प्रमुखा विकल्पसूचिः उद्घाट्यताम्
रचनाकारः - नग्नजित्
चित्रलक्षणम्
अथ भारतीयभाषायां चित्रलक्षणम् ।

प्रथमः परिवर्त्तःसम्पाद्यताम्

प्रथमः परिवर्त्तः

ब्रह्माणं च महादेवं नारायणं सरस्वतीम् ।
वरदां च मया नत्वा क्रियते जयमंगलम् ॥१

प्रजापतेस्तथा शम्भोः पद्मास्यायास्तथा गिरम् ।
पार्वत्या अनुसृत्यैव जायतां किल पण्डिताः ॥२

तदनन्तरं चित्रलक्षणमुच्यते ।
मंगलमस्तु ।

महादेवाय देवाय सर्वविद्यविजानते ।
नमो नमो मया सम्यगुच्यते चित्रलक्षणम् ॥३

आदौ चन्द्रमसं वन्दे हरं च चन्द्रशेखरं ।
विष्णूविन्द्रौ सूर्यमग्निं च वरुणं मरुतं तथा ॥४

नमस्करोम्यहं चैव विश्वकर्मप्रजापती ।
नग्नजितं नमस्कृत्य त्वाचार्यांश्च पुनः पुनः ॥५

वर्णं च चित्रकर्माथ शास्त्रानुसारतस्तथा ।
यथाज्ञानं यथाशक्ति संक्षेपेण मयोच्यते ॥६

विश्वकृन्नग्नजिद्देवप्रह्लादसारमुज्ज्वलम् ।
लक्षणमनुसृत्यैच विदुषां सुधियां पुनः ॥७

संगृह्य मतिवृद्धये नानाशास्त्रसमुद्धृतम् ।
उच्यते चित्रलक्षणं शृण्वन्तु तद्विदा जनाः ॥८

पुरेदं लक्षणं श्रुत्वा नरराजो महोधरः ।
धर्मज्ञः सत्यनिष्ठश्च बुद्धिमांश्च यशोऽन्वितः ।
विश्रुतो भयजिन्नाम्ना तथाभूत् धरणीतले ॥९

गुणोत्तमस्य भूपस्य धार्मिकस्य प्रशासने ।
शतसहस्रवर्षाणि चायुः प्रजाः प्रपेदिरे ॥१०

नीरोगा न च हन्तारो मनोरोगविवर्जिताः ।
अकालमृत्युहीनास्ताः कुतः क्रोधाः कुतो मलाः ॥११

वायुः सुप्रवहश्चैव शक्रः सुवर्षकस्तथा ।
वर्ण्रससमेतानि वीजमूलफलानि च ॥ १२

वर्णाश्रमा हि चत्वारो न च्युता धर्मतत्पराः ।
ऋद्धिगुणसमायुक्तं श्रीमद् विकसितं जगत् ॥ १३

एवम्भूते स्थिते राष्ट्रे सुखशान्तिसमन्विते ।
भयजितो मनः शुद्धं प्रवृत्तं तपसि द्रुतम् ॥ १४

सुदुष्करं तपः कृत्वा राज्ञातिशुद्धचेतसा ।
वरा बहुविधा प्राप्ता देवाल्लोकपितामहात् ॥ १५

विषयस्तस्य शत्रुभिर्देवास्त्रैरपि दुर्जयः ।
उत्तमाप्रतिरोध्या च सर्वशास्त्रे मतिस्त्वथ ॥ १६

सर्वगुणैरुपेतस्य पराक्रान्तस्य धीमतः ।
महाभागस्य देवानां प्रभावैः प्राप्तविश्रुतेः ॥ १७

सर्वविद्याश्रयस्यास्य मूर्त्तधर्मस्य बोधिनः ।
मणिपुत्रसमाख्यस्प एतादृशस्य भूपतेः ॥ १८

सविधे त्वागतः कश्चिद् रुदन् विप्रोऽतिदुःखितः ।
कथं रोदिष् भो विप्र चेत्यपृच्छद् द्विजं नृपः ॥ १९

क्रुद्धेन तेन विप्रेण कथितो नृपतिस्तदा ।
तव शासनकालेऽस्मिन् देशेऽकालमृतियतः ॥ २०

ततोऽधर्मेण राज्यं तं शास्सीदं नृप निश्चितम् ।
विष्मयो य इतः पूर्वं न जातोऽसौ प्रवर्तते ॥ २१

मदीयवंशरक्षाकृत् लक्षणाकृतिसुन्दरः ।
अकालमृत्युना कस्मात् क्रोऋअतोऽपहृतः सुतः ॥ २२

ब्रम्ह प्रियौ हि राजन् त्वं सर्व जानासि भूतले ।
प्राणतुल्यं सुतं मह्यं देहि स्वामिन् कृपान्वितः ॥२३

दयां यदि न कुर्यास्त्वं शक्तिमन् गुणवन् नृप ।
तृणखण्डाणिव प्राणान् त्वत्सविधे त्यजाम्यहम् ॥ २४

भाषिते तु द्विजेनैवं बुद्धिमान् पुरषोत्तमः ।
आकर्षणे सुतं तस्य मतिं चक्रे नृपालकः ॥ २५

सान्त्वितस्तु नृवाक्येन " आगच्छ मम दास हि" ।
सूर्यवर्चोधरं यममुदितं तत्र दृष्टवान् ॥ २६

धर्मराजं जगद्बन्द्यं प्रणम्य भयजिन्नृपः ।
ब्राह्मणस्य हितार्थाय सादरं वाक्यमब्रवीत् ॥ २७

प्रत्युपकृद्द्विजातेस्तु प्राणेभ्योऽपि सुतः प्रियः ।
चाकालेऽपहृतो योऽसौ तव दूतेन दुर्धिया ॥ २८

प्रभो त्रिभुवनस्यापि दीयतां तनयः प्रियः ।
विश्वकर्मन् द्विजन्मने अस्मै प्रीत्या च धीमते ॥ २९

श्रुत्वा प्रेताधिपो वाक्यं पूजनीयं हसन् नृपम् ।
ददौ प्रत्युत्तरं मृदु तेजसा पूरितं वचः ॥ ३०

स्वकीयकर्मवशाद् जीवाः सर्वे मद्वशगा ध्रुवम् ।
कस्याप्याकर्षणे त्यागे स्वेच्छाशक्तिः कुतो मम ॥ ३१

सुखं वा यदि वा दुःखं सर्वं कर्मवशं सदा ।
तस्मात् राजन् विजानीयान् मया नैव प्रगृह्यते ॥ ३२

मद्गृहं प्रतिपद्याथ शरीरी न निवर्तते ।
कालेन महताकृष्टो द्विजपुत्रो बलीयसा ॥ ३३

कुशलं चाकुशलं वा सर्वमिहानुभूयते ।
कर्मानुसारिणी भूमिर्विज्ञेया च सदा नृणाम् ॥३४

एवमुक्तः पुनर्भूपः प्राह वैवस्वतं यमम् ।
मत्प्रार्थनावशाद् देव देह्यस्मै पुत्रमुत्तमम् ॥ ३५

न शक्यते न शक्यते यम आह पुनः पुनः ।
देहि देहि सुतं देव राज्ञापि प्रार्थितः पुनः ॥ ३६

आग्रहस्यातिशय्यं च तयोरित्थं बभूव ह ।
व्याकुलौ ती महायुद्धे तदा लिप्तौ बभूवतुः ॥ ३७

तिष्ठ तिष्ठेति त राजा बहुशः प्राह वीरहा ।
स्थितोऽस्मीति रणे राजन् तमवोचद् नृपं यमः ॥ ३८

असंख्यानां च वाणानां तीक्ष्णानां परिवर्षणम् ।
अकरोद् भयजिद् राजा यमस्योपरि सर्वतः ॥ ३९

