दि.जुलै1, - गुरुः किमर्थम् आवश्यकः। व्यवहारे अपि गुरुः आवश्यकः तर्हि तदपेक्षया दुष्करकार्ये गुरुः नावश्यकः इति कथम्? प्रपञ्चे सुखदुःखं प्राप्तम्, परं समाधानं न प्राप्तम्। तद् वास्तवं सुखं कुत्र प्राप्यते तद् मां कः दर्शयेत् च इति आर्तता यस्य मनसि उद्भूता सः एव गुरुम् अन्विषति। प्रपञ्चः तिख्तः इति अनुभूतं चेदेव शिष्यः भवितुं प्रश्नः। शिक्षितुम् इच्छति सः शिष्यः, यः शिक्षयति सः गुरुः। ‘अहं किमपि न जानामि’ इति मन्यमानः एव गुरुं करोति। ‘अहं राम, राम इति जपं करोमि दोषमार्गेण न यामि च’ तर्हि गुरुः किमर्थमावश्यकः इति केचन पृच्छन्ति। ‘अहं करोमि’ इति भावः मार्गं रुणद्धि। अतः सद्गुरोः आवश्यकता वर्तते। सत्कर्मणः अभिमानः यदि धृतः तर्हि रामस्य विस्मरणं जातं किल। अभिमाननाशं विना रामेण मेलनं न शक्यम्। देवसमीपं गत्वा अपि अभिमानः न गतः, अतः एव भगवान् नामदेवं ‘गुरुं स्वीकरोतु’ इति उक्तवन्तः। सत्पुरुषाणां कृपया व्याधिः गतः अतः तस्य वन्दना न योग्या। शिष्यं यः विषये कर्षति, सः गुरुः कथम्? चमत्कारकर्तारं वयं ‘बुवा’ इति वदामः। बाह्याङ्गैः वयं सत्पुरुषान् परीक्षामहे। सर्वेषु भूतेषु भगवन्तं पश्यति, सः एव सत्पुरुषं वास्तवं परिचिनोति। सत्सङ्गत्याम्आत्मनः मनः यथा परिणमते, तथा सन्तपरीक्षा करणीया। मम चेतः यत्र निर्विषयं भवति तत्र सत्पुरुषाणां स्थानम्। भगवत्प्राप्तेः सिषाधयिषा यस्य वर्तते, सः एव शिष्यः। गुर्वाज्ञां न उल्लङ्घति, गुरुः एव भगवत्प्राप्तेः साधनं च इति यः मन्यते सः सच्छिष्यः। गुरोः परं न देवः, न च धर्मः। केचन कर्नाटकीयाः महाराष्ट्रम् आगताः। ते मराठीं न जानन्ति स्म। अतः तैः कश्चन द्विभाषी स्वीकृतः। तेन ते बहुस्थानेषु आहिण्डन्त। तेषां चिन्ता दायित्वं च तस्य द्विभाषिनः आस्ताम्। तद्वदस्माभिः अपि द्विभाषिना सह इत्युक्ते सद्गुरुणा सह वास्तव्यम्। तस्य वचनानुसारं कर्तव्यं, तस्य कथनानुसारं गन्तव्यम्। तेन परमात्मा मिलेदेव। शास्त्राणि वेदाः च अनन्ताः। तान् पठितुं क्व समयः? सद्गुरुणा कथितं, नवनीतसमं सर्वसाधनानां सारं यद् नामसाधनं तद्, आचरणीयम्। तेन भगवत्प्रेम लभ्येत। विपण्यां अस्मदनुकूलं संयतमूल्यं च वस्तु एव स्वीकरणीयम्। तद्वत् परमार्थसाधनेषु अस्माकं कृते अनुकूलमल्पमूल्यं च उत्तमं साधनं नामस्मरणमेव। तदेव करणीयम् आनन्देन भवितव्यम् च।

      • भगवद्विषये जिज्ञासा उत्पद्यते चेद् भाग्यमेव। एतादृशेण जिज्ञासवा शिष्येण मेलनं सत्पुरुषाः स्वजीवनसार्थक्यमिति मन्यन्ते।******
दि.जुलै2, - गुरुसेवा इत्युक्ते किम्?

साधनापरिश्रमाः कदापर्यन्तं करणीयाः? जपः,तपः,नियमाः,यज्ञाः च किमर्थं करणीयाः? देवप्राप्त्यर्थम्। सः देवः यदि गृहम् आगच्छति तर्हि किमर्थं श्रमाः? अतः साधनायाः वृथा श्रमाः न करणीयाः। अन्यथा तेषामेव अभिमानः जायते, हानिः भवति च। यद् भवति तद् ‘मम इच्छया’ इति विचिन्त्य तस्मिन् एव आनन्दं मन्यन्ताम्। यद् यत् कुर्वन्ति, तेषु मां स्मरन्तु। गुरुभक्तिकरणम् इत्युक्ते किम्? तस्य देहसेवा इत्युक्ते गुरुसेवा इति भवन्तः चिन्तयन्ति किम्? सा न तस्य वास्तवा सेवा। तस्य उपदेशानुसारं वर्तनमेव तस्य वास्तवा सेवा। मम समीपे ये आगच्छन्ति तेषु केचन पुत्रं याचन्ते, केचन वित्तं याचन्ते, केचन रोगपरिहारं याचन्ते। अतः मम सेवां कर्तुम् आगच्छन्ति वा मत्तः सेवां कारयितुम् आगच्छन्ति। मम समीपे आगत्य मनुष्यजन्मसार्थक्यं कुर्वन्तु। भवतामिच्छानुसारं न ददामि इति न, परं तत् कषाये यथा गुडखण्डं, तथा भवेत्। ‘मया सर्वं ज्ञायते’ इति भवन्तः वदन्ति, परं तद् न मनसः यतो हि यः एतादृशं मन्यते तस्मात् पापं भवितुं न अर्हति। यस्य वृत्तिः मया सह एकाकारा भवति सः एव जानीयात् यद् अहं सर्वं जानामि इति। गुरौ अनन्यशरणत्वम् इत्युक्ते तस्य मम च मनसि एकाकारता भवेत्। तेन दैववशात् गुरोः दूरं गच्छेयं चेदपि मनसा तेन संल्लग्नः एव स्याम्। स्वमात्रा सह यथा वदामः तथा मया सह वक्तव्यम्, सर्वं दुःखं कथनीयम्। बहु कष्टेन भवन्तः अत्र आगच्छन्ति परं रिक्तहस्तेन गच्छन्तं भवन्तं दृष्ट्वा मम मनः भृशं दुःखायते। मम समीपे वर्तमानं भवन्तः लौकिके जगति कुत्रापि प्राप्तुं न शक्नुवन्ति, तद् वर्तते भगवतः नाम्नः प्रेम। अखिले प्रपञ्चे वास्तवा विश्रान्तिः नामस्मरणे एव वर्तते। यः मया मेलितुमिच्छति, यः आत्मानं मम इति वदति च सः नामप्रेमी एव भवेत्।

        • नाम्नि प्रेम इत्युक्ते मयि एव प्रेम। ****

.................. दि.जुलै3 – सद्गुरोः कर्तृत्वम्। सद्गुरोः कार्यं किम्? दर्पणे पतितं मलं दूरीकर्तुं सद्गुरुः कथयति। अस्माकं प्रमादान् सः वदति। सः अस्मान् सन्मार्गम् आनयति। स्वप्ने कश्चन तडागे पतति, आक्रोशति च। परं जागरिते सति शान्तः भवति। सद्गुरुः जागरयति। मम किमपि कार्यं न अवशिष्टम् इति येन उक्तं तेन एव वास्तवः गुरुः प्राप्तः। कश्चन सुखासीनः गृहस्थः ‘अहं स्वस्थोऽस्मि।’ इति वदति परं तद् न सत्यम्। यावत्पर्यन्तं मनः परिभ्रमति तावत्पर्यन्तं सः स्वस्थोऽस्ति इति वक्तुं न शक्नुमः। शिष्यस्य भावनाः गुरवे गुरुपदं यच्छन्ति। शरणागतस्य कार्यभारं सद्गुरुः स्वीकरोति। यस्य दृष्टिः रामरूपा सः वास्तवः गुरुः। यत् चिरकालं वर्तते तद् गुरुपदम् इति मन्तव्यम्। वस्तुतः सद्गुरुः इत्युक्ते नाम एव। गुरुणा कथितं यथार्थं पालनीयम् इत्येव साधनम्। देहरूपान् सत्पुरुषान् कोऽपि शाश्वतं न लभते। सत्पुरुषाणां भगवद्ध्यासः एव महत्त्वपूर्णः। बहवः सत्पुरुषैः मिलन्ति, परं सत्सङ्गतेः महत्त्वं न अवगत्य यथा शक्यं तथा लाभं ते न प्राप्नुवन्ति। अस्माकं विहितकर्तव्यानि अस्माभिः सम्यक् आचरणीयानि। वाणिज्यं स्वल्पेन कुर्मः चेद् अग्रे वर्धिष्यते तथैव कर्तव्यं कुर्वतः एव फलाशा सहजं नश्यति। अस्माकं कर्तव्यं सद्गुरुः अस्मान् दर्शयति। सारथिः न वर्तते चेद् स्यन्दनं यथा तथा गच्छति। केवलं ‘ मम यानं वर्तते।’ इति वचनेन स्वामी यानं चालयितुं न शक्नोति। सामान्यं वृषभशकटमपि न चालयितुं शक्नोति।स्वमनसा मनुष्यः यानं चालयति, गर्ते पतति च। सद्गुरुः यानचालकस्य कार्यं करोति; देहयानं सन्मार्गेण चालयति च। भगवदनुसन्धाने निमज्य यानचालके विश्वस्य च निश्चिन्तेन भवितव्यम्। तेन किमपि भयं न वर्तते। स्वदैवे यावद् निहितं तावदेव प्राप्यते इति वृत्त्या इच्छा एव न्यूनीभवति। मनसः एतस्यां वृत्यां सत्यां भगवदिच्छया एव सर्वं प्रवर्तते इति भावं भवेत्। ईदृशः भावः भवति चेद् समाधानं स्वयमेव गृहमागच्छति। परमिदं सर्वं भवितुमात्मनः अन्तःकरणस्य शुद्धता अधिष्ठानं च अपेक्षते।

        • साधुचरणेषु विश्वासः। तस्य भगवति निश्चितः वासः।।*****
दि. जुलै4 – देहः देवप्राप्त्यर्थं वर्तते।

कदाचित् कैश्चन चोरैः साधुगृहे चौर्यं कृतम्। पलायन्तान् तान् शिष्याः अपश्यन्। शिष्याः तान् चोरान् बहु ताडितवन्तः। गुरौ ज्ञाते सति चोरान् आनीय तैलादि संल्लेप्य तान् स्नापितवान्। तेभ्यः पञ्चपक्वान्नभोजनमपि दत्तवान्। ‘किमिदं भवद्भिः क्रियते’ इति शिष्यैः पृष्टे सति सः उवाच, “ भवन्तः अपि किं कुर्वन्ति ? सर्वे देवगृहे चोरयन्ति एव। तेन दत्तः देहः तस्य प्राप्त्यर्थं दत्तः, परं तद् अकृत्वा विषयान् चोरयन्ति किल।” अतः विषयेषु अनासक्तं भूत्वा मनसा अस्माभिः देवः भजनीयः। अस्माभिः सर्वैः ‘अहं देवाय’ इति मन्तव्यम्। सर्वत्र भगवान् एव वर्तते इति दृढः विश्वासः जातः चेद् द्वैतं सहजं विनश्य एकाग्रता लभते, सा एव वास्तवः समाधिः। सत्पुरुषाः किं कुर्वन्ति? अय़ोग्यमार्गेण चलन्तान् अस्मान् ‘अरे, मार्गच्युतः भवान्’ इति ज्ञाप्य सन्मार्गं दर्शयन्ति।’ ते सदासर्वदा समाधिसुखं भुञ्जन्ते, भगवत्विषये एव कथयन्ति। भगवल्लीलां पश्यन्तेभ्यः एव सदानन्दः लभते। एकं कणं वाप्य सहस्त्रकणान् वयं प्राप्नुमः इति भगवल्लीला एव। भगवति यद् यद् वर्तते तत्तदेव अस्मत्सु अपि वर्तते। यथा मारुतौ देवांशः आसीत् तथा अस्मत्सु अपि वर्तते। तेन सः विकसितः अस्माभिः निर्वापितः। मारुतिः भवितुं ध्येयं पुरतः संस्थाप्य तस्य ब्रह्मचर्यं, भक्तिः, दास्यं, परोपकारपद्धतिः च अस्माभिः पठनीया। मारुतिः तु चिरञ्जीवः। तथा यस्य भावना वर्तते सः अद्यापि दर्शनं प्राप्नुयात्। मारुतिः सर्वां सृष्टीं रामस्वरूपां दृष्टवान्। इदमेव भक्त्याः फलम्। उपासकः देहं विस्मरति चेद् उपास्यविग्रहे चैतन्यमनुभवति। मम देवाय इदं रोचेत किमिति मत्वा जगति व्यवहृतव्यम्। एषः सगुणोपासनायाः मुख्यः हेतुः। भगवान् एव दाता, सः मम पृष्ठतः वर्तते, सः मम कल्याणकर्ता, इति ज्ञातं चेद् यत् प्राप्तं तद् भगवदिच्छया इति भावनया वर्तमानायां परिस्थित्यां समाधानं प्राप्नुयात्। समाधानमानन्दः च वास्तवा लक्ष्मीः। अस्माकं स्वभावः यादृशः भवेत् येन आनन्दप्राप्तुकामाः जनाः अस्मान् प्रति एव आगच्छेयुः। अन्यसम्पत् कियन्त्यपि दद्मः चेद् न पर्याप्ता परं वृत्तेः आनन्दः न कदापि समाप्स्यते।

