चारुचर्या
क्षेमेन्द्रः
१९३२

महाकविश्रीक्षेमेन्द्रकृता
चारुचर्या ।

श्रीलाभसुभगः सत्यासक्तः स्वर्गापवर्गदः ।
जयतात्त्रिजगत्पूज्यः सदाचार इवाच्युतः ॥ १ ॥

ब्राह्मे मुहूर्ते पुरुषस्त्यजेन्निद्रामतन्द्रितः ।
प्रातः प्रबुद्धं कमलमाश्रयेच्छ्रीर्गुणाश्रया ॥ २ ॥

पुण्यपूतशरीरः स्यात्सततं स्नाननिर्मलः ।
तत्याज वृत्रहा नानात्यापं वृत्रवधार्जितम् ॥ ३ ॥

न कुर्वीत क्रियां कांचिदनभ्यर्च्य महेश्वरम् ।
ईशार्चनरतं श्वेतं नाभून्नेतुं यमः क्षमः ॥ ४ ॥

श्राद्धं श्रद्धान्वितं कुर्याच्छास्त्रोक्तेनैव वर्त्मना ।
भुवि पिण्डं ददौ विद्वान्भीष्मः पाणौ न शंतनोः ॥ ५ ॥

नोत्तरस्यां प्रतीच्यां वा कुर्वात शयने शिरः ।
शय्याविपर्ययागर्भो दितेः शक्रेण पातितः ॥ ६ ॥

श्वेतोऽर्थिरहितं भुक्त्वा निजमांसाशनोऽभवत् ॥ ७ ॥

जपहोमार्चनं कुर्यात्सुधौतचरणः शुचिः ।
पादशौचविहीनं हि प्रविवेश नलं कलिः ॥ ८॥

न संचरणशीलः स्यान्निशि निःशङ्कमानसः ।
माण्डव्यः शूललीनोऽभूदचौरश्चौरशङ्कया ॥ ९ ॥

न कुर्यात्परदारेच्छां विश्वासं स्त्रीषु वर्जयेत् ।
हतो दशास्यः सीतार्थे हतः पत्न्या विदूरथः ॥ १० ॥

न मद्यव्यसनी क्षीबः कुर्याद्वेतालचेष्टितम् ।
वृष्णयो हि ययुः क्षीबास्तृणप्रहरणाः क्षयम् ॥ ११॥

ईर्ष्या कलहमूलं स्यात्क्षमा मूलं हि संपदाम् ।
ईर्ष्णदोषाद्विप्रशापमवाप जनमेजयः ।। १२ ॥

न त्यजेद्धर्ममर्यादामपि क्लेशदशां श्रितः ।
हरिश्चन्द्रो हि धर्मार्थी सेहे चण्डालदासताम् ॥ १३ ॥

सत्यव्रतभङ्गेन कार्य धीमान्प्रसाधयेत् ।
ददर्श नरकक्लेशं सत्यनाशायुधिष्ठिरः ॥ १४ ॥

कुर्वीत संगतं सद्भिर्नासद्भिर्गुणवर्जितैः ।
प्राप राघवसंगत्या प्राज्यं राज्यं विभीषणः ॥ १५ ॥

मातरं पितरं भक्त्या तोषयेन्न प्रकोपयेत् ।
मातृशापेन नागानां सर्पसत्रेऽभवत्क्षयः ॥ १६ ॥

जराग्रहणतुष्टेन निजयौवनदः सुतः ।
कृतः कनीयान्प्रणतश्चक्रवर्ती ययातिना ॥ १७ ॥ (युग्मम्)

दानं सत्त्वमितं दद्यान्न पश्चातापदूषितम् ।
बलिनात्मार्पितो बन्धे दानशेषस्य शुद्धये ॥ १८ ॥

त्यागे सत्त्वनिधिः कुर्यान्न प्रत्युपकृतिस्पृहाम् ।
कर्णः कुण्डलदानेऽभूत्कलुषः शक्तियाच्ञ्चया ॥ १९ ॥

ब्राह्मणान्नावमन्येत ब्रह्मशापो हि दुःसहः ।
तक्षकाग्नौ ब्रह्मशापात्परीक्षिदगमत्क्षयम् ॥ २० ॥

