहिने मतम्
कुटजस्य फलं हृदामये प्रवरं कोठफलं च पाण्डुषु १२
उदरे कृतवेधनं हितं मदनं सर्वगदाविरोधि तु
मधुरं सकषायतिक्तकं तदरूक्षं सकटूष्णविज्जलम् १३
कफपित्तहृदाशुकारि चाप्यनपायं पवनानुलोमि च
फलनाम विशेषतस्त्वतो लभतेऽन्येषु फलेषु सत्स्वपि १४
गुरुणेति वचस्युदाहृते मुनिसंघेन च पूजिते ततः
प्रणिपत्य मुदा समन्वितः सहितः शिष्यगणोऽनुपृष्टवान् १५
सर्वकर्मगुणकुद्गुरुणोक्तो बस्तिरूर्ध्वमथ नैति नाभितः
नाभ्यधो गुदमतः स शरीरात् सर्वतः कथमपोहति दोषान् १६
तद्गुरुरब्रवीदिदं शरीरं तन्त्रयतेऽनिलः सङ्घविघातात्
केवल एव दोषसहितो वा स्वाशयगः प्रकोपमुपयाति १७
तं पवनं सपित्तकफविट्कं शुद्धिकरोऽनुलोमयति बस्तिः
सर्वशरीरगश्च गदसंघस्तत्प्रशमात् प्रशान्तिमुपयाति १८
अथाधिगम्यार्थमखण्डितं धिया गजोष्ट्रगोऽश्वाव्यजकर्म रोगनुत्
अपृच्छदेनं स च बस्तिमब्रवीद्विधिं च तस्याह पुनः ह्प्रचोदितः १९
आजोरणौ सौम्य गजोष्ट्रयोः कृते गवाश्वयोर्बस्तिमुशन्ति माहिषम्
अजाविकानां तु जरद्गवोद्भवं वदन्ति बस्तिं तदुपायचिन्तकाः २०
अरत्निमष्टादशषोडशाङ्गुलं तथैव नेत्रं हि दशाङ्गुलं क्रमात्
गजोष्ट्रगोऽश्वाव्यजबस्तिसंधौ चतुर्थभागे कृतकर्णिकं वदेत् २१
प्रस्थस्त्वजाव्योर्हि निरूहमात्रा गोवाजिषु द्वित्रिगुणं यथाबलम्
निरुहमुष्ट्रस्य तथाऽऽढकद्वयं गजस्य वृद्धिस्त्वनुवासनेऽष्टमः २२
कलिङ्गकुष्ठे मधुकं च पिप्पली वचा शताह्वा मदनं रसाञ्जनम्
हितानि सर्वेषु गुडः ससैन्धवो द्विपञ्चमूलं च विकल्पना त्वियम् २३
गजेऽधिकाऽश्वत्थवटाश्वकर्णकाः सखादिरप्रगहशालतालजाः
तथा च पर्ण्यौ धवशिग्रुपाटलीमधूकसाराः सनिकुम्भचित्रकाः २४
पलाशभूतीकसुराह्वरोहिणीकषाय उक्तस्त्वधिको गवां हितः
पलाशदन्तीसुरदारुकत्तृणद्रवन्त्य उक्तास्तुरगस्य चाधिकाः २५
खरोष्ट्रयोः पीलुकरीरखादिराः शम्याकबिल्वादिगणस्य च च्छदाः
अजाविकानां त्रिफलापरूषकं कपित्थकर्कन्धु सबिल्वकोलजम् २६
अथाग्निवेशः सततातुरान् नरान् हितं च पप्रच्छ गुरुस्तदाह च
सदाऽऽतुराः श्रोत्रियराजसेवकास्तथैव वेश्या सह पण्यजीविभिः २७
द्विजो हि वेदाध्ययनव्रताह्निकक्रियादिभिर्देहहितं न चेष्टते
नृपोपसेवी नृपचित्तरक्षणात् परानुरोधाद्बहुचिन्तनाद्भयात् २८
नृचित्तवर्तिन्युपचारतत्परा मृजाभिभूषानिरता पणाङ्गना
सदासनादत्यनुबन्धविक्रयक्रयादिलोभादपि पण्यजीविनः २९
सदैव ते ह्यागतवेगनिग्रहं समाचरन्ते न च कालभोजनम्
अकालनिर्हारविहारसेविनो भवन्ति येऽन्येऽपि सदाऽऽतुराश्च ते ३०
