॥ श्रीश्रीराधादामोदरौ जयतः ॥


सुदिनं सुदिनं तव जन्मदिनं यदुपस्थितमद्य सुचारुतमम्‌ ।

अयि वैष्णव नस्तदतीव हरिप्रणयर्द्धिनिदानमिदं भवतु ॥१॥


गुरुवैष्णवविप्रकुलेष्टसुराः पितरश्च चराचरजीवगणाः ।

मुदिताः सकलाश्च भवन्तु सदा शुभजन्मदिनं सफलं भवतु ॥२॥


बलिरामविभीषणसात्यवतहनुमत्कृपविप्रमृकण्डुसुताः ।

ददतु स्वकजीवितकाललवं शुभजन्मदिनं सफलं भवतु ॥३॥


हरिनामरुचिर्हरिधामरुचिर्हरिकर्मरुचिश्च भवन्तु सदा ।

न भवेज्जडजन्म कदापि च नः शुभजन्मदिनं सफलं भवतु ॥४॥


अवधूत गदाधर गौर हरे वृषभानुसुते गिरिराज सखे ।

गुरुवर्ग कृपां कुरुताद्य मुदा शुभजन्मदिनं सफलं भवतु ॥५॥


इति श्रीहरिपार्षददासविरचितं जन्मदिवसपञ्चकं सम्पूर्णम्॥

"https://sa.wikisource.org/w/index.php?title=जन्मदिनपञ्चकम्&oldid=404111" इत्यस्माद् प्रतिप्राप्तम्