दम्भारम्भोद्धतं धर्म नाचरेदन्तनिष्फलम् ।
ब्राह्मण्यदम्भलब्धास्त्र विद्या कर्णस्य निष्फला ॥ २१ ॥

नासेव्यसेवया दध्यादेवाधीने धने वियम् ।
भीष्मद्रोणादयो याताः क्षयं दुर्योधनाश्रयात् ॥ २२ ॥

परप्राणपरित्राणपरः कारुण्यवान्भवेत् ।
मांसं कपोतरक्षायै स्वं श्येनाय ददौ शिवि ॥ २३ ॥

अद्वेषपेशलं कुर्यान्मनः कुसुमकोमलम् ।

बभूव द्वेषदोषेण देवदानवसंक्षयः ॥ २४ ॥

अविस्मृतोपकारः स्यान्न कुर्वीत कृतघ्नताम् ।
हत्वोपकारिणं विप्रो नाडीजङ्घमघश्च्युतः ॥ २५ ॥

स्त्रीजितो न भवेद्धीमानगाढरागवशीकृतः ।
पुत्रशोकादशरथो जीवं जायाजितोऽत्यजत् ॥ २६ ॥

न स्वयं संस्तुतिपदैर्ग्लानिं गुणगणं नयेत् ।
स्वगुणस्तुतिवादेन ययातिरपतद्दिवः ॥ २७ ॥

त्यजेन्मृगव्यव्यसनं हिंसयातिमलीमसम् ।
मृगयारसिकः पाण्डुः शापेन तनुमत्यजत् ॥ २८ ॥

क्षिपेद्वाक्यशरांस्तीक्ष्णान्न पारुष्यव्युपप्लुतान् ।
वाक्पारुष्यरुषा चक्रे भीमः कुरुकुलक्षयम् ॥ २९ ॥

परेषां क्लेशदं कुर्यान्न पैशुन्यं प्रभोः प्रियम् ।
पैशुन्येन गतौ राहोश्चन्द्रार्को भक्षणीयताम् ॥ ३० ॥

कुर्यान्नीचनाभ्यस्तां न याच्या मानहारिणीम् ।
बलियाच्ञापरः प्राप लाघवं पुरुषोत्तमः ॥ ३१ ॥

न जातूल्लङ्घनं कुर्यात्सतां मर्मविदारणम् ।
चिच्छेद वदनं शंभुर्ब्रह्मणो वेदवादिनः ॥ ३२ ॥

न बन्धुसंबन्धिजनं दूषयेन्नापि वर्जयेत् ।
दक्षयज्ञक्षयायाभूत्रिनेत्रस्य विमानना ॥ ३३ ॥

न विवादमदान्धः स्यान्न परेषाममर्षणः ।
वाक्पारुष्याच्छिरश्छिन्नं शिशुपालस्य शौरिणा ॥ ३४ ॥

गुणस्तवेन कुर्वीत महतां मानवर्धनम् ।

हनूमानभवत्स्तुत्या रामकार्यभरक्षमः ॥ ३५ ॥

गुणेष्वेवादरं कुर्यान्न जातो जातु तत्त्ववित् ।
द्रौणिर्द्वजोऽभवच्छूद्रः शूद्रश्च विदुरः क्षमी ॥ ३६ ॥

नात्यर्थमर्थार्थनया धीमानुद्वैजयेज्जनम् ।
अब्धिर्वताश्वरत्नश्रीर्मथ्यमानोऽसृजद्विषम् ॥ ३७ ॥

वक्रः क्रूरतरैर्लुब्धैर्न कुर्यात्प्रीतिसंगतिम् ।
वसिष्ठस्याहरद्धेनुं विश्वामित्रो निमन्त्रितः ॥ ३८ ॥

तीव्रे तपसि लीनानामिन्द्रियाणां न विश्वसेत् ।
विश्वामित्रोऽपि सोत्कण्ठः कण्ठे जग्राह मेनकाम् ॥ ३९ ॥

कुर्याद्वियोगदुःखेषु धैर्यमुत्सृज्य दीनताम् ।
अश्वत्थामवधं श्रुत्वा द्रोणो गतधृतिर्हतः ॥ ४० ॥

