छान्दोग्यारण्यकम्
[[लेखकः :|]]

छान्दोग्यारण्यकम्
आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि
सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम-
स्त्वनिराकरणं मेऽस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि
सन्तु
ॐ शान्तिः शान्तिः शान्तिः
ओमित्येतदक्षरमुद्गीथमुपासीत ओमिति ह्युद्गायति तस्योपव्याख्यानम् १
एषां भूतानां पृथिवी रसः पृथिव्या आपो रसोऽपामोषधयो रस ओषधीनां
पुरुषो रसः पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः साम्न उद्गीथो
रसः २
स एष रसानाँ रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः ३
कतमा कतमर्क्कतमत्कतमत्साम कतमः कतम उद्गीथ इति विमृष्टं भवति ४
वागेवर्क् प्राणः सामोमित्येतदक्षरमुद्गीथः
तद्वा एतन्मिथुनं यद्वाक् च प्राणश्चर्क् च साम च ५
तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे सँ सृज्यते यदा वै मिथुनौ समागच्छत आप-
यतो वै तावन्योन्यस्य कामम् ६
आपयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ७
तद्वा एतदनुज्ञाक्षरं यद्धि किंचानुजानात्योमित्येव तदाहैषो एव समृद्धिर्यद-
नुज्ञा समर्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ८
तेनेयं त्रयी विद्या वर्तत ओमित्याश्रावयत्योमिति शँ सत्योमित्युद्गायत्येत
स्यैवाक्षरस्यापचित्यै महिम्ना रसेन ९
तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद
नाना तु विद्या चाविद्या च यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव
वीर्यवत्तरं भवतीति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति १०
इति प्रथमाध्याये प्रथमः खण्डः १
देवासुरा ह वै यत्र संयेतिर उभये प्राजापत्यास्तद्ध देवा उद्गीथमाजह्रुरनेनै-
नामभिभविष्याम इति १
ते ह नासिक्यं प्राणमुद्गीथमुपासांचक्रिरे तँ हासुराः पाप्मना विविधुस्तस्मात्ते-
नोभयं जिघ्रति सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः २
अथ ह वाचमुद्गीथमुपासांचक्रिरे ताँ हासुराः पाप्मना विविधुस्तस्मात्तयोभयं
वदति सत्यं चानृतं च पाप्मना ह्येषा विद्धा ३
अथ ह चक्षुरुद्गीथमुपासांचक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयं
पश्यति दर्शनीयं चादर्शनीयं च पाप्मना ह्येतद्विद्धम् ४
अथ ह श्रोत्रमुद्गीथमुपासांचक्रिरे तद्धसुराः पाप्मना विविधुस्तस्मात्तेनोभयँ
शृणोति श्रवणीयं चाश्रवणीयं च पाप्मना ह्येतद्विद्धम् ५
अथ ह मन उद्गीथमुपासांचक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयँ
संकल्पयते संकल्पनीयं चासंकल्पनीयं च पाप्मना ह्येतद्विद्धम् ६
अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरे तँ हासुरा ऋत्वा विद-
ध्वँ सुर्यथाश्मानमाखणमृत्वा विध्वँ सेत ७
एवं यथाश्मानमाखणमृत्वा विध्वँ सत एवँ हैव स विध्वँ सते य एवंविदि
पापं कामयते यश्चैनमभिदासति स एषोऽश्माखणः ८
नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येष तेन यदश्नाति यत्पि-
बति तेनेतरान् प्राणानवति
एतमु एवान्ततोऽवित्त्वोत्क्रामति व्याददात्येवान्तत इति ९
तँ हाङ्गिरा उद्गीथमुपासांचक्र एतमु एवाङ्गिरसं मन्यन्तेऽङ्गानां यद्र सः १०
तेन तँ ह बृहस्पतिरुद्गीथमुपासांचक्र एतमु एव बृहस्पतिं मन्यन्ते वाग्घि बृह-
ती तस्या एष पतिः ११
तेन तँ हायास्य उद्गीथमुपासांचक्र एतमु एवायास्यं मन्यन्त आत्याद्यदयते १२
तेन तँ ह बको दाल्भ्यो विदांचकार
स ह नैमिषीयानामुद्गाता बभूव स ह स्मैभ्यः कामानागायति १३
आगाता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्त इत्यध्या-
त्मम् १४
इति प्रथमाध्याये द्वितीयः खण्डः २
अथाधिदैवतं य एवासौ तपति तमुद्गीथमुपासीतोद्यन्वा एष प्रजाभ्य उद्गा-
यति उद्यँ स्तमोभयमपहन्त्यपहन्ता ह वै भयस्य तमसो भवति य एवं वेद १
समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ स्वर इतीममाचक्षते स्वर इति
प्रत्यास्वर इत्यमुं तस्माद्वा एतमिमममुं चोद्गीथमुपासीत २
अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति स प्राणो यदपानिति सो
ऽपानः
अथ यः प्राणापानयोः सन्धिः स व्यानो यो व्यानः सा वाक् तस्मादप्राणन्न-
नपानन्वाचमभिव्याहरति ३
या वाक्सर्क्तस्मादप्राणन्ननपानन्नृचमभिव्याहरति यर्क्तत्साम तस्मादप्राणन्नन-
पानन्साम गायति यत्साम स उद्गीथस्तस्मादप्राणन्ननपानन्नुद्गायति ४
अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष
आयमनमप्राणन्ननपानँ स्तानि करोत्येतस्य हेतोर्व्यानमेवोद्गीथमुपासीत ५
अथ खलूद्गीथाक्षराण्युपासीतोद्गीथ इति प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गी-
र्वाचो ह गिर इत्याचक्षतेऽन्नं थमन्ने हीदँ सर्वँ स्थितम् ६
द्यौरेवोदन्तरिक्षं गीः पृथिवी थमादित्य एवोद्वायुर्गीरग्निस्थँ सामवेद एवोद्य-
जुर्वेदो गीरृग्वेदस्थं दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य
एतान्येवं विद्वानुद्गीथाक्षरण्युपास्त उद्गीथ इति ७
अथ खल्वाशीःसमृद्धिरुपसरणानीत्युपासीत येन साम्ना स्तोष्यन्स्यात्तत्सा-
मोपधावेत् ८
यस्यामृचि तामृचं यदार्षेयं तमृषिं यां देवतामभिष्टोष्यन्स्यात्तां देवतामुपधा-
वेत् ९
येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेद्येन स्तोमेन स्तोष्यमाणः स्यात्तँ
स्तोममुपधावेत् १०
यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत् ११
आत्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स
कामः समृद्ध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति १२
इति प्रथमाध्याये तृतीयः खण्डः ३
ॐमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति तस्योपव्याख्यानम् १
देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशँ स्ते छन्दोभिरच्छादयन्यदेभिरच्छा-
दयँ स्तच्छन्दसां छन्दस्त्वम् २
तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं पर्यपश्यदृचि साम्नि यजुषि
ते नु वित्त्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव प्राविशन् ३
यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवँ सामैवं यजुरेष उ स्वरो यदेतद-
क्षरमेतदमृतमभयं तत्प्रविश्य देवा अमृता अभया अभवन् ४
स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरँ स्वरममृतमभयं प्रविशति तत्प्र-
विश्य यदमृता देवास्तदमृतो भवति ५
इति प्रथमाध्याये चतुर्थः खण्डः ४
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इत्यसौ वा आदित्य
उद्गीथ एष प्रणव ओमिति ह्येष स्वरन्नेति १
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच
रश्मीँस्त्वं पर्यावर्तयाद्बहवो वै ते भविष्यन्तीत्यधिदैवतम् २
अथाध्यात्मं य एवायं मुख्यः प्राणस्तमुद्गीथमुपासीतोमिति ह्येष स्वरन्नेति ३
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच
प्राणाँस्त्वं भूमानमभिगायताद्बहवो वै मे भविष्यन्तीति ४
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति होतृषदनाद्धैवापि
दुरुद्गीतमनुसमाहरतीत्यनुसमाहरतीति ५
इति प्रथमाध्याये पञ्चमः खण्डः ५
इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यूढँ साम तस्मादृच्यध्यूढँ साम गीयत
इयमेव साग्निरमस्तत्साम १
अन्तरिक्षमेवर्ग्वायुः साम तदेतदेतस्यामृच्यध्यूढँ साम तस्मादृच्यध्यूढँ साम
गीयतेऽन्तरिक्षमेव सा वायुरमस्तत्साम २
द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढँ साम तस्मादृच्यध्यूढँ साम गी-
यते द्यौरेव सादित्योऽमस्तत्साम ३
नक्षत्राण्येवर्क्चन्द्र माः साम तदेतदेतस्यामृच्यध्यूढँ साम तस्मादृच्यध्यूढँ
साम गीयते नक्षत्राण्येव सा चन्द्र मा अमस्तत्साम ४
अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदे-
तस्यामृच्यध्यूढँ साम तस्मादृच्यध्यूढँ साम गीयते ५
अथ यदेवैतदादित्यस्य शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदमस्त-
त्सामाथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यके-
श आप्रणखात्सर्व एव सुवर्णः ६
तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स एष सर्वेभ्यः
पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ७
तस्यर्क् च साम च गेष्णौ तस्मादुद्गीथस्तस्मात्त्वेवोद्गातैतस्य हि गाता स एष
ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् ८
इति प्रथमाध्याये षष्ठः खण्डः ६
अथाध्यात्मं वागेवर्क् प्राणः साम तदेतदेतस्यामृच्यध्यूढँ साम तस्मादृ-
च्यध्यूढँ साम गीयते
वागेव सा प्राणोऽमस्तत्साम १
चक्षरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढँ साम तस्मादृच्यध्यूढँ साम गीयते
चक्षुरेव सात्मामस्तत्साम २
श्रोत्रमेवर्ङ्मनः साम तदेतदेतस्यामृच्यध्यूढँ साम तस्मादृच्यध्यूढँ साम गीयते
श्रोत्रमेव सा मनोऽमस्तत्साम ३
अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदेत
स्यामृच्यध्यूढँ साम तस्मादृच्यध्यूढँ साम गीयते
अथ यदेवैतदक्ष्णः शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदमस्तत्साम ४
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क्तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म त-
स्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ५
स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेति तद्य इमे
वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः ६
अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति सोऽमुनैव स एष ये चामु-
ष्मात्पराञ्चो लोकास्ताँ श्चाप्नोति देवकामाँ श्च ७
अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताँ श्चाप्नोति मनुष्यकामाँ श्च तस्मादु है-
वंविदुद्गाता ब्रूयात् ८
कं ते काममागायानीत्येष ह्येव कामागानस्येष्ठे य एवं विद्वान्साम गायति
साम गायति ९
इति प्रथमाध्याये सप्तमः खण्डः ७
त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो दाल्भ्यः प्रवा-
हणो जैवलिरिति ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति १
तथेति ह समुपविविशुः स ह प्रवाहणो जैवलिरुवाच भगवन्तावग्रे वदतां
ब्राह्मणयोर्वदतोर्वाचँ श्रोष्यामीति २
स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच हन्त त्वा पृच्छानीति
पृच्छेति होवाच ३
का साम्नो गतिरिति स्वर इति होवाच स्वरस्य का गतिरिति प्राण इति हो-
वाच प्राणस्य का गतिरित्यन्नमिति होवाचान्नस्य का गतिरित्याप इति होवा-
च ४
अपां का गतिरित्यसौ लोक इति होवाचामुष्य लोकस्य का गतिरिति न
स्वर्गं लोकमतिनयेदिति होवाच स्वर्गं वयं लिकँ सामाभिसंस्थापयामः
स्वर्गसँ स्तावँ हि सामेति ५
तँ ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते
दाल्भ्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति ६
हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाचामुष्य लोकस्य का गतिरि-
त्ययं लोक इति होवाचास्य लोकस्य का गतिरिति न प्रतिष्ठां लोकमनिये-
दिति होवाच प्रतिष्ठां वयं लोकँ सामाभिसँस्थापयामः प्रतिष्ठासँ स्तावँ हि
सामेति ७
तँ ह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते शालावत्य साम यस्त्वेतर्हि
ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति हन्ताहमेतद्भगवतो वेदा-
नीति विद्धीति होवाच ८
इति प्रथमाध्यायेऽष्टमः खण्डः ८
अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भू-
तान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्याया-
नाकाशः परायणम् १
स एष परोवरीयानुद्गीथः स एषोऽनन्तः परोवरीयो हास्य भवति परोवरीय-
सो ह लोकाञ्जयति य एतदेवं विद्वान्परोवरीयाँ समुद्गीथमुपास्ते २
तँ हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच यावत्त एनं प्रजायामु-
द्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस्तावदस्मिँल्लोके जीवनं भविष्यति ३
तथामुष्मिँल्लोके लोक इति स य एतमेवं विद्वानुपास्ते परोवरीय एव हा-
स्यास्मिँल्लोके जीवनं भवति तथामुष्मिँल्लोके लोक इति लोके लोक इति
  ४
इति प्रथमाध्याये नवमः खण्डः ९
मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्रा णक
उवास १