समीरणं वेगविधारणोद्धतं विबन्धसर्वाङ्गरुजाकरं भिषक्
समीक्ष्य तेषां फलवर्तिमादितः सुकल्पितां स्नेहवतीं प्रयोजयेत् ३१
पुनर्नवैरण्डनिकुम्भचित्रकान् सदेवदारुत्रिवृतानिदिग्धिकान्
महान्ति मूलानि च पञ्च यानि विपाच्य मूत्रे दधिमस्तु संयुते ३२
सतैलसर्पिर्लवणैश्च पञ्चभिर्विमूर्च्छितं बस्तिमथ प्रयोजयेत्
निरूहितं धन्वरसेन भोजितं निकुम्भतैलेन ततोऽनुवासयेत् ३३
बलां सरास्नां फलबिल्वचित्रकान् द्विपञ्चमूलं कृतमालकात् फलम्
यवान् कुलत्थांश्च पचेज्जलाढके रसः स पेष्यैस्तु कलिङ्गकादिभिः ३४
सतैलसर्पिर्गुडसैन्धवो हितः सदातुराणां बलवर्णवर्धनः
तथाऽनुवास्ये मधुकेन साधितं फलेन बिल्वेन शताह्वयाऽपि वा ३५
सजीवनीयस्तु रसोऽनुवासने निरूहणे चालवणः शिशोर्हितः
न चान्यदाश्वङ्गबलाभिवर्धनं निरूहबस्तेः शिशुवृद्धयोः परम् ३६
तत्र श्लोकः
फलकर्म बस्तिवरता नेत्रं यद्बस्तयो गवादीनाम्
सततातुराश्च दिष्टाः फलमात्रायां हितं चैषाम् ३७
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते सिद्धिस्थाने
फलमात्रासिद्धिर्नामैकादशोऽध्यायः ११

द्वादशोऽध्यायः
अथात उत्तरबस्तिसिद्धिं व्याख्यास्यामः १
इति ह स्माह भगवानात्रेयः २
अथ खल्वातुरं वैद्यः संशुद्धं वमनादिभिः
दुर्बलं कृशमल्पाग्निं मुक्तसंधानबन्धनम् ३
निर्हृतानिलविण्मूत्रकफपित्तं कृशाशयम्
शून्यदेहं प्रतीकारासहिष्णुं परिपालयेत् ४
यथाऽण्डं तरुणं पूर्णं तैलपात्रं यथैव च
गोपाल इव दण्डी गाः सर्वस्मादपचारतः ५
अग्निसंधुक्षणार्थं तु पूर्वं पेयादिना भिषक्
रसोत्तरेणोपचरेत् क्रमेण क्रमकोविदः ६
स्निग्धाम्लस्वादुहृद्यानि ततोऽम्ललवणौ रसौ
स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः ७
अन्योऽन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः
व्यत्यासादुपयोगेन प्रकृतिं गमयेद्भिषक् ८
सर्वक्षमो ह्यसंसर्गो रतियुक्तः स्थिरोन्द्रयः
बलवान् सत्त्वसंपन्नो विज्ञेयः प्रकृतिं गतः ९
एतां प्रकृतिमप्राप्तः सर्ववर्ज्यानि वर्जयेत्
महादोषकराण्यष्टाविमानि तु विशेषतः १०
उच्चैर्भाष्यं रथक्षोभमतिचङ्क्रमणासने
अजीर्णाहितभोज्ये च दिवास्वप्नं समैथुनम् ११
तज्जा देहोर्ध्वसर्वाधोमध्यपाडामदोषजाः
श्लेष्मजाः क्षयजाश्चैव व्याधयः स्युर्यथाक्रमम् १२
तेषां विस्तरतो लिङ्गमेकैकस्य च भेषजम्
यथावत्संप्रवक्ष्यामि सिद्धान् बस्तींश्च यापनान् १३
तत्रोच्चैर्भाष्यातिभाष्याभ्यां शिरस्तापशङ्खकर्णनिस्तोदश्रोत्रोपरोधमुखतालुकण्ठशोषतैमिर्यपिपा-साज्वरतमकहनुग्रहमन्यास्तम्भनिष्ठीवनोरःपार्श्वशूलस्वरभेदहिक्काश्वासादयः स्युः १