      • वृत्तेः समाधानं भगवत्कृपायाः चिह्नम्।****

दि.जुलै5 – स्वसुखदुःखानि श्रीरामं कथयन्तु। भवन्तः सर्वे उत्तमां सेवां कुर्वन्तः सन्ति इत्यत्र न शङ्का वर्तते। एतादृशीं सेवां निरन्तरं कुर्वन्तु। तत्रैव कल्याणमस्ति। तेन एव वयं उत्तरिष्यामः। कश्चन वदेत्, ‘ अस्मिन् किम्? तस्मिन्किम्? एतेन किं भवति?’ परं तत्र अवधानं न ददतु। परमेश्वरस्य सेवां कियन्ती अपि कुर्मः सा अल्पा एव। सः अतीव बृहत्..विराट् विद्यते। अमर्यादम् विद्यते। तं द्रष्टुं सेवा अपि तथैव महती करणीया। तं द्रष्टुं महती शक्तिः आवश्यकी। अर्जुनाय श्रीकृष्णपरमात्मना दिव्या दृष्टिः दत्त्वा दर्शनं दत्तम्। सा दिव्या दृष्टिः अस्माकं समीपे नास्ति। परं तां प्राप्तुं सामर्थ्यम् अस्ति। भक्त्यां प्रगतिः एव शक्तिः। तदर्थम् अखण्डं नामस्मरणम् एव साधनम्। श्रीरामप्रभुं स्वकुटुम्बिनम् इति चिन्तयन्तु। तं स्वसुखदुःखानि कथयन्तु। दिनाभ्यन्तरे एकवारं वा तस्य पुरतः स्थित्वा तम् अनन्यभावेन शरणं गच्छन्तु। दिनम् आनन्देन गच्छेत्। भवतां दुःखम् अपगच्छेत्। अस्माकं ज्ञानं, शक्तिः,वैभवं,अधिकारः च तस्य पुरतः किमपि नास्ति। अतः सर्वं विस्मृत्य तं शरणं गच्छन्तु। तं प्रेम याचन्ताम्। “हे देव, वयं भवतः दर्शनं कुर्मः तद् सर्वं बाह्यस्वरूपस्य। भवतः वास्तविकं स्वरूपं दर्शयतु। वयम् अवगुणसम्पन्नाः। भवतः दर्शनं प्राप्तुं यावन्ती सेवा आवश्यकी तावन्ती सेवा अस्मभ्यं न जाता। परं भवान् अस्मान् क्षमां करोतु। अद्य आरभ्य कियन्त्यः अपि आपदाः आगच्छेयुः ताः अस्माकं प्रारब्धभोगाः इति मत्वा वयं आनन्देन भुञ्जामहे। यत्किमपि भवितव्यं तद् भवेत्। अस्माकं समाधानं दृढं भूत्वा भवतः नाम्नि अस्माकं प्रेम भवेत् इति कृपां करोतु।” वस्तुतः परमेश्वरः भक्तस्य मनः पश्यति। तस्य भावं पश्यति। अन्यथा सः तस्य समीपे एव वर्तते। यः श्रद्धया परमेश्वरस्य चिन्तनं करोति सः परमेश्वरः आत्मनः समीपे स्थित्वा साहायार्थं सर्वदा सिद्धः इति दृढं मन्यते। अस्माकं कृते कल्पद्वयं वर्तते। एकः श्रद्धायाः अपरः अनुभवस्य। पदभ्याम् एकेन मार्गेण केवलं मैलत्रयस्य अन्तरम्, कारयानमार्गेण मैलदशस्य वा द्वादशस्य अन्तरम्। श्रद्धा प्रथममार्गसदृशी। तेन मार्गेण अन्तरं स्वल्पम्। कारयानमार्गः इत्युक्ते अनुभवमार्गः। यानं मध्ये भ्रष्टं भवति वा अवरोधः आगच्छति चेत् प्रगतिः स्थगति। तथैव अनुभवे किमपि प्रमादः भवति चेत् प्रगतिः स्थगति। अतः यावत्शक्यं वयं श्रद्धामार्गम् अनुसरामः। सद्गुरोः वचने विश्वस्य श्रद्धया प्रेम्णा च नामजपं करणीयम्।

          • भगवन्नाम सिद्धं कृत्वा दानम् इति सत्पुरुषाणां जगति सर्वेभ्यः श्रेष्ठः उपकारः।****

दि.जुलै6 - आत्मानं सद्गुरोः आधारः भाव्यः समयप्रसङ्गानुरूपं व्यवहर्तव्यम्। तस्य मनसि परिणामः अपि न भवेत्। परमात्मचिन्तने मनः यदि लग्नं तर्हि अन्यासां गोष्ठीनां परिणामः तदोपरि न भवति। यावत् शक्यं तावत् एव कार्यं करणीयम्। अभ्यासः करणीयः परं चिन्तां विना। सर्वं भारं भगवति संस्थाप्य शान्तं भाव्यम्। स्वमनसः स्वास्थ्यं न दूषयित्वा आनन्दे भाव्यम्। वृत्तयः नियम्य न निवर्तन्ते। यदा ताः परमात्मं प्रति युञ्जामहे तदा नियम्यन्ते। रामेच्छया सर्वं प्रवर्तते इति मनसि संस्थापयेत्। आपदाम् आनन्दं च द्वावपि भगवन्तं कथनीयम्। यस्यां स्थितौ भगवता स्थापितं तस्यां समाधानं मन्येत। अंतःकरणे सुप्तं भगवत्प्रेम जाग्रतुं किमपि निमित्तम् आवश्यकम्। तीर्थयात्रा मुनीनां दर्शनं च ते निमित्ते। श्रीरामः अपि तीर्थयात्रां कृत्वा नैकानां मुनीनां दर्शनं कृतवान्। मुनीनाम् अहंकारः जीवितुं न शक्नोति। कारणं ‘परोपकारं’ कर्तुं कोऽपि ‘परः’ न भवति एव, अतः ‘अन्यस्य कृते मया किमपि कृतम्’ इति भावयितुं क्व आधारः? विषय़ाकाङ्क्षया सत्सङ्गतिः न योग्यम्। मुनयः कदाचित् आत्मानं विषयान् यच्छन्ति, परं विषये जिहासां निर्मातुम् एव तेषां सामान्यतः सर्वे प्रयत्नाः सन्ति। सज्जनानां गृहे केवलं वास्तव्यम् अपि मनसि शुद्धं भावं जनयेत्। भगवत्नाम्नि एव सत्सङ्गतिः कारणं नाम्नः पृष्ठतः एव भगवतः अस्तित्वम्। विषयस्य ऊर्मिः इत्युक्ते मायायाः स्मरणम् तथा नामस्मरणं तु भगवतः स्मरणम्। तपसः अन्तिमं फलं भवति यत् परमेश्वरं प्रति अनन्यभावेन शरणबुद्धिः। सा अस्माभिः प्राप्तव्या। एकदा शरणं गच्छामः चेत् आत्मानं न अवशिष्य़ते। सा एव शरणागतिः। एषा एव परमार्थे अत्यन्ता श्रेष्ठा भूमिका। आत्मानं स्वगुरोः अस्मि इति उच्चरवैः कथयतु। अन्यत् किमपि न आवश्यकम्। परं स्वगुरुः स्वं परितः अस्ति इति दृढा भावना आवश्यकी। मम कृते न सुखम् अस्ति न दुःखम्। परं यदा भवान् दुःखी भवति तदा अहम् अपि दुःखी भवामि। अतः मनः दूषयेत् तादृशं न व्यवहरतु। गृहस्थजनानां दुःखं पूर्णतः जानामि। तस्मिन् ज्ञाने सति भगवन्नामस्मरणं करोतु इति वदामि। आरम्भे यत् कथितं तदेव अन्ते कथयामि यत् कथमपि भवतु परं भगवन्नाम न त्यजतु। जुलै 7, - बालकं भूत्वा भगवन्तं प्रति गच्छेम। अस्मिन् जगति कर्म विना कः भवति? परं कर्म यथासाङ्गं न भवति। कारणं किमर्थं वयं कर्म कुर्मः इति एव न जानीमः। अधिष्ठानं विना कर्म पूर्णं न भवति। यदा स्वामी पृष्ठतः भवति तदा सेवकः बलेन कर्म करोति। केचन उत्तमाः कर्ममार्गिणः भक्तान् दूषयन्ति। भक्तिभावेन यः वर्तते सः अन्यान् न दूषयति। ‘कः अहम्?’ इति ज्ञातुं ज्ञानं च भक्तिं च आवश्यक्यौ। तथैव ‘ ब्रह्म सत्यं जगन्मिथ्या।’ इति अनुभवितुं कर्मकरणम् आवश्यकमेव। उपासना भगवन्तं ज्ञात्वा करणीया। बालकः मातरं पश्यन् विनाशब्दं दुग्धं पिबति। तथैव समर्थरामदासस्वामिसदृशं जनाः यथा वदन्ति तथा अस्माभिः शान्ततया अनुसरणीयम्। नेत्रे निमिल्य यावत् कार्यं भविष्यति, वा अन्धश्रद्धया यत् भविष्यति, तावत् अभिमानेन ज्ञानचक्षुम् उद्घाट्य अपि न भविष्यति। बालकं भूत्वा भगवन्तं जानीयुः। अत्र एकः एव अवरोधः। मम ‘सूज्ञत्वम्’ । भक्ताः बालकवत् व्यवहरन्ति। अतः भगवान् तान् लालयति। कश्चन वदेत्, ‘ भगवन्तं न परिचिनोमि। कथं तं पूजयामि?’‘विनापरिचयं तं न भजे।’इति वचनं मूर्खवत् अस्ति। नैकेभ्यः मार्गेभ्यः भगवन्तं ज्ञातुं शक्नुमः। पाण्डुरङ्गं प्रति गन्तुं आरम्भे कश्चित् मार्गः आक्रमणीयः। साधुभिः अखण्डजागरणमार्गः कथितः। सः मार्गः अस्ति यत् देहेन प्रपञ्चं करोतु,मनः भगवते अर्पयतु। मनः भगवति स्थिरं अकृत्वा अन्यत् किमपि न लाभाय। ध्येयं सत्यं चेत् चित्तं स्थिरं भवति। परं सत्ये ध्येये प्रथमं पूर्णा श्रद्धा आवश्यकी। प्रपञ्चे यथा प्रेम आवश्यकं तथा परमार्थे श्रद्धा आवश्यकी। ‘देवः मम’ इति नोक्त्वा ‘ अहं देवस्य’ इति वदाम। तेन श्रद्धा उत्पद्यते। समुद्रस्य एव तरङ्गः न तु तरङ्गस्य समुद्रः। साधने निश्चितता भवति चेत् समाधानं भवति। अतः साधनं श्रद्धया करणीयम्। यथा श्रद्धा तथा फलम्। भगवत्स्मरणे निश्चिन्ततया भवितव्यम्। प्रपञ्चे कदापि धैर्यं न त्यक्तव्यम्। यथा पिपिलिकानां राज्ञी एकस्थानात् अन्यत्र नीता चेत् तस्याः अनुयायिन्यः पिपिलिकाः अपि गच्छन्ति. तथा देहबुद्धिः यदि त्यक्ता तर्हि मनसि उत्पद्यमानाः सहस्त्रावधिः संकल्पाः लुप्ताः भवन्ति। एतस्याः देहबुद्ध्याः परं गत्वा यत् ज्ञानं भवति तदेव आत्मज्ञानम्। तस्य प्राप्तेरनन्तरं यत् पूर्णं समाधानं प्राप्यते तदेव वास्तविकं भगवतः दर्शनम्। जुलै 8 – भगवतः अनुसन्धानं कथं रक्षणीयम्? यस्य वस्तुनः मनुषस्य मनसि प्रेम वर्तते तस्य अनुसन्धानं सहजं भवति। तद् एतादृशं दृढं भवति यत् मम अनुसन्धानम् अस्ति इति अवधानम् अपि न भवति। ‘अनुसन्धानं रक्षयामि’ इति भावः यदा भवति तदा ‘अहं’ तस्मात् भिन्नः अस्ति। यदा प्रेम्णः अनुसन्धानं भवति तदा ‘अहं’ तद्रूपं भवति। मार्गे कियत् अपि शीघ्रतायां वयं स्मः नाम्ना कः अपि आह्वयति चेत् वयं परिवर्त्य पश्यामः। अयम् अनुसन्धानम्। अस्मिन् देहे आत्मनः एतावत् प्रेम भवति यत् अहं देहात् भिन्नः नास्मि एव। देहस्य एतादृशाय अनुसन्धानाय भाषणं न आवश्यकम्। ‘देहं विस्मरतु’ इति कथनीयं भवति न तु ‘देहं स्मरतु’ इति। अस्माभिः भगवतः अनुसन्धानम् रक्षणीयम् इति एकः अभ्यासः अस्ति। भगवतः प्रेम वर्धते चेत् अनुसन्धानं रक्ष्यते। परीक्षां पारयितुं यथा अभ्यासः आवश्यकः तथा भगवत्प्रेमवर्धनार्थम् अपि अभ्यासः आवश्यकः। तदर्थं यत्किमपि अहं करोमि तद् भगवतः साक्षित्वेन करोमि इति भानं भवेत्। साम्प्रतं अस्माभिः विविधाः उद्योगाः करणीयाः भवन्ति। प्रपञ्चः करणीयः चेत् कति उद्योगाः करणीयाः भवन्ति! ताः सर्वाः गोष्ठ्यः भगवतः स्मरणं कृत्वा करणीयाः इति अस्माकं वास्तविकं कर्तव्यम्। (सर्कस)चापल्यक्रीडां वयं पश्यामः। व्याघ्राः,सिंहाः,अश्वाः,हस्तीनि इत्यादयः प्राणिनः क्रीडां कुर्वन्ति। अश्वः कथं सुन्दरं नृत्यं करोति इति वयं वदामः। परन्तु अश्वस्य अवधानं प्रेक्षकान् प्रति नास्ति। अश्वस्य व्याघ्रस्य वा सिंहस्य अवधानं अन्ते तेषाम् आसूडधारिणं नियन्त्रकं प्रति अस्ति। प्रेक्षकाः कि वदिष्यन्ति तद्विषये ते प्राणिनः न चिन्तयन्ति। वयमपि किं कुर्मः? भगवान् किं वदेत् इति न चिन्तयामः जगत् किं वदेत् इति चिन्तयामः। एतत् यदि अस्माभिः त्यक्तं तर्हि भगवान् किम् इच्छति तद् वयं सम्यक् ज्ञातुं शक्नुमः। भगवन्तं स्मृत्वा यदि कर्म कुर्मः तर्हि सः यत् इच्छति तदेव अस्मभ्यं भविष्यति। तस्य सन्धानं न त्यक्त्वा कर्मकरणम् एव अनुसन्धानस्य लक्षणम्। कथमेतत् भवेत्? आत्यन्तिकप्रेम्णा भवेत्।