श्रुतघ्नं सर्वतो दिव्यं मेघतो वारिवर्षवत् ।
अप्रतिरोधरुपं तदस्त्रं ववर्ष धर्मराट् ॥ ४०

तेन राजा महाक्रुद्धो महाप्रभावशालिभिः ।
यमदूतांश्चदेवास्त्रैः प्रपीड्य मुमुदे भृशम् ॥ ४१

शूलासिप्रासमुद्गरा यमदूतविनिर्गताः ।
भूपेन सर्वथा नष्टा भयप्रवर्तका इमे ॥ ४२

प्रेतो दारुणरुपी च प्रतिदिशमधावत ।
नष्टः सेनापतिश्चैव आगमदाहवाद् द्रुतम् ॥४३

ततः प्रेताधिपो देवो दृष्ट्वा तं तु पराजितम् ।
यथाज्ञाकारिणं दण्डं जग्राह प्रतिहिंसया ॥ ४४

कालाग्निसदृशं दृष्ट्वा उत्क्षिप्तं पृथिवीपतिः ।
ब्रह्मशिरोऽङ्कित चास्त्रमात्महस्ते गृहीतवान् ॥ ४५

सर्वे भूता भयत्रस्ता महाभूतोऽपि सर्वतः ।
बभूवुरातुरा सर्वे तेन दुर्लक्षणेन वै ॥ ४६

दुःखितां सकलां पृथ्वीं दृस्ट्वा ब्रह्मा तथा सुरैः ।
आजगाम स्वयं तत्र तस्मिन् देशे रणाकुले ॥ ४७

ब्रह्माणं स्वागत दृष्ट्वा भयजिन्नृपसत्तमः ।
साञ्जलिः पूजयित्वा तं प्राह यथायथं वचः ॥ ४८

यमोऽपि प्रणिपत्याथ सर्वामकथयत् कथाम् ।
वैक्लव्यकारणनि च श्रुत्वा शेषाणि सृष्टिकृत् ।
प्रत्यावृत्य रणाद् देवः कथयामास तौ तदा ॥ ४९

न दोषो भवतां नाथ मृत्युपतेर्महात्मनः ।
सत्यनराधिपस्यैव कालस्य न तु कर्मणः ॥ ५०

पुरा शुभाशुभं कर्म तथा च शिशुना कृतम् ।
लब्धञ्च मरणं शीघ्र जन्म प्राप्य च मानुषम् ॥५१

साफल्यमेति ते श्रमो ब्राह्मणस्यास्य पूजनात् ।
तस्मिन्नुपायविद्येयं मत्प्रसादात् प्रपूज्यताम् ॥ ५२

वर्णादीनां समायोगैः एतद्द्विजसुताकृतिम् ।
रुपमालिख भो राजन् सर्वलोकहिताय वं ॥ ५३

आविर्भूतेन ब्रह्मणा इत्थमुक्ते सुवुद्धिमान् ।
जीवयितुं लिलेख तं द्विजपुत्रं महोपतिः ।
ब्रह्मा तच्चित्रमादाय योजयामास जीवितम् ॥ ५४

विकचोत्पलचक्षुष्मान् सुकुमारशरीरधृक् ।
चक्षुरुन्मील्य सानन्दं पुनर्जीवनमापेदे ॥ ५५

जीवितं पुत्रमासाद्य हृष्टो ब्राह्मणसत्तमः ।
ब्रम्हाणमभिवन्द्याथ स्वीयपुत्रं गृहितवान् ॥ ५६

ब्रह्माब्रवीत् ततो भूपं ब्राह्मणप्रीतये इमे ।
यमदुता जिताः शक्त्या साधु साधु कृतं त्वया ॥ ५७

ब्रह्माणा कथिते त्वेवं स राजा हर्षमाप्तवाम् ।
सर्वदमन्कारी तु दौर्मनस्यं यमो गतः ॥ ५८

अप्रसन्नं यमं दृष्ट्वा वचोभिर्मधुरैर्भृशम् ।
ब्रह्मा स्वयं समाश्वास्य भूपतिं प्राह सत्तमः ॥ ५९

धर्मनीतिः सुविज्ञाय न निन्देत् कामपि प्रजाम् ।
सदानन्दप्रदोभव्यस्त्वभिमानं च वर्जयेत् ॥ ६०

यत्र सेवा सतां नास्ति तत्र निन्दा भवेद् ध्रुवम् ।
नाल्पमपि सुखं किञ्चिदान्पोति निन्दुकः सदा ॥ ६१

द्वेषिणोऽपि बुधाः स्वर्गाद् भवन्ति विच्युतास्तहा ।
अहङ्कानरयुत भूतं त्यजन्ति सर्वमानवाः ॥ ६२

निरहङ्कारिणा तस्मात् भवितव्यं सदा खलु ।
जात्या बलेन दानेन नैपुण्येन च विद्यया ॥६३

देवतानाञ्च विप्राणां विशेषण समादरः ।
प्रकर्तव्यो न कर्तव्यो निन्दोपायः कथञ्चन ॥ ६४

अविरोधेन सत्कारः करणीयः सदा नृपैः ।
क्षमावलम्बनीया स्यात् निन्दा त्याज्या तथैव च ।
सर्वज्ञो निरहंकरो गुणिने न द्विषेन्नृपः ॥६५

पुरुषं वचनं त्याज्यमाघातं विसृजेत् सदा ।
प्रत्यक्षं प्राप्यते यत्तु सार्थक्यं तस्य चिन्तयेत् ॥ ६६

देवविप्रविरोधिनां कुत्रापि न सुखं भवेत् ।
विधियं नैव कार्यं हि यमस्यापि ततो नृप ॥ ६७

ब्रह्मणेत्थं स भूपालो ह्युपदिष्टो द्विजप्र्यः ।
नमस्कृत्य यमस्वार्थे कृतवान् सुप्रियं तथा । ६८

यमोऽपि प्रीतिमापन्नो ब्रह्मा प्रसन्नतां गतः ।
अशोकं प्रीतिमापेदे जगदेतञ्चराचरम् ॥ ६९

अथ ब्रह्मा नृपं प्राह नग्नं प्रेतं निवारय ।
यमदासैः सदा विश्वं न पातयेद् भवान् खलु ॥ ७०

बलेन तेजसा चापि तपसेमं गुणं नृपाः ।
अनुकुर्युर्न कर्त्तव्योऽकुशल इह भाविनि ॥ ७१

भवान् महायशस्वी च करणीयो मया क्षितौ ।
निवर्तस्व कुमार्गेभ्यस्त्वं सदा पृथिवीपते ॥ ७२

प्रेतपर्यायकं नग्नमजैषीस्त्वं यतो बलात् ।
मम प्रसादाद् राजेन्द्र ब्राह्मणानुग्रहात्तथा ।
प्रजापतितुलः पृथ्वां यशस्वी त्वं भविष्यसि ॥ ७४

वेदज्ञो व्रतनिष्ठश्च तपसा शुद्धमानसः ।
प्रजाः पालय निष्पापः अनुमतिस्तथा मम ॥ ७५

अस्य ब्राह्मणपुत्रस्य चित्रस्य लेखनेन च ।
तादृशेण क्षितावादिचित्राविष्कारको भव ॥ ७६

लोकानां हितसाधनात् पूजनीयो भविष्यसि ।
अद्य प्रभृति तच्चित्र जगद्वन्द्यं भवेत् सदा ॥ ७७

पापघ्नं च मनोहारि प्रोतिसुखप्रदं नृणाम् ।
मङ्गलश्रोप्रदायकं रक्षोघ्नं शत्रुनाशनम् ॥ ७८

तवादौ लेखकख्यातिः ममेयं वचनेन च ।
चित्रमिति प्रसिद्धं तत् सर्वत्रैव भविष्यति ॥ ७९

ब्रह्मणेत्थं वचस्युक्ते यमो विप्रश्च नग्नजित् ।
सर्वे नेमुश्च भक्त्या तं ब्रह्माणं लोकपालकम् ॥ ८०

