प्रमुखा विकल्पसूचिः उद्घाट्यताम्

1.1.1

प्रजापतिर्वा इदं त्रयेण वेदेनाजयद्यदस्येदं जितं तत् १ स ऐक्षतेत्थं चेद्वा अन्ये देवा अनेन वेदेन यक्ष्यन्त इमां वाव ते जितिं जेष्यन्ति येयम्मम हन्त त्रयस्य वेदस्य रसमाददा इति २ स भूरित्येवर्ग्वेदस्य रसमादत्त सेयम्पृथिव्यभवत् तस्य यो रसः प्राणेदत्सोऽग्निरभवद्र सस्य रसः ३ भुव इत्येव यजुर्वेदस्य रस-मादत्त तदिदमन्तरिक्षमभवत् तस्य यो रसः प्राणेदत्स वायुरभवद्र सस्य रसः ४ स्वरित्येव सामवेदस्य रसमादत्त सोऽसौ द्यौरभवत्तस्य यो रसः प्राणेदत्स आदित्योऽभवद्र सस्य रसः ५ अथैकस्यैवाक्षरस्य रसं नाशक्नोदादातुमोमि-त्येतस्यैव ६ सेयं वागभवत् ओमेव नामैषा तस्या उ प्राण एव रसः ७ तान्येतान्यष्टौ अष्टाक्षरा गायत्री गायत्रं साम ब्रह्म उ गायत्री तदु ब्रह्माभिसम्पद्यते
अष्टाशफाः पशवस्तेनो पशव्यम् ८ १

इति प्रथमेऽनुवाके प्रथमः खण्डः

1.1.2

स यदोमिति सोऽग्निर्वागिति पृथिव्योमिति वायुर्वागित्यन्तरिक्षमोमित्यादित्यो वागिति द्यौरोमिति प्राणो वागित्येव वाक् १ स य एवं विद्वानुद्गाय-त्योमित्येवाग्निमादाय पृथिव्याम्प्रतिष्ठापयत्योमित्येव वायुमादायान्तरिक्षे प्रतिष्ठापयत्योमित्येवादित्यमादाय दिवि प्रतिष्ठापयत्योमित्येव प्राणमादाय वाचि प्रतिष्ठापयति २ तद्धैतच्छैलना गायत्रं गायन्त्योवा३चोवा३चोवा३छुम्भा ओवा इति ३ तदु ह तत्पराङिवानायुष्यमिव तद्वायोश्चापां चानु वर्त्म गेयम् ४ यद्वै वायुः पराङेव पवेत क्षीयेत स स पुरस्ताद्वाति स दक्षिणतस्स पश्चात्स उत्तरतस्स उपरिष्टात्स सर्वा दिशोऽनुसंवाति ५ तदेतदाहुरिदानीं वा अयमितोऽवासीदथेत्थाद्वातीति स यद्रे ष्माणं जनमानो निवेष्टमानो वाति क्षयादेव बिभ्यत् ६ यदु ह वा आपः पराचीरेव प्रसृतास्स्यन्देरन्क्षीयेरंस्ताः यदङ्कांसि कुर्वाणा निवेष्टमाना आवर्तान्सृजमाना यन्ति क्षयादेव बिभ्यतीः तदेतद्वायोश्चैवापां चानु वर्त्म गेयम् ७ २

इति प्रथमेऽनुवाके द्वितीयः खण्डः
   
1.1.3

ओवा ओवा ओवा हुम्भा ओवा इति करोत्येव एताभ्यां सर्वमायुरेति १ स यथा वृक्षमाक्रमणैराक्रममाण इयादेवमेवैते द्वेद्वे देवते संधायेमांल्लो-कान्रोहन्नेति २ एक उ एव मृत्युरन्वेत्यशनयैव ३ अथ हिङ्करोति चन्द्र मा वै हिङ्कारोऽन्नमु वै चन्द्र माः अन्नेनाशनयां घ्नन्ति ४ तांतामशनयामन्नेन हत्वोमित्येतमेवादित्यं समयातिमुच्यते एतदेव दिवश्छिद्र म् ५ यथा खं वानसस्स्याद्र थस्य वैवमेतद्दिवश्छिद्रं तद्र श्मिभिस्संछन्नं दृश्यते ६ यद्गा-यत्रस्योर्ध्वं हिङ्कारात्तदमृतं तदात्मानं दध्यादथो यजमानमथ यदितरत्सामोर्ध्वं तस्य प्रतिहारात् ७ स यथाद्भिरापस्संसृज्येरन्यथाग्निनाग्निस्संसृज्येत यथा
क्षीरे क्षीरमासिच्यादेवमेवैतदक्षरमेताभिर्देवताभिस्संसृज्यते ८ ३

इति प्रथमेऽनुवाके तृतीयः खण्डः
 
1.1.4

तं वा एतं हिङ्कारं हिम्भा इति हिङ्कुर्वन्ति श्रीर्वै भाः असौ वा आदित्यो भा इति १ एतं ह वा एतं न्यङ्गमनु गर्भ इति यद्भ इति स्त्रीणाम्प्रजननं निगच्छति तस्मात्ततो ब्राह्मण ऋषिकल्पो जायतेऽतिव्याधी राजन्यश्शूरः २ एतं ह वा एतं न्यङ्गमनु वृषभ इति यद्भ इति निगच्छति तस्मात्ततः पुण्यो बलीवर्दो दुहाना धेनुरुक्षा दशवाजी जायन्ते ३ एतं ह वा एतं न्यङ्गमनु गर्दभ इति यद्भ इति निगच्छति तस्मात्स पापीयाञ्छ्रेयसीषु चरति तस्मादस्य पापीयसश्श्रेयो जायतेऽश्वतरो वाश्वतरी वा ४ एतं ह वा एतं न्यङ्गमनु कुभ्र इति यद्भ इति निगच्छति तस्मात्सोऽनार्यस्सन्नपि राज्ञः प्राप्नोति ५ तं हैतमेके हिङ्कारं हिम्भा ओवा इति बहिर्धेव हिङ्कुर्वन्ति बहिर्धेव वै श्रीः श्रीर्वै साम्नो हिङ्कार इति ६ स य एनं तत्र ब्रूयाद्बहिर्धा न्वा अयं श्रियमधित पापीयान्भविष्यति स यदा वै म्रियतेऽथाग्नौ प्रास्तो भवति क्षिप्रे बत मरिष्यत्यग्नावेनम्प्रासिष्यन्तीति तथा हैव स्यात् ७ तस्मादु हैतं हिङ्कारं हिं वो इत्यन्तरिवैवात्मन्नर्जयेत्तथा ह न बहिर्धा श्रियं कुरुते सर्वमायुरेति ८ ४

प्रथमेऽनुवाके चतुर्थः खण्डः
 
1.1.5

सा हैषा खला देवतापसेधन्ती तिष्ठति इदं वै त्वमत्र पापमकर्णेहैष्यसि यो वै पुण्यकृत्स्यात्स इहेयादिति १ स ब्रूयादपश्यो वै त्वं तद्यदहं तदकरवं तद्वै मा त्वं नाकारयिष्यस्त्वं वै तस्य कर्तासीति २ सा ह वेद सत्यम्माहेति सत्यं हैषा देवता सा ह तस्य नेशे यदेनमपसेधेत्सत्यमुपैव ह्वयते ३ अथ हो-वाचैक्ष्वाको वा वार्ष्णोऽनुवक्ता वा सात्यकीर्त उतैषा खला देवतापसेद्धुमेव ध्रियतेऽस्यै दिशः ४ तद्दिवोऽन्तः तदिमे द्यावापृथिवी संश्लिष्यतः यावती वै वेदिस्तावतीयम्पृथिवी तद्यत्रैतच्चात्वालं खातं तत्सम्प्रति स दिव आकाशः ५ तद्बहिष्पवमाने स्तूयमाने मनसोद्गृह्णीयात् ६ स यथोच्छ्रायम्प्रतियस्य प्रपद्येतैवमेवैतया देवतयेदममृतमभिपर्येति यत्रायमिदं तपतीति ७ अथ होवाच ८ ५

इति प्रथमेऽनुवाके पञ्चमः खण्डः

1.1.6

गोबलो वार्ष्णः क एतमादित्यमर्हति समयैतुं दूराद्वा एष एतत्तपति न्यङ् तेन वा एतम्पूर्वेण सामपथस्तदेव मनसाहृत्योपरिष्टादेतस्यैतस्मिन्नमृते निद-ध्यादिति १ तदु होवाच शाट्यायनिस्समयैवैतदेनं कस्तद्वेद यद्येता आपो वा अभितो यद्वायुं वा एष उपह्वयते रश्मीन्वा एष तदेतस्मै व्यूहतीति २ अथ होवाचोलुक्यो जानश्रुतेयो यत्र वा एष एतत्तपत्येतदेवामृतमेतच्चेद्वै प्राप्नोति ततो मृत्युना पाप्मना व्यावर्तते ३ कस्तद्वेद यत्परेणादित्यमन्तरिक्षमिदमना-लयनमवरेण ४ अथैतदेवामृतमेतदेव मां यूयम्प्रापयिष्यथ एतदेवाहं नातिमन्य इति ५ तान्येतान्यष्टौ अष्टाक्षरा गायत्री गायत्रं साम ब्रह्म उ गायत्री तदु
ब्रह्माभिसम्पद्यते अष्टाशफाः पशवस्तेनो पशव्यम् ६ ६

इति प्रथमेऽनुवाके षष्ठः खण्डः
 
1.1.7

ता एता अष्टौ देवताः एतावदिदं सर्वं ते करोति १ स नैषु लोकेषु पाप्मने भ्रातृव्यायावकाशं कुर्यात् मनसैनं निर्भजेत् २ तदेतदृचाभ्यनूच्यते चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्तीति ३ तद्यानि तानि गुहा त्रीणि निहिता नेङ्गयन्ती तीम एव ते लोकाः ४ तुरीयं वाचो मनुष्या वदन्तीति चतुर्भागो ह वै तुरीयं वाचः सर्वयास्य वाचा सर्वैरेभिर्लोकैस्सर्वेणास्य कृतम्भवति य एवं वेद ५ स यथाश्मानमाखणमृत्वा लोष्टो विध्वंसत एवमेव स विध्वंसते य एवं विद्वांसमुपवदति ६ ७

इति प्रथमेऽनुवाके सप्तमः खण्डः

प्रथमोऽनुवाकस्समाप्तः

1.2.1

प्रजापतिर्वा इदं त्रयेण वेदेनाजयद्यदस्येदं जितं तत् १ स ऐक्षतेत्थं चेद्वा अन्ये देवा अनेन वेदेन यक्ष्यन्त इमां वाव ते जितिं जेष्यन्ति येऽयम्मम २ हन्तेमं त्रयं वेदम्पीळयानीति ३ स इमं त्रयं वेदमपीळयत्तस्य पीळयन्नेकमेवाक्षरं नाशक्नोत्पीळयितुमोमिति यदेतत् ४ एष उ ह वाव सरसः सरसा ह वा एवंविदस्त्रयी विद्या भवति ५ स इमं रसम्पीळयित्वापनिधायोर्ध्वोऽद्र वत् ६ तं द्र वन्तं चत्वारो देवानामन्वपश्यन्निन्द्र श्चन्द्रो रुद्र स्समुद्र ः! तस्मादेते श्रेष्ठा देवानामेते ह्येनमन्वपश्यन् ७ स योऽयं रस आसीत्तदेव तपोऽभवत् ८ त इमं रसं देवा अन्वैक्षन्त तेऽभ्यपश्यन्त्स तपो वा अभूदिति ९ इममु वै त्रयं वेदम्मरीमृशित्वा तस्मिन्नेतदेवाक्षरमपीळितमविन्दन्नोमिति यदेतत् १० एष उ ह वाव सरसः तेनैनम्प्रायुवन्यथा मधुना लाजान्प्रयुयादेवम् ११ तेऽभ्य-तप्यन्त तेषां तप्यमानानामाप्यायत वेदः तेऽनेन च तपसापीनेन च वेदेन तामु एव जितिमजयन्याम्प्रजापतिरजयत्त एते सर्व एव प्रजापतिमात्रा अया३मया३-मिति १२ तस्मात्तप्यमानस्य भूयसी कीर्तिर्भवति भूयो यशः स य एतदेवं वे-दैवमेवापीनेन वेदेन यजते यदो याजयत्येवमेवापीनेन वेदेन याजयति १३ तस्य हैतस्य नैव का चनार्तिरस्ति य एवं वेद स य एवैनमुपवदति स आर्तिमृच्छति १४ ८