न क्रोधयातुधानस्य धीमानाच्छेद्धीनताम् ।
पपौ राक्षसबद्धीमः क्षतजं रिपुवक्षसः
प्रभुप्रसादे नो दद्यात्खविनाशास्पदे मतिम् ।
स्वक्षयायोद्भुतं युद्धं बाणख्यक्षमयाचत ॥ ४२ ॥

विद्योद्योगी गतोद्वेगः सेवया तोषयेद्गुरुम् ।
गुरुसेवापरः सेहे कायक्लेशदशां कचः ॥ ४३ ॥

भक्तं भक्तं हितं रक्तं निर्दोष न परित्यजेत् ।
रामस्त्यक्त्वा सती सीतां शोकशल्यातुरोऽभवत् ॥ ४४ ॥

रक्षेत्ख्यातिं पुनः स्मृत्या यशःकायस्य जीवनीम् ।

च्युतः स्मृतो जनैः स्वर्गमिन्द्रद्युम्नः पुनर्गतः ॥ ४५ ॥

न कदर्यतया रक्षेल्लक्ष्मीं क्षिप्रपलायिनीम् ।
युक्त्या व्याडीन्द्रदत्ताभ्यां हृता श्रीनन्दभूभृतः ॥ ४६॥

शक्तिक्षये क्षमां कुर्यान्नाशक्तः शक्तमाक्षिपेत् ।
कार्तवीर्यः ससंरम्भं बबन्ध दशकंधरम्घ ॥ ४७ ॥

वेश्यावचसि विश्वासी न भवेन्नित्यकैतवे ।
ऋष्यशृङ्गोऽपि निःसङ्गः शृङ्गारी वेश्यया कृतः ॥ ४८ ॥

अल्पमप्यवमन्येत न शत्रुं बलदर्पितः
रामेण रामः शिशुना ब्राह्मण्यदययोज्झितः ॥ ४९ ॥

जगद्वैरी जरासंधः पाण्डवेन द्विधा कृतः ॥ ५० ॥

औचित्यप्रच्युताचारो युक्त्या स्वार्थं न साधयेत् ।
व्याजवालिवधेनैव रामकीर्तिः कलङ्किता ॥ ५१ ॥

वर्जयेदिन्द्रियजयी विजने जननीमपि ।
पुत्रीकृतोऽपि प्रद्युम्नः कामितः शम्बरस्त्रिया ॥ ५२ ॥

न तीव्रतपसां कुर्याद्धैर्यविप्लवचापलम् ।
नेत्राग्निशलभीभावं भवोऽनैषीन्मनोभवम् ॥ ५३ ॥

न नित्यकलहाक्रान्ते सक्तिं कुर्वीत कैतवे ।
रुक्मी फलकदुर्घाते ते हलभृता हतः ॥ ५४॥

प्रभुप्रसादे सत्याशां न कुर्यात्स्वप्नसंनिभे ।
नन्देन मन्त्री निहितः शकटालो हि बन्धने ॥ ५५॥

न लोकायतवादेन नास्तिकत्वेऽर्पयेद्धियम् ।
हरिर्हिरण्यकशिपुं जघान स्तम्भनिर्गतः ॥ ५६ ॥

अत्युन्नतपदारूढः पूज्यान्नैवावमानयेत् ।
नहुषः शक्रतामेत्य च्युतोऽगस्त्यावमाननात् ॥ ५७ ॥

संधिं विधाय रिपुणा न निःशङ्कः सुखी भवेत् ।
संधिं कृत्वावधीदिन्द्रो वृत्रं निःशङ्कमानसः ॥ ५८ ॥

हितोपदेशं श्रुत्वा तु कुर्वीत च यथोचितम् ।
विदुरोक्तमकृत्वा तु शोच्योऽभूत्कौरवेश्वरः ॥ ५९ ॥

बह्वन्नाशनलोभेन रोगी मन्दरुचिर्भवेत् ।
प्रभूताज्यभुजो जाड्यं दहनस्याप्यजायत ॥६० ॥

यत्नेन शोषयेद्दोषान्न तु तीव्रतैस्तनुम् ।
तपसा कुम्भकर्णोऽभून्नित्यनिद्राविचेतनः ॥ ६१ ॥

स्थिरताशां न बध्नीयात्भुवि भावेषु भाविषु ।
रामो रघुः शिविः पाण्डुः क्व गतास्ते नराधिपाः ॥ ६२ ॥

