चारुदत्तम्/प्रथमोऽङ्कः
चारुदत्तम् प्रथमोऽङ्कः भासः |
द्वितीयोऽङ्कः → |
प्रथमोऽङ्कः
सूत्रधारः--किण्णु खु अज्ज पच्चूस एव्व गेहादो णिक्खन्तस्स बुभुक्खाए पुक्खरपत्तपडिदजलबिन्दू विअ चञ्चलाअति विअ मे अक्खीणि । (परिक्रम्य) जाव गेहं गच्छिअ जाणामि किण्णु खु संविधा विहिदा ण वेत्ति। (परिक्रम्य) एदं अम्हाणं गेहं। जाव पविसामि। (प्रविश्यावलोक्य) जह लोहीपरिवट्टणकालसारा भूमी, णेउब्भामणसुगन्धो विअ गन्धो, सुणिमित्तं विअ परिब्भमन्तो वडिवस्सअजणो, किण्णु खु संविधा विहिदा । आदु बुभुक्खाए ओदणमअं विअ जीवलोअं पेक्खामि। जाद अय्यां सद्दावेमि। अय्ये! इदो दाव । (किन्नु खल्वद्य प्रत्यूष एव गेहान्निष्क्रान्तस्य बुभुक्षया पुष्करपत्रपतितजलबिन्दू इव चञ्चलायेते इव मेऽक्षिणी । यावद् गेहं गत्वा जानामि किन्नु खलु संविधा विहिता न वेति। एतदस्माकं गेहम्। यावत् प्रविशामि। यथा लौहीपरिवर्तनकालसारा भूमिः, स्नेहोद्भावनसुगन्ध इव गन्धः, सुनिमित्तमिव परिभ्रमन् वरिवस्यकजनः, किन्नु खलु संविधा विहिता । अथवा बुभुक्षयौदनमयमिव जीवलोकं पश्यामि । यावदार्यां शब्दापयामि । आर्ये! इतस्तावत् ।)
नटी---अय्य! इअं म्हि। अय्य! दिट्ठिआ खु सि आअदो (आर्य! इयमस्मि! आर्य! द्विष्ट्व्या खल्वस्यागतः ।)
सूत्रधारः---अय्ये! किं अत्थि अम्हाणं गेहे को वि पादरासो। (आर्ये! किमस्त्यस्माकं गेहे कोऽपि प्रातराशः ।)
नटी---अत्थि । (अस्ति।)
सूत्रधारः---चिरं जीव । एव्वं सोभणाणि भोअणाणि दन्तिआ होहि । (चिरं जीव। एवं शोभनानि भोजनानि दात्री भव।)
नटी---अय्य! तुवं एव्व पडिवालन्ती चिट्ठामि । (आर्य? त्वामेव प्रतिपालयन्ती तिष्ठामि ।)
सूत्रधारः---अय्ये? किं अत्थि अब्भत्थिदं। (आर्ये! किमस्त्यभ्यर्थितम्।)
नटी---अत्थि।(अस्ति।)
सूत्रधारः---एव्वं देवा तुमं अस्सासअन्तु। अय्ये! किं किं। (एवं देवास्त्वा माश्वासयन्तु । आर्ये! किं किम् ।)
नटी---घिदं गुलं दहिं तण्डुला ज सव्वं अत्थि । (घृतं गुडो दधि तण्डुलाश्च सर्वमस्ति ।)
सूत्रधारः---एवं सव्वं अम्हाणं गेहे अत्थि । (एतत् सर्वमस्माकं गेहेऽस्ति ।)
नटी---णहि णहि । अन्तलावणे । (नहि नहि। अन्तरापणे।)
सूत्राधारः---(सरोषम्) आः अणय्ये! एव्वं दे आसा छिन्दीअदु। अभावं च गमिस्ससि। अहं चण्डप्पवादलण्डिओ विअ वरण्डी पव्वदादो दूरं आरोविअ पाडिदो म्हि । (आः अनार्ये! एवं ते आशा छिद्यताम्। अभावं च गमिष्यसि। अहं चण्डप्रवातलण्डित इव वरण्डः पर्वताद् दूरमारोप्य पातितोऽस्मि।)
नटी---मा भाआहि मा भाआहि। मुहुत्तअं पडिवालेदु अय्यो। सव्वं सज्जं भविस्सदि । लद्धं णाम एदं। अज्ज मम उववासस्स अय्यो सहायो होदु। (मा बिभीहि मा बिभीहि । मुहूर्तकं प्रतिपालयत्वार्यः सर्वं सज्जं भविष्यति। लब्धं नामैतत्। अद्य ममोपवासस्यार्यः सहायो भवतु।)
सूत्राधारः---किण्णामहेओ अय्याए उववासो। (किन्नामधेय आर्याया उपवासः।)
नटी---अभिरूपवदी णाम। (अभिरूपपतिर्नाम।)
सूत्राधारः---किं अण्णजादीए। (किमन्यजात्याम्।)
नटी---आम। (आम्।)
सूत्राधारः---सव्वं दाव चिट्ठदु। को णु दाणिं अय्याए उववासस्स उवदेसियो। (सर्वं तावत् तिष्ठतु। को न्विदानीमार्याया उपवासस्योपदेशिकः।)
नटी---इमिणा वडिवस्सएण चुण्णगोट्ठेण । (अनेन वरिवस्यकेन चूर्णगोष्ठेन ।)
सूत्राधारः---साहु चुण्णगोट्ठ! साहु। (साधु चूर्णगोष्ठ! साधु।)
नटी---जइ अय्यस्स अणुग्गहो, तदो इच्छेअं अम्हारिसजणजोग्गं कंचि बम्हणं निमन्तेदुं। (यद्यार्यस्यानुग्रहः, तत इच्छेयमस्माद्दशजनयोग्यं कञ्चिद् ब्राह्मणं निमन्त्रयितुम्।)