इति द्वितीयेऽनुवाके प्रथमः खण्डः
 
1.2.2

तदाहुर्यदोवा ओवा इति गीयते क्वात्रर्ग्भवति क्व सामेति १ ओमिति वै साम वागित्यृक् ओमिति मनो वागिति वाक् ओमिति प्राणो वागित्येव वाक् ओमितीन्द्रो वागिति सर्वे देवाः तदेतदिन्द्र मेव सर्वे देवा अनुयन्ति २ ओमित्येतदेवाक्षरमेतेन वै संसवे परस्येन्द्रं वृञ्जीत एतेन ह वै तद्बको दाल्भ्य आजकेशिनामिन्द्रं ववर्ज ओमित्येतेनैवानिनाय ३ तान्येतान्यष्टौ अष्टाक्षरा गायत्री गायत्रं साम ब्रह्म उ गायत्री तदु ब्रह्माभिसम्पद्यते अष्टाशफाः पशवस्तेनो पशव्यम् ४ तस्यैतानि नामानीन्द्र ः! कर्माक्षितिरमृतं व्योमान्तो वाचः बहु-र्भूयस्सर्वं सर्वस्मादुत्तरं ज्योतिः ऋतं सत्यं विज्ञानं विवाचनमप्रतिवाच्यं पूर्वं
सर्वं सर्वा वाक् सर्वमिदमपि धेनुः पिन्वते परागर्वाक् ५ ९

इति द्वितीयेऽनुवाके द्वितीयः खण्डः

1.2.3

सा पृथक्सलिलं कामदुघाक्षिति प्राणसंहितं चक्षुश्श्रोत्रं वाक्प्रभूतम्मनसा व्याप्तं हृदयाग्रम्ब्राह्मणभक्तमन्नशुभं वर्षपवित्रं गोभगम्पृथिव्युपरं तपस्तनु वरुण-परियतनमिन्द्र श्रेष्ठं सहस्राक्षरमयुतधारममृतं दुहाना सर्वानिमांल्लोकानभि-विक्षरतीति १ तदेतत्सत्यमक्षरं यदोमिति तस्मिन्नापः प्रतिष्ठिता अप्सु पृथिवी पृथिव्यामिमे लोकाः २ यथा सूच्या पलाशानि संतृण्णानि स्युरेवमेतेनाक्ष-रेणेमे लोकास्संतृण्णाः ३ तदिदमिमानतिविध्य दशधा क्षरति शतधा सहस्र-धायुतधा प्रयुतधा नियुतधार्बुदधा न्यर्बुदधा निखर्वधा पद्ममक्षितिर्व्योमान्तः ४ यथौघो विष्यन्दमानः परःपरोवरीयान्भवत्येवमेवैतदक्षरम्परःपरोवरीयो भ-वति ५ ते हैते लोका ऊर्ध्वा एव श्रिताः इम एवं त्रयोदशमासाः ६ स य एवं विद्वानुद्गायति स एवमेवैतांल्लोकानतिवहति ओमित्येतेनाक्षरेणामुमादि-त्यम्मुख आधत्ते एष ह वा एतदक्षरम् ७ तस्य सर्वमाप्तम्भवति सर्वं जितं न हास्य कश्चन कामोऽनाप्तो भवति य एवं वेद ८ तद्ध पृथुर्वैन्यो दिव्यान्व्रा-त्यान्पप्रच्छ स्थूणां दिवस्तम्भनीं सूर्यमाहुरन्तरिक्षे सूर्यः पृथिवीप्रतिष्ठः अप्सु भूमीश्शिश्यिरे भूरिभाराः किं स्विन्महीरधितिष्ठन्त्याप इति ९ ते ह प्रत्यूचु-स्स्थूणामेव दिवस्तम्भनीं सूर्यमाहुरन्तरिक्षे सूर्यः पृथिवीप्रतिष्ठः अप्सु भूमीश्शिश्यिरे भूरिभारास्सत्यम्महीरधितिष्ठन्त्याप इति १० ओमित्येतदेवाक्षरं सत्यं तदेतदापोऽधितिष्ठन्ति ११ १०

इति द्वितीयेऽनुवाके तृतीयः खण्डः

द्वितीयोऽनुवाकस्समाप्तः
 
1.3.1

प्रजापतिः प्रजा असृजत ता एनं सृष्टा अन्नकाशिनीरभितस्समन्तम्पर्यविशन् १ ता अब्रवीत्किंकामास्स्थेति अन्नाद्यकामा इत्यब्रुवन् २ सोऽब्रवीदेकं वै वेदम-न्नाद्यमसृक्षि सामैव तद्वः प्रयच्छानीति तन्नः प्रयच्छेत्यब्रुवन् ३ सोऽब्रवीदिमान्वै पशून्भूयिष्ठमुपजीवामः एभ्यः प्रथमम्प्रदास्यामीति ४ तेभ्यो हिङ्कारम्प्रायच्छत्तस्मात्पशवो हिङ्करिक्रतो विजिज्ञासमाना इव चरन्ति ५ प्रस्तावम्मनुष्येभ्यः तस्मादु ते स्तुवत इवेदम्मे भविष्यत्यदो मे भविष्यतीति ६ आदिं वयोभ्यः तस्मात्तान्याददानान्युपापपातमिव चरन्ति ७ उद्गीथं देवेभ्योऽमृतं तस्मात्तेऽमृताः ८ प्रतिहारमारण्येभ्यः पशुभ्यः तस्मात्ते प्रतिहृतास्तन्तस्यमाना
इव चरन्ति ९ ११

इति तृतीयेऽनुवाके प्रथमः खण्डः

1.3.2

उपद्रवं गन्धर्वाप्सरोभ्यः तस्मात्त उपद्रवं गृह्णन्त इव चरन्ति १ निधनम्पितृभ्यः तस्मादु ते निधनसंस्थाः २ तद्यदेभ्यस्तत्साम प्रायच्छदेतमेवैभ्यस्तदादित्यम्प्रायच्छत् ३ स यदनुदितस्स हिङ्कारोऽर्धोदितः प्रस्ताव आसंगवमादिर्माध्यन्दिन उद्गीथोऽपराह्णः प्रतिहारो यदुपास्तमयं लोहितायति स उपद्रवोऽस्तमित एव निधनम् ४ स एष सर्वैर्लोकैस्समः तद्यदेष सर्वैर्लोकैस्समस्तस्मादेष एव साम स ह वै सामवित्स साम वेद य एवं वेद ५ तेऽब्रुवन्दूरे वा इदमस्मत्तत्रेदं कुरु यत्रोपजीवामेति ६ तदृतूनभ्यत्यनयत् स वसन्तमेव हिङ्कारमकरोद्ग्रीष्मम्प्रस्तावं वर्षामुद्गीथं शरदम्प्रतिहारं हेमन्तं निधनम्मासार्धमासावेव सप्तमावकरोत् ७ तेऽब्रुवन्नेदीयो न्वावैतर्हि तत्रैव कुरु यत्रोपजीवामेति ८ तत्पर्जन्यमभ्यत्यनयत् स पुरोवातमेव हिङ्कारमकरोत् ९ १२
 
इति तृतीयेऽनुवाके द्वितीयः खण्डः
   
1.3.3

जीमूतान्प्रस्तावं स्तनयित्नुमुद्गीथं विद्युतम्प्रतिहारं वृष्टिं निधनं यद्वृष्टात्प्रजाश्चौषधयश्च जायन्ते ते सप्तम्यावकरोत् १ तेऽब्रुवन्नेदीयो न्वावैतर्हि तत्रैव कुरु यत्रोपजीवामेति २ तद्यज्ञमभ्यत्यनयत् स यजूंष्येव हिङ्कारमकरोदृचः प्रस्तावं सामान्युद्गीथं स्तोमम्प्रतिहारं छन्दो निधनं स्वाहाकारवषट्कारावेव सप्तमावकरोत् ३ तेऽब्रुवन्नेदीयो न्वावैतर्हि तत्रैव कुरु यत्रोपजीवामेति ४ तत्पुरुषमभ्यत्यनयत् स मन एव हिङ्कारमकरोद्वाचम्प्रस्तावम्प्राणमुद्गीथं चक्षुः प्रतिहारं श्रोत्रं निधनं रेतश्चैव प्रजां च सप्तमावकरोत् ५ तेऽब्रुवन्नत्र वा एनत्तदकर्यत्रोपजीविष्याम इति ६ स विद्यादहमेव सामास्मि मय्येता देवता इति ७ १३

इति तृतीयेऽनुवाके तृतीयः खण्डः

1.3.4

न ह दूरेदेवतस्स्यात् यावद्ध वा आत्मना देवानुपास्ते तावदस्मै देवा भवन्ति १ अथ य एतदेवं वेदाहमेव सामास्मि मय्येतास्सर्वा देवता इत्येवं हास्मि-न्नेतास्सर्वा देवता भवन्ति २ तदेतद्देवश्रुत्साम सर्वा ह वै देवताश्शृण्व-न्त्येवंविदम्पुण्याय साधवे ता एनम्पुण्यमेव साधु कारयन्ति ३ स ह स्माह सुचित्तश्शैलनो यो यज्ञकामो मामेव स वृणीतां तत एवैनं यज्ञ उपनंस्यति एवंविदं ह्युद्गायन्तं सर्वा देवता अनुसंतृप्यन्ति ता अस्मै तृप्तास्तथा करिष्यन्ति यथैनं यज्ञ उपनंस्यतीति ४ १४

इति तृतीयेऽनुवाके चतुर्थः खण्डः

तृतीयोऽनुवाकस्समाप्तः
  
1.4.1

देवा वै स्वर्गं लोकमैप्सन्तं न शयाना नासीना न तिष्ठन्तो न धावन्तो नैव केन चन कर्मणाप्नुवन् १ ते देवाः प्रजापतिमुपाधावन्स्वर्गं वै लोकमैप्सिष्म तं न शयाना नासीना न तिष्ठन्तो न धावन्तो नैव केन चन कर्मणापाम तथा नोऽनुशाधि यथा स्वर्गं लोकमाप्नुयामेति २ तानब्रवीत्साम्नानृचेन स्वर्गं लोकम्प्रयातेति ते साम्नानृचेन स्वर्गं लोकम्प्रायन् ३ प्र वा इमे साम्नागुरिति तस्मात्प्रसाम तस्मादु प्रसाम्यन्नमत्ति ४ देवा वै स्वर्गं लोकमायन्त एता-न्यृक्पदानि शरीराणि धून्वन्त आयन्ते स्वर्गं लोकमजयन् ५ तान्या दिवः प्रकीर्णान्यशेरन् अथेमानि प्रजापतिरृक्पदानि शरीराणि संचित्याभ्यर्चत्
यदभ्यर्चत्ता एवर्चोऽभवन् ६ १५

इति चतुर्थेऽनुवाके प्रथमः खण्डः

1.4.2

सैवर्गभवदियमेव श्रीः अतो देवा अभवन् १ अथैषामिमामसुराश्श्रियमविन्दन्त तदेवासुरमभवत् २ ते देवा अब्रुवन्या वै नश्श्रीरभूदविदन्त तामसुराः कथं न्वेषामिमां श्रियम्पुनरेव जायेमेति ३ तेऽब्रुवन्नृच्येव साम गायामेति ते पुनः प्रत्याद्रुत्यर्चि सामागायन्तेनास्माल्लोकादसुराननुदन्त ४ तद्वै माध्य-न्दिने च सवने तृतीयसवने च नर्चोऽपराधोऽस्ति स यत्ते ऋचि गायति तेना-स्माल्लोकाद्द्विषन्तम्भ्रातृव्यं नुदते अथ यदमृते देवतासु प्रातस्सवनं गायति तेन स्वर्गं लोकमेति ५ प्रजापतिर्वै साम्नेमां जितिमजयद्यास्येयं जितिस्तां स स्वर्गं लोकमारोहत् ६ ते देवाः प्रजापतिमुपेत्याब्रुवन्नस्मभ्यमपीदं साम प्रयच्छेति तथेति तदेभ्यस्साम प्रायच्छत् ७ तदेनानिदं साम स्वर्गं लोकं नाकामयत वोढुम् ८ ते देवाः प्रजापतिमुपेत्याब्रुवन्यद्वै नस्साम प्रादा इदं वै नस्तत्स्वर्गं लोकं न कामयते वोढुमिति ९ तद्वै पाप्मना संसृजतेति कोऽस्य पाप्मेति ऋगिति तदृचा समसृजन् १० तदिदम्प्रजापतेर्गर्हयमाणमतिष्ठदिदं वै मा तत्पाप्मना समस्राक्षुरिति सोऽब्रवीद्यस्त्वैतेन व्यावर्तयाद्व्येव स पाप्मना वर्ताता इति ११ स य एतदृचा प्रातस्सवने व्यावर्तयति व्येवं स पाप्मना वर्तते १२ १६

