॥चरणव्यूहः॥

अथ चरणव्यूहं व्याख्यास्यामः।
तत्र चत्वारो वेदा भवन्ति ॥
ऋग्वेदो यजुर्वेद सामवेदो ब्रह्मवेदः ॥
ऋग्वेदस्य शास्त्रवेद उपवेदः ।
यजुर्वेदस्य धनुर्वेद उपवेदः ।
सामवेदस्य गान्धर्ववेद उपवेदः ।
अथर्ववेदस्यायुर्वेद उपवेदः ।
दिव्यसाम्पदप्रायश्चित्तीयाभिचारिकाः ॥
ऋग्वेदस्यात्रेयगोत्रः । गायत्त्री छन्दः । अग्निर्देवता ।
यजुर्वेदस्य काश्यपगोत्रः । त्रैष्टुभं छन्दः । वायुर्देवता ॥
सामवेदस्य भारद्वाजगोत्रः । जगती छन्दः । विष्णुर्देवता ।
अथर्ववेदस्य वैखायनगोत्रः । आनुष्टुभं छन्दः । ब्रह्मा देवता ॥
ऋग्वेदः पीतवर्णेन पद्मपत्राक्षः सुव्यक्यग्रीवः कुञ्चितकेशश्मश्रुः सुप्रतिष्ठित जानुजङ्घाप्रमाणेन ।
सोऽपि विष्ठितः पञ्च ॥
ऋग्वेदस्य सप्त शाखा भवन्ति । तद् यथा । आश्वलायना-शाङ्खायना-साध्यायना शाकला बाकला- औदुम्बरा माण्डूक्याश्चेति ॥
तासाम् अध्ययनं
ऋचां दश सहस्राणि ऋचां पञ्च शतानि च ।
ऋचामशीतिः पादश्चेत्येतत्पारणमुच्यते ॥
तत्र यजुर्वेदस्य चतुर्विशतिः शाखा भवन्ति ।
तद्यथा । कण्वा-मध्यन्दिना जाबाला शापेया- श्वेता- श्वेततरा- ताम्रायणीया-पौर्णरसा आवटिका परमावटिका-औक्षा बोधा- शाण्डिका-आह्वरका-चरका मैत्रा-मित्रायणीया हारितकर्णा- शालाबलीया मर्चकठा-प्राच्यकठा कपिष्ठलकठा -उपवना- तित्तिरियाश्चेति ॥
तासाम् अध्ययनं
ऋचां द्वे सहस्रे शतं न्यूने मन्त्रे वाजसनेयके ।
श्लोकेन परमं ख्यातं ब्राह्मणं चतुर्गुणम् ॥
अष्टादश सहस्राणि भवन्ति । तान्येव त्रिगुणम् अधीत्य क्रमपारो भवति । सप्त स्थावराश्चेति ॥
शाखास्तिस्रो भवन्ति । पारांसर्वापारः समशि पारक्रमजटां क्रमपारश्चेति ॥
षड् अङ्गान्यधीत्य षडङ्गविद्भवन्ति ।
शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् इतिहासपुराणं षड् अङ्गानि । बृहत्सर्वानुक्रमणीश्चेति ॥

अथ यजुर्वेदः - प्रांशुः प्रलम्बजठरः स्थूलगलकपालेन । रक्तो वर्णेन । प्रादेशाः षड् दीर्घत्वेन यजुर्वेदस्य एतद् रूपं भवति ॥
सामवेदस्य शाखासहस्रम् आसीत् । अनध्याये ऽधीयमानाः सर्वे ते शक्रेण विनिहताः प्रलीनाः ॥
तत्र के चिद् अवशिष्टाः प्रचरन्ति ।
तद् यथा । राणायनीया सत्यमुग्रा कालया महाकालया-कैथिमा- लाङ्गलिकाश्चेति ।
कैथिमानाम् अपि षड् भेदा भवन्ति ।
तद् यथा । राणायनीया वातरायणीया वैनवृथाः -प्राचीनातेजसा- शौनकीयाश्चेति ॥
तासाम् अध्ययनं
अष्टौ सामसहस्राणि सामानि च चतुर्दश ।
सोह्यानि सरहस्याणि एतत् सामगणं स्मृतम् ॥
अथ सामवेदः सुवासाः सुगन्धी तेजस्वी मृदुवक्ता ब्रह्मण्यः प्रलम्बबाहुः सुस्निग्धचर्मा कृष्णो वर्णेन कातरो वयनेन ॥