सूत्राधारः---धम्मिट्ठो खु णिओओ । तेण पादरासो वि मे भविस्सदि । जइ एव्वं, पविसदु अय्या । अहं वि अम्हारिसजणजोग्गं कंचि बम्हणं अण्णेसामि । (धर्मिष्ठः खलु नियोगः। तेन प्रातराशोऽपि मे भविष्यति । यद्येवं प्रविशत्वार्या । अहमप्यस्मादृशजनयोग्यं कञ्चिद् ब्राह्मणमन्वेषे।)
नटी---जं अय्यो आणवेदी। (निष्क्रान्ता) (यदार्य आज्ञापयति।)
सूत्राधारः---कहि ण्णु खु दरिद्दबम्हणं लभेअं । (विलोक्य) एसो अय्य चारुदत्तस्स वअस्सो अय्यमेत्तेओ णाम बम्हणो इदो एव्व आअच्छदि । जाब उवणिमन्तेमि। (परिक्रम्य) अय्य! णिमन्तिदो सि। आमन्तणस्स मा दरिद्द त्ति मं अवमण्णेहि। सम्पणं अह्णिदव्वं भविस्सदि। घिदं गुलं दहिं तण्डुला अ सव्वं अत्थि । अवि अ दक्खिणामासआणि भविस्सन्ति। (कुत्र नु खलु दरिद्रब्राह्मणं लभेय। एष आर्यचारुदत्तस्य वयस्य आर्यमैत्रेयो नाम ब्राह्मण इत एवागच्छति । यावदुपनिमन्त्रयामि। आर्य! निमन्त्रितोऽसि। आमन्त्रणस्य मा दरिद्र इति मामवमन्यस्व। सम्पन्नमशितव्यं भविष्यति। घृतं गुडो दधि तण्डुलाश्च सर्वमस्ति अपि च दक्षिणामाषका भविष्यन्ति।)
अण्णं अण्णं णिमन्तेदु दाव भवं। अरित्तओ दाव अहं। (अन्यमन्यं निमन्त्रयतु तावद् भवान्। अरिक्तकस्तावदहम्।)
सूत्रधारः--
घिदगुलदहिसुसमिद्धं धूविअसूवोवदंससम्भिण्णं।
सक्कारदत्तमिट्ठं भुञ्जीअदु भत्तमय्येण।।१।।
(घृतगुहदधिसमृद्धं धूपितसूपोपदंशसम्भिन्नम्। सत्कारदत्तमिष्टं भुज्यतां भक्तमार्येण।।१।।)
(ततः प्रविशति विदूषकः।)
विदूषकः---अण्णं अण्णं णिमन्तेदु दाव भवं अरित्तओ दाव अहं। णं भणामि अहं अरित्तओ त्ति। किं भणासि---सम्पण्णं असणं अह्णिदव्वं भविस्सदि। त्ति। अहं पुण जाणामि। अहिअमहुरस्स अम्बस्स अजोग्गदाए अट्ठि ण भक्खीअदि त्ति। किं दाणि मं उल्लालिअ उल्लालिअ भणासि। भणामि वावुदो त्ति। किं भणासि-दक्खिणामासआणि भविस्सदि त्ति । एसो बाआ पच्चाचक्खिदो हिअएण अणुबन्धीअमाणो गच्छीअदि । अहो अच्चाहिदं । अहं वि णाम परस्स क्षामन्तराणि त्ति तक्केमि । जो अहं तत्तहोदो चारुदत्तस्स गेहे अहोरत्तपय्यत्तसिद्धेहि णाणाविधेहि हिङ्गुविद्धेहि ओग्गारणसुगन्धेहि भूक्खेवमत्तपडिच्छिदेहि अन्तरपाणीएहि असणप्पआरेहि चित्तअरो विअ बहुमल्लएहि परिवुदो आअण्ठमत्तं अह्णिअ चच्चरवुसहो विअ मोदअखज्जएहि रोमन्थाअमाणो दिवसं खेवेमि, सो एव्व दाणिं अहं तत्तहोदो चारुदत्तस्य दरिद्ददाए सम पारावदेहि साहारणवुत्ति उवजीवन्तो अण्णहि चरिअ चरिअ तस्स आवासं एव्व गच्छामि । अण्णं च अच्छरिअं । मम उदरं अवत्थाविसेसं जाणादि । अप्पेणावितुस्सादि । बहुअं वि ओदणभरं भरिस्सदि दीअमाणं । ण आएदि अदीअमाणं पच्चाचिक्खदि। ण खु अह एरिसेण ण सन्तुट्ठो। ता सट्ठीकिददेवकय्यस्स तत्तहोदो चारुदत्तस्य कारणादो गहीदो सुमणो अन्तलिच्खवासो अ । जाव से पस्सपरिवत्ती होमि। (परिक्रम्यावलोक्य) एसो तत्तभवं चारुदत्तो पभादचन्दो विअ सकरुणप्पिअदंसणो जहाविभवेण गिहदेवदाणि अच्चअन्तो इदो एव्व आअच्छष्टि जाप णं उव सप्पामि । (निष्क्रान्तः।) (अन्यमन्यं निमन्त्रयतु तावत् भवान् । अरिक्तकरतावदहम्। ननु भणाम्यहमरिक्तक इति। किं भणसि-सम्पन्नमशनमशितव्यं भविष्यतीति। अहं पुनर्जानामि। अधिकरमधुरस्य आम्रस्य अयोग्यतया अस्थि न भक्ष्यत इति । किमिदानीं मामुल्लाल्योल्लाल्य भणसि। भणामि व्यापृत इति। किं भणसि-दक्षिणा माषका भविष्यन्तीति। एष वाचा प्रत्याख्यातो हृदयेनानुबव्यमानो गम्यते। अहो अत्याहितम्। अहमपि नाम परस्यामन्त्रणानीति तर्कयामि । योऽहं तत्रभवतश्चारुदत्तस्य गेहेऽहोरात्रपर्याप्तसिद्धैर्नानाविधैर्हिङ्गुविद्धैरुद्गारसुगन्धिभिः