प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अथ जैमिनिगृह्यसूत्रम्सम्पाद्यताम्

अथातोऽग्निं प्रणेष्यन्प्रागुदक् प्रवणमभ्युक्ष्य स्थण्डिलं लक्षमं कुर्यान्मध्ये प्राचीं रेखामुल्लिख्योदीचीं च संहितां पश्चात्तिस्रो मध्ये प्राच्योऽभ्युक्ष्याग्निं प्रतिष्ठापयेद्भूर्भुवः स्वरिति लक्षणावृदेषा सर्वत्राथातः पाकयज्ञान्व्याख्यास्यामो हुतोऽहुतः प्रहुतः प्राशित इति तेषामेकाग्नौ होमो नित्ये यज्ञोपवीतोदकाचमने दर्शपूर्णमासतन्त्राः स्वतन्त्रा वा दक्षिणतोऽग्नेः पूर्णपात्रमुपनिदधाति स्रुवं चापां पूर्णमुत्तरतोऽग्नेरिध्माबर्हिर्देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रोक्षामीति प्रोक्षितमुपकॢप्तं भवति सकृद्यजुषा द्विस्तूष्णीं खादिरः पालाशो वेध्मस्तदलाभे विभीतकतिल्वकबाधकनिम्बराजवृक्षशल्मल्यरलुदधित्थकोविदारश्लेष्मातकवर्जं सर्ववनस्पतीनामिध्मः कुशालाभे शूकतृणशरशीर्यबल्बजमुतवनलशुण्ठवर्जं सर्वतृणानि शुक्लाः सुमनसस्तासामलाभे जपारूपकाकुत्थाभण्डीकुरण्डकवर्जं गन्धवत्यो वा सर्ववर्णाश्चतस्र आज्यप्रकृतयो भवन्त्यूधन्यं वा वाह्यं वा दधि वा पयो वा पश्चादग्नेराचमनं त्रिराचामेद्द्विः परिमृजेत्सकृदुपस्पृशेत्पादावभ्युक्ष्य शिरश्च शीर्षण्यान्प्राणानुपस्पृशेदप उपस्पृश्य पश्चादग्नेरुपसमाहितस्योपविश्य दक्षिणेन पाणिना भूमिमारभ्य जपतीदं भूमेर्भजामह इदं भद्रं सुमङ्गलं परा सपत्नान्बाधस्वान्येषां विन्द ते धनमिति वस्वन्तं रात्रिश्चेदिमंस्तोम्येन तृचेनाग्निं परिसमूहेदाद्यया वा त्रिः प्रस्तरमुपसंगृह्य प्रतिदिशं परिस्तृणाति दक्षिणपुरस्तादुपक्रम्याग्रैर्मूलानि छादयन्पश्चाद्वोपस्तीर्योलपराजिभ्यामुपहरेद्दक्षिणोत्तरः सन्धिः १

प्रस्तरात्पवित्रे गृह्णाति प्रादेशमात्रे समे अप्रशीर्णाग्रे अनन्तर्गर्भे अङ्गुष्ठेनोपकनिष्ठिकया च धारयन्ननखेन छिनत्ति पवित्रे स्थो वैष्णव्याविति त्रिरूर्ध्वमद्भिरनुमार्जयेद्विष्णोर्मनसा पूते स्थ इति सकृद्यजुषा द्विस्तूष्णीं पात्रस्योपरिष्टात्पवित्रे धारयन्नाज्यमासिच्योत्तरेणाग्निमङ्गारान्निरूह्य तेष्वधिश्रित्यावद्योत्य दर्भतरुणाभ्यां प्रत्यस्य त्रिः पर्यग्नि कृत्वोदगुद्वास्य प्रत्यूह्याङ्गारानुदगग्राभ्यां पवित्राभ्यां त्रिरुत्पुनात्याज्यं च हविश्च प्रणीताश्च स्रुवं च देवस्त्वा सवितोत्पुनात्वच्छिद्रे ण पवित्रेण वसोः सूर्यस्य रश्मिभिरिति देवो व इति प्रणीताः पुनराहारमाज्यस्य सकृद्यजुषा द्विस्तूष्णीमुत्तरतोऽग्नेः प्रणीताः प्रणीय दर्भैः प्रच्छाद्य दक्षिणतोऽग्नेः प्रस्तरं निधाय प्रस्तरस्योपरिष्टात्पवित्रे निधाय विरूपाक्षं जपत्यॐ तपश्च तेजश्च सत्यं चात्मा च धृतिश्च धर्मश्च सत्त्वं च त्यागश्च ब्रह्मा च ब्रह्म च तानि प्रपद्ये तानि मामवन्तु भूर्भुवः स्वरॐ महान्तमात्मानमध्यारोहामि विरूपाक्षोऽसि दन्ताज्जिस्तस्य ते शय्या पर्णे गृहा अन्तरिक्षे ते विमितं हिरण्मयं तद्देवानां हृदयान्ययस्मये कुम्भे अन्तः संनिहितानि तानि बलभूश्च बलधा च रक्ष णो मा प्रमदः सत्यं ते द्वादश पुत्रास्ते त्वा संवत्सरेसंवत्सरे कामप्रेण यज्ञेन याजयित्वा पुनर्ब्रह्मचर्यमुपयन्ति त्वं देवानां ब्राह्मणोऽस्यहं मनुष्याणां ब्राह्मणो वै ब्राह्मणमुपधावति तं त्वोपधावामि जपन्तं मा मा प्रतिजाप्सीर्जुह्वन्तं मा मा प्रतिहौषीः कुर्वन्तं मा मा प्रतिकार्षीस्त्वां प्रपद्ये त्वया प्रसूत इदं कर्म करिषामि तन्मे समृध्यतां विरूपाक्षाय दन्ताज्जये ब्रह्मणः पुत्राय ज्येष्ठाय श्रेष्ठायामोघाय कर्माधिपतये नम इति २

स्रुवं प्रणीतासु प्रणीय निष्टप्य दर्भैः संमृज्य संमार्गानभ्युक्ष्याग्नावाधाय दक्षिणं जान्वाच्यामेध्यं चेत्किंचिदाज्येऽवपद्येत घुणस्त्र्यम्बुका मक्षिका पिपीलिकेत्या पञ्चभ्य उद्धृत्याभ्युक्ष्योत्पूय जुहुयात्परिधीन्परिदधाति मध्यमं स्थवीयसं पश्चाद्दीर्घं मध्यमं दक्षिणतः कनीयसमुत्तरतः संस्पृष्टान्दक्षिणतोऽग्नेरपां कोशं निनयत्यदितेऽनुमन्यस्वेत्यनुमतेऽनुमन्यस्वेति पश्चात्सरस्वतेऽनुमन्यस्वेत्युत्तरतो देव सवितः प्रसुवेति त्रिः प्रदक्षिणमग्निं परिषिञ्चद्देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगाय दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस्पतिर्वाचं नः स्वदत्विति सकृद्यजुषा द्विस्तूष्णीमथेध्ममादाय स्रुवेणाज्यं गृहीत्वाभिघार्याग्नावभ्यादधात्ययं त इध्म आत्मा जातवेदस्तेन वर्धस्व चेध्यस्व चेन्द्धि वर्धय चास्मान्प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहेति मनसाघारौ जुहोति संततमक्ष्णया प्रजापतये स्वाहेत्युत्तरं परिधिसन्धिमन्ववहृत्य स्रुवमिन्द्रा य स्वाहेति दक्षिणं परिधिसन्धिमन्ववहृत्याघारौ हुत्वाज्यभागौ जुहोत्यग्नये स्वाहेत्युत्तरतः सोमाय स्वाहेति दक्षिणतस्तावन्तरेणाहुतिलोको भूः स्वाहा भुवः स्वाहा स्वः स्वाहा भूर्भुवः स्वः स्वाहेत्यग्नयेऽग्नीषोमाभ्यामिति पौर्णमास्यामग्नय इन्द्रा ग्निभ्यामित्यमावास्यायामुत्तरपूर्वामाहुतिं जुहोत्यनभिजुह्वदाहुत्याहुतिं प्रत्यक् सौविष्टकृतस्थानान्नित्योऽग्निः पुरस्तात्स्विष्टकृदन्तेऽन्यत्र वपाहोमाज्यहोमाभ्यां न स्विष्टकृतं प्रत्यभिघारयति स्रुवे सकृदाज्यमुपस्तृणाति द्विर्हविषोऽवद्यति सकृदाज्येनाभिघार्य प्रत्यभिघारयत्यङ्गुष्ठेनाङ्गुलिभ्यां च मांससंहिताभां द्विर्हविषोऽवद्यति द्विराज्येनाभिघार्य प्रत्यभिघारयति जामदग्न्यानां तद्धि पञ्चावत्तं भवत्यङ्गुल्या तृणकूर्चेन वा एषा होमावृत्सर्वत्र ३

सपवित्रं प्रस्तरमादत्ते तस्याग्राणि स्रुवेऽनक्ति दिव्यङ्क्ष्वेति मध्यमाज्येऽन्तरिक्षेऽङ्क्ष्वेति मूलानि हविषि पृथिव्यामङ्क्ष्वेति प्रस्तरात्तृणं निरस्यत्यायुषे त्वेति प्रस्तरमग्नावनुप्रहरत्यग्नयेऽनुमतये स्वाहेति पश्चात्तृणमनुप्रहरति द्विषन्तं मेऽभिधेहि तं चैव प्रदह स्वाहेति घृतेनाक्ताः समिध आदधाति समृद्ध्यै स्वाहेति भूमिमारभ्य शीर्षण्यान्प्राणानुपस्पृशेदप उपस्पृश्य द्वादश प्रायश्चित्ताहुतीर्जुहोत्याकूत्यै स्वाहा १ कामाय स्वाहा २ समृद्ध्यै स्वाहा ३ ऋचा स्तोमं समर्धय गायत्रेण रथंतरं बृहद्गायत्रवर्तनि स्वाहा ४ उदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यं स्वाहा ५ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च स्वाहा ६ उद्वयं तमसस्परि स्वः पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमं स्वाहा ७ प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नोऽस्तु वयं स्याम पतयो रयीणां स्वाहा ८ भूः स्वाहा ९ भुवः स्वाहा १० स्वः स्वाहा ११ भूर्भुवः स्वः स्वाहेत्यथास्तीर्णान्दर्भानानीय प्रणीतानां च स्रुवस्य चोपरिष्टात्कृत्वापस्रावयञ्जपति सदसि सन्मे भूयाः सर्वमसि सर्वं मे भूयाः पूर्णमसि पूर्णं मे भूया अक्षितमसि मा मे क्षेष्ठा इति प्रतिदिशमप उत्सिञ्चति प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तामिति प्राचीनावीती दक्षिणस्यां दिशि मासाः पितरो मार्जयन्तामिति यज्ञोपवीती भूत्वाप उपस्पृश्य प्रतीच्यां दिशि गृहाः पशवो मार्जयन्तामित्युदीच्यां दिश्याप ओषधयो वनस्पतयो मार्जयन्तामित्यूर्ध्वायां दिशि यज्ञः संवत्सरो यज्ञपतिर्मार्जयन्तामिति समुद्रं वः प्रहिणोमीत्यपो निनीय समुद्रं वः प्रहिणोम्यक्षिताः स्वां योनिमपि गच्छत । अरिष्टा अस्माकं वीराः सन्तु मा परासेचि नः स्वमिति यदप्सु ते सरस्वतीत्यङ्गुष्ठेनोपकानिष्ठिकया चाक्षिणी विमृजेद्यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्धि सरस्वतीति दर्भान्परिधींश्चाग्नावाधाय वामदेव्येन शान्तिं कृत्वा त्रिः पर्युक्षेत्सहविष्कं प्रदक्षिणमन्वमंस्थाः प्रासावीरिति मन्त्रान्संनमयेत्पूर्णपात्रमुपनिहितं सा दक्षिणा यथाश्रद्धदक्षिणाः पाकयज्ञाः पूर्णपात्रं वा ४