सर्वेषां मङ्गलं कृत्वा त्रिलोकेशः प्रजापतिः ।
सर्वदेवगणैः सार्धं जगाम् स्वगृहं मुदा ॥८१

राजाथ धर्मराजं तं पूजयित्वा प्रयन्ततः ।
स्वस्थानमागतो धीमान् प्रीणयित्वा यमं तथा ॥ ८२

अथासौ ब्राह्मणस्तुष्टः प्रपयौ नगरं द्रुतम् ।
यस्माद् देशात् समापन्नस्तत्रैव प्रविवेश च ॥ ८३

हृष्टो राजा समित्रश्च चित्रसंरचनाय वै ।
उद्यतोऽभूत् सदैवासौ सपुत्रे प्रस्थिते द्विजे ॥ ८४

सर्वरूपानुकूलं तत् मानं वा कीदृशं भवेत् ।
तत् प्रष्टुं सृष्टिकत्तरिं ब्रह्मलोकं जगाम सः ॥८५

कृपया ब्रूहि मे ब्रह्मन् चित्रसंलेखनक्रमम् ।
चित्रस्य लक्षणानि मे नानाविधानि सन्ति च ॥ ८६

परिमाणं किमस्य स्यात् विधिना कीदृशेन वा ।
उत्पादनीयमेतद्धि साञ्जलिः पृष्ठवान् नृपः ॥८७

ब्रह्माथ प्राह भूपेन्द्रं शृणु राजन् समाहितः ।
अतिगुह्यं महद् वाक्यं परमं कथयामि ते ॥ ८८

सृष्टेरादौ समायाता वेदा यज्ञाश्च भूपते ।
ततः प्रजा मया सृष्टा उपदिष्टाश्च ता मया ॥ ८९

चैत्यानां करणायैव चित्रं संलिख्यते यतः ।
वेदाच्चित्रं प्रजातं वै तस्माद् ज्ञेयं तथैव तत् ॥ ९०

आदौ संलिखितत्वाच्च चित्रमित्युच्यते ततः ।
चराचरयुता वृक्षा जङ्गमाश्च यथास्थिताः ।
तथा प्रलिखनात्तेषां तच्चित्रमिति कथ्यते ॥ ९१

गिरीणां सुमेरुः श्रेष्ठः अण्डजानां खगाधिपः ।
यथा नरेषु भूपेन्द्रस्तथा चित्रं कलासु वै ॥ ९२

पतन्ति सागरे नद्यः समुद्रा रत्नमाश्रिताः ।
नक्षत्रैश्चाश्रितः सूर्यो ब्रम्हा ॠष्याश्रयो यथा ।
तथैव चित्रकर्मणि कलाः सर्वाः समाश्रिताः ॥ ९३

हिमालयो यथा श्रेष्ठो नगेषु सकलेषु च ।
गङ्गा नदिषु श्रेष्ठैव ग्रहेषु सोमभास्करौ ॥ ९४

समेषु वैनतेयश्च महेन्द्रो देववृन्दके ।
तथा श्रेष्ठं भवेच्चित्रं सर्वासु हि कलासु च ॥ ९५

नग्नजिद् गच्छ तस्मात् त्वं विश्वकर्म समीपतः ।
लक्षणविधिमानं च तुभ्यं स उपदेक्ष्यति ॥ ९६

उपदेशमनुसृत्य ब्रह्मणो भूपतिस्ततः ।
विश्वकर्मसमीपे तु प्रसन्नो ह्यगमद् द्रुतम् ॥ ९७

दृष्टोऽसौ विश्वकर्मा च राज्ञा नमस्कृतस्तथा ।
आतिथ्यं विधिवत् कृत्वा राज्ञे सोऽदददासनम् ॥ ९८

राजाह विश्वकर्मन् भो ब्रह्मज्ञया ह्युपस्थितः ।
चित्र्स्य लक्षणं कर्म उपदिशतु मे प्रभो ॥ ९९

विधिर्वा परिमाणं वा कीदृशं वा भवेत्तथा ।
उपदिशतु कार्त्स्न्येन रहस्यं सप्रकारकम् ॥ १००

एवमुक्ते नरेन्द्रेण विश्वकर्मा मुदान्वितः ।
चित्रशिल्पस्य शास्त्रं तु तस्मै राज्ञे ह्युपादिशत् । १०१

एकाग्रमनसा तत्तु श्रूयतां यद् मद्भाषितं ।
परिमाणं तथास्थानं वर्णोपायौ यथायथम् ॥ १०२

प्रदाय सर्वमीशेन देवेन पद्मयोनिना ।
निर्दिष्टं चित्रलक्षणं बुद्धिमन्तः कृते शृणु ॥ १०३

सर्ववस्तुसमाकीर्णा आकृतीर्लक्षणान्विताः ।
लोकश्रद्धास्पदं मह्यं लिखित्वादौ ह्युपाहरत् ॥ १०४

केन मानेन शोभनाः स्थानोपायैश्च कीदृशैः ।
ब्रह्मणः कृपया लब्धाः सर्वे शिल्पा मया कृताः ॥ १०५

आकारेणेदृशेनैव प्रजा मया विनिर्मिताः ।
देवैश्चित्रं विवर्द्धितं विविधं लक्षणान्वितम् ॥ १०६

ज्ञेयं मत्तस्त्वथा राजन् लक्षणमाकृति तथा ।
सादृश्यं वेशसौन्दर्यं परिमाणं कलान्वितं ॥ १०७

चित्रमीदृशं संलेख्यं यत्नाद् बुद्धिमता त्वया ।
दर्शनीयं मनुष्येभ्यो विद्वभ्यो गुणयुक्तेभ्यः ।
चित्रसन्दर्शने तावदुत्साहमतियुक्तेभ्यः ॥ १०८

मुनिनागासुराणां च प्रेतानां यक्षरक्षसाम् ।
गन्धर्वाणां च राजेन्द्र विधिवत् कक्षणादिकम् ।
लिखित्वा विविधं सम्यक् तुभ्यं मया प्रदश्र्यते ॥ १०९

॥ इति नग्नजिच्चित्रलक्षणनिर्देशे नग्नजयो नाम प्रथमः परिवर्त्तः ॥

द्वितीयः परिवर्त्तःसम्पाद्यताम्

द्वितीयः परिवर्त्तः

यथोक्तं ब्रह्मणा पूर्वमाचष्टे भूपतिं तथा ।
लिखनादिविधिं सम्यक् चित्रस्य परिनिर्मितो ॥ १

स्थावरे जंगमे नष्टे प्रलयान्ते च वै पुरा ।
प्रादुरभूत् सुवर्णाण्डं तमो हत्वा जलात् किल ॥ २

तस्मादण्डात् प्रादुरभूत् लोकपितामहः स्वयम् ।
ओमित्येकाक्षरं तस्माद् वेदविद्याश्च कल्पना ॥ ३

चतस्रश्च प्रजास्तासां रुपसंज्ञादयस्तदा ।
आयुषा सहितस्यैव ब्रह्मणो जातिरेव च ॥ ४

स्थानं चर्या च धर्मश्च न्यायश्च प्राभवन् तदा ।
एवं कृते सति ब्रह्माचिन्तयत् जगतो हितम् ॥ ५

एवं चिन्तयतस्तस्य मतिरित्थं बभूव ह ।
कथं जनाश्च जानीयुः संज्ञां देवमहीभूजाम् ।
अप्रमादेन चादरः सदा तेषु कथं भवेत् ॥ ६

ब्रह्मेत्थं चिन्तयित्वा तु विष्णोः शिवस्य चात्मनः ।
शक्रस्य सर्वदेवानां परिमाणं गुणं तथा ॥ ७

सवस्त्रं विविधस्थितमलंकारास्त्रसंयुतं ।
मनोरमं सुरुपं च अत्यन्तस्रदृशं तथा ॥ ८

ससविभक्तसर्वाङ्गं प्रत्यङ्गं च यथायथम् ।
मिश्रितेन च वर्णेन चित्राकारं विनिर्ममे॥ ९