रथक्षोभात् संधिपर्वशैथिल्यहनुनासाकर्णशिरःशूलतोदकुक्षिक्षोभाटोपान्त्रकूजनाध्मान-हृदयेन्द्रियोपरोधस्फिक्पार्श्ववंक्षणवृषणकटीपृष्ठवेदनासंधिस्क-न्धग्रीवादौर्बल्याङ्गाभितापपादशोफप्रस्वापहर्षणादयः २
अतिचङ्क्रमणात् पादजङ्घोरुजानुवङ्क्षणश्रोणीपृष्ठशूलसक्थिसादनिस्तोदपिण्डिकोद्वेष्टनाङ्ग-मर्दांसाभितापसिराधमनीहर्षश्वासकासादयः ३
अत्यासनाद्रथक्षोभजाः स्फिक्पार्श्ववङ्क्षणवृषणकटीपृष्ठवेदनादयः ४
अजीर्णाध्यशनाभ्यां तु मुखशोषाध्मानशूलनिस्तोदपिपासागात्रसादच्छर्द्यतीसारमूर्च्छाज्व-रप्रवाहणामविषादयः ५
विषमाहिताशनाभ्यामनन्नाभिलाषदौर्बल्यवैवर्ण्यकण्डूपामागात्रावसादा वातादिप्रकोपजाश्च ग्रहण्यर्शोविकारादयः ६
दिवास्वप्नादरोचकाविपाकाग्निनाशस्तैमित्यपाण्डुत्वकण्डूपामादा-हच्छर्द्यङ्गमर्दहृत्स्तम्भजाड्यतन्द्रानिद्राप्रसङ्गग्रन्थिजन्मदौर्बल्यरक्तमूत्राक्षितातालुलेपाः ७
व्यवायादाशुबलनाशोरुसादशिरोबस्तिगुदमेढ्रवंक्षणोरुजानुजङ्घापादशूलहृद-यस्पन्दननेत्रपीडाङ्ग शैथिल्यशुक्रमार्गशोणितागमनकासश्वासशोणितष्ठीव-नस्वरावसादकटीदौर्बल्यैकाङ्गसर्वाङ्गरोगमुष्कश्वयथुवातवर्चोमूत्रसङ्गशुक्र-विसर्गजाड्यवेपथुबाधिर्यविषादादयः स्युः अवलुप्यत इव गुदः ताड्यत इव मेढ्रम् अवसीदतीव मनो वेपते हृदयं पीड्यन्ते सन्धयः तमः प्रवेश्यत इव च ८
इत्येवमेभिरष्टभिरपचारैरेते प्रादुर्भवन्त्युपद्रवाः १४
तेषां सिद्धिः--तत्रोच्चैर्भाष्यातिभाष्यजानामभ्यङ्गस्वेदोपनाहधूमनस्योपरिभक्तस्नेह-पानरसक्षीरादिवार्तहरः सर्वौ विधिर्मौनं च १
रथक्षोभातिचङ्क्रमणात्यासनजानां स्नेहस्वेदादि वातहरं कर्म सर्वं निदानवर्जनं च २
अजीर्णाध्यशनजानां निरवशेषतश्छर्दनं रूक्षः स्वेदो लङ्घनीयपाचनीयदीपनीयौषधावचारणं च ३
विषमाहिताशनजानां यथास्वं दोषहराः क्रियाः ४
दिवास्वप्नजानां धूमपानलङ्घनवमनशिरोविरेचनव्यायामरूक्षाशनारिष्टदीपनीयौषधोपयोगः प्रघर्षणोन्मर्दनपरिषेचनादिश्च श्लेष्महरः सर्वो विधिः ५
मैथुनजानां जीवनीयसिद्धयोः क्षीरसर्पिषोरुपयोगः तथा वातहराः स्वेदाभ्यङ्गोपनाहा वृष्याश्चाहाराः स्नेहाः स्नेहविधयो यापनाबस्तयोऽनुवासनं च मूत्रवैकृतबस्तिशूलेषु चोत्तरबस्तिविदारिगन्धादिगणजीवनीयक्षीरसंसिद्धं तैलं स्यात् १५