षडरत्निमात्रप्रमाणवयनः स्मृतः । अन्ये ऋषयो ब्रह्मा सामानि तिष्ठन्ति संनिधौ । स भगवान् सामवेदो महेश्वरभक्तः ॥
तत्र ब्रह्मवेदस्य नव शाखा भवन्ति । तद् यथा । पिप्पलाद-प्रदान्ता-शौनका-स्तोदा-जाजला-जलदा-ब्रह्मवर्ति- देवदर्शि-चरणवेदाश्चेति ॥
तेषाम् अध्ययनं
ऋचां द्वादश सहस्राण्यशीतित्रिशतानि च ।
पर्यायकं द्वे सहस्रे अन्याश्चैवार्चिकान् बहून् ॥
तद्ग्राम्यारण्यकानि द्वादश षट् सहस्राणि भवन्ति ॥
तत्र गोपथब्राहणं शतप्रपाठकमासीत् । तस्यावशिष्टे द्वे ब्राह्मणे पूर्वोत्तरे चेति ॥
तत्र षड् अङ्गानि भवन्ति । शिक्षा कल्पो व्याकरणं निरुक्तम् इति ॥
तत्र पञ्च कल्पा भवन्ति ॥
नक्षत्रकल्पो वैतानकल्पः तृतीयः संहिताविधिः । चतुर्थो ऽङ्गिरसां कल्पः शान्तिकल्पश्च पञ्चमः ॥
तत्र लक्षणग्रन्था भवन्ति । चतुराध्यायिका । प्रातिशाख्यं । पञ्च पटलिका । बृहत्सर्वानुक्रमणीश्चेति ॥
तत्र द्वासप्तति परिशिष्टानि भवन्ति कौशिकोक्तानि ।
कृत्तिकारोहिणी । राष्ट्रसंसर्गः । राज्यप्रथमाभिषेकः । पुरोहित- कर्माणि । पुष्याभिषेक. । पिष्टरात्र्याः कल्पः । आरात्रिकं । घृतावेक्षणं । तिलधेनुः । भूमिदानं । तुलापुरुषं । आदित्यमण्डलः । हिरण्यगर्भः । हस्तिरथः । अश्वरथः । गोसहस्रदानं । हस्तिदीक्षा । वृषोत्सर्गः । इन्द्रोत्सवः । ब्रह्मयागः । विनायकाभिषेकः । अरणीलक्षणं । संभारलक्षणं । यज्ञपात्रलक्षणं । वेदिलक्षणं । कुण्डलक्षणं । समिधलक्षणं । स्रुवलक्षणं । हस्तलक्षणं । ज्वालालक्षणं । लक्षहोमः । कात्यायनविधिः । कोटिहोमः । गणमाला । घृतकम्बल । अनुलोमकल्पः ।
आसुरीकल्पः । उच्छुष्माकल्पः । समुच्चयप्रायश्चित्तानि ।
ब्रह्मकूर्चविधिः । तडागविधिः । पाशुपतव्रतविधिः । स्नानविधिः । सन्ध्योपासनविधिः । तर्पणविधिः । श्राद्धविधिः । अग्निहोत्रविथिः । उत्तमपटलं । वर्णपटलं । निघण्टुः । चरणव्यूहः । चन्द्रप्रातिपदिकं । ग्रहयुद्धं । ग्रहसंग्रहः ।राहुचारः । केतुचारः । ऋतुकेतुलक्षणं । कूर्मविभागः । मण्डलानि । दिग्दाहलक्षणं । उल्कालक्षणं । विद्युल्लक्षणं । निर्घातलक्षणं । परिवेषलक्षणं । नक्षत्रग्रहोत्पात-
लक्षणं । इन्द्रचापलक्षणं । सद्योवृष्टिलक्षणं । भूमिकम्पलक्षणं ।
गोशान्तिः । अद्भुतलक्षणं ।स्वप्नाध्यायः । अथर्वहृदयं । भारकी- गार्ग्य-बार्हस्पत्योशनाद्भुतानि । महाद्भुतानि ॥