इति चतुर्थेऽनुवाके द्वितीयः खण्डः
   
1.4.3

तदाहुर्यदोवा ओवा इति गीयते क्वात्रर्ग्भवति क्व सामेति १ प्रस्तुवन्नेवाष्टाभिरक्षरैः प्रस्तौति अष्टाक्षरा गायत्री अक्षरमक्षरं त्र्यक्षरं तच्चतु-र्विंशतिस्सम्पद्यन्ते चतुर्विंशत्यक्षरा गायत्री २ तामेताम्प्रस्तावेनर्चमाप्त्वा या श्रीर्यापचितिर्यस्स्वर्गो लोको यद्यशो यदन्नाद्यं तान्यागायमान आस्ते ३ १७

चतुर्थेऽनुवाके तृतीयः खण्डः

1.4.4

प्रजापतिर्देवानसृजत तान्मृत्युः पाप्मान्वसृज्यत १ ते देवा प्रजापतिमुपेत्याब्रुवन्कस्मादु नोऽसृष्ठा मृत्युं चेन्नः पाप्मानमन्ववस्रक्ष्यन्नासिथेति २ तानब्रवीच्छन्दांसि सम्भरत तानि यथायतनम्प्रविशत ततो मृत्युना पाप्मना व्यावर्त्स्यथेति ३ वसवो गायत्रीं समभरन्तां ते प्राविशन्तान्साच्छादयत् ४ रुद्रास्त्रिष्टुभं समभरन्तां ते प्राविशन्तान्साच्छादयत् ५ आदित्या जगतीं समभरन्तां ते प्राविशन्तान्साच्छादयत् ६ विश्वे देवा अनुष्टुभं समभरन्तां ते प्राविशन्तान्साच्छादयत् ७ तानस्यामृच्यस्वरायाम्मृत्युर्निरजानाद्यथा मणौ मणिसूत्रम्परिपश्येदेवम् ८ ते स्वरम्प्राविशन्तान्स्वरे सतो न निरजानात् स्वरस्य तु घोषेनान्वैत् ९ त ओमित्येतदेवाक्षरं समारोहनेतदेवाक्षरं त्रयी विद्या यददोऽमृतं तपति तत्प्रपद्य ततो मृत्युना पाप्मना व्यावर्तन्त १० एवमेवैवं विद्वानोमित्येतदेवाक्षरं समारुह्य यददोऽमृतं तपति तत्प्रपद्य ततो मृत्युना पाप्मना व्यावर्ततेऽथो यस्यैवं विद्वानुद्गायति ११ १८

इति चतुर्थेऽनुवाके चतुर्थः खण्डः

चतुर्थोऽनुवाकस्समाप्तः
   
1.5.1

अथैतदेकविंशं साम १ तस्य त्रय्येव विद्या हिङ्कारः अग्निर्वायुरसावादित्य एष प्रस्तावः इम एव लोका आदिः तेषु हीदं लोकेषु सर्वमाहितं श्रद्धा यज्ञो दक्षिणा एष उद्गीथः दिशोऽवान्तरदिश आकाश एष प्रतिहारः आपः प्रजा ओषधय एष उपद्रवः चन्द्रमा नक्षत्राणि पितर एतन्निधनम् २ तदेतदेकविंशं साम स य एवमेतदेकविंशं साम वेदैतेन हास्य सर्वेणोद्गीतम्भवत्येतस्माद्वेव
सर्वस्मादावृश्च्यते य एवं विद्वांसमुपवदति ३ १९

इति पञ्चमोऽनुवाकस्समाप्तः
 
1.6.1

इदमेवेदमग्रेऽन्तरिक्षमासीत्तद्वेवाप्येतर्हि १ तद्यदेतदन्तरिक्षं य एवायम्पवत एतदेवान्तरिक्षमेष ह वा अन्तरिक्षनाम २ एष उ एवैष विततः तद्यथा काष्ठेन पलाशे विष्कब्धे स्यातामक्षेण वा चक्रावेवमेतेनेमौ लोकौ विष्कब्धौ ३ तस्मिन्निदं सर्वमन्तः तद्यदस्मिन्निदं सर्वमन्तस्तस्मादन्तर्यक्षमन्तर्यक्षं ह वै नामैतत्तदन्तरिक्षमिति परोक्षमाचक्षते ४ तद्यथा मूताः प्रबद्धाः प्रलम्बेरन्नेवं हैतस्मिन्सर्वे लोकाः प्रबद्धाः प्रलम्बन्ते ५ तस्यैतस्य साम्नस्तिस्र आगा-त्रीण्यागीतानि षड्विभूतयश्चतस्रः प्रतिष्ठा दश प्रगास्सप्त संस्था द्वौ स्तोभावेकं रूपम् ६ तद्यास्तिस्र आगा इम एव ते लोकाः ७ अथ यानि त्रीण्यागीतान्यग्निर्वायुरसावादित्य एतान्यागीतानि न ह वै कां चन श्रियमपराध्नोति य एवं वेद ८ २०

इति षष्ठेऽनुवाके प्रथमः खण्डः
 
1.6.2

अथ याष्षड्विभूतय ऋतवस्ते १ अथ याश्चतस्रः प्रतिष्ठा इमा एव ताश्चतस्रो दिशः २ अथ ये दश प्रगा इम एव ते दश प्राणाः ३ अथ यास्सप्त संस्था या एवैतास्सप्ताहोरात्राः प्राचीर्वषट्कुर्वन्ति ता एव ताः ४ अथ यौ द्वौ स्तोभावहोरात्रे एव ते ५ अथ यदेकम्रूपं कर्मैव तत् कर्मणा हीदं सर्वं विक्रियते ६ तस्यैतस्य साम्नो देवा आजिमायन्स प्रजापतिर्हरसा हिङ्कारमुदजय-दग्निस्तेजसा प्रस्तावं रूपेण बृहस्पतिरुद्गीथं स्वधया पितरः प्रतिहारं वीर्येणेन्द्रो निधनम् ७ अथेतरे देवा अन्तरिता इवासन्त इन्द्र मब्रुवन्तव वै वयं स्मोऽनु न एतस्मिन्सामन्नाभजेति ८ तेभ्यस्स्वरम्प्रायच्छत्तम्प्रजापतिरब्रवीत्कथेत्थ-मकः सर्वं वा एभ्यस्साम प्रादाः एतावद्वाव साम यावान्स्वरः ऋग्वा एषर्ते स्वराद्भवतीति ९ सोऽब्रवीत्पुनर्वा अहमेषामेतं रसमादास्य इति तानब्रवीदुप मा गायत अभि मा स्वरतेति तथेति १० तमुपागायन्तमभ्यस्वरं तेषाम्पुना रसमादत्त ११ २१

इति षष्ठेऽनुवाके द्वितीयः खण्डः

1.6.3

स यथा मधुधाने मधुनाळीभिर्मध्वासिञ्चादेवमेव तत्सामन्पुना रसमासिञ्चत् १ तस्मादु ह नोपगायेत् इन्द्र एष यदुद्गाता स यथासावमीषां रसमादत्त एवमेष तेषां रसमादत्ते २ कामं ह तु यजमान उपगायेद्यजमानस्य हि तद्भवत्यथो ब्रह्मचार्याचार्योक्तः ३ तदु वा आहुरुपैव गायेत् दिशो ह्युपागायन्दिशामेवं सलोकतां जयतीति ४ ते य एवेमे मुख्याः प्राणा एत एवोद्गातारश्चोपगातारश्च इमे ह त्रय उद्गातार इम उ चत्वार उपगातारः ५ तस्मादु चतुर एवोपगातॄन्कुर्वीत तस्मादु होपगातॄन्प्रत्यभिमृशेद्दिशस्स्थ श्रोत्रम्मे मा हिंसिष्टेति ६ स यस्स रस आसीद्य एवायम्पवत एष एव स रसः ७ स यथा मध्वालोपमद्यादिति ह स्माह सुचित्तश्शैलन एवमेतस्य रसस्यात्मानम्पूरयेत स एवोद्गातात्मानं च यजमानं चामृतत्वं गमयतीति ८ २२

इति षष्ठेऽनुवाके तृतीयः खण्डः

षष्ठोऽनुवाकस्समाप्तः

1.7.1

अयमेवेदमग्र आकाश आसीत् स उ एवाप्येतर्हि १ स यस्स आकाशो वागेव सा तस्मादाकाशाद्वाग्वदति २ तामेतां वाचम्प्रजापतिरभ्यपीळयत्तस्या अभिपीळितायै रसः प्राणेदत्त एवेमे लोका अभवन् ३ स इमांल्लोकान-भ्यपीळयत्तेषामभिपीळितानां रसः प्राणेदत्ता एवैता देवता अभवन्नग्निर्वायुरसावादित्य इति ४ स एता देवता अभ्यपीळयत्तासामभिपीळितानां रसः प्राणेदत् सा त्रयी विद्याभवत् ५ स त्रयीं विद्यामभ्यपीळयत्तस्या अभिपीळितायै रसः प्राणेदत्ता एवैता व्याहृतयोऽभवन्भूर्भुवस्स्वरिति ६ स एता व्याहृती-रभ्यपीळयत्तासामभिपीळितानां रसः प्राणेदत्तदेतदक्षरमभवदोमिति यदेतत् ७ स एतदक्षरमभ्यपीळयत्तस्याभिपीळितस्य रसः प्राणेदत् ८ २३

इति सप्तमेऽनुवाके प्रथमः खण्डः
   
1.7.2

तदक्षरदेव यदक्षरदेव तस्मादक्षरम् १ यद्वेवाक्षरं नाक्षीयत तस्मादक्षयमक्षयं ह वै नामैतत्तदक्षरमिति परोक्षमाचक्षते २ तद्धैतदेक ओमिति गायन्ति तत्तथा न गायेत् ईश्वरो हैनदेतेन रसेनान्तर्धातोः अथो द्वे इवैवम्भवत ओमिति ओ इत्यु हैके गायन्ति तदु ह तन्न गीतं नैव तथा गायेत् ॐ इत्येव गायेत्तदेनदेतेन रसेन संदधाति ३ तदेतं रसं तर्पयति रसस्तृप्तोऽक्षरं तर्पयति अक्षरं तृप्तं व्याहृती-स्तर्पयति व्याहृतयस्तृप्ता वेदांस्तर्पयन्ति वेदास्तृप्ता देवतास्तर्पयन्ति देवतास्तृप्ता लोकांस्तर्पयन्ति लोकास्तृप्ता अक्षरं तर्पयन्ति अक्षरं तृप्तं वाचं तर्पयति वाक्तृप्ताकाशं तर्पयति आकाशस्तृप्तः प्रजास्तर्पयति तृप्यति प्रजया पशुभिर्य एतदेवं वेदाथो यस्यैवं विद्वानुद्गायति ४ २४

इति सप्तमेऽनुवाके द्वितीयः खण्डः

सप्तमोऽनुवाकस्समाप्तः
 
1.8.1

अयमेवेदमग्र आकाश आसीत् स उ एवाप्येतर्हि १ स यस्स आकाश आदित्य एव स एतस्मिन्ह्युदिते सर्वमिदमाकाशते २ तस्य मर्त्यामृतयोर्वै तीराणि समुद्र एव तद्यत्समुद्रे ण परिगृहीतं तन्मृत्योराप्तमथ यत्परं तदमृतम् ३ स यो ह स समुद्रो य एवायम्पवत एष एव स समुद्रः एतं हि संद्र वन्तं सर्वाणि भूतान्यनुसंद्रवन्ति ४ तस्य द्यावापृथिवी एव रोधसी अथ यथा नद्यां कंसानि वा प्रहीणानि स्युस्सरांसि वैवमस्यायम्पार्थिवस्समुद्रः ५ स एष पार एव समुद्र स्योदेति स उद्यन्नेव वायोः पृष्ठ आक्रमते सोऽमृतादेवोदेति अमृतमनुसंचरति अमृते प्रतिष्ठितः ६ तस्यैतत्त्रिवृद्रूपम्मृत्योरनाप्तं शुक्लं कृष्णम्पुरुषः ७ तद्यच्छुक्लं तद्वाचो रूपमृचोऽग्नेर्मृत्योः सा या सा वागृक्सा अथ योऽग्निर्मृत्युस्सः ८ अथ यत्कृष्णं तदपां रूपमन्नस्य मनसो यजुषः तद्यास्ता आपोऽन्नं तदथ यन्मनो यजुष्टत् ९ अथ यः पुरुषस्स प्राणस्तत्साम तद्ब्रह्म तदमृतं स यः प्राणस्तत्साम अथ यद्ब्रह्म तदमृतम् १० २५

