जिनशतकम् (जम्बूगुरुविरचितम्)
जिनशतकम् जम्बूगुरुः १९२६ |
श्रीजम्बूगुरुविरचितं जिन१शतकम् । श्रीमद्भिः स्वैर्महोभिर्भुवनविभुवत्तापयत्येष शश्व- त्सत्स्वप्यस्मादृशेषु प्रभुषु किमिति सन्मन्युनेवोपरक्ताः । सूर्यं वीर्यादहार्यादभिभवितुमिवाभीशवो यस्य दीप्रा: प्रोत्सर्पन्त्यङ्घ्रियुग्मप्रभवनखभुव: स निये स्ताजिनो वः ॥१॥ संसारापारनीरेश्वरगुरुनिरयाशर्मपङ्कौघमग्ना- नुद्धर्तुं सत्त्वसार्थानिव नखजमृजाजीर्णरज्जूर्यदीयाः । पादाः प्रासीसरन्तः प्रकटितकरुणाः प्रार्थितार्थान्समर्था भर्तुं तीर्थाधिपोऽसौ पृथुदवथुपथप्रस्थितिं वो रुणद्धु ॥२॥ प्रोद्यद्दीप्रप्रभावक्रमनखमुकुरक्रोडसंक्रान्तबिम्बं वक्त्रं वृत्तस्य शत्रुः स्वकमधिकरुचिं बिभ्रदभ्रान्तचेताः । पश्यन्शीतांशुकान्तं प्रणतिकरणतो न व्यरंसीत्प्रमोदा- द्यस्यासौ श्रीजिनेन्द्रो द्रुतमतनुतमस्तानवं वस्तनोतु ॥ ३ ॥ मार्तण्डश्चण्डभावं दधदहनि हिनस्त्यस्तदोषोऽपि पादै- र्बध्नात्यहाय रात्रौ पुनरलिपटलैरारटन्ती रटद्भिः । मामम्मोजन्मधानि स्थिततनुलतिकामेवमालोच्य लक्ष्मी- रुद्विग्नेवापविघ्नं क्रमकजमगमद्यस्य सोऽव्याजिनो वः ॥ ४ ॥ १. शतकस्यास्यैकं सटीक मनोहरमपर्युषितं नातिशुद्धं चाष्टादशपत्रात्मक पुस्तक श्रीशान्तिविजयमुनिभिरसभ्यं दत्तम्, तत्र नागेन्द्रकुलोद्भूतसाम्बमुनिप्रणीता समी- चीना टीका वर्तते. सच साम्बष्टीकासमाप्ती शरदां सपञ्चविंशे शतदशके (१०२५) खातिमे च रविवारे । विवरणमिदं समाप्त वैशाखसितत्रयोदश्याम् ॥' इत्थमात्मनो अन्यनिर्माणसमयं वदति. द्वितीयं तु मूलमात्र शुद्ध पश्चचतुष्टयात्मकं प्राचीनं पुस्तक जोधपुरनगरपाठशालाभ्यापकपण्डितरामकर्णशर्मभिः प्रहितम्. टीकामुद्रण तु पुस्तका- न्तराभावादुम्करमिति सत्वा ततः संक्षिप्त पयोगिटिप्पणमानमेवात्रोत्तम्, २. अला. सिकमिन. ३. सत्सयमानश्वासौं भन्युसेन, ४. हर्तुमशक्यातू. ५. अपारसंसारसमा एक महानरकदुःखं तदेव पौषरतत्र मन्नान. ६. नरोत्पन्ना दीप्तय एवाली नवा रजवा. 4. प्रसारितवन्तः, ८. सीघ्रम्, ९. कमलरूपटहे. १०. निसवयथा साद. ११. 4. जिनशतकम् । ५३ निर्विघ्नान्विघ्ननिनानतिघनघृणया श्लाध्यघोषानघोषा- न्घोराघौघैरनुद्धापघनसुघटिताञ्शीघ्रमुद्धाङघ्रिपाणीन् । अर्घोपघ्नाननर्घान्घटयति लघिमालिङ्गितान्योऽलघिष्ठा- ञ्श्लाघ्यं यस्याङ्घ्रियुग्मं विघटयतु घनं सोऽघसंघातमहन् ॥ ५॥ रक्तस्त्यक्तसरोऽपि प्रतिभयभयकृन्निर्भयत्वप्रदोऽपि प्रायश्चित्तग्रहीता सततनिरतिचारोऽपि यत्पादपद्मः । चैकुण्ठाभ्यर्चितोऽपि प्रकटमपचितः पण्डितैः खण्डितांहा- स्तन्यादन्याय्यवृत्तिव्यपगमगुरुतां वः स निर्गन्थनाथः ॥ ६ ॥ स्वान्तारण्यं शरण्याश्रयणमिति यदध्यास्त विध्वस्तशङ्क- तद्धर्मध्यानधूमध्वजजवजनितात्यन्तसंतापतप्तम् । संत्यज्यासह्यदाहादिव चरणसरोऽशिश्रियत्सत्सरोजं यस्यातिप्रौढरागद्विरद उरुरजः सोऽस्यतात्तीर्थपो वः ॥७॥ जङ्घोद्यत्स्कन्धबुध्नोद्गतलसदरुणामाङ्गुलीपल्लवाढ्या- न्प्रेङ्खन्तीभिर्नस्वार्चिर्निचयरुचिरसन्मञ्जरीभिर्युतान्व: । प्रेक्ष्य प्राप्तेप्सितार्थैर्भुवि बलवदवाक्कल्पवृक्षाः किमेवं विद्वद्भिः शङ्क्यतेऽङ्घ्रीनतुलफलयुजो यस्य सोऽर्हन्मुदेऽस्तु ॥ ८ ॥ क्षोणीं क्षान्त्या क्षिपन्तः क्षणिकरतिकरस्त्रीकटाक्षाक्षताक्षा मोक्षक्षेत्राभिकाङ्क्षाः क्षपितशुभशताक्षेमविक्षेपदक्षाः । १. अनुद्धा अप्रशस्ता अपघना अङ्गानि. २. प्रशस्तहस्तपादान. ३. अण पूजया आश्रितान्. ४: पूजारहितान्. ५. भयानकमयकर्ता. भयानकभयं कृन्ततीति विरो- धपरिहारः. ६. सततं निरन्तरं गृहीतस्य वृत्तस्यैकदेशतो भगोऽतिवारः स निर्गतो यस्मात्सोऽपि प्रायश्चित्तग्रहीतेति विरोवः प्रायो बाहुल्यैन चित्तस्य प्रहीता आवर्जक: सततं निरतिचारवानतिक्रमणीयश्चति परिहारः. ७. अपचितोऽपचयं नीत इति विरोधः, अपंधितः पूजित इति परिहारः. ८. निमन्यास्तपखिनस्तषां नाथो जिनः ९. चर. पायोः कमलरूपाणि लाञ्छनानि भवन्ति. यस्य हृदयं वीतरागं चरणौ च सरागाविति तात्पर्यम्. १०. मलबदसमवाश्चोऽधोमुखाः कल्पवृक्षाः ११. पूजायाँ बहुवचनम् काव्यमाला । अक्षोभाः क्षीणरूक्षाक्षरपटुवचनाभिक्षवो मङ्क्ष्वलक्ष्मी साक्षाद्वीक्ष्य क्षिपन्ति क्षपयतु स जिनः क्षय्यपक्षं यदङ्घ्री ॥९॥ तन्वाना वैनतेयश्रियमहितवृषोत्कर्षमोषिप्रतापाः कामं कौमोदकीनाशरणशरणदा नीरजोदाररागाः । सद्यः प्रद्युम्नयुक्ताः सदसिकृतमुदो यतमाश्चक्रिणो वा भ्राजन्ते भ्राजिताशाः सुखमखिलमसौ श्रीजिनो वो विधेयात् ॥१०॥ यत्पादौ पादपौ वा शुचिरुचिनिचिताम्भोजपुञ्जालवालौ स्व:सन्मूर्धाधिरूढोद्भटमुकुटकुटैर्निर्यदंशूदभारैः । संसिक्तौ शोणरतप्रतिमनखरुचः सत्प्रवालावलीव- द्धत्तः शुद्धिं विधेयादधिकमधिपतिः श्रीजिनानामसौ वः ॥ ११ ॥ द्यां द्युत्योद्द्योत्य मुद्यद्द्युसदधिपमता विद्युदुद्द्योतजेत्र्या- विद्यानद्याद्यसद्योनय उपदधते सद्यमोद्यानमोदम् । दुर्भेद्यावद्यमुद्यद्द्युमणिमिव समाच्छाद्य नन्द्यामिवन्द्याः सद्यो यत्पादकंदा द्यतु स जिनपतिर्वोऽतिनिन्द्यामविद्याम् ॥ १२ ॥ निर्वाणापूर्वदेशप्रगमकृतधियां शुद्धबुद्ध्यध्वगानां मार्गाचिख्यासयैषा त्रिभुवनविभुना प्रेषिता किं नु लोकैः । आलोक्यारेकितैवं चरणनखभवा वो विमाविर्भवन्ती यस्य श्रेयांसि स श्रीजिनपतिरपतिः पाप्मभाजां विदध्यात् ।। १३ ॥ १. भिक्षको यतयो यदनी साक्षाद्वीक्ष्य मड शीघ्रमलक्ष्मी क्षिपन्ति स जिनः क्षय्य- पक्ष शत्रुपक्षं क्षपयत. २. वै निश्चयेन नते प्राणिनि अभियं शुभावहविधिसंपत्तिम् (पक्षे) वैनतेयो गरुडः. ३. अहितो विरुद्धो यो वृषो धर्मः; (पक्षे ) वृषोऽरिष्यासुरः ४. कौ भूमौ मोदस्य कीनाशो नाशको यो रणस्तत्र शरणदाः, (पक्षे) कौमोदकी गदा तस्सा इनाः प्रभ- वोऽशरणशरणदाश्च: ५. नीरजेविवोदारो रागो येषु,(पो)नीरजः शत:. ६. प्रकृष्टं घुम्न वेजः; (पक्षे) प्रद्युम्नो बासुदेवपुत्रः, ४. सदसि सभायाम (पक्षे ) संश्वासावसिः खङ्गो नन्दकलेन कृता मुद्येषाम् , ८. क्रमाः पादा वासुदेवा इव. ९. पूरितमनोरथाः. १०. कुटो १६ मुदं यन्नाच्छन्, १२. विद्यैव नदी तस्या आधाः सद्योनयः शोभना- न्युत्पत्तिस्थानानि. । १३. संश्चासौ यमच (नियमसहचर) स एवोद्यान तस्स मोवं पुष्टि- लक्षणम्: १४, के जलं ददतीति कंदा मेधाः पादा एव कंदा:. कमित्यव्ययं जलवाचकम. १५. अरेकिता उत्प्रेक्षिता. १६. आविर्भवन्ती ऊचे गच्छन्ती. घटः जिनशतकम् । शोभामम्भोरुहाणामपहरति करोत्युद्धवं कौशिकस्या- नुष्णैः पुष्णाति पादैः कुमुदमसुमतां नोपतापाय दृष्टेः । प्राज्याजेयप्रतापं सततमिनतया युक्तमप्यन्यरूपं युग्मं यत्पादयोः स्तात्स भवदविभवाभावकृत्तीर्थनाथः ॥ १४ ॥ दूरे दूरेपसो वो वसतिमसुभृतां साधयन्ती धयन्तौ वारी वारीतिमङ्घ्री नतससुरमहादेवराजौ वराजौ । यस्यायस्याप्तिहेतू जयमुपनयतो मोहितानां हितानां दध्यादध्यामतेजाः स भुवि जिनवरोऽनन्तमोदं तमोदम् ॥ १५॥ कृत्वाधः पादयोर्मा निरतिशयशमश्रीसमालिङ्गिताङ्गः स्वस्थस्तिष्ठत्यनिष्टः कथमयमधुनेतीव संचिन्त्य सृष्टा । ऊर्ध्वं बाणाशनिर्वा मृदुहृदयभिदे भाति रागेण गाढं यस्य प्रेङ्खन्नखालीद्युतिरतनुरतिं रातु स श्रीजिनो वः ॥ १६ ॥ चार्वाचारोक्तिचञ्चु प्रवचनचतुराचार्यचक्रस्य चञ्च- न्नोच्येताचण्डरोचीरुचिरुचिररुचिर्यस्य वाचां प्रपञ्चैः । उच्चैश्चञ्चूर्यमाणश्चरणगुणचयश्चारुचित्तार्चितार्च- श्चेतःशौचं चिनोतूचितमचलमसौ चारुचेष्टो जिनो वः ।। १७ ॥ पद्भ्यां भूभृद्गुरुभ्यां भ्रमति भृशमभीर्भ्रंशयन्हेलयायं कोऽस्मन्मूर्धोद्धृतां गामिति फणिसमितेः सक्रुधः क्रोधवह्ने: । ज्वाला निर्यान्त्यधस्तात्किमिति सुजनता शकते लोकयन्ती भव्यानव्याद्भयेभ्यो निखिलनखरुचो यस्य योगीश्वरोऽसौ ॥ १८ ॥ ४. दुष्टं १. इन्द्रस्योलूकस्य च. २. को पृथिव्या मुदम्. ३. सूर्यलेन च. च तदेपः पापं तस्माहूरे स्थानेऽसुमतां वसतिं साधयन्ती. स्वर्गप्रदावित्यर्थः. ५. वारीव जलमिव भरीति शत्रूपद्रव धयन्तौ पिबन्ती. नाशयन्तावित्यर्थः. ६. श्रेष्ठयुद्धे मोहितानां हितानां भक्तानां जयमुपनयतः. ७. यस्थाझी आयस्य लाभस्याप्तिहेतू. ८, अकृशतेजाः. ९. ऊर्ध्व क्षिप्ता. १०. बाणावलीव. ११. कामेन. १२. यस्य चरणगुणचयो नोच्येत वक्तुं न शक्येत. अतिप्राचुर्यात्. १३. चारुचित्तैरिन्द्रादिभिरर्चिता अर्धा मूर्तिर्यस्य स १४. पातालमुद्भिद्य. जिनः काब्वमाला । प्रख्यातादच्युतश्रीवरवसतितया शेषकान्त्योपगूढा- सन्मीनाक्षीरनीरेश्वरत इव यदङ्घ्र्योर्युगान्निर्गता भा । वेलेव प्लावयन्ती नखमणिकिरणोन्मिश्रिता श्रीमदब्ज- श्रेणीं विश्वंभरावद्भवदनभिमतं तीर्थपोऽसौ भिनत्तु ॥ १९ ॥ मा पप्तत्तप्त्यभावात्कलिकलिलभराक्रान्तमेत- त्पातालापारपङ्के त्रिभुवनभवनं द्रागितीवावधार्य । त्वष्ट्रावष्टम्भनार्थं प्रचुरभरसहौ निर्मिमाते यदङ्घ्री व्रजस्तम्भाविवासौ निखिलसुखस्वनीर्वो विधत्तां यतीन्द्रः ॥२०॥ दुर्गे स्वर्गापवर्गाध्वनि संदरितया स्यन्दनः संस्यदाग- स्तिग्मांशूतप्तजन्तून्प्रति वरविटपी छायया संयुतत्वात् । सद्भूत्याहूतिमन्त्रः सति धननिधने व्यक्तवर्णत्वतो वः सिध्यध्वन्यध्वनीनाववतु स मुनिपः पादपद्मो यदीयः ॥ २१ ॥ यत्पादैः पारिजातक्षितिरुहमहिमा हानिमानीयतेऽहि- भ्रातृव्यायाप्ययोषाः प्रमदभरनमन्मस्तकस्रस्तदाम्नः । द्राग्भूयो भूषयद्भिः शुचिरुचिनखरुङ्मरीकर्णपूरैः पापाकूपारवारिप्रतरणपटुतां तीर्थकृद्व: स दध्यात् ।। २२ ।। सर्वोर्वीभृत्प्रबर्हप्रणतिपरशिरःश्रेणिचूडामणिद्यु- त्संदोहालीढमूढम्रदिम नखमयूखोल्लसत्केसरालि । वलग्व ङ्गुल्यग्रपत्रं सकमलममलं पादयुग्मं यदीयं भात्यादित्योस्रमिश्रं नलिनमिव स वोऽवद्यमर्हन्हिनस्तु ॥ २३ ॥ प्राज्यप्रौढप्रमादप्रतिभटनिधनप्राप्तदीप्रप्रतापा- न्प्रोच्चैः प्रीतिं प्रयान्ति प्रतिकलममलानप्राणिनः प्रेक्षमाणाः । १. शेषनागस्य कान्या अशेषया पूर्णया कान्या च. २. सन्तौ विद्यमाना मीना ३. क्षीरसमुद्रात्. ४. पादतलवर्तिनी लाञ्छनरूपां पपा विश्व- म्भरावभूमिवत्. ५. तपश्चरणाभावात्- ६. नरककर्दमे त्रिभुवनरूपं गृह मा पप्त पततु, ७. विधात्रा. ८. सच्चायुक्ततया. १. सह स्वदेन वेगेन यदागः पापं तदेव तिग्मांशुः. १०. महिईत्रासुरतस भ्रातृव्यः शत्रुरिन्द्रतस्यायाच्या अनवद्या योषाः स्त्रियो- ११. श्रुत्संदोहो दीप्तिसमूहः. लाञ्छनरूपा यत्र. सरसः जिनशतकम् । प्रत्ताप्रान्तप्रसादान्प्रणमदसुमतां यत्क्रमान्सत्प्रणम्या- न्प्राणिप्राणप्रियाणि प्रवितरतु जिनः स प्रशान्तप्रयासम् ॥ २४ ॥ उज्जृम्भाम्भोजगर्भश्रितमिति परमेष्ठीयते निष्ठितार्थं त्रैलोक्यत्रासहल्या नरकरिपुतयानन्तमूर्तीयते वः । सद्भूतिभाजितत्वाद्वृषभगतितया चाद्रिजेशायते य- त्पादाम्भोज स सद्यो भवतु भवभयाभोगमिस्केवलीशः ॥ २५ ॥ इति श्रीजम्बूकविविरचिते जिनशतके जिनपादवर्णनं नाम प्रथमः परिच्छेदः । कोषाढ्येऽपि द्रढिम्ना विरहितमहिमन्युत्कटे कण्टकैर्मे सक्ते व्यक्तं जडौघै: सुचिरमनुचितं सद्रजस्यत्र वस्तुम् । पद्मं पद्मा स्वसभेत्युदितविपदिव प्रोज्झ्य यत्रानुलिल्ये छेका दानच्छलेन त्रिजगदधिपतेर्व: पुनीतात्स हस्तः ॥ १ ॥ प्रध्वस्ताशर्मघर्मप्रणयनविधये व्यापृतः प्राणिपूगा- न्कालव्यालावलुप्तौ प्रतिसमवसृतौ भ्रान्तिमन्तस्तनोति । यः संहर्तुं विषार्तिं किमयमिह चलत्येवमाखण्डलस्य ख्यातं सौख्यं स दत्तां जिनेवृषभनरेन्द्रस्य पाणिर्द्रुतं वः ॥ २ ॥ भाभिर्योऽम्भोजशोभामभिभवति भृशं बिभ्रदुद्भूतभव्यं भूषाभावं सभाया भवभवभयभिद्भूरिभीभारभाजाम् । भर्तुर्भद्रस्य पाणिस्त्रिभुवनभवनोद्भासनोद्भूतभूते- र्भूयाद्भूत्यै स भूतेर्ऋभुविभुविभवाधीशभूभर्तृभाजः ॥ ३ ॥ कल्पान्तेऽनल्पभासः प्रलयमसुमतां यूयमुच्चैर्विघातं कृत्वायुर्गोत्रनानामपि कुरुत किल द्वादशैकत्वमेत्य । नित्यं पञ्चापि कुर्मो वयमिति हसितार्का इवोद्भान्ति भासा प्रज्ञप्तौ यन्नखाः स्तात्स शिवशतकरोऽर्हत्करः प्रोल्लसन्वः ॥ ४॥ १. शिष्टाशेषप्रयोजनम्. २. केवलं सर्वव्यपर्यायग्राहकमप्रतिहतं झाने तहतामीशो जिना, ३. चतुरा. ४. सांवत्सरिकमहादानव्याजेन. ५. जिनकृषभ एवं नरेन्द्रो विष- वैद्यः ६. साथम्याः, ७. ऋभवो देवासतिभुरिन्द्रः, विभवाधीशः कुबेरः. भूभा राजानः तान्भजते तस्या भूले.. ८. जिनपक्षे प्रष्टो लयो मोक्षः ९. व्याख्यायाम्। काव्यमाला । गीर्वाणैर्निर्मितोर्वीरुहबहलदलश्यामलाभीशुजालै- र्जीमूतैः प्रावृषेण्यैरिव नभसि सदस्यातते यः समन्तात् । विद्युत्पुञ्जायमानः स्फुरदरुणरुचा दृश्यते त्रैदशैर्व- स्त्राणाय स्तात्स हस्तस्तनुरहितजितः साधु बोधोद्यतोऽद्य ॥ ५ ॥ चञ्चञ्चक्रोऽप्यकृष्णो विवरयुततलोऽप्यस्तरन्ध्रानुषङ्गः सत्कार्योऽप्यस्तकृत्यो विलसितकमलोऽप्या दोषाकरो नो । यः सार्वज्ञः सुपर्वा शय इति महिमापीक्ष्यते नो विरोधी वध्यात्स ध्यानवृद्धेर्निधनकरमरं वस्तु वः स्तूयमानः ।। 11 द्वारं व्यस्तार्गलं वः परमपदपुरो दर्शयाम्येत यूयं श्रोतॄञ्जन्तूनिवैवं गदितुमतिगुरुनाम्यतीतस्ततो यः । पर्षद्युत्कर्षवत्यां प्रवचनकरणानेहसि श्रीजिनस्य स्ताद्धस्तो वः प्रशस्तः प्रणिपतनकृतावादृतानां स वृद्ध्यै ॥ ७ ॥ वज्रिन्वज्रं समस्ति प्रकटतरमिदं मेऽपि मा गर्वितोऽभू- र्यक्ष क्षिप्रं जहीहि त्वमपि निधिमदं शङ्खपद्मौ यतः स्तः । अम्लानौ मय्यपीमाविति परिहसतीवोच्छलद्भिर्मयूखै- र्व्याख्यायां यन्नखेभ्योऽखिलसुखवदसावस्तु वो जैनहस्तः ॥ ८॥ जेताजावूर्जितौजा विजयिजविगजभ्राजि सद्वाजिराज्यां तेजोभाजां जैजौर्जाविजितजनजितां स्वौजसा दुर्जनानाम् । योऽन्यब्जोऽजातजाड्यो जगति जिनशयो जम्भजित्पूजितौजा अज्यायो जन्मवीजं जयतु सरजसौर्जित्यजित्सोऽञ्जसा वः ॥९॥ भित्त्वा दोषानुषङ्गं जनवनजवनं बोधयामीद्धधाम्ना- मोत्कर्षं सूर्य कार्षीरिति मम पुरतो दर्पतो हन्त यत्तत् । १. उरिहोऽत्राशोकः. २. त्रिदशसमूहै.. ३. मदनजयिनः. ४. हस्तपक्षे विचराः पक्षिश्रेष्ठा ईसादयस्त चिह्नाङ्कितः. ५. सत्काराहः. ६. कमलो हरिणः. ७. शयो हतः. है कुबेर. ९. 'जजि युद्धे । जजन्तीति जना योधास्तेषामूर्जा बलं तेनाविजित जन जयन्ति ये देषाम्, १०. न विद्यते न्यन्ज उपतापो रोगो वा यस्य. ११. हस्तः १२. अश्रेष्टम्. १३. कर्म. १४. सह रजसा वर्तन्ते सरजसाः सरागा अशानिनो मिभ्या दृष्टयस्तेषामोर्जित्यं बलवत्त्वं जमतीति सः, १५. जनरूपकमलवनम्. ८. जिनशतकम् । साक्षाद्दोषं श्रितोऽपि श्रमणगणगुरोर्बोधयेऽहं महिम्ने- तीव प्रेङ्खन्सदोऽन्तः प्रणिगदति करो यः स वो वामहास्तु ॥