विलोक्य तानि चित्राणि नेत्रमूलात् प्रमोदिताः ।
साधु साध्विति संपूज्य प्रशंशसुर्विधिं सुराः ॥ १०

इमे देवाः प्रसन्नाश्च स्वप्ताकारं च लेभिरे ।
अधिष्ठानं प्रभावं च कृतवन्तस्तथा इमे ॥ ११

प्राह सप्तसुरान् ब्रह्मा अस्तु पुण्यं समाश्रितम् ।
अद्य प्रभृति सर्वत्र युष्माकं प्रतिमासु च ॥ नात्र शङ्का कृथा नरः पूजयिष्यति वः सदा ॥ १२

शूद्धया दानेन विधिवत् तत्परायणमानसः ।
मनुष्येषु च यो नाम् भवन्तं पूजयिष्यति ।
तस्मै कामस्य सिद्धये नैरुज्यं संप्रदास्यति ॥ १३

नाना प्रकारदुःस्वप्नात् द्वेषग्रस्तेभ्य एव च ।
सर्वेषा रक्षण कृत्वा पापान् नाशयति ध्रुवम् ॥ १४

धर्मश्च सदृशो भाव्यः रक्षोहानिर्भवेद् ध्रुवम् ।
यशोवृद्धिर्भवेद् विश्वे युष्माकं परिपूजनात् ॥ १५

लोकपूजाव्यवस्थायै प्रतिमानां यथायथम् ।
नामादिकीर्तनं कार्य स्तवपूजादिकं तथा ॥ १६

प्रतिमां यां प्रतिदिनं पुण्यात्मा पूजयिष्यति ।
तयैव दीयते शान्तिस्तस्मै भक्ताय सर्वतः ॥१७

एवं ववत्विति प्राहुर्देवाः प्रसन्नमानसाः ।
स्वीयवेषैः स्वचेतसा स्वाधिष्ठानं समागताः ।
इत्थं पूजाभवद् विश्ववासिभिस्ते प्रपूजिताः ॥ १८

परिमाणादिकं तेषां मत्तः श्रुत्वा च लक्षणम् ।
अद्य मनुष्यलोकेषु प्रचारय प्रयत्नतः ॥ १९

ब्रह्मणश्च मया प्राप्तं विद्योत्तमा च लक्षणम् ।
अशेषं परिमाणं च तुभ्यमद्य प्रदीयते ॥ २०

त्रिलोकेषु च पूज्यानां सर्वेषां देहिनां तथा ।
पापहानिकरं भीतेनशिकम् नेत्रमोदकं ॥ २२

आद्युत्पन्नञ्च दोषेण हीनं नानाश्रयं परम् ।
विजानीहि क्षितीन्द्र त्वं यशोराशिविवर्धकम् ॥ २३

॥ इति चित्रलक्षणे पूजोत्पत्तिर्नाम् द्वितीयः परिवर्त्तः ॥

तृतीयः परिवर्त्तःसम्पाद्यताम्

तृतीयः परिवर्त्तः

लोकस्य कायमानं मां स्वयम्भूरुपदिष्टवान् ।
तत् तथैव प्रवक्ष्यामि मानं ब्रूहि प्रजासु च ॥ १

देवराक्षसगन्धर्व सिद्धनर्तककिन्नराः ।
विद्याधराश्च नागेन्द्राः पिशाचप्रेतकायिकाः ॥ २

ये भवन्ति च तेषां वै भूपतोनां ततस्तथा ।
सर्वेषां प्राणिजातानां मानमिदं प्रवर्तते ॥ ३

परमाणुश्च वालाग्रं लिक्षा यूको यवोऽङ्गुलिः ।
अष्टाष्टगुणवृद्धया वै ज्ञातव्यमिति निश्चितम् ॥ ४

परमाणुभिरष्टाभिरेकं वालाग्रमुच्यते ।
वालाग्राष्टौ च लिक्षा सा परिमाणज्ञकीर्तिता ॥ अष्टलिक्षा भवेद् यूकः अष्टयूका यवः स्मृतः ॥ ५

द्वयङ्गुलोद्धर्यङ्गुलं मानमङ्गुलिः स्याद् यवाष्टकम् ।
अर्धाङ्गुलिश्चतुर्यवा इति मानं निगद्यते ॥ ६

विस्तारस्य यथैवार्थ आयामेन प्रकाशितः ।
तथारोहसमुच्छ्रायौ पर्यायवाचिनौ मतौ ॥ परिमाणानुसरेण वर्णनोयाः क्षितौ नराः ॥७

उच्छ्रायश्च तथायामो राज्ञां न्यग्रोधवृक्षवत् ।
विस्तृतश्चक्रवर्तिनां श्रुयतां वर्ण्यते मया ॥ ८

उच्छ्रायश्चक्रवर्तिनां स्वाङ्गुलेः परिमाणतः ।
अष्टोत्तरशतं ज्ञेयं कदाचिन्न पराङ्गुलेः ॥ ९

चक्रवर्तिमहीपानामुच्छ्रायपरिमाणकम् ।
साक्षात् सवर्ण्यते चात्र पुर्वोक्तं विस्तरेण च ॥ १०

मुखादीनां परिमाणं श्रुयतामुच्यते मया ।
त्रिभागेन विभक्तं च समानेन तथा बुधैः ॥ चिवुनासाललाटं वा चतुरङ्गुलमानकम् ॥ ११

आयामो मुखभागस्य भवेच्चतुर्दशाङ्गुलिः ।
उर्द्धभागे त्वधीभागे आयमो द्वादशाङ्गुलिः ॥ आरोहो वदनस्यात्र द्वादशाङ्गुलिमानकः ॥ १२

आरोहश्चतुरंगुलमुष्णीषस्य भवेद् ध्रुवं ।
आयामश्च तथैवास्य षऋहङ्गुलसमायुतः ॥ १३

शीर्षं छत्रसमाकारमायामो द्वादशाङ्गुलः ।
द्वात्रिंशत् तस्य मण्दलमङ्गुलीनां हि मानतः ॥ १४

कर्णदेशस्य चायमो द्वयङ्गुलिपरिमाणकः ।
चतुरङ्गलिसमुच्छ्रायो रन्ध्रमर्धाङ्गलं मतम् ।
कर्णारन्ध्रस्य चारोह एकाङ्गुलो भवेद् ध्रुवम् ॥ १५

समानतलविज्ञेयं भ्रुपृष्ठकर्णयोस्तथा ।
अक्षिकोषस्य विस्तारः कर्णरन्ध्रसमानकः ॥ १६

कर्णस्य लुटिकामानं निश्चयेन न कीर्त्यते ।
भ्रुवोरुच्छ्राय आरोहो द्वौ यवौ चतुरंगुलिः ॥ १७

सर्वेषामेव शान्तानां भ्रुःस्यान्नवशशाङ्कवत् ।
नर्त्तने रोदने क्रोधे चापाकारा भवेत् सदा ॥ १८

भये शोके च भ्रुप्रान्तावुन्नतौ क्रमिकौ स्मृतौ ।
नासाकोशात् समुत्थाय अर्धललाटगामिनौ ॥ १९

एकाङ्गुलिस्तथा मध्यः रोमकोषसमावृतः ।
भ्रूमध्यात् केशपर्यन्तं मानं द्वयर्धाङ्गुलं मतम् ॥ २०

भ्रूवः प्रभृति भालान्तं मानं स्याच्चतुरङ्गुलम् ।
द्वयङ्गुलौ ह्यक्षिकोषः स्यान्नेत्रमध्यं तथैव तु ॥ २१

चक्षुषोद्वर्यङ्गुलारोह आयामश्चैककाङ्गुलिः ।
त्रिभागस्तारका ह्यस्य मुखमानसुसम्मता ॥ २२