प्रसूत्यनन्तरं युवती पतिगृहम् आगता। स्वशिशुं प्रेङ्खायां स्वपित्वा गृहस्य पृष्ठभागे सा पात्राणि क्षालयन्ती आसीत्। शिशुना स्वल्पं रुदितम्। गृहे बहवः जनाः आसन्, परं कः अपि न श्रुतवान्। केवला सा धावन्ती प्रेङ्खां प्रति आगता। ‘शिशुः जागरितः।’ सा उक्तवती। कार्यं कुर्वन्ती अपि तस्याः अवधानं यथा बालकं प्रति आसीत् तथैव प्रपञ्चं कुर्वन् अपि अस्माकं अवधानं भगवन्तं प्रति भवेत्। एतस्य एव नाम अनुसन्धानम्।

जुलै9 – नामस्मरणं निश्चेतव्यम्। दृश्यम् अद्य वा श्वः नश्यति एव। दृश्यं न स्वतन्त्रम्। तद् भगवतः अधीनम्। अतः जगति यद् भवति तद् भगवदिच्छया इति ज्ञातव्यम्। अस्माकं देहः अपि दृश्यम् एव। तस्य संचालकः ईश्वरः देहे एव निवसति। तस्य अनुसन्धाने भवितुं प्रयतामहे।अनुसन्धानं भगवन्नाम्ना साध्यते। अतः भवद्भिः सर्वैः नामस्मरणस्य निश्चयः करणीयः। आत्मनः चित्तं नामस्मरणे व्यग्रं भवति चेत् देहं प्रारब्धस्य अधीनं कर्तुं शक्नुमः। एषा युक्तिः येन अवगता तं सुखदुःखं न बाधते। सज्जनैः अपि प्रारब्धं भोक्तव्यं भवति परं तेभ्यः देहबुद्धिः न भवति अतः भोगस्य सुखं दुःखं च न भवति। व्यवहारमार्गे भगवन्नाम न विस्मरणीयम्। स्वप्रयत्नानां यत् फलं लभेत् तत् भगवतः इच्छा इति मत्वा प्राप्ते फले एव समाधातव्यम्। वयं प्रपञ्चिनः। प्रपञ्चे विना सुयोग्यं प्रयत्नं न भवितव्यम् एव। परं प्रपञ्चः एव सर्वस्वः इति मत्वा भगवन्तं न विस्मरेम। परमार्थाय सदाचरणस्य अतीव आवश्यकता वर्तते। वृथा कस्यचित् वचनेन न मोहितव्यम्। नीतिशून्याधर्ममार्गेण न गन्तव्यम्। सज्जनवचने विश्वस्य मुखे नाम भणन् सदाचरणेन प्रपञ्चः करणीयः। एतेन प्रकारेण यः व्यवहरति तस्य रामः निश्चयेन कल्याणं करोति इति मया वचनं दीयते। सामान्यतः बहवः प्रपञ्चार्थं देवम् इच्छन्ति। वस्तुतः सर्वे हिंगुजीरकयोः एव ग्राहकाः। ईश्वरस्य कृते एव ईश्वरं कामये इति वक्तुकामः कस्तुरीच्छुकः न एव लभ्यते। असाध्यं रोगं साध्य करोति सः उत्तमः वैद्यः। विषय़लिप्तं जनम् अपि यः मोचयति सः सज्जनः। तं प्रति गत्वा केवलं ‘शरणागतः अस्मि’ इति वचनम् अपि पर्याप्तम्। अद्यतन वा पुरातन वा प्रपञ्चे न कः अपि भेदः। परं पुरा देवं जनाः न विस्मरन्ति स्म। साम्प्रतं जनाः संकुचिताः। पुरा ग्रामेषु परस्परसाहाय्यबुद्धिः सहजम् आसीत्। परं साम्प्रतं कालः परिवर्तितः। नामस्मरणं कुर्वतः एतावन्तान् जनान् दृष्ट्वा मह्यं यद् रोचते तद् एतावद्भ्यः जनेभ्यः अपि रोचते इति मनसि समाधानं भवति। मया कथितं तदेव करणस्य निश्चयं कुर्वन्तु। कामपि चिन्तां न कुर्वन्तु। भवतः भारं मया स्वीकृतम् अस्ति इति मनसि निधाय प्रपञ्चम् आनन्देन करोतु। जुलै 11 – सत्पुरुषाः तेषाम् अनुग्रहः च सत्पुरुषस्य अनुग्रहः भवति चेत् व्यक्तेः प्रपञ्चे परमार्थे च तस्यैव सर्वा सत्ता वर्तते। सर्वकारस्य हस्ते सर्वा सत्ता वर्तते तथा राज्ययन्त्रं सम्यक् चालयितुं प्रत्येकं विभागाय एकैकं दायित्वं दत्तम् अस्ति। यावत् तस्य कार्यं विधिना प्रचलति तावत् सर्वकारः मध्ये किमपि न करोति। परं क्वचित् प्रसङ्गे विशिष्टकारणेन हस्तक्षेपं कृत्वा सर्वकारः स्वाधिकारम् उपयुङ्क्ते इच्छानुसारं कारयते च। सः एव नियमः अत्रापि प्रवर्तते। प्रापञ्चिकविषयेषु प्रारब्धम् इति एकः विषयः विद्यते। तस्य सम्बन्धः केवलं देहे एव। प्रत्येकं जनेन प्रारब्धानुगुणम् अनुकूलं विपरीतं च भुञ्जनीयम्। सत्पुरुषः तत्र यावच्छक्यं हस्तक्षेपं न करोति। परं व्यक्तेः कल्याणार्थं यदि आवश्यकं तर्हि सः हस्तक्षेपं करोति। परं परमार्थविषये तस्य एव सर्वः अधिकारः वर्तते। परम् अस्माभिः तेन उक्ते साधने लीनं भूत्वा तस्य कार्ये अवरोधः न आनेतव्यः। एषः अवरोधः बहुविधप्रकारेण भवति। प्रथमः तेन उक्ते साधनमार्गे शङ्काः मनसि आगच्छन्ति। द्वितीयः अन्यैः अमुकदिनेभ्यः साधितं मया न साधितम् इति विचारः मनसि आगच्छति। तृतीयः अवरोधः वर्तते यत् कथितात् साधनात् अधिकं वा न्यूनं करणीयम्। सारांशेन एकदा सत्पुरूषाणां पदे शिरः स्थापयति चेत् आत्मनः प्रपञ्चं परमार्थं च तस्याधीनं कृत्वा प्रपञ्चे प्रवर्तमानाः घटनाः तस्य इच्छया एव भवन्ति इति भावनां कृत्वा स्वकर्तव्यं कुर्वन् तेन कथिते साधने एकाग्रतया भवितव्यम् इति, एव सन्मार्गः। सत्पुरूषाणां देहं प्रति न द्रष्टव्यम्। तस्य देहः अस्माकं कार्यं न करोति। सः परमात्मस्वरूपः इति अस्माकं या भावना सा अस्माकं कार्यं करोति। सत्पुरूषाः अत्यन्तं दयालवः सन्ति। सत्पुरुषेण ईश्वरस्य साक्षात्कारः प्राप्यते अतः देहेन सः जगति निवसति इति दृश्यते चेत् अपि अन्तर्यामी सः भगवत्समीपे एव भवति। अतः सत्पुरुषाणां समीपे भौतिकवस्तूनां वासनाः मनसि निधाय न गन्तव्यम्। बाह्यलक्षणैः सत्पुऱुषम् अवगन्तुं न शक्नुमः। पुस्तकेषु तस्य दत्तानां लक्षणानां परः सः भवति। तं परिचिनोतुं आत्मनि स्वल्पं वा भगवत्प्रेम आवश्यकम्। भगवत्प्रेम इत्युक्ते मनसः आत्यन्तिकी आसक्तिः। यः तां प्राप्नोति सः भाग्यवान्। **** भगवतः दास्यत्वे यत् प्रेम भवति तद् जगतः स्वामित्वे अपि नास्ति। **** जुलै 12, - यथा सद्गुरुः कथयति तथैव करणीयम्। विशुद्धा भावना इत्युक्ते मूल्यं न स्वीकरणीयम् वा फलाशा त्यक्तव्या। भक्तिः यादृशी निरपेक्षा भवेत्। देवालयाः निर्मिताः, विग्रहपूजनार्चनं कृतम् च इत्युक्ते निरपेक्षा भक्तिः कृता इति न। देवस्य कुर्वन् समये जपं कुर्वन् समये वा ततः किमपि प्रापणीयम् इति इच्छा न भवेत्। भवन्तः सर्वे भजनं पूजनं च कुर्वन्ति। परं कथम्? पात्रं कुत्र स्थापनीयम्? आचमनीताम्रस्थालिका कुत्र स्थापनीये? यथा शास्त्रे लिखितं तथा मनुष्यः वदति करोति च। कारणं तेन कृतिकरणं सरलं भवति। वयं देवकार्यं कुर्मः परं केवलं करणीयम् इति मत्वा..। गृहे प्रथा अस्ति अतः..। देवः रोचते अतः न। एकः पुत्रः आसीत्। पितुः पत्राणि तम् आगच्छन्ति स्म। पठित्वा सः देवगृहे स्थापयति स्म। यदा द्वितीयं पत्रम् आगच्छति स्म तदा प्रथमं निष्कासयति स्म। एकदा पिता पञ्चविंशतिः रूप्यकाणि याचितवान्। पुत्रेण पत्रं पठित्वा देवगृहे स्थापितम्। कानिचित् दिनानि गतानि। पितुः कश्चित् सुहृदः आगतः। सः पृष्टवान्, “ पितुः पत्रं प्राप्तं वा?” “आम्।” “अरे, तर्हि धनं किमर्थं न प्रेषितं तम् ?” “ ओह, तदेव अवशिष्टम्।” तथैव अस्माकं भवति। वयं कृतिं कुर्मः। पूज्यः भावः अपि विद्यते। परं सद्गुरुणा कथितं वयं न कुर्मः। तेन अस्माकं सत्कर्मभिः अहंकारस्य क्षयः न भवति अपितु अहंकारस्य वर्धनार्थं साहाय्यं भवति। अतः सद्गुरुणा कथितं साधनं अस्माभिः प्रामाणिकया विनासंशयं च कर्तव्यम्। तदर्थं व्यवहारत्यागस्य आवश्यकता नास्ति। व्यवहारः न त्यक्तव्यः। परं व्यवहारे आसक्तिः न भवेत्। युद्धे सारथेः हस्ते सर्वं भवति। कशां हस्ते गृहित्वा सः सावधानं भवति तथा यत्र आवश्यकं तत्र स्यन्दनं नयति। योद्धुः कार्यं केवलं निर्दोषः वेधः करणीयः। तथैव एकदा सद्गुरोः अधीनं स्वजीवनं कृतं चेत् सः यथा वदति तथैव करणीयम् इति एव अस्माकं कर्तव्यम्। जगतः स्पृहा येन त्यक्ता तस्य प्रभा सर्वत्र प्रसरति इति मनसि अवधातव्यम्। किञ्चित् रूप्यकं स्वीकृतं चेत् तस्य उभयभागौ हस्ते आगच्छतः तथा प्रपञ्चे प्रवेशामः चेत् परमार्थः अपि आवश्यकः। परमार्थे भगवान् आवश्यकः। तस्य पूर्ततां सद्गुरुः तस्य ‘नाम’ दत्त्वा करोति। तद् अस्माभिः निरन्तरं श्रद्धया च भणितव्यम्। अनया पद्धत्या अखण्डं यदि वयं नामनि भवामः तर्हि परमार्थं प्राप्नुमः,भगवतः आवश्यकतां मन्यामहे, प्रपञ्चे समाधानं लभामहे, जीवनस्य सार्थकं भवति च। जुलै 13, -देवनामयोः न भिन्नता। यथा वयम् अनुभवामः तदेव सत्यम्, परं तथा वयं व्यवहरामः किम्? नैकाः दुर्गोष्ठीः वयं अनुभवामः परं वयम ताः त्यजामः किम्? एषः एव अस्माकं दोषः। महतां पुरुषाणां भिन्नं भवति। तैः अनुभूतं तथा व्यवहृतम्। तेन एव ते सत्पुऱुषत्वं प्राप्तवन्तः। सत्पुरुषाणाम् अस्मासु कति उपकराः सन्ति! भौतिकं सुखं वास्तविकं सुखं नास्ति। तद् तु सुखवेषधारि दुःखमेव इति यदा तैः अनुभूतं तदा भौतिकं सुखम् अपसृत्य तैः वास्तविकसुखस्य अन्वेषणम् आरब्धम्। परमेश्वरप्राप्त्यां सत्यं सुखम् वर्तते इति तैः शोधितम्। तं प्राप्तुं सरलः मार्गः तस्य नाम एव। वेदकालतः अद्यपर्यन्तं सर्वसाधुजनैः स्वानुभवेन एतद् उक्तम् अस्ति। सद्गुरोः प्राप्तम् ईश्वरस्य नाम प्रेम्णा भक्त्या एकाग्रतया च जपति चेत् परमेश्वरः समीपे आगत्य तिष्ठति इति स्वानुभवः सर्वसाधुजनैः उच्चकण्ठेन उद्घोषितः अस्ति। किं वयं तथा नामजपं कुर्मः? नाम्नः कृते नामजपं भवति किम्? वा मनसि कामपि इच्छां निधाय जपं कुर्मः? कामपि वृत्तिं न उद्भाव्य यदि नामजपं भवति तर्हि ईश्वरः न अतिदूरः। देवः नाम न भिन्नौ एव। देव इत्युक्ते नाम तथा नाम इत्युक्ते देव। एकदा नाम मुखे आगतं चेत् देवः हस्ते आगतः। बालकाः पतङ्गं उड्डायन्ति। कश्चित् पतङ्गः आकाशे अत्युन्नतं गच्छति, यत् न दृश्यते एव। तथापि बालकः वदति, ‘मम हस्ते पतङ्गः अस्ति।’ कारणं पतङ्गस्य सूत्रं तस्य हस्ते अस्ति। यावत् नामस्मरणस्य सूत्रम् अस्माकं हस्ते अस्ति तावत् परमेश्वरः अस्माकं हस्ते अस्ति। सूत्रं मुञ्चते चेत् परमेश्वरः अपि निर्गच्छति। अस्माकं नामस्मरणे एका अत्यन्ता आवश्यकता वर्तते। अस्माकं जीवने परमेश्वरं विना मार्गः अवरुध्यते इति न मन्यामहे तावत्पर्यन्तं अस्माकं नामस्मरणं न सत्यम्। परमेश्वरः एव आत्मनः जीवनस्य आधारः अग्रे जीवनं एव न शक्यम् च इति वृत्तिं यदा दृढा भवति तदा प्रवर्तमानं नामजपं सत्यम्। अस्माकं स्थितिः विपरीतम् एव भवति। ऋते परमेश्वरं सर्वं सुष्ठु प्रवर्तते इति एतया भावनया वयं नामस्मरणं कुर्मः चेत् परमेश्वरः कथम् आगच्छेत्? परमेश्वरस्य नाम एव मम जीवनसर्वस्वम् इति मत्वा नामस्मरणं कुर्मः चेत् जीवनं सार्थकम् एव भवेत्। नाम्ना परमेश्वरस्य प्राप्तिः भविष्यति एव इति दृढः विश्वासः आवश्यकः। एतादृशः नामजपः ‘निष्ठायाः नामजपः’ इति वदन्ति।

