जन्ममरणविचारः
वामदेवः


सान्द्रोद्रेकक्षुभितमभितः स्वान्तमन्तर्नियम्य प्रायो धत्ते नवनवरसोल्लेखमानन्दकन्दम् ॥ १
भूयो भूयः प्रलयविभवोद्दामदुःखान्तरायो योऽसावन्तर्जयति हृदये कोऽपि संविद्विकासः ॥ २
इह खलु निखिलजगदात्मा सर्वोत्तीर्णश्च सर्वमयश्च विकल्पासंकुचितसंवित्प्रकाशरूपः अनवच्छिन्नचिदानन्दविश्रान्तः प्रसरदविरलविचित्रपञ्चवाहवाहवाहिनीमहोदधिः निरतिशयस्वातन्त्र्यसीमनि प्रगल्भमानः सर्वशक्तिखचित एक एव अस्ति संविदात्मा महेश्वरः ॥ ३
तस्य प्रकाशरूपता चिच्छक्तिः स्वातन्त्र्यमानन्दशक्तिः तच्चमत्कारः इच्छाशक्तिः आमर्शात्मकता ज्ञानशक्तिः सर्वाकारयोगित्वं क्रियाशक्तिः इति ॥ ४
इत्थं सर्वशक्तियोगेऽपि आभिर्मुख्याभिः शक्तिभिरुपचर्यते स च भगवान् स्वातन्त्र्यशक्तिमहिम्ना स्वात्मानं संकुचितमिव आभासयनणुः इति उच्यते ॥ ५
यथोक्तं व्यापको हि शिवः स्वेच्छाकॢप्तसंकोचमुद्रणात् ॥ ६
विचित्रफलकर्मौघवशात्तत्तच्छरीरभाक् ॥ ७
इति निजस्वरूपगोपनकेलिलोलमेवं माहेशशक्तिपरिस्पन्दं प्रवरगुरवः प्रतिपेदिरे ॥ ८
तथा च आहुः अतिदुर्घटकारित्वात्स्वाच्छन्द्यनिर्मलादसौ ॥ ९
स्वात्मप्रच्छादनक्रीडापण्डितः परमेश्वरः ॥ १०
अनावृते स्वरूपेऽपि यदात्माच्छादनं विभोः ॥ ११
सैवाविद्या यतो भेद एतावान् विश्ववृत्तिकः इति ॥ १२
न च एतावता भगवतो देशकालाकारोपाधिविरहितनिरतिशयानन्दपरिस्यन्दात्मकस्य काचिदपि क्षतिः प्रत्युत परममहिम्नः परिपुष्टिरित्युक्तम् ॥ १३
अस्थास्यदेकरूपेण वपुषा चेन्महेश्वरः ॥ १४
महेश्वरत्वं संवित्त्वं तदत्यक्ष्यद्घटादिवत् ॥ १५
परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् ॥ १६
जडाद्विलक्षणो बोधो यतो न परिमीयते ॥ १७
तेन बोधमहासिन्धोरुल्लासिन्यः स्वशक्तयः ॥ १८
आश्रयन्त्यूर्मय इव स्वात्मसंघट्टचित्रताम् ॥ १९
इत्यादि ॥ २०
तदेवमसौ भगवान् स्वमायाशक्त्याख्येन अव्यभिचरितस्वातन्त्र्यशक्तिमहिम्ना स्वात्मनैव आत्मानं संकुचितमिव अवभासयन् विज्ञानाकलः प्रलयाकलः सकलश्च सम्पद्यते ॥ २१
तत्र आणवेन एकेनैव मलेन संयुक्तो विज्ञानाकल उच्यते द्वाभ्यामाणवमायी याभ्यामपवेद्यः प्रलयाकलः त्रिभिराणवमायीयकार्मैः संवेद्यः तैरेव कलादिधरण्यन्ततत्त्वमयः सकलः तदर्थमेव अयमर्थसर्गः ॥ २२
तत्र सृष्ट्युन्मुखो भगवान् शुद्धाध्वनि वर्तमानः स्वशक्तिभिः मायां विक्षोभ्य कलातत्त्वं किंचित्कर्तृत्वलक्षणं पुद्गलस्य सृजति ततोऽपि किंचिदवबोधाख्यं विद्यातत्त्वं किंचिदभिलाषरूपं च रागतत्त्वं तदेतत्सरागं कर्तृतत्त्वं भूतभविष्यद्वर्तमानतया त्रिधा अवच्छिद्यते तत्कालतत्त्वं तुल्यत्वेऽपि रागे येन कर्तृत्वस्य अवच्छेदः क्रियते तत्नियतितत्त्वं तदेतत्कञ्चुकषट्कमन्तर्मलावृतस्य पुद्गलस्य बहिराच्छादकमुक्तं च चिल्लाचक्रेश्वरमते माया कला शुद्धविद्या रागकालौ नियन्त्रणा ॥ २३
षडेतान्यावृतिवशात्कञ्चुकानि मितात्मनः ॥ २४
एवं च पुद्गलस्यान्तर्मलः कञ्चुकवत्स्थितः ॥ २५
तुषवत्कञ्चुकानि स्युस्तस्माज्ज्ञानक्रियोज्झितः ॥ २६
इति ॥ २७