चक्षुवत् तारकोच्छ्रायो नयनं चापसन्निभम् ।
यद् भवेत्तस्य मानं स्याद् यवत्रयप्रमाणकम् ॥ २३

उत्पलपत्रनेत्रस्य प्रमाणंषऋयवं स्मृतम् ।
मत्स्योदरसुनेत्रस्य मानमष्टयवं भवेत् ॥२४

पद्मपत्रनिभं नेत्रं नवयवैः सुसंनितम् ।
वराटकाभनेत्रस्य मानं दशयवं भवेत् ॥२५

उच्छ्रायश्च तथायामो नेत्राणां वर्णितो मया ।
निर्विकल्पं भवेच्चक्षुर्योगिनां चापसन्निभं ॥२६

कामिनां च तथा स्त्रीणां नेत्रं मत्स्योदरं भवेत् ।
सामान्यानं तु कर्त्तव्यमुत्पलदलसन्निभम् ॥२७

त्रस्तस्य रुदतश्चैव पद्मपत्रनिभं वरम् ।
क्रुद्धस्य दुःखितस्यैव वराटकनिभं सदा ॥ २८

उत्पलदलवन्नेत्रं रक्तान्तं कृष्णतारकम् ।
दीर्धाग्रसुन्दरं पक्ष्म शुवर्णं सर्लं मृदु ॥ २९

गोक्षीरवर्णवत्स्निग्धं प्रजाहितकरं भवेत् ।
राजन्नेतत् विजानीयाद् यथा स्यात् नेत्रलक्षणम् ॥ ३०

प्रसन्नपद्मवन्नेत्रां नीलवल्कलसुन्दरं ।
अन्तराखचितं कृष्णं तारकं श्रीसुखप्रदम् ॥ विलिखयेत् तथा धीमान् चित्रशास्त्रेषु दीक्षितः ॥ ३१

नेत्रमानमिदं ज्ञेयं यथाशास्त्रमुदीरितम् ।
षट्त्रिंशद्दृष्टिनियमलक्षणमग्र उच्यते ॥३२

नासायाः पुनरारोहश्चतुरङ्गुलिमात्रकः ।
मासाग्रस्य समुच्छ्रायौ द्वयङ्गुलिपरिमाणकः । ३३

वक्रतायाः पुटस्यापि आयामः स्वाङ्गुलिद्वयम् ।
नासारन्ध्राग्रदेशस्य मानवं स्याच्चतुर्यवम् ॥ उच्छ्रायश्च तथैवास्य यवद्वयसमायुतः ॥ ३४

देशस्तुरन्ध्रयोर्मध्ये द्वियवपरिमाणकः ।
आरोहः षऋयवस्तस्य ओष्ठ एकाङ्गुलिः स्मृतः ॥ ३५

अधरोऽर्धाङ्गुलिस्तस्य गोजी चार्धाङ्गुलिस्तथा ।
अधरोष्ठस्य चारोहश्चतुरङ्गुलिमानकः ॥ ३६

ओष्ठान्तौ विम्बवद् रक्तौ तथा चापानुकारकौ ।
अल्पोच्चो मुखकोणः स्यात् सदासुस्मितसंयुतः ॥ ३७

उच्छ्राये द्वयङ्गुलिर्हनुरायामे त्र्यङ्गुलिस्तथा ।
कण्ठस्य तु समुच्छायश्चतुरङ्गुलकं स्मृतम् ।
उत्क्षिप्तकण्ठमानं हि ज्ञेयमेतन्न चान्यथा ॥३८

अधाधः कण्ठदेशय चायमः स्याद् दशाङ्गुलिः ।
कशोऽष्टाङ्गुलकं मानं ततः स्थूलस्त्रिमानतः ॥ ३९

कण्ठस्त्रिबलिभिर्युक्तः कर्त्तव्यः कम्बुवत् सदा ।
उन्नतः पृष्ठभाग स्यात् परिमण्डलसंयुतः ॥ ४०

पञ्चाङ्गुलं तु गण्डोध्वं अधः स्यात् चतुरङ्गुलम् ।
चिवुकस्य तथा मानं चतुरङ्गुलकं मतम् ॥ ४१

आयामो मुखगागस्य तथौष्ठस्य विवर्णितः ।
चतुरस्रं मुखं पूर्णं प्रसन्नं चारुलक्षणम् ॥ ४२

त्रिकोणा कुटिला वृत्ता नैव कार्या मुखाकृतिः ।
क्रोधयुक् रोषयुक् चैव न मुखं स्यात् कदाचन ॥ ४३

ईदृशैर्लक्षणैर्युक्तं मुखं विलिखयेद् यदि ।
सुसम्पन्नो भविष्यति नर इह च सर्वदा ॥ ४४

शान्तिकामि मुखं यत् स्याद् दीर्घं रवर्तं च वर्तुलम् ।
त्रिकोणं वा प्रजानाञ्च सामान्यानां भविष्यति ॥ ४५

तदितरञ्च यद् भवेत् पूर्वलक्षणसंयुतं ।
तद् विज्ञेयं च देवानां मुखस्य मानमीदृशम् ॥ ४६

अत ऊध्र्वं प्रवक्ष्यामि कायमान विचारतः ।
अविक्षिप्तेन गृह्यतां मनसा च महिपते ॥४७

यत् स्थानं कटिदेशस्य उदरस्य तथान्तरा ।
ज्ञेयं तद् द्वयङ्गुलं नूनं स्कन्धायामः षऋअङ्गुलः ॥

दैघ्र्ये त्वष्टाङ्गुलो ज्ञेयो वक्षस्तु द्विगुणं स्मृतम् ॥ ४८
आरोहः स्यात्तु मेट्रस्य षऋअङ्गुलप्रमाणकः ।
अष्टादशाङ्गुला श्रोणी आरोहे कथिता बुधैः ॥ ४९

जत्रुतो हृदयं यावन्न कुटिलः प्रदेशकः ।
हृदयान् नाभिरन्ध्रकः बन्धुरः स्यान्न संशयः ।
नाभितो मेट्रपर्यन्तं समानं च भवेद् ध्रुवम् ॥ ५०

चतुर्दशाङ्गुलं कट्या नाभेरर्धाङ्गुलं मतम् ।
मानं च दहिणावर्त्तं यवैकं चुचुकं स्मृतम् ॥ ५१

मण्डलो द्वयङ्गुलो वासः पुनर्देयं चुचूकयोः ।
बन्धनं च प्रदातव्यं कटिदेशस्य शोभनम् ॥ कटिदेशस्तथा नाभेरधस्ताच्चतुरङ्गुलिः ॥ ५२

आयामे द्वयङ्गुलं मेढ्रं वास्तेयस्तु षऋअङ्गुलः ।
बृषणौ नातिलम्बौ हि स्थूलत्वे सप्तकाङ्गुलौ ॥ परिवृतिः समानैव उच्छ्राये चतुरङ्गुलौ ॥ ५३

मेदं षऋअङ्गुलं प्रोक्तमन्तरं स्वोदरान्ननु ।
षऋअङ्गुलं भवेत् मानं लक्षणज्ञैरुदाहृतम् ॥ ५४

आयामो जङ्घयोः कार्यः पञ्चविंशतिरङ्गुलः ।
ऊर्बोर्गुल्फयोश्चैव मानं स्याच्चतुरङ्गुलम् ॥ ५५

प्रान्तद्वयं च जङ्घाया विख्यातं चित्रकर्मणि ।
गुल्फलग्नप्रदेशस्य आयामश्चतुरङ्गुलः ।
तथैव मध्यदेशी हि आरोहेण षऋअङ्गुलिः ॥ ५६

ञ्यङ्गुलं जानुभागस्य आयामे न तथारोहे ।
जङ्घाद्वयस्य तस्योर्धं मानमष्टाङ्गुलं मतम् ।
जङ्घयोः स्थूलतामानं भवेद् द्वादशकाङ्गुलम् ॥ ५७