विडम्बयेन्न वृद्धानां वाक्यकर्मवपुःक्रियाः ।
श्रीसुतः प्राप वैरूप्यं विडम्बिततनुर्मुनेः ॥ ६३ ॥

नोपदेशेऽप्यभव्यानां मिथ्या कुर्यात्प्रवादिताम् ।
शुक्रश्हाड्गुण्यगुप्तापि प्रक्षीणा दैत्यसंततिः ॥ ६४ ॥

न तीव्रदीर्घवैराणां मन्युं मनसि रोपयेत् ।
कोपेनापातयन्नन्दं चाणक्यः सप्तभिर्दिनैः ॥ ६५ ॥

न सतीनां तपोदीप्तं कोपयेत्क्रोधपावकम् ।
वधाय दशकण्ठस्य वेदेवत्यत्यजत्तनुम् ॥ ६६ ॥

गुरुमाराधयेद्भक्त्या विद्या विनयसाधनम् ।
रामाय प्रददौ तुष्टो विश्वामित्रोऽस्त्रमण्डलम् ॥ ६७ ॥

वसु देयं स्वयं दद्याद्वलाद्यद्दापयेत्परः।
द्रुपदोऽपन्हवी राज्यं द्रोणेनाक्रम्य दापितः ॥ ६८ ॥

साधयेद्धर्मकामार्थान्परस्परमबाधकान् ।
त्रिवर्गसाधना भूपा बभूवुः सगरादयः ॥ ६९ ॥

स्वकुलान्यूनतां नेच्छेत्तुल्यः स्यादथवाधिकः ।
सोत्कर्षेऽपि रघोर्वंशे रामोऽभूत्स्वकुलाधिकः ॥ ७०॥

कुर्यात्तीर्थाम्बुभिः पूतमात्मानं सततोज्वलम् ।
लोमशादिष्टतीर्थेभ्यः प्रापुः पार्थाः कृतार्थताम् ॥ ७१ ॥

आपत्कालोपयुक्तासु कलासु स्यात्कृतश्रमः ।
नृत्तवृत्तिविराटस्य किरीटी भवनेऽभवत् ॥ ७२ ॥

अरागभोगसुभगः स्यात्प्रसक्तविरक्तधीः ।
राज्ये जनकराजोऽभून्निलेंपोऽम्भसि पद्मवत् ॥ ७३ ॥

अशिष्यसेवया लाभलोभेन स्याद्गुरुर्लघुः ।
संवर्तयज्ञयाच्ञाभिर्लज्जां लेभे बृहस्पतिः ॥ ७४ ॥

नष्टशीलां त्यजेन्नारी रागवृद्धिविधायिनीम् ।
चन्द्रोच्छिष्टाधिकप्रीत्यै पत्नी निन्द्याप्यभूद्गुरोः ॥ ७५ ॥

न गीतवाद्याभिरतिर्विलासव्यसनी भवेत् ।

वीणाविनोदव्यसनी वत्सेशः शत्रुणा हृतः ॥ ७६ ॥

उद्वेजयेन्न तैक्ष्ण्येन रामाः कुसुमकोमलाः ।
सूर्यो भार्याभयोच्छित्यै तेजो निजमशातयत् ।। ७७ ।।

पद्मवन्न नयेत्कोषं धूर्तभ्रमरभोज्यताम् ।
सुरैः क्रमेण नीतार्थः श्रीहीनोऽभूत्पुराम्बुधिः ॥ ७८ ॥

नोपदेशामृतं प्राप्तं भग्नकुम्भनिभस्त्यजेत् ।
पार्थो विस्मृतगीतार्थः सासूयः कलहेऽभवत् ॥ ७९ ॥

न पुत्रायत्तमैश्चर्य कार्यमायः कदाचन ।
पुत्रातिप्रभुत्वोऽभूत्धृतराष्ट्रस्तृणोपमः ॥ ८० ।।

ने शत्रुशेषदूष्याणां स्कन्धे कार्यं समर्पयेत् ।
निष्प्रतापोऽभवत्कर्णः शल्यतेजोवधादितः ।। ८१ ॥