भ्रूक्षेपमात्रप्रतीष्टैरान्तरापानीयैरशनप्रकारैश्चित्रकर इव बहुमल्लकैः परिवृत आकण्ठमात्रमशित्वा चत्वरवृषभ इव मोदकखाद्यै रोमन्थायमानो दिवसं क्षिपामि, स एवेदानीमहं तत्र भवतश्चारुदत्तस्य दरिद्रतया समं पारावतैः साधारणवृत्तिमुपजीवन् अन्यत्र चरित्वा चरित्वा तस्यावासमेव गच्छामि। अन्यच्चाश्चर्यम्। ममोदरमवस्थाविशेषं जानाति। अल्पेनापि तुष्यति। बहुकमप्योदनभरं भरिष्यति दीयमानम्। न याचते अदीयमानं, न प्रत्याचष्टे। न खल्वहमीदृशेन न सन्तुष्टः। षष्ठीकृतदेवकार्यस्य तत्रभवतश्चारुदत्तस्य कारणाद् गृहीतानि सुमनसोऽन्तरीयवासश्च । यावदस्य पार्श्वपरिवर्ती भवामि । एष तत्रभवांश्चारुदत्तः प्रभातचन्द्र इव सकरुणप्रियदर्शनो यथाविभवेन गृहदैवतान्यर्चयन् इत एवागच्छति । यावदेनमुपसर्पामि।)
नायकः---(दीर्घं निःश्वस्य) भोः! दारिद्र्यं खलु नाम मनस्विनः पुरुषस्य सोच्छ्वासं मरणम् । कुतः,
तास्वेव पूर्वबलिरूढयवाङ्कुरासु, बीजाञ्जलिः पतति कीटमुखावलीढः ।। २ ।।
विदूषकः---अलं दाणि भवं अदिमत्तं सन्तप्पिदुं पुरुसजोव्वणाणि विअ गिह जोव्वणाणि खु दसाविसेसं अणुहोन्ति । आसमुद्दआणविपण्णविभवस्स बहुलपक्खचन्दस्स जोह्णापरिक्खओ विअ भवदो एव्व रमणीओ अअं दरिद्दभावो। (अलमिदानीं भवानतिमात्रं सन्तप्तुम्। पुरुषयौवनानीव गृहयौवनानि खलु दशाविशेषमनुभवन्ति । आसमुद्रदानविपन्नविभवस्य बहुलपक्षचन्द्रस्य ज्योत्स्नापरिक्षय इव भवत एव रमणीयोऽयं दरिद्रभावः ।)
नायकः---न खल्वहं नष्टां श्रियमनुशोचामि। गुणरसज्ञस्य तु पुरुषस्य व्यसनं दारुणतरं मां प्रतिभाति । कुतः,
<centerसुखं हि दुःखान्यनुभूय शोभते, यथान्धकारादिव दीपदर्शनम् ।
विदूषकः---भो वअस्य! समुद्दपट्टणसारभूदो तादिसो अत्थसंचओ कहिं गओ (भो वयस्य! समुद्रपत्तनसारभूतस्तादृशोऽर्थसञ्चयः क्व गतः।)
नायकः---(निःश्वस्य) वयस्य! यत्र गतानि मे भागधेयानि ।
पश्य,
एतत्तु मे प्रत्ययदत्तमूल्यं सत्त्वं सखे! न क्षयमभ्युपैति ।। ४ ।।
विदूषकः---किं भवं अत्थविभवं चिन्तेदि। (किं भवानर्थविभवं चिन्तयति।)
नायकः---
सत्यं न मे धनविनाशगता विचिन्ता
भाग्यक्रमेण हि धनानि पुनर्भवन्ति ।
एतत्तु मां दहति नष्टधनश्रियो मे
यत् सौहृदानि सुजने शिथिलीभवन्ति ।। ५ ।।
अपि च ---
दारिद्र्यात् पुरुषस्य बान्धवजनो वाक्ये न सन्तिष्ठते
सत्त्वं हास्यमुपैति शीलशशिनः कान्तिः परिम्लायते ।
निर्वैरा विमुखीभवन्ति सुहृदः स्फीता भवन्त्यापदः
पापं कर्म च यत् परैरपि कृतं तत्तस्य सम्भाव्यते ।। ६ ।।
विदूषकः---एदे दाणि दासीएपुत्ता अत्थवावारा गोवदारआ विअ मसअभीदा गिहादो णिग्गच्छन्ति । धणविणासदुक्खस्स उण चिन्तिअमाणस्स वसन्ते वुढ्ढस्स सरत्थम्बस्स विअ अङ्कुरङ्कुरा उब्भमन्ति। ता अलं भवदो सन्दावेण। (एत इदानीं दास्याः पुत्रा अर्थव्यापारा गोपदारका इव मशकभीता गृहाद् निर्गच्छन्ति । धनविनाशदुःखस्य पुनश्चिन्त्यमानस्य वसन्ते वृद्धस्य शरस्तम्बस्येवाऽङ्कुराङ्कुरा उद्भ्रमन्ति। तदलं भवतः सन्तापेन।)
नायकः---वयस्य! किमर्थं सन्तापं करिष्ये। किञ्चाहं दरिद्रः, यस्य मम,
सत्त्वं च न परिभ्रष्टं यद् दरिद्रेषु दुर्लभम् ।। ७ ।।
(ततः प्रविशति गणिका सम्भ्रान्ता विटेन शकारेण चानुगम्यमाना ।)
शकारः---चिट्ठ चिट्ठ वशञ्चशेणिए! चिट्ठ
किं याशि धावशि पधावशि पक्खलन्ती
शाहु प्पशीद ण मलीअसि चिट्ठ दाव।
कामेण शम्पदि हि उज्झइ मे शलीलं
अङ्गालमज्झपडिदे विअ चम्मखण्डे ।। ८ ।।
(तिष्ठ तिष्ठ वसन्तसेने! तिष्ठ,
कामेन सम्प्रति हि दह्यते मे शरीर-मङ्गारमध्यपतितमिव चर्मखण्डम् ।। ८ ।।)
विटः---बसन्तसेने!