          • भक्तः भगवान् नाम च त्रयः एकरूपाः। यत्र नाम अस्ति तत्र भक्तः अस्ति तत्रैव भगवान् अस्ति।*****

जुलै14 – गुरुणा कथितं तदेव साधनम्। परमार्थम् इत्युक्ते किं तद् अहम् अल्पशब्दैः वदामि। परमार्थस्य मर्म वर्तते यत् आसक्तिं त्यक्त्वा प्रपञ्चः करणीयः। येन प्रपञ्चः दत्तः तस्य एव सः इति मनसि निधाय सः करणीयः। तेन तस्य सुखदुःखम् अस्मभ्यं न बाधते। अय़ं प्राप्तुं गुरुणा दत्तं परमात्मनाम सदैव मुखे भवेत्। कः गुरुः करणीयः? यत्र स्वसमाधानं भवति तद् गुरुपदं मन्यताम्। क्वापि गुरुपदम् एकमेव भवति। गुरवे उपनाम भवति किम्? गोन्दवलेकरः गोन्दवलेग्रामे निवसति अन्यः अन्यस्मिन् ग्रामे निवसेत्। लौकिकम् उपनाम भिन्नं चेद् अपि गुरुपदं सर्वदा अबाधितं भवति। आत्मनः समाधानं यत्र भवति तद् गुरुपदं मन्यन्ताम्। सः यत् कथयति तत्रैव तं पश्यन्तु। तस्य देहं न पश्यन्तु। सः हस्तपादविहीनं वा इति न पश्यन्तु। देहेन सः यथाकथञ्चित् भवेत् तेन कथिते साधने एव भवन्तु। तस्य लज्जा येन गुरुपदं निर्मितं तं भवति। गुर्वाज्ञा एव परमार्थः। सः कथयति तदेव साधनम्। स्वमनसा भवन्तः किमपि संकल्पयन्ति तर्हि यशः न लप्स्येत। अभिमानं धृत्वा किमपि कर्तु उद्युक्ताः तर्हि न सिध्यते। अतः अभिमानं त्यक्त्वा गुरुं प्रति गच्छन्तु। सः यथा कथयति तदेव साधनं इति मनसि दृढं भवतु। वास्तविकः परमार्थः जनान् उपदेष्टुं नास्ति। सः आत्मनः कृते वर्तते। आत्मनः परमार्थः जगता यावत् स्वल्पं दृश्येत तावत् लाभकरम्। जगति महत्त्वे न यत्किञ्चिदपि सार्थक्यम्। वास्तविकं महत्त्वं न भूत्वापि यदि महत्त्वम् अनुभूयते तर्हि महान् घातः एव। कश्चन् अङ्गारापणम् आरभते तथा अपरः मिष्टान्नापणम् आरभते। आपणे किमपि भवेत् अन्ततः लाभः कति तद् महत्त्वपूर्णम्। तथैव प्रपञ्चे न्यूनाधिकं कथमपि भवेत् तस्य परमार्थे महत्त्वं नास्ति। व्यक्तेः मनोवृत्तिः भगवति कियन्ती वर्तते तद् महत्त्वपूर्णम्। परमार्थाय बाह्यपरिवेशः कः अपि वर्तेत आत्मनः वृत्तिः स्थिरा आवश्यकी। एकतः मनःसंयमनम् अपरतः बलवती भक्तिः भवति चेत् परमार्थः शीघ्रं सिध्यति। वस्तुतः परमार्थः एतावत् सरलः यत् सहजं तं कुर्यात्, परं विनोदः यत् सः सरलः अतः एव न कः अपि करोति। प्रपञ्चः परमार्थे न विघ्नम् सः तु परमार्थाय एव इति दृढम् अवधातव्यम्। साधकेन देहस्य कर्तव्यं प्रारब्धे विहाय मनसा ईश्वरोपासना करणीया।

        • हृदये संस्थाप्य रामं।मुखे सदा तस्य नाम। हस्ते प्रपञ्चकार्यम्।इदमेव परमार्थमर्म।।****

जुलै 15 – तीव्रेच्छया एव निश्चयेन गुरुमेलनम् भवति किं करणीयम् इति मनुष्यः जानाति परं सः मनः निरोद्धुं न शक्नोति। विषयोपभोगसमये मनः तल्लीनं भवति परं ततः प्राप्तं सुखदुःखनिर्वापनसमये चित्तवृत्तिः अस्तव्यस्ता( भ्रमिता) भवति। भ्रमात् मोक्तुं त्रयः गोष्ठ्यः आवश्यक्यः। सद्विचारः नामस्मरणम् सत्सङ्गतिः च। सत्पुरुषं परिचयनं दुष्करम्। आत्मना तत्सदृशं भाव्यं चेत् एव अवगच्छामः। तदपेक्षया सद्विचारं रक्षयामः चेत् वरम्। भगवतः विचारः एव सुविचारः। भगवतः कथाः श्रवणीयाः। तस्य लीलावर्णनं करणीयम्। तस्य वर्णनपराः ग्रन्थाः पठनीयाः। परं एतान्यपेक्षया आत्मना सह निरन्तरं विद्यमानं नाम सततं वदनीयम्। भवान् सततं तस्य नाम स्मरति चेत् सत्पुरुषान्वेषणं न आवश्यकम्। सत्पुरुषाः – हिमालयस्थाः अपि भवन्तं मार्गयित्वा भवतां कार्याणि करिष्यन्ति। अहो, शर्कराखण्डं स्थापयामः चेत् पिपिलिकानां कृते निमन्त्रणं न आवश्यकम्। वयं तद् कर्तुं न शक्नुमः इति यदि भवन्तः वदन्ति तर्हि वयं स्वपुत्रं शालां प्रेषयामः। सः न पठति वा अवगन्तुं न शक्नोति चेत् तं पुनः तस्मिन् वर्गे बलेन प्रेषयामः। एकां विद्यां सः प्राप्तुम् असमर्थः चेद् अपरां विद्यां तं पाठयामः। उदरनिर्वाहार्थं सः स्वावलम्बी भवेत् इति मनसि तीव्रा इच्छा वर्तते। तादृशी तीव्रता ईश्वरप्राप्त्यर्थं वर्तते किम्? यदि वर्तते चेत् भवतः गुरुः साक्षात् भूम्याः उपरि आगच्छेत्। भवतः कृते सः निरन्तरं प्रतीक्षारतः अस्ति। माता पुत्रस्य आधिकाधिकम् आजीवनम् इत्युक्ते यावत् देहः विद्यते तावत् पर्यन्तं चिन्तां करोति। परं गुरुः जन्मजन्मप्रर्यन्तं चिन्तां कर्तुं सिद्धः। देहं विना सः नास्ति इति न मन्यन्ताम्। भवन्तः दुश्चित्तं भवन्ति चेत् सः अपि दुश्चित्तं भवति अतः भवन्तः चित्तं कदापि न दूषयन्तु। देहभोगाः आयान्ति यान्ति च। परं भवन्तः सदा आनन्दे भवन्तु। किमपि करणीयम् इति न मन्यन्ताम्। गुरुमेलनं भवति चेत् भवान् भवान्रुपेण न शेषयति। केवलं गुरवे अनन्यशरणं गच्छतु। एकः शिष्य मिलितः। तदा सः आनन्देन अनृत्यत्। मया ,सः पृष्टः, “ किमर्थम् एतावत् आनन्दः?” सः उवाच,” अधुना आनन्दं विहाय किमपि न अवशिष्टम्, कारणं गुरुणा मिलितः।” एतादृशः यः भवति तेन एव वास्तविकं गुरुः मिलति। अतः भवन्तः गुरुम् अनन्यशरणं गच्छन्तु, तेन अन्यत् किमपि करणीयं न भवति।

        • भगवतः तीव्रा इच्छा एव साधकत्वप्राणः। अतः अहोरात्रं रामस्य ध्यासः आवश्यकः। मुखे तस्य नाम भवेत्।**