यापनाश्च बस्तयः सर्वकालं देयाः तानुपदेक्ष्यामः -- मुस्तोशीरबलारग्वधरास्नामञ्जिष्ठाकटुरोहिणीत्रायमाणापुनर्नवाबिभीतकगुडू-चीस्थिरादिपञ्चमूलानि पलिकानि खण्डशः कॢतान्यष्टौ च मदनफलानिप्रक्षाल्य जलाढके परिक्वाथ्य पादशेषो रसः क्षीरद्विप्रस्थसंयुक्तः पुनः शृतः क्षीरावशेषः पादजाङ्गलरसस्तुल्यमधुघृतः शतकुसुमामधुककुटजफलरसाञ्जनप्रियङ्गुकल्कीकृतः ससैन्धवः सुखोष्णो बस्तिः शुक्रमांसबलजननः क्षतक्षीणकासगुल्मशूलविषमज्वरब्रध्नकुण्डलोदावर्तकुक्षिशूलमूत्रकृच्छ्रासृग्र-जोविसर्गप्रवाहिकाशिरोरुजाजानूरुजङ्घाबस्तिग्रहाश्मर्युन्मादार्शःप्रमेहाध्मा-नवातरक्तपित्तश्लेष्मव्याधिहरः सद्यो बलजननो रसायनश्चेति १
एरण्डमूलपलाशात् षट्पलं शालिपर्णी पृश्निपर्णी बृहती कण्टकारिका गोक्षुरको रास्नाऽश्वगन्धा गुडूची वर्षाभूरारग्वधो देवदार्विति पलिकानि खण्डशः कॢप्तनि फलानि चाष्टौ प्रक्षाल्य जलाढके क्षीरपादे पचेत् । पादशेषं कषायं पूतं शतकुसुमाकुष्ठमुस्तपिप्पलीहपुषाबिल्ववचावत्सकफ-लरसाञ्जनप्रियङ्गुयवानीप्रक्षेपकल्कितं मधुघृततैलसैन्धवयुक्तं सुखोष्णं निरूहमेकं द्वौ त्रीन् वा दद्यात् । सर्वेषां प्रशस्तो विशेषतो ललितसुकुमारस्त्रीविहारक्षीणक्षतस्थविरचिरार्शसामपत्यकामानां च २
तद्वत् सहचरबलादर्भमूलसारिवासिद्धेन पयसा ३
तथा बृहतीकण्टकारीशतावरीच्छिन्नरुहाशृतेन पयसा मधुकमदनपिप्पलीकल्कितेन पूर्ववद्बस्तिः ४
तथा बलातिबलाविदारीशालिपर्णीपृश्निपर्णीबृहतीकण्टकारिकादर्भमूलपरूषक-काश्मर्यबिल्वफलयवसिद्धेन पयसा मधुकमदनकल्कितेन मधुघृतसौवर्चलयुक्तेन कासज्वरगुल्मप्लीहार्दितस्त्रीमद्यक्लिष्टानां सद्योबलजननो रसायनश्च ५
बलातिबलारास्नारग्वधमदनबिल्वगुडूचीपुनर्नवैरण्डाश्वगन्धासहचर-पलाशदेवदारुद्विपञ्चमूलानि पलिकानि यवकोलकुलत्थद्विप्रसृतं शुष्कमूलकानां च जलद्रोणसिद्धं निरूहप्रमाणावशेषं कषायं पूतं मधुकमदनशतपुष्पाकुष्ठपिप्पलीवचावत्सकफलरसाञ्जनप्रियङ्गु-यवानीकल्कीकृतं गुडघृततैलक्षौद्रक्षीरमांसरसाम्लकाञ्जिकसैन्धवयुक्तं सुखोष्णं बस्तिं दद्याच्छुक्रमूत्रवर्चः सङ्गे ऽनिलजे गुल्महृद्रोगाध्मानब्रध्नपार्श्वपृष्ठकटीग्रहसंज्ञानाशबलक्षयेषु च ६
हपुषार्धकुडवो द्विगुणार्धक्षुण्णयवः क्षीरोदकसिद्धः क्षीरशेषो मधुघृततैललवणयुक्तः सर्वाङ्गविसृतवातरक्तसक्तविण्मूत्रस्त्रीखेदितहितो वातहरो बुद्धिमेधाग्निबलजननश्च ७
ह्रस्वपञ्चमूलीकषायः क्षीरोदकसिद्धः पिप्पलीमधुकमदनकल्कीकृतः सगुडघृततैललवणः क्षीणविषमज्वरकर्शितस्य बस्तिः ८
बलातिबलापामर्गात्मगुप्ताष्टपलार्धक्षुण्णयवाञ्जलिकषायः सगुडघृततैललवणयुक्तः पूर्ववद्बस्तिः स्थविरदुर्बलक्षीणशुक्ररुधिराणां पथ्यतमः ९