१०॥ स्निग्धं मूर्ध्नोऽलिनीलद्युतिकचनिचयं प्रोद्धरन्धैर्यराशे- र्निर्मूलं लोकभर्तुचरणकृतमते ति यः पाणिपद्मः । अन्तर्वर्त्यतिकृत्किं शिति कलिलमिदं कर्पतीहैष एवं देवैरारेक्यमाणो भवदशिवशताशर्म स स्राक् श्रृणातु ॥ ११ ॥ दक्षं दीक्षां जिघृक्षोर्मदनशरनुदो देहतो दीप्रदीप्तीः सत्वर्णालंकृतीर्यः सरससुमनसः कल्पवृक्षादिवोच्चैः । पाणिः प्रोत्तारयन्वः सरसिरुहरुचिः सन्नखांशुप्रसूनो मालाकारायतेऽसौ स्यतु कुमतिमलं प्राणमत्कंधराणाम् ॥ १२ ॥ यः कालः शोणिमानं दघदपि निधने कल्मषस्योल्बणस्य द्रष्टॄणां दृष्टमात्रः सरुगपि नितरां नीरुगात्माप्तसक्तः । लक्ष्मीदानेन तृष्णाछिदपि तनुमतामग्रहस्तोऽजडोऽसौ मुष्याद्दोषानशेषान्कलुषितवपुषां वो विरुद्धात्मकोऽपि ॥ १३ ॥ मय्यप्यस्मिन्स्मयारौ प्रभवति भुवने भूभृतः किं कराणां पातैरुत्तापयन्ति क्षितिमितकि भवद्भूममावादिवालम् । रक्तः शक्त्या स्फुरन्वो निगडित इव यो भूषणालानकाले व्याधेरव्यात्स पाणिः सदुपलवलयामुक्तितो मुक्तिभाजः ॥ १४ ॥ मा भूदन्तःपुरस्त्रीकठिनकुचभिदाकारिणी रोंगभाक्त्वा- त्सक्तैतस्मिन्नखाली स्मरविकृतिहृतः सर्वदास्येतकीव । ५. कृष्णम्. १. भुजम्. . २. जिनस्स. ३. प्रतिकूलहन्ता. ४, चरणं प्रव्रज्या. ६. पापम्. ५. आशयमानः. हिनस्सु. ९. शीघ्रं यथा स्यात्. १०. जिनस्प. ११. प्रकर्षगानमन्ती कंधरा येषाम्. १२. आप्तो जिनस्तस्य सक्तस्तदीमः, १३. गर्व- नाशके, : १४. इतकि इति अकजागमः, १५. भवाजायमानो भूमा बाहुल्येनं मी भाम: कोषखमादिच. १६. मणकाले, १७. सन्तः शोभना उपला मणयो येषु तानि वलयानि वेषामामुक्तिः परिधानं ततः. १८. जिनस्य. १९. रागो मन्मथासतिरपि. २०.इतीच। प्राग्वदकजागमः काव्यमाला । मुद्राभिर्मुद्रितोऽलंकरणविधिकृता वज्रिणार्हत्करो यः सोऽहांस्यद्व्राय हन्तुं प्रविहितविनतेर्भक्तिभाजो जनस्य ॥ १५ ॥ स्रष्टाजस्रं श्रियो यः शिवपुरपथिकासद्महानोचितायाः कोषाधीशैर्निशान्ते नमुचिरिपुगिरासद्महा नो चितायाः । आनीयानीय नित्यं परमगुरुकरः पर्वशालीक्षयाय- प्राप्तेर्हेतुः प्रधानो भवतु स भवतां पर्वशालीक्षयाय ॥ १६ ॥ युक्ता यस्मिनृजिभ्ना मसृणितपरुषोऽग्रेऽर्धचन्द्रायमाणा- नङ्गुल्यः संदधानाः सघृणिनखमणीन्द्राघिमोद्धस्वरूपाः । पुष्पेषोर्निर्जितस्येषव इव विषमाः संग्रहीता विभान्ति क्षेपीयः पातकान्तं प्रजनयतु स वः पाणिरर्हद्भुजस्थः ॥ १७ ॥ ब्रध्नेनापीद्धधाम्ना परिहृतमिदमालोक्य पातालमूलं सव्यालत्वात्करालं तिमिरभरभृतं भीरुणेवेति यस्य । वीक्ष्यन्तेऽधो विविक्षन्त्य इव ननु भुवो भ्राजनार्थं नखाभा: स्रस्तस्य ध्यानकाले दलयतु दुरितं वः स जैनेन्द्रपाणिः ॥ १८ ॥ यो नान्वीतो जडिन्ना नयति न कुमुदं नंदधुं दीप्यमानो न ज्योतिर्ज्यानियुक्तोऽहनि मलिनतमं लक्ष्म धत्ते न मध्ये । सोल्लासं नो नदीनं जनयति लभते धाम दोषोदयान्नो सोऽपूर्वो यन्नखेन्दुश्चरमतनुशयो योग्यतां वो युनक्तु ॥ १९ ॥ अर्थव्यक्तिं विविक्तां विदधति बहवो यां करा हारिदश्वा विश्वस्मिंस्तीव्ररूपाः प्रशममितवतैकाकिना सा मयापि । १. शिवपुरपथिकाच तेऽसमानोऽजगारास्तेषां हानं त्यागस्तस्योंचिताया योग्यायाः, २. इन्द्रवचनेन. ३. असमहा नो किंतु सहाः सत्तेजीविशिष्टः कर:. ४, पूरितायाः. ५. पर्वयुकः क्षया रचनेनाम्यस्य शुभावहविधा प्राप्ततिः .. पाण्युत्सवानि श्यन्ति तनूकुर्वन्तीति पर्वशा : विपक्षास्तेषामाली पस्तिस्याः क्षयाव... ऋभुत्वेन. लक्ष्णप्रन्थयः १०. दीर्घत्वेन प्रशस्वरूपाः ११. पश्वसंख्याका १२. क्षित्रतरम १३. कृत्सितां मुदम्, १४. समुद्रम् (पो) दीनं न. १५, बरमतनुर्निमस्तस्य हवी. जिनशतकम् । प्रोच्चैर्निप्पाद्यतेऽमुं सयमिव वहता धार्यते वैजयन्ती येनासौ युष्मदाधेर्वधकरणपटुर्बुद्धसक्तः करोऽस्तु ॥ २० ॥ श्रद्धालोर्यो विधत्ते विविधबुधधृतीरेधयन्बोधवृद्ध्या धैर्यं धामर्द्धिमिद्धां धनमपनिधनं शुद्धबुद्धिं धरित्रीम् । व्याधिध्वंसं पुरंध्रीर्जितविबुधवधूधर्मवृद्धेः समृद्धिं धर्मोक्तौ वः स धत्तां धियमधिकधृति प्रोद्धृतो बौद्धहस्तः ॥ २१ ।। ज्येष्ठासक्तं सचित्रं गुरुमहिमपुनर्वस्वपोढात्मकं नो नित्यं सत्कृतिकं यज्जनितवृषतुलं व्यक्तमीनं सकुम्भम् । व्योमेवाभाति किं तु प्रविरहितमलं शून्यवृत्त्यात्युदात्तं छिन्द्यात्कृच्छ्राणि तद्वः सुमृदु करतलं निर्वृतेरीश्वरस्य ॥ २२ ॥ दारिद्याद्रेर्महेन्द्रप्रहरणसमतां यो विभेदे बिभर्ति प्राकाश्ये विश्ववेश्मोदरविवरगतस्यार्थजातस्य दीपः । हस्तालम्बोऽवलम्बो गुरुतरनरकागाधकूपप्रपाते पातात्पातात्स हस्तस्तमसि तततमे वो विनेतुस्त्रिलोक्याः ।। २३ ॥ यः प्रोद्यद्विद्रुमद्युत्कररुहमणिमन्मस्तकाङ्गुल्यहीन्द्रः सत्सत्त्वोऽपारिजातः पुनरसुरतनुः साधुमुक्ताफलश्रीः । चक्रे हस्तः समुद्रो दशशतनयनेनोन्मुंदा मूर्ध्नि मेरोः कृच्छ्रोच्छ्रायं छिनत्तु प्रतिहतसुषमं वः स जेतुः स्मरस्य ॥ २४ ॥ सत्स्कन्धाबद्धमूलावृजितमुजलतालममम्लानरूपं बिभ्रद्बन्धूककान्तिं करतलमचलं पल्लवभ्रान्तिभाग्भिः । मया सह स्पर्धेत्येवंरूपा. २. बुद्धो जिनस्तत्संबन्धी. ३. धर्मोको धर्मकथने प्रोद्धृत उभ्वीकृतः. ४. ज्येष्ठेषु बुद्धेष्वेवोपदेशार्थमासक्तम्. ५. शङ्खचक्रादि चित्रसहितम्. ६. गुरुमहिमा यस्य. ७. पुनःपुनरपि वसुना तेजसा अपोढात्मक रहितात्मक नो. ४. सती शोभना कृत्तिश्चर्म यस्त्र. ९. वृषतुलामीनकुम्भा -रेखात्मका:. १०. शून्यवृत्त्या अलमल्यर्थ प्रविरहितम्. व्योमपक्षे तु ज्येष्ठांचित्रागुरुपुनर्व- सुकृत्तिकावृषतुलामीनकुम्भशब्दाः प्रसिद्धार्थाः, व्योम शून्यं भवति. ११. अस्खलितः, .१२. रक्षतात. १३. अपगतशत्रुसमूहः पारिजातरहितच. १४. असूनातीत्यरा प्राण- प्रदा तनुय॑स्य । पक्षे सुरारहितदेहः. १५. मुद्रासहितः सागरश्च., १६. उद्तहर्षेण, १७. अजिता सरला. १. जयपताका का काव्यमाला । मौग्ध्यात्सारङ्गशावैर्वनगहनभुवि ध्यानवृत्तेर्विधातुः सिद्धेर्लेलिह्यते यत्तदवतु पतनादापदन्तः सदा वः ॥२५॥ इति श्रीजम्बूकविविरचिते जिनशतके जिनहस्तवर्णनं नाम द्वितीयः परिच्छेदः । मल्लक्ष्म्या क्षिप्तदीप्ति प्रलपदलिरवैर्वारिणीन्दीवरं वो मङ्क्तुं शक्त्या वियुक्तं सदलमपि जये वाञ्छतीत्युच्छलच्छ्रि । हर्षोत्कर्षात्प्रफुल्लं किमिदमिति जनैः कल्प्यतेऽनल्पधीमि- यच्चक्षुर्वीक्ष्यमाणं क्षणमहितहतिं तत्तनोत्वाप्तवक्त्रम् ॥१ भास्वान्मास्वानपि स्वैर्घृणिभिरनणुभिर्यत्तमोऽनुत्तमं नो नेता नेतुं तनुत्वं तदतनिभ मनो मोहयन्मानवानाम् । मुष्णद्धिष्ण्यं गुणानामगुणमपि मुखं खण्डितामूर्तिकीर्ते- स्तथ्यं पथ्यं प्रथीयः प्रदिशतु दशनामीशुभिः शोभितं वः ॥ २ ॥ यस्य स्यादन्तरात्मा कलितमलिनिमा चञ्चलश्च स्वभावा- त्तुल्यार्द्धि स्पर्धयान्यं क्रमत इतिसहीतीव धात्रा व्यधायि । मर्यादार्थं यदन्तर्निहितनयनयोः सेतुबन्धायमानो नासावंशो जिनास्यं दिशतु शमशनैः शाश्वतं तद्भवद्भ्यः ॥ ३ ॥ सोत्कण्ठाः कण्ठपीठोल्युठितजरठरुक्तारहाराभिरामा बिभ्रत्योऽदभ्रमूर्तिस्तनभरमबलाः स्वर्भवो याः समायुः । ध्यानध्वंसं विधातुं विकृतिमकृत यत्प्रत्युत प्रेक्ष्यमाणं तास्वेवास्यं जिनस्य प्रणुदतु तदधं वः स्वरूपश्रियैव ॥ ४ ॥ स्पष्टं जुष्टं ललाटं विकटतरमतिस्निग्धलम्बालकान्तै: कान्तं शान्तं दृशां शं दिशदनुकुरुते दृश्यमानाङ्कपङ्कम् । यस्योद्यत्यार्वणैणाङ्कनशकलमलं तद्भवद्भाग्यपुष्टिं द्वेष्टुर्दुष्टाष्टकर्मद्विष उपचिनुतादास्यमस्यत्तमांसि ॥ ५॥ १. सदलं सपरिकरमपि. २, आप्तस्य जिनस्य मुखम्. ३. समर्थः. ४, अगुणं तमोगुणादिरहितमपि गुणानां सौन्दर्यादीनां धिण्यम्. ५. अण्डिता अमूर्तेः कामस्य कीर्तिर्येन तस्य जिनस्य. ६. अतिशयेन पृथु. ७..एव... मो. सुखमा ९. शीघ्रम्, १०. गौत्पश्चाः ११. समागताः, जिनशतकम् । दर्पं कंदर्पशत्रोष्टसिति भगवता भ्रंशयित्वा यदाप्तं क्रोधाद्वेषा विधायोद्धृतविततगुणं कार्मुकं तत्किमेतत् । आस्ते न्यस्तं लसयुगलमिति नृभिर्भाव्यते यत्र वक्त्रं तद्रष्टुर्विष्टपान्तर्गतनिखिलपदार्थाननर्थं हताद्वः ॥ ६ ॥ यत्कान्त्या त्याजितश्रीः क्षितिपतिरिव सत्कोषपत्रोरुदण्डै- राढ्योऽपि क्षीणदार्ढ्यो वसति वनभुवि व्रीडयेवाब्जखण्डः । तन्मौनीन्द्रं विनिद्रं स्फुरदधरदलं कण्ठनालोपलीनं दृग्भृङ्गासङ्गि गुर्वीं ग्लपयतु विपदं सन्मुखं युष्मदीयाम् ॥ ७॥ शान्तं श्वेतांशुशोचिःशुचिदशनमैशं स्यादृशां दृश्यमानं विश्वक्लेशोपशान्तं दिशदतिविशदश्लोकराशि प्रकाशम् । निःशेषश्रीनिशान्तं शरणमशरणे नाशिताशेषशङ्कं दिश्याद्वः शोभिताशं शिवमुपशमिनामीशितुः शश्वदास्यम् ॥ ८॥ दुष्टारिष्टानि दृष्टेऽप्यकृतविकृतिकान्येव निर्नामकानि क्षीयन्ते दक्षमक्ष्णां प्रविकसनकृति प्राणियूथस्य यत्र । नैशानीवांशुमालिन्यलिकुलमलिनान्यन्धकाराणि बन्धो- रूर्ध्वाधोमध्यलोकश्रितजनसमितेरास्यमस्यत्वघं तत् ॥९॥ व्यालम्बालोलनीलालकजलदयुजो राजमानाद्धिमानी- शुभ्रैर्दन्तैः सरदन्तैर् र्वरविवरभूतः प्रस्फुरद्गण्डशैलात् । यस्माद्गौः शुद्धवर्णा प्रभवति सुमनोमानसं नन्दयन्ती तज्जैनेन्द्रं हिमाद्रेरिव दिविजनदी वो नुदत्वास्यमेनः ॥१०॥ दुर्बोधो दुविधैर्यः प्रवररदमणीन्धारयन्मध्यसंस्था- नस्तश्रेष्ठौष्ठमुद्रो व्यसनशतशमप्रत्यलावाप्तिरुच्चैः । १. मुनीन्द्रसंबन्धि, २. न शमशं दुःखम्. ३. स्पष्टतरयशःसमूहम्. ४. दन्ता अग्रे निर्गताः पर्वतैकदेशा अपि. ५. सत्पर्यन्तैः. ६. विवरं मुखान्तरालं गुहाच. ७. गण्डा- वैव शैलाविति मुखपक्षे. ८. गङ्गा. ९. भाग्यहीनैः. १९. व्यसनशतशमे प्रत्यला समर्थी अवाप्तिर्यस्य सः. काव्यमाला सुप्रापः प्रायशोऽस्मिञ्जिनवदननिधिर्बुद्धतत्त्वैः सुतत्त्वै- स्तत्त्वार्थं सत्वरं वस्त्वरयतु स गुरुर्बोद्धुमध्यामरूपम् ॥ ११ ॥ किं बिम्बं पद्मबन्धोर्नहि दहनमहस्तन्मनाग्नेदमिन्दो- स्तर्हि स्यात्सत्कलङ्कं तदपि न विकलं लाञ्छनेनैतदेवम् । दृष्ट्वा द्वेष्टुर्बलस्य प्रमुदितहृदयास्तर्क्यन्तेऽतिमुग्धा वध्वो मूर्ध्न्यद्रिभर्तुर्यदजितलपनं वस्तदेनस्तृणेढु ।। १२ ॥ मान्ये मान्येन कारि स्वदृगशुभतरात्रेतिकृष्णातिकृष्णा चक्रे चक्रे दिशां यत्सिततरयशसि भूलतारालतारा । रक्षारक्षालिनीवेत्यवहितविधिना यत्र पापात्त्रपापा- दव्यादव्यापदास्यं तदमरणगुरोर्वः सदन्तं सदन्तम् ॥ १३ ॥ वक्षस्याधोक्षजे श्रीः परिवसति सदेतिप्रसिद्धिं वृथार्था- मत्यर्थं भावयन्तोऽभिलषितविभवावाप्तितः कल्पयन्ति । सांक्षाल्लक्ष्मीरिहास्तेऽनवरतमिति यद्दर्शने याचकौघा- स्तद्वक्त्रं वैतरागं गुरुगदगहनध्वंसनाद्वो धिनोतु ॥ १४ ॥ श्रीमत्पौरंदरं दृग्नलिनघनवनं वानमप्यन्यदीप्ति प्रत्यक्षत्वेक्षणेन श्रवणपरिकरः स्वातिरक्तो बुधप्री: । स्वाभिर्यो दीधितीभिः कुरुत इतितरामाचरन्नप्यचण्ड- श्चण्डांशोः कर्म धर्माधिपलपनविधुर्वो विरुद्धं स वध्यात् ॥ १५ ॥ सद्बाणं सालकान्तं शिशिरधनतरच्छायमन्तर्द्विजानां राज्यापूर्णं सदन्तच्छदलसदसिकं काननं वाननं वः । १. प्रकटतरम्. २. दाहात्मकतेजोविशिष्टम्. ३. इन्द्रस्य. ४. अजितस्य जिनस्य ५. हिनस्तु, ६. कृष्णादप्यतिकृष्णा. ७. दिशां समूहे यद्गच्छत्सिततरं ८. कुटिलकनीनिका हक. ९. अरक्षा न विद्यते अन्या रक्षा यस्याः सा रक्षा. १०. अवहितेन धात्रा. ११. प्रपामापयति प्रापयति तस्मात्. १२. निरुपद्रवम्- १३. जिनस्य. १४. दन्तैः सहितम्.. १५. शोभनप्रान्तम्. १६. म्लानमपि. १७. प्रत्यक्ष- स्वेन यदीक्षणं वेन. १८. श्रवणौ कौँ श्रवणं च नक्षत्रम्.. १९. शोभना तिर्गतिः २०. बुधान्प्रीणयति. २१. अतिशयेन. १२. मुखपक्षे बाणः शब्दा. २३. दन्तानां पक्षिणां च पङ्गया. २४, इवार्थे वा. लपनं मुखम्. यशो यस्य. जिनशतकम् । संतप्तिं सप्तसप्तेरव विषमगतेरागसोऽतीव गुर्वी- मुन्मूल्यान्मन्मथानुन्मथितमुनिगणप्रष्ठकण्ठस्थलस्थम् ॥ १६ ॥ यद्यप्यन्तर्न धत्ते स्थितिमयममदो नस्तथाप्येष सेव्यो भव्यत्वात्सर्वदोर्व्यां बहिरपि निरतैः पूर्वपृक्तेरितीव । लग्नो रागो गरीयस्यधरवरमणौ यत्र चित्रातिचण्ड- त्रासात्संसारतो द्राङ्मृतिजनननुदस्त्रायतां वस्तदास्यम् ॥ १७ ॥ दैवान्मालिन्ययोगेऽप्यतिचपलतया योऽवदातानुयातः पार्श्वस्थारक्तवर्णो भवति स लभते भूरिशोभां सुवृत्तः । स्थैर्यं लब्धा समाधौ ब्रुवदिव युगलं तारयोर्लोचनान्त- र्यत्रैवं राजते तन्मुखमुपशमयत्वार्हतं गर्हितं वः ॥ १८ ॥ बाहुश्रुत्यं दधद्भिर्बहुधवलगुणः संगतो गीयते यत्स्या- दर्थानर्थदर्शीत्यवितथमिव तत्कर्तुमालक्ष्यतेऽक्ष्णोः । कर्णाभ्यर्णोपसर्पि द्वितयमुपवद्राघिमाणं यदीयं योगीशस्याननं तच्छकलयतु कलां काश्मलीं हेलया वः ॥ १९ ॥ राजीव त्वं निजर्द्ध्या जयसि बहुरजः सत्कथं कथ्यतां मा- मृक्षेश क्षीयमाणस्त्वमपि किल मया स्पर्धसे सार्धमेवम् । सद्गन्धश्वासलुब्धभ्रमदलिपटप्रोच्छलद्राणतो य- द्वक्तीय व्यक्तमक्तान्स्नपयतु रजसा वस्तदर्हन्मुखाब्जम् ॥ २० ॥ यत्सौम्यत्वात्स्वकीयां क्षरदमृतरसां सौम्यतां न्यूनवृत्तिं व्यालोक्यालोकिताशः कृशतनुरविशत्स्वश्रियोऽन्तर्द्धिमिच्छुः । स व्रीडत्वादिवेन्दुर्मृडविकटजटाजूटरौद्राटवीं वो यच्छत्वच्छिन्नवाञ्छं सुषममितमृतेराननं तन्मनोहृत् ॥ २१ ॥ लावण्यार्ण:प्रपूर्णं चलहगनिमिषं राजहंसोपजीव्यं भ्राम्यद्भ्रूयुग्मभङ्गं त्रिदशमुनिगणासेवनीयं प्रसन्नम् । १. पूर्वसंवन्धात, २. अरुणत्वं मानसो विकारश्न. ३. निकटस्था अनुरका वर्ण ब्राह्मणादयो यस्य. ४. शब्दता. ५. रजसा पापेनाक्तान् लिप्तान्,' ६. शोभनम् . ७. गतमरणस्य जिनस्य. काव्यमाला । सच्छङ्खं मानसाह्वं सर इव तरसा मानसस्यातनोति प्रह्वत्तिं वीक्षितं यत्तदरिविहतये वः शमीशास्यमस्तु ॥ २२ ॥ सेवां कर्तुं किमेतौ मिहिरहिमरुची पार्श्वयोरेतदात्त- स्वश्रीलिप्साकुलाङ्गाविति मनसि सतां शेमुषी प्रादुरस्ति । निर्वर्ण्याकीर्णदीप्तिप्रतिहततमसी कुण्डले गण्डलग्ने यत्सत्कर्णापिनद्धे नयतु शिवपदं तन्मुनीन्द्राननं वः ॥ २३ ॥ अम्लानं मौलिमालोल्ललितकपिलरुग्धूलिलुब्धालिजालं व्यालोलारालकालालकममलकलालाञ्छनं यद्विलोक्य । लेखाली लालितालं प्रबलबलकुलोन्मूलिना शैलराजे प्रह्वन्ना लीलया वो दलयतु कलिलं लोलदृक्तज्जिनास्यम् ॥ २४ ॥ यद्वन्नासत्ययुक्तः सुरवरदयिताख्यातिमांस्त्वं पवित्रो गोमृद्गोत्रस्य हन्ता बलभिदहमपि त्वत्समानं तथैव । तस्माद्दर्पावलेपं जहिहि हरिमितीवाहसत्सस्मितैर्य- त्तद्वो द्वन्द्वानि विद्वद्वरगुरुवदनं सुप्रसन्नं पिनष्टु ॥ २५ ॥ इति श्रीजम्बूकविविरचिते जिनशतके जिनमुखवर्णनं नाम तृतीयः परिच्छेदः । ब्राह्मी ब्रह्माधिभर्तुः कृतरतिरसकद्वैबुधानां विशुद्ध्या गुर्वी भास्वत्सुवर्णावनरुचिखचिता चारुचामीकराद्रे: । चूडा वा रोचमाना दिवि दिवसपतेर्भानुसीमानमुच्चै- रुल्लङ्घ्यालङ्घनीया बृहदवमवने वन्यवह्नी यतां वः ॥ १ ॥ १. परितोषम्. २. एतेन मुखेन आत्ता गृहीता या खनीः सूर्याचन्द्रमसोः स्वकीया मोमा तस्या लब्धुमिच्छा तया आकुलमों ययोः. ३. विलोक्य. ४. अमल- कलः पूर्णिमाचन्द्रस्तस्वासमन्तालाञ्छनम्. ५. देवपतिः. ६. अलर्थ ललिता. ७. इन्द्रेग. ८. मेरी. १. पविं वनं त्रायते पवित्रः. १०. गोत्राख्यस कर्मण इति जिनपक्षे. ११. बलं संवहनाख्यं कर्म. १२. सकलोपद्रवान. १३. वाणी. १४. ब्रह्म परमपदं तस्याधिमा जिनः. १५. देवसमूहानाम्. १६. अबने रक्षणे या सन्दिर, मेमबहाभक्षे तु वनस्य सचिस्तया खचिता. १७. सूर्यस्य ' किरणसीमाम्. १८. महतामब- मानों पापानां बने. १९. दावानलायताम्. जिनशतकम् । इन्द्रैर्विद्राणनिद्रं श्रितविधि विबुधैः सार्थक ऋक्षनाथैः सिद्धैः साध्यार्थसिद्ध्यै धुतदिति दितिजैः साधुभिः साधितार्थम् । गन्धर्वैर्गीतगर्भं कृतकरमुकुलैः श्रूयमाणानणीयो जैनी गौर्गौरवं वोऽतनुभुवनकुटीकोटरान्तःकरोतु ॥ २ ॥ या मन्दारैरशोकैः प्रविकचसुमनःशोभितैर्भिक्षुवृक्षै- स्तुङ्गैर्नीरोगमानैः सततमुपचिता भारती वैतरागी । खच्छायाच्छिन्नतापा विधितशुभफलालंकृतारामलेखा- तुल्या कल्याणमाल्यैर्बहुभिरिह तनूर्भूषयत्वाशु सा वः ॥ ३ ॥ यूथैर्या संयतानां सुदृढनियमनान्मोक्षमाकाङ्क्षमाणै- र्गुप्तैः संसृत्यटव्याश्रयणगमनतः संश्रितत्वादितीह । कारागारानुकाराप्यघनतरतमा निर्भया भ्रष्टबन्धा साधीयोधीधनर्द्धेरतिसमधिकतां सा क्रियात्सिद्धगीर्वः ॥४॥ संसारोदन्वदम्भस्यमितिमृतिमहोर्मिण्यगण्योद्भवौर्व- द्युद्भीभे लोमकुम्भीनसविषमतले मज्जतो जन्तुराशीन् । प्रत्यप्रान्तप्रथिम्नि स्मरमकरवति ब्राह्म्यजिह्मखरूपा निर्व्याजं नाव्यते या यतिपतिगदिता सा हताद्वो द्विषन्तम् ॥५॥ नाभीष्टं विष्टपान्तः प्रति चरमचरं प्राणिनं प्राणितव्या- दन्यद्वस्त्वित्यवेत्य स्खमिव तदपि भो रक्षता क्षुद्रभावाः । भद्रं भोक्तं विमुक्त्यां यदि मतिरिति याकर्ण्यते कर्णरन्तध्रै: सा श्रीयोगीन्द्रगीर्वः प्रबलयतु बलं कालमल्लं विजेतुम् ॥६॥ द्रव्यादेशेन नित्यं यदितरदपि तत्पर्ययादेशतोऽस्मि- न्वस्त्वेवं यैकमेव प्रकटयति नयद्वन्द्वतो द्विप्रकारम् । १. साध्यस्यार्थस्य सिचै धुता दितिः खण्डनं यत्र. २. मन्दं भारं अरिसमूहो येषाम्. ३. नीरं पानीयं तस्यागमः प्राप्तिस्तेनानाः प्राणा येषां तैः; भिक्षुपक्षे तु रागमा- नाभ्यां रहितैः. ४. उपवनराजीसमाना. ५. संयतास्तपखिनो बद्धाच. ६. अमितयो मृतयो मरणान्येव महान्तस्वरमा यत्र. ७. नौरिवाचरति. ८.या वागस्सिमगति एकमेष वस्तु द्विप्रकार द्विमेदं प्रकटयति प्रतिपादयति । कुतः । नयद्वन्द्वं नययुग्म व्यास्तिकनयः पर्यायाखिकनयश्च तस्मात् । एवमित्यनेन प्रकारेण । अन्सुदादिवस्तु द्रव्यादेशनयापेक्षया निलं तत्पर्ययादेशत इतरदनित्यम्. काव्यमाला। कुमाहोग्रग्रहास्यापतिततनुभृत्स्तोममुन्मोचयन्ती चेतोभूप्रच्युति वः सुमतियति पुरोगस्य सा वाग्विवेयात् ॥ ७ ॥ निर्दोषा सन्निशीथाप्यक्तिथरचना सत्यहीनापि नित्यं सद्गुप्तिर्मोक्षदापि श्रुतयममहिमाप्युनतासत्कृतान्ता । द्विष्टार्था सार्थकापि स्खलितपरमताप्युन्नतासत्तमाया- मारोप्यात्सा पदव्यां प्रशमिपरिवृढब्राहयलं वोऽविलम्बम् ॥ ८ ॥ सत्या सत्यानताले तनुमति भविका सर्वदा सर्वदाग- स्तानेऽस्तानेकशर्मण्यपि विनिपतिते स्तूयमानीयमाना । नाशं नाशतितार्था भवतु कविशतैः पूरिताऑरिताशा गौर्वा गौर्वामपके मुनिपलपनभूर्वः सैदावासदावा ॥ ९ ॥ वाचो वोऽर्चामचिन्त्याचलचरणरुचेश्यूचुरन्मा चिराया- स्युच्चैस्ताश्चोरयन्त्यो रुचिमतिशुचयो नीचवाक्तारकाणाम् । याश्चण्डाश्चण्डव!रुच इव निचितं चित्तभूध्वान्तचित्या सचेतोम्भोजचक्र प्रचुररुचिचितं कुर्वते चित्रचाराः ॥ १० ॥ श्रोतृन्वृन्दारकादीन्प्रणिहितकरणानादराद्देशनायां संसद्यांसाध सद्यः परिणमति वचोऽईन्मुखान्निर्गतं सत् । तेषां भाषाविशेषिमिव विपदा विभागान्विमिन्ना- खैः खैर्वर्णैः सुवर्ण यदनुगुणयतात्खश्रुतौ तन्मनो वः ॥ ११ ॥ या चारिक्षारयोर्या प्रकृतिपुरुषयोः श्लिष्टयोखोटयन्ती संबधं निर्विबन्धं ललितपदगती रोमरामेव रम्या । सा वः शुक्लाभदेहा दहतु महदपि क्षुद्रपक्षद्रुमाणां -बृन्दं वृन्दारकादीश्वरसभसरसीभूषणा वाग्जिनस्य ॥ १२ ॥ १. निशीयो अन्यविशेषः, २. सती शोभना अहीना च. ३. असम्भविद्यमानः कृतान्तो यमो यस्थास; अन्यत्र सत्कृतान्ता शोभनसिद्धान्ता. ४. द्विष्टोऽर्थी द्रव्यादियया. ५. सर्व दातीति सर्वदा., . . पापविस्तारै. .