जयन्तीकल्पः
जयन्तीकल्पः [[लेखकः :|]] |
॥ श्रीः ॥
श्रीमदानन्दतीर्थभगवत्पबादप्रणीतसर्वमूलग्रन्थाः
जयन्तीकल्पः
॥ श्रीमद्धनुमद्भिममाध्वान्तर्गतरामकृष्णवेदव्यासात्मकश्रीलक्ष्मीहयग्रीवाय नमः ॥
(1)रोहिण्यामर्धरात्रे तु यदा कालाष्टमी भवेत् ।
(2)जयन्ती नाम सा प्रोक्ता (3)सर्वापापप्रणाशनी ॥ 1 ॥
यस्यां जातो हरिः साक्षान्निशीते भगवानजः ।
तस्मात्तद्दिनमत्यन्तं (4)पुण्यं पापहरं (5)स्मृतम् ॥ 2 ॥
तस्मात् (6)सर्वैरुपोष्या सा जयन्ती नाम वै सदा ।
द्विजातिभिर्विशेषेण तद्भक्तैश्च विशेषतः ॥ 3 ॥
(7)यो भुङ्क्ते तद्दिने मोहात्पूयशोणितमत्ति सः ।
तस्मादुपवसेत्(8) (9)पुण्यं तद्दिनं श्रद्ध्याऽन्वितः ॥ 4 ॥
(10)कृत्वा शौचं यथान्यायं स्नानं कुर्यादतन्द्रितः ।
प्रभातकाले मेधावी योगायेति यथाविधि ॥ 5 ॥
(11)नित्याह्निकं प्रकुर्वीत गवन्तमनुस्मरन् ।
(12)योगाय योगपतये योगेश्वराय योगसम्भवाय श्रीगोविन्दाय नमो नमः ॥ 6 ॥
मध्याह्नकाले च (13)पुनः सायंकाले त्वतन्द्रितः ।
स्नायीत पूर्वमन्त्रेण वासुदेवमनुस्मरन् ॥ 7 ॥
(14)ततः पूजां प्रकुर्वीत विधिवत्सुसमाहितः ।
यज्ञायेति च मन्त्रेण श्रद्धाभक्तियुतः पुमान् ॥ 8 ॥
कृष्णं च बलभद्रं च वसुदेवं च देवकीम् ।
नन्दगोपं यशोदां च सुभद्रां तत्र पूजयेत् ।
अर्ध्यं दत्वा (15)सपभ्यर्च्याभ्युदिते शशिमण्डले ॥ 9 ॥
जातः कंसवधार्थाय भूभरोत्तारणाय च ।
कौरवाणां विनाशाय दैत्यानां निधनाय च(16) ॥ 10 ॥
पाण्डवानां हितार्थाय धर्मसंस्थापनाय च ।
गृहणार्ध्यं मया दत्तं देवक्या सहितो हरे(16) ॥ 11 ॥
श्रीरोदार्णवसम्भूत (17)अत्रिनेत्रसमुद्भव(18) ।
गृहाणार्घ्यं मया दत्तं रोहिणमया सहितः शशिन् ॥ 12 ॥
(19)दत्वाऽर्घ्यं(20) मनिनाऽनेनि ह्युपस्थाय विधुं बुधः ।
शशिने चन्द्रदेवाय सोमदेवाय चेन्दवे ॥ 13 ॥
मृगिणे (21)शशिबिम्बाय लोकदीपाय दीपिने ।
(22)रोहिणीसक्तचित्ताय (23)तारकापतये नमः(24) ॥ 14 ॥
(25)उपसंहृत्य तत्सर्वं ब्रह्मचारी जितेन्द्रियः ।