इति अष्टमेऽनुवाके प्रथमः खण्डः
 
1.8.2

अथाध्यात्ममिदमेव चक्षुस्त्रिवृच्छुक्लं कृष्णम्पुरुषः १ तद्यच्छुक्लं तद्वाचो रूपमृचोऽग्नेर्मृत्योः सा या सा वागृक्सा अथ योऽग्निर्मृत्युस्सः २ अथ यत्कृष्णं तदपां रूपमन्नस्य मनसो यजुषः तद्यास्ता आपोऽन्नं तत् अथ यन्मनो यजुष्टत् ३ अथ यः पुरुषस्स प्राणस्तत्साम तद्ब्रह्म तदमृतं स यः प्राणस्तत्साम अथ यद्ब्रह्म तदमृतम् ४ सैषोत्क्रान्तिर्ब्रह्मणः अथातः पराक्रान्तिः ५ सा या साक्रान्तिर्विद्युदेव सा स यदेव विद्युतो विद्योतमानायै श्येतं रूपम्भवति तद्वाचो रूपमृचोऽग्नेर्मृत्योः ६ यद्वेव विद्युतस्संद्र वन्त्यै नीळं रूपम्भवति तदपां रूपम-न्नस्य मनसो यजुषः ७ य एवैष विद्युति पुरुषस्स प्राणस्तत्साम तद्ब्रह्म तदमृतं स यः प्राणस्तत्साम अथ यद्ब्रह्म तदमृतम् ८ २६

इति अष्टमेऽनुवाके द्वितीयः खण्डः

1.8.3

स हैषोऽमृतेन परिवृढो मृत्युमध्यास्तेऽन्नं कृत्वा १ अथैष एव पुरुषो योऽयं चक्षुषि य आदित्ये सोऽतिपुरुषः यो विद्युति स परमपुरुषः २ एते ह वाव त्रयः पुरुषाः आ हास्यैते जायन्ते ३ स योऽयं चक्षुष्येषोऽनुरूपो नाम अन्वङ्ह्येष सर्वाणि रूपाणि तमनुरूप इत्युपासीत अन्वञ्चि हैनं सर्वाणि रूपाणि भवन्ति ४ य आदित्ये स प्रतिरूपः प्रत्यङ्ह्येष सर्वाणि रूपाणि तम्प्रतिरूप इत्युपासीत प्रत्यञ्चि हैनं सर्वाणि रूपाणि भवन्ति ५ यो विद्युति स सर्वरूपः सर्वाणि ह्येतस्मिन्रूपाणि तं सर्वरूप इत्युपासीत सर्वाणि हास्मिन्रूपाणि भवन्ति ६ एते ह वाव त्रयः पुरुषाः आ हास्यैते जायन्ते य एतदेवं वेदाथो यस्यैवं विद्वानुद्गायति
७ २७

इति अष्टमेऽनुवाके तृतीयः खण्डः

अष्टमोऽनुवाकस्समाप्तः

1.9.1

अयमेवेदमग्र आकाश आसीत् स उ एवाप्येतर्हि १ स यस्स आकाश इन्द्र एव सः स यस्स इन्द्र एष एव स य एष एव तपति स एष सप्तरश्मि-र्वृषभस्तुविष्मान् २ तस्य वाङ्मयो रश्मिः प्राङ्प्रतिष्ठितः सा या सा वागग्निस्सः स दशधा भवति शतधा सहस्रधायुतधा प्रयुतधा नियुतधार्बुदधा न्यर्बुदधा निखर्वधा पद्ममक्षितिर्व्योमान्तः ३ स एष एतस्य रश्मिर्वाग्भूत्वा सर्वास्वासु प्रजासु प्रत्यवस्थितः स यः कश्च वदत्येतस्यैव रश्मिना वदति ४ अथ मनोमयो दक्षिणा प्रतिष्ठितः तद्यत्तन्मनश्चन्द्र मास्सः स दशधा भवति ५ स एष एतस्य रश्मिर्मनो भूत्वा सर्वास्वासु प्रजासु प्रत्यवस्थितः स यः कश्च मनुत एतस्यैव रश्मिना मनुते ६ अथ चक्षुर्मयः प्रत्यङ्प्रतिष्ठितः तद्यत्तच्चक्षुरादित्यस्सः स दशधा भवति ७ स एष एतस्य रश्मिश्चक्षुर्भूत्वा सर्वास्वासु प्रजासु प्रत्यवस्थितः स यः कश्च पश्यत्येतस्यैव रश्मिना पश्यति ८ अथ श्रोत्रमय उदङ्प्रतिष्ठितः तद्यत्तच्छ्रोत्रं दिशस्ताः स दशधा भवति ९ स एष एतस्य रश्मिश्श्रोत्रम्भूत्वा सर्वास्वासु प्रजासु प्रत्यवस्थितः स यः कश्च शृणोत्येतस्यैव रश्मिना शृणोति १० २८

नवमेऽनुवाके प्रथमः खण्डः
 
1.9.2

अथ प्राणमय ऊर्ध्वः प्रतिष्ठितः स यस्स प्राणो वायुस्सः स दशधा भवति १ स एष एतस्य रश्मिः प्राणो भूत्वा सर्वास्वासु प्रजासु प्रत्यवस्थितः स यः कश्च प्राणित्येतस्यैव रश्मिना प्राणिति २ अथासुमयस्तिर्यङ्प्रतिष्ठितः स ह स ईशानो नाम स दशधा भवति ३ स एष एतस्य रश्मिरसुर्भूत्वा सर्वास्वासु प्रजासु प्रत्यवस्थितः स यः कश्चासुमानेतस्यैव रश्मिनासुमान् ४ अथान्नमयोऽर्वाङ्प्रतिष्ठितः तद्यत्तदन्नमापस्ताः स दशधा भवति शतधा सहस्रधायुतधा प्रयुतधा नियुतधार्बुदधा न्यर्बुदधा निखर्वधा पद्ममक्षितिर्व्योमान्तः ५ स एष एतस्य रश्मिरन्नम्भूत्वा सर्वास्वासु प्रजासु प्रत्यवस्थितः स यः कश्चाश्नात्येतस्यैव रश्मिनाश्नाति ६ स एष सप्तरश्मिर्वृषभस्तुविष्मान्तदेतदृचाभ्यनूच्यते यस्सप्तरश्मिर्वृषभस्तुविष्मानवासृजत्सर्तवे सप्त सिन्धून्यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्र इति ७ यस्सप्तरश्मिरिति सप्त ह्येत आदित्यस्य रश्मयः वृषभ इति एष ह्येवासाम्प्रजानामृषभः तुविष्मानिति महीयैवास्यैषा ८ अवासृजत्सर्तवे सप्त सिन्धूनिति सप्त ह्येते सिन्धवः तैरिदं सर्वं सितं तद्यदेतैरिदं सर्वं सितं तस्मात्सिन्धवः ९ यो रौहिणमस्फुरद्वज्रबाहुरिति एष हि रौहिणमस्फुरद्वज्रबाहुः १० द्यामारोहन्तं स
जनास इन्द्र इति एष हीन्द्रः ११ २९

इति नवमेऽनुवाके द्वितीयः खण्डः
 
1.9.3

तद्यथा गिरिम्पन्थानस्समुदियुरिति ह स्माह शाट्यायनिरेवमेत आदित्यस्य रश्मय एतमादित्यं सर्वतोऽपियन्ति स हैवं विद्वानोमित्याददान एतैरेतस्य रश्मिभिरेतमादित्यं सर्वतोऽप्येति १ तदेतत्सर्वतोद्वारमनिषेधं साम अन्यतोद्वारं हैनदेक एवाभ्रंगमुपासते अतोऽन्यथा विद्युः २ अथ य एतदेवं वेद स एवैत-त्सर्वतोद्वारमनिषेधं साम वेद ३ सा एषा विद्युत् यदेतन्मण्डलं समन्त-म्परिपतति तत्साम अथ यत्परमतिभाति स पुण्यकृत्यायै रसः तमभ्यतिमुच्यते ४ तदेतदभ्रातृव्यं साम न ह वा इन्द्र ः! कं चन भ्रातृव्यम्पश्यते स यथेन्द्रो न कं चन भ्रातृव्यम्पश्यत एवमेव न कं चन भ्रातृव्यम्पश्यते य एतदेवं वेदाथो यस्यैवं
विद्वानुद्गायति ५ ३०

इति नवमेऽनुवाके तृतीयः खण्डः

नवमोऽनुवाकस्समाप्तः
  
1.10.1

अयमेवेदमग्र आकाश आसीत् स उ एवाप्येतर्हि स यस्स आकाश इन्द्र एव सः स यस्स इन्द्र स्सामैव तत् १ तास्यैतस्य साम्न इयमेव प्राची दिग्घिङ्कार इयम्प्रस्ताव इयमादिरियमुद्गीथोऽसौ प्रतिहारोऽन्तरिक्षमुपद्र व इयमेव निधनम् २ तदेतत्सप्तविधं साम स य एवमेतत्सप्तविधं साम वेद यत्किं च प्राच्यां दिशि या देवता ये मनुष्या ये पशवो यदन्नाद्यं तत्सर्वं हिङ्कारेणाप्नोति ३ अथ यद्दक्षिणायं दिशि तत्सर्वम्प्रस्तावेनाप्नोति ४ अथ यत्प्रतीच्यां दिशि तत्स-र्वमादिनाप्नोति ५ अथ यदुदीच्यां दिशि तत्सर्वमुद्गीथेनाप्नोति ६ अथ यद-मुष्यां दिशि तत्सर्वम्प्रतिहारेणाप्नोति ७ अथ यदन्तरिक्षे तत्सर्वमुपद्र वेणाप्नोति ८ अथ यदस्यां दिशि या देवता ये मनुष्या ये पशवो यदन्नाद्यं तत्सर्वं निधनेनाप्नोति ९ सर्वं हैवास्याप्तम्भवति सर्वं जितं न हास्य कश्चन कामोऽनाप्तो भवति य एवं वेद १० स यद्ध किं च किं चैवं विद्वानेषु लोकेषु कुरुते स्वस्य हैव तत्स्वतः कुरुते तदेतदृचाभ्यनूच्यते ११ ३१

इति दशमेऽनुवाके प्रथमः खण्डः
   
1.10.2

यद्द्याव इन्द्र ते शतं शतम्भूमीरुत स्युः न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी इति १ यद्द्याव इन्द्र ते शतं शतम्भूमीरुत स्युरिति यच्छतं द्यावस्स्युश्शतम्भूम्यस्ताभ्य एष एवाकाशो ज्यायान् २ न त्वा वज्रिन्त्सहस्रं सूर्या अन्विति न ह्येतं सहस्रं चन सूर्या अनु ३ न जातमष्ट रोदसी इति न ह्येतं जातं रोदन्ति इमे ह वाव रोदसी ताभ्यामेष एवाकाशो ज्यायानेतस्मि-न्ह्येवैते अन्तः ४ स यस्स आकाश इन्द्र एव सः स यस्स इन्द्र एष एव स य एष तपति ५ स एषोऽभ्राण्यतिमुच्यमान एति तद्यथैषोऽभ्राण्यतिमुच्यमान एत्येवमेव स सर्वस्मात्पाप्मनोऽतिमुच्यमान एति य एवं वेदाथो यस्यैवं विद्वानुद्गायति ६ ३२