बलामधुकविदारीदर्भमूलमृद्वीकायवैः कषायमाजेन पयसा पक्त्वा मधुकमदनकल्कितं समधुघृतसैन्धवं ज्वरार्तेभ्यो बस्तिं दद्यात् १०
शालिपर्णीपृश्निपर्णीगोक्षुरकमूलकाश्मर्यपरूषकखर्जूरफलमधूकपुष्पैर-जाक्षीरजलप्रस्थाभ्यां सिद्धः कषायः पिप्पलीमधुकोत्पलकल्कितः सघृतसैन्धवः क्षीणेन्द्रियविषमज्वरकर्शितस्य बस्तिः शस्तः ११
स्थिरादिपञ्चमूलीपञ्चपलेन शालिषष्टिकयवगोधूममाषपञ्चप्रसृतेन छागं पयः शृतं पादशेषं कुक्कुटाण्डरससममधुघृतशर्करासैन्धवसौवर्चलयुक्तो बस्तिर्वृष्यतमो बलवर्णजननश्च १२
इति यापना बस्तयो द्वादश १६
कल्पश्चैष शिखिरोनर्दहंससारसाण्डरसेषु स्यात् १७
सतिक्षिरिः समयूरः सराजहंसः पञ्चमूलीपयःसिद्धः शतपुष्पामधुकरास्नाकुटजमदनफलपित्पलीकल्को घृततैलगुडसैन्धवयुक्तो बस्तिर्बलवर्णशुक्रजननो रसायनश्च १
द्विपञ्चमूलीकुक्कुटरससिद्धं पयः पादशेषं पिप्पलीमधुकरास्नामदनकल्कं शर्करामधुघृतयुक्तं स्त्रीष्वतिकामानां बलजननो बस्तिः २
मयूरमपित्तपक्षपादास्यान्त्रं स्थिरादिभिः पलिकैः सजले पयसि पक्त्वा क्षीरशेषं मदनपिप्पलीविदारीशतकुसुमामधुककल्कीकृतं मधुघृत्सैन्धवयुक्तं बस्तिं दद्यात् स्त्रीष्वतिप्रसक्तक्षीणेन्द्रियेभ्यो बलवर्णकरम् ३
कल्पश्चैष विष्किरप्रतुदप्रसहाम्बुचरेषु स्यात् अक्षीरो रोहितादिषु च मत्स्येषु ४
गोधानकुलमार्जारमूषिकशल्लकमांसानां दशपलान् भागान् सपञ्चमूलान् पयसि पक्त्वा तत्पयःपिप्पलीफलकल्कसैन्धवसौवर्चलशर्करामधुघृततैलयुक्तो बस्तिर्बल्यो रसायनः क्षीणक्षतस्य सन्धानकरो मथितोरस्करथगजह-यभग्नवातबलासकप्रभृत्युदावर्तवातसक्तमूत्रवर्चश्शुक्राणां हिततमश्च ५
कूर्मादीनामन्यतमपिशितसिद्धं पयो गोवृषनागहयनक्रहंसकुक्कुटाण्डरसमधुघृतशर्करासैन्धवेक्षुरकात्मगुप्ताफलकल्कसंसृष्टो बस्तिर्वृद्धानामपि बलजननः ६
कर्कटकरसश्चटकाण्डरसयुक्तः समधुघृतशर्करो बस्तिः इत्येते बस्तयः परमवृष्याः उच्चटकेक्षुरकात्मगुप्ताशृतक्षीरप्रतिभोजनानुपानात् स्त्रीशतगामिनं नरं कुर्युः ७
गोवृषबस्तवराहवृषणकर्कटचटकसिद्धं क्षीरमुच्चटकेक्षुरकात्मगुप्तामधुघृतसैन्धयुक्तः किंचिल्लवणितो बस्तिः ८
दशमूलमयूरहंसकुक्कुटक्वाथात् पञ्चप्रसृतं तैलघृतवसामज्जचतुष्प्रसृतयुक्तं शतपुष्पामुस्तहपुषाकल्कीकृतः सलवणो बस्तिः पादगुल्फोरुजानुजङ्घात्रिकवङ्क्षणबस्तिवृषणानिलरोगहरः ९
मृगविष्किरानूपबिलेशयानामेतेनैव कल्पेन बस्तयो देयाः १०
मधुघृतद्विप्रसृतस्तुल्योष्णोदकः शतपुष्पार्धपलः सैन्धवार्धाक्षयुक्तो बस्तिर्वृष्यतमो मूत्रकृच्छ्रपित्तवातहरः ११