स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे तँ होवाच
नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति २
एतेषां मे देहीति होवाच तानस्मै प्रददौ हन्तानुपानमित्युच्छिष्टं वै मे पीतँ स्या-
दिति होवाच ३
न स्विदेतेऽप्युच्छिष्टा इति न वा अजीविष्यमिमानखादन्निति होवाच कामो
म उदपानमिति ४
स ह खादित्वातिशेषाञ्जायाया आजहार साग्र एव सुभिक्षा बभूव तान्प्रति-
गृह्य निदधौ ५
स ह प्रातः संजिहान उवाच यद्बतान्नस्य लभेमहि लभेमहि धनमात्राँ राजा-
सौ यक्ष्यते स मा सर्वैरार्त्विज्यैर्वृणीतेति ६
तं जायोवाच हन्त पत इम एव कुल्माषा इति तान्खादित्वामुं यज्ञं विततमे-
याय ७
तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोपविवेश स ह प्रस्तोतारमुवाच ८
प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विप-
तिष्यतीति ९
एवमेवोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मू-
मूर्धा ते विपतिष्यतीति १०
एवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वा-
न्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति ते ह समारतास्तूष्णीमासांचक्रिरे ११
इति प्रथमाध्याये दशमः खण्डः १०
अथ हैनं यजमान उवाच भगवन्तं वा अहं विविदिषाणीत्युषस्तिरस्मि चा-
क्रायण इति होवाच १
स होवाच भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः पर्यैषिषं भगवतो वा अह-
मवित्त्यान्यानवृषि २
भगवाँस्त्वेव मे सर्वैरार्त्विज्यैरिति तथेत्यथ तर्ह्येत एव समतिसृष्टाः स्तुवतां
यावत्त्वेभ्यो धनं दद्यास्तावन्मम दद्या इति तथेति ह यजमान उवाच ३
अथ हैनं प्रस्तोतोपससादः प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वा-
न्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ४
प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्रा-
णमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रास्तोष्यो मूर्धा ते
व्यपतिष्यत्तथोक्तस्य मयेति ५
अथ हैनमुद्गातोपससादोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि
मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ६
आदित्य इति होवाच सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैः सन्तं गाय-
न्ति सैषा देवतोद्गीथमन्वायत्ता तां चेदविद्वानुदगास्यो मूर्धा ते व्यपतिष्यत्त-
थोक्तस्य मयेति ७
अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदवि-
द्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देव-
तेति ८
अन्नमिति होवाच सर्वाणि ह वा इमानि भूतान्यन्नमेव प्रतिहरमाणानि जी-
वन्ति सैषा देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रत्यहरिष्यो मूर्धा ते व्य-
पतिष्यत्तथोक्तस्य मयेति तथोक्तस्य मयेति ९
इति प्रथमाध्याय एकादशः खण्डः ११
अथातः शौव उद्गीथस्तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायमुद्व-
व्राज १
तस्मै श्वा श्वेतः प्रादुर्बभूव तमन्ये श्वान उपसमेत्योचुरन्नं नो भगवानागायत्व-
शनायाम वा इति २
तान्होवाचेहैव मा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः
प्रतिपालयांचकार ३
ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः सँ रब्धाः सर्पन्तीत्येव माससृपुस्ते
ह समुपविश्य हिंचक्रुः ४
ॐ३मदा३मॐ३पिबा३मॐ३देवो वरुणः प्रजापतिः सविता२न्नमिहा२हरदन्नप-
ते३न्नमिहा२हरा२हरो३मिति ५
इति प्रथमाध्याये द्वादशः खण्डः १२
अयं वाव लोको हाउकारो वायुर्हाइकारश्चन्द्र मा अथकार आत्मेहकारोऽग्नि-
रीकारः १
आदित्य ऊकारो निहव एकारो विश्वेदेवा औहोइकारः प्रजापतिर्हिंकारः प्रा-
णः स्वरोऽन्नं या वाग्विराट् २
अनिरुक्तस्त्रयोदशः स्तोभः संचरो हुंकारः ३
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतामेवँ साम्नामुप-
निषदं वेदोपनिषदं वेद इति ४
इति प्रथमाध्याये त्रयोदशः खण्डः १३
इति प्रथमोऽध्यायः १

"https://sa.wikisource.org/w/index.php?title=छान्दोग्यारण्यकम्&oldid=403868" इत्यस्माद् प्रतिप्राप्तम्