जङ्घाग्रमुन्नतं कुर्यात् पुष्टमसिन संयुतम् ।
मृदु करिकराकारं न कार्यं विषमं क्वचित् ॥ ५८

गुल्फादेशस्तथा नाऋई प्रगच्छन्नैव दृष्टिताम् ।
जङ्घायाः पश्चिमो भागः सुवृत्तोऽल्पोन्नतौ भवेत् ॥ ५९

उच्छ्रायेण तु पार्ष्णीनां मानं पञ्चाङ्गुलं मतम् ।
आयामस्त्र्यङ्गुल प्रोक्तः पादौ चतुर्दशाङ्गुलौ ॥ ६०

चतुरङ्गुलिकोऽङ्गुष्टो रक्तं पादतलं स्मृतम् ।
रक्तपद्माग्रसादृश्यं लाक्षारससमायुतम् ॥ ६१

चक्रादिलक्षणैर्युक्तं परस्परसमीपगम् ।
पादस्य बन्धनं स्यात्तु द्वयुङ्गुलं भूपदेशगम् ॥ ६२

चक्रवर्तिमहीपस्य हंसवच्चरणौ मतौ ।
भूस्पर्शौ जालवृद्धौ च अष्टाङ्गुलिप्रमाणकौ ॥ ६३

कूर्मपृष्टसमाकारौ सुन्दरचिन्हसंयुतौ ।
पञ्चाङ्गुलिसमायामौ दर्शने सुमनोहरौ ॥ ६४

कनिष्टिकात्तयारोहः षऋअङ्गुलिसुसंयतः ।
अङ्गुष्टस्य तथायामो द्वयङ्गुलः साधुनिश्चितः ॥ परिवृतिः षऋअङ्गुलिः आरोहे चतुरङ्गुलिः ॥ ६५

अग्रे समुन्नता कार्या दीर्घा अङ्गुलयस्तथा ।
अङ्गुष्ठापेक्षया स्थूला आरोहे त्र्यङ्गुला मताः ॥ ६६

एकैकाङ्गुलितो न्यूनाः सर्वाः स्युः क्रमिकागताः ।
कनिष्ठिकासमुच्छ्रायपरीइवृत्तिर्द्विरङ्गुलि ॥ ६७

अङ्गुलीनां तु जालाश्च सन्नद्धाः सुन्दरास्तथा ।
नाड्यविषमसंपुष्टा अस्थि चादर्शनं गतम् ॥ ६८

नखाश्चार्धशशाङ्कवत् रक्तिमाः स्निग्धवर्णकाः ।
सिन्दुरलिप्तसर्वाङ्गाः प्रदिप्ताग्निशिखा यथा ॥ ६९

चन्द्रकान्तसमुज्ज्वलास्तथा सुस्पष्टसंयुताः ।
अव्रणा मृदवः पूर्णाः यवमानेन पूरिताः ॥ ७०

अङ्गुलिस्तु त्रिभागः स्यात् स्पष्टा वृद्धाङ्गुलिस्तथा ।
तस्याः पार्श्वाङ्गुलेर्मध्ये स्थानमर्धाङ्गुलं मतम् ॥ ७१

गुल्फादेशादधोभागश्चरणमितिसंज्ञितम् ।
तच्चरणसमुच्छ्रायः चतुरङ्गुलको मतः ।
इत्थं चरणमानं स्यान् मया प्रोक्तं सुचिन्तितम् ॥ ७२

हस्तस्य लक्षणान्यत्र श्रुयन्तां कथयाम्यहम् ।
तलं सप्ताङ्गुलं दीर्घं विस्तारः पञ्चकाङ्गुलिः ॥ ७३

मध्याङ्गुलेः समुच्छ्रायः पञ्चाङ्गुलं प्रकीर्तितम् ।
तर्जन्या न्यूनता बोध्या पर्वार्धेन सुसंमता ॥ ७४

अनामिकाङ्गुलीमानं तदूवदेव भवेद् ध्रुवम् ।
कनिष्ठिकाप्यदीर्घा स्यात् पार्श्वाङ्गुलिक्रमादनु ॥७५

अङ्गुष्ठस्य सदोरहोश्चतुरङ्गुलको मतः ।
अङ्गुष्ठे द्वे तु पर्वणी समेनैक यवो भवेत् ॥ ७६

तस्याधो मांसपिण्डश्च त्र्यङ्गुलिसम्मितो भवेत् ।
अङ्गुष्ठस्य प्रमाणं तु नवयवकसम्मतम् ॥ आयामोऽष्टयवः कार्य आरोहस्तु यवा नव ॥ ७७

अङ्गुष्ठात्तु चतुर्भागा नद्धा जालक्रमादनु ।
नखा रक्तास्तथा स्वच्छाः शुक्तिवच्चारुतान्विता ॥ ७८

अङ्गुष्ठपार्श्वमांसं त्वायामे अङ्गुलकं मतम् ।
अङ्गुष्ठान्तं तु करभात् सप्ताङ्गुलमानकम् ॥ ७९

आयामश्च तथारोहः क्रमादङ्गुष्ठयोर्मिथः ।
यथाशास्त्रमुपन्यस्तः शुभं कार्यं विचारयन् ॥ ८०

पर्वार्धेन मिताः कार्या नखाः सूक्ष्मां नखाग्रकाः ।
सृष्यन्ते च यवादृशः पर्वतरेखा त्वदोषभाक् ॥ ८१

पर्वं दीर्घं च वृतं च करतलसुशोभनम् ।
तलौ पद्मसमौ रक्तौ करस्यैवं विधानतः ॥ ८२

अकुटिलमवक्रं च गम्भीरं सूक्ष्मकं तथा ।
रेखात्रयं करे प्रोक्तं रक्तवर्णं सुशोभनम् ॥ ८३

श्रीवत्सचक्रचिन्हस्वस्तिलक्षण समन्वितम् ।
कार्पासस्पर्शकोमलं क्षौमसूत्रमनोहरम् ।
सुखदं चारु सुस्पर्शं कुर्यात् करतलं शुभम् ॥ ८४

समन्तान् मांसपूर्णं वै नाऋई दृश्या कदापि न ।
हस्तपृष्ठं सदा स्निग्धमुन्नतं च भवेद् ध्रुवम् ।
सूक्ष्मा अङ्गुलिजाला हि सुन्दरं च तनुस्तथा ॥ ८५

उत्पलाभः सदा रक्तो नागेन्द्राभोगसन्निभः ।
नखोदरस्तनुः स्निग्ध उन्नतः करशोभकः ॥ ८६

आरोहायाममानं तु हस्तस्य गदितं मया ।
बाहूनां मानमारोहं धीमन् शृणु वदानि ते ॥ ८७

उभयोस्तु तथा बाह्वीर्मानं कुर्याद् यथाविधि ।
षट्त्रिशकं प्रमाणं वै अङ्गुलीनां विधानतः ।
अष्टादश प्रबाहोश्च बाहोश्चापि तथैव च ॥ ८८

स्कन्धाग्रस्य भवेन् मानं षऋअङ्गुलिसुसम्मतम् ।
आयामो बाहुभागस्य ज्ञेयं पञ्चाङ्गुलं सदा ॥ ८९

अङ्गुलिर्मणिबन्धः स्यात् प्रवाहू चतुरङ्गुली ।
विशालो वर्त्तुलाकारः सुस्पष्टोरंशो भवेत् पुनः ॥ ९०

आरोहो भुजयोर्यस्तु भवेदष्टादशाङ्गुलिः ।
आकरादष्टचत्वारिशत् नाऋइपर्व त्वदृश्यकम् ॥ ९१

हस्तौ न जानुपर्यन्तौ दीर्धौ सूक्ष्र्मौ च सुन्दरौ ।
समन्तान् मांसपूर्णौ च भवेतामानपूर्ण्यतः ॥ ९२