जुलै 16 - गुर्वाज्ञापालनं विना न किमपि कर्तव्यम् परमात्मं प्रति गन्तुं नैकाः मार्गाः वर्तन्ते। आत्मनः गुरुणा दर्शितेन राजमार्गेण एव गन्तव्यम्। मध्ये एव अन्यः मार्गः स्वीकृतः चेत् इप्सितं कदापि प्राप्तुं न शक्नुमः। एकस्य वैद्यस्य औषधं त्यक्त्वा अपरस्य स्वीकुर्मः चेत् प्रथमस्य दायित्वं न वर्तते। तथापि अहं मम जनं न त्यजामि। यस्मिन् दिने अनुग्रहं दत्त्वा भवन्तं आत्मीयं मन्ये तस्मात् दिनात् प्रापञ्चिकं पारमार्थिकं च भारं गुरोः उपरि त्यक्त्वा भवान् मुक्तः। गुर्वाज्ञां पालनं विना अन्यत् किमपि कर्तव्यं न अवशिष्टम्। परं भवान् एतादृशं क्व चिन्तयति? विषं सूपे स्थापयामः वा शाके , द्वावपि त्याज्यम् एव। तथैव अभिमानं प्रपञ्चे भवेत् वा परमार्थसाधने, द्वावपि त्याज्यम् एव। कः अहम् इति प्रथमं ज्ञातव्यम्। परमात्मा कः तद् अनन्तरं सहजं जानीयात्। द्वयोः स्वरूपं एकमेव। इत्युक्ते द्वौ एकम् एव। परमात्मा निर्गुणः। तं ज्ञातुम् अस्माभिः अपि निर्गुणं भवितव्यम्। अतः अस्माभिः देहबुद्धिः त्यक्तव्या। कमपि वस्तु वयं जानीमः इत्युक्ते तेन वस्तुना सह तदाकारं भवामः। तद्विना अवगमनम् एव न शक्यते। अतः परमात्मं ज्ञातुम् अस्माभिः अपि किं न परमात्मा भवितव्यः? तदर्थम् एव ‘साधुः भूत्वा साधुः भवितव्यः’ वा ‘शिवो भूत्वा शिवं यजेत्’ इति वदन्ति। कस्यापि वस्तोः आकारः प्रापणीयः चेत् आत्मनः समीपे तत् सदृशाः संस्काराः आवश्यकाः। तद्वस्तोः आघातस्य प्रत्याघातरूपेण संस्काराः उद्भवन्ति। अनन्तरं वस्तोः ज्ञानं भवति। अतः परमात्मरूपस्य विरोधिनः संस्कारान् निमिल्य अस्माभिः आत्मनः चेतः पोषकसंस्कारयुतः करणीयः। यदि वयं साधनं कृत्वा निष्पापं भवामः तर्हि विश्वे वयं पापं द्रष्टुं न शक्नुमः। देवस्य गुणेन रूपेण च तस्य गुणरूपं वयं प्राप्नुमः परं तस्य नाम्ना तं यथा अस्ति तथा सम्पूर्णं प्राप्नुमः। अतः नामसाधनं श्रेष्ठम्। अस्माभिः भगवतः नाम्नि भवितव्यम्। तत्रैव जगतः सर्वं सुखं समाविष्टम् अस्ति। ततोपि आधिकं किं प्रापणीयम्? मया सुखस्य शोधः कृतः। तं अहं प्राप्तवान्। अतः तदर्थः निश्चितः मार्गः मया कथ्यते। सः मार्गः वर्तते भगवतः अनुसन्धानम्। अहं अतीव समाधानम् अनुभवामि। भवन्तः अपि अनुभवन्तु। यद् मया आरम्भे उक्तं तदेव अन्ते वदामि। भवन्तः कथमपि भवन्तु। परं भगवतः नाम न त्यजन्तु। अन्तकाले सर्वेभ्यः अन्ते त्यजनीयं वस्तु इत्युक्ते नाम। नाम्नि अन्तिमः श्वासः गच्छेत्। इतोपि आधिकं किं प्रापणीयम्?

          • यावत्शक्यं नामस्मरणं करणीयम्। यद् न भवति तस्य रक्षकः श्रीरामः।*****

जुलै17 - गुरुणा कथितं साधनम् अनन्यतया रक्षणीयम्।

कदाचिद् एका भगिनी प्रसूता। तत्कालं तस्य शिशुः अन्यत्र नीतः। केषाञ्चन् वर्षाणाम् अनन्तरं द्वौ मिलितवन्तौ। तदा द्वौ परस्परं न परिचितवन्तौ। तथैव अस्माकं जातम् अस्ति। वयम् अत्र किमर्थम् आगताः इति एव विस्मृताः। वस्तुतः वयं कस्मैचित् निश्चित् कार्याय जाताः। तद्कार्यं वर्तते मनुष्यदेहे परमात्मनः परिचयः इति। परं विषय़े पतिताः वयं परमात्मनं विस्मृतवन्तः। विषये एव आनन्दं अमन्यामहि। तस्मिन् आनन्दं प्राप्तुम् आशास्महि। परं विषयाः एव मिथ्या। ततः सुखं कथं लभेत? यत् सुखं प्राप्नुमः तद् अन्ते मिथ्या एव निश्चियते। अतः विषयात् विरक्तं भूत्वा एव भक्तिं कर्तुं शक्नुमः। यत्र विषयविरक्तिः तत्रैव भक्त्याः आरम्भः। 

गुरुः तु किं करोति? विषयाः मिथ्या तथा ततः सुखं न प्राप्नुमः इति सः दर्शयति। अतः सः यथा कथयति तथा व्यवहरणीयम्। अस्मिन् एव कल्याणम् अस्ति। गुरुणा कथितं विना यत् साधनं भवद्भिः क्रियते तत् कष्टकारकम् एव भवेत्। साधनस्य कति अपि प्रयत्नाः कृताः वा शरीराय कति अपि क्लेशाः दत्ताः ते सर्वे व्यर्थाः भविष्यन्ति। कारणं गुरुं विना प्रयत्नाः न बहु लाभाय। गुरुणा कथितं साधनं गौणं मत्वा स्वमनसा कृतं साधनं सुष्ठु भाव्यते चेत् गुरवे गौणत्वं दत्तम् इति भूयते। वस्तुतः गुरुः सर्वज्ञः तथा सः एव साक्षात् परमात्मा इति एषा भावना दृढीभूयते चेत् तस्य वचने विश्वासः भवति। गुरुः कथयति तदेव साधनं सत्यम् इति भावः भवति। गुरुः तु नाम एव सत्यम् इति कथयति। नामस्मरणार्थं अन्यस्य कस्य अपि साधनस्य आवश्यकता नास्ति इति अङ्गीकारयति। नाम एव साधनं साध्यं च इति पूर्णतः सत्यम्। गुरुणा कथितं साधनं पतिव्रतासमम् निष्ठया आचरणीयम्। यथा पतिं विना जगति अन्यः पुरुषः नास्ति इति पतिव्रता स्त्री मन्यते तथा आत्मना स्वसाधनं रक्षणीयम्। यः एतादृशम् अनन्यतया व्यवहरति तेन एव गुर्वाज्ञा प्रमाणीकृता इति भवति। तेन एव सः सत्यं सुखं प्राप्नोति। कस्मिन् अपि प्रेम आवश्यकम्। कस्मिन् अपि विश्वासः आवश्यकः। कस्मिन् अपि आत्मियता आवश्यकी। तस्य एव भूत्वा भवितव्यम् इति इच्छा सदा भवेत्।यावन्त्या अपेक्षया वयं प्रपञ्चे सुखं प्राप्तुं प्रयतामहे तावन्त्या अपेक्षया यदि परमेश्वरप्रीत्यर्थं प्रयतामहे तर्हि सुखं निश्चयेन प्राप्नुमः।

        • सद्गुर्वाज्ञाप्रमाणम् एव साधनेषु साधनम्।।*****

जुलै18 – साक्षित्वे निवसितारं दुःखं न बाधते। यावत् देहबुद्धिः वर्तते इत्युक्ते ‘अहं देही।’ इति भावना वर्तते तावत् चिन्ता भवेत् एव। चिन्ता मनसि वर्तते। यावत् संशयः न नश्यति परमेश्वरस्य आधारः न भाव्यते तावत् चिन्तापि मनसं न त्यजति। कुण्डलीग्रहाणाम् अधिकारस्य मर्यादा देहपर्यन्तम् एव। धनं कियत् प्राप्स्यते तद् तेन कथयितुं शक्नुमः। भगवन्तं प्रति कियती वृत्तिः वर्तते तद् कथयितुं शक्नुमः परं भगवतः प्राप्तिः भवेत् उत वा न तद् वक्तुं न शक्नुमः। मनुष्यजन्म प्राप्य अपि भगवतः प्राप्तिः न भवति चेत् जीवस्य महान् हानिः। भगवत्प्राप्तेः अतीव उत्कण्ठा आवश्यकी। कदाचित् एषा अस्वस्थता वर्तते चेत् मनुष्यः पिशाचवत् भवति। केन अपि सत्पुरुषेण मिलति चेत् सः शान्तः भवति। सत्पुरुषाः अस्मासु आपतन्ताः आपदाः न नश्यन्ति, परं तासां भयं निमीलयन्ति। आपदानाम् अपेक्षया तासां भयमेव भयङ्करम्। ‘अस्माभिः यत् ज्ञातं तद् जनैः अपि ज्ञात्वा सुखं प्राप्तव्यम्।’ इति एकः एव सत्पुरुषाणाम् उद्देशः। सत्पुरुषाणां विषयेषु स्वामित्वं वर्तते। जगति जयस्य प्रापणं कदाचित् सरलं परम् आत्मनि जयः अतिदुष्करः। आत्मानं जयित्वा सत्पुरुषाः विश्वे वर्तन्ते। ते साक्षित्वे विद्यन्ते। ये साक्षित्वे विद्यन्ते तेषां दुःखं न बाधते। सत्सङ्गत्यां भूत्वा तेषाम् अनुशासने भूत्वा च स्वमनसः सर्वसंशयनिराकरणं करणीयम्। वस्तुतः यः सत्पुरुषाणाम् अनुशासने भवति तस्य सर्वे संशयाः सहजं विनश्यन्ति। यावत् संशयः वर्तते तावत् असमाधानं वर्तते। समाधानं स्वेन एव प्राप्तव्यम् अस्ति, अतः यः समाधानं प्राप्तुम् इच्छति तेन बहु धावनं न करणीयम्। या स्थितिः आगच्छेत् तस्याम् एव समाधाने भवितव्यम्। कार्यालयीनाः विचाराः आत्मना सह गृहं न आननीयाः। ते तत्रैव स्थापनीयाः। गृहे शुद्धः निसंशयः च परिवेषः भवेत्। सरलता एकप्रकारेण बहु उत्तमा। भाग्येन एव सा प्राप्यते। योगभ्रष्टस्य स्वभावे सरलता वर्तते यथा कल्याणस्वामिनः जीवने। गतस्य विस्मरणे एव आनन्दः। परं तद् विस्मरणं कृत्रिमतया न आनेतव्यम् । भगवतः आत्यन्तिकेन स्मरणेन तद् आगच्छेत्। वृद्धत्वे मनः शरीरं च अति तरलं वर्तेते। तदा शरीरं सुष्ठु भवितुम् आनन्दः एव औषधिः। हसितव्यं, खेलितव्यं, बालकैः सह क्रीडीतव्यं वा हास्यविनोदान् कृत्वा आनन्देन जीवितव्यम्। यस्य आनन्दः निरन्तरं विद्यते तस्य जीवनं सार्थम्।

      • समाधानम् एव परमेश्वरस्य वास्तविकम् उपायनम् । तद् प्राप्तुं उपायः वर्तते भगवत्स्मरणम्। *****

जुलै19, - साधनस्य चतुरङ्गानि। यदा अहं भजनं करोमि स्म तदा मां देवं च विना कः अपि मया न दृश्यते स्म। भवतां कृते अपि तथैव भवेत् इति मम इच्छा वर्तते। तथा भवितुम् अर्हति अतः इदं मया कथ्यते। प्रपञ्चे प्रत्येकं जनेन अन्तर्मुखं भूत्वा स्वदोषान् अन्विष्य तान् निराकर्तुं प्रयतितव्यम्। मम दोषाः मया गिरीसमं द्रष्टव्याः। प्रत्येकं जनः स्वदोषान् दुर्लक्ष्य अन्येषां दोषान् पश्यति। स्वनेत्रे विद्यमानः मुसलः न दृश्यते परं अन्यस्य नेत्रस्थः कणः मुसलात् अपि बृहत् दृश्यते। इदम् अयोग्यम्। अन्येषां दोषाः न दृष्टव्याः। परनिन्दा न करणीया। आदिनम् ईश्वरप्राप्त्यर्थं किं कृतं परनिन्दायां कति कालः यापितः तद् प्रतिरात्रौ निद्रासमये गणितव्यम्। तेन चित्तशुद्धिः भवति। प्रतिदिनं एतादृशं करोतु. मासत्रये चित्तशुद्धं भवेत्। चित्तशुद्धर्थ्यं अन्यः उपायः सत्सङ्गः। सत्संङगार्थम् सत्पुरुषाः कुत्र द्रष्टव्याः। शोधितुं गच्छामः तर्हि परिचितुं शक्नुमः किम्? सत्पुरुषाः अस्माकं सदृशाः देहधारिणः सन्ति किम्? साम्प्रतम् अन्वेषणेन सत्पुरुषप्राप्तिः तु दुष्करम्। अतः दासबोधः सत्सङ्गं दद्यात्। समर्थरामदासेन उक्तम् अस्ति यत् यः विश्वासेन एनं ग्रन्थं पठति सः मम सङ्गं प्राप्नोति। सत्पुरुषान् न देहे द्रष्टव्यम्। ते यद् साधनं कथयन्ति तदेव ते इति मन्तव्यम्। चत्वारः उपायाः तैः कथिताः। ज्ञातुं निर्गुणत्वं दुष्करम् अतः सर्गुणोपासना इति प्रथमम्। तेन निर्गुणरहस्यम् अपि ज्ञास्यामः। द्वितीयं नम्रता। अभिमानेन परमात्मा दूरं गच्छति। सर्वैः सह यः नम्रः सः परमात्मने प्रियः। तृतीयम् अन्नदानम्। कलियुगे अन्नदानं महत्त्वपूर्णम् अतः करणीयम्। चतुर्थम् अखण्डभगवन्नामस्मरणम्। परमात्मप्राप्त्यर्थं सत्पुरुषैः नामस्मरणम् इति एका विचित्रा गोष्ठी दत्ता अस्ति। सत्पुरुषमेलनानन्तरं किमपि करणीयम् अस्ति इति भावः एव गन्तव्यः। ये तथा भावयन्ति तेषां कृते मेलनानन्तरम् अपि गुरुमेलनं न जातम्। अद्य एका यात्रा कृता श्वः अपरा करणीया इति इच्छा किमर्थम्? एकदा गुरोः मेलनं भवति चेत् किमपि कर्तव्यम् एव न अवशिष्टम् इति यः मन्यते तेन एव गुरुमेलनस्य सार्थकं कृतं इति। तस्मै गुर्वाज्ञां विना न किमपि साधनम्। सः एव तस्य परमार्थः। सा एव तस्य तीर्थयात्रा। अद्यापि किमपि करणीयम् इति तस्य चिन्तने वा मनसि भवति।