विश्वायेति च मन्त्रेण ततः (26)स्वापं समाचरेत् ॥ 15 ॥
ततो नित्याह्निकं कृत्वा शक्तितो दीयतां धनम् ।
सर्वायेति च मन्त्रेण ततः (27)पारणमाचरेत् ।
धर्मायेति ततः (28)स्वस्थो मुच्यते सर्वकिल्बिषैः ॥ 16 ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितो (29)जयन्तीकल्पः समाप्तः ॥
॥ इति जयन्तीकल्पः ॥
॥ श्रीकृष्णार्पणमस्तु ॥
1. यस्मिन्नब्दे भाद्रपदे स मासे सिंहस्थयोर्गुरुव्योः परेशः। उदैत्....।
-म.भा.ता.नि.12/120
यस्मिन्संवत्सरेऽधिकमासप्राप्तौ सत्यां भाद्रपदे मासि रविः सिंहराशिं गतो भवति। कृष्णावतारसमये गुरुरपि सिंहराशिस्थितोऽभूत् । तदा दर्शमासरीत्या भाद्रपदमासोऽपि भवति। सौरमासरीत्या श्रावणमासश्च भवति। तस्मिन्संवत्सरे कृष्णावतार इति भावेन "यस्मिन्नब्द" इत्याद्युक्तम् । एवं द्विविधमाससम्प्रयोगः अधिकमासप्राप्तावेव भवति। न सर्वदा । अतः "यस्मिन्नब्द" इत्युक्तम् । अन्यथा अब्दे शुभे भाद्रपदेऽथ मासे इत्येवावक्ष्यत् । एतद्योगालाभे सांवत्सरिकतिथेः कर्तव्यत्वात् "श्रवण्यां चासिते पक्षे" इत्यादि प्रमाणानुसारेण सोमाभावे पूतिकाग्रहण वत् केवलसिंहमासेऽपि क्रियते ।.....।
-इति (श्रीवादिराजतीर्थश्रीचरणाः (भावप्रकाशिकायाम्)
कृष्णाष्टमीकल्पकर्त्रा मध्वेनादर्शितं यथा ॥
-इति श्री वादीराजतीर्थश्रीचरणप्रणीत-एकादशीनिर्णये
2. सिंहमासे तु रोहिण्या युतां कृष्णाष्टमीं पुमान् ।
उपोष्य मध्यरत्रे च पूजयेन्नन्दनन्दनम् ॥
यशोदासंयुतं तप्ते शयानं तु चतुर्भुजम् ।
शङ्खचक्रगदापद्मधरं ज्ञानस्वरूपिणम् ॥
श्रीरापायसमध्वाद्यैर्ननीतयुतैस्तथा ।
अपूपकादळाद्यैश्च मातुळङ्गसितादिभिः ॥
सुमनोभिस्तुळस्यादिदशभिर्गन्धसंयुतैः ।
अर्चयित्वा परेद्युश्च प्रातरेवाथ पूजयेत् ॥
-विष्णुतीर्थीये ।
श्रावणे बहुले सा तु सर्वपापप्रणाशिनी ।
जयं पुण्यं च कुरुते जयन्तीत्येव तां विदुः ॥
-भारद्वाजसंहितायाम्, स्कान्दपुराणे च
3. सर्वपापप्रणाशनं (पा.)
4. परं (पा.)