गोपुच्छाग्रसमौ तावत् क्रमेणोच्चावचौ पुनः ।
बाहू दण्डायमानस्य जानुपर्यन्तगामिनौ ॥ ९३

तस्माद् राजेन्द्र हस्तेन जानुप्राप्त उदीर्यते ।
बाहुप्रबाहुमानानि आयामारोहः कीर्त्तितः ॥ ९४

पुनरग्रे प्रवक्ष्यामि लक्षणानि शुभानि वै ।
यानि पुर्वं न चोक्तानि तानि तुभ्यं वदाम्यहम् ॥ ९५

केशानां प्रान्तभागात्तु स्थानं कट्यास्थिविस्तृतम् ।
परिमाणं षऋअङ्गुलं ज्ञेयं सदा महीपते ।
स्कन्धस्थलस्य मानं हि षोऋअशाङ्गुलिसम्मितम् ॥ ९६

आरोहस्तस्य मध्यस्य दशाङ्गुलं भवेद् ध्रुवम् ।
आयामे चाङ्गुलीनां ही संख्या यायाद् नवान्विता ॥ ९७

स्कन्धदेशस्य मध्यांश आरोहायामशोभितः ।
पृष्ठमध्यः षऋअङ्गुलिरुर्ध्वे तु विंशतिर्मता ॥ ९८

मध्यस्य द्वयङ्गुलायामः पृष्ठं भागेन सुन्दरम् ।
पुरुषाणामिदं मानं स्त्रीणां भागः स एव हि ।
मांसपेश्यल्पसंयुतः सर्वशरीरशोभनः ॥ ९९

नितम्बपार्श्वमानं स्यात् षऋअङ्गुलिसमन्वितम् ।
चतुरस्रं च विज्ञेयं मण्डलान्वितनिम्नगम् ॥ १००

स्थानात् तस्मात् समारभ्य श्रोणीसीमासमीपगम् ।
चतुरङ्गुलं स्थानं स्यात् पायुस्तु द्वयुङ्गुलं मतम् ॥ १०१

नितम्बदेश आरोहे चाष्टाङ्गुलिसमन्वितः ।
नातिसंकोचमापन्न आयामः सप्तकाङ्गुलिः ।
चारुमण्डलयुक्तश्च नातिप्रसारितो भवेत् ॥ १०२

आरोहायामयोः सर्वं लक्षणं शास्त्रसम्मतम् ।
निर्दिष्टं चावबोधार्थं पुनरत्र प्रवक्ष्यते ।
अविक्षिप्तेन चित्तेन गृह्यतां लोकहेतवे ॥ १०३

दन्तशिरस्य लोभानां व्यवस्था क्रमशो यथा ।
वर्णस्य लक्षणं चैव देवमुखे न दीयते ॥ १०४

सुग्रथिताः समादन्ताः स्निग्धवर्णाः सुतीक्ष्णकाः ।
दधिमुक्ताब्जवच्छुक्लाः स्वच्छाः श्वेता हिमा इव ॥ १०५

चत्वारिशच्छुभा दन्ताः श्वदन्तैश्च सुशोभिताः ।
आरोहे त्रियवा ज्ञेया आयामे यवयुग्मकाः ॥ १०६

दन्तमूलं तथा तालु जिह्वासीमा च लोहितम् ।
जातीकुसुमसंकाशं श्वदन्ताभं सुशोभनं ॥ १०७

श्वदन्तानां यवार्धेन वृद्धिः कार्या विचारयन् ।
तीक्ष्णाग्रपरिमण्डलं मृदु मृणालतन्तुवत् ॥ १०८

पद्मपत्रप्रतीकाशः कोमलष्च सुलक्षणः ।
स्थिरतडीन्निभो जिह्वादेशः स्पष्टष्च रक्तिमः ।
नवार्धपर्णवच्चारुः मुखे वै विततो भवेत् ॥ १०९

ऐरावतस्य वृंहती हयराजस्य नादव्त् ।
मेघरवस्य गम्भीरा वाणी प्रोक्ता सुलक्षणा ॥ ११०

जालरेखानिभा केशाः शिरोऽलंकरणं गताः ।
इन्द्रनीलसभाः कृष्णा भ्रमराञ्जनसन्निभाः ॥ १११

मयूरकण्ठरोमाभाः कोकिलाभाः शिरोरुहाः ।
नीला देदीप्यमानाश्च पृष्टमूलसमागताः ॥ ११२

सुन्दरा दक्षिणावर्त्ताः केशरिणः सटाप्रभाः ।
जालरेखाङ्किताः कोणाः केशचूऋआ मनोहराः ॥ ११३

बाहुमूलोपजङ्घासु नासाकर्णमुखेषू च ।
जङ्घासु कण्ठगण्डेषु केशा न स्युर्महात्मनाम् ॥ ११४

मृदुसूक्ष्मैस्तथा स्निग्धैर्जालरेखैः सुशोभनैः ।
केशानां परिमण्डलैर्नीलाञ्जनसमप्रभैः ।
वक्षस्थलं नृपाणां च शोभितं स्यात् सुलक्षणम् ॥ ११५

देवभूतमनुष्याणां मुखे श्मश्रु न रोम च ॥ ११६

एतेषां देवदेहस्तु रोमभिः परिवर्जितः ।
षोऋअशवर्षपूरकं शरीरं तद्धि कथ्यते ॥ ११७

सुराणां केशजालं तु सूक्ष्मलतेव संगतम् ।
नीलं चक्षुर्मनोग्राहि सर्वसत्त्वसुखप्रदम् ॥ ११८

जम्बुनदसमाहृततप्तकाञ्चनवर्णकः ।
देदिष्यते च देहोऽस्य पातचम्पकपुष्पवत् ॥ ११९

कमलदलकोषस्य प्राकार इव तृप्तिदः ।
उत्तमः पुरुषो ज्ञेयः लक्ष्मणं चक्रवर्त्तिनः ॥ १२०

गजराजगतिर्यस्य वृषराजपदोन्नतिः ।
मृगराजगतिस्थैर्यं लक्ष्मणं चक्रवर्त्तिनः ॥ १२१

गजवत् सबलौ पादौ वृषवदाननं खरम् ।
वदनं सिंहवद् राजहंसतेजः समायुतः ॥ १२२

वेशदृशां गतिं चाथ अतिक्रम्य च सर्वेषाम् ।
दृश्यवन्नाटकस्येव भूतानां शिक्षको च मनोरमा ॥ १२३

सुगन्धस्त्वक् कृशः स्निग्धी दर्पणस्पर्शकोमलः ।
धूलिमलेन निर्लिप्तः लक्षणं चक्रवर्त्तिनः ॥ १२४

प्रदीप्तमणिसंकाशः स्ह्वेतवस्त्रसुशोभितः ।
समन्तात् किरणावृतः राजा लेख्यः कृशः सदा ॥ १२५

निर्मेधशशिच्चारु प्रभामण्डलमण्डितम् ।
शरीरं यस्य राजेन्द्र लक्षणं चक्रवर्त्तिनः ॥ १२६

मुखं चन्द्रदृशं स्ह्वेतं सुग्निग्धश्चापरः शशी ।
धरापृष्टे समायात इत्त्थं माधुर्यमण्डितः ।
भ्रूवोः कण्ठस्य भालस्य सौन्दर्यं हि मुखस्य च ॥ १२७

आकुञ्चितमृदुस्निग्ध चारुकेशः सुनासिकः ।
चार्वोष्टं रक्तिमापूर्णं स्वच्छा दन्ता नभो यथा ॥ १२८

दीर्धोत्तम च पक्ष्म हि स्निग्धवर्णं भवेत्तथा ।
नीलं कृष्णं दीर्घं च चक्षुः स्यात् सुमनोहरम् ।
भ्रूवौ दीप्तौ सदा ज्ञेयौ नेत्रानन्दविधायकौ ॥ १२९