इति दशमेऽनुवाके द्वितीयः खण्डः

दशमोऽनुवाकस्समाप्तः
   
1.11.1

त्रिवृत्साम चतुष्पात् ब्रह्म तृतीयमिन्द्र स्तृतीयम्प्रजापतिस्तृतीयमन्नमेव चतुर्थः पादः १ तद्यद्वै ब्रह्म स प्राणोऽथ य इन्द्र स्सा वागथ यः प्रजापतिस्तन्मनोऽन्नमेव चतुर्थः पादः २ मन एव हिङ्कारो वाक्प्रस्तावः प्राण उद्गीथोऽन्नमेव चतुर्थः पादः ३ करोत्येव वाचा नयति प्राणेन गमयति मनसा तदेतन्निरुद्धं यन्मनः तेन यत्र कामयते तदात्मानं च यजमानं च दधाति ४ अथाधिदैवतं चन्द्र मा एव हिङ्कारोऽग्निः प्रस्ताव आदित्य उद्गीथ आप एव चतुर्थः पादः तद्धि प्रत्य-क्षमन्नम् ५ ता वा एता देवता अमावास्यां रात्रिं संयन्ति चन्द्र मा अमावास्यां रात्रिमादित्यम्प्रविशत्यादित्योऽग्निम् ६ तद्यत्संयन्ति तस्मात्साम स ह वै सामवित्स साम वेद य एवं वेद ७ तासां वा एतासां देवतानामेकैकैव देवता साम भवति ८ एष एवादित्यस्त्रिवृच्चतुष्पाद्र श्मयो मण्डलम्पुरुषः रश्मय एव हिङ्कारः तस्मात्ते प्रथमत एवोद्यतस्तायन्ते मण्डलम्प्रस्तावः पुरुष उद्गीथो या एता आपोऽन्तस्स एव चतुर्थः पादः ९ एवमेव चन्द्र मसो रश्मयो मण्डलम्पुरुषः रश्मय एव हिङ्कारो मण्डलम्प्रस्तावः पुरुष उद्गीथो या एता आपोऽन्तस्स एव चतुर्थः पादः १० चत्वार्यन्यानि चत्वार्यन्यानि तान्यष्टौ अष्टाक्षरा गायत्री गायत्रं साम ब्रह्म उ गायत्री तदु ब्रह्माभिसम्पद्यते अष्टाशफाः
पशवस्तेनो पशव्यम् ११ ३३

इति एकादशेऽनुवाके प्रथमः खण्डः
  
1.11.2

अथाध्यात्ममिदमेव चक्षुस्त्रिवृच्चतुष्पाच्छुक्लं कृष्णम्पुरुषः शुक्लमेव हिङ्कारः कृष्णम्प्रस्तावः पुरुष उद्गीथो या इमा आपोऽन्तस्स एव चतुर्थः पादः १ इदमादित्यस्यायनमिदं चन्द्र मसः चत्वारीमानि चत्वारीमानि तान्यष्टौ अष्टा-क्षरा गायत्री गायत्रं साम ब्रह्म उ गायत्री तदु ब्रह्माभिसम्पद्यते अष्टाशफाः पशवस्तेनो पशव्यम् २ स योऽयम्पवते स एष एव प्रजापतिः तद्वेव साम तस्यायं देवो योऽयं चक्षुषि पुरुषः स एष आहुतिमतिमत्योत्क्रान्तः ३ अथ यावेतौ चन्द्र माश्चादित्यश्च यावेतावप्सु दृश्येते एतावेतयोर्देवौ ४ यद्ध वा इदमाहुर्देवानां देवा इत्येते ह ते त एत आहुतिमतिमत्योत्क्रान्ताः ५ तद्ध पृथुर्वैन्यो दिव्यान्व्रात्यान्पप्रच्छ येभिर्वात इषितः प्रवाति ये ददन्ते पञ्च दिशस्समीचीः य आहुतीरत्यमन्यन्त देवा अपां नेतारः कतमे त आसन्निति ६ ते ह प्रत्यूचुरिमामेषाम्पृथिवीं वस्त एकोऽन्तरिक्षम्पर्येको बभूव दिवमेको ददते यो विधर्ता विश्वा आशाः प्रतिरक्षन्त्यन्य इति ७ इमामेषाम्पृथिवीं वस्त एक इत्यग्निर्ह सः ८ अन्तरिक्षम्पर्येको बभूवेति वायुर्ह सः ९ दिवमेको ददते यो विधर्तेत्यादित्यो ह सः १० विश्वा आशाः प्रतिरक्षन्त्यन्य इति एता ह वै देवता विश्वा आशाः प्रतिरक्षन्ति चन्द्र मा नक्षत्राणीति ता एतास्सामैव सत्यो व्यूढो अन्नाद्याय ११ ३४

इति एकादशेऽनुवाके द्वितीयः खण्डः

एकादशोऽनुवाकस्समाप्तः
  
1.12.1

अथैतत्साम तदाहुस्संवत्सर एव सामेति १ तस्य वसन्त एव हिङ्कारः तस्मा-त्पशवो वसन्ता हिङ्करिक्रतस्समुदायन्ति २ ग्रीष्मः प्रस्तावः अनिरुक्तो वै प्रस्तावोऽनिरुक्त ऋतूनां ग्रीष्मः ३ वर्षा उद्गीथः उदिव वै वर्षं गायति ४ शरत्प्रतिहारः शरदि ह खलु वै भूयिष्ठा ओषधयः पच्यन्ते ५ हेमन्तो निधनं निधनकृता इव वै हेमन्प्रजा भवन्ति ६ तावेतावन्तौ संधत्तः एतदन्वनन्त-स्संवत्सरः तस्यैतावन्तौ यद्धेमन्तश्च वसन्तश्च एतदनु ग्रामस्यान्तौ समेतः एतदनु निष्कस्यान्तौ समेतः एतदन्वहिर्भोगान्पर्याहृत्य शये ७ तद्यथा ह वै निष्क-स्समन्तं ग्रीवा अभिपर्यक्त एवमनन्तं साम स य एवमेतदनन्तं साम वेदानन्ततामेव जयति ८ ३५

इति द्वादशेऽनुवाके प्रथमः खण्डः

1.12.2

अथैतत्पर्जन्ये साम तस्य पुरोवात एव हिङ्कारः अथ यदभ्राणि सम्प्लावयति स प्रस्तावः अथ यत्स्तनयति स उद्गीथः अथ यद्विद्योतते स प्रतिहारः अथ यद्वर्षति तन्निधनम् १ तदेतत्पर्जन्ये साम स य एवमेतत्पर्जन्ये साम वेद वर्षुको हास्मै पर्जन्यो भवति २ अथैतत्पुरुषे साम तस्यायमेव हिङ्कारोऽयम्प्रस्ता-वोऽयमुद्गीथोऽयम्प्रतिहार इदं निधनम् ३ तदेतत्पुरुषे साम स य एवमेतत्पुरुषे साम वेदोर्ध्व एव प्रजया पशुभिरारोहन्नेति ४ य उ एनत्प्रत्यग्वेद ये प्रत्यञ्चो लोकास्ताञ्जयति तस्यायमेव हिङ्कारोऽयम्प्रस्तावोऽयमुद्गीथोऽयम्प्रतिहार इदं निधनं ये प्रत्यञ्चो लोकास्ताञ्जयति ५ य उ एनत्तिर्यग्वेद ये तिर्यञ्चो लोका-स्ताञ्जयति तस्य लोमैव हिङ्कारस्त्वक्प्रस्तावो मांसमुद्गीथोऽस्थि प्रतिहारो मज्जा निधनम् ६ तस्य त्रीण्याविर्गायति प्रस्तावम्प्रतिहारं निधनं तस्मात्पुरुषस्य त्रीण्यस्थीन्याविर्दन्ताश्च द्वयाश्च नखाः ये तिर्यञ्चो लोकास्ताञ्जयति ७ य उ एनत्सम्यग्वेद ये सम्यञ्चो लोकास्ताञ्जयति तस्य मन एव हिङ्कारो वाक्प्रस्तावः प्राण उद्गीथश्चक्षुः प्रतिहारश्श्रोत्रंनिधनं ये सम्यञ्चो लोकास्ताञ्जयति ८ अथै-तद्देवतासु साम तस्य वायुरेव हिङ्कारोऽग्निः प्रस्ताव आदित्य उद्गीथश्चन्द्र मा प्रतिहारो दिश एव निधनम् ९ तदेतद्देवतासु साम स य एवमेतद्देवतासु साम वेद देवतानामेव सलोकतां जयति १० ३६

इति द्वादशेऽनुवाके द्वितीयः खण्डः

1.12.3

तस्यैतास्तिस्र आगा आग्नेय्येकैन्द्र् येका वैश्वदेव्येका १ सा या मन्द्रा साग्नेयी तया प्रातस्सवनस्योद्गेयमाग्नेयं वै प्रातस्सवनमाग्नेयोऽयं लोकः स्वयागया प्रातस्सवनस्योद्गायत्यृध्नोतीमं लोकम् २ अथ या घोषिण्युपब्दिमती सैन्द्री तया माध्यन्दिनस्य सवनस्योद्गेयमैन्द्रं वै माध्यन्दिनं सवनमैन्द्रो ऽसौ लोकः स्वयागया माध्यन्दिनस्य सवनस्योद्गायत्यृध्नोत्यमुं लोकम् ३ अथ यां वीङ्खय-न्निव प्रथयन्निव गायति सा वैश्वदेवी तया तृतीयसवनस्योद्गेयं वैश्वदेवं वै तृतीयसवनं वैश्वदेवोऽयमन्तरालोकः स्वयागया तृतीयसवनस्योद्गायत्यृध्नो-तीममन्तरालोकम् ४ अथो उच्चा खल्वाहुरेकयैवागयोद्गेयं यदेवास्य मध्यं वाच इति तद्यया वै वाचा व्यायच्छमान उद्गायति तदेवास्य मध्यं वाचः तया वा एतया वाचा सर्वा वाच उपगच्छति अव्यासिक्तामेकस्थां श्रियमृध्नोति य एवं वेद ५ अथ या क्रौञ्चा सा बार्हस्पत्या स यो ब्रह्मवर्चसकामस्स्यात्स तयोद्गायेत्तद्ब्रह्म वै बृहस्पतिः तद्वै ब्रह्मवर्चसमृध्नोति तथा ह ब्रह्मवर्चसी भवति ६ अथ ह चैकितानेय एकस्यैव साम्न आगां गायति गायत्रस्यैव तदनवानं गेयं तत्साम्न एवा प्रतिहारादनवानं गेयं तत्प्राणो वै गायत्रं तद्वै प्राणमृध्नोति तथा ह सर्वमायुरेति ७ ३७

इति द्वादशेऽनुवाके द्वितीयः खण्डः
 
1.12.4

अथ ह ब्रह्मदत्तं चैकितानेयमुद्गायन्तं कुरव उपोदुरुज्जहिहि साम दाल्भ्येति १ स होपोद्यमानो नितरां जगौ तं होचुः किमुपोद्यमानो नितरामगासीरिति २ स होवाचेदं वै लोमेत्येतदेवैतत्प्रत्युपशृण्मः तस्मादु ये न एतदुपावादिषुर्लोम-शानीव तेषां श्मशानानि भवितारः अथ वयमुदेव गातारस्स्म इति ३ अथ ह राजा जैवलिर्गळूनसमार्क्षाकायणं शामूलपर्णाभ्यामुत्थितम्पप्रच्छर्चागाता शालावत्या३ साम्ना३ इति ४ नैव राजन्नृचेति होवाच न साम्नेति तद्यूयं तर्हि सर्व एव पणाय्या भविष्यथ य एवं विद्वांसोऽगायतेति ५ अथ यद्धावक्ष्यदृचा च साम्ना चागामेति धीतेन वै तद्यातयाम्नामलाकाण्डेनागातेति हैनांस्तदवक्ष्यत्तद्ध तदुवाच स्वरेण चैव हिङ्कारेण चागामेति ६ ३८

इति द्वादशेऽनुवाके तृतीयः खण्डः
   
1.12.5

अथ ह सत्याधिवाकश्चैत्ररथिस्सत्ययज्ञम्पौलुषितमुवाच प्राचीनयोगेति मम चेद्वै त्वं साम विद्वान्साम्नार्त्विज्यं करिष्यसि नैव तर्हि पुनर्दीक्षामभिध्यातासीति मुहुर्दीक्षी ह्यास १ स होवाच यो वै साम्नश्श्रियं विद्वान्साम्नार्त्विज्यं करोति श्रीमानेव भवति मनो वाव साम्नश्श्रीरिति २ यो वै साम्नः प्रतिष्ठां विद्वान्साम्नार्त्विज्यं करोति प्रत्येव तिष्ठति वाग्वाव साम्नः प्रतिष्ठेति ३ यो वै साम्नस्सुवर्णं विद्वान्साम्नार्त्विज्यं करोत्यध्यस्य गृहे सुवर्णं गम्यते प्राणो वाव साम्नस्सुवर्णमिति ४ यो वै साम्नोऽपचितिं विद्वान्साम्नार्त्विज्यं करोत्यपचि-तिमानेव भवति चक्षुर्वाव साम्नोऽपचितिरिति ५ यो वै साम्नश्श्रुतिं विद्वान्साम्नार्त्विज्यं करोति श्रुतिमानेव भवति श्रोत्रं वाव साम्नश्श्रुतिरिति ६ ३९