पुंसवनं तृतीये मास्यन्यत्र गृष्टेर्घृते चरुं श्रपयित्वा पृषदाज्यं वा स्थालीपाकवत्संस्कृत्य पुरुषसूक्तेन जुहुयान्माषौ च यवं च पुल्लिङ्गं कृत्वा दधिद्र प्सेनैनां प्राशयेत्प्रजापतिः पुरुषः परमेष्ठी स मे पुत्रं ददात्वायुष्मन्तं यशस्विनं सह पत्या जीवसूर्भूयासमिति न्यग्रोधशुङ्गं फलाभ्यामुपहितं शुक्लरक्ताभ्यां सूत्राभ्यां ग्रथित्वा कण्ठे धारयेद्ध्रुवकुमारायेत्याचक्षते वासो दक्षिणा ५

अथातो नान्दीमुखेभ्यः पितृभ्यः पूर्वेद्युर्व्याख्यास्याम आपूर्यमाणपक्षे पुण्ये नक्षत्रे श्वः करिष्यामीति श्वो भूते वान्नं संस्कृत्य शुचीञ्श्रोत्रियान्ब्राह्मणाननुमन्त्रयते शुचिः शुक्लमनार्द्र माच्छाद्य यज्ञोपवीत्यप आचम्य चतुःशुक्लान्बलीन्हरती दधि तण्डुलाः सुरभि शुक्लाः सुमनस इत्यग्न्यायतने प्रागग्रान्दर्भान्संस्तीर्याग्नये सोमाय प्रजापतये विश्वेभ्यो देवेभ्य ऋषिभ्यो भूतेभ्यः पितृभ्यः सर्वाभ्यो देवताभ्यो नम इति हविष्यमन्नं ब्राह्मणेभ्यः प्रदाय दध्ना माषमत्स्यमांसभक्ष्याशनैरित्यपरमथ चतुष्टयमादाय व्रीहियवपुष्पसर्षपाणीति सह तैरेवोदकुम्भमादाय मनः समाधीयतां प्रसीदन्तु भवन्त इत्युक्त्वा सप्रणवं नान्दीमुखाः पितरः प्रीयन्तामित्येवं यथार्थमितरे प्रतिब्रूयुः ६

सीमन्तोन्नयनं चतुर्थे मासि षष्ठेऽष्टमे वा पूर्वपक्षे पुण्ये नक्षत्रे हस्तोत्तराभिर्वा कुर्यात्तिलमुद्गमिश्रं स्थालीपाकं श्रपयित्वान्वारब्धायां जुहुयान्महाव्याहृतिभिर्हुत्वा प्राजापत्यया चाथैनां पश्चादग्नेर्भद्र पीथ उपवेश्यैरकायां वाहतोत्तरायां तस्यै त्रिः शुक्लया शलल्या प्राणसंमितं सीमन्तं कुर्याच्छुक्लेना मूर्ध्नः प्राणाय त्वापानाय त्वा व्यानाय त्वेत्यथास्या दक्षिणं केशान्तं स्रग्भिरलंकृत्य तथोत्तरं हिरण्यवतीनामपां कांस्यं पूरयित्वा तत्रैनामवेक्षयन्पृच्छेद्धिं भूर्भुवः स्वः किं पश्यसीति परा प्रत्याह प्रजां पशून्सौभाग्यं मह्यं दीर्घमायुः पत्युरिति वासो दक्षिणा हिरण्यं वा ७

कुमारे जाते जातकर्म प्राक्स्तनप्राशनाद्व्रीहिं च यवं च जातरूपेणावघृष्येदमन्नमिति प्राशयेदिदमन्नमयं रस इदं प्राणेनामृतं सह पृथिवी ते माता द्यौः पिता जीवाहि शरदः शतं पश्याहि शरदः शतमित्यथैनमभिमन्त्रयते ऽङ्गादङ्गात्संभवसि हृदयादधि जायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतं पश्याहि शरदः शतमित्यथैनं परिददात्यह्ने त्वा परिददाम्यहस्त्वा रात्र्यै परिददातु रात्रिस्त्वाहोरात्राभ्यां परिददात्वहोरात्रौ त्वार्धमासेभ्यः परिदत्तामर्धमासास्त्वा मासेभ्यः परिददतु मासास्त्वर्तुभ्यः परिददत्वृतवस्त्वा संवत्सराय परिददतु संवत्सरस्त्वा जरायै मृत्यवे परिददात्विति कोऽसि कतमोऽसीत्याह सं मासं प्रविशासावित्यथास्य गुह्यं नाम ददाति वेदोऽसीत्यथास्य मूर्धानमुपजिघ्रत्यश्मा भव परशुर्भव हिरण्यमस्तृतं भव पशूनां त्वा हिंकारेणाभिजिघ्रामीत्येवमेव प्रवासादेत्य पुत्राणां मूर्धानमुपजिघ्रति फलीकर्णमिश्रान्सर्षपान्दशरात्रमग्नौ जुहुयात् शण्डायेति द्वाभ्यां शण्डाय मर्कायोपवीराय शौण्डिकेर उलूखलो मलिम्लुचो दुणाशि च्यवनो नश्यतादितः स्वाहा । आलिखन्विलिखन्ननिमिषन्किंवदन्त उपश्रुतिरर्यम्णः कुम्भी शत्रुः पात्रपाणिर्निपुणहान्त्रीमुखः सर्षपारुणो नश्यतादितः स्वाहेति दशरात्रं दम्पती सूतकौ भवतस्तस्यान्ते स्नात्वोत्थानम् ८

अथातो नामकर्म पूर्वपक्षे पुण्ये नक्षत्रे द्वादश्यां वा पिता नाम कुर्यादाचार्यो वा तमहतेन वाससा समनुपरिगृह्य पिताङ्केनासीत तस्य नामधेयं दधाद्द्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थमनुनक्षत्रमनुदैवतम् अनुनामातद्धितमाकारान्तं स्त्रियै यथार्थं वा कुमारयज्ञेषु च नक्षत्रं नक्षत्रदैवतं तिथिमिति यजते ऽष्टावन्या जुष्टा देवता यजते ऽग्निधन्वन्तरि प्रजापतिमिन्द्रं वसून्रुद्रा नादित्यान्विश्वान्देवानित्येतासु स्विष्टासु सर्वा देवता अभीष्टा भवन्ति ९

अथातः प्राशनकर्म पूर्वपक्षे पुण्ये नक्षत्रे ब्राह्मणान्भोजयित्वा हविष्यमन्नं प्राशयेदन्नपतेऽन्नस्य नो देह्यनमीवस्य शुष्मिणः । प्र प्रदातारं तारिष ऊर्जं नो धेहि द्विपदे शं चतुष्पद इति १०

तृतीये संवत्सरे जटाः कुर्वीत गर्भतृतीय इत्येक उदगयने पूर्वपक्षे पुण्ये नक्षत्रे ब्राह्मणान्स्वास्तिवाच्यापराह्णेऽग्निं प्रणयित्वा दक्षिणतोऽग्नेश्चत्वारि पूर्णापात्राणि निदध्यात् व्रीहियवानामभितो मध्ये तिलमाषाणामाचान्तोदकेऽन्वारब्धे जुहुयान्महाव्याहृतिभिर्हुत्वा विरूपाक्षेणात्र पञ्चमीं जुहोति सर्वौषधीभि स्फाण्टमुदकमानयन्ति व्रीहियवास्तिलमाषा इत्येतत्सर्वौषधमायमगात्सविता क्षुरेणेति क्षुरमादत्त आयमगात्सविता क्षुरेण विश्वैर्देवैरनुमतो मरुद्भिः । स नः शिवो भवतु विश्वकर्मा यूयं पात स्वस्तिभिः सदा न इत्युष्णेन वाय उदकेनेहीत्युदकमादत्त उष्णेन वाय उदकेनेह्यदितिः केशान्वपत्वित्याप उन्दन्तु जीवस इति दक्षिणं केशान्तमभ्युन्द्यादाप उन्दन्तु जीवसे दीर्घायुष्ट्वाय वर्चस इति तस्मिंस्तिस्रो दर्भपिञ्जूलीरुपदधात्येकां वा धारयतु प्रजापतिरिति धारयेद्धारयतु प्रजापतिः पुनःपुनः सुवप्तवा इत्यूर्ध्वं त्रिरादर्शेन स्पृष्ट्वा येन धातेति क्षुरेण छिन्द्याद्येन धाता बृहस्पतेरग्नेरिन्द्र स्य चायुषेऽवपत् । तेन त आयुषे वपामि सुश्लोक्याय स्वस्तय इति येन तत्प्रजापतिर्मरुद्भ्यो गृहमेधिभ्योऽवपत् । तेन त आयुषे वपामि सुश्लोक्याय स्वस्तय इति येन भूयश्चरात्ययं ज्योक्च पश्याति सूर्यम् । तेन त आयुषे वपामि सुश्लोक्याय स्वस्तय इत्येवं पश्चात्तथोत्तरतः प्रतिमन्त्रं केशांश्च दर्भपिञ्जूलीशेषांश्चानडुहे गोमयेऽभूमिस्पृष्टे निदध्याद्ब्राह्मणस्य पुरस्तात्पश्चादितरयोर्वर्णयोर्यत्क्षुरेणेति नापिताय क्षुरं प्रयच्छेद्यत्क्षुरेण मम्ला वप्त्रा वपसि नापिताङ्गानि शुद्धानि कुर्वायुर्वर्चो मा हिंसीर्नापितेति यथैषां गोत्रकल्पः कुलकल्पो वाप्लुते प्रायश्चित्तीर्जुहुयादावृतैव स्त्रियाः कुर्यादमन्त्रं समन्त्रं चेत्पश्चाज्जुहुयादथास्य मूर्धानमारभ्य जपति त्रियायुषं कश्यपस्य जमदग्नेस्त्रियायुषं यद्देवानां त्रियायुषं तत्ते अस्तु त्रियायुषमिति धान्यपल्वले गोष्ठे वा केशान्निखनेत्कुशलीकर्ता पूर्णपात्राणि हरेद्गौर्दक्षिणा ११