फुल्लारविन्दकोषस्य कर्णयोराकृतिः समा ।
ईषद्रोमौ मनोहरौ शरीराङ्गविभूषणौ ॥ १३०

कर्णयोर्लुटिके तस्य क्रमिके शङ्खसन्निभौ ।
बद्धस्कन्धौ सुपूर्णांशौ शोभनमङ्गमण्डलम् ॥ १३१

मांसपुर्णं भवेद् वक्षः तस्यारोहो यथाक्रमन् ।
आयामश्च यथायथं चानुपूर्व्येण संगता ॥ १३२

सिंहोदरवद् विज्ञेया कटिरावर्तिता भवेत् ।
दक्षिणावर्तिनो नाभिः गभीरा स्याद् यथायथम् ॥ १३३

ऐरावतसमानौ हि लिङ्गकोषश्च सुन्दरः ।
समन्तात् मण्डलाकारः आभादृश्या भवेद् ध्रुवम् ॥ १३४

गजशुण्डसमा जङ्घा अनुक्रमेण विस्तृता ।
मुखेषु चोन्नता ज्ञेया गुल्फोऽदृश्पो भवेत् तथा ॥ १३५

सुबद्धाङ्गुलिसुन्दरौ कूर्मवत् मांसलौ तथा ।
अर्धचन्द्रप्रभायुक्ताङ्गुलिचक्रपदाङ्कितौ ।
पादपृष्टोमृदू स्यातां कोमलौ हरितौ स्मृतौ ॥ १३६

वृषपुच्छानुपूर्वियौ दीर्घाङ्गुलियुतौ करौ ।
नखप्रभासमुज्ज्वलौ प्रसारे दीर्घकौ यथा ।
परिमण्डलसम्पन्नौ चक्ररेखास्वलङकृतौ ॥ १३७

चम्पकदामशोभितः मरालगातसंयुतः ।
सुसंस्थानसमापन्नः सर्वाङ्गेण मनोहरः ॥ १३८

तेजस्वी वीर्यवान् राजन् चक्रवर्त्ती सदा भवेत् ।
आयामारोहमानं च लक्षणं तदुदाहृतम् ॥ १३९

देहे जङ्घोपजङ्घा च भृशं विकशिता भवेत् ।
सुहस्तौ चरणौ स्यातां तथा पर्व च दृश्यते ॥ १४०

कुक्षिपृष्टे सुशोभिते मुखं चारु मनोहरम् ।
शोभितौ च भुजौ स्यातां देहो मानान्वितो भवेत् ॥ १४१

अङ्गानि मांसपूर्णानि शरीरं स्निग्धवर्णकम् ।
प्रियौदार्यगुणा यत्र राजहंसगतिस्तथा ।
चारुदेहो महीपतेः चक्रवर्ती स उच्यते ॥ १४२

प्रसिद्धैः शिल्पिभिः कार्यं मानवाङ्गेषु यत्नतः ।
शीर्षकष्टभुजद्वन्दं जङ्खोपजङ्खसुन्दरम् ॥ १४३

उपयुक्तेषु सर्वेषु परिमाणं तु यत्र च ।
तत्र स्वाङ्गुलिना कार्यं मानं सर्वत्र कर्मणि ॥ १४४

आरोहायामपीनत्वे प्रत्यङ्गं समतां भजेत् ।
विधिना परिमाणेन सम्म्पन्नं शोभितं भवेत् ॥ १४५

अती ज्ञेयञ्च पण्डितैः परिमाणं सुयत्नतः ।
परिमाणप्रतिष्टानोपायादिभिर्विहीना या ।
प्रतिमा सा परित्यक्ता सुरदेवैः सदा खलु ॥ १४६

पिशाचा राक्षसा भूता वसन्ति त्वरित तथा ।
शोभितान् नाशयन्ति च अमङ्गलं भयं भवेत् ॥ १४७

आरोहायामयोः राजन् लक्षणं कथितं मया ।
यथेच्छं वै विभक्तव्यं चतुर्भागेन मुख्यतः ॥ १४८

वलिः सूर्यो दाशरथिः रामो मनुसुतस्तथा ।
परिमाणानुसारेण कार्यो भिन्नो वीचक्षणैः ॥ १४९

भद्रौ द्वयङ्गुलिना न्यूनो मालव्यश्चतुरङ्गुलिः ।
रुचकोऽष्टाङ्गुलिन्यूनः शशकश्च दशाङ्गुलिः ॥ १५०

अप्रियो न यथा यायात् तथा मानं विचारयेत् ।
किं भवेत् परिमाणेन शरीरं चेदसुन्दरम् ॥ १५१

चतुर्णां च तथा राज्ञां परिमाणस्य लक्षणम् ।
ब्रह्मणा तु प्रदर्शितं विस्तरं ब्रवीमि ते ॥ १५२

सर्वस्य लेखने ग्रन्थे विस्तारो भवति ध्रुवम् ।
तेन त्रस्यन्ति चाल्पज्ञा अश्रुतिकारणान् ननु ॥ १५३

नारीपुरुषयोः सत्सु लक्षणेषु प्रजापतिः ।
द्वादशेषु सहस्रेषु पञ्चश उपदिष्टवान् ॥ १५४

नरलक्षणयुक्तेषु तथानिर्दिष्टपञ्चधा ।
तुभ्यं प्रदर्शयामि चेद् गच्छेद् ग्रन्थो विशालताम् ॥ १५५

चक्रवर्त्तिनरेन्द्रस्य लक्षणं कथितं मया ।
विधिवत् परिमाणञ्च अन्यप्रदर्शनेन किम् ।
उत्तमपुरुषादीनां तेन मानं ध्रुवं भवेत् ॥ १५६

अतो बुद्धया सुनिश्चित्य भद्रो लेख्यो विचारयन् ।
स च भवेत् समुच्छ्राये षडुत्तरशताङ्गुलम् ॥ १५७

रुचकस्य समुच्छ्रायः शतसंख्यान्वितो भवेत् ।
मालवस्य तथोच्छ्रायश्चतुःशतमिताङ्गुलम् ॥ १५८

शशकस्य समुच्छ्राये संख्याष्टनवतिः सदा ।
अङ्गुलीनां विधातव्या चित्रशास्त्रविशारदैः ॥ १५९

अतोऽन्योमाननियमो न भूतो न भविष्यति ।
उत्तमाधममध्यमप्रधानानाञ्च भूभृताम् ।
आरोहाथाममानं तु आलोच्यात्र प्रदर्शिनम् ॥ १६०

उच्छ्रायो नवरत् स्त्रीणा ज्ञेय एकाङ्गुलिः कृशः ।
एकाङ्गुलिस्तथा राज्ञा पुष्टिर्ज्ञेया महामते ॥ १६१

नाभिजङ्खोपजङ्खानां लटिकण्ठोपजानुनाम् ।
शीर्षदेशस्य वक्षसस्तथा चरणयोर्नृप ।
आरोहो नाप्रियो यायात् तथा मानं विधीयताम् ॥ १६२

उत्तममध्यमाधममानं तु क्रमिकं मतम् ।
आरोहश्च तथायामः तेषामत्र प्रदर्शितः ।
नारीणां परिमाणं च सर्वं शृणु क्रमेण हि ॥ १६३

राज्ञां यथा प्रदर्शितं मानेन च तथायुतम् ।
सम्यग् विचार्य शेमुष्या बहुस्थानप्रतिष्ठितम् ॥ १६४

समद्विभागसम्पन्नं निष्कुटिलं सुकोमलम् ।
लेख्यं चित्रमनिन्दितं नेत्रप्रीतिविवर्द्धनं ॥ १६५

इति चित्रलक्षणे परिमाणो नाम्स्तृतीयः परिवर्तः ।
यावत् ब्रह्मणः परिमाणलेखयः समाप्तः ।

स्रोत्सम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=चित्रलक्षणम्&oldid=92910" इत्यस्माद् पुनः प्राप्तिः