किं त्वं भयेन परिवर्तितसौकुमार्या
नृतोपदेशविशदौ चरणौ क्षिपन्ती ।
उद्विग्नचञ्चलकटाक्षनिविष्टदृष्टि-
र्व्याघ्रानुसारचकिता हरिणीव यासि ।। ९ ।।
शकारः---भावे! एशा गच्छइ वशञ्चशेणिआ, (भाव! एषा गच्छति वसन्तसेना)
शणूपुला मेहलणादहाशा शवेट्टणं मे हलअं हलन्ती ।। १० ।।
सनूपुरा मेखलानादहासा सवेष्टनं मे हृदयं हरन्ती ।। १० ।।)
विटः---वसन्तसेने!
किं त्वं पदात् पदशतानि निवेशयन्ती
नागीव यासि पतगेन्द्रभयाभिभूता ।
वेगादहं प्रचलितः पवनोपमेयः
किं त्वां ग्रहीतुमथवा न हि मेऽस्ति शक्तिः ।। २१ ।।
गणिका---(समन्तादवलोक्य) पल्लवअ! पल्लवअ! परहुदिए! परहुदिए! महुअरअ! महुअरअ! सारिए! सारिए! हद्धि, णट्ठो मे परिजणो। एत्थ सअं एव अप्पा रक्खिदव्वो। (पल्लवक! पल्लवक! परभृतिके! मधुकरक! मधुकरक! शारिके! शारिके!। हा धिक्, नष्टो मे परिजनः । अत्र स्वयमेवात्मा रक्षितव्यः।)
शकारः---विलव विलव णाए! विलव पल्लवं वा। परहुदिअं वा, महुअरं वा, शालिअं वा, शव्वं वशञ्चमाशं वा। के के तुमं परित्तअशि। (विलप विलप ज्ञाते! विलप पल्लवं वा, परभृतिकां वा, मधुकरं वा, शारिकां वा, सर्व वसन्तमासं वा। कः कस्त्वां परित्रास्यते।)
अहं तुमं गह्णिअ केशहत्थे दुःशाशले शीदमिवाहलामि ।। १२ ।।
अहं त्वां गृहीत्वा केशहस्ते दुःशासनः सीतामिवाहरामि ।। १२ ।।)
विटः---वसन्तसेने! सर्वत्र भयानभिज्ञहृदयं मां कुरु। पश्य,
परिचिततिमिरा मे शीलदोषेण रात्रि-
र्बहुलतिमिरकालस्तीर्णपूर्वा विघट्टाः ।
युवतिजनसमक्षं काममेतन्न वाच्यं
विपणिषु हतशेषा रक्षिणः साक्षिणो मे ।। १३ ।।
गणिका---(आत्मगतम्) हं इदाणि संसइवा संवृत्ता, जो अप्पगुणाणि सअं एव्व मन्तेदि । कहं एवे अकय्य ण करिस्सन्ति । (अहम् इदानीं संशयिता संवृत्ता, य आत्मगुणान् स्वयमेव मन्त्रयते। कथमेतेऽकार्य न करिष्यन्ति।)
विटः---भवति, क्रियतामस्माकमनुनयप्रग्रहः पश्य,
जनयति खलु रोषं प्रश्रयो भिद्यमानः
किमिव च रुषितानां दुष्करं मद्विधानाम्।
अनुनयति समर्थः खड्गदीर्घः करोऽयं
युवतिवधघृणाया मां शरीरं च रक्ष ।। १४ ।।
गणिका---(आत्मगतम्) अणुणओ वि खु से भाएदि। (अनुनयोऽपि खल्वस्य भाययति।)
शकारः---वशञ्चशेणिए। शुट्ठु भावे भणादि। बहुण्णिअदि खु दाव बलिअजणदुल्लहे अणुणए! पेक्ख वाशु! (वसन्तसेने! सुष्ठे भावो भणति। बहु मान्यते खलु तावद् बलवज्जनदुर्लभोऽनुनयः । पश्य वासु!)