सद्योघृततैलवसामज्जचतुष्प्रस्थं हपुषार्धपलं सैन्धवार्धाक्षयुक्तो बस्तिर्वृष्यतमो मूत्रकृच्छ्रपित्तव्याधिहरो रसायनः १२
मधुतैलं चतुःप्रसृतं शतपुष्पार्धपलं सैन्धवर्धाक्षयुक्तो बस्तिर्दीपनो बृंहणो बलवर्णकरो निरुपद्रवो वृष्यतमो रसायनः क्रिमिकुष्ठोदावर्तगुल्मार्शोब्रध्नप्लीहमेहहरः १३
तद्वन्मधुघृताभ्यां पयस्तुल्यो बस्तिः पूर्वकल्केन बलवर्णकरो वृष्यतमो निरुपद्रवो बस्तिमेढ्रपाकपरिकर्तिकामूत्रकृच्छ्रपित्तव्याधिहरो रसायनश्च १४
तद्वन्मधुघृताभ्यां मांसरसतुल्यो मुस्ताक्षयुक्तः पूर्ववद्बस्तिर्वातबलासपादहर्षगुल्फत्रिकोरुजानुजंघानिकुञ्चन-बस्तिवृषणमेढ्रत्रिकपृष्ठशूलहरः १५
सुरासौवीरककुलत्थमांसरसमधुघृततैलसप्तप्रसृतो मुस्तशताह्वाकल्कितः सलवणो बस्तिः सर्ववातरोगहरः १६
द्विपञ्चमूलत्रिफलाबिल्वमदनफलकषायो गोमूत्रसिद्धः कुटजमदनफलमुस्तपाठाकल्कितः सैन्धवयावशूकक्षौद्रतैलमुक्तो बस्तिः श्लेष्मव्याधिबस्त्याटोपवातशुक्रसङ्गपाण्डुरोगाजीर्णविसूचिकालसकेषु देय इति १८
अत ऊर्ध्वं वृष्यतमान् स्नेहान् वक्ष्यामः--शतावरीगुडूचीक्षुविदार्यामलकद्राक्षाखर्जूराणां यन्त्रपीडितानां रसप्रस्थं पृथगेकैकं तद्वद्धृततैलगोमहिष्यजाक्षीराणां द्वौ द्वौ दद्यात् जीवकर्षभकमेदामहामेदात्वक्क्षीरीशृङ्गाटकमधूलिकामधुकोच्चटापिप्पलीपुष्करबीज-नीलोत्पलकदम्बपुष्पपुण्डरीककेशरकल्कान् पृषततरक्षुमांसकुक्कुटचटकचकोरमत्ता-क्षबर्हिजीवञ्जीवकुलिङ्गहंसाण्डरसवसामज्जादेश्च प्रस्थं दत्त्वा साधयेत् । ब्रह्मघोषशङ्खपटहभेरीनिनादैः सिद्धं सितच्छत्रकृतच्छायं गजस्कन्धमारोपयेद्भगवन्तं वृषध्वजमभिपूज्य तं स्नेहं त्रिभागमाक्षीकं मङ्गलाशीःस्तुतिदेवतार्चनैर्बस्तिं गमयेत् । नृणां स्त्रीविहारिणां नष्टरेतसां क्षतक्षीणविषमज्वरार्तानां व्यापन्नयोनिनां वन्ध्यानां रक्तगुल्मिनीनां मृतापत्यानामनार्तवानां च स्त्रीणां क्षीणमासरुधिराणां पथ्यतमं वलीपलितनाशनं विद्यात् १
बलागोक्षुरकरास्नाश्वगन्धाशतावरीसहचराणां शतं शतमापोथ्य जलद्रोणशते प्रसाध्यं तस्मिन् जलद्रोणावशेषे रसे वस्त्रपूते विदार्यामलकस्वरसयोर्बस्तमहिषवराहवृषकुक्कुटबर्हिहंसकारण्डवसारसाण्डरसानां घृततैलयोश्चैकैकं प्रस्थमष्टौ प्रस्थान् क्षीरस्य दत्त्वा चन्दनमधुकमधूलिकात्वक्क्षीरीबिसमृणा-लनीलोत्पलपटोलात्मगुप्तान्नपाकितालमस्तकखर्जूरमृद्वीकातामलकीकण्ट-कारीजीवकर्षभकक्षुद्रसहामहासहाशतावरीमेदापिप्पलीह्रीबेरत्वक्पत्रकल्कांश्च दत्त्वा साधयेत् । ब्रह्मघोषादिना विधिना सिद्धं बस्तिं दद्यात् । तेन स्त्रीशतं गच्छेत् न चात्रास्ते विहाराहारयन्त्रणा काचित् । एष वृष्यो बल्यो बृंहण आयुष्यो वलीपलितनुत् क्षतक्षीणनष्टशुक्रविषमज्वरार्तानां व्यापन्नयोनीनां च पथ्यतमः २