इति द्वादशेऽनुवाके चतुर्थः खण्डः

द्वादशोऽनुवाकस्समाप्तः
   
1.13.1

चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्तीति १ वागेव साम वाचा हि साम गायति वागेवोक्थं वाचा ह्युक्थं शंसति वागेव यजुः वाचा हि यजुरनुवर्तते २ तद्यत्किं चार्वाचीनम्ब्रह्मणस्तद्वागेव सर्वमथ यदन्यत्र ब्रह्मो-पदिश्यते नैव हि तेनार्त्विज्यं करोति परोक्षेणैव तु कृतम्भवति ३ तस्या एतस्यै वाचो मनः पादश्चक्षुः पादश्श्रोत्रम्पादो वागेव चतुर्थः पादः ४ तद्यद्वै मनसा ध्यायति तद्वाचा वदति यच्चक्षुषा पश्यति तद्वाचा वदति यच्छ्रोत्रेण शृणोति तद्वाचा वदति ५ तद्यदेतत्सर्वं वाचमेवाभिसमयति तस्माद्वागेव साम स ह वै सामवित्स साम वेद य एवं वेद ६ तस्या एतस्यै वाचः प्राणा एवासुः एषु हीदं सर्वमसूतेति ७ ४०

इति त्रयोदशेऽनुवाके प्रथमः खण्डः

1.13.2

तेन हैतेनासुना देवा जीवन्ति पितरो जीवन्ति मनुष्या जीवन्ति पशवो जीवन्ति गन्धर्वाप्सरसो जीवन्ति सर्वमिदं जीवति १ तदाहुर्यदसुनेदं सर्वं जीवति कस्साम्नोऽसुरिति प्राण इति ब्रूयात् प्राणो ह वाव साम्नोऽसुः २ स एष प्राणो वाचि प्रतिष्ठितो वागु प्राणे प्रतिष्ठिता तावेतावेवमन्योऽन्यस्मिन्प्रतिष्ठितौ प्रतितिष्ठति य एवं वेद ३ तदेतदृचाभ्यनूच्यतेऽदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वमिति ४ अदितिर्द्यौरदितिरन्तरिक्षमिति एषा वै द्यौरेषान्तरिक्षम् ५ अदितिर्माता स पिता स पुत्र इति एषा वै मातैषा पितैषा पुत्रः ६ विश्वे देवा अदितिः पञ्च जना इति ये देवा असुरेभ्यः पूर्वे पञ्च जना आसन्य एवासावादित्ये पुरुषो यश्चन्द्रमसि यो विद्युति योऽप्सु योऽयमक्षन्नन्तरेष एव ते तदेषैव ७ अदितिर्जातमदितिर्जनित्वमिति एषा ह्येव जातमेषा जनित्वम् ८ ४१

इति त्रयोदशेऽनुवाके द्वितीयः खण्डः

त्रयोदशोऽनुवाकस्समाप्तः
  
1.14.1

आरुणिर्ह वासिष्ठं चैकितानेयम्ब्रह्मचर्यमुपेयाय तं होवाचाजानासि सौम्य गौतम यदिदं वयं चैकितानेयास्सामैवोपास्महे कां त्वं देवतामुपास्स इति सामैव भगवन्त इति होवाच १ तं ह पप्रच्छ यदग्नौ तद्वेत्था३ इति ज्योतिर्वा एतत्तस्य साम्नो यद्वयं सामोपास्मह इति २ यत्पृथिव्यां तद्वेत्था३ इति प्रतिष्ठा वा एषा तस्य साम्नो यद्वयं सामोपास्मह इति ३ यदप्सु तद्वेत्था३ इति शान्तिर्वा एषा तस्य साम्नो यद्वयं सामोपास्मह इति ४ यदन्तरिक्षे तद्वेत्था३ इति आत्मा वा एष तस्य साम्नो यद्वयं सामोपास्मह इति ५ यद्वायौ तद्वेत्था३ इति श्रीर्वा एषा तस्य साम्नो यद्वयं सामोपास्मह इति ६ यद्दिक्षु तद्वेत्था३ इति व्याप्तिर्वा एषा तस्य साम्नो यद्वयं सामोपास्मह इति ७ यद्दिवि तद्वेत्था३ इति विभूतिर्वा एषा तस्य साम्नो यद्वयं सामोपास्मह इति ८ ४२

इति चतुर्दशेऽनुवाके प्रथमः खण्डः
 
1.14.2

यदादित्ये तद्वेत्था३ इति तेजो वा एतत्तस्य साम्नो यद्वयं सामोपास्मह इति १ यच्चन्द्र मसि तद्वेत्था३ इति भा वा एषा तस्य साम्नो यद्वयं सामोपास्मह इति २ यन्नक्षत्रेषु तद्वेत्था३ इति प्रज्ञा वा एषा तस्य साम्नो यद्वयं सामोपास्मह इति ३ यदन्ने तद्वेत्था३ इति रेतो वा एतत्तस्य साम्नो यद्वयं सामोपास्मह इति ४ यत्पशुषु तद्वेत्था३ इति यशो वा एतत्तस्य साम्नो यद्वयं सामोपास्मह इति ५ यदृचि तद्वेत्था३ इति स्तोमो वा एष तस्य साम्नो यद्वयं सामोपास्मह इति ६ यद्यजुषि तद्वेत्था३ इति कर्म वा एतत्तस्य साम्नो यद्वयं सामोपास्मह इति ७ अथ कि-मुपास्स इति अक्षरमिति कतमत्तदक्षरमिति यत्क्षरन्नाक्षीयतेति कतम-त्तत्क्षरन्नाक्षीयतेति इन्द्र इति ८ कतमस्स इन्द्र इति योऽक्षन्रमत इति कतमस्स योऽक्षन्रमत इति इयं देवतेति होवाच ९ योऽयं चक्षुषि पुरुष एष इन्द्र एष प्रजापतिः स समः पृथिव्या सम आकाशेन समो दिवा समस्सर्वेण भूतेन एष परो दिवो दीप्यते एष एवेदं सर्वमित्युपासितव्यः १० स य एतदेवं वेद ज्योतिष्मान्प्रतिष्ठावाञ्छान्तिमानात्मवाञ्छ्रीमान्व्याप्तिमान्विभूतिमांस्तेजस्वी भावान्प्रज्ञावान्रेतस्वी यशस्वी स्तोमवान्कर्मवानक्षरवानिन्द्रि यवान्सामन्वी भवति ११ तद्वेतदृचाभ्यनूच्यते १२ ४३

इति चतुर्दशमेऽनुवाके द्वितीयः खण्डः
  
1.14.3

रूपंरूपम्प्रतिरूपो बभूव तदस्य रूपम्प्रतिचक्षणाय इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयश्शता दशेति १ रूपंरूपम्प्रतिरूपो बभूवेति रूपंरूपं ह्येष प्रतिरूपो बभूव २ तदस्य रूपम्प्रतिचक्षणायेति प्रतिचक्षणाय हास्यैतद्रू पम् ३ इन्द्रो मायाभिः पुरुरूप ईयत इति मायाभिर्ह्येष एतत्पुरुरूप ईयते ४ युक्ता ह्यस्य हरयश्शता दशेति सहस्रं हैत आदित्यस्य रश्मयः तेऽस्य युक्तास्तैरिदं सर्वं हरति तद्यदेतैरिदं सर्वं हरति तस्माद्धरयः ५ रूपंरूपम्मघवा बोभवीति मायाः कृण्वानः परि तन्वं स्वां त्रिर्यद्दिवः परि मुहूर्तमागात्स्वैर्मन्त्रैरनृतुपा ऋतावेति ६ रूपंरूपम्मघवा बोभवीतीति रूपंरूपं ह्येष मघवा बोभवीति ७ मायाः कृण्वानः परि तन्वं स्वामिति मायाभिर्ह्येष एतत्स्वां तनुं गोपायति ८ त्रिर्यद्दिवः परि मुहूर्तमागादिति त्रिर्ह वा एष एतस्य मुहूर्तस्येमाम्पृथिवीं समन्तः पर्येतीमाः प्रजास्संचक्षाणः ९ स्वैर्मन्त्रैरनृतुपा ऋतावेति अनृतुपा ह्येष एतदृतावा १० ४४
 
इति चतुर्दशेऽनुवाके तृतीयः खण्डः
   
1.14.4

तद्ध पृथुर्वैन्यो दिव्यान्व्रात्यान्पप्रच्छे इन्द्र मुक्थमृचमुद्गीथमाहुर्ब्रह्म साम प्राणं व्यानम्मनो वा चक्षुरपानमाहुश्श्रोत्रं श्रोत्रिया बहुधा वदन्तीति १ ते प्रत्यू-चुरृषय एते मन्त्रकृतः पुराजाः पुनराजायन्ते वेदानां गुप्त्यै कं ते वै विद्वांसो वैन्य तद्वदन्ति समानम्पुरुषम्बहुधा निविष्टमिति २ इमां ह वा तद्देवतां त्रय्यां विद्यायामिमां समानामभ्येक आपयन्ति नैके यो ह वावैतदेवं वेद स एवैतां देवतां सम्प्रति वेद ३ स एष इन्द्र उद्गीथः स यदैष इन्द्र उद्गीथ आगच्छति नैवोद्गातुश्चोपगातॄणां च विज्ञायते इत एवोर्ध्वस्स्वरुदेति स उपरि मूर्ध्नो लेलायति ४ स विद्यादागमदिन्द्रो नेह कश्चन पाप्मा न्यङ्गः परिशेक्ष्यत इति तस्मिन्ह न कश्चन पाप्मा न्यङ्गः परिशिष्यते ५ तदेतदभ्रातृव्यं साम न ह वा इन्द्र ः! कं चन भ्रातृव्यम्पश्यते स यथेन्द्रो न कं चन भ्रातृव्यम्पश्यत एवमेव न कं चन भ्रातृव्यम्पश्यते य एतदेवं वेदाथो यस्यैवं विद्वानुद्गायति ६ ४५

इति चतुर्दशेऽनुवाके चतुर्थः खण्डः

चतुर्दशोऽनुवाकस्समाप्तः
  
1.15.1

प्रजापतिर्वा वेद अग्र आसीत् सोऽकामयत बहुस्स्याम्प्रजायेय भूमानं गच्छे-यमिति १ स षोडशधात्मानं व्यकुरुत भद्रं च समाप्तिश्चाभूतिश्च सम्भूतिश्च भूतं च सर्वं च रूपं चापरिमितं च श्रीश्च यशश्च नाम चाग्रं च सजाताश्च पयश्च महीया च रसश्च २ तद्यद्भद्रं हृदयमस्य तत्ततस्संवत्सरमसृजत तदस्य संवत्स-रोऽनूपतिष्ठते ३ समाप्तिः कर्मास्य तत् कर्मणा हि समाप्नोति तत ऋतूनसृजत तदस्य र्तवोऽनूपतिष्ठन्ते ४ आभूतिरन्नमस्य तत् तच्चतुर्धा भवति ततो मासा-नर्धमासानहोरात्राण्युषसोऽसृजत तदस्य मासा अर्धमासा अहोरात्राण्युषसोऽनूपतिष्ठन्ते ५ सम्भूती रेतोऽस्य तद् रेतसो हि सम्भवति ६ ४६

पञ्चदशेऽनुवाके प्रथमः खण्डः
  
1.15.2

ततश्चन्द्र मसमसृजत तदस्य चन्द्र मा अनूपतिष्ठते तस्मात्स रेतसः प्रतिरूपः १ भूतम्प्राणोऽस्य सः ततो वायुमसृजत तदस्य वायुरनूपतिष्ठते २ सर्वमपानोऽस्य सः ततः पशूनसृजत तदस्य पशवोऽनूपतिष्ठन्ते ३ रूपं व्यानोऽस्य सः ततः प्रजा असृजत तदस्य प्रजा अनूपतिष्ठन्ते तस्मादासु प्रजासु रूपाण्यधिगम्यन्ते ४ अपरिमितम्मनोऽस्य तत्ततो दिशोऽसृजत तदस्य दिशोऽनूपतिष्ठन्ते तस्मात्ता अपरिमिताः अपरिमितमिव हि मनः ५ श्रीर्वागस्य सा ततस्समुद्र मसृजत तदस्य समुद्रो ऽनूपतिष्ठते ६ यशस्तपोऽस्य तत्ततोऽग्निमसृजत तदस्याग्निरनू-पतिष्ठते तस्मात्स मथितादिव संतप्तादिव जायते ७ नाम चक्षुरस्य तत् ८
४७

