प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← खण्डः २ जाबालदर्शन उपनिषद्
खण्डः ३
[[लेखकः :|]]
खण्डः ४ →

स्वस्तिकं गोमुखं पद्मं वीरसिंहासने तथा ।
भद्रं मुक्तासनं चैव मयूरासनमेव च ॥ १॥

सुखासनसमाख्यं च नवमं मुनिपुङ्गव ।
जानूर्वोरन्तरे कृत्वा सम्यक् पादतले उभे ॥ २॥

समग्रीवशिरःकायः स्वस्तिकं नित्यमभ्यसेत् ।
सव्ये दक्शिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् ॥ ३॥

दक्शिणेऽपि तथा सव्यं गोमुखं तत्प्रचक्शते ।
अङ्गुष्ठावधि गृह्णीयाद्धस्ताभ्यां व्युत्क्रमेण तु ॥ ४॥

ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतलद्वयम् ।
पद्मासनं भवेत्प्राज्ञ सर्वरोगभयापहम् ॥ ५॥

दक्शिणेतरपादं तु दक्शिणोरुणि विन्यसेत् ।
ऋजुकायः समासीनो वीरासनमुदाहृतम् ॥ ६॥

गुल्फौ तु वृषणस्याधः सीवन्याः पार्श्वयोः क्शिपेत् ।
पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् ।
भद्रासनं भवेदेतद्विषरोगविनाशनम् ॥ ७॥

निपीड्य सीवनीं सूक्श्मं दक्शिणेतरगुल्फतः ।
वामं याम्येन गुल्फेन मुक्तासनमिदं भवेत् ॥ ८॥

मेढ्रादुपरि निक्शिप्य सव्यं गुल्फं ततोपरि ।
गुल्फान्तरं च संक्शिप्य मुक्तासनमिदं मुने ॥ ९॥

कूर्पराग्रे मुनिश्रेष्ठ निक्शिपेन्नाभिपार्श्वयोः ।
भूम्यां पाणितलद्वन्द्वं निक्शिप्यैकाग्रमानसः ॥ १०॥

समुन्नतशिरःपादो दण्डवद्व्योम्निसंस्थितः ।
मयूरासनमेतत्स्यात्सर्वपापप्रणाशनम् ॥ ११॥

येन केन प्रकारेण सुखं धैर्यं च जायते ।
तत्सुखासनमित्युक्तमशक्तस्तत्समाश्रयेत् ॥ १२॥

आसनं विजितं येन जितं तेन जगत्त्रयम् ।
अनेन विधिना युक्तः प्राणायामं सदा कुरु ॥ १३॥ इति॥

इति तृतीयः खण्डः ॥ ३॥