७. वामपङ्के मिध्यादृष्टिहपकर्दमे नाशमयमाना लाच्छन्त्री: ८. रितां शत्रुतां श्यति सा. ९. सदावासो मोक्षस्तं ददति ते ज्ञानादय- स्तानवाति सा. .१०. मदनान्धकारसमूहेन. ११. पर्यायान्तरमनुभवति. १२. जलमिय, १३. जलदात १४. कर्मजीक्योः. १५. मनोहरवनितेव. जिनशतकम् । गृभुत्वात्तत्त्वगन्धाधिगमविषयतः संपतद्भिः समुद्भिः सद्भिः सद्भिरेिफैरिव मधुररवैश्वारुपक्षः सुदक्षैः । यत्प्राप्य प्राप्यते शं खरिनकरिमदाम्भोवदीप्तं वचो व- स्तक्लेशाश्लेषशोषोपशमकृतिविधि प्रत्यलंभूष्णु भूयात् ॥ १३ ॥ नानावणैर्विचित्रा रुचिरगुणशतैः कल्पितानल्पशोमा शुद्धाधिक्यान्महा; हृदि मुदमधिकं संदधाना ग्रहीतुः । शोटं वः सत्पटीवोत्कटकटुकफलाकार्यशीतस्य गौा- संपर्कात्कुर्वती श्रीसुखमतितनुतात्सा जितोत्सेकमूर्तेः ॥ १४ ॥ प्रोत्खातासंख्यदुःखाखिलजनसुखकृत्खण्डिताखण्डखेदं खनाभा मूर्खमुख्यप्रखलमुखरताशाखिशाखा "विलेखे। ख्याता वाग्लेखसंख्याप्रमुखशतमखाभ्यर्चिता खण्डशो वः संख्यं प्रेङ्क्षन्मनोमूविशिखमुखभिदः खण्डयत्वस्खलन्ती ।। १५ ॥ वर्णैः पूर्णाप्यवर्णा जनपरिचिताप्याप्तलोकानता साराप्युच्चैरेसारा रतिसुखकृदपि प्रास्तकंदर्पदर्पा ।.. या सन्निष्ठाप्यनिष्ठा प्रविदितजगतो भारतीनां रतीनां सा युष्माकं निमित्वं त्वरितमुपदधात्वित्यनेकप्रकारा ॥ १६ ॥ भद्रा द्रोणी समुंद्रे द्रविणवरनिधिग्र्धनायेऽपिधानः खापरत्वानूपपातापदि परिपततां चरी दुर्गमार्गे। युद्धे साध्वायुधश्रीः शशिसमयशसां योनिरीार्यगीर्या सा युष्माकं महाधिप्रधनविधुरताध्वस्तयेऽस्तु प्रशस्ता ॥ १७ ॥ १. इन्द्रगजदानोदकवत्. २. आप्तो जिनस्तस्पेदमाप्तम्. ३. समर्थम्. ४. नाशम् . ५. उत्कटकटुकं फलं यस्य तादृशं यदकार्य दुष्कर्म तदेव शीतं तस्य. मूर्तिर्यस्य । शान्ताकृतरित्यर्थः. ७. छेदने. ८. मोहरूप प्रेम. ९. जिनस्सं. १०. शुक्ला- दिवर्णरहिता. ११. भूमिस्थलोकैः. १२. अभिष्टता. १३. सारो गमनं तदहिता । स्थिरे- त्यर्थः. १४. रतिसुखं कृन्ततीति विरोधपरिहारः. १५. सनिष्पति शरहिता च. १६. भारती वाणी ईनां लक्ष्मीणां रतीनां च निमित्त खरितमुपदधातु. १७. नौका, १८. धनामिलाषेऽपिधानो मुद्रणरहितो द्रवणवरनिधिः. १९. निर्जलदेशगमनापदि खापः शोभनजलम्. २०. रथः. २१. आर्याणां तपखिनामार्यः स्वामी जिनस्तस्य गी:. ६.. जितगी ७० काव्यमाला। भूमानं बिभ्रतोऽपि प्रकटयति झटित्योजसा खेन हानि स्नेहस्योच्चैः पतङ्गप्रभृतितनुमतोऽवन्त्यनित्यत्वशून्या । यान्याहक्षेव साक्षात्कृतनयनपथातीतवस्तुखरूपा दैपी वर्तिः कुवृत्तीरपहरतुतरामर्हतां वागसौ वः ॥ १८ ॥ ज्योतिमैत्रं न यत्र प्रविचरति रुचिनैन्दवी न प्रकाश्यं यद्रासां चित्रभानोरनणुमणिरुचां गोचरे यच्च नैव । वस्तु प्रत्यक्षयन्ती तदपि मुदमितैः प्राप्तरूपैर्नुता या साईद्वारत्यरत्या वियुततनुलतान्त्रः क्रियादक्रमेण ॥ १२ ॥ सालंकारां करोति श्रुतिमति विशेदन्यायरलोद्भवधि श्रीमद्भिार्यमाणं गतमतिविभवैर्दुर्लभं भाखराङ्गम् । सत्चोदात्तवर्ष त्यैपरतविकृतेर्यसुला कुण्डलस्य क्षिप्रं विप्रक्रियाद्वो वचनमुपचितिं चिन्तितानां तदय॑म् ॥२०॥ नाश्रेयांसि श्रितानां न भयतरलता श्रूयते श्रौद्धदेवा- दश्रीणां नाश्रयोऽश्रु सुतिरतिन नवा विस्सा न श्रमो वः । नाविश्रम्मश्रुतिर्न श्रवणकटुवचो यत्र तत्स्थानमीयुः शुत्वा यां श्रीजिनस्याश्रियमभिभवतादौरसौ साक्श्रुतीष्टा ॥ २१ ॥ मिथ्यादृक्पाथसान्त तगुरुविपदावर्तगर्त गरीयः- सर्पकंदर्पसर्प प्रचरितकुनयानेकनकादिचक्रम् । यत्प्राप्य प्रोचरन्ति प्रततमपि भवाम्भोनिधि साधुबन्धं पातासोतायमानं तदवमपतनाज्जैनचन्द्रं वचो वः ॥ २२ ॥ सोन्मुद्भिर्जन्मवद्भिः शिखिभिरिव समाकर्णिता निर्णयन्ती क्लेशग्रीष्मोष्मशोष खमहिमभवनात्संहरन्ती रजांसि । विस्फूर्जनीतिधारानिकरपतनतः प्रावृषा या समाना माँनारेर्माननामाप्यपनुदतु भवस्वाशु सा सूनृता वाक् ॥ २३ ॥ १. पण्डितैः. २. विशदा न्याया नीतय एव रखानि, ३.जिनस्य. ४. यमात्. ७. पापपातात. ८. अपनयन्ती. ९. खकीयमाहात्म्य- भावाद. १. जिनस्य. । ५.जरा. ६. रक्षतात्. वैराग्यशतकम् । लक्ष्मी, दुग्धसिन्धोधरणिधरवराजहुकन्येव मान्या श्यामेशाचन्द्रिकेवाभिनवजलधरादम्भसः श्रीरिवोच्चैः । ध्वान्ताबन्धोरहःश्रीरिव समुदभवद्भारती रंबधीन्द्र द्रोग्धुर्या सा निधेयादधरितविबुधाधीशराज्ये पदे वः ॥ २४ ॥ नाक्षेमं क्षुद्रपक्षात्क्षणमपि लभते संभ्रमेणेह विन- कण्ठे निर्लोव्य शाठ्यं कुदृशमसदृशोद्भासितां अंशयन्तीम् । यां रक्षा वा विवेकी बहुविधविपदा मेदिकां दैन्यशून्या- न्युष्मान्मान्याग्रगेस्थाननवनजशया वागसौ द्राग्विधेयात् ॥ २५ ॥ इति श्रीजम्बूगुरुविरचिते जिनशतके जिनवाग्वर्णनं नाम चतुर्थः परिच्छेदः । समाप्तमिदं जिनशतकम् ।