2.1.1

अथ द्वितीयोऽध्यायः

देवानां वै षडुद्गातार आसन्वाक्च मनश्च चक्षुश्च श्रोत्रं चापानश्च प्राणश्च १ तेऽध्रियन्त तेनोद्गात्रा दीक्षामहै येनापहत्य मृत्युमपहत्य पाप्मानं स्वर्गं लोकमियामेति २ तेऽब्रुवन्वाचोद्गात्रा दीक्षामहा इति ते वाचोद्गात्रादीक्षन्त स यदेव वाचा वदति तदात्मन आगायदथ य इतरे कामास्तान्देवेभ्यः ३ तां पाप्मान्वसृज्यत स यदेव वाचा पापं वदति स एव स पाप्मा ४ तेऽब्रुवन्न वै नोऽयं मृत्युं न पाप्मानमत्यवाक्षीत् मनसोद्गात्रा दिक्षामहा इति ५ ते मनसोद्गात्रादीक्षन्त स यदेव मनसा ध्यायति तदात्मन आगायदथ य इतरे कामास्तान्देवेभ्यः ६ तत्पाप्मान्वसृज्यत स यदेव मनसा पापं ध्यायति स एव स पाप्मा ७ तेऽब्रुवन्नो न्वाव नोऽयं मृत्युं न पाप्मानमत्यवाक्षीत् चक्षुषोद्गात्रा दीक्षामहा इति ८ ते चक्षुषोद्गात्रादीक्षन्त स यदेव चक्षुषा पश्यति तदात्मन आगायदथ य इतरे कामास्तान्देवेभ्यः ९ तत्पाप्मान्वसृज्यत स यदेव चक्षुषा पापं पश्यति स एव स पाप्मा १० तेऽब्रुवन्नो न्वाव नोऽयं मृत्युं न पाप्मानमत्यवाक्षीत् श्रोत्रेणोद्गात्रा दीक्षामहा इति ११ ते श्रोत्रेणोद्गात्रादीक्षन्त स यदेव श्रोत्रेण शृणोति तदात्मन आगायदथ य इतरे कामास्तान्देवेभ्यः १२ तत्पाप्मान्वसृज्यत स यदेव श्रोत्रेण पापं शृणोति स एव स पाप्मा १३ तेऽब्रुवन्नो न्वाव नोऽयं मृत्युं न पाप्मानमत्यवाक्षीत् अपानेनोद्गात्रा दीक्षामहा इति १४ तेऽपानेनोद्गात्रादीक्षन्त स यदेवापानेनापानिति तदात्मन आगायदथ य इतरे कामास्तान्देवेभ्यः १५ तं पाप्मान्वसृज्यत स यदेवापानेन पापं गन्धमपानिति स एव स पाप्मा १६ तेऽब्रुवन्नो न्वाव नोऽयं मृत्युं न पाप्मानमत्यवाक्षीत् प्राणेनोद्गात्रा दीक्षामहा इति १७ ते प्राणेनोद्गात्रादीक्षन्त स यदेव प्राणेन प्राणिति तदात्मन आगायदथ य इतरे कामास्तान्देवेभ्यः १८ तं पाप्मा नान्वसृज्यत न ह्येतेन प्राणेन पापं वदति न पापं ध्यायति न पापं पश्यति न पापं शृणोति न पापं गन्धमपानिति १९ तेनापहत्य मृत्युमपहत्य पाप्मानं स्वर्गं लोकमायनपहत्य हैव मृत्युमपहत्य पाप्मानं स्वर्गं लोकमेति य एवं वेद २० १

इति प्रथमेऽनुवाके प्रथमः खण्डः

2.1.2

सा या सा वागासीत्सोऽग्निरभवत् १ अथ यत्तन्मन आसीत्स चन्द्र मा अभवत् २ अथ यत्तच्चक्षुरासीत्स आदित्योऽभवत् ३ अथ यत्तच्छ्रोत्रमासीत्ता इमा दिशोऽभवन्ता उ एव विश्वे देवाः ४ अथ यस्सोऽपान आसीत्स बृहस्पति-रभवत् यदस्यै वाचो बृहत्यै पतिस्तस्माद्बृहस्पतिः ५ अथ यस्स प्राण आसीत्स प्रजापतिरभवत् स एष पुत्री प्रजावानुद्गीथो यः प्राणः तस्य स्वर एव प्रजाः प्रजावान्भवति य एवं वेद ६ तं हैतमेके प्रत्यक्षमेव गायन्ति प्राणा३ प्राणा३ प्राणा३ हुं भा ओवा इति ७ तदु होवाच शाट्यायनिस्तत एतमर्हति प्रत्यक्षं गातुं यद्वाव वाचा करोति तदेतदेवास्य कृतं भवतीति ८ अथ वा अत ऋक्सा-ं नोरेव प्रजातिः स यद्धिङ्करोत्यभ्येव तेन क्रन्दति अथ यत्प्रस्तौत्यैव तेन प्लवते अथ यदादिमादत्ते रेत एव तेन सिञ्चति अथ यदुद्गायति रेत एव तेन सिक्तं सं भावयति अथ यत्प्रतिहरति रेत एव तेन सं भूतं प्रवर्धयति अथ यदुपद्र वति रेत एव