सा च कला पुरुषस्य परिमितं कर्तृत्वं प्रकाश्य सुखदुःखमोहरूपं भोग्यमव्यक्तत्वं सृजति ततोऽपि अष्टगुणं बुद्धितत्त्वमुत्पन्नं ततोऽपि सात्त्विकराजसतामसभेदभिन्नं त्रिस्कन्धमहंकारतत्त्वं तत्र पूर्वस्मातहंकारात्मनो जातमपरस्मातिन्द्रियाणि तृतीयात्तन्मात्राणि एभ्यो भूतानि इत्येवमयमेकस्यैव आदिदेवस्य स्वातन्त्र्यमहिम्ना संसारे संसरतः परिमितप्रमातृतामवलम्बमानस्य तत्त्वप्रसरः उक्तं च भूतानि तन्मात्रगणेन्द्रियाणि मूलं पुमान् कञ्चुकयुक्सुशुद्धम् ॥ २८
विद्यादिशक्त्यन्तमियान् स्वसंवित्सिन्धोस्तरंगप्रसरप्रपञ्चः ॥ २९
तथा सअल उत्त पुरिषुण्ण उ सअल्लुत्त उत्तिण्ण ॥ ३०
परि आणह अत्ताण उ परि मसिवेण समाण उ ॥ ३१
इति ॥ ३२
एतेषां च उक्तरूपाणां तत्त्वानां प्रमातृभेदे वैचित्र्यात्प्रमेयवैचित्र्यं भवति इति श्रीपूर्वशास्त्रे कथितं तथा हि शक्तिमच्छक्तिभेदेन धरातत्त्वं विभिद्यते ॥ ३३
स्वरूपसहितं तच्च विज्ञेयं दशपञ्चधा ॥ ३४
अनेनैव विधानेन पुंस्तत्त्वात्तु कलान्तिकम् ॥ ३५
त्रयोदशविधं ज्ञेयं रुद्रवत्प्रलयाकलः ॥ ३६
तद्वन्मायापि विज्ञेया नवधा ज्ञानकेवलः ॥ ३७
मन्त्राः सप्तविधास्तद्वत्पञ्चधा मन्त्रनायकाः ॥ ३८
त्रिधा मन्त्रेश्वरेशानाः शिवः साक्षान्न भिद्यते ॥ ३९
यः पुनः सर्वतत्त्वानि वेत्त्येतानि यथार्थतः ॥ ४०
स गुरुर्मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः ॥ ४१
दृष्टाः सम्भाषितास्तेन स्पृष्टाश्च प्रीतिचेतसा ॥ ४२
नराः पापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि ॥ ४३
इति ॥ ४४
तदेवमनेकावसायोऽयं तत्त्वक्रमः ॥ ४५
एतेषां च तत्त्वानां वर्गशो यदनुगामि रूपमेकरूपमेकरूपकलनासहिष्णुत्वात्सा कला कथ्यते ॥ ४६
तथा हि निवर्तन्ते यतस्तत्त्ववर्गाः सा निवृत्तिर्नाम कला ॥ ४७
सा च पृथिव्यामेव व्यवस्थिता ॥ ४८
कारणत्वे पूरणाप्यायकारित्वात्प्रतिष्ठा नाम कला उच्यते ॥ ४९
सा च जलादिमूलान्तं व्याप्य व्यवस्थिता ॥ ५०
वेद्यविलये संविदाधिक्यात्विद्या नाम कला ॥ ५१
सा च पुमादिमायान्तमध्वानमध्यास्ते ॥ ५२
कञ्चुकतरंगोपशमात्शान्ता नाम कला उच्यते ॥ ५३
सा च शुद्धविद्यादिशक्त्यन्ते स्थिता इति ॥ ५४
एतदेव अण्डचतुष्टयं पार्थिवप्राकृतमायीयशाक्तलक्षणम् ॥ ५५
सर्वातीतत्वात्शिवतत्त्वे शान्त्यतीता ॥ ५६
इति ॥ ५७
परं तु तत्त्वं स्वतन्त्रत्वात्कलातीतमासामेव कलानां तत्त्ववदन्तर्भूतानि भुवनान्यपि बोद्धव्यानि एवं स्थूलसूक्ष्मपरत्वेन भुवनतत्त्वकलारूपं त्रिविधरूपं प्रमेयमुक्तं प्रमाणमपि तथैव पदमन्त्रवर्णतया त्रिविधमेव इति एकस्यैव पूर्णप्रमातुः स्वातन्त्र्यात्संसरतः षड्विधे अध्वनि विश्रान्तिरुक्ता ॥ ५८
भवन्ति चात्र दीक्षापरिघटनसंग्रहश्लोकाः पदमन्त्रवर्णमेकं पुरषोडशकं धरेति च निवृत्तिः ॥ ५९
तत्त्वार्णमग्निनयनं रसशरपुरमस्त्रमन्त्रपदमन्या ॥ ६०
मुनितत्त्वार्णं द्विकपदमन्त्रं वस्वक्षिभुवनमपरकला ॥ ६१
अग्न्यर्णतत्त्वमेककपदमन्त्रं सैकभुवनमिति तुर्या ॥ ६२
षोडश वर्णाः पदमन्त्रतत्त्वमेकं च शान्त्यतीतेयम् ॥ ६३
इति ॥ ६४
तदेवमाणवीं वृत्तिमालम्ब्य भगवान् विचित्रैः जात्यायुर्भोगैः जरायुजाण्डजोद्भेदजस्वेदजादिजातं प्रादुर्भावयति ॥ ६५
तत्र उपभुक्तस्य अन्नपानस्य पाकवशात्रसरूपतया स्थितस्य रक्तमांसमेदोऽस्थिमज्जात्मना शुक्रधातौ विश्रान्तिर्भवति तत्र इमाः प्रजाः प्रजायन्ते ॥ ६६