तत्राष्टादशोपनिषदो भवन्ति- मुण्डक । प्रश्न । गर्भोपनिषत् । प्राणाग्निहोत्र । महोपनिषत्। बह्मोपनिषत् । बह्मविद्योपनिषत् । क्षुरिक । चूलिक । अनुचूलिक । अथर्वशिर । अथर्वशिख । अमृतबिन्दु । अमृतनाद ।योगशिखा । नारायणो । श्रुतिप्रत्यगानन्दो । नृसिंह । महो । ब्रह्मवेदो । अथर्वणो । परमात्मा । तत्रत्वशान्तिश्चेति ॥
तत्र ब्रह्मवेदे ऽष्टादश व्रतानि चरिष्यन् ॥
सावित्रीव्रतं । वेदव्रतं । नीलव्रतं । नीलोत्पलव्रतं । मृगारुव्रतं । रोहितव्रतं । विषासहिव्रतं । यमव्रतं । शान्तिव्रतं । कल्पव्रतं । ऋषिवतं । शिरोव्रतं । मैलव्रतं । शिखाव्रतं । अनुजव्रतं । दधिव्रतं । अङ्गिरोव्रतं । पाशुपतव्रतं चरेत् ॥
कृच्छ्रं । अतिकृछ्रं । तपाकृछ्रं । सांतपनं । माण्डूकीयं । तुलापुरुषं । महासांतपनं चेति ॥
यो वै ब्रह्मवेदेषूपनीतः सर्ववेदेषूपनीतः ।
यो वै ब्रह्मवेदेष्वनुपनीतः सर्ववेदेष्वनुपनीतः ॥
अन्यवेदे द्विजोत्तमः । ब्रह्मवेदमधीतुकामः । स पुनरुपनेयो । देवाश्च ऋषयश्च ॥ को अस्माकं ज्येष्ठः । क उपनेताः । क आचार्यः ॥

ब्रह्मा उवाच ॥
अथर्वा वै ज्येष्ठः । अथर्वा उपनेता । अथर्वा आचार्यः ।
अथर्वणा ब्रह्मत्वं चेति ॥
तद् अप्येतद् ऋचोक्तं
ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवम् आ ततान ।
भूतानां ब्रह्म प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥
अथर्ववेदे चतुर्णां वेदानां साङ्गोपाङ्गानां सवाकोवाक्यानां
इतिहासपुराणानाम् ॥
अथ ब्रह्मवेदः । कपिलो वर्णः । तीक्ष्णः । चण्डः । कामरूपी । विश्वात्मा । जितेन्द्रियः । स भगवान् ब्रह्मवेद इति ॥
चतुर्मुखो द्विपक्षो अतिधर्मा अतिवन्तप्राज्ञः । क्षुद्रत्वायुक्रूरः वैखायनगोत्रः । ब्रह्मा देवता ॥
य एकैकस्मिन्वेदानां नामगोत्रप्रमाणं च कीर्तयेत् । स सर्वपापविशुद्धो भवति । मृतश्च ब्रह्मलोकं स गच्छति ब्रह्मलोकं स गच्छतीति ॥ ॥

इति चरणव्यूहोपनिषत् समाप्ता ॥

अथर्वपरिशिष्टे पाठान्तरः

चरणव्यूहः॥

४९.१.१. ॐ अथातश्चरणव्यूहं व्याख्यास्यामः ॥
२. तत्र चत्वारो वेदा भवन्ति । ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेदश्चेति ॥
३. तत्र ऋग्वेदस्यार्थशास्त्रमुपवेदः । यजुर्वेदस्य धनुर्वेदोपवेदः । सामवेदस्य गान्धर्ववेदोपवेदः । ब्रह्मवेदस्यायुर्वेदोपवेदः । अभिचारकार्थशास्त्रमित्युच्यते ।
४. ऋग्वेद आत्रेयसगोत्रोऽग्निर्देवता। यजुर्वेदः काश्यपसगोत्रो वायुर्देवता । सामवेदो भारद्वाजसगोत्रो विष्णुर्देवता । ब्रह्मवेदो वैतायनसगोत्रो ब्रह्मा देवता ॥
५. अथातः ऋग्वेदः पीतवर्णः पद्मपत्राक्षः सुविभक्तग्रीवः कुञ्चित केशश्मश्रुः सुप्रतिष्ठितजानुसङ्घः । प्रमाणेन स वितस्तयः पञ्च ॥
६. तत्र ऋग्वेदस्य सप्त शाखा भवन्ति । तद्यथा। अश्वलायनाः । शाङ्खायनाः । साध्यायनाः । शाकलाः । बाष्कलाः । औदुम्बराः । माण्डूकाश्चेति ॥
७. तेषामध्ययनम् ।
ऋचां दश सहस्राणि ऋचां पञ्च शतानि च । ऋचामशीतिः पादश्च एतत्पारणमुच्यते ॥ १ ॥
४९.२.१. तत्र यजुर्वेदस्य चतुर्विंशतिर्भेदा भवन्ति ॥
तद्यथा ॥ काण्वाः।
माध्यंदिनाः । जाबालाः । शापेयाः । श्वेताः । श्वेततराः । ताम्रायणीयाः । पौर्णवत्साः । आवटिकाः । परमावटिकाः । हौष्याः । धौष्याः । खाडिकाः । आह्वरकाः । चरकाः । मैत्राः । मैत्रायणीयाः । हारितकर्णाः । शालायनीयाः ॥ मर्चकठाः । प्राच्यकठाः । कपिष्ठलकठाः । उपलाः । तैत्तिरीयाश्चेति ॥