          • अत्यन्तं दृढतया सत्पुरुषसमागमः करणीयः,तेषा कृपापात्रं भवितव्यम्।*****

जुलै21 – वेदवत् नाम अपि अनादि,अनन्त,अपौरुषेयं च अस्ति। शास्त्रेषु कथितम् अस्ति यत् कृतयुगे ध्यानेन, त्रेतायुगे हवनेन, द्वापारे देवतार्चनेन च भगवान् प्राप्यते। परन्तु कलियुगे एतेषु किमपि न साध्यं, अतः नामस्मरणमात्रेण भगवतः दर्शनं भवितुम् अर्हति। इमं शास्त्रसिद्धान्तं स्वयम् अनुभूय सत्पुरुषैः जनेभ्यः कथितं यत् सार्धत्रिकोटिपरिमितजपमात्रेण चित्तशुद्धिः भवति तथा त्रयोदशकोटिपरिमितजपमात्रेण भगवतः दर्शनं भवति। भवन्तः मह्यं न परिगणयन्तु। परं येषां सत्पुरुषाणां वचनेन अहं नामविषये कथयामि ते ज्ञानेश्वरमहाराजः,तुकाराममहाराजः,एकनाथमहाराजः,समर्थरामदासः च वेदबाह्यं वक्तुं कदापि न प्रभवन्ति। वेदैः यत् परमात्मस्वरूपं न अवगतं तद् सत्पुरुषैः तद्रूपं भूत्वा ज्ञातम्। साम्प्रतं संयमबन्धनानि विगलितानि, अतः सत्पुरुषैः नामस्मरणं कुर्वन्तु इति अत्यन्तम् आर्ततया कथितम् अस्ति। वेदाः भगवन्तं वर्णयन्ति। नाम अपि भगवतः अस्तित्वं प्रकटीकरोति। प्रत्येकं वेदमन्त्रस्य आरम्भे ‘हरिः ओम्’ इति वर्तते तद् नाम एव अस्ति। यथा वेदः अनादि तथा नाम अपि अनादि। यथा वेदः अनन्तः तथा नाम अपि अनन्तम्। यथा वेदः अपौरुषेयः तथा नाम अपि अपौरुषेयम्। साक्षात् शिवः नामजपं कृतवान्। अतः नाम अनादि साधनम् वर्तते। इतरसाधनानां कृते आहारविहारादि बन्धनानि सन्ति। भगवतः नाम्ने तानि न। नाम आगन्तुकं नास्ति। आदिनारायणेन वेदकथनसमये ओम् इति ध्वनिः कृतः। तदेव नाम। अतः अहं सर्वान् प्रार्थये यत् सर्वैः नामजपं करणीयम्। किंबहुना नामजपे कृते सति एव वेदानां वास्तविकम् अर्थं ज्ञातुं शक्नुमः। वेदः इत्युक्ते भगवतः स्तवनम्। स्तवनसमये उत्युक्ते वादगायनसमये अवधानं शब्दान् प्रति न भवेत्। तेषाम् अर्थं प्रति भवेत्। अर्थं न अवगच्छामः चेदपि अनधानं भगवन्तं प्रति भवेत्। वयं तावदेव विस्मरामः। नामस्मरणं कुर्वद्भिः जनैः शास्त्रविरुद्धं कदापि न व्यवहर्तव्यम्। यावत् शक्यं वैदिकं कर्म कर्तव्यम्। परन्तु चित्तशुद्ध्यर्थं केवलं तदेव न अवलम्ब्य( तदोपरि निर्भरं न भूत्वा) कर्मणा सह नामजपम् अपि करणीयम्। भगवान् वञ्चनां न सहते। यदि आत्मनः मनः स्वच्छं नास्ति तर्हि भगवान् हस्तं पृष्ठतः करोति। परं यदि वास्तविकी अनन्यता वर्तते तर्हि सः उदरपूर्णं यच्छति। ईदृशी तन्मयता आवश्यकी यत् ‘अहं नामजपं करोमि।’इति अपि विस्मरेत्। जुलै22 – गुरुः अस्मान् अन्तिमं सुखं दर्शयति। कश्चन् बालकः कूप्याः तटे स्थितः आसीत्। तस्य कञ्चित् वस्तू कूपे पतिता आसीत्। ‘तं निष्कासयितुम् अहं अन्ते कूर्दयामि।’ इति सः वदन् आसीत्। तत्र कश्चन् जनः उक्तवान्,” एतादृशं न करोतु। निमज्य भवान् मरिष्यसि।” परं सः न अन्वमन्यत। सः पिता तं दमयित्वा चपेटिकाः दत्त्वा च अन्ते नीतवान्। अधुना भवन्तः बालकः ताडितः इति कारणेन तं दूषयन्ति किम्?‘ एकः एव बालकः। नवसेन जातः। तस्य इच्छानुसारं किमर्थं न कृतम्?’ इति वदामः किम्? न किल। गुरुः अपि किं करोति? वयं विषयसुखम् याचामहे। तं ददाति चेत् अस्माकं घातः एव इति सः जानाति। अतः अस्मान् त्रातुं सः हितवचनानि कथयति। न स्वीकृतं चेत् आपदाः आनीय भयं दर्शयति। यदि वयं रोदिमः सः अस्मान् उन्नयति। वयं तु उत्तमाः पठिताः। बालकसदृशं न अज्ञाः परं ज्येष्ठाः च। तथापि वयं विषये पतितुम् इच्छामः। गुरुः कथयति विवाहं न करोतु। परं वयं विवाहार्थं तस्य पृष्ठतः धावामः। तथा अन्ते गुरुः किमपि न जानाति इति अपि वक्तुम् उद्युक्ताः। अधुना यद् पश्यामः तदेव वास्तवं सुखम् इति चिन्तयामः। परम् अन्तिमं सुखं गुरुः एव जानाति। अतः सः दृश्यमानात् सुखात् अस्मान् परावर्तयति। अतः गुरुवचनं विश्वस्य तस्य आज्ञया व्यवहर्तव्यम् इति एव श्रेयस्करम्। तेन कथितं साधनं एव करणीयम्। तेन एव अन्तिमसुखलाभः भवेत्। गुरुः आज्ञापयति इत्युक्ते किम्? आत्मनः मनः यत्र आसक्तम् ततः परावर्तुं सः प्रयतते। भगवान् भक्तानांम् आपदाः नश्यति। इत्युक्ते तेषां प्रापञ्चिकानि सङ्कटानि दूरीकरोति इति न। तद् तु तस्य कृते बहु सहजम्। परं भक्तं समाधाने संस्थाप्य आपदाः सोढुं सामर्थ्यं सः ददाति। भक्तं सः सदा स्वस्मरणे संस्थापयति। एतादृशाः भक्ताः एव सत्पदं गच्छन्ति। कस्यचित् विदुषः वैदुष्यं ज्ञातुं अस्माभिः स्वल्पं वा वैदुष्यं प्राप्तव्यम् भवति। तद्वत् सत्पुरुषान् अवगन्तुं तेषां स्वल्पं वा गुणं अस्मत्सु भवेत्। सत्पुरुषाणां मुख्यं गुणम् इत्युक्ते ते भक्तिं लग्नाः भवन्ति। सत्पुरुषाणां बाह्यव्यवहाराः देशकालानुरुपेण भिन्नाः भवितुम् अर्हन्ति। परम् अन्तस्थं भगवत्प्रेम सर्वेषां समानम् एव।

      • प्रापञ्चिकाः जनाः विषयप्राप्त्यर्थं प्रयतन्ते परं विषयं याचित्वा अपि यः न ददाति, तस्माद् परावृत्तं करोति सः सत्पुरुषः।*****

जुलै23 –प्रथमं श्रद्धा अनन्तरं कृतिः तदनन्तरं अनुभवः गुरोः अनुशासने व्यवहर्तृणां कृते समस्याः कदापि न वर्तन्ते। राज्ञ्याः कृते माध्यान्नभोजनस्य चिन्ता न विद्यते।तथैव गुरोः आधारेण यः जीवति तस्य कृते का चिन्ता? दीर्घकूर्दनार्थं किञ्चित् पृष्ठतः आगन्तव्यं भवति। सुवर्णं भवितुं रौप्यकेन आदौ लोहं भाव्यम्। तथा गुरोः आधारं प्राप्य अपि आरम्भे अधोगतिः अनुभूयते सा अग्रिमस्य महत्कार्यस्य पूर्वसिद्धता एव। तात पुत्रं हस्ते स्वीकृत्य तरणं पाठयति तदा मध्ये मध्ये हस्तं दूरीकरोति। परं बालकस्य विश्वासः भवति यत् पिता मां निश्चयेन त्रायते तथैव अस्माकं कृते गुरोः आधारः अस्माभिः विश्वसनीयः। रुग्णकाले वयं धनं प्रदाय वैद्ये विश्वसामः। श्रद्धां स्थापयामः। औषधविषये किमपि न ज्ञात्वा स्वीकुर्मः। यदि व्यवहारे एतादृशं भवति तर्हि ‘ श्रद्धां विना नामजपं न करोमि।’ इति वचनं न योग्यम्। वैद्ये विश्वसामः कारणं वयं जीवितुम् इच्छामः। तथा भगवत्प्राप्तेः आर्तता भवति चेत् मुनष्यः तस्य नामस्मरणं करिष्यति एव। प्रथमं श्रद्धा अनन्तरं कृतिः तदनन्तरं कृतिफलानां अनुभवाः इति निसर्गनियमः परमार्थे अपि तेन मार्गेण गन्तव्यम्। व्यवहारे भवन्तः परस्परेषु यावतीं निष्ठां स्थापयामः तावती भगवति स्थापयामः चेत् भगवान् भवतेभ्यः निश्चेन समाधानं दद्यात्। रेलयाने चालके विश्वस्य वयं शान्ततया निद्रामः। तथैव भगवति श्रद्धां संस्थाप्य चिन्तां न कृत्वा स्वस्थं वर्तामहे। यानचालकस्य अपेक्षय़ा भगवान् निश्चयेन श्रेष्ठः। परमार्थे अन्धश्रद्धायाः आवश्यकता एव न विद्यते। परं श्रद्धां विना तत्र न किमपि कर्तुं प्रभवति। वक्ता कथमपि भवेत् श्रोत्रुः यदि सम्यक् श्रद्धा वर्तते तर्हिः तया श्रद्धया एव सः योग्यतां प्राप्नोति। सत्पुरुषाणां वचने सम्पूर्णां श्रद्धा भवेत्। एतादृशी श्रद्धा भवति चेत् महते भाग्याय। वस्तुतः यः यादृशीं श्रद्धां प्राप्नोति सः शीघ्रं सुखीं भवति। अधुना सा अस्मत्सु नास्ति तर्हि न्यूनातिन्यूनं स्वं प्रति प्रामाणिकं भवामः। आदौ विपुलां चिकित्सां कृत्वा स्वध्येयं निश्चेतव्यम् परं एकदा तद् निश्चिनोति चेत् दृढतया श्रद्धया च तस्य साधने एव भवामः। परमात्मनं प्रति प्रार्थयामहे यत्, ‘ कस्याम् अपि अवस्थायां मां स्थापय, परं मम समाधानं मा भञ्जताम्। मम अहंकारं निष्कासयतु। भवतः विस्मरणं न भवेत्। किमपि भवन्तं याचितुम् इच्छा न भवेत्। नामनि प्रेम भवेत्। तथा भवतः चरणौ दृढा श्रद्धा सदा भवेत्।’