सप्तमे ब्राह्मणमुपनयीत पञ्चमे ब्रह्मवर्चसकामं नवमे त्वायुष्काममेकादशे क्षत्रियं द्वादशे वैश्यं नाति षोडशमुपनयीत प्रसृष्टवृषणो ह्येष वृषलीभूतो भवतीति तत एनं स्नातमलंकृतमाक्ताक्षं कृतनापितकृत्यमानयन्ति तमहतेन वाससा परिदधीत परीमं सोमेति यथावर्णं परीमं सोम ब्रह्मणा महे श्रोत्राय दध्मसि । यथेमं जरिमा ण याज्ज्योक् श्रोत्रे अधि जागराज्जीवाहि शरदः शतं पश्याहि शरदः शतमिति परीममिन्द्र ब्रह्मणा महे राष्ट्राय दध्मसि । यथेमं जरिमा ण याज्ज्योग्राष्ट्रे अधि जागराज्जीवाहि शरदः शतं पश्याहि शरदः शतमिति परीमं पोष ब्रह्मणा महे पोषाय दध्मसि । यथेमं जरिमा ण याज्ज्योक् पोषे अधि जागराज्जीवाहि शरदः शतं पश्याहि शरदः शतमित्यथैनं पश्चादग्नेः प्राङ्मुखमुपवेश्य यज्ञोपवीतिनमाचार्य आचामयत्याचान्तमुत्थाप्योत्तरतोऽग्नेः प्राचो दर्भानास्तीर्य तेष्वक्षतमश्मानमत्याधाय तत्रैनं दक्षिणेन पादेनाश्मानमधिष्ठापयेदिममश्मानमारोहाश्मेव त्वं स्थिरो भव द्विषन्तमपबाधस्व मा च त्वा द्विषन्तो वधीदित्यथैनं पश्चादग्नेः प्राङ्मुखमुपवेश्योत्तरत आचार्योऽन्वारब्धे जुहुयान्महाव्याहृतिभिर्हुत्वा देवाहुतिभिश्च संपातमास्ये भूरृचः स्वाहेति प्रतिमन्त्रं भूरृचः स्वाहा भुवो यजूंषि स्वाहा स्वः सामानि स्वाहेति प्राशितमाचान्तमुत्थाय नमो वातायेत्येनं प्रदक्षिणमग्निं परिणयेन्नमो वाताय नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यो नमो वोऽदृष्टाय बृहते करोमीत्यधिगन्तरधिगच्छ प्रदातः प्रयच्छासावमुष्मै वेदमित्यथैनं पश्चादग्नेः प्राङ्मुखमवस्थाप्य पुरस्तादाचार्यः प्रत्यङ्मुखस्तावञ्जली कुरुत उत्तरत आचार्यस्तमन्योऽद्भिः पूरयेन्निस्रावेणेतरस्य पूरणमथैनं संशास्ति ब्रह्मचर्यमगामुप मा नयस्वेति को नामासीत्यसाविति नामधेयं दद्यात्तत्राचार्यो जपति हिं भूर्भुवः स्वरागन्त्रा समगन्महि प्र सु मर्त्यं युयोतन । अरिष्टाः संचरेमहि स्वस्ति चरतादयमित्यथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं गृह्णातीन्द्र स्ते हस्तमग्रभीद्धाता हस्तमग्रभीत्पूषा हस्तमग्रभीत्सविता हस्तमग्रभीदर्यमा हस्तमग्रभीन्मित्रस्त्वमसि धर्मणाग्निराचार्यस्तवेति प्राणानां ग्रन्थिरसीति नाभिदेशमारभ्य जपति प्राणानां ग्रन्थिरसि मा विस्रसामृत मृत्योरन्तरं कुर्विति दक्षिणमंसमन्ववमृश्य मयि व्रत इति हृदयदेशमारभ्य जपति मयि व्रते हृदयं ते अस्तु मम चित्तमनु चित्तं ते अस्तु । मम वाचमेकव्रतो जुषस्व बृहस्पतिस्त्वा नियुनक्तु मयीत्यथैनं परिददात्यग्नये त्वा परिददामि वायवे त्वा परिददामि देवाय त्वा सवित्रे परिददाम्यद्भ्यस्त्वौषधीभ्यः परिददामि सर्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा भूतेभ्यः परिददाम्यरिष्ट्या इत्यथैनं संशास्ति ब्रह्मचार्यसि समिध आधेह्यपोऽशान कर्म कुरु मा दिवा स्वाप्सीरित्यग्नये समिधमाहार्षमिति घृतेनाक्ताः समिध आदधात्यग्नये समिधमाहार्षं बृहते जातवेदसे । यथा त्वमग्ने समिधा समिध्यस एवमहमायुषा वर्चसा तेजसा सन्या मेधया प्रज्ञया प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन धनेन समेधिषीय स्वाहा अप्सरासु या मेधा गन्धर्वेषु च यन्मनः । दैवी मेधा मनुष्यजा सा मां मेधा सुरभिर्जुषतां स्वाहा भूः स्वाहा भुवः स्वाहा स्वः स्वाहा भूर्भुवः स्वः स्वाहेतीयं दुरुक्तादिति मेखलामाबध्नीत इयं दुरुक्तात्परिबाधमाना वर्णं पवित्रं पुनती म आगात् । प्राणापानाभ्यां बलमाभरन्ती स्वसा देवी सुभगा मेखलेयमृतस्य गोप्त्री तपसः परस्पी घ्नती रक्षः सहमाना अरातीः । सा मा समन्तादभिपर्येहि भद्रे भर्तारस्ते मेखले मा रिषामेति मौञ्जीं ब्राह्मणस्य मौर्वीं राजन्यस्य मुञ्जमिश्रां तामलीं वैश्यस्य मौञ्जीं वा सर्वेषामथ परिधानानि क्षौमं वा शाणं वान्तरं ब्राह्मणस्यैणेयमुत्तरं रौरवं राजन्यस्याजं वैश्यस्यैणेयं वा सर्वेषां स्वस्त्ययनोऽसीति दण्डं प्रयच्छेत्प्राणसंमितं पालाशं ब्राह्मणस्य बैल्वं ब्रह्मवर्चसकामस्य नैयग्रोधं राजन्यस्यौदुम्बरं वैश्यस्य पालाशं वा सर्वेषां मातरं प्रथमं भिक्षेताथान्याः सुहृदो भवत्पूर्वया ब्राह्मणो भिक्षेत भवति भिक्षां देहीति भवन्मध्यमया राजन्यो भिक्षां भवति देहीति भवदन्त्यया वैश्यो देहि भिक्षां भवतीति क्षां च हिं च न वर्धयेद्भवत्पूर्वया वा सर्वे प्रायश्चित्तं चेदुत्पद्येत जीवा स्थ जीवयत मेत्येनमप आचामयेज्जीवा स्थ जीवयत मापो नाम स्थामृता नाम स्थ स्वधा नाम स्थ तासां वो भुक्षिषीय सुमतौ मा धत्त शिवा मे भवत नमो वोऽस्तु मा मा हिंसिष्टेति भैक्षमुपन्याहृतमूर्ध्वं त्रिरात्रात्सावित्रीं प्रब्रूयात्तदहर्वा पश्चादग्नेः पच्छोऽर्धर्चशः सर्वामित्यनूच्य वेदमारभ्याग्ने व्रतपत इति घृतेनाक्ताः समिध आदधात्यग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा । वायो व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा । आदित्य व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा । व्रतानां व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहेति तदेतद्व्रतादेशनं सर्वत्र व्रतसमाप्तावग्ने व्रतपते व्रतमचारिषं तदशकं तन्मेऽराधि स्वाहेति मन्त्रान्संनमयेदथैनं संशास्ति ब्रह्मचार्याचार्याधीनः प्रशान्तोऽधःशायी दण्डमेखलाजिनजटाधारी स्त्र्यनृतमधुमांसगन्धमाल्यवर्जीं भवेति त्रिरात्रमक्षारालवणाश्यूर्ध्वं त्रिरात्रात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य पलाशं गत्वा व्याहृतिभिरभ्यज्य स्थालीपाकेनेष्ट्वा यज्ञोपवीतं दण्डमित्युदस्य प्रत्येयाद्गौर्दक्षिणा १२

सायंप्रातरुदकान्ते पूतो भूत्वा सपवित्रोऽद्भिर्मार्जयेतापोहिष्ठीयाभिस्तिसृभिस्तरत्स मन्दी धावतीति चतसृभिर्वामदेव्यमन्ते शुचौ देशे दर्भेष्वासीनो दर्भान्धारयमाणः प्रत्यङ्मुखो वाग्यतः सन्ध्यां मनसा ध्यायेदा नक्षत्राणामुदयादुदितेषु नक्षत्रेषु त्रीन्प्राणायामान्धारयित्वा सावित्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वो वा दशावरमथाग्निमुपतिष्ठतेऽग्ने त्वं नो अन्तम इत्यथ वरुणमुपतिष्ठते त्वं वरुण उत मित्र इत्येतयैवावृता प्रातः प्राङ्मुखस्तिष्ठन्नथादित्यमुपतिष्ठत उद्वयं तमसस्परीत्यथ मित्रमुपतिष्ठते प्र मित्राय प्रार्यम्ण इति स यदि सूर्याभ्युदितः सूर्याभिनिम्रुक्तो वा तच्छेषं सावित्रीं मनसा ध्यायेत्सैव तत्र प्रायश्चित्तिः १३