तथा चोक्तं सौश्रुते इह खलु पाञ्चभौतिकस्य चतुर्विधस्य आहारस्य षड्रसोपेतस्य द्विविधरसवीर्यस्य अष्टविधरसवीर्यस्य अनेकप्रकारोपभुक्तस्य परिणतस्य यस्तेजोरूपः सारः सूक्ष्मः स रस इत्युच्यते तस्य हृदयं स्थानं स च हृदयात्चतुर्विंशतिधमनीरनुप्रविश्य ऊर्ध्वगा दश दश च अधोगामिनीः चतस्रः तिर्यग्गाः सकलं शरीरमहरहस्तर्पयति जीवयति धारयति वर्धयति अदृष्टनिमित्तेन कर्मणा स खलु आप्यो रसो यकृत्प्लीहादिं प्राप्य रागमुपैति भवन्ति वा अत्र श्लोकाः ॥ ६७
रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम् ॥ ६८
अव्यापन्नाः प्रसन्नेन रक्तमित्येव तद्विदुः ॥ ६९
रसादेव स्त्रियो रक्तं रजःसंज्ञं प्रवर्तते ॥ ७०
तद्वशाद्द्वादशादूर्ध्वं याति पञ्चाशतिः क्षितिम् ॥ ७१
आर्तवं शोणितमाग्नेयमग्नीषोमीयत्वात्गर्भस्य ॥ ७२
रसाद्रक्तं ततो मांसं मांसमेदश्च जायते ॥ ७३
मेदसोऽस्थि ततो मज्जा मज्जातः शुक्रसम्भवः ॥ ७४
एवं मांसेन शुक्रत्वं रसो याति यथाक्रमम् ॥ ७५
स्त्रीणां तथैव मासेन भवेदार्तवसम्भवः ॥ ७६
इति ॥ ७७
तदेवंभूते मातृपितृसम्बन्धसम्भूते अग्नीषोमात्मके रक्तरेतसी कुसुमसमयादनन्तरं जननीजठरे रेतः कलिलीभवति ततो बुद्बुदं ततः पेशी ततो घनः यावदङ्गपरिग्रहः अङ्गव्यक्तिः संविदुल्लासः सर्वाङ्गसम्पत्तिरोजःसंचारः सुखदुःखसंवित्तिरिति यावत्प्रजायते ॥ ७८
उक्तं श्रीचिल्लाचक्रेश्वरमते सोमसूर्यरसोल्लासपरस्परनिघर्षणात् ॥ ७९
जातवेदसि संजाते मध्यधामविकासिनि ॥ ८०
वीरारुणपरीणामवशादङ्कुरसम्भवः ॥ ८१
एकरात्रोषितं रेतः सिक्तं कलिलतां व्रजेत् ॥ ८२
बुद्बुदं सप्तरात्रेण पेशी मासेन जायते ॥ ८३
द्वितीये मासि च घनस्तृतीयेऽग्निपरिग्रहः ॥ ८४
चतुर्थे व्यङ्गताङ्गानां चेतना पञ्चमे भवेत् ॥ ८५
षष्ठे सर्वाङ्गसम्भेदः सप्तमे चलनोद्गमः ॥ ८६
तेजोऽष्टमे संचरति नवमे वेदनं भवेत् ॥ ८७
सम्पूर्णदेहो दशमे मासि जन्तुः प्रजायते ॥ ८८
जातोऽसौ वायुना स्पृष्टो योनियन्त्रप्रपीडितः ॥ ८९
न स्मरत्युग्रसंतापमनेकभवसम्भवम् ॥ ९०
क्रमेण वृद्धिमायान्ति तस्यैते देहहेतवः ॥ ९१
रसः स्थितिं प्रकुरुते रक्तं संजीवयत्यलम् ॥ ९२
मांसं बृंहयति प्रायो मेदः स्नेहयति स्फुटम् ॥ ९३
धारयन्ति तथास्थीनि मज्जान्तःसारसंश्रया ॥ ९४
हर्षोत्कर्षकरं शुक्रं मूत्रं क्लेदविवेककृत् ॥ ९५
वाय्वग्निसंरोधकरं पुरीषं परिकीर्तितम् ॥ ९६
स्वेदक्लेदोपकरणं गर्भहेतुरथार्तवम् ॥ ९७
एवं शरीरमासाद्य षाट्कोशं तत्परिग्रहात् ॥ ९८
अनपेक्ष्य निजं भावं पुमान् भावानपेक्षते ॥ ९९
इति ॥ १००
अयमेव च अर्थो निरुक्तिकृतापि उक्तपार्थिवानष्टौ गुणान् विद्यात्त्रीन्मातृतः त्रीन् पितृतः इत्याद्युपक्रम्य उक्तः ॥ १०१
अत्रैव इदं पुंस्त्रीनपुंसकलक्षणं प्रकृतित्रयकारणं सोमाधिक्येन पुंजन्म सूर्याधिक्येन योषितः ॥ १०२
साम्यात्क्लीबस्तु वातेन भेदात्स्याद्बह्वपत्यता ॥ १०३
इति ॥ १०४
अवयवभेदोऽपि नवमे दशमे मासि प्रबलैः सूतिमारुतैः ॥ १०५
निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्वरः ॥ १०६
तस्य षोढा शरीरं तत्षट्त्वचो धारयन्ति च ॥ १०७
अस्थ्नां तथा षष्ट्यधिकं विनिबद्धं शतत्रयम् ॥ १०८