२. तेषामध्ययनम् ।
द्वे सहस्रे शते न्यूने वेदे वाजसनेयके ।
सकलं परिसंख्यातं ब्राह्मणं तु चतुर्गुणम् ॥

३. अष्टादश शतानि भवन्ति । तान्येव त्रिगुणमधीत्य क्रमपारो भवति । सप्तसु वीराश्चेति ॥
४. शाखास्तिस्रो भवन्ति । तद्यथा । वार्चिकमर्धाध्ययनीयाः । पारश्चर्याः । पारश्रमणीयाः । पारक्रमवतः । क्रमपारश्चेति ॥

५. षडङ्गान्यधीत्य षडङ्गविद्भवति ।
शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति षडङ्गानि ॥

६. अथ यजुर्वेदः प्रांशुः प्रलम्बजठरः स्थूलगलकपालो रक्तो वर्णेन प्रादेशाः षड्दीर्घत्वेन यजुर्वेदस्यैतद्रूपं भवति ॥ २ ॥

१. तत्र सामवेदस्य शाखासहस्रमासीदनध्यायेष्वधीयानाः सर्वे ते शक्रेण विनिहताः । [ प्रविलीनाः !

२. तत्र केचिदवशिष्टाः प्रचरन्ति । तद्यथा । राणायणीयाः । साद्यमुग्राः । कालपाः । महाकालपाः । कौथुमाः । लाङ्गलिकाश्चेति ॥

३. कौथुमानां षड्भेदा भवन्ति । तद्यथा । सारायणीयाः ।
वातरायणीयाः । वैतधृताः । प्राचीनास्तेजसाः । अनिष्टकाश्चेति ॥
४९.३.४. तेषामध्ययनम् ॥

अष्टौसामसहस्राणि सामानि च चतुर्दश ॥
सोह्यानि सरहस्यानि एतत्सामगणं स्मृतम् ॥
५. अथ सामवेदः सुवर्चाः सुगन्धिस्तेजस्वी मृदुवक्ता ब्रह्मण्यः प्रलम्बबाहुर्दुश्चर्मी कृष्णो वर्णेन कातरः स्वरेणेति ॥

६. षडरत्निः प्रमाणेन च स्मृतः । स्तुवन्त्य् ऋषयो ब्रह्म सामानि तिष्ठति संनिधौ सभगवान्सामवेदो महेश्वरभक्तः ॥३॥

४. १. तत्र ब्रह्मवेदस्य नव भेदा भवन्ति । तद्यथा । पैप्पलादाः स्तौदाः । मौदाः । शौनकीयाः । जाजलाः । जलदाः ब्रह्मवदाः । देवदर्शाः । चारणवैद्याश्चेति ॥

२. तेषामध्ययनम् ।
ऋचां द्वादश सहस्राण्यशीतिस्त्रिशतानि च ।
पर्यायिकं द्विसहस्राण्यन्यांश्चैवार्चिकान्बहूनित्य्
३. एतद्ग्राम्यारण्यकानि षट्सहस्राणि भवन्ति ॥