श्रावण्यामुपाकरणं प्रौष्ठपद्यां वा हस्तेन त्रीन्प्राणायामानायम्याचम्य सर्वे पुरस्ताज्जपं जपन्ति सह नोऽस्तु सह नो भुनक्तु सह नो वीर्यवदस्तु मा विद्विषामहे सर्वेषां नो वीर्यवदस्त्विति तेभ्यः सावित्रीं प्रब्रूयाद्यथोपनयने मनसा सामसावित्रीं च सोमं राजानमित्यादितश्छन्दांस्यधीत्य यथार्थमक्षतधानानां दध्नश्च नवाहुतीर्जुहोत्यृषीन्देवांश्छन्दांस्यृचो यजूंषि सामानि १६ ऋचं सामा यजामहे सदसस्पतिमद्भुतं मेधाकारमिति ७९ एतासामेव पूर्वाभिः षड्भिः पूर्वं तर्पयेदाचार्यमाचार्यांश्च जैमिनिं तलवकारं सात्यमुग्रं राणायनिं दुर्वाससं च भागुरिं गौरुण्डिं गौर्गुलविं भगवन्तमौपमन्यवं कारडिं सावर्णिं गार्ग्यं वार्षगण्यं दैवन्त्यमित्येतांस्त्रयोदश धानावन्तं दधिक्राव्ण इत्येताभ्यामभिमन्त्र्य हविःशेषं प्राश्य प्राह्णे प्रधीयत आग्नेये समाप्तेऽज ऐन्द्रे मेषो गौः पावमाने पर्वदक्षिणा स ब्रह्मचारिणश्चोपसमेतान्भोजयेद् सावित्रमहः काङ्क्षन्त उत्सर्गे च पक्षिणीं रात्रिं न मांसमश्नीयान्न श्राद्धं न लोमानि संहारयेन्न स्त्रियमुपेयादृतौ जायामुपेयाद्वर्षाशरदिकमेतद्व्रतमर्धमासमित्येके १४

तैषीमुत्सर्गो वेदेषु यथास्वं विश्रमन्तां छन्दांसि चतुरुत्तराणि शिवेन नो ध्यायन्त्वित्युत्सृज्याध्यायानध्यायै व्रतानि चानुपालयन्तो यथास्वं वेदमधीयीरन्नत ऊर्ध्वमभ्रेषु नाधीयते १५

गौदानिकव्रातिकौपनिषदाः संवत्सरास्तेषु सायंप्रातरुदकोपस्पर्शनं नानुपस्पृश्य भोजनं प्रातः सायमुपस्पृश्या समिदाधानादरण्यात्समिधमाहृत्यादध्यादादित्यव्रातिकः संवत्सर एकवासा न युक्तमारोहेदादित्यं नान्तर्दधीत छत्त्रेण महीमासनशयनाभ्यामुपानद्भ्यां च नोर्ध्वं जान्वोरपः प्रस्नायादन्यत्राचार्यवचनाद्व्रातिके व्रतपर्वादित्यव्रातिके शुक्रियाण्यौपनिषद उपनिषदं श्रावयेत् १६

द्वादश महानाम्निकाः संवत्सरा नव षट् त्रय इति विकल्पाः संवत्सरमित्येके पित्रा चेच्छ्रुता महानाम्न्यः संवत्सरं ब्रह्मचर्यं चरेच्छुक्लैकवासा व्रतं तु भूयस्तिष्ठेद्दिवाथासीत नक्तं तस्य कृष्णे भोजनाच्छादने भवत इत्येके शुक्लं चैव परिदध्याद्रा गदोषान्न कृष्णं सर्वास्वप्सूपस्पृशेदबुक्ताः शक्वर्य इति नावा न प्रस्नायात्प्राणसंशये तूपस्पृशेदुभयत अपि वा गाः पाययेत्पशूक्ताः शक्वर्य इति वर्षं नान्तर्दधीत छत्त्रेण प्रति वर्षं निष्क्रामेदेवमस्य चरतः कामवर्षी पर्जन्यो भवति ब्रह्मचर्यान्त एकरात्रमुपोषित अरण्यं गत्वा शैवलमिश्राणामपां कांसं पूरयित्वा तमुपवेश्य समनुपरिगृह्य निमीलितं तिस्र स्तोत्रिया उपगायेत्सपुरीषा उपोत्थायाचार्योऽहतेन वाससा मुखमस्य परिणह्येत्प्रदक्षिणमुदपात्रं धार्यंस्तिष्ठेदहःशेषं रात्रिमासीत वाग्यतः श्वो भूतेऽरण्यं गत्वाग्निमुपसमाधाय वत्समुपान्वानीय वास उद्वेष्टयेदुद्यम्य कांसमपोऽभिवीक्ष इति वीक्षेत्स्वरभिवीक्ष इत्यादित्यं ज्योतिरभिवीक्ष इत्यग्निं पशुमभिवीक्ष इति वत्सं समन्या यन्तीत्यपः प्रसिच्य वासः कांसं वत्समित्याचार्यायोपहरेत्स्थालीपाकाद्विश्वामित्रेन्द्रौ महानाम्नीश्च यजत इत्याचार्यं सपरिषट्कं भोजयेद्गौर्दक्षिणा १७

द्वादश वर्षाणि वेदब्रह्मचर्यं जननात्प्रभृतीत्येके यावदध्ययनं वा सदा साये समिदाधानं सायंप्रातर्भैक्षचरणं द्वे त्रिवृती वर्जयेत्त्रिवृतं च मणिं त्रिगुणे चोपानहौ षोडशे गोदानकरणं तत्केशान्तकरणमित्याचक्षते चौडकरणेन मन्त्रा व्याख्याता उपनयनेन व्रतदेशनं न त्विह नियुक्तमहतं वासः सर्वाणि लोमनखानि वापयेच्छिखावर्जमित्यौद्गाहमनिरुप्तकेशः स्नायाद्वनस्पतेरिति वनस्पतीनां स्नानीयेन त्वचमुन्मृद्नीते वनस्पतेस्त्वगसि शोधनि शोधय मा तां त्वाभिहरे दीर्घायुष्ट्वाय वर्चस इति वनस्पतीनां गन्धोऽसीति स्नात्वानुलेपनेन कुरुते वनस्पतीनां गन्धोऽसि पुण्यगन्ध पुण्यं मे गन्धं कुरु देवमनुष्येषु तं त्वाभिहरे दीर्घायुष्ट्वाय वर्चस इति वनस्पतीनां पुष्पमसीति स्रजमाबध्नीते वनस्पतीनां पुष्पमसि पुण्यगन्ध पुण्यं मे गन्धं कुरु देवमनुष्येषु तं त्वाभिहरे दीर्घायुष्ट्वाय वर्चस इत्यादर्शोऽसीत्यादर्श आत्मानं वीक्षेतादर्शोऽस्या मा दृश्यासन्देवमनुष्या उभये शोभोऽसि शोभासमहं देवमनुष्येषु रोचोऽसि रोचासमहं देवमनुष्येष्वित्यपोद्धृत्य स्रजमादेशयेतोक्ता धर्माः संवत्सरेषु गौर्दक्षिणा १८

वेदमधीत्य व्रतानि चारित्वा ब्राह्मणः स्नास्यन्संभारानुपकल्पयते ऽहतं वास एरकां स्नानमनुलेपनं सुमनस आञ्जनमादर्शमहते वाससी त्रिवृतं मणिं वैणवं दण्डं शुक्ले उपानहौ नापित उपकॢप्त उत्तरत उपतिष्ठत्येरकामास्तीर्याहतेन वाससोदग्दशेन प्रच्छाद्य तत्रैनं प्राङ्मुखमुपवेश्य दण्डमप्सु पादयेद्द्विषतां वज्रोऽसीति मेखलां विस्रंसयेदुदुत्तममिति तां चैवाप्सु पादयेत्केशान्तकरणेन मान्त्रा व्याख्याताः परिवापनं च शिरोऽग्रे वपते ततः श्मश्रूणि तत इतराण्यङ्गान्यनुपूर्वेण केशश्मश्रुलोमनखान्यश्वत्थस्य मूले निखनेदुदुम्बरस्य वापहतो मे पाप्मेति शीतोष्णाभिरद्भिर्हिरण्यान्तर्हिताभिरेनं स्नापयेच्छिवा नः शंतमा भव सुमृडीका सरस्वति मा ते व्योम संदृशीति रोहिण्यां स्नायात्प्रजापतेर्वा एतन्नक्षत्रं प्रजावान्भूयासमिति मृगशिरसि स्नायात्सोमस्य वा एतन्नक्षत्रं सोमेज्या मोपनमेदिति तिष्ये स्नायाद्बृहस्पतेर्वा एतन्नक्षत्रं ब्रह्म बृहस्पतिर्ब्रह्मवर्चसी भूयासमिति हस्ते स्नायात्सवितुर्वा एतन्नक्षत्रं सवितृप्रसूतो भूयासमित्यनूराधासु स्नायान्मित्रस्य वा एतन्नक्षत्रं मित्राणां प्रियो भूयासमिति श्रवणे स्नायाद्विष्णोर्वा एतन्नक्षत्रं यज्ञो वै विष्णुर्यज्ञो मोपनमेदिति तमहतेन वाससा परिदधीत परीमं सोमेति सव्यमग्रेऽक्ष्यञ्जीत यशसा मेत्यथ दक्षिणं त्रिवृतं मणिं कण्ठे प्रतिमुञ्चते पालाशं स्वस्त्ययनकामः स्वस्त्ययनोऽसीति बैल्वं ब्रह्मवर्चसकामो ब्रह्मवर्चसी भूयासमित्यर्कमन्नाद्यकामोऽर्कवानन्नादो भूयासमिति गन्धर्वोऽसि विश्वावसुः स मा पाहि स मा गोपायेति वैणवं दण्डमुपादत्त उपानहावादधीत नेत्रे स्थो नयतं मामिति दक्षिणमग्रे प्रतिमुञ्चते तस्य व्रतानि भवन्ति नाजातलोम्न्योपहासमिच्छेद्वर्षति न धावेन्नोपानहौ स्वयं हरेन्न फलानि स्वयं प्रचिन्वीत न प्रतिसायं ग्रामान्तरं व्रजेन्नैको वृषलैः सह नोदपानमवेक्षेन्न वृक्षमारोहेन्न संक्रममारोहेन्नानन्तर्धायासीत नापरया द्वारा प्रपन्नमन्नमश्नीयान्न शुक्तं न द्विःपक्वं न पर्युषितमन्यत्र शाकमांसयवपिष्टान्नपृथुकफाणितदधिमधुघृतेभ्यो नानर्मणि हसेन्न नग्नः स्नायाच्छुक्ता वाचो न भाषेत जनवादं कलहांश्च वर्जयेत्त्रयः स्नातका भवन्तीति ह स्माहारुणिर्गौतमो विद्यास्नातको व्रतस्नातको विद्याव्रतस्नातक इति तेषामुत्तमः श्रेष्ठस्तुल्यौ पूर्वौ स्नात्वाचार्यं ब्रूयान्मधुपर्कं मे भवानानयत्वित्याचार्यकल्पो वा तस्मै प्राङ्मुखायासीनाय मधुपर्कमाहरेद्विष्टरपाद्यार्घ्याचमनीयान्येकैकमनुपूर्वेण विष्टरमध्यास्ते पाद्येन पादौ प्रक्षालयते मयि श्रीः श्रयतामिति सव्यं पादमग्रे शूद्रा चेन्मयि पद्या विराड् इत्यथ दक्षिणं मयि वर्च इत्यर्घ्यं प्रतिगृह्णीयादाचमनीयाभिराचामेत्पात्रचमसं विष्टरोपहितमधस्ताद्विष्टरौ संहिताग्रौ भवत एकविष्टर उत्तरतस्तयोर्मध्ये दधि मधु संनिहिते भवतो दध्ना चेद्दधिमन्थोऽद्भिश्चेदुदमन्थः पयसा चेत्पयस्यस्तं प्रतिगृह्णीयाद्देवस्य त्वेति तं प्रतिगृह्य भूमौ प्रतिष्ठाप्यावघृष्याङ्गुष्ठेनोपकनिष्ठिकया च मह्यं त्वा यशसेऽन्नाद्याय ब्रह्मवर्चसायेति त्रिः प्राश्नीयाच्छेषमुत्तरतः प्रतिगृह्य ब्राह्मणाय दद्यादभ्युक्ष्य वाब्राह्मणाय गर्ते वा निखनेत्परः स्वधितिपाणिर्गां दृष्ट्वाह गौर्गौरिति तामभिमन्त्रयते गौर्धेनुरित्योमुत्सृजतेति ब्रूयात्कर्तव्या चेत्कुरुतेति ब्रूयाद्गौर्धेनुर्हव्या माता रुद्रा णां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः । प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट पिबतूदकं तृणान्यत्त्वित्यथ षडर्घ्यार्हा भवन्त्यृत्विगाचार्यः स्नातको राजाभिषिक्तः प्रियः सखा श्रोत्रियश्चेति तेभ्य आतिथ्यं गां कुर्यात्तामतिथय इति प्रोक्षेत् १९