स्थूलैः सह चतुःषष्टिर्दशना विंशतिर्नखाः ॥ १०९
पाणिपादशलाकाश्च तासां स्थाने चतुष्टयम् ॥ ११०
षष्ट्यङ्गुलीनां द्वे पार्ष्णी गुल्फेषु च चतुष्टयम् ॥ १११
चत्वार्यरत्निकास्थीनि जङ्घयोस्तावदेव तु ॥ ११२
द्वे द्वे जानुकपोलोरुफलकांससमुद्भवे ॥ ११३
अक्षिस्थलूषके श्रोणीफलके च विनिर्दिशेत् ॥ ११४
भगास्थ्येकं तथा पृष्ठे चत्वारिंशच्च पञ्च च ॥ ११५
ग्रीवा पञ्चदशास्थीनि जत्र्वेकं च तथा हनुः ॥ ११६
तन्मूले द्वे ललाटाक्षिगण्डनासाघनास्थिका ॥ ११७
पर्शुकास्तलकैः सार्धमर्बुदे च द्विसप्ततिः ॥ ११८
द्वौ शङ्खकौ कपालानि चत्वार्येव शिरस्तथा ॥ ११९
उरः पञ्चदशास्थीनि पुरुषस्यास्थिसंग्रहः ॥ १२०
इति ॥ १२१
एतेष्वेव कपालभरणतुरुण्डरुण्डरुचकनलयष्टीलनलकभेदेन अभिधानानि शास्त्रान्तरेषु उक्तानि ॥ १२२
स्थानान्तराणि आह वसावपावहननं नाभिक्लोमयकृत्प्लिहा ॥ १२३
क्षुद्रान्त्रवृक्शको वस्तिः पुरीषापान एव च ॥ १२४
आमाशयोऽथ हृदयं स्थूलान्त्रं गुदमेव च ॥ १२५
उत्तरौ च गुदौ कोष्ठौ विस्तारोऽयमुदाहृतः ॥ १२६
कनीनिके साक्षिकूटे शष्कुली कर्णपुत्रिके ॥ १२७
गण्डौ शङ्खौ भ्रुवौ कष्टवेष्टावोष्ठौ कुकुन्दरे ॥ १२८
वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातिकौ स्तनौ ॥ १२९
उपजिह्वास्फिजौ जिह्वाजङ्घे चोरू च पिण्डिके ॥ १३०
तालूदरवस्तिशीर्षे चिबुके गलशुण्डिके ॥ १३१
अक्षिपक्ष्मचतुष्कं च पद्धस्तहृदयानि तु ॥ १३२
अवटुश्चैवमादीनि स्थानान्यत्र शरीरके ॥ १३३
नवच्छिद्राणि तान्येव प्राणस्यायतनानि च ॥ १३४
धमनीनां शते द्वे तु पञ्चपेशीशतानि च ॥ १३५
इति ॥ १३६
स्त्रीणां च स्तनयोर्गर्तादष्टात्रिंशदधिकाः सपेश्यो धमन्यो भवन्ति इति सौश्रुतः ॥ १३७
एकान्नत्रिंशल्लक्षाणि नव स्नायुशतानि च ॥ १३८
षट्पञ्चशानि तु ज्ञेया सिरा धमनिसंततिः ॥ १३९
सप्तोत्तरं मर्मशतं द्वे तु संधिशते तथा ॥ १४०
लोम्नां कोट्यस्तु पञ्चाशच्चतस्रः कोट्य एव च ॥ १४१
रसस्य नव विज्ञेया जलस्याञ्जलयो दश ॥ १४२
सप्त वै तु पुरीषस्य रक्तस्याष्टौ प्रकीर्तिताः ॥ १४३
श्लेष्मा षट्पञ्च पित्तं च चत्वारो मूत्रमेव च ॥ १४४
वसात्रयं च द्वौ मेदो मज्जैकार्धं च मस्तके ॥ १४५
श्लेष्मौजसस्तावदेव रेतसस्तावदेव च ॥ १४६
इत्येतदस्थिरं वर्ष्म यस्य मोक्षाय कृत्यसौ ॥ १४७
इति स्वस्थस्य सौम्यधातोरेवम् ॥ १४८
अन्यथा तु वैलक्षण्याच्छरीराणामस्वस्थत्वात्तथैव च ॥ १४९
दोषधातुमलानां च परिमाणं न विद्यते ॥ १५०
इत्युक्तम् ॥ १५१
तदेतत्विभागेन बीभत्सदर्शनं वैराग्यमुनिभिरगायि तथा चाहुः अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ॥ १५२
चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥ १५३
जराशोकसमाविष्टं रोगायतनमातुरम् ॥ १५४
रजस्वलमनित्यं च भूतावासमिमं त्यजेत्मुनिः पाराशर्योऽपि आह सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः ॥ १५५
शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥ १५६
आहारैर्नीयमानाय क्रमाद्दुःखेन रम्यताम् ॥ १५७
को हि नाम शरीराय धर्मापेतं समाचरेत् ॥ १५८
इति ॥ १५९
एवं शरीरमुक्त्वा शरीरिस्वरूपमुच्यते द्वासप्ततिसहस्राणि हृदयादभिनिःसृताः ॥ १६०