5. कृष्णजन्माष्टमीं त्यक्त्वा योऽन्यद्व्रतमुपोषयेत्।
नान्पोति सुकृतं किञ्चिदिष्टापूर्तमथापि वा ॥
-इति भावष्योत्तरपुराणे
सर्वासां तु जयन्तीनां श्रेष्ठा कृष्माष्टमी मता ।
यस्मात्सन्निहिताऽत्यन्तं तत्रैवोपवसेन्नरः ॥
सर्वास्वपि जयन्तीषु पूजा कार्या विशेषतः ।
(1.सन्निहिता- `अस्माकं कालेन समीपस्था ।-इति श्रीसत्यपरायमतीर्थीः
द्वापरान्ते कृष्णावतारस्य जातत्वात् रामादेर्व्यवहितत्वम् ।
-छलारि नरसिंहाचार्याः(स्मृत्यर्थसागरे)')सान्निध्य एव कर्तव्यः उपवासो न दूरगः ॥ -भारद्वाजसंहिता ।
(2.एकादश्यां कृष्णजयनत्यां नियमेन उपलासकरणे विंशतिकोटिसङ्खाकैकादशीव्रतफलं भवति। अन्यथा तद्विपरूतमिति भावः ॥-सत्यपरायणतीर्थविरचिते जयन्तीनिर्णयव्याख्याने)एकादशीनां विंशत्यः कोट्यो याः परिकीर्तिताः ।
ताभिः कृष्णाष्टमी तुल्या....॥
-ब्रह्मवैवर्तपुराणे
6. विहितः सर्वजातीनामुपोषणविधिः परः । -शिवपुराणे
वर्षे वर्षे तु या नारी कृष्णजन्मष्टमीव्रतम् ।
न करोति महाव्याली भवतीह च कानने ॥ -भविष्योत्तरपुराणे
अष्टमी बुधवारेण रोहिण्या सहिता यदि ।
भवेच्च मुनिषार्दूल किं फलं व्रतकोटिभिः ।
(अप वर्षषतेनापि सुलाभा नैव ते (विभो))।
प्रेतयोनियतानां तु प्रेतत्वं नाशितं नरैः ।
यैः कृता श्रवणे मासि अष्टमी रोहिणीयुता ।
दुर्लभा नवमीमिश्रा अष्टमी रोहिणीयुता ।
दुर्लभा नवमीमिश्रा अष्टमी रोहिणीयुता ।
किं पुनर्बुधवारेण सोमेनापि विशेषतः(1.इयमेव बुधवापेण सोमवारेण वा युता चेद्विशेषफलप्रदा ॥ -छलारी नरसिंहाचार्याः (स्मृत्यर्थसागपे)) ।-पग्मपुराणे
कृष्णाष्टमिव्रते सर्वैरेवोपवासः एकादशीतुल्यत्वात्। -श्रीसत्यपरायणतीर्थाः
7. ये नकुर्वन्ति जानन्तः कृष्मजन्माष्टमिव्रतम् ।
ते भवन्ति नराः प्राज्ञ व्याला व्याघ्राश्च कानने ॥ -स्कान्दपुराणे
गृध्रमांसं खगं काकं श्येनं च मुनिसत्तम ।
मांसं वा द्विपदां भुक्तं कृष्मजनामाष्टमिदिने ॥
कृष्मदन्मदिने प्राप्ते ये भिञ्चति द्विजोत्तमाः ।
त्रैलोक्यसम्भवं पापं तैर्भुक्तं तु द्विजोत्तम् ॥ -स्मृतिः
रटन्तीह पुराणानि भूयो भूयो वनारने ।
अतीतानागतं तेन किलमेकोत्तरं शतम् ।
पातितं नरके घोरे भुञ्जता कृष्णवासरे ॥ -भविष्योत्तरपुराणे
शूद्रन्नेन तु यत्पापं शवहस्तस्य भोजनम् ।
तत्पालं लभते कुन्ति! जयन्त्यां भोजनं कृते ॥
श्रावणे बहुले पक्षे कृष्णजन्माष्टमिव्रतम् ।
न करोति नरो यस्तु भवति क्रूरराक्षसः ॥ -भविष्योत्तरपुराणे
कृष्णाष्टमीदिने प्राप्ते येन भुक्तं द्विजोत्तम ।
त्रैलोक्यसम्भवं पापं तेन भुक्तं न संशयः ॥
ब्रह्मघ्नस्य सुरापस्य गोवधे स्त्रीवधेऽपि वा ।
तल्लोके मुनिशार्दूल जयन्तीविमुखस्य च ॥
जयन्तीवासरे प्राप्ते करोत्युदरपूरणम् ।
पोथ्यते तिलमात्रं तु यमदूतैः कलेवरम् ॥