अलं तु अम्पालिशकाणि लोशिअ मडे खु जो होई ण णाम जीवइ ।। १५ ।।
अलं त्वस्मादृशकान् रोषयित्वा मृतः खलु यो भवति न नाम जीवति ।। १५ ।।)
गणिका---अय्य! कुलउत्तजणस्स सीलपरितोसोवजीविणी गणिआ खु अहं । (आर्य। कुलपुत्रजनस्य शीलपरितोषोपजीविनी गणिका खल्वहम्।)
विटः--अतः खलु प्रार्थ्यसे।
गणिका---अय्य! इमाचो जणादो किं इच्छीअदि सरीरं वा आदु अलङ्कारो वा। (आर्य! अस्माज्जनात् किमिष्यते शरीरं वाथवालङ्कारो वा।)
विटः---न पुष्पमोक्षणमर्हति लता। कृतमलङ्कारेण।
गणिका---अहं खु दाणिं अत्ताणं ण सन्दावेअं। (अहं खल्विदानीमात्मानं न सन्तापयेयम्।)
शकारः---वश़ञ्चशेणिए! अहं भट्टिपुत्ते कामइदव्वे। (वसन्तसेने अहं भर्तृपुत्रः कामयितव्यः।)
गणिका---सन्तो सि। (शन्तोऽसि।)
शकारः---शुणाहि भावे! शुणाहि। एशा वशञ्चशेणिआ मं शन्तो शि त्ति भणादि। (श्रुणु भाव! श्रुणु। एषा वसन्तसेना मां श्रान्तोऽसीति भणति।)
विटः---(आत्मगतम्) आक्रुष्टमात्मानं न जानाति मूर्खः। ध्वंस इत्युक्ते श्रान्त इत्यवगच्छति। अपि च,
अनुचितगतिरप्रगल्भवाक्यः पुरुषमयस्य पशोर्नवावतारः ।। १६ ।।
तरुणजनसहायश्चिन्त्यतां वेशवासो
विगणय गणिका त्वं मार्गजाता लतेव ।
वहसि हि धनहार्यं पण्यभूतं शरीरं
सममुपचर भद्रे! सुप्रियं चाप्रियं च ।। १७ ।।
गणिका---एसो मे अभिणिवेसो अभिजणेण तुलोअदि। (एष मेऽभिनिवेशोऽभिजनेन तोल्यते।)
शकारः---भावे! एशा अन्धआलपूलिदगम्भीला लच्छा दीशइ । मा खु णाए एत्थ भंशइदव्वा । आ कामदेवाणुआणप्पहुदि णअणमत्तशत्थुलं दरिद्दशत्थवाहपुत्तं चालुदत्तवडुअं कमेदि एशा । इदं तश्श गेहश्श पक्खदुवालं। (भाव! एषान्धकारपूरितगम्भीरा रथ्या दृश्यते। मा खलु ज्ञाता अत्र भ्रंशयितव्या। आ कामदेवानुयानात् प्रभृति नयनमात्रसंस्थुलं दरिद्रसार्थवाहपुत्रं चारुदत्तबटुकं कामयत एषा। इदं तस्य गृहस्य पक्षद्वारम्।)
गणिका---(सहर्षमात्मगतम्) एवं तस्स गेहं। दिट्ठिआ दाणि अमित्तजणणिरोहेण पिअजणसमीवं उवणीदम्हि। भोदु, एवं दाव करिस्सं। (अपसरति।)
(एतत् तस्य गेहम्। दिष्ट्येदानीममित्रजननिरोधेन प्रियजनसमीपमुपनीतास्मि। भवतु, एवं तावत् करिष्यामि।)
शकारः---(विलोक्य) भावे! णट्ठा णाए णट्ठा। (भाव! नष्टा ज्ञाता नष्टा।)
विटः---कथं नष्टा। अन्विष्यतामन्विष्यताम्।
शकारः---भावे! ण दिश्शदि। (भाव! न दृश्यते।)
विटः---हन्त वञ्चिताः स्मः। वसन्तसेने! उपलब्धेदानीमसि।
कामं प्रदोषतिमिरेण न दृश्यसे त्वं
सौदामनीव जलदोदरसन्निरुद्धा।
त्वां सूचयिष्यति हि वायुवशोपनीतो
गन्धश्च शब्दमुखराणि च भूषणानि ।। १८ ।।
(गणिका मालामपनीय भूषणानि चोत्सारयति)
विटः---अहो बलवांश्चायमन्धकारः। सम्प्रति हि,
असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ।। १९ ।।
अपि च,
उभयमपि हि रक्षतेऽन्धकारो जनयति यश्च भयानि यश्च भीतः ।। २० ।।
तथाहि---
उन्मीलितापि दृष्टिर्निमीलितेवान्धकारेण ।। २१ ।।
गणिका---अम्महे भित्तिपरिणामसूइदं पक्खदुवालं। असम्भोअमलिणदाए इह अहिअं अन्धआरो । ता इह एव्व चिट्ठस्सं। (स्थिता।) (अहो भित्तिपरिणामसूचितं पक्षद्वारम् । असम्भोगमलिनतयोहाधिकमन्धकारः । तद् इहैव स्थास्यामि।)
नायकः---मैत्रेय! गच्छ, चतुष्पथे बलिमुपहर मातृभ्यः।
विदूषकः---ण मे सद्धा, अण्णो गच्छदु। (न मे श्रद्धा, अन्यो गच्छतु।)
नायकः---किमर्थम्।
विदूषकः---मम बुद्धी आदंसमण्डलगआ विअ छाआ वामेसु दक्खिणा दक्खिणेसु वामा होइ। (मम बुद्धिरादर्शमण्डलगतेव च्छाया वामेषु दक्षिणा दक्षिमेषु वामा भवति।)
नायकः---मूर्ख! यथाविभवेनार्च्यताम्। भक्त्या तुष्यन्ति दैवतानि। तद् गम्यताम्।
विदूषकः---एआई अहं कहं गमिस्सं। (एकाक्यहं कथं गमिष्यामि।)
नायकः---रदनिके! अनुगच्छात्रभवन्तम्।
रदनिका---जं भट्टा आणवेदि। (यद् भर्ताज्ञापयति।)
विदूषकः---भोदि! दीवं अहं णिइस्सं। (भवति! दीपमहं नेष्यामि।)