हिता नामाहिता नाड्यस्तासां मध्ये शशिप्रभम् ॥ १६१
मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः ॥ १६२
स ज्ञेयस्तं विदित्वेह पुनराजायते न तु ॥ १६३
इदमत्र तात्पर्यं तं तथाभूतमात्मानं विदित्वा नरो न जन्मक्लेशमनुभवति किंभूतं यद्धृदयोक्तं द्वासप्ततिसंख्यावच्छिन्नं नाडीचक्रं तदन्तर्यत्शशिमण्डलं तदन्तःस्थं ताश्च नाड्योऽशितपीतरससंचरणाधिकारत्वात्पुण्योपचयेन हिताः तदभावेन अहिताः तासां संचारक एक एव व्यवहारभेदात्पञ्चभेदो वायुः तासां च द्वे प्रधाने दक्षिणोत्तरसम्बद्धे अग्नीषोमात्मके तद्द्वारेण प्राणस्य ऊर्ध्वगमनमहः अधोऽपानस्य रात्रिः एतेन अर्धमासमासर्तुवत्सरादिकालविभागोऽपि व्याख्यातः समप्राणचारो विषुवत्तयोर्मध्ये तृतीया दण्डाकारा ब्रह्मनाडी स्थिता तत्र निरुद्धप्राणो योगी दीपाकारमात्मानं पश्यति इति अत एवोक्तं सम्यग्दर्शनसम्पन्नः कर्मभिर्न स बध्यते ॥ १६४
दर्शनेन विहीनस्तु संसारं प्रतिपद्यते ॥ १६५
इति ॥ १६६
संसारप्रवृत्तौ च तस्य कलातो विषयविभेदो मुनिभिरुक्तः तथा हि परद्रव्याण्यभिध्यायंस्तथानिष्टानि चिन्तयन् ॥ १६७
वितथाभिनिवेशी च जायतेऽन्त्यासु योनिषु ॥ १६८
पुरुषोऽनृतवादी च पिशुनः पुरुषस्तथा ॥ १६९
अनिबद्धप्रलापी च मृगपक्षिषु जायते ॥ १७०
अदत्तादाननिरतः परदारोपसेवकः ॥ १७१
हिंसकश्चाविधानेन स्थावरेषूपजायते ॥ १७२
इत्यादि अयं तु उक्तयातनस्य नियोगः अद्वयरूपस्य आत्मनः कुतस्त्योऽयं भेदः इति चेत्मायामहामोहविकल्पकल्पित इत्याह आकाशमेकं हि यथा घटादिषु पृथग्भवेत् ॥ १७३
तथात्मैकोऽप्यनेकश्च जलाधारेष्विवांशुमान् ॥ १७४
इति ॥ १७५
न च अपक्वकषायस्य कदाचिदपि उक्तरूपमात्मज्ञानं भवति तथा च मलिनो हि यथादर्शो रूपालोकस्य न क्षमः ॥ १७६
तथा ह्यपक्वकरण आत्मज्ञानस्य न क्षमः ॥ १७७
इत्याद्युक्तम् ॥ १७८
इत्यलं भूयसा उक्तेन ॥ १७९
एवमसौ भगवान् स्वातन्त्र्यशक्तिमहिम्ना पशुदशामवलम्बमानो भोगोपदानप्रवणः सम्पूर्णदेहप्राणबलः सनुक्तेन षडध्वजालक्रमेण प्रबुद्धः शरीरपरिग्रहमासादयति क्रमेण भुक्तेषु कर्मसु षड्भिर्भावविकारैर्जरारोगादिभिः काययन्त्रे विघटमाने देहस्तम्भो वेपथुर्नाडीचक्रसंकोचः क्वचिद्विपर्ययेण तद्विकासो मर्मभङ्गः शोष इत्यादि पूर्वसंस्थापनोपमर्दकं सर्वमुपपद्यते यावत्विनश्यति विनाशश्च क्षणिकोऽस्य यद्यपि तथापि स्थूलया वृत्त्या दशभिर्दशभिरभिव्यक्तः प्रोक्तः ॥ १८०
तथा हि बाल्यं वृद्धिर्बलं प्रज्ञा त्वक्चक्षुः श्रोत्रमिन्द्रियम् ॥ १८१
आसनं शयनं पुंसां दशभिर्दशभिर्व्रजेत् ॥ १८२
इत्युक्तम् ॥ १८३
ततश्च तस्मिन् शरीरयन्त्रे विघटिते सा संवित्प्राणनात्मतामवलम्ब्य आतिवाहिकेन देहेन देहान्तरं नीयते ततश्च आतिवाहिकं शरीरकं भूतभविष्यद्देहान्तराले युग्यस्थानीयं सम्भवति यदारूढोऽसौ पुद्गलः शरीरान्तरासङ्गमनुभवति उक्तं च कोशभाष्ये मृत्यूपपत्तिभवयोरन्तरा भवतीह यः ॥ १८४
गम्यदेशानुषक्तत्वादुपपन्नोऽन्तराभवः ॥ १८५
व्रीहिसंतानसाधर्म्यादवच्छिन्नसमुद्भवः ॥ १८६
प्रतिबिम्बमसिद्धित्वादसाम्याच्च निदर्शनात् ॥ १८७
स पुनर्मरणात्पूर्वमुपपत्तिक्षणात्परम् ॥ १८८
स्वजातिशुद्धकर्माक्षदृश्यकर्मविवेकवान् ॥ १८९
इति ॥ १९०