४. तत्र ब्रह्मवेदस्याष्टाविंशतिरुपनिषदो भवन्ति । मुण्डका पृश्नव ब्रह्मविद्या क्षुरिका चूलिका अथर्वशिरो अथर्वशिखा गर्भोपनिषन्महोपनिषद्ब्रह्मोपनिषत्प्राणाग्निहोत्रं माण्डूक्यं नादबिन्दु ब्रह्मबिन्दु अमृतबिन्दु ध्यानबिन्दु तेजोबिन्दु योगशिरं योगतत्त्वं नीलरुद्रः पञ्चतापिनी एकदण्डी संन्यासवि... अरुणिः हंसः परमहंसः नारायणोपनिषद्वैतथ्यञ्चेति ॥

५. तत्र गोपथः शतप्रपाठकं ब्राह्मणमासीत्तस्यावशिष्टे द्वे ब्राह्म... पूर्वमुत्तरं चेति ॥

६. तत्र षडङ्गान्यधीत्य षडङ्गविद्भवति षडङ्गानि भवन्ति शिक्षा कल्पोव्याकरणं निरुक्तं छन्दो ज्योतिषमिति ॥

४९.४.७. पञ्च कल्पा भवन्ति ।
नक्षत्रकल्पो वैतानकल्पस्तृतीयः संहिताविधिः ।
चतुर्थ आङ्गिरसः कल्पः शान्तिकल्पस्तु पञ्चमः ॥

८. लक्षणग्रन्था भवन्ति । चतुराध्यायिका प्रातिशाख्यं पञ्चपटलिका दन्त्योष्ठविधिर्बृहत्सर्वानुक्रमणी चेति ॥

९. तत्र द्वासप्ततिः परिशिष्टाणि भवन्ति कौशिकोक्तानि ।
कृत्तिकारोहिणी । राष्टसंवर्गः । राजप्रथमाभिषेकः । पुरोहितकर्मणि । पुण्याभिषेकः । पिष्टरात्र्याः कल्पः । आरात्रिकम् । घृतावेक्षणम् । तिलधेनुः । भूमिदानम् । तुलापुरुषः । आदित्यमण्डकः । हिरण्यगर्भः । हस्तिरथः । अश्वरथः । गोसहस्रदानम् । हस्तिदीक्षा । अश्वदीक्षा । वृषोत्सर्गः । इन्द्रोत्सवः । ब्रह्मयागः । स्कन्दयागः । संभारलक्षणम् । अरणिलक्षणम् । यज्ञपात्रलक्षणम् । वेदिलक्षणम् । कुण्डलक्षणम् । समिल्लक्षणम् । स्रुवलक्षणम् । हस्तलक्षणम्। ज्वालालक्षणम्। लक्षहोमः । काङ्कायनोक्त बृहल्लक्षहोमः । कोटिहोमः । गणमाला । घृतकम्बलम् । अनुलोमकल्पः । आसुरीकल्पः । उच्छुष्मकल्पः । समुच्चयप्रायश्चित्तानि । ब्रह्मकूर्चविधिः । पैठीनसितडागविधिः। पाशुपतव्रतविधिः। संध्योपासनविधिः । स्नानविधिः । तर्पणविधिः । श्राद्धविधिः । अग्निहोत्रविधिः । उत्तमपटलम् । वर्णपटलम् । निघण्टुः । चरणव्यूहः । चन्द्रप्रातिपदिकम् । ग्रहयुद्धम् । ग्रहसंग्रहः । राहुचारः । केतुचारः । ऋतुकेतुलक्षणम् । कूर्मविभागः । मण्डलानि । दिग्दाहलक्षणम् । उल्कालक्षणम् । विद्युल्लक्षणम्॥ निर्घातलक्षणम् । परिवेषलक्षणम् । भूमिकम्पलक्षणम् । नक्षत्रग्रहोत्पातलक्षणम् । उत्पातलक्षणम् । सद्योवृष्टिलक्षणम् । गोशान्तिः । अद्भुतशान्तिः । स्वप्नाध्यायः । अथर्वहृदयम् ।
भार्गवीयगार्ग्यबार्हस्पत्यौशनसाद्भुतानि । महाद्भुतानि । बृहत्सर्वानुक्रमणी चेति ॥ ४९.४.१०.