सहचरपलशतमुदकद्रोणचतुष्टये पक्त्वा द्रोणशेषे रसे सुपूते विदारीक्षुरसप्रस्थाभ्यामष्टगुणक्षीरं घृततैलप्रस्थं बलामधुकचन्दनमधूलिकासारिवामेदाम-हामेदाकाकोलीक्षीरकाकोलीपयस्यागुरुमञ्जिष्ठाव्याघ्रनखशटीसहचरसह-स्रवीर्यावराङ्गलोध्राणामक्षमात्रैर्द्विगुणशर्करैः कल्कैः साधयेत् । ब्रह्मघोषादिना विधिना सिद्धं बस्तिं दद्यात् । एष सर्वरोगहरो रसायनो ललितानां श्रेष्ठोऽन्तःपुरचारिणीनां क्षतक्षयवातपित्तवेदनाश्वासकासहरस्त्रिभागमाक्षिको वलीपालितनुद्वर्णरूपबलमांसशुक्रवर्धनः ३
इत्येते रसायनाः स्नेहबस्तयः सति विभवे शतपाकाः सहस्रपाका वा कार्या वीर्यबलाधानार्थमिति १९
भवन्ति चात्र--
इत्येते बस्तयः स्नेहाश्चोक्ता यापनसंज्ञिताः
स्वस्थानामातुराणां च वृद्धानां चाविरोधिनः २०
अतिव्यवायशीलानां शुक्रमांसबलप्रदाः
सर्वरोगप्रशमनाः सर्वेष्वृतुषु यौगिकाः २१
नारीणामप्रजातानां नराणां चाप्यपत्यदाः
उभयार्थकरा दृष्टाः स्नेहबस्तिनिरूहयोः २२
व्यायामो मैथुनं मद्यं मधूनि शिशिराम्बु च
संभोजनं रथक्षोभो बस्तिष्वेतेषु गर्हितम् २३
तत्र श्लोकाः--
शिखिगोनर्दहंसाण्डैर्दक्षवद्बस्तयस्त्रयः
विंशतिर्विष्किरैस्त्रिंशत्प्रतुदैः प्रसहैर्नव २४
विंशतिश्च तथा सप्तविंशतिश्चाम्बुचारिभिः
नव मत्स्यादिभिश्चैव शिखिकल्पेन बस्तयः २५
दश कर्कटकाद्यैश्च कूर्मकल्केन बस्तयः
मृगैः सप्तदशैकोनविंशतिर्विष्किरैर्दश २६
आनूपैर्दक्षशिखिवद्भूशयैश्च चतुर्दश
एकोनत्रिंशदित्येते सह स्नेहैः समासतः २७
प्रोक्ता विस्तरशो भिन्ना द्वे शते षोडशोत्तरे
एते माक्षिकसंयुक्ताः कुर्वन्त्यतिवृषं नरम् २८
नातियोगं न वाऽयोगं स्तम्भितास्ते च कुर्वते
मृदुत्वान्न निवर्तन्ते यस्य त्वेते प्रयोजिताः २९
समूत्रैर्बस्तिभिस्तीक्ष्णैरास्थाप्यः क्षिप्रमेव सः
शोफाग्निनाशपाण्डुत्वशूलार्शःपरिकर्तिकाः ३०
स्युर्ज्वरश्चातिसारश्च यापनात्यर्थसेवनात्
अरिष्टक्षारसीध्वाद्या तत्रेष्टा दीपनी क्रिया ३१
युक्त्या तस्मान्निषेवेत यापनान्न प्रसङ्गतः
इत्युच्चैर्भाष्यपूर्वाणां व्यापदः सचिकित्सिताः ३२
विस्तरेण पृथक् प्रोक्तास्तेभ्यो रक्षेन्नरं सदा
कर्मणां वमनादीनामसम्यक्करणापदाम् ३३
यत्रोक्तं साधनं स्थाने सिद्धिस्थानं तदुच्यते
इत्यध्यायशतं विंशमात्रेयमुनिवाङ्मयम् ३४