श्रुतिश्च द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः ॥ १९१
अथैकं चक्रं यद्गुहा तदद्धातय इद्विदुः ॥ १९२
इति अयमर्थः हे सूर्ये भगवति आत्मशक्ते ब्रह्माणः ब्रह्मवादिनः ऋतुथा काले काले ते तव सम्बन्धिनी द्वे चक्रे विदुः चक्रमिव चक्रं परिवर्तसाधर्म्यात्शरीरमुच्यते तयोर्द्वित्वं वर्तमानभाविभेदाततस्तयोरन्तरे कथितया युक्त्या यदेकमातिवाहिकाख्यं तत्गुहा गुप्तमनुपलक्ष्यमित्यर्थः अत एव तदद्धातयः इत्विदुः योगिन एव जानन्ति इति तात्पर्यम् ॥ १९३
तथा च जाग्रदवस्थायां दृढकरणस्य प्रमातुरिन्द्रियाणि श्रोत्रादीनि शब्दादयश्च विषया भवन्ति तथा प्रमेयसमये प्रचलितमन्तःकरणमिन्द्रियं यियासुता च विषयः तामेव यियासुतामधिकृत्य प्रवरमुनिः पाराशर्यः समाधितवान् यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् ॥ १९४
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ १९५
इति ॥ १९६
अयमत्र संक्षेपार्थः सम्भवभोगः जन्मभोगः स्थितिभोगश्च इति तिस्रः शरीरस्य प्रागवस्था भवन्ति हि तथा हि जठरे चेतनायां संजातायां गर्भभोगः प्रसवसमये जन्मभोगः प्रसूतस्य बाल्यादिवयःपरावृत्त्या विचित्रः स्थितिभोगः ॥ १९७
मृतिभोगः यियासुता च द्वे चरमावस्थे तत्र मृतिभोगः विचित्रा शरीरपीडा यियासुता आतिवाहिकशरीरसम्बद्धा तामेव च यियासुतामुद्दिश्य यं यं वापि स्मरन् भावम् ॥ १९८
इत्यादि प्रवृत्तमत एव भूतभविष्यदर्थहितार्थवादिनः स्मरन्निति शब्दप्रत्ययस्य यथार्थः प्रयोगः स्यातेतदेव च वितत्य श्रीतन्त्रालोके प्रतिपादितं मृतिभोगः समस्तोऽयं मर्मच्छिन्मूढताक्षगः ॥ १९९
तत्रेन्द्रियाणां सम्मोहः श्वासायासपरीतता ॥ २००
यस्त्वसौ क्षण एवैकश्चरमः प्राणनात्मकः ॥ २०१
सा देहत्यागकालांशकला प्राणवियोगिनी ॥ २०२
तस्यां यदेव स्मरति प्राक्संस्कारप्रबोधतः ॥ २०३
तदेव रूपमभ्येति सुखदुःखविमोहितम् ॥ २०४
इति ॥ २०५
अत्र च विषयनैयत्येन विभागो व्यासमुनिनैव कृतः ॥ २०६
यदा सत्त्वे विवृद्धे तु प्रलयं याति देहभृत् ॥ २०७
इत्यादिना ग्रन्थेन ॥ २०८
ता एताः शरीरावस्थाः पञ्चारे चक्रे परिवर्तमाने तस्मिन्नातस्थुर्भुवनानि विश्वा ॥ २०९
इत्यादिश्रुतावुक्ताः ॥ २१०
अन्यत्रापि सम्भवो जन्म सत्ता च मृतिश्चाथ यियासुता ॥ २११
एताः पञ्च शरीरस्य परिणामविपत्तयः ॥ २१२
इत्युक्तम् ॥ २१३
एतदेवमुक्तरूपेण असौ आतिवाहिकेन देहेन देहान्तरं नीयते सोऽपि देहः सुप्तोत्थितात्प्रबोधमवाप्य प्राणिति उक्तेन चक्रेण सोऽपि विनश्यति यावतरघट्टघटीयन्त्रवत्परिवर्तमानोऽणुः नानाकायनिकायैः संसरति संसारे ॥ २१४
तथा च श्रुतिः सस्यमिव मर्त्यः पच्यते सस्यमिव जायते पुनः ॥ २१५
इति ॥ २१६
वासांसि जीर्णानि यथा विहाय ॥ २१७
इत्यादिना व्यासमुनिनापि एतदुक्तम् ॥ २१८
अथ कदाचित्परमेश्वरानुग्रहशक्तिपातपवित्रितः केनापि दीक्षादिना उपायेन संविदानन्दविश्रान्तमद्वयं निजं रूपं परामृशति ततः स्वरूपमालम्बते यथोक्तं श्रीमालिनीविजये एवमस्यात्मनः काले कस्मिंश्चिद्योग्यतावशात् ॥ २१९
इत्युपक्रम्य तत्क्षणाद्वोपभोगाद्वा देहपाते शिवं व्रजेत् ॥ २२०
इत्येवमन्तेन ग्रन्थेन ॥ २२१