तत्र पञ्चदशोपनिषदो भवन्ति । मुण्डका । प्रश्नका । ब्रह्मविद्या । क्षुरिका । चूलिका । अथर्वशिरः । अथर्वशिखा । गर्भोपनिषत् । महोपनिषत् । ब्रह्मोपनिषत् । प्राणाग्निहोत्रम् । माण्डूक्यम् । वैतथ्यम् । अद्वैतम् । अलातशान्तिश्चेति ॥

११. तत्र ब्रह्मवेदेऽष्टादश व्रतानि चरिष्यन्सावित्रीव्रतम् । वेदव्रतम् ।
वेदोत्तरव्रतम् । मैलव्रतम् । मैलोत्तरव्रतम् । मृगारव्रतम् । रेहितव्रतम् । विषासहिव्रतम् । यमव्रतम् । शान्तिव्रतम् । शिखिव्रतम् । गणव्रतम् । शिरोव्रतम् । शिखाव्रतम् । मरुद्व्रतम् । अधिव्रतम् । अङ्गिरोव्रतम् । पाशुपतव्रतं चरेत् ॥

१२. कृच्छ्रम् । तप्तकृच्छ्रम् । अतिकृच्छ्रम् । सर्वकृच्छ्रम् । मौन्दभायः । तुलापुरुषः । सांतपनम् । महासांतपनं चेति ॥

१. यो वै ब्रह्मवेदेषूपनीतः स सर्ववेदेषूपनीतो
२. यो वै ब्रह्मवेदेष्वनुपनीतः स सर्ववेदेष्वनुपनीतः ॥
३. अन्य वेदे द्विजो यो व्रह्मवेदमधीतुकामः स पुनरुपनेयो
४. देवाश्च ऋषयश्च ब्रह्माणमूचुः ॥
५. को नो स्मो ज्येष्ठः । क उपनेता । क आचार्यः । को ब्रह्मत्वं .... चेति ॥
६. तान्ब्रह्माब्रवीत् ॥
७. अथर्वा वो ज्येष्ठोऽथर्वोपनेताथर्वाचार्योऽथर्वा ब्रह्मत्वं चेति ॥
८. तदप्येतदृचोक्तम् । ब्रह्मज्येष्ठेत्येतया ॥
९. इति तस्याहं ब्रह्मवेदश्चतुर्णां वेदानां साङ्गोपाङ्गानां तं सवाकोवाक्यानां सेतिहासपुराणानाम् ॥
१०. अथातो ब्रह्मवेदः कपिलो वर्णेन तीक्ष्णः प्रचण्डः कामरूपी
विश्वात्मा जितेन्द्रियः । स तस्मिन्भगवति दुर्वारज्वालः ॥
४९.५.११.क्षुद्रकर्मा स च भगवान्ब्रह्मवेदश्चतुर्मुखो द्विपक्षो दान्तो धर्मी
बलवान्प्राज्ञः कृतोत्थापनीयः क्रूरः षड्रात्राणि विमृशी षड्रात्राणिषडवैतायनो गोत्रेण । १२. य एकैकस्मिन्वेदानां नामवर्णगोत्ररूपप्रमाणं च कीर्तयेद्यो
विद्वान् जातिस्मरो भवति मृतः स ब्रह्मलोकं गच्छति । मृतः स ब्रह्मलोकं गच्छति ॥ मृतः स ब्रह्मलोकं गच्छतीति ॥ ५ ॥
इति चरणव्यूहः समाप्तः ॥ ४९ ॥



सम्पाद्यताम्

टिप्पणी

"चरणव्यूह" इति नाम इदमस्ति विकिस्रोतसि - https://sa.wikisource.org/wiki/चरणव्यूह

क्लेशश्चेत् चरणव्यूहनाम्ना अनेके ग्रन्थाः सन्ति । तेषां विचारेषु भेदा अपि । तेषु प्रचुरतरो ग्रन्थः अयं https://ia800906.us.archive.org/21/items/caranavyuha/caranavyuha.pdf

चरणव्यूहः अथर्ववेद-परिशिष्टस्य ऊनपञ्चाशत्तमः अध्यायः। चरणव्यूहस्य यः पाठः उपरि प्रस्तुतः सः पाठः अथर्वपरिशिष्टे अस्ति, तयोः किञ्चिदन्तरम्। अथर्वपरिशिष्टे चरणव्यूहोपनिषत् समाप्ता स्थाने इति चरणव्यूहः समाप्तः पाठः अस्ति। उपर्युक्तपाठस्य स्रोतः सम्प्रति न ज्ञायते।

"https://sa.wikisource.org/w/index.php?title=चरणव्यूह&oldid=398219" इत्यस्माद् प्रतिप्राप्तम्