      • *श्रद्धां विना परमार्थः असम्भवः*****

जुलै24 – सद्गुरुं शरणं गच्छेत्। प्रत्येकं जनः उदरनिर्वाहार्थं प्रयतते। परं स्वेच्छानुसारं वयं प्राप्नुमः किम्? न। एतद् अहं वदामि, तस्य कारणं वर्तते यत् विषयाणां कृते वयम् एतावत् प्रयतामहे तर्हि देवस्य कृते प्रयत्नं न कुर्मः किम्? सत्पुरुषैः कथितः मार्गः आचरणीयः। एकदा दृढं विचिन्त्य गुरुः कल्पितः चेत् सः कथयति तदेव साधनं स्वीकरणीयम्। गुरुः देहे एव भवेत् इति न मन्तव्यम्। गुरुः कदापि देहे न भवति। सः साक्षात् ईश्वरः एव इति मनसि निधाय व्यवहर्तव्यम्। एतादृशी भावना भवति चेत् गुरुः कथमपि भवेत् ईश्वरेण तत्र आगन्तव्यं भवति एव। गुरोः कथनानुसारं साधनं करणीयं तेन एव देवस्य प्राप्तिः भवति। गुरुः नाम विना किं कथयेत्। तस्मिन एव सदा भवितव्यम्। यः वस्तुतः साधने भवति सः सहजं एतद् सर्वं प्राप्नोति। अतः गुरुम् अनन्यतया शरणं गत्वा सः एव सर्वं करोति इति मत्वा च यद् भवति तस्मिन् आनन्दं मन्यामहे। भगवतः विषये यदि जिज्ञासा उत्पद्यते, तर्हि महत्भाग्यम्। एतादृशः जिज्ञासुः शिष्यः मिलति चेत् गुरुः अपि धन्यताम् अनुभवति। श्रीरामस्य जिज्ञास्ववस्थां दृष्ट्वा वसिष्ठः प्रमुदितः। तद् तु स्वाभाविकम् एव। सत्पुरुषाः एकम् एव देवम् एकं साधनम् एकं गुरुं च अमन्यन्त। तद्वत् अस्माभिः अपि एकस्मिन् एव नामनि भवितुं प्रयत्नव्यम्। हसन्तं क्रीडन्तं च बालकं पिता स्वीकरोति। रोदिति चेत् भूमौ स्पयति। एतस्मात् विपरीतं रुदन्तं बालकं माता स्वीकरोति। देवसत्पुरुषयोः मध्ये एषः एव भेदः। हिमात्जलं कर्षयामः चेत् निःशेषं भवति। तथैव सत्पुरुषात् भगवत्प्रेम कर्षयामः चेत् किमपि न अवशिष्यते। साधनकरणस्य कष्टं अकृत्वा इष्टप्राप्तेः मार्गः इत्युक्ते सत्संगतिः। आत्मनः मनसि संगतेः महान् परिणामः भवति। केवलं हेतुः कार्यं न करोति ,संगः कार्यं करोति। संगस्य प्रकारद्वयम्। घातकः उत्तमः च। विषय़ीजनानां सङ्गः घातकः। सत्पुरुषाणां सङ्गः उत्तमः। सत्सङ्गत्यां स्वदोषान् अनुभवति सः शीघ्रं प्रगतिं करोति। यं सत्पुरुषं प्रति वयं गच्छामः तेन कथितं मनसा आचरितुं प्रयतामहे चेत् तस्य वास्तविकं सङ्गतिः जाता । सत्पुरुषाणां प्रचितिः द्रष्टुं प्रपञ्चे मनोनुकूलं भवेत् इति न अपितु चित्तशुद्धिः एव सत्पुरुषसङ्गत्याः वास्तविकं प्रचितिः वर्तते।

        • सत्पुरुषं परिचिनोतुम् अनुसन्धानं विना अन्यत् साधनं नास्ति।******

जुलै 25 – न त्यजतु भगवन्नाम। संकल्पे महती शक्तिः वर्तते।इच्छा यदि अतिप्रबला भवति तर्हि सा वस्तुं आत्मानं प्रति अवश्यम् आकर्षयेत्। तथैव भगवत्प्राप्त्यर्थं यदि प्रबला इच्छा वर्तते, तर्हि भगवान् मिलति। प्रापञ्चिकानि वस्तूनि कियन्ती अपि प्राप्तानि तर्हि तानि स्वभावतः अपूर्णानि अतः तैः पूर्णं समाधानं न प्राप्यते। एतस्य विपरीतं, यत् भगवान् स्वयं पूर्णः अतः स्ववासनानां पूर्णा तृप्तिः भूत्वा ताः क्षीयन्ते। अनन्तरं स्वाभाविकं नश्यन्ति। अतः निरन्तरं भगवान् मया इष्यते इति भाव्यम्। तस्य नामजपः करणीयः इत्युक्ते ‘भवान् माम् आवश्यकः’ इति एव निरन्तरं भाषणम्। वास्तविकेन प्रेम्णा रामे आत्मनः भारं स्थापयामः चेत् सः कल्पनातीतं घाटयति। आत्मनः देहः प्रपञ्चः च भगवत्सत्तया विद्यते एतद् भानं सततं मनसि निधाय जगति व्यवहर्तव्यम्। तेन कदापि न्यूनतां न अनुभवामः। नाम्नि एकः विशेषः। विषयार्थं नामजपं कुर्मः तर्हि अपि तद् स्वकार्यं करोति एव, इत्युक्ते मनः निर्विषयी करोति । अतः किमर्थमपि नामजपं भवतु परं चित्तशुद्ध्यर्थं यदि करोति तर्हि कार्यं शीघ्रं सिद्ध्येत्। साधनं तद् तथा साध्यमपि तदेव। नाम एव सत्यम्। तद्परम् अन्यत् सत्यं नास्ति। अन्यत् साधनं नास्ति इति दृढः भावः भवेत्। किमपि कार्यकरणसमये तस्य हेतुः मनसि विद्यते तथा नामस्मरणसमये किमर्थं मया क्रियते इति भावः मनसि निरन्तरं विद्येत। एतत् भानं निरन्तरं रक्षणीयम् तथा ‘अहं भगवतः अस्मि’ इति ज्ञानम् एव अनुसन्धानम्। वस्तुतः अहं ‘भगवतः एव’ परं भ्रमेण ‘अहं विषयाणाम्’ इति अहं मन्ये। सत्पुरुषाः ‘भवान् विषयाणां न, भगवतः’ इति कथयन्ति।एतद् एव सत्पुरुषाणां वास्तविकं कार्यम्। तदर्थं ते नाम कथयन्ति। नाम स्वीकरणम् इत्युक्ते ‘ अहं विषयाणां न अहं भगवतः’ इति सततं मनः कथनीयम्। मनसि तथा भानं उत्पादनीयम्। एतस्य भानस्य सततं रक्षणार्थं पुनः पुनः मनः तदेव कथनीयम् इत्युक्ते तदेव नामजपं सततं करणीयम्। भगवान् वास्तविकं मनसा यः इच्छति तस्य कार्यं भवति एव। जगति विद्यमानं सन्मानं,लौकिकं,धनं,विषयाः इति आदि मह्यं मास्तु इति भाव्यते वा? तथा नास्ति चेत् केवलं मुखेन ‘अहं भगवन्तम् इच्छामि’ इति जल्पनं न योग्यम्। यः भगवतः प्रेम इच्छति तेन जगतः लालसा त्यक्तव्या। जगतः पृष्ठतः धावामः चेत् साधनं नश्येत्। भवद्भिः सततं भगवतः नामस्मरणं करणीयम्, सः मनसा प्रार्थनीयः, तथा भवति चेत् भवन्तः कियान्तः अपि पतिताः भवन्तु पवित्राः एव भविष्यन्ति इति मम भवद्भ्यः आशीः वर्तते।

        • यद् यद् संकल्पः उद्पद्यते तद् रामस्मरणयुक्तः भवेत्।**

जुलै 26 – साधनचतुष्टयम् भवननिर्माणसमये आदौ भूमिः खनित्वा अधिष्ठाननिर्माणं करणीयं भवति, तद्वत् परमार्थसिद्धर्थं प्रथमं साधनसिद्धिः करणीयं भवति। शास्त्रैः चत्वारि साधनानि उक्तानि। प्रथमं साधनं नित्यानित्यवस्तुविवेकः। विषयः अनित्यः। तं प्रति उदासं भवितव्यम्। यः नित्यः सः भगवन्तः। तं भगवन्तं प्रति अवधातव्यम्। अनन्तरं द्वितीयं साधनं यत् जगति वा स्वर्गे वा विद्यामानानां भोगानां विषये वासना नाशितव्या। आत्मनः मनः बाह्यविषयान् प्रति धावति। ततः तं कर्षणीयम्, भगवन्तं प्रति योजनीयम् च। विनादोषं यदि कश्चन् पीडयति तर्हि तं शान्ततया सहनीयम्। गुरुवचनं विश्वसनीयम्। हर्षविषादं न मत्वा सन्तोषेण भवितव्यम्। एतद् तृतीयं साधनम्। अन्ततः भगवत्मेलनस्य वा सद्गुरुमेलनस्य तीव्रा इच्छा भवेत्। एतानि सर्वाणि साधनानि यदि विद्यन्ते, तर्हि ब्रह्मदर्शनं भवितुम् अर्हति। ब्रह्मदर्शनार्थं यथार्थं तीव्रं च वैराग्यम् आवश्यकम्। धनलोभः पूर्णतः नष्टव्यः। कामवासना मनसः निःशेषं गच्छेत्। मोहेन कदापि न ग्रस्तव्यम्। केवलं प्रपञ्चः सम्यक् करणम् इति न मनुष्यजन्मनः ध्येयम्। पशवः अपि प्रपञ्चं कुर्वन्ति। मनुष्येन उपासनां कृत्वा भगवतः प्राप्तिः करणीया। तर्हि एव प्रपञ्चे कृताः परिश्रमाः सार्थकाः। साम्प्रतं नामसदृशं अन्यत् सरलं साधनं न विद्यते। भगवतः नाम्नि महत् सामर्थ्यं विद्यते। तस्य नामजपं कुर्वन् यः जगति वर्तते सः व्यवहारे सदा यशःस्वी भेत् इति न परं भगवान् तस्य लज्जारक्षणं निश्चयेन कुर्यात्। प्रपञ्चे यशापयशं तात्कालिकम्। भगवतः अनपसन्धानस्य एव वास्तविकं महत्त्वम्। रामस्य इच्छया एव सुखदुःखभोगाः भवन्ति। परं एतद् अस्माभिः अन्ते स्मर्यते। अतः सुखं च दुःखं च बाधेते। अतः वयं आरम्भतः एव रामस्य इच्छया सर्वं भवति इति मनसि निधाय व्यवहरामः। तदर्थं तस्य नाम्नः आवश्यकता विद्यते। प्रपञ्चस्य वैचित्र्यं वर्तते यत् अद्य सुखम् अनुभूयते चेत् श्वः दुःखपूर्णा स्थालिका पुरतः आगच्छति। अतः एकस्मिन् नेत्रे सुखाश्रु अपरे नेत्रे दुःखाश्रु च धृत्वा एव प्रपञ्चे भवितव्यम्। यद् घटति तद् प्रत्येकं भगवतः इच्छया एव अतः एकस्य सुखम् अपरस्य दुःखं किमर्थं मन्यामहे? प्रत्येकं जनेन स्वचित्तं भगवन्नाम्नि एव योजनीयम् तथा सुखदं दुःखदं वा प्रसङ्गः भवेत् तस्मिन् सम्मिल्य भवितव्यम्। ‘नामस्मरणं कुर्वतः जनस्य पृष्ठतः रामः स्थितः अस्ति। तस्य सः कल्याणं करोति’ इति मम कथनं न विस्मरन्तु।

      • अतिप्रेम्णा नामस्मरणं कुर्वन्तु। नाम्नि तल्लीनाय जनाय सुखदुःखं न बाधते।*****

जुलै 27 - केवलं एकं रामं एव याचामहे। अस्माकं जीवने प्रत्येकं क्रिया रामस्य कृते एव भवेत्। अस्माकं जीवनम् अपि तस्य सेवां कर्तुं भवेत्। किं बहुना पुत्राय यथा माता, ज्येष्ठपुत्राय यथा पिता, पत्न्याः कृते यथा स्नेहलः पतिः लिपिकस्य कृते यथा सज्जनः स्वामि, कर्मकरस्य कृते यथा तस्य अधिकारि, कस्यचित् कृते विश्वासार्हं मित्रम् तथा प्रत्येकं जनस्य कृते प्रियः रामः भवेत्। अतः प्रत्येकं जनेन गोन्दवलेग्रामम् आगन्तव्यम्। भगवतः अस्तित्वस्य वास्तविकं भानं भवितुं तस्य अनुसन्धाने जीवनस्य प्रत्येकः क्षणः कथं यापनीयः इति एतद् सगुणोपासनां विना जनसामान्यः अवगन्तुं न शक्नोति। जगति प्रत्येकं घटनायां रामस्य इच्छा एव कार्यरता वर्तते इति अस्माभिः ज्ञातव्यम्। न केवलं एतावद् परं सुयोग्यप्रयत्नानन्तरं यत् सम्यक् वा असम्यक् फलं अस्माभिः प्राप्यते तद् रामेच्छया एव इति श्रद्धा भवेत्। एतादृशी श्रद्धा यस्य वर्तते तं सुखदुखं न बाधते। सर्वं रामः एव करोति। वास्तविकः कर्ता रामः इदं मनसि सम्यक् निधाय भगवते कर्तृत्वे दत्त्वा अहङ्कारः नष्टव्यः। वस्तुतः रामस्य कृते का न्यूनता ? अस्माभिः सः एव याचनीय। सः दद्यात् वा न दद्यात्। यद् ददाति तस्मिन् समाधातव्यम्। अन्यं कम् अपि न याचितव्यम्। यदि याचामहे तर्हि यद् उपासनायां न्यूनता एव। परं दाता स्वसन्तोषेण ददाति तर्हि न त्यक्तव्यम्। मम जीवने नामस्मरणं विना किमपि साधनं न कृतम्। मम गुरुः मह्यं नाम एव दत्तवान्। तदेव अहं सर्वभ्यः ददामि। भवन्तः नामजपं कुर्वन्तु। भवत्भिः निश्चयेन रामः मिल्यते। मुखेन निरन्तरं राम राम इति वदन्तु। भगवतः नाम्नि जीवस्य कल्याणम् अस्ति इति मम अनुभवः। अतः अधिकाधिकैः स्त्रीपुरुषैः नामस्मरणं करणीयम्। कस्यापि कार्यस्य पृष्ठतः भगवतः उपासनायाः सामर्थ्यं भवेत्। गावः रक्षणं सेवां च अन्य कस्यचित् प्राप्त्यर्थं न भवेत् केवलं भगवतः कृते भवेत्। यद् किमपि वयं कुर्मः तद् भगवतः कृते कुर्मः इति भानं निरन्तरं भवितुं सततं नामस्मरणम् एव करणीयम्। यदा समाजे अधिकाः जनाः विषयासक्ताः भवन्ति, तदा कलियुगम् आरब्धम् इति ज्ञातव्यम्। सज्जनानां बुद्धिः अपि भ्रष्टा भूत्वा ते विषयाधीनाः भवन्ति। विषयं प्राप्तुं किमपि कर्तुं च ते सिद्धाः। अस्मिन् समये भगवतः नाममहात्म्यं यः कथयति तस्योपरि आपद्प्रसङ्गाः आपतन्ति एव। परं परमात्मा पालयति इति निष्ठया यः भवति सः प्रत्येकं आपदायाः सुखेन बहिः आगच्छेत् इति विषये शङ्काः न वर्तन्ते। अतः प्रत्येकं जनेन नाम्नि लग्नव्यम्। जगत्लालसा त्यक्तव्या तथा भगवतः प्रेम लब्धव्यम्।

