प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← खण्डः १ जाबालदर्शन उपनिषद्
खण्डः २
[[लेखकः :|]]
खण्डः ३ →

तपः सन्तोषमास्तिक्यं दानमीश्वरपूजनम् ।
सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् ॥ १॥

एते च नियमाः प्रोक्तास्तान्वक्श्यामि क्रमाच्च्हृणु ॥ २॥

वेदोक्तेन प्रकारेण कृच्च्ह्रचान्द्रयणादिभिः ।
शरीरशोषणं यत्तत्तप इत्युच्यते बुधैः ॥ ३॥

को वा मोक्शः कथं तेन संसारं प्रतिपन्नवान् ।
इत्यालोकनमर्थज्ञास्तपः शंसन्ति पण्डिताः ॥ ४॥

यदृच्च्हालाभतो नित्यं प्रीतिर्या जायते नृणाम् ।
तत्सन्तोषं विदुः प्राज्ञाः परिज्ञानैकतत्पराः ॥ ५॥

ब्रह्मादिलोकपर्यन्ताद्विरक्त्या यल्लभेत्प्रियम् ।
सर्वत्र विगतस्नेहः संतोषं परमं विदुः ।
श्रौते स्मार्ते च विश्वासो यत्तदास्तिक्यमुच्यते ॥ ६॥

न्यायार्जितधनं श्रान्ते श्रद्धया वैदिके जने ।
अन्यद्वा यत्प्रदीयन्ते तद्दानं प्रोच्यते मया ॥ ७॥

रागाद्यपेतं हृदयं वागदुष्टानृतादिना ।
हिंसादिरहितं कर्म यत्तदीश्वरपूजनम् ॥ ८॥

सत्यं ज्ञानमनन्तं च परानन्दं परं ध्रुवम् ।
प्रत्यगित्यवगन्तव्यं वेदान्तश्रवणं बुधाः ॥ ९॥

वेदलौकिकमार्गेषु कुत्सितं कर्म यद्भवेत् ।
तस्मिन्भवति या लज्जा ह्रीः सैवेति प्रकीर्तिता ।
वैदिकेषु च सर्वेषु श्रद्धा या सा मतिर्भवेत् ॥ १०॥

गुरुणा चोपदिष्टोऽपि तत्र संबन्धवर्जितः ।
वेदोक्तेनैव मार्गेण मन्त्राभ्यासो जपः स्मृतः ॥ ११॥

कल्पसूत्रे तथा वेदे धर्मशास्त्रे पुराणके ।
इतिहासे च वृत्तिर्या स जपः प्रोच्यते मया ॥ १२॥

जपस्तु द्विविधः प्रोक्तो वाचिको मानसस्तथा ॥ १३॥

वाचिकोपांशुरुच्चैश्च द्विविधः परिकीर्तितः ।
मानसोमननध्यानभेदाद्द्वैविध्यमाश्रितः ॥ १४॥

उच्चैर्जपादुपांशुश्च सहस्रगुणमुच्यते ।
मानसश्च तथोपांशोः सहस्रगुणमुच्यते ॥ १५॥

उच्चैर्जपश्च सर्वेषां यथोक्तफलदो भवेत् ।
नीचैःश्रोत्रेण चेन्मन्त्रः श्रुतश्चेन्निष्फलं भवेत् ॥ १६॥ इति॥

इति द्वितीयः खण्डः ॥ २॥