-भविष्योत्तरपुराणे, स्कन्दपुराणे च
8. उपावृत्तस्तु पापेभ्यो यस्तु वासो गुणैः सह ।
उपवासः स विज्ञेयः सर्व भोगविवर्जितः इति ॥
उप इत्यस्थार्थ आवृत इति। आङुपुपदादो व्रश्चूछेदने अस्मात्कप्रत्यये तस्य ग्रहीज्यावग्रियव्यधिवष्टिवर्छतिपृछतीनां कितीति सम्प्रसारणे आवृत इति रूपं । पापानां योग्यतया लाभः। सम्यक् स्रवपापरिहारक इत्यर्थः । उप उपसर्गाणां ससाधनक्रियावाचकत्वात् । प्राचार्या उत्यादिवत्। उप सर्वपावपहर इत्यर्थः। यद्वा उ उत्कृष्टानां पापानां। पः नाशः यस्मात्सः उपः पापानां नाश इत्यर्थः। भक्तेषु वसन्ति गुणाः यस्मादिति वासः। उपश्चासौ वासश्च उपवासः । निराहार इत्यर्थः स उपवासः । उपवासः उप समीपे भगवत्समीपे । भक्ता वसन्त्यस्मादित्युपवासः । ब्रह्मलोकप्रापक इति यावत्। तन्त्रं। एतादृशमाहात्म्यविशिष्टः कृष्माष्टमीनिवराहार इत्यर्थः ।
-सत्यपरायणीतीर्थाः(जयन्तिकल्पटीका)
9. नित्यं (पा.); नित्यमित्यनेनैतस्य व्रतत्वादुद्यापनादिकरणानन्तरं न त्याज्यता सूचिता। यद्वा मोहात्। मोहो वञ्चनं तस्मात् `मोहो नटनं वञ्चनं वेवा' इति सर्वज्ञकल्पोक्तेः । लयब्लोपनिमिता पञ्चमी। मोहं वञ्चनं नटनं वा प्रदृश्य । विद्यमानाकाराच्छादनेनाविद्यामानाकाप्रदर्शनं नटनम् । अविद्यमानकथनं नञ्चनमिति तत्वप्रकाशिका-टिप्पणी शर्करोक्तेः। अहमपि सम्प्रदायप्रवर्तक इति लोकान्वञ्चतितुमिति यावत्। अप्राणिकं प्रमाणविरुद्धमपि तद्दिने कृष्णप्रादुर्भावदिने कृष्णपूजानन्तरं उपहारादिकं स्वयभुङ्क्ते । स्वयं कृत्वा च भोजनं स्वानुसारिणः भोजयति यः सः पूयशोणितमत्तिः। तदनुसार्यपि पूयशोणितमत्ति। पूयशोणितविशिष्टं तद्रूपं वा नरकाद्यनर्थं प्राप्नोतीत्यर्थः ।
-जयन्तीकल्पटीका ।
10. सप्तम्यां लघुभुक् कपर्याद्दन्तदावनपूर्वकम् ।
उपवासस्य नियमं रात्रौ स्वस्थो जितेन्द्रियः ॥
-ब्रह्मवैवर्तपुराणे
वासुदेवं समुद्दिश्य सर्वपापप्रशान्तये ।
उपवासं करिष्यामि कृष्णाष्टम्यां नभस्यहम् ॥
अद्य कृष्णाष्टमूं देवीं नभश्चनद्रसरोहिणीं ।
अर्चयित्वोपवासेन भोक्ष्येऽहं पश्चिमेऽहनीति । तत्रैवोत्तरत्र ।
-ज.टीका
सप्तम्यां लघु भुक्कुर्याद्दन्तधावनपूर्वकम् ।
उपवासस्य नियमं रात्रौ स्वस्थौ जितेन्जद्रियः ॥
केवलेनोपवालेन तस्मिन् जन्मदिने मम ।
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥
-जयन्तिकल्पटीका
11. श्रीकृष्णजयनती (श्रीकृष्णाष्टमी) सङ्कल्पमन्त्रः-
अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर ।
भोक्ष्यामि पुण्डरीकाक्ष! अस्मिन् जन्माष्टमीव्रते ॥
-भविष्योत्तरपुराणे
औपासनं ब्रह्मयज्ञं कृष्णाष्टम्यां न कारयेत् ।
-ब्रह्मवैवर्तपुराणे
12. इति स्नानमन्त्रः (इति मूलकोशे)
13. पुमान् (पा.)