नायकः---यथा भवान् मन्यते तथास्तु।
विदूषकः---(दीपं गृहीत्वा) भो रदणिए! अवावृद पक्खदुवालं। (भो रदनिके! अपावृणु पक्षद्वारम्।)
रदनिका---तह।(नाट्येन द्वारमपावृणोति) (तथा।)
(गणिका वस्त्रान्तेन दीपं निर्वापयति।)
विदूषकः---अविहा! अविहा!। (अविहा! अविहा!।)
विदूषकः---अविहा! अविहा!। (अविहा! अविहा!।)
नायकः---वयस्य! किमेतत् ।
विदूषकः---अवावुदपक्खदुवारपिण्डीकिदप्पविट्ठेण राअमग्गसांकण्णेण वादेण सहसा णिग्गच्छन्तस्स मम हत्थे णिव्वावुदो दीवो। (अपावृतपक्षद्वारपिण्डीकृतप्रविष्टेन राजमार्गसङ्कीर्णेन वातेन सहसा निर्गच्छतो मम हस्ते निर्वापितो दीपः।)
नायकः---मूर्ख! धिक् त्वाम्।
विदूषकः---अप्पं खु मे अवरद्धं । रदणिए! गच्छ, चउप्पहे म पडिवालेहि । जावं अहं वि अब्भन्तरचउस्सालादो दीवं गह्णिअ आअच्छामि । (निष्क्रान्तः।) (अल्पं खलु मेऽवराद्धम्। रदनिके! गच्छ, चतुष्पथे मां प्रतिपालय। यावदहमप्यभ्यन्तरचतुश्शालाद् दीपं गृहीत्वाऽऽगच्छामि ।)
चेटी---अय्य! तह। (परिक्रामति।) (आर्य! तथा।)
गणिका---दिट्ठिआ मम पवेसणिमित्तं अवावुदं पक्खदुवालं। अलं चारित्तभएण। जाव पविसामि। (अभ्यन्तरं प्रविश्य तिष्ठति।) (दिष्ट्या मम प्रवेशनिमित्तमपावृतं पक्षद्वारम् । अलं चारित्रभयेन । यावत् प्रविशामि।)
विट---(विलोक्यात्मगतम्) भवनान्निर्गत्य काचिदिथमागच्छति। भवतु, अनया वराकं वञ्चयामि। (प्रकाशम्) सुरभिस्नानधुपानुबिद्ध इव गन्धः।
शकारः---आम भावे! शुणामि गंधं शवणेहि। अन्धआलपूलिदेहिं णाशापुडेहिं शुट्ठु ण पेक्खामि। (आम भाव! श्रृणोमि गन्धं श्रवणाभ्याम्। अन्धकारपूरिताभ्यां नासापुटाभ्यां सुष्ठु न पश्यामि।)
विटः---तिष्ठ तिष्ठ। क्व यास्यसि। (चेटीं गृह्णाति।)
(चेटी सभयं भूमौ पतिता।)
शकारः---गण्ह भावे! गण्ह। (गृहाण भाव! गृहाण।)
विटः---
केशेषु कुसुमन्यासः सेवितव्येषु धर्षिता ।। २२ ।।
शकारः---भावे। किं गहीदा (भाव! किं गृहीता।)
विटः---अथ किम् । एषा गन्धानुसारेण गृहीता।
शकारः---दाशीए पुत्तीए शीशं दाव छिन्दिअ पच्चा मालइश्शं। (दास्या पुत्र्याः शीर्यं तावच्छित्वा पश्चान्मारयिष्यामि।)
विटः---गृह्यतां तावत्।
शकारः---(चेटी गृहीत्वा)
कूजादि कन्दाहि लवाहि वात्तं महेश्शलं शङ्कलमिश्शलं वा ।। २३ ।।
कूज क्रन्द लप वार्तं महेश्वरं शङ्करमीश्वरं वा ।। २३।।)
(चेटीं बलादाकर्षति।)
चेटी---किं अय्यमिस्सेहि ववसिदं। (किमार्यमिश्रैर्व्यवसितम्।)
शकारः---भावे! जाणामि शलयोगेण ण होइ वशञ्चशेणिआ । (भाव! जानामि स्वरयोगेन न भवति वसन्तसेना।)
विटः---न मोक्तव्या। वसन्तसेनैवैषा।
स्वरान्तरेण दक्षा हि व्याहर्तुं तन्न मुच्यताम् ।। २४ ।।
विदूषकः---(दीपं गृहीत्वा) राअमग्गसङ्किण्णेण सीअसुउमारेण वादेण पदे पदे विक्खोहिअमाणजणिअतरङ्गतेल्लपुण्णभाअणं दीवं कहं वि रक्खिअ गण्हिअ आअदो म्हि। (राजमार्गसङ्कीर्णेन शीतसुकुमारेण वातेन पदे पदे विक्षोभ्यमाणजनिततरङ्गतेलपूर्णभाजनं दीपं कथमपि रक्षित्वा गृहीत्वागतोऽस्मि।)
चेटी---(शकारं पादेन ताडयन्ती रुदित्वा) अय्य! मेत्तेअ! अअं परिभवो आदु अवलेवो। (आर्य! मैत्रेय! अयं परिभवोऽथवावलेपः।)
विदूषकः---मा दाव मा दाव! (सखड्गं विटं शकारं च दृष्ट्वा शङ्कितस्तिष्ठति।) मा तावद्, मा तावत्।)
विटः---अये आर्यचारुदत्तस्य वयस्यो मैत्रेयः खल्वयम्। नेयमपि वसन्तसेना। महाब्राह्मण! अन्यशङ्कया खल्विदमस्माभिरनुष्ठितं न दर्पात्। पश्यतु भवान्,
सा भ्रष्टा शङ्क्या तस्याः प्राप्तेयं शीलवञ्चना ।। २५ ।।
शकारः---अविहा दलिद्दशत्थवाहपुत्तशश चालुदत्तबडुअश्श चेडी खु इअं, ण होइ वशञ्चशेणिआ । शाहु, वशञ्चशेणिए! शाहु! अन्धआलं कलिअ अन्तला वञ्चिदे भावे, अहके दावे वञ्चिदे कूडकवडशीलए। शौवहा दुक्खडे कडे। (अविहा दरिद्रसार्थवाहपुत्रस्य चारुदत्तबटुकस्य वेटी खल्वियं, न भवति वसन्तसेना। साधु वसन्तसेने! साधु। अन्धकारं कृत्वाऽन्तरा वञ्चितो भावः । अहं तावत् वञ्चितः कूटकपटशीलया। सर्वथा दुष्करं कृतम्।)