यद्वा क्वापि परमेश्वरायतने शरीरमतिवाह्य पूर्वे विधौ क्रमेण परमेश्वरीभवति तदुक्तं श्रीसात्त्वतायां प्रासादद्वारदेशाच्च यत्र शङ्खध्वनिश्चरन् ॥ २२२
प्रयाति सर्वतो दिक्षु तत्क्षेत्रं वैष्णवं मतम् ॥ २२३
मुनिप्रणीताद्द्विगुणं तदेव परिकीर्तितम् ॥ २२४
सिद्धावतारिताद्देवात्तदेव त्रिगुणं स्मृतम् ॥ २२५
चतुर्गुणं स्वयं व्यक्ताद्देहान्ते भावितात्मनाम् ॥ २२६
फलं सायुज्यतापूर्वं विज्ञेयं तु क्रमात्ततः ॥ २२७
दुष्टेन्द्रियवशाच्चित्तं नृणां यत्कल्मषेरितम् ॥ २२८
तदन्तकाले संशुद्धिं याति नारायणालये ॥ २२९
इति ॥ २३०
श्रीमदमृतेशशिखायामपि ये तु तत्त्वावतीर्णानां शंकराज्ञानुवर्तिनाम् ॥ २३१
स्वयंभूमुनिदेवर्षिमनुजादिभुवां गृहे ॥ २३२
मृतास्ते तत्पुरं प्राप्य पुरेशैर्दीक्षिताः क्रमात् ॥ २३३
मर्त्येऽवतीर्य वा नावा प्रयान्ति परमं पदम् ॥ २३४
तत्र स्वयंभुवो द्वेधा केऽप्यनुग्रहतत्पराः ॥ २३५
केऽपि स्वकार्येणायाताः पूर्वे निर्वाणदायिनः ॥ २३६
इति ॥ २३७
तत्रापि न सर्वस्य मोक्ष इत्युक्तं पशुमात्रस्य सालोक्यं सामीप्यं दीक्षितस्य तु ॥ २३८
तत्परस्य तु सायुज्यमित्याज्ञा पारमेश्वरी ॥ २३९
यस्तूर्ध्वशास्त्रगस्तत्र त्यक्तास्थः संशयेन सः ॥ २४०
व्रजेदायतनं नैव स फलं किंचिदश्नुते ॥ २४१
दीक्षायतनविज्ञानद्वेषिणो ये तु चेतसा ॥ २४२
आचरन्ति च तत्ते वै सर्वे निरयगामिनः ॥ २४३
ये च स्वभ्यस्तविज्ञानमयाः शिवमया हि ते ॥ २४४
जीवन्मुक्ता न तेषां स्यान्मृतौ कापि विचारणा ॥ २४५
इति ॥ २४६
अत एव उक्तं श्रीनिशाटने गोदोहमिषुपातं वा नयनोन्मीलनं च वा ॥ २४७
सम्यग्युक्तः परे तत्त्वे न भूयो जन्मभाग्भवेत् ॥ २४८
यस्मात्पूर्वं परे न्यस्तो येनात्मा ब्रह्मणि स्वयम् ॥ २४९
स्मरणं तु कथं तस्य प्राणान्ते समुपस्थिते ॥ २५०
इति ॥ २५१
श्रीरामभट्टारकेऽपि तावत्क्षेत्रं तथा तीर्थं यावद्ब्रह्मणि नो विशेत् ॥ २५२
तद्विदित्वा श्वपाकोऽपि मत्समो नात्र संशयः ॥ २५३
इति ॥ २५४
भगवता भेगिपतिनापि तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन् देहम् ॥ २५५
ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ॥ २५६
इति ॥ २५७
श्रीमत्पौष्करायामपि उक्तं क्षित्यन्तानां च तत्त्वानां देवत्वेन व्यवस्थितः ॥ २५८
मन्त्रज्ञो भगवद्भक्तः श्रद्दधानः सदास्तिकः ॥ २५९
यत्र यत्राश्रमे चैव निवसेत्संयतेन्द्रियः ॥ २६०
स्वदेहस्थं स्मरेन्नित्यं स्वमन्त्रं न्यस्तविग्रहः ॥ २६१
देहसंन्यासकाले तु विश्रान्तो यत्र कुत्रचित् ॥ २६२
प्रयाति पदमाद्यं वै समुत्क्रान्तः स्वविग्रहम् ॥ २६३
इति ॥ २६४
अन्यत्रापि शरीरमेवायतनं नान्यदायतनं व्रजेत् ॥ २६५
तीर्थमेकं श्रयेन्मन्त्रमन्यतीर्थानि वर्जयेतिति ॥ २६६
तथा स्वस्थचेष्टाश्च ये मर्त्याः स्मरन्ति मम नारद ॥ २६७
काष्ठपाषाणतुल्यांस्तानन्तकाले स्मराम्यहम् ॥ २६८
इत्युक्तम् ॥ २६९
न च संस्थितस्य उत्तमतया अधिकारिणो लोकयात्राप्रसिद्धास्रुविमोचनादिपरिदेवितं कार्यं यथोक्तं श्रीपूर्वशासने निषिद्धं सर्वशास्त्राणां रोदनं कायशासनम् ॥ २७०
विशेषाद्भैरवे तन्त्रे शम्बरं पशुकल्पितम् ॥ २७१
अयुक्तमिममाचारं त्यजेद्वै नौर्ध्वदैहिकम् ॥ २७२
इति ॥ २७३
