जीवन्मुक्तानन्दलहरी
पुरे पौरान्पश्यन्नरयुवतिनामाकृतिमयान्
सुवेषान्स्वर्णालङ्करणकलितांश्चित्रसदृशान् ।
स्वयं साक्षाद्दृष्टेत्यपि च कलयंस्तैः सह रमन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १॥
वने वृक्षान्पश्यन्दलफलभरान्नम्रसुशिखान्
घनच्छायाच्छन्नान्बहुलकलकूजद्द्विजगणान् ।
भजन्घस्रोरात्रादवनितलकल्पैकशयनो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ २॥
कदाचित्प्रासादे क्वचिदपि च सौधेषु धनिनां
कदा काले शैले क्वचिदपि च कूलेषु सरिताम् ।
कुटीरे दान्तानां मुनिजनवराणामपि वसन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ३॥
क्वचिद्बालैः सार्धं करतलजतालैः सहसितैः
क्वचित्तारुण्यालङ्कृतनरवधूभिः सह रमन् ।
क्वचिद्वृद्धैश्चिन्ताकुलित हृदयैश्चापि विलपन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ४॥
कदाचिद्विद्वद्भिर्विविदिषुभिरत्यन्तनिरतैः
कदाचित्काव्यालंकृतिरसरसालैः कविवरैः ।
कदाचित्सत्तर्कैर्रनुमितिपरस्तार्किकवरैर्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ५॥
कदा ध्यानाभ्यासैः क्वचिदपि सपर्यां विकसितैः
सुगंधैः सत्पुष्पैः क्वचिदपि दलैरेव विमलः ।
प्रकुर्वन्देवस्य प्रमुदितमनाः संनतिपरो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ६॥
शिवायाः शंभोर्वा क्वचिदपि च विष्णोरपि कदा
गणाध्यक्षस्यापि प्रकटितवरस्यापि च कदा ।
पठन्वै नामालिं नयनरचितानन्दसरितो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ७॥
कदा गङ्गाम्भोभिः क्वचिदपि च कूपोत्थसलिलैः
क्वचित्कासारोत्थैः क्वचिदपि सदुष्णैश्च शिशिरैः ।
भजन्स्नानं भूत्या क्वचिदपि च कर्पूरनिभया
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ८॥
कदाचिज्जागर्त्यां विषयकरणैः संव्यवहरन्
कदाचित्स्वप्नस्थानपि च विषयानेव च भजन् ।
कदाचित्सौषुप्तं सुखमनुभवन्नेव सततं
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ९॥
कदाप्याशावासाः क्वचिदपि च दिव्याम्बरधरः
क्वचित्पञ्चास्योत्थां त्वचमपि दधानः कटितटे ।
मनस्वी निःसङ्गः सुजनहृदयानन्दजनको
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १०॥
कदाचित्सत्त्वस्थः क्वचिदपि रजोवृत्तिसुगत
स्तमोवृत्तिः क्वापि त्रितयरहितः क्वापि च पुनः ।
कदाचित्संसारी श्रुतिपथविहारी क्वचिदहो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ११॥
कदाचिन्मौनस्थः क्वचिदपि च वाग्वादनिरतः
कदाचित्स्वानंदं हसितरभसस्त्यक्तवचनः ।
कदाचिल्लोकानां व्यवहृतिसमालोकनपरो
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १२॥
कदाचिच्छक्तीनां विकचमुखपद्मेषु कमलं
क्षिपंस्तासां क्वापि स्वयमपि च गृह्णन्स्वमुखतः ।
तदद्वैतं रूपं निजपरविहीनं प्रकटयन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १३॥
क्वचिच्छैवैः सार्थं क्वचिदपि च शाक्तैः सह वसन्
कदा विष्णोर्भक्तैः क्वचिदपि च सौरैः सह वसन् ।
कदा गाणापत्यैर्गतसकलभेदोऽद्वयतया
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १४॥
निराकारं क्वापि क्वचिदपि च साकारममलं
निजं शैव रूपं विविधगुणभेदेन बहुधा ।
कदाश्चर्यं पश्यन्किमिदमिति हृष्यन्नपि कदा
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १५॥
कदा द्वैतं पश्यन्नखिलमपि सत्यं शिवमयं
महावाक्यार्थानामवगतिसमभ्यासवशतः ।
गतद्वैताभासः शिव शिव शिवेत्येव विलपन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १६॥
इमां मुक्तावस्थां परमशिवसंस्थां गुरुकृपा
सुधापाङ्गावाप्यां सहजसुखवाप्यामनुदिनम् ।
मुहुर्मज्जन्मज्जन्भजति सुकृतैश्चेन्नरवरः
तदा त्यागी योगी कविरिति वदन्तीह कवयः ॥ १७॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ
जीवन्मुक्तानन्दलहरी सम्पूर्णा ॥