विदूषकः---मा दाव। ण जुत्तमिदं। (मा तावत्। न युक्तमिदम्।)
विटः---भो महाब्राह्मण! अयमनुनयसर्वस्वमञ्जलिः।
विदूषकः---भोदु,भोदु! अणवरद्धो भवं। अणुणीदो अहं एव्व एत्थ अवरद्धो । (भवतु, भवतु। अनपराद्धो भवान्। अनुनीतोऽहमेवात्रापराद्धः।)
शकारः---भावे! दिढं खु भाआशि तं दलिद्दशत्थवाहपुत्तं चालुदत्तवडुअं। (भाव! दृढं खलु बिभेषि तं दरिद्रसार्थवाहपुत्रं चारुदत्तबटुकम्।)
विटः---सत्यं भीतोऽस्मि।
शकारः---किश्श भावे! किश्श। (कस्मात् भाव! कस्मात्।)
विटः---तस्य गुणेभ्यः! पश्यतु भवान्,
निदाघसंशुष्क इव ह्रदो महान् नृणां तु तृष्णामपनीय शुष्यति ।। २६ ।।
महाब्राह्मण! अयमर्थः सार्थवाहपुत्रस्य न कथयितव्यः ।
शकारः---मालिश! बहुअ! मालिश! भणेहि तं दलिद्दशत्थवाहपुत्तं चालुदत्तवडुअं मम वअणेण--लाअशाले शण्ठाणे शवट्टेण शीशेण अनुवन्दिअ भणादिणाडअइत्थिआ वशञ्चशेणिआ णाम गणिआदारिआ शुवण्णवण्णा दुवेहि अम्मेहि बलक्कारेण णीअमाणा महन्तेण शुवण्णलङ्कारेण तव गेहं पविट्ठा। शा शुवे णिय्याअइदव्वा। मा दाव तव अ मम अ दालुणो खोहो होदि त्ति। वडुअ! मालिश! इदं च भणाहि-या दाशीएपुत्त! पारावदगलप्पविट्ठं विअ मूलकन्दं शीशकवालं मडमडाइश्शं। मा खु कवाडशम्पुडप्पुडप्पविट्ठं विअ पक्ककवित्थं शीशं दे चुण्णचुण्णं मडमडाइश्शं ति। (मारिष! बटुक! मारिष! भण तं दरिद्रसार्थवाहपुत्रं चारुदत्तबटुकं मम वचनेन-राजश्यालः संस्थानकः सपट्टन शीर्षेणानुवन्द्य भणति-नाटकस्त्री वसन्तसेना नाम गणिकादारिका सुवर्णवर्णा द्वाभ्यामावाभ्यां बलात्कारेण नीयमाना महता सुवर्णालङ्कारेण तव गेहं प्रविष्टा। सा श्वो निर्यातयितव्या। मा तावत् तव च मम च दारुणः क्षोभो भवतीति। बटुक! मारिष! इदं च भण--मा दास्याःपुत्र! पारावतगलप्रविष्टामिव मूलकन्दं शीर्षकपालं मडमडायिष्यामि। मा खलु कपाटसम्पुटप्रविष्टमिव पक्वकपित्थं शीर्षं ते चूर्णचूर्ण मडमडायिष्यामि इति।)
विदूषकः---भो! तह। (शकारं दीपेनोद्वेजयति।) (भो तथा।)
शकारः---(सर्वतो विलोक्य) कहिं भावे। गदे भावे। अविहा भावे!। (क्व भावः। गतो भावः । अविहा भाव!।)
विदूषकः---किदं देवक्ययं ति तत्तहोदो णिवेदइस्सामो । भोदि! अवणीअदुदे हिअअमण्णू । अअं बुत्तन्तो अब्भन्तरं ण पेसिदव्वो । (कृतं देवकार्यमिति तत्रभवतो निवेदयिष्यावः । भवति ! अपनीयतां ते हृदयमन्युः । अयं वृत्तान्तोऽभ्यन्तरं न प्रेषयितव्यः।)
चेटी--अय्य! रदणिआ खु अहं। (आर्य! रदनिका खल्वहम्।)
विदूषकः--एहि गच्छामो! (एहि गच्छावः।)
नायकः---भद्रे! कृतं देवकार्यम्।
गणिका---(आत्मगतम्) परिजणत्ति मं सद्दावेदि। भोदु, रक्खिदम्हि। (परिजन इति मां शब्दापयति । भवतु, रक्षितास्मि।)
नायकः---मारुताभिलाषी प्रदोषः । तद् गृह्यतां प्रावारकम्।
गणिका---(प्रावारकम् गृहीत्वा सहर्षमात्मगतम्) अणुदासीणं जोव्वणं मे पडवासगन्धी सूएदि। (अनुदासीनं यौवनमस्य पटवासगन्धः सूचयति।)
नायकः---रदनिके! प्रवेश्यतामभ्यन्तरचतुःशालम् ।
गणिका---(आत्मगतम्) अभाइणी अहं अब्भन्तरप्पवेसस्स। (अभागिन्यहमभ्यन्तरप्रवेशस्य।)
नायकः---किमिदानीं न प्रविशसि।
गणिका---(आत्मगतम्) इदाणिं अहं किं भणिसस्सं। (इदानीमहं किं भणिष्यामि।)
नायकः---रदनिके! किं विलम्बसे।
चेटी---भट्टिदारअ! इअं म्हि। (भर्तृदारक! इयमस्मि।)
नायकः---इयमिदानीं का।
संवृता शरदभ्रेण चन्द्रलेखेव शोभते ।। २७ ।।
गणिका---(आत्मगतम्) दीवालोअसूइदरूवो सो एव्व दाणि एसो जस्स किदे अहं णिस्सासमत्तलक्खिदं सरीरं उव्वहामि। (दीपालोकसूचितरूपः स एवेदानीमेषः, यस्य कृतेऽहं निःश्वासमात्ररक्षितं शरीरमुद्वहामि।)