श्रीमतरहस्यतिलकेऽपि उत्तमनयाधिकारिणां संवृतनिजसदाचाराणां लोकप्रसिद्धिरक्षायै तदाचारापरित्यागोऽपि आम्नातः तथा हि लोकाचारस्य विच्छेदो न कर्तव्यः कदाचन ॥ २७४
गुह्यं गुह्यतरं कार्यं बाह्यं बाह्यान्तरं तथा इति ॥ २७५
अनयोश्च पक्षयोरेकतरपक्षावलम्बने प्रवरगुरव एव प्रमाणम् ॥ २७६
पित्रुद्देशेन च यागजपहोमोपवासादि गुरुमाराध्य अवश्यं विधातव्यमित्युक्तं श्रीमहाकुले आसूत्रिते भागलुप्ते यथेष्टरजसान्विते ॥ २७७
अपि मन्त्रमनाहूय मण्डले विधिचोदिते ॥ २७८
संनिधानं प्रकुर्वन्ति मन्त्राणां सप्तकोटयः ॥ २७९
किं पुनः कौलिकाम्नायस्तत्राहूय प्रपूजितः ॥ २८०
समुद्दिश्य पितॄन् भद्रे तदानन्त्याय कल्पते ॥ २८१
इति ॥ २८२
श्रीप्रचण्डभैरवेऽपि उक्तं तनुवित्ताश्च ये मर्त्या गुरुमन्त्रपरायणाः ॥ २८३
विशेषेण महायागपूजनं प्रति न क्षमाः ॥ २८४
सिद्धलिङ्गं तदा तेषां पित्रर्थं पूजयेद्बुधः ॥ २८५
उचितं पूजनं तत्र देवानामपि दुर्लभम् ॥ २८६
कुलान्युद्धरते तत्र दश पूर्वापराण्यपि ॥ २८७
इति ॥ २८८
श्रीभागेशमतेऽपि विषसर्पाग्न्यपस्मारक्षुधात्यशनबन्धनैः ॥ २८९
चण्डालोदकनिर्घातराजशासनतस्करैः ॥ २९०
निदाघशीतशकटलूतोषितमहाव्रजैः ॥ २९१
ब्राह्मणम्लेच्छपाषण्डिनिर्मूलोड्डामरक्रमैः ॥ २९२
ये हताः पापकर्माणो मित्रद्रोहरताश्च ये ॥ २९३
स्वामिद्रोहकृताश्चान्ये ये तथात्मोपघातकाः ॥ २९४
गुर्विण्यो दुश्चरित्राश्च प्रसवेन हताश्च याः ॥ २९५
तेषामुद्धरणोपायो नान्योऽस्ति वरवर्णिनि ॥ २९६
विना यागं विना होमं विना मूर्तिपरिग्रहम् ॥ २९७
विना महाजालविधिप्रयोगाहृतपुद्गलम् ॥ २९८
मृतोद्धरणसंज्ञां च दीक्षां सर्वाध्ववर्तिनीमिति ॥ २९९
तदयं तावतूर्ध्वशासनवर्तिनां क्रमः ॥ ३००
इतरेषां तु स्वशास्त्रसमयोपन्यस्तानुष्ठानमेव श्रेयः तदलमनेन ॥ ३०१
एवं समनन्तरोदीरितया नीत्या जन्ममरणप्रबन्धसम्बन्धमवधार्य अकृत्रिमस्वरूपपरामर्शनेन जीवन्मुक्तिमासाद्य कृतकृत्यतामालम्बन्ते सन्तः ॥ ३०२
यथोक्तं विदितमतिसतत्त्वाः संविदम्भोनिधानादचलहृदयवीर्याकर्षनिष्पीडनोत्थम् ॥ ३०३
अमृतमिति निगीर्णे कालकूटेऽपि देवा यदि पिबत तदानीं निश्चितं वः शिवत्वम् ॥ ३०४
इति ॥ ३०५
श्रीमद्योगेश्वराचार्यप्रसादासादितस्थितिः ॥ ३०६
वामदेवश्चकारेदं जन्ममृत्युविचारणम् ॥ ३०७
अभिनवमदमन्थरा पुरंध्री मधुसमये मधुराश्च गीतिबन्धाः ॥ ३०८
बत बत हृदयं हरन्ति वाचो ललितपदाश्च रहस्यवस्तुगर्भाः ॥ ३०९
कृतिस्तत्रभवन्महामाहेश्वराचार्यवर्यश्रीमद्भट्टवामदेवस्य ॥ ३१०
सद्विद्यानां संश्रये ग्रन्थविद्वद्व्यूहे ह्रासं कालवृत्त्योपयाते ॥ ३११
तत्तत्सद्धर्मोद्दिधीर्षैकतानसत्प्रेक्षौजःशालिना कर्मवृत्त्यै ॥ ३१२
श्रीमत्कश्मीराधिराजेन मुख्यैर्धर्मोद्युक्तैर्मन्त्रिभिः स्वैर्विवेच्य ॥ ३१३
प्रत्यष्ठापि ज्ञानविज्ञानगर्भग्रन्थोद्धृत्यै मुख्यकार्यालयो यः ॥ ३१४
तत्राजीवं निर्विशद्भिर्मुकुन्दरामाध्यक्षत्वाश्रितैः सद्भिरेषः ॥ ३१५
पूर्त्या शुद्ध्या व्याख्यया संस्कृतः स्तात्पूर्णो ग्रन्थः श्रेयसे सज्जनानाम् ॥ ३१६
तिलकम् ॥ ३१७
श्रीस्वात्मचिदमृतवपुःशंकरार्पणं भूयात् ॥ ३१८

"https://sa.wikisource.org/w/index.php?title=जन्ममरणविचारः&oldid=330640" इत्यस्माद् प्रतिप्राप्तम्