इति पञ्चदशेऽनुवाके द्वितीयः खण्डः
 
1.15.3

तत आदित्यमसृजत तदस्यादित्योऽनूपतिष्ठते १ अग्रम्मूर्धास्य सः ततो दिवमसृजत तदस्य द्यौरनूपतिष्ठते २ सजाता अङ्गान्यस्य तानि अङ्गैर्हि सह जायते ततो वनस्पतीनसृजत तदस्य वनस्पतयोऽनूपतिष्ठन्ते ३ पयो लोमान्यस्य तानि तत ओषधीरसृजत तदस्यौषधयोऽनूपतिष्ठन्ते ४ महीया मांसान्यस्य तानि मांसैर्हि सह महीयते ततो वयांस्यसृजत तदस्य वयांस्यनूपतिष्ठन्ते तस्मात्तानि प्रपतिष्णूनि प्रपतिष्णूनीव महामांसानि ५ रसो मज्जास्य सः ततः पृथिवीमसृजत तदस्य पृथिव्यनूपतिष्ठते ६ स हैवं षोडशधात्मानं विकृत्य सार्धं समैत्तद्यत्सार्धं समैतत्तत्साम्नस्सामत्वम् ७ स एवैष हिरण्मयः पुरुष
उदतिष्ठत्प्रजानां जनिता ८ ४८

इति पञ्चदशेऽनुवाके तृतीयः खण्डः
   
1.15.4

देवासुरा अस्पर्धन्त ते देवाः प्रजापतिमुपाधावञ्जयामासुरानिति १ सोऽब्रवीन्न वै मां यूयं वित्थ नासुराः यद्वै मां यूयं विद्यात ततो वै यूयमेव स्यात परासुरा भवेयुरिति २ तद्वै ब्रूहीत्यब्रुवन्सोऽब्रवीत्पुरुषः प्रजापतिस्सामेति मोपाद्ध्वं ततो वै यूयमेव भविष्यथ परासुरा भविष्यन्तीति ३ तम्पुरुषः प्रजापतिस्सा-मेत्युपासत ततो वै देवा अभवन्परासुराः स यो हैवं विद्वान्पुरुषः प्रजाप-
तिस्सामेत्युपास्ते भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति ४ ४९

इति पञ्चदशेऽनुवाके चतुर्थः खण्डः

पञ्चदशोऽनुवाकस्समाप्तः

1.16.1

देवा वै विजिग्याना अब्रुवन्द्वितीयं करवामहै माद्वितीया भूमेति तेऽब्रुवन्सामैव द्वितीयं करवामहै सामैव नो द्वितीयमस्त्विति १ त इमे द्यावापृथिवी अब्रुवन्समेतं साम प्रजनयतमिति २ सोऽसावस्या अबीभत्सत सोऽब्रवीद्बहु वा एतस्यां किं च किं च कुर्वन्त्यधिष्ठीवन्त्यधिचरन्त्यध्यासते पुनीत न्वेनाम-पूता वा इति ३ ते गाथामब्रुवन्त्वया पुनामेति किं ततस्स्यादिति शतसनिस्स्या इति तथेति ते गाथयापुनन्तस्मादुत गाथया शतं सुनोति ४ ते कुम्ब्या-मब्रुवन्त्वया पुनामेति किं ततस्स्यादिति शतसनिस्स्या इति तथेति ते कुम्ब्ययापुनन्तस्मादुत कुम्ब्यया शतं सुनोति ५ ते नाराशंसीमब्रुवन्त्वय पुनामेति किं ततस्स्यादिति शतसनिस्स्या इति तथेति ते नाराशंस्या-पुनन्तस्मादुत नाराशंस्या शतं सुनोति ६ ते रैभीमब्रुवन्त्वया पुनामेति किं ततस्स्यादिति शतसनिस्स्या इति तथेति ते रैभ्यापुनन्तस्मादुत रैभ्या शतं सुनोति ७ सेयम्पूता अथामुमब्रवीद्बहु वै किं च किं च पुमांश्चरति त्वमनुपुनीष्वेति ८
५०

इति षोडशेऽनुवाके प्रथमः खण्डः
  
1.16.2

स ऐलबेनापुनीत पूतानि ह वा अस्य सामानि पूता ऋचः पूतानि यजूंसि पूतमनूक्तम्पूतं सर्वम्भवति य एवं वेद १ ते समेत्य साम प्राजनयतां तद्यत्समेत्य साम प्राजनयतां तत्साम्नस्सामत्वम् २ तदिदं साम सृष्टमद उत्क्रम्य लेला-यदतिष्ठत्तस्य सर्वे देवा ममत्विन आसन्मम ममेति ३ तेऽब्रुवन्वीदम्भजामहा इति तस्य विभागे न समपादयन्तान्प्रजापतिरब्रवीदपेत मम वा एतत् अहमेव वो विभक्ष्यामीति ४ सोऽग्निमब्रवीत्त्वं वै मे ज्येष्ठः पुत्राणामसि त्वम्प्रथमो वृणीष्वेति ५ सोऽब्रवीन्मन्द्रं साम्नो वृणेऽन्नाद्यमिति स य एतद्गायादन्नाद एव सोऽसन्मामु स देवानामृच्छाद्य एवं विद्वांसमेतद्गायन्तमुपवदादिति ६ अथे-न्द्र मब्रवीत्त्वमनुवृणीष्वेति ७ सोऽब्रवीदुग्रं साम्नो वृणे श्रियमिति स य एतद्गा-याच्छ्रीमानेव सोऽसन्मामु स देवानामृच्छाद्य एवं विद्वांसमेतद्गायन्तमु-पवदादिति ८ अथ सोममब्रवीत्त्वमनुवृणीष्वेति ९ सोऽब्रवीद्वल्गु साम्नो वृणे प्रियमिति स य एतद्गायात्प्रिय एव स कीर्तेः प्रियश्चक्षुषः प्रियस्सर्वेषा-मसन्मामु स देवानामृच्छाद्य एवं विद्वांसमेतद्गायन्तमुपवदादिति १० अथ बृहस्पतिमब्रवीत्त्वमनुवृणीष्वेति ११ सोऽब्रवीत्क्रौञ्चं साम्नो वृणे ब्रह्मवर्चस-मिति स य एतद्गायाद्ब्रह्मवर्चस्येव सोऽसन्मामु स देवानामृच्छाद्य एवं विद्वांसमेतद्गायन्तमुपवदादिति १२ ५१

इति षोडशेऽनुवाके द्वितीयः खण्डः

1.16.3

अथ विश्वान्देवानब्रवीद्यूयमनुवृणीध्वमिति १ तेऽब्रुवन्वैश्वदेवं साम्नो वृणीमहे प्रजननमिति स य एतद्गायात्प्रजावानेव सोऽसदस्मानु देवानामृच्छाद्य एवं विद्वांसमेतद्गायन्तमुपवदादिति २ अथ पशूनब्रवीद्यूयमनुवृणीध्वमिति ३ तेऽब्रुवन्वायुर्वा अस्माकमीशे स एव नो वरिष्यत इति ते वायुश्च पशव-श्चाब्रुवन्निरुक्तं साम्नो वृणीमहे पशव्यमिति स य एतद्गायात्पशुमानेव सोऽसदस्मानु च स वायुं च देवानामृच्छाद्य एवं विद्वांसमेतद्गायन्तमुपव-दादिति ४ अथ प्रजापतिरब्रवीदहमनुवरिष्य इति ५ सोऽब्रवीदनिरुक्तं साम्नो वृणे स्वर्ग्यमिति स य एतद्गायात्स्वर्गलोक एव सोऽसन्मामु स देवानामृच्छाद्य एवं विद्वांसमेतद्गायन्तमुपवदादिति ६ अथ वरुणमब्रवीत्त्वमनुवृणीष्वेति ७ सोऽब्रवीद्यद्वो न कश्चनावृत तदहम्परिहरिष्य इति किमिति अपध्वान्तं साम्नो वृणेऽपशव्यमिति स य एतद्गायादपशुरेव सोऽसन्मामु स देवानामृच्छाद्य एतद्गायादिति ८ तानि वा एतान्यष्टौ गीतागीतानि साम्नः इमान्यु ह वै सप्त गीतानि अथेयमेव वारुण्यागागीता ९ स यां ह कां चैवं विद्वानेतासां सप्ताना-मागानां गायति गीतमेवास्य भवत्येतानु कामान्राध्नोति य एतासु कामाः अथेमामेव वारुणीमागां न गायेत् १० ५२

इति षोडशेऽनुवाके तृतीयः खण्डः

षोडशोऽनुवाकस्समाप्तः

1.17.1

द्वयं वावेदमग्र आसीत्सच्चैवासच्च १ तयोर्यत्सत्तत्साम तन्मनस्स प्राणः अथ यदसत्सर्क्सा वाक्सोऽपानः २ तद्यन्मनश्च प्राणश्च तत्समानमथ या वाक्चा-पानश्च तत्समानमिदमायतनम्मनश्च प्राणश्चेदमायतनं वाक्चापानश्च तस्मा-त्पुमान्दक्षिणतो योषामुपशेते ३ सेयमृगस्मिन्सामन्मिथुनमैच्छत तामपृच्छत्का त्वमसीति साहमस्मीत्यब्रवीत् अथ वा अहममोऽस्मीति ४ तद्यत्सा चामश्च तत्सामाभवत्तत्साम्नस्सामत्वम् ५ तौ वै सम्भवावेति नेत्यब्रवीत्स्वसा वै मम त्वमस्यन्यत्र मिथुनमिच्छस्वेति ६ साब्रवीन्न वै तं विन्दामि येन सम्भवेयं त्वयैव सम्भवानीति सा वै पुनीष्वेत्यब्रवीत् अपूता वा असीति ७ सापुनीत यदिदं विप्रा वदन्ति तेन साब्रवीत्क्वेदम्भविष्यतीति प्रत्यूहेत्यब्रवीत् धीर्वा एषा प्रजानां जीवनं वा एतद्भविष्यतीति तथेति तत्प्रत्यौहत्तस्मादेषा धीरेव प्रजानां जीवनमेव ८ पुनीष्वेत्यब्रवीत् सापुनीत गाथया सापुनीत कुम्ब्यया सापुनीत नाराशंस्या सापुनीत पुराणेतिहासेन सापुनीत यदिदमादाय नागायन्ति तेन ९ साब्रवीत्क्वेदम्भविष्यतीति प्रत्यूहेत्यब्रवीत् धीर्वा एषा प्रजानां जीवनं वा एतद्भविष्यतीति तथेति तत्प्रत्यौहत्तस्मादेषा धीर्वेव प्रजानां जीवनम्वेव १० पुनीष्वैवेत्यब्रवीत् ११ ५३

इति सप्तदशेऽनुवाके प्रथमः खण्डः
   
1.17.2

सा मधुनापुनीत तस्मादुत ब्रह्मचारी मधु नाश्नीयाद्वेदस्य पलाव इति कामं ह त्वाचार्यदत्तमश्नीयात् १ अथर्क्सामाब्रवीद्बहु वै किं च किं च पुमांश्चरति त्वमनुपुनीष्वेति स भरण्डकेष्णेनापुनीत पूतानि ह वा अस्य सामानि पूता ऋचः पूतानि यजूंषि पूतमनूक्तम्पूतं सर्वम्भवति य एवं वेद २ ताभ्यां सदो मिथुनाय पर्यश्रयन्तस्मादुपवसथीयां रात्रिं सदसि न शयीत अत्र ह्येतावृक्सामे उपवसथीयां रात्रिं सदसि सम्भवतः स यथा श्रेयस उपद्र ष्टैवं हि शश्व-दीश्वरोऽनुलब्धः पराभवितोः ३ अथो आहुरुद्गातुर्मुखे सम्भवतः उद्गातुरेव मुखं नेक्षेतेति ४ तदु वा आहुः काममेवोद्गातुर्मुखमीक्षेत उपवसथीयामेवैतां रात्रिं सदसि न शयीत अत्र ह्येवैतावृक्सामे उपवसथीयां रात्रिं सदसि सम्भवत इति ५ तां सम्भविष्यन्नाहामोऽहमस्मि सा त्वं सा त्वमस्यमोऽहं सा मामनुव्रता भूत्वा प्रजाः प्रजनयावहै एहि सम्भवावहा इति ६ तां सम्भवन्नत्यरिच्यत सो-ऽब्रवीन्न वै त्वानुभवामि विराड्भूत्वा प्रजनयारेति तथेति ७ तौ विराड्भूत्वा प्राजनयतां हिङ्कारश्चाहावश्च प्रस्तावश्च प्रथमा चोद्गीथश्च मध्यमा च प्रति-हारश्चोत्तमा च निधनं च वषट्कारश्चैवं विराड्भूत्वा प्राजनयतां ते अमुमजनयतां योऽसौ तपति ते व्यद्र वताम् ८ ५४