विदूषकः---भो चारुदत्त! राअसालो सण्ठाणो सवट्टेण सीसेण अणुवन्दिअ विण्णवेदि-णाडअइत्थिआ वसन्तसेणिआ णाम गणिआदारिआ अम्हेदि बलक्कारेण णीअमाणा महन्तेण सुवण्णालङ्कारेण तुम्हाणं गेहं पविट्ठा। सा सुवे णिय्याअइदव्वत्ति। (भोः चारुदत्त! राजश्यालः संस्थानः सपट्टेन शीर्षेणानुवन्द्य विज्ञापयतिनाटकस्त्री वसन्तसेना नाम गणिकादारिकास्माभिर्बलात्कारेण नीयमाना महता सुवर्णालङ्कारेण युष्माकं गेहं प्रविष्टा। सा श्वो निर्यातयितव्येति।)
गणिका---(आत्मगतम्) हं बलक्कारेण णीअमाणत्ति णं भणादि। भोदु, अअं पत्तकालो। (प्रकाशम्) अय्य! सरणागदम्हि। (अहं बलात्कारेण नीयमानेति ननु भणति। भवतु, अयं प्राप्तकालः। आर्य! शरणागतास्मि।)
नायकः---न भेतव्यं, न भेतव्यम् । किं वसन्तसेनैवा ।
विदूषकः---अविहा वसन्तसेणा। (अपवार्य) भो चारुदत्त! वसन्तसेणा खु इअं, जा भवदा कामदेवाणुआणप्पहुदि णअणमत्तसंत्थुदा सण्णिहिदमणोभवेण हिअएण उव्वहीअदि! ता पेक्खदु इअं । (अविहा वसन्तसेना । भोः चारुदत्त! वसन्तसेना खल्वियं, या भवता कामदेवानुयानप्रभृति नयनमात्रसंस्तुता सन्निहितमनोभवेन हृदयेनोदुह्यते । तत् पश्यत्विमाम्।)
नायकः---वयस्य! पश्याम्येनां,
रोषः कुपुरुषस्येव स्वाङ्गेष्वेवावसीदति ।। २८ ।।
गणिका--अदिण्णभूमिप्पवेसपघरिसणेण अवरद्धा अहं अय्यं सीसेण पसादेमि।
(अदत्तभूमिप्रवेशप्रघर्षणेनापराद्धाहमार्यं शीर्षेण प्रसादयामि। )
नायकः---यद्येवमहमपि तावदविज्ञातप्रयुक्तेन प्रेष्यसमुदाचारेण सापराधो भवतीं प्रसादयामि।
विदूषकः--भो! विवदन्ता इव सअडिअं दुव्विणीदबलीवद्दा अण्णोण्णं सङ्किलेसन्ति । अहं दाणि कं पसादेमि। भोदु, दाणि रदणिअं पसादेमि। रदणिए; पसीददु, पसीददु होदीं। (भोः! विवदन्ताविव शकटिकां दुर्विनीतबलीवर्दावन्योन्यं संक्लेशयतः। अहमिदानीं कं प्रसादयामि। भवतु इदानीं रदनिकां प्रसादयामि। रदनिके! प्रसीदतु भवती।)
नायकः--भवति! परवानस्मि। किमनुतिष्ठति स्नेहः।
गणिका---(आत्मगतम्) महुरं खु इच्छिदव्वं। अदक्खिणं खु पढमदंसणे जइच्छागदाए इह वसिदुं। ता एवं करिस्सं। प्रकाशम्) जइ मे अय्यो पसण्णो, अअं मे अलंकारो इह एव्व चिट्ठदु। अलङ्कारणिमित्तं पावा मं अणुसरन्ति। अहं पि अय्येण रक्खिदा गेहं गन्तुमिच्छामि। (मधुरं खल्वेष्टव्यम्। अदक्षिणं खलु प्रथमदर्शने यदृच्छागतयेह वस्तुम्। तदेवं करिष्यामि। यदि मे आर्यः प्रसन्नः अयं मेऽलङ्कार इहैव तिष्ठतु। अलङ्कारनिमित्तं पापा मामनुसरन्ति। अहमप्यार्येण रक्षिता गेहं गन्तुमिच्छामि।)
नायकः---अन्वर्थमुपदिशति। मैत्रेय! गृह्यताम्।
विदूषकः---ण मे सद्धा। (न मे श्रद्धा।)
नायकः---मूर्ख! गृह्यताम्।
विदूषकः---जं भवं आणवेदि। आणेदु भोदी। (यद् भवानाज्ञापयति। आनयतु भवती।)
विदूषकः---(गृहीत्वा) रदणिए! गह्ण एवं सुवण्णालङ्कारं तुवं । सट्टीए सत्तमीए अ धारेहि । अहं अठ्ठमीए अणद्धाए धारइस्सं। (रदनिके! गृहाणैतं सुवर्णालङ्कारं त्वम्। षष्ठ्यां सप्तम्यां च धारय। अहमष्टम्यामनध्याये धारयिष्यामि।)
चेटी---(विहस्य) सत्थं वक्खाणंअन्तस्स भट्टिपुत्तस्स तदाणिं अवसरो होदि। आणेदु अय्यो। (गृहीत्वा निष्क्रान्ता।) (शास्त्रं व्याचक्षाणस्य भर्तृपुत्रस्य तदानीमवसरो भवति। आनयत्वार्यः।)
नायकः---कोऽत्र भोः! दौपिका तावत्।
विदूषकः---भोः! दीविआ गणिका बिअ णिस्सिणेहा संवुत्ता। (भोः! दीपिका गणिकेव निःस्नेहा संवृत्ता।)
नायकः---कृतं दीपिकया। (विलोक्य) उदितो भगवान् सर्वजनसामान्यप्रदीपश्चन्द्रः। अतः खलु,
उदयति हि शशाङ्कः क्लिन्नखर्जूरपाण्डु-
र्युवतिजनसहायो राजमार्गप्रदीपः ।
तिमिरनिचयमध्ये रश्मयो यस्य गौरा
हृतजल इव पङ्के क्षीरधाराः पतन्ति ।। २९ ।।
भवति ! राजमार्गे निष्कमणः क्रियताम् । सखे! अनुगच्छात्रभवतीम्।
विदूषकः---जं भव आणवेदि। एदु एदु भोदी। (यद् भवानाज्ञापयति। एत्वेतु भवती।)
इति प्रथमोऽङ्कः ।