14. श्रीरादस्नापनं कृत्वा चन्दनेन विलेपितम् ।
गीतं वाद्यं तथा नृत्तं कारयेद् यदि शक्तिमान् ॥
शान्तिपाठं शास्त्रपाठं गीतापाठं तृतीयकम् ।
सहस्रनामपठनं स्तवं पापविमोक्षणम् ॥
एवमेव विधानेन अर्चयत्वा ततो हरिम् ।
-भविष्योत्तरपुराणे
पुराणोक्तेन मन्त्रेण कृष्मं संपूजयेन्निशि ।
दत्वोपचारान् देवाय ततो देवीं प्रपूजयेत् ॥
-भविष्योत्तरपुरणे
यो दद्यात् सकलामुर्वीं सर्वरत्नसमन्वितम् ॥
अर्घ्यदानेन तत्पुण्यं लभते मानवः शुचिः ॥
-भविष्योत्तरपुराणे
15. समभ्यर्च्याभ्युत्थिते (प्र.)
16. क्वचिन्न पठ्येते ।
17. अत्रिगोत्रसमुद्भव (प्र.)
18. नेत्राभ्यां वारि सुस्राव दशाधा द्योतयद्दिशः ।
-इत्यादि हरिवंशे 1/25/6
19. आदौ कृष्मार्घ्यं दत्वा चनद्रार्घ्यप्रदानमिति श्रीमदाचार्यसंमतम् ।
-स्मृ.मु.पु.38
20. चन्द्रोदये विनिर्गत्य स्थण्डिले समलङ्कृते ।
शङ्खे तोयं समादाय सपुष्पफलचन्दनम् ।
जानुभ्यामवनिं गत्वा चनद्रायार्घ्यं निवेदयेत् ॥
-भविष्योत्तरपुराणे
21. शीतबिम्बाय (प्र.);सिताबिम्बाय (पा.)
22. शीतदीधितिबिम्बाय (पा.;प्र.)
23. कन्यादानप्रदायिने (इति स्मृ.मु.पाठः पु. 68)
24. उपस्थानमन्त्रः ।
25. जयन्त्यां त्रिः पिबेद्विप्र तथा वै विष्णुपञ्चके ।
गन्धोदमिश्रितं तीर्थं सर्वपापहरं स्मृतम् ॥
-विष्णुपुराणे
26. ततो जागरणं कुर्याद् यावच्चोदेति भास्करः ।
गीताशास्त्रकथालापैर्हरिवंशकथादिभिः ॥
यस्तु भागवतं शास्त्रं वाचयेदर्थतो निशि ।
जन्मकोटिकृतं पापं प्रयोत्येव न संशयः ॥
-भविष्योत्तपुराणे
27. तिथिनक्षत्रसंयोगे तिथिभान्ते च पारणम् ।
अनयता व्रतहानिः स्यादिति शातातपोऽब्रवीत् ॥
तिथिरष्टगुणं हनति नक्षत्रं च चतुर्गुणम् ।
तस्मात्सर्वप्रयत्नेन तिथिमान्ते च पारणम् ॥
-स्मृतिः
28. स्मरणं वासुदेवस्य मृत्यकाले भवेन्मुने ।
सिद्ध्यन्ति सर्वकार्याणि कृते कृष्णाष्टमीव्रते ॥
-स्कन्दपुराणे
उत्सवान्ते च पारणमित्यत्र उत्सवान्तशब्देन द्वितीयदिने स्नानानन्तरं कृष्णपूजानन्तरकालो गृह्यते । नत्वर्धरात्रे कृष्णपूजानन्तरकालः। अद्य स्थित्वा निराहारः श्वो भूते परमेश्वर । भोक्ष्यामि पुण्डरीकाक्ष अस्मिभित्यत्र सन्ध्यभावः आर्षः । अर्धरात्ररूपसन्धिकाले उपहारद्यभावसूचको वा । -सत्यपरयणतीर्थाः (जयन्तिकल्पटीका)
29. जयन्तीनिर्णयः (प्र.)