हितार्थं प्राणिनां प्रोक्तमग्निवेशेन धीमता
दीर्घमायुर्यशः स्वास्थ्यं त्रिवर्गं चापि पुष्कलम् ३५
सिद्धिं चानुत्तमां लोके प्राप्नोति विधिना पठन्
विस्तारयति लेशोक्तं संक्षिपत्यतिविस्तरम् ३६
संस्कर्ता कुरुते तन्त्रं पुराणं च पुनर्नवम्
अतस्तन्त्रोत्तममिदं चरकेणातिबुद्धिना ३७
संस्कृतं तत्त्वसंपूर्णं त्रिभागेनोपलक्ष्यते
तच्छङ्करं भूतपतिं संप्रसाद्य समापयत् ३८
अखण्डार्थं दृढबलो जातः पञ्चनदे पुरे
कृत्वा बहुभ्यस्तन्त्रेभ्यो विशेषोञ्छशिलोच्चयम् ३९
सप्तदशौषधाध्यायसिद्धिकल्पैरपूरयत्
इदमन्यूनशब्दार्थं तन्त्रदोषविवर्जितम् ४०
षड्त्रिंशता विचित्राभिर्भूषितं तन्त्रयुक्तिभिः
तत्राधिकरणं योगो हेत्वर्थोऽर्थः पदस्य च ४१
प्रदेशोद्देशनिर्देशवाक्यशेषाः प्रयोजनम्
उपदेशापदेशातिदेशार्थापत्तिनिर्णयाः ४२
प्रसङ्गैकान्तनैकान्ताः सापवर्गो विपर्ययः
पूर्वपक्षविधानानुमतव्याख्यानसंशयाः ४३
अतीतानागतावेक्षास्वसंज्ञोह्यसमुच्चयाः
निदर्शनं निर्वर्चनं संनियोगो विकल्पनम् ४४
प्रत्युत्सारस्तथोद्धारः संभवस्तन्त्रयुक्तयः
तन्त्रे समासव्यासोक्ते भवन्त्वेता हि कृत्स्नशः ४५
एकदेशेन दृश्यन्ते समासाभिहिते तथा
यथाऽम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा ४६
प्रबोधनप्रकाशार्थास्तथा तन्त्रस्य युक्तयः
एकस्मिन्नपि यस्येह शास्त्रे लब्धास्पदा मतिः ४७
स शास्त्रमन्यदप्याशु युक्तिज्ञत्वात् प्रबुध्यते
अधीयानोऽपि शास्त्राणि तन्त्रयुक्त्या विना भिषक्
नाधिगच्छति शास्त्रार्थानर्थान् भाग्यक्षये यथा ४८
दुर्गृहीतं क्षिणोत्येव शास्त्रं शस्त्रमिवाबुधम्
सुगृहीतं तदेव ज्ञं शास्त्रं शस्त्रं च रक्षति ४९
तस्मादेताः प्रवक्ष्यन्ते विस्तरेणोत्तरे पुनः
तत्त्वज्ञानार्थमस्यैव तन्त्रस्य गुणदोषतः ५०
इदमखिलमधीत्य सम्यगर्थान् विमृशति योऽविमनाः प्रयोगनित्यः समनुजसुखजीवितप्रदाता भवति धृतिस्मृतिबुद्धिधर्मवृद्धः ५१
यस्य द्वादशसाहस्री हृदि तिष्ठति संहिता
सोऽर्थज्ञः स विचारज्ञश्चिकित्साकुशलश्च सः ५२
रोगांस्तेषां चिकित्सां च स किमर्थं न बुध्यते
चिकित्सा वह्निवेशस्य सुस्थातुरहितं प्रति ५३
यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्
अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते ५४
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसंपूरिते सिद्धिस्थानेउत्तरबस्तिसिद्धिर्नाम द्वादशोऽध्यायः १२
समाप्तमिदं चरकतन्त्रम्
इति सिद्धिस्थान समाप्ता