स्नात्वा मातापितरौ परिचरेत्तदधीनः स्यात्ताभ्यामनुज्ञातो जायां विन्देतानग्निकां समानजातीयामसगोत्रां मातुरसपिण्डां ज्यायसः कनीयसीं दूतमनुमन्त्रयते ऽनृक्षरा ऋजवः सन्तु पन्था एभिः सखायो यन्ति नो वरेयम् । समर्यमा सं भगो नोऽनुनीयात्सं जास्पत्यं सुयममस्तु देवा इति पाणिग्रहणेऽग्निमाह्रियमाणमनुमन्त्रयतेऽग्निरैतु प्रथमो देवतानां सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयं राजा वरुणोऽनुमन्यतां यथेथं स्त्री पौत्रमघं न रोदादिति प्रज्वलितमुपतिष्ठत इमामग्निस्त्रायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभि प्रबुध्यतामियमिति पुरस्तादग्नेर्ब्राह्मणो वाग्यतः प्रत्यङ्मुख उदकुम्भं धारयंस्तिष्ठेद्दक्षिणतोऽग्नेः शमीपलाशमिश्रान्लाजाञ्छूर्पे माता धारयेन्मातुरभावे तन्मात्री प्रत्यगग्नेरेरकां तेजनीं वान्यद्वैवंजातीयं संवेष्ट्य निदध्याद्यथा प्रसार्यमाणं पश्चार्धं बर्हिषः प्राप्नोत्यथास्यै वाससी प्रोक्ष्यानुमन्त्र्य ददाति या अकृन्तन्नवयन्या अतन्वत याश्च देवीरन्तामभितोऽददन्त । तास्त्वा देवीर्जरसा संव्ययन्त्वायुष्मतीदं परिधत्स्व वास इति तां ब्रूयादिमामेरकां दक्षिणेन पादेनाभिजहीति प्र मे पतियानः पन्थाः कल्पतामित्यजपत्यां स्वयं जपेत्प्रास्या इति दक्षिणत एरकायां भार्यामुपवेश्योत्तरतः पतिरुभावन्वारभेयातां स्वयमुच्चैर्जुहुयाज्जायायामन्वारब्धायां महाव्याहृतिभिर्हुत्वा या तिरसप्तभिर्जुहोति संपातं प्रथमया मूर्धन्यासिञ्चेद्या तिरश्ची निपद्यसेऽहं विधरणी इति । तां त्वा घृतस्य धारया संराधा राधयामसि संराधायै स्वाहा १ मा ते गृहे निशि घोष उत्थादन्यत्र त्वद्रुदत्यः संविशन्तु । मा त्वं विकेश्युर आवधिष्ठा जीवपत्नी पतिलोके विराज प्रजां पश्यन्ती सुमनस्यमाना स्वाहा २ अन्वद्य नोऽनुमतिर्यज्ञं देवेषु मन्यताम् । अग्निश्च हव्यवाहनस्तत्करोतु समृध्यतां स्वाहा ३ द्यौस्ते पृष्ठं रक्षतु वायुरूरू अश्विनौ च स्तनं धयतस्ते पुत्रान्सविताभिरक्षतु । आ वाससः परिधानाद्बृहस्पतिर्विश्वे देवा अभिरक्षन्तु पश्चात्स्वाहा ४ अप्रजस्तां पौत्रमृत्युं पाप्मानमुत वाघम् । शीर्ष्णः स्रजमिवोन्मुच्य द्विषद्भ्यः प्रतिमुञ्चामि पाशं स्वाहा ५ यानि कानि च पापानि सर्वाङ्गेषु तवाभवन् । पूर्णाहुतिभिराज्यस्य सर्वाणि तान्यशीशमं स्वाहा ६ प्रजापत इत्येका ७ २०

अथास्या दक्षिणेन पाणिना दक्षिणं पाणिं गृह्णाति प्रहस्तं पुंसोऽङ्गुली स्त्रियः साङ्गुष्ठं मिथुनकामो गृह्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासत् । भगोऽर्यमा सविता पुरन्धिर्मह्यं त्वादुर्गार्हपत्याय देवाः सोमोऽददद्गन्धर्वाय गन्धर्वोऽदददग्नये । रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयोऽग्निष्टे पतिस्तुरीयोऽहं मनुष्यजा इत्युपनयनावृताश्मानमधिष्ठापयेत्स्त्रीवत् उत्तरपुरस्तादग्नेर्भार्यया संप्रेक्ष्यमाणो जपत्यघोरचक्षुरपतिघ्नी म एधि शिवा पशुभ्यः सुमनाः सुवर्चाः । जीवसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे आ नः प्रजां जनयतु प्रजापतिराजरसाय समनक्त्वर्यमा । अदुर्मङ्गलीः पतिलोकमाविश शं न एधि द्विपदे शं चतुष्पदे तां पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति । या न ऊरू उशती विस्रयातै यस्यामुशन्तः प्रहरेम शेफम् अमोऽहमस्मि सा त्वं सामाहमस्म्यृक्त्वं मनोऽहमस्मि वाक्त्वं द्यौरहं पृथिवी त्वं तावेहि संभवाव सह रेतो दधावहै पुंसे पुत्राय वेत्तवै मामनुव्रता भव सहशय्या मया भवासावित्यथास्या नाम गृहीत्वाग्निं परिक्रमेयातामीर्त्वमस्यूर्क्ते माता नाम सा मामेहि सह प्रजया सह रायस्पोषेणेति तस्यां प्रत्याव्रजितायां भ्रातान्यो वा सुहृदभिघारितान्लाजाञ्छूर्पादञ्जलिनोपघातमञ्जलावावपेदुपस्तीर्णाभिघारितान्कृत्वा तानितराग्नौ जुहुयात्कन्यलेयं नार्यर्यम्णमिति कन्यला पितृभ्यः पतिलोकं यतीयमव दीक्षामयक्षत स्वाहा १ इयं नार्युपब्रूतेऽग्नौ लाजानावपन्ती । दीर्घायुरस्तु मे पतिरेधन्तां ज्ञातयो मम स्वाहा २ अर्यम्णं नु देवं कन्याग्निमयक्षत । स इमां देवो अर्यमा प्रेतो मुञ्चातु मामुतः स्वाहेति ३ होमान्तेषु जपति चतुर्विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विष इति तूष्णीं धारिका कामायावपेच्चतुर्थं दक्षिणं शूर्पपुटं काम इत्याचक्षत उत्तरपुरस्तादग्नेः सप्त पदान्यभ्युत्क्रमयेदेकमिष इति प्रतिमन्त्रमेकमिषे विष्णुस्त्वान्वेतु । द्वे ऊर्जे विष्णुस्त्वान्वेतु । त्रीणि रायस्पोषाय विष्णुस्त्वान्वेतु । चत्वारि मयोभवाय विष्णुस्त्वान्वेतु । पञ्च प्रजाभ्यो विष्णुस्त्वान्वेतु । षडृतुभ्यो विष्णुस्त्वान्वेतु । सखा सप्तपदी भवेति सप्तमे प्राचीमवस्थाप्योदकुम्भेन मार्जयेरन्नापोहिष्ठीयाभिस्तिसृभिः प्रेक्षकाननुमन्त्रयते सुमङ्गलीरियं वधूरिमां समेत पश्यत । सौभाग्यमस्यै दत्त्वायाथास्तं विपरेतनेति प्रेक्षयेद्ध्रुवमरुन्धतीं सप्त ऋषीन्पश्यानीति प्रतिजानानां ध्रुवोऽसीति ध्रुवमुपतिष्ठते ध्रुवोऽसि ध्रुवाहं पतिकुले भूयासममुष्येति पतिनाम गृह्णीयादसावित्यात्मनो ऽरुन्धतीमरुन्धत्यरुद्धाहं पत्या भूयासममुनेति पतिनाम गृह्णीयादसावित्यात्मनः २१