इति सप्तदशेऽनुवाके द्वितीयः खण्डः

1.17.3

मदध्यभू३न्मदध्यभू३दिति तस्मादाहुर्मधुपुत्र इति १ तस्मादुत स्त्रियो मधु ना-श्नन्ति पुत्राणामिदं व्रतं चराम इति वदन्तीः २ तदयं तृचोऽनूदश्रयत इयमेव गायत्र्! यन्तरिक्षं त्रिष्टुब् असौ जगती तस्यैतत्तृचः ३ स उपरिष्टात्सामाध्याहितं तपति सोऽध्रुव इवासीदलेलायदिव स नोर्ध्वोऽतपत् ४ स देवानब्रवीदुन्मा गायतेति किं ततस्स्यादिति श्रियं वः प्रयच्छेयम्मामिह दृंहेतेति ५ तथेति तमुदगायन्तमेतदत्रादृंहन्तेभ्यश्श्रियम्प्रायच्छत् सैषा देवानां श्रीः ६ तत एतदूर्ध्वस्तपति स नार्वाङतपत् ७ स ऋषीनब्रवीदनु मा गायतेति किं तत-स्स्यादिति श्रियं वः प्रयच्छेयम्मामिह दृंहेतेति ८ तथेति तमन्वगाय-न्तमेतदत्रादृंहन्तेभ्यश्श्रियम्प्रायच्छत् सैषर्षीणां श्रीः ९ तत एतदर्वाङ्तपति स न तिर्यङ्ङतपत् १० स गन्धर्वाप्सरसोऽब्रवीदा मा गायतेति किं ततस्स्यादिति श्रियं वः प्रयच्छेयम्मामिह दृंहेतेति ११ तथेति तमागायन्तमेतदत्रादृंहन्तेभ्य-श्श्रियम्प्रायच्छत् सैषा गन्धर्वाप्सरसां श्रीः १२ तत एतत्तिर्यङ्तपति १३ तानि वा एतानि त्रीणि साम्न उद्गीतमनुगीतमागीतं तद्यथेदं वयमागायोद्गायाम एतदुद्गीतमथ यद्यथागीतं तदनुगीतमथ यत्किं चेति साम्नस्तदागीतमेतानि ह्येव त्रीणि साम्नः १४ ५५

इति सप्तदशेऽनुवाके तृतीयः खण्डः

सप्तदशोऽनुवाकस्समाप्तः

1.18.1

आपो वा इदमग्रे महत्सलिलमासीत् स ऊर्मिरूर्मिमस्कन्दत्ततो हिरण्मयौ कुक्ष्यौ समभवतां ते एवर्क्सामे १ सेयमृगिदं सामाभ्यप्लवत तामपृच्छत्का त्वमसीति साहमस्मीत्यब्रवीत् अथ वा अहममोऽस्मीति तद्यत्सा चामश्च तत्साम्नस्सामत्वम् २ तौ वै सम्भवावेति नेत्यब्रवीत्स्वसा वै मम त्वमसि अन्यत्र मिथुनमिच्छस्वेति ३ सा पराप्लवत मिथुनमिच्छमाना सा समा-स्सहस्रं सप्ततीः पर्यप्लवत ४ तदेष श्लोकस्स्त्री स्मैवाग्रे संचरतीच्छन्ती सलिले पतिं समास्सहस्रं सप्ततीस्ततोऽजायत पश्यत इति ५ असौ वा आदि-त्यः पश्यतः एष एव तदजायत एतेन हि पश्यति ६ सावित्त्वा न्यप्लवत साब्रवीन्न वै तं विन्दामि येन सम्भवेयं त्वयैव सम्भवानीति ७ सा वै द्वि-तीयामिच्छस्वेत्यब्रवीन्न वै मैकोद्यंस्यसीति सा द्वितीयां वित्त्वा न्यप्लवत ८ तृतीयामिच्छस्वैवेत्यब्रवीन्नो वाव मा द्वे उद्यंस्यथ इति सा तृतीयां वित्त्वा न्यप्लवत सोऽब्रवीदत्र वै मोद्यंस्यथेति ९ स यदेकयाग्रे समवदत तस्मादेकर्चे साम अथ यद्द्वे अपासेधत्तस्माद्द्वयोर्न कुर्वन्ति अथ यत्तिषृभिस्समपादयत्तस्मादु तृचे साम १० ता अब्रवीत्पुनीध्वं न पूता वै स्थेति ११ ५६

इति अष्टादशेऽनुवाके प्रथमः खण्डः

1.18.2

सा गायत्री गाथयापुनीत नाराशंस्या त्रिष्टुब् रैभ्या जगती भीमम्बत मलमपावधिषतेति तस्माद्भीमला धियो वा एताः धियो वा इमा मलमपावधिषतेति तस्मादु भीमलाः तस्मादु गायतां नाश्नीयात् मलेन ह्येते जीवन्ति १ अथर्क्सामाब्रवीद्बहु वै किं च किं च पुमांश्चरति त्वमनुपुनीष्वेति स ऊर्ध्वगणेनापुनीत २ पूतानि ह वा अस्य सामानि पूता ऋचः पूतानि यजूंषि पूतमनूक्तम्पूतं सर्वम्भवति य एवं वेद ३ ताभ्यां दिशो मिथुनाय पर्यौहन्तां सम्भविष्यन्नह्वयतामोऽहमस्मि सा त्वं सा त्वमस्यमोऽहमिति ४ तामेतदुभयतो वाचात्यरिच्यत हिङ्कारेण पुरस्तात्स्तोभेन मध्यतो निधनेनोपरिष्टात् अति तिस्रो ब्राह्मणायनीस्सदृशी रिच्यते य एवं वेद ५ तयोर्यस्सम्भवतोरूर्ध्वश्शूषोऽद्र वत् प्राणास्ते ते प्राणा एवोर्ध्वा अद्र वन्! ६ सोऽसावादित्यस्स एष एव उदग्निरेव गी चन्द्र मा एव थं सामान्येव उदृच एव गी यजूंष्येव थमित्यधिदेवतम् ७ अथाध्यात्मं प्राण एव उद्वागेव गी मन एव थं स एषोऽधिदेवतं चाध्यात्मं चोद्गीथः ८ स य एवमेतदधिदेवतं चाध्यात्मं चोद्गीथं वेदैतेन हास्य सर्वेणोद्गीतम्भवत्येतस्मादु एव सर्वस्मादावृश्च्यते य एवं विद्वांसमुपवदति ९ ५७

इति अष्टादशेऽनुवाके द्वितीयः खण्डः
    
1.18.3

तद्यदिदमाहुः क उदगासीरिति क एतमादित्यमगासीरिति ह वा एतत्पृच्छन्ति १ एतं ह वा एतं त्रय्या विद्यया गायन्ति यथा वीणागाथिनो गापयेयुरेवम् २ स एष ह्रदः कामानाम्पूर्णो यन्मनः तस्यैषा कुल्या यद्वाक् ३ तद्यथा वा अपो ह्रदात्कुल्ययोपरामुपनयन्त्येवमेवैतन्मनसोऽधि वाचोद्गाता यजमानम्यस्य कामान्प्रयच्छति ४ स य उद्गातारं दक्षिणाभिराराधयति तं सा कुल्योपधावति य उ एनं नाराधयति स उ तामपिहन्ति ५ अथ वा अतः प्रत्तिश्चैव प्रतिग्रहश्च तद्धूममिति वै प्रदीयते तद्वाचा यजमानाय प्रदेयम्मनसात्मने तथा ह सर्वं न प्रयच्छति ६ तद्यदिदं सम्भवतो रेतोऽसिच्यत तदशयत् यथा हिरण्यमविकृतं लेलायदेवम् ७ तस्य सर्वे देवा ममत्विन आसन्मम ममेति तेऽब्रुवन्वीदं करवामहा इति तेऽब्रुवञ्छ्रेयो वा इदमस्मत् आत्मभिरेवैनद्विकरवामहा इति ८ तदात्मभिरेव व्यकुर्वत तेषां वायुरेव हिङ्कार आसाग्निः प्रस्ताव इन्द्र आ-दिस्सोमबृहस्पती उद्गीथोऽश्विनौ प्रतिहारो विश्वे देवा उपद्र वः प्रजापतिरेव निधनम् ९ एता वै सर्वा देवता एता हिरण्यमस्य सर्वाभिर्देवताभिस्स्तुतम्भ-वति य एवं वेद एताभ्य उ एव स सर्वाभ्यो देवताभ्य आवृश्च्यते य एवं विद्वांसमुपवदति १० ५८

इति अष्टादशेऽनुवाके तृतीयः खण्डः

1.18.4

अथ ह ब्रह्मदत्तश्चैकितानेयः कुरुं जगामाभिप्रतारिणं काक्षसेनिं स हास्मै मधुपर्कं ययाच १ अथ हास्य वै प्रपद्य पुरोहितोऽन्ते निषसाद शौनकः तं हानामन्त्र्य मधुपर्कम्पपौ २ तं होवाच किं विद्वान्नो दाल्भ्यानामन्त्र्य मधुपर्कम्पिबसीति सामवैर्यम्प्रपद्येति होवाच ३ तं ह तत्रैव पप्रच्छ यद्वायौ तद्वेत्था३ इति हिङ्कारो वा अस्य स इति ४ यदग्नौ तद्वेत्था३ इति प्रस्तावो वा अस्य स इति ५ यदिन्द्रे तद्वेत्था३ इति आदिर्वा अस्य स इति ६ यत्सोमबृहस्पत्योस्तद्वेत्था३ इति उद्गीथो वा अस्य स इति ७ यदश्विनोस्तद्वेत्था३ इति प्रतिहारो वा अस्य स इति ८ यद्विश्वेषु देवेषु तद्वेत्था३ इति उपद्रवो वा अस्य स इति ९ यत्प्रजापतौ तद्वेत्था३ इति निधनं वा अस्य तदिति होवाच आर्षेयं वा अस्य तद्बन्धुता वा अस्य सेति १० स होवाच नमस्तेऽस्तु भगवो विद्वानपा मधुपर्कमिति ११ अथ हेतरः पप्रच्छ किंदेवत्यं सामवैर्यम्प्रपद्येति यद्देवत्यासु स्तुवत इति होवाच तद्देवत्यमिति १२ तदेतत्साध्वेव प्रत्युक्तं व्याप्तिर्वा अस्यैषेति होवाच ब्रूह्येवेति मेदं ते नमोऽकर्मेति होवाच मैव नोऽतिप्राक्षीरिति १३ स होवाचाप्रक्ष्यं वाव त्वा देवतामप्रक्ष्यं वाव त्वा देवतायै देवताः वाग्देवत्यं साम वाचो मनो देवता मनसः पशवः पशूनामोषधय ओषधीनामापः तदेतदद्भ्यो जातं सामाप्सु प्रतिष्ठितमिति १४ ५९

इति अष्टादशेऽनुवाके चतुर्थः खण्डः
   
1.18.5

देवासुरा अस्पर्धन्त ते देवा मनसोदगायन्तदेषामसुरा अभिद्रुत्य पाप्मना समसृजन्तस्माद्बहु किं च किं च मनसा ध्यायति पुण्यं चैनेन ध्यायति पापं च १ ते वाचोदगायन्तां तथैवाकुर्वन्तस्माद्बहु किं च किं च वाचा वदति सत्यं चैनया वदत्यनृतं च २ ते चक्षुषोदगायन्तत्तथैवाकुर्वन्तस्माद्बहु किं च किं च चक्षुषा पश्यति दर्शनीयं चैनेन पश्यत्यदर्शनीयं च ३ ते श्रोत्रेणोद-गायन्तत्तथैवाकुर्वन्तस्माद्बहु किं च किं च श्रोत्रेण शृणोति श्रवणीयं चैनेन शृणोत्यश्रवणीयं च ४ तेऽपानेनोदगायन्तं तथैवाकुर्वन्तस्माद्बहु किं च किं चापानेन जिघ्रति सुरभि चैनेन जिघ्रति दुर्गन्धि च ५ ते प्राणेनोदगायनथा-सुरा आद्र वंस्तथा करिष्याम इति मन्यमानाः ६ स यथाश्मानमृत्वा लोष्टो विध्वंसेतैवमेवासुरा व्यध्वंसन्त स एषोऽश्माखणं यत्प्राणः ७ स यथाश्मान-माखणमृत्वा लोष्टो विध्वंसत एवमेव स विध्वंसते य एवं विद्वांसमुपवदति ८ ६०

इति अष्टादशेऽनुवाके पञ्चमः खण्डः

अष्टादशोऽनुवाकस्समाप्तः

इति प्रथमोऽध्यायः