न लब्धे प्रभुसंमाने फलक्लेशं समाश्रयेत् ।
ईश्वरेण धृतो मूर्ध्नि क्षीण एव क्षपापतिः ॥ ८२ ॥

श्रुतिस्मृत्युक्तमाचारं न त्यजेत्साधुसेवितम् ।
दैत्यानां श्रीवियोगोऽभूत्सत्यधर्मच्युतात्मनाम् ।। ८३ ॥

श्रियः कुर्यात्पलायिन्या बन्धाय गुणसंग्रहम् ।
दैत्यांस्त्यक्त्वा श्रिता देवा निर्गुणान्सगुणाः श्रिया ।। ८४ ।।

पदाग्निं गां गुरुं देवं न चोच्छिष्टः स्पृशेद्धृतम् ।
दानवानां विनष्टा श्रीरुच्छिष्टस्पृष्टसर्पिषाम् ।। ८५ ॥

प्रतिलोमविवाहेषु न कुर्यादुन्नतिस्पृहाम् ।
ययातिः शुक्रकन्यायां सस्पृहो म्लेच्छतां गतः ।। ८६ ॥

रूपार्थकुलविद्यादिहीनं नोपहसेन्नरम् ।

हसन्तमशपन्नन्दी रावणं वानराननः ॥ ८५ ॥

बन्धूनां वारयेद्वैरं नैकपक्षाश्रयो भवेत
कुरुपाण्डवसङ्ग्रामे युयुधे न हलायुधः ॥ ८८ ॥

परोपकारं संसारसारं कुर्वीत सत्त्ववान् ।
निदधे भगवान्बुद्धः सर्वसत्त्वोधृतौ धियम् ॥ ८२ ॥

बिभृयाद्वन्धुमधनं मित्रं त्रायेत दुर्गतम् ।
बन्धुमित्रोपजीव्योऽभूदर्थिकल्पद्रुमो बलिः ॥ ९० ॥

न कुर्यादभिचारोग्रवध्यादिकुहकाः क्रियाः ।
लक्ष्मणेनेन्द्रजित्कृत्याद्यभिचारमयो हतः ॥ ९१ ॥

ब्रह्मचारी गृहस्थः स्याद्वानप्रस्थो यतिः क्रमात् ।
आश्रमादाश्रमं याता ययातिप्रमुखा नृपः ॥ ९२ ॥

कुर्याद्व्ययं स्वहस्तेन प्रभूतधनसंपदाम् ।
अगस्त्यभुक्ते वातापौ कोषस्यान्यैः कृतो व्ययः ॥ ९३ ॥

जन्मावधि न तत्कुर्यादन्ते संतापकारि यत् ।
सस्सारैकशिरःशेषः सीताक्लेशं दशाननः ॥ ९४ ॥

जराशुभ्रेषु केशेषु तपोवनरुचिर्भवेत् ।
अन्ते वनं ययुर्धीराः कुरुपूर्वा महीभुजः ॥ ९५ ॥

पुनर्जन्मजराच्छेदकोविदः स्याद्वयःक्षये ।
विदुरेण पुनर्जन्मबीजं ज्ञानानले हुतम् ॥ ९६ ॥

परमात्मानमन्तेऽन्तर्ज्योतिः पश्येत्सनातनम् ।
तत्प्राप्त्या योगिनो जाताः शुकशान्तनवादयः ॥ ९७ ॥

प्राप्तावधिरजीवेऽपि जीवेत्सुकृतसंततिः ।
जीवन्त्यद्यापि मांधातृमुखाः कायैर्यशोमयैः ॥ ९८ ॥

अन्ते संतोषदं विष्णुं स्मरेद्धन्तारमापदाम् ।

शरतल्पगतो भीष्मः सस्मार गरुडध्वजम् ॥ ९९ ॥

श्रव्या श्रीव्यासदासेन समासेन सतां मता ।
क्षेमेन्द्रेण विचार्येयं चारुचर्या प्रकाशिता ॥ १०० ॥

इति श्री प्रकाशेन्द्रात्मजव्यासदासापराख्यमहाकविश्रीक्षेमेन्द्रकृता चारुचर्या समाप्ता ।

"https://sa.wikisource.org/w/index.php?title=चारुचर्या&oldid=286946" इत्यस्माद् प्रतिप्राप्तम्