पूषा त्वेत इति प्रस्थितामनुमन्त्र्यते पूषा त्वेतो नयतु हस्तगृह्याश्विनौ त्वा प्रवहतां रथेन । गृहान्गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमावदासीति स्वं कुलं प्राप्तां कल्याणशीलाः कल्याणप्रजाः समवजीर्णाः प्रत्यवरोपयन्तीह प्रियं प्रजया ते समृध्यतामस्मिन्गृहे गार्हपत्याय जागृहि । एना पत्या तन्वं संसृजस्वाथाजीव्रो विदथमावदासीति प्रत्यवरोप्यानडुहे चर्मण्युत्तरलोमन्युपवेशयेदिह गावो निषीदन्त्विहाश्वा इह पुरुषाः । इहो सहस्रदक्षिणोऽभि पूषा निषीदत्विति कुमारमुपस्थ आधाय शकलोटानावपेत्फलानि वोत्थाप्य कुमारमन्वारब्धायां जुहुयादिह धृतिरित्यष्टाभिः स्वाहाकारान्तैरिह धृतिरिह स्वधृतिरिह रन्तिरिह रमस्व । मयि धृतिर्मयि स्वधृतिर्मयि रमो मयि रमस्वेति त्रिरात्रमक्षारालवणशिनौ ब्रह्मचारिणावधः संवेशिनावसंवर्तमानौ सह शयातामूर्ध्वं त्रिरात्रात्संभवो निशायां जायापतिकर्मण्यं प्रायश्चित्तीर्जुहुयादग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै प्रजाघ्नी तनूस्तामस्या अपजहि स्वाहा । वायो प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै पशुघ्नी तनूस्तामस्या अपजहि स्वाहा । सूर्य प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै पतिघ्नी तनूस्तामस्या अपजहि स्वाहा । चन्द्र प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै गृहघ्नी तनूस्तामस्या अपजहि स्वाहा । अग्ने वायो सूर्य चन्द्र प्रायश्चित्तयो यूयं देवानां प्रायश्चित्तय स्थ ब्राह्मणो वो नाथकाम उपधावामि यास्यै यशोघ्नी तनूस्तामस्या अपहत स्वाहेति स्थालीपाकादग्निं प्रजापतिं चेष्ट्वा संपातांश्चमस आनीय स्रोतांस्याङ्क्ष्वेत्येनां ब्रूयान्नाभिं प्रथमं ततो यान्यूर्ध्वं ततो यान्यर्वाञ्च्यूर्ध्वमर्धरात्रात्संवेशनं

विष्णुर्योनिं कल्पयत्वित्येतेन तृचेन
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु
आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते
गर्भं धेहि सिनीवलि गर्भं धेहि सरस्वति
गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ
हिरण्ययी अरणी यं निर्मन्थतामश्विनौ
तं ते गर्भं दधाम्यहं दशमे मासि सूतवा

इत्यृतावृतावेवमेव संवेशने हुत्वाचार्याय गां दद्याददर्शने ब्राह्मणेभ्यो गां दद्यात् २२

सायंप्रातर्होमेऽग्नय इति प्रथमामाहुतिं जुहोति प्रजापतय इत्युत्तरामेवं प्रातरग्निस्थाने सूर्यः सायंप्रातरशनस्य बली वर्धयित्वा पूर्वस्मादग्नौ जुहोत्यग्नये स्वाहा सोमाय स्वाहा धन्वन्तरये स्वाहा द्यावापृथिवीभ्यां स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा सर्वाभ्यो देवताभ्यः स्वाहा प्रजापतये स्वाहेति मनसोत्तरां तत एवोत्तरतोऽग्नेर्बलिं हरति ये हर्षणा वेपना स्फातिमाहरा वातस्य भ्राजमनुसंचरन्ति । तेभ्यो बलिमन्नकामो हराम्यन्नं पयस्वद्बहुलं मे अस्त्वित्येवमशनायत्यायस्थाने मृत्योरधिष्ठानाय स्वाहेति शेषस्य बलिहरणं प्रदक्षिणं गृह्याभ्यो देवताभ्यो बलिं नयामि तन्मे जुषन्तां ता मा पान्तु ता मा गोपायन्तु ता मा रक्षन्तु ताभ्यो नमस्ताभ्यः स्वाहेत्युदधाने मध्येऽगारस्योत्तरपूर्वार्धे शयने देहल्यां संवरणे ब्रह्मायतन एतेष्वायतनेषु शेषं धन्वन्तरये निनयेत्सदा गृहेषु स्वस्तिवाचनं सा महाशान्तिरित्याचक्षते २३

नवेन यक्ष्यमाणः पुराणेनाग्रे यजेताग्निधन्वन्तरी प्रजापतिमिन्द्रं तिस्रश्च नवाहुतीर्नवेन यजेत शरदि व्रीहीणां वसन्ते यवानां वर्षासु श्यामाकानामैन्द्रा ग्नो वैश्वदेवो द्यावापृथिव्यश्चरव एकचरुर्वोक्ते एवोपस्तरणाभिघारणे द्विर्हविषोऽवद्यत्यथ प्राश्नीयाद्भद्रा न्नः श्रेयः समनैष्ट देवास्त्वयावसेन समशीमहि त्वा । स नो मयोभूः पितो आविशस्व शं तोकाय तनुवे स्योन इत्येतमु त्यं मधुना संयुतं यवं सरस्वत्या अधि मनावचर्कृषुः । इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन्मरुतः सुदानव इति यवस्य प्राश्नीयादग्निः प्रथमः प्राश्नातु स हि वेद यथा हविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणीरिति श्यामाकस्य प्राश्नीयात् २४ इति जैमिनिसूत्रं पूर्वम्

सम्पाद्यताम्

श्राद्धं करिष्यन्तः स्नाताः शुचिवाससस्तिलैर्वास्त्ववकीर्य सव्यमाचरन्तोऽन्नमुपसाधयेरन्हविष्यैरुपसिच्यैवैवं दद्याद्यद्यद्दद्यात्तत्तद्धविष्यैरुपसिच्यैव हविष्या इति तिलानामाख्या दन्तधावनं स्नानीयानि पाद्यमनीय प्रथमोद्धृतं ब्राह्मणांस्त्र्यवदातानुपवेशयत्या मे गच्छन्तु पितरो भागधेयं विराजाहूताः सलिलात्समुद्रि यात् । अक्षीयमाणमुपजीवतैनन्मया प्रत्तं स्वधया मदध्वमित्युपमूललूनान्दर्भान्विष्टरान्प्रसव्यान्कृत्वा ब्राह्मणेभ्यः प्रदद्यादेतत्ते पितरासनमसौ ये च त्वात्रानु तेभ्यश्चासनमित्येवं पितामहायैवं प्रपितामहाय हविष्योदकं तिरः पवित्रं गन्धान्सुमनसश्च दद्यादन्नमवत्त्वा घृतेनाभिघार्य दर्भान्परिस्तरणीयानिति तदादायाग्नौ करिष्यामीति ब्राह्मणाननुज्ञाप्य प्राग्दक्षिणामुखोऽग्निं प्रणयित्वा त्रिर्धून्वन्प्रदक्षिणमग्निं परिस्तृणाति प्राचीनावीती त्रिः प्रसव्यं त्रिः पर्युक्षेत्प्रदक्षिणं प्राचीनावीती त्रिः प्रसव्यमौदुम्बर इध्मः परिधयो भवन्ति मेक्षणं च पवित्रं संस्कृत्यान्नमुत्पूयाग्नौ पवित्रं प्रास्य मेक्षणेन जुहोत्यग्नये कव्यवाहनाय स्वधा नमः स्वाहा सोमाय पितृमते स्वधा नमः स्वाहेति यज्ञोपवीती भूत्वाप उपस्पृश्य यमायाङ्गिरस्वते स्वाहेति मेक्षणमग्नावनुप्रहरति नमस्कारान्कृत्वा यथादैवतं त्रिः पर्युक्षेत्प्रदक्षिणं प्राचीनावीती त्रिः प्रसव्यं सव्यञ्जनमन्नं पात्रेषु वर्धयित्वामासु पक्वमिति क्षीरं घृतं वा सिञ्चत्यामासु पक्वममृतं निविष्टं मया प्रत्तं स्वधया मदध्वमिति वर्धितान्यादिशत्येतद्वः पितरो भागधेयं पात्रेषु दत्तममृतं स्वधावत् । अक्षीयमाणमुपजीवतैनन्मया प्रत्तं स्वधया मदध्वममृता वागमृता वाचो अग्ने वाचोऽमृतत्वं त्रिवृतैकधामा । एभिर्मत्प्रत्तैः स्वधया मदध्वमिहास्मभ्यं वसीयोऽस्तु देवाः अयं यज्ञः परमो यः पितॄणां पात्रदेयं पितृदैवत्यमग्ने । वाक्च मनश्च पितरो नः प्रजानीमाश्विभ्यां प्रत्तं स्वधया मदध्वम् । य इह पितरः पार्थिवासो ये अन्तरिक्ष उत ये समुद्रि याः । ये वाचमाप्त्वा अमृता बभूवुस्तेऽस्मिन्सर्वे हविषि मादयन्तामेषा व ऊर्गेषा वः स्वधा चामत्त च पिबत च मा च वः क्षेष्ट । स्वधां वहध्वममृतस्य योनिं यात्र स्वधा पितरस्तां भजध्वम् येह पितर ऊर्ग्देवता च तस्यै जीवेम शरदः शतं वयम् । ज्योतिष्मद्धत्ताजरं म आयुरित्यथैतानि ब्राह्मणेभ्य उपनिक्षिप्य स्वाङ्गुष्ठेनानुदिशत्यमुष्मै स्वधामुष्मै स्वधेति यन्मेऽप्रकामा इति भुञ्जतोऽनुमन्त्रयते यन्मेऽप्रकामा उत वा प्रकामा समृद्धे ब्राह्मणेऽब्राह्मणे वा । य स्कन्दति निरृतिं वात उग्रां येन नः प्रीयन्ते पितरो देवताश्च । वायुष्टत्सर्वं शुन्धतु तेन शुद्धेन देवता मादयन्तां तस्मिञ्छुद्धे पितरो मादयन्तामित्यक्रान्समुद्र इत्याश्वं गीत्वा संपन्नं पृष्ट्वाथाचामयेद्यज्ञोपवीती भूत्वाभिरमन्तां भवन्त इत्युक्त्वा प्रदक्षिणं कृत्वा यन्मे रामेति गच्छतोऽनुमन्त्रयते यन्मे रामा शकुनिः श्वापदश्च यन्मेऽशुचिर्मन्त्रकृतस्य प्राशत् । वैश्वानरः सविता तत्पुनातु तेन पूतेन देवता मादयन्तां तस्मिन्पूते पितरो मादयन्तामिति १