        • राम कर्ता इति यः वदति सः सुखी, अहं कर्ता इति यः वदति सः दुःखी।

जुलै 28 – नामस्मरणं कर्तारं परितः अस्मि। गूढान्वेषणं मनुष्यस्य प्रवृत्तिः वर्तते। कोङ्कणे निर्झराः दृश्यन्ते। ते कुतः आगच्छन्ति इति न ज्ञायते। उत्युक्ते केवलं दृश्यवस्तूनां मूलम् अपि न जानीमः। अतः यत् अदृश्यम् अस्ति तस्य मूलं तु कथं ज्ञायते? कथं वदामि?, मनः कुतः आयाति? च इति ये देहबुद्धौ निवसन्ति तेषां कृते ज्ञातुं दुष्करम्। नाम्नि ये आत्मानं विस्मरन्ति ते एव मां वास्तविकं जानन्ति। प्रपञ्चे स्वकल्याणं साधितुं भवन्तः मां प्रति आगच्छन्ति। परं अङ्गारः यावत् घर्षयामः तावत् कृष्णः एव। तद्वत् प्रपञ्चे कथमपि कुर्वन्तु दुःखमेव उद्भवति। ज्ञात्वा प्रमादं कुर्मः तर्हि दोषः अस्माकम्। अज्ञात्वा प्रमादः भवति चेत् न दोषः। प्रपञ्चे आसक्त्याः कारणेन दुःखपरम्परा उद्भवते इत् अस्माकं नित्य अनुभवः तथापि वयं प्रपञ्चे आसक्तिं स्थापयामः। किम् एषः न दोषः? प्रमादाः कुत्र भवन्ति इति अन्वेष्टव्यं, तथा तत्र परिष्करणीयम्। प्रपञ्चे मनोनुकूलं क्व मिलति? तद् मेलनं वा न इति अस्माकं हस्ते नास्ति। अतः इदम् इच्छामि वा न इच्छामि इति किमर्थं चिन्तनीयम्? रामस्य एव भूत्वा भवितव्यम् इति प्रर्याप्तम्। यः रामं विषयं याचे सः रामात् विषये एव स्निह्यति इति भवति। अहं भवन्तं प्रति आगच्छामि परं भवन्तः मार्गम् एव रिक्तं न स्थापयन्ति। मार्गः रिक्तं कुर्वन्तु इत्युक्ते नामस्मरणं कुर्वन्तु। अहं कदापि कस्यापि विषये निराशः नास्मि। यः मनुष्यरूपेण जायते तस्य उद्धारः भवति एव। मां रामं विना अन्यः कः अपि जिवलगः( अन्तःप्रियः) नास्ति। देहभोगानां कृते अहं न जामीतः। भवन्तः नामस्मरणं कुर्वन्तु इति इदं विना न किमपि अपेक्षे। अहोरात्रिः अहं मम जनान् कथयामि यत् किमपि भवेत् भगवन्नाम न त्यजन्तु। यः स्वं मम इति कथयति तस्य नाम्नः प्रेम भवेत् एव। जीवने मा बिभ्यतु। धैर्यं न त्यजन्तु। यदि स्वीकर्तुम् इच्छन्ति तर्हि नाम एव स्वीकुर्वन्तु। मम नियमः अस्ति यत् परमार्थे व्यवहारमार्गे आगच्छेत् एतादृशं किमपि न भवेत्। मम ग्रामे धनं न फलति अपितु भक्तिः फलति। यस्य समीपे नाम अस्ति तं परितः अहम् अस्मि। अहं भवतां समीपे अस्मि। कथम् इति मा चिन्तयन्तु। भवन्तः केवलं नामस्मरणं कुर्वन्तु। अहं सर्वं करोमि। जागृतावस्थायां नामस्मरणदायित्वं भवताम् अन्यावस्थायां नामस्मरणस्य मम दायित्वं, तद् अहं पारयामि।

        • यत्र नाम तत्र अहम्। इति विश्वासेन भवितव्यम्।।

जुलै 29 - अहं कस्यापि दुःखं सोढुं न शक्नोमि। बहवः जनाः आगच्छेयुः, तेभ्यः भोजनं दातव्यं, तथाच भगवतः नाम जपनीयम् इति त्रयः विषयः मम प्रियाः। यः एतान् त्रीन् विषयान् करोति सः जीवने कदापि न्यूनतां न अनुभवेत्। यः मम स्मरणे प्रपञ्चं करोति तस्य प्रपञ्चे अहम् अस्मि। मम जनः प्रपञ्चे यदि दुर्लक्षं करोति तर्हि मह्य न रोचते। किं बहुना अन्येषाम् अपेक्षया तेन आधिका दक्षता दर्शनीया। यदि न्यूनं तर्हि चिन्तां न कृत्वा, यदि आधिकं तर्हि ममत्वं विना यः यथावश्यकं तथा व्ययं करोति यः मह्यम् एव सर्वं ददाति। अहं विनाकारणम् अन्येषां दायित्वं स्वीकरोमि। अहं मम प्रपञ्चं सम्यक् न कृतवान् परम् अन्येषां सम्यक् करोमि। मम समीपे एकमपि रुप्यकं नासीत्। भोजनार्थं तु बहवः जनाः। परं मया कदापि चिन्ता न कृता। कस्यापि पुरतः अद्यापि मया धनयाचना न कृता। श्वः कदाचित् कश्चन् मम समीपे मां न ज्ञापयित्वा एकलक्षरुप्यकाणि स्थापयति तर्हि अहं तानि विष्ठासमं मत्वा त्यक्षामि। स्वश्रमेण चत्वारि नाणकानि अर्जयित्वा उदरं पूरयामि। एकं वस्त्रं धृत्वा मारुतिमन्दिरे उशित्वा भिश्रां याचयित्वा नाम जपामि इति मह्यं रोचते। इदं कर्तुं कः सिद्धः? मया नामजपाग्रहः न त्यक्तः। यद्यपि अहम् आधिकं दरिद्राणाम् अस्मि, तथापि प्रपञ्चे दैन्यं न मह्यं रोचते। अन्येषां कृते निस्वार्थतया याचना करणे मम न लज्जा। व्यवहारतः मयि एकः दोषः वर्तते यत् अहं कस्यापि दुःखं सोढुं न शक्नोमि। मयि प्रेम विना किमपि भवन्तः न प्राप्तुं शक्नुवन्ति। मत्तः प्रेम निष्कासयामः चेत् किमपि अवशिष्टं न भवति। अहं केवलं मातृप्रेम एव जानामि। मां प्रति आगन्ता मातृगृहम् एव अनुभवेत्। प्रत्यागमनसमये तस्य नेत्रयोः अश्रूणि भवेयुः। अन्ये आत्मनः आधारं मन्येरन्। अहं भूत्वा किमपि न भवति। यद् घटनीयं तद् घटति एव। परं आत्मनः भवितव्ये सति अन्यैः आधारः अनुभवनीयः। मम कति दिनानि सन्ति इति न जाने। अहं भवामि वा न, यद् मया आरम्भे कथितम् तदेव अन्ते कथयामि। कथमपि भवन्तु परं भगवन्नाम न त्यजन्तु। रामरायः सर्वेषु कृपां कुर्यात् एषा एव मम तस्मै प्रार्थना वर्तते। भवन्तः मम कृते आत्मीयतया परिश्रमान् कुर्वन्ति इत्यस्य मम ज्ञानम् अस्ति। एतेषां कष्टानां फलं रामरायः एव भवद्भ्यः दद्यात्। भवन्तः सर्वे आनन्दे भवन्तु। इति मम सर्वेषां कृते आशीः वर्तते।

      • मम अनुभवः वर्तते यत् य़ः स्वस्य सर्वं रामाय ददाति तस्मै सर्वं रामः पूरयति।*****

जुलै 31 –वयं भागवताः भवामः चेत् सुखिनः भवामः। वयं यत् साधयितुमिच्छामः तत् अवध्यायामः। परमात्मा प्राप्तव्यः। शरीरः प्रपञ्चः च साधने इति दृढं मनसि निदधामः। वयं साधनाय साध्यं साध्याय साधनं मन्यामहे, तेन प्रमदामः। कश्चन जनः दारपुत्रैः सह मुम्बईनगरीं गन्तुकामः आसीत्। रेलयाने उपवेष्टुं लब्धमिति कारणेन बालकाः प्रमुदिताः। गृहस्थः अपि उपविष्टः। परन्तु अवतरणसमये बालकाः खिन्नाः। गृहस्थः तथा न अमन्यत। वसिष्ठः राममुवाच, ‘हे राम प्रपञ्चे भवान् अन्तरङ्गे निसङ्गः भवतु’। ‘अहं न देहः। अहं आनन्दरूपः आत्मा। निःसङ्गः अस्मि’ इति दृढां भावनां कल्पयित्वा प्रपञ्चः करणीयः। भूमिं त्यक्त्वा कः अपि स्थातुं न शक्नोति। तद्वत् प्रपञ्चः कः अपि त्यक्तुं न शक्नोति। परं तत्र ‘रामः कर्ता’ इति मत्वा व्यवहरति सः पारमार्थिकः,’अहं कर्ता’ इति मत्वा व्यवहरति सः प्रापञ्चिकः। अहं कर्ता इति मत्वा यदि प्रपञ्चः दुःखरूपः भवति सुखरूपः न भवति तर्हि तस्य कर्ता अहं न इति सिद्धं भवति। प्रपञ्चः अपूर्णः। केवलं रामः पूर्णः। लवणस्यूतं कियत् अपि क्षालितं, तस्य लवणत्वं न गच्छति, तद्वत् प्रपञ्चस्य वर्तते। अतः परमार्थं ध्येयं मत्वा तस्य सुलभं साधनं नाम नामस्मरणम् अखण्डं कुर्याम। प्रपञ्चे वयं कियान्तः परिश्रमान् कुर्मः। परं तावत् प्रतिफलं न लभ्यते। तथा परमार्थे नास्ति। यावत् परमार्थं कुर्मः तावत् समाधानं लभामहे। आजीवनं प्रपञ्चं कुर्मः चेत् अन्तिमक्षणे प्रपञ्चम् एव स्मरामः। अतः अलं प्रपञ्चस्य लोभेन। प्रपञ्चवस्तूनि अद्य वा श्वः नश्यन्ति इति ज्ञात्वा तेषां विषये अलिप्ततया व्यवहर्तव्यम्। एषा वृत्तिः अभ्यासेन सततं चिन्तनेन च वर्धनीया। प्रपञ्चे प्राप्तविषये अलं हर्षेण। यत् गतं तद्विषये अपि शोकः मास्तु। देहः प्रारब्धे त्यजामः। इदं साधयितुं एका सरला सुपरिणामी युक्तिः विद्यते। वयं रामस्य भवेम। रामः यथा स्थापयति तथा समाधानेन भवामः। इदं सर्वं विश्वम्, अखिलः प्रपञ्चः च ईश्वरस्य वर्तेते। तं तस्मै दत्त्वा वयं मुक्ताः भवेम। ‘सर्वम् ईश्वरस्य वर्तते। मम किमपि नास्ति’ इति भावः इत्युक्ते ईश्वरार्पणं करणम्। वयम् भागवताः भवामः चेत् सुखिनः भवामः, अन्यथा दुःखिनः भवामः। धानकणेभ्यः अश्माः,मृत्तिका, अवकरः च चित्वा तेषां निष्कासनं तथा च यः सारः नाम धानकणाः ते स्वीकरणीयाः। तद्वत् अहंकारस्य अश्मानि ममत्वस्य मृत्तिका, विकाराणाम् अवकराः च आत्मस्वरूपपरमार्थे संमिल्य प्रपञ्चः दुःखरूपः भवति। तान् प्रपञ्चात् निष्कास्य यत् अवशिष्यते तत् सर्वं सुखमेव।

      • ‘हे राम, सर्वं भवतः एव। भवान् यत् ददाति तत् स्वीकरोमि’ इति भावना भवेत्। तेन एव अत्यन्तं समाधानं वर्तते।****