शेषमनुज्ञाप्य प्रत्येत्य प्राग्दक्षिणायतं चतुरश्रं गोमयेनोपलिप्यापहता असुरा रक्षांसि पिशाचाः पितृषद इति मध्ये रेखां काष्ठेनोल्लिख्य ये रूपानि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति परापुरो निपुरो ये भरन्त्यग्निष्टांल्लोकात्प्रणुनोत्त्वस्मादित्युल्मुकं दक्षिणतो निदधात्यनुलेखं दर्भानास्तीर्योदपात्रेणाचामयत्याचाम पितरसौ ये च त्वात्रानु ते चाचामन्त्वित्येवं पितामहायैवं प्रपितामहाय तेषु पिण्डान्निदधात्यनुनामापहस्तेनैतत्ते पितरसौ ये च त्वात्रानु तेभ्यश्च स्वधा नम इत्येवं पितामहायैवं प्रपितामहाय नामान्यजानतः पितरेतत्ते पितामहैतत्ते प्रपितामहैतत्त इति बन्ध्वजानत इदं पितृभ्यः पृथिवीषद्भ्य इदं पितामहेभ्योऽन्तरिक्षसद्भ्य इदं प्रपितामेभ्यो दिविषद्भ्य इत्यत्र पितरो मादयध्वं यथाभागमावृषायध्वमित्युदगावृत्या तमितोरासीतामीमदन्त पितरो यथाभागमावृषायिषतेति जपित्वा पूर्ववदाचामय्य नीचीं विस्रंस्य नमस्कारान्कृत्वा यथादैवतमेतद्वः पितर इति वस्त्राण्यादिशत्यूर्णास्तुकां दशाम्बरं वा एतद्वः पितरो वासो गृहान्नः पितरो दत्ताधत्त पितरो गर्भं कुमारं पुष्करस्रजं यथेह पुरुषोऽसदित्यञ्जनाभ्यञ्जने ददात्याङ्क्ष्वासावित्यभ्यङ्क्ष्वासाविति गन्धान्सुमनसश्च दद्यान्नमो वः पितर इति षड्भिर्नमस्कारैरुपतिष्ठते नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरो घोराय नमो वः पितरो बलाय नमो वः पितरो मन्यवे स्वधायै च पितरो नमो व इत्यूर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतं स्वधा स्थ तर्पयत मे पितॄनित्यपः प्रसिच्य मा मे क्षेष्टेत्यभिमन्त्र्य मा मे क्षेष्ट बहु मे पूर्तमस्तु ब्रह्माणो मे जुषन्तामन्नमन्नम् । सहस्रधारममृतोदकं मे पूर्तमस्त्वेतत्परमे व्योमन्देवाश्च पितरश्चैतत्पूर्तं मे अत्रोपजीवन्ताम् । अक्षीयमाणमुपजीवतैनन्मया प्रत्तं स्वधया मदध्वमिति ये समानाः सुमनस इति प्रदक्षिणं कृत्वा ये समानाः सुमनसो जीवा जीवेषु मामकाः । तेषां श्रीर्मयि कल्पतामस्मिंल्लोके शतं समा इत्यामयावी पिण्डान्प्राश्नीयादन्नाद्यकामो वाग्नौ वा संक्षेपयेदप्सु वाभ्यवहरेयुरजं गां ब्राह्मणं वा प्राशयेयुः शेषस्य प्राश्नीयान्न चान्नतृप्तिं गच्छेत् २

ऊर्ध्वमाग्रहायण्यास्त्रयोऽपरपक्षास्तेषामेकैकस्मिन्नेकैकाष्टका भवति शाकाष्टका मांसाष्टकापूपाष्टकेति तत्र शाकमांसापूपानि हवींष्योदनं च तेषां हविषां स्थालीपाकावृताग्नौ जुहुयादष्टकायै स्वाहा एकाष्टकायै स्वाहा अष्टकायै सुराधसे स्वाहा संवत्सराय परिवत्सरायेदावत्सरायेद्वत्सरायावत्सराय कृणुता नमोभिः । त्वया वयं सुमतौ यज्ञियानां ज्योगजीता अहताः स्याम स्वाहेति हुत्वोपतिष्ठत एहि भगैहि भगैहि भगेति मध्यमायां गां कारयेत्तामष्टकायै प्रोक्षेत्तस्यास्त्रीणि सव्यान्युपोद्धरति पार्श्वमपघनीं श्रोणीमिति श्वो भूते श्राद्धमन्वष्टक्यं तदहर्वा ब्राह्मणान्हविरर्हानुपवेश्य तांस्तर्पयित्वा तस्मादग्नेर्दक्षिणतः षडग्नीन्प्रणीय तेषामेकैकस्मिन्नेकैकां कर्षूं खानयेदायामेन प्रादेशमात्रीं पार्थिवेन त्र्यङ्गुलामवाग्वैकाङ्गुलामिति तासु पिण्डान्निदधात्यनुनामापहस्तेन मज्जाः पितृभ्य उपकर्षति पार्श्वानि स्त्रीणां तत्राध्वर्यवः केचिदधीयते मध्यमं पिण्डं पत्नी प्राश्नीयात्प्रजाकामस्य तथा श्राद्धस्य स्थालीपाकं वा ३

आहिताग्नेः शरीरनाशे त्रीणि षष्टिशतानि पलाशत्सरूणामाहृत्य तैः प्रतिकृतिं कुर्यात्कृष्णाजिने ऽशीत्यर्धं शिरसि दध्याद्ग्रीवायां तु दशैव तु बाह्वोश्चैव शतं दध्यादङ्गुलीषु पुनर्दश उरसि त्रिंशतं दध्याज्जठरे विंशतिं तथोर्वोश्चैव शतं दध्यात् मेढ्रे चापि दशैव तु जानुजंघयोस्त्रिंशतं दध्यात् दश पादाङ्गुलीष्वपि इत्येतावन्तीह पुरुषस्य शरीराणि भवन्तीति विज्ञायते मध्ये शरीरं सतीशरीरमुप्तकेशं निकृत्तनखं प्रक्षालितं चितामारोपयन्त्यत्र पात्राण्यपि चिनोति तस्यामेनमादधाति तस्य नासिकयोः स्रुवौ निदध्यादित्येतेनानुवाकेन य एवंवित्स्यात्स यदोपतापी स्यादिति पूर्वमेव चतुर्गृहीतं गृहीत्वान्यं यथासंभवमास्ये हिरण्यशकलमाधायाग्नीनुपोह्य सामभिरुपतिष्ठते नाके सुपर्णमिति ग्राम्यं गेयमुदिते धूमे त्वेषस्ते धूम ऋण्वतीत्यग्नौ समारूढेऽग्ने मृड महं असीत्येतयोरन्यतरेण पराक्पराग्वा असौ लोक इति ब्राह्मणम् ४

आहिताग्नेश्चेत्पूर्वं जाया म्रियेत तां निर्मन्थ्येन दहेत्सांतपनेन वा श्मशानकृतं स्वकृतमनिरिणमपसलवक्रोदकं कृत्वा यत्र वौषधयो जायन्ते तत्र शरीरं दग्ध्वोदककरणाय यान्त्यनवेक्षमाणा न वाहिनीषु कुर्वन्ति तेषां यो यः पश्चाज्जातः स सोऽग्रं कुर्यादुपकूलमकूले कूपं खात्वा सव्यहस्तस्यानामिकया सकृदुदकं प्रोहति प्रेतस्य नामकरणेन वाहिनीषु चेदुद्ग्रथ्य केशान्निमज्यैकाञ्जलिं दत्त्वोपसंगृह्य केशानुल्मुकस्याग्निमारभेताग्ने शूकाहे पापं मेऽपहतेति शमीमारभेत शम्यसि शमय मे पापमित्यश्मानमारभेताश्मासि स्थिरोऽस्यहं स्थिरो भूयासमिति तूष्णीं गोमयं कृतोदकं दक्षिणामुखमासीनं तमनुगन्तार उपविशन्ति तानितरः कल्याणीभिर्वाग्भिः प्रत्याहोपास्तमनवेलायां ग्रामं प्रविशन्ति तां रात्रिमेकमाषेण वसन्ति शान्त्या वा श्वो भूते क्षीरोदके संसृज्य शरीराण्यवसिञ्चत्यजशृङ्गेण गोशृङ्गेण मृण्मयेन कोशेन वा तृतीयायां गन्धौषधीभिः संसृज्य शमीशाखया पलाशशाखया वासंह्लादयन्कुम्भ्यामवदध्यात्स्त्री चेद्घट एव दध्याच्चतुष्पथमतीत्य महावृक्षं नदीं वा तीर्थेषु निखनेत्प्रेतस्य तृतीयायां स्नापयन्त्यपामार्गेण मृदा गोमयेन च वासांसि प्रक्षाल्य दशरात्रमासते चतुर्थ्यां भिक्षामावर्तयेरन्तस्य सिद्धमग्नौकरणं कालं च यावदाकांक्षेयुर्भिक्षयानुसंतरेयुरूर्ध्वं दशरात्राच्छ्राद्धं दद्युर्न दद्युरा श्राद्धस्य प्रदानान्नक्षत्रेषु नियमो मघास्वेकतारेषु भरणीषु च पूर्वसमयेषु न रोहिण्यामुत्तरेषु ध्रुवेषु ब्राह्मणान्हविरर्हानुपवेश्य तांस्तर्पयित्वैकवत्पिण्डं दद्यान्न चान्विति ब्रूयात्सर्वैः कामैस्तर्पयेदनुगमनं कृत्वा शेषमनुज्ञाप्य प्रत्येत्य शेषं न प्राश्नीयाद्ब्राह्मणान्स्वस्ति वाच्य प्राश्नीयात् ५ अथातो गृहकर्मणो गृहवृद्धिमिच्छन्मासिमास्यृतावृतौ संवत्सरेसंवत्सरे वा पूर्वपक्षे पुण्ये नक्षत्रे गृहशान्तिमारभेतापामार्गपलाशशिरीषार्कौदुम्बरसदाभद्रा मृततृणमिन्द्र वल्लीभिर्बद्ध्वा गृहान्परिमार्ज्य परिसमूह्यापोऽभ्युक्ष्य पञ्चगव्यैर्दर्भमुष्टिना संप्रोक्ष्य सिद्धार्थकान्संप्रकीर्य वास्तुबलिं कृत्वा वास्तोर्मध्ये वास्तोष्पतिं हुत्वा सावित्र्या सहस्रं जुहुयात्ततो दक्षिणपुरस्तात्ततो दक्षिणपश्चात्तत उत्तरपुरस्तात्तत उत्तरपश्चान्मध्ये वा गौर्वासो हिरण्यं दक्षिणा ब्राह्मणानन्नेन परिविष्यं पुण्याहं स्वस्त्यृद्धिमिति वाचयित्वैवं प्रयुञ्जानोऽनन्तं महान्तं पोषं पुष्यति बहवः पुत्रा भवन्ति न च बालाः प्रमीयन्ते नाग्निर्दहति न दंष्ट्रिणः खादयेयुर्न तस्कराः सपत्ना रक्षांसि पिशाचा अपि व्राधन्ते यदि गावः प्रतप्येरन्गवां मध्य आहुतिसहस्रं जुहुयादित्येतेनैव कल्पेनाश्वोष्ट्रखराजाविकमहिषहस्तिकुलमन्यतरद्द्विपदां चतुष्पदां च व्याख्यातम् ६

अथातोऽद्भुतशान्तिं व्याख्यास्यामोऽथ यद्यगारे स्थूणा विरोहेत्कपोतो वागारं गच्छेद्गौर्वा गां धयेदनड्वान्वा दिवमुल्लिखेदनग्नौ वा धूमो जायेतानग्नौ वा दीप्येत मधु वा जायेत वल्मीकं वोपजायेत मण्डूको वाम्भृणे वाश्येच्छ्वानो वा गृहे पर्यटेयुरित्येतानन्यांश्च यत इन्द्र भयामहे । सदसस्पतिमद्भुतम् । अधायामुतेसुमुदस्य । सनादग्ने । यद्वा उ विश्पतिः शितः । प्रत्यग्ने । यं रक्षन्ति । प्राजापत्ययर्चा पुरस्ताच्चोपरिष्टाच्च महाव्याहृतिभिर्जुहोति एतान्यृक्सामानि गायेत् ७

अथातोऽनश्नत्संहितायाः कल्पं व्याख्यास्यामः शुचिवासाः स्याच्चीरवासा वा हविष्यमन्नमशनमिच्छेदपः फलानि वा ब्राह्मणस्त्वेव प्रत्याहरेत्प्राङ्वोदङ्वा ग्रामान्निष्क्रम्य शुचौ देश उदकान्ते वा गोमयेन गोचर्ममात्रं स्थण्डिलमुपलिप्य प्रोक्ष्य लक्षणमुल्लिख्याद्भिरभ्युक्ष्याग्निमुपसमाधायाघारावाज्यभागौ हुत्वाज्याहुतीर्जुहोत्यग्नये सोमाय रुद्रा येन्द्रा य ब्रह्मणे प्रजापतये बृहस्पतये विश्वेभ्यो देवेभ्यो ऋषिभ्य ऋग्भ्यो यजुर्भ्यः सामभ्यः श्रद्धायै प्रज्ञायै मेधायै सावित्र्यै सदसस्पतयेऽनुमतये च हुत्वा दर्भेष्वासीनः प्राक्तूलेषूदक्तूलेषु वा दक्षिणेन पाणिना दर्भान्धारयन्नॐपूर्वा व्याहृतीः सावित्रीं च चतुरनुद्रुत्य मनसा सामसावित्रीं च सोमं राजानं ब्रह्मजज्ञानीये चोभे वेदादिमारभेत संततमधीयीत मौनी न चान्तरा विरमेत् अथान्तरा व्याहरेदथान्तरा विरमेत्त्रीन्प्राणानायम्यातम्याचम्य वृतान्तादेवारभेताप्रतिभायां यावता काळेन वेदमधीयीत तावत्कालमधीयीत यज्जानीयादृक्तो यजुष्टः सामतस्तदवाप्नुयात्तद्ब्राह्मणं तच्छान्दसं तद्दैवतं साम वा अक्रानित्येतदेव वाभ्यस्येत् तिष्ठन्नासीनः शयानश्चङ्क्रम्यमाणो वा संहितां प्रयुञ्ज्यात्समृद्धिरेवास्य भवत्याद्यं त्रिवर्गं वा सहस्रकृत्व इति जैमिनिश्च वार्यमन्तं वा यथाकामी वा द्वादश संहिता अधीत्य यदनेनानध्यायेष्वधीतं यद्गुरवः कोपिता यान्यकार्यणि कृतानि ताभिः पवते शुद्धमस्य पूतं ब्रह्म भवत्यथापरा द्वादश संहिता अधीत्य ताभिः प्रजापतेर्लोकमवाप्नोत्यथापरा द्वादश संहिता अधीत्य ताभिरुशनसो लोकमवाप्नोत्यनश्नत्संहितासहस्रमधीत्य ब्रह्मभूतो विरजो भवति कामचारी सर्वान्कामानवाप्नोति संवत्सरं भैक्षभक्षः प्रयुञ्जानश्चक्षुर्लभते षण्मासान्यावकभक्षश्चतुरो मासानुदकसक्तुभक्षो द्वौ मासौ फलभक्षो मासमब्भक्षो द्वादशरात्रं वानश्नन्क्षिप्रमन्तर्धीयते ज्ञातीन्पुनाति सप्तातीतान्सप्तानागतानात्मानं च पञ्चदशं तारयते तामेतां देवनिश्रेणीत्याचक्षत एतया वै देवा देवत्वमगच्छन्नृषय ऋषित्वं तस्य ह वा एतस्य ब्रह्मसत्त्रस्य त्रिविध एवारम्भो भवति प्रातःसवने माध्यंदिने सवने ब्राह्मे वापररात्रे तस्य ह वा एतस्य द्वावेवानध्यायौ यदात्माशुचिर्यद्देशस्तद्वा एतत्प्रजापतिः सप्तऋषिभिः प्रोवाच

सप्तऋषयो महाजह्नवे महाजह्नुर्ब्राह्मणेभ्यः ८

अथ ग्रहाणामातिथ्यं बलिकर्मोपरुतं व्याख्यास्यामः
अश्रद्दधानमशुचिकरणमजाप्यं त्यक्तमङ्गलं
सुव्यक्तं ग्रहा नयन्ति पुरुषं यमसादनम्
ग्रहाणां दीप्रचेष्टानां नक्षत्रपथचारिणाम्
ग्रहातिथ्यं प्रवक्ष्यामि शान्तिकर्मणि कारयेत्
भास्कराङ्गारकौ रक्तौ श्वेतौ शुक्रनिशाकरौ
सोमपुत्रो गुरुश्चैव तावुभौ पीतकौ स्मृतौ
कृष्णं शनैश्चरं विद्याद्रा हुं केतुं तथैव च
ग्रहवर्णानि पुष्पाणि प्राज्ञस्तत्रोपकल्पयेत्

गोमयेन गोचर्ममात्रं स्थण्डिलमुपलिप्य प्रोक्ष्य लक्षणमुल्लिख्याद्भिरभ्युक्ष्याग्निमुपसमाधायाघारावाज्यभागौ हुत्वा ग्रहानावाहयन्त्यादित्यं मध्ये लोहितं पूर्वदक्षिणतः सोमम् । पूर्वोत्तरतो बुधमुत्तरेण गुरुं पूर्वेण भार्गवम् । पश्चिमे शनैश्चरं विद्याद्रा हुं दक्षिणपश्चिमे पश्चिमोत्तरतः केतुं वृत्तमादित्याय त्रिकोणमङ्गारकस्य चतुरश्रं सोमाय बाणं बुधाय दीर्घचतुरश्रं बृहस्पतये पञ्चकोणं

शुक्राय धनुः शनैश्चराय राहोः शूर्पं केतोर्ध्वजमिति
ईश्वरं भास्करं विद्यातुमां सोमं तथैव च
स्कन्दमङ्गारकं चैव बुधो नारायणं स्थितः
बृहस्पतिः स्वयं ब्रह्म शुक्रः शक्रस्तथैव च
यमं शनैश्चरं विद्याद्रा होः कालदूतिनः
केतोश्चित्रगुप्तश्चेत्येते ग्रहदेवताः
अग्निरापो भूमिर्विष्णुरिन्द्रा णी प्रजापतिः सर्पो ब्रह्मेत्येते प्रत्यधिदेवताः
जातमर्क कलिङ्गेषु यामुनेषु च चन्द्र माः
विन्ध्य अङ्गारकदेशो मध्यदेशो बुधः स्मृतः
बृहस्पतिः सिन्धुदेशः शुक्रदेशो घटेषु च
शनैश्चरस्तु सौराष्ट्रो राहुस्तु पूर्वदेशिकः

केतुः पर्वत इत्येते देशानां ग्रहजात इति अर्कसमिधमादित्याय प्रदेशमात्राभिघारितानाम्यादिभिर्जुहुयात्खादिरमङ्गारकाय पालाशं सोमायापामार्गं बुधायाश्वत्थं बृहस्पतय औदुम्बरं शुक्राय शमीं शनैश्चराय राहोर्दूर्वाः केतोः कुशाग्रमित्यष्टाविंशतिमाज्याहुतीर्जुहोत्येताभिः पक्वाग्नेर्जुहोत्यादित्याय इलोदनं हविष्यमन्नमङ्गारकाय सोमाय घृतपायसं पयोदनं बृहस्पतये क्षीरोदनं शुक्राय दध्योदनं बुधाय तिलपिष्टमाषोदनं शनैश्चराय राहोर्मांसोदनं केतोश्चित्रोदनमिति आ सत्येनेत्यादित्याय अग्निर्मूर्धा दिव इत्यङ्गारकाय आप्यायस्व समेतु इति सोमाय ब्रह्म जज्ञानमिति बुधाय बृहस्पते अति यदर्य इति बृहस्पतये अस्य प्रत्नामनु द्युतमिति शुक्राय शं नो देवीरभिष्टय इति शनैश्चराय कया नश्चित्र आभुवदिति राहोः केतुं कृण्वन्नकेतव इति केतोः रक्तां धेनुमादित्याय रक्तमनड्वाहमङ्गारकाय सोमाय शङ्खुं बुधाय काञ्चनं बृहस्पतये वासः शुक्राय हयं नीलां गां शनैश्चराय राहोः कृष्णायसं केतोः कुञ्जरमिति सर्वेषामपि

हिरण्यं वा येन वा तुष्यत्याचार्यस्तद्ददाति
यथा समुत्थितं यन्त्रं यन्त्रेण प्रतिहन्यते
तथा ग्रहोपस्पृष्टानां शान्तिर्भवति दारुणम्
नादिशेत्तपसा युक्तं नादिशेद्दिवमाश्रितम्
न च देवान्तकं विप्रं वृत्तान्तां नारीं परिवृताम्
अहिंसकस्य दान्तस्य धर्मजितधनस्य च
नित्यं च नियमस्थस्य सदानुग्रहा ग्रहाः
ग्रहा गावो नरेन्द्रा श्च ब्राह्मणाश्च विशेषतः
पूजिताः पूजयन्त्येते निर्दहन्त्यवमानिताः ९

इति जैमिनिसूत्रं समाप्तम्

"https://sa.wikisource.org/w/index.php?title=जैमिनिगृह्यसूत्रम्&oldid=129778" इत्यस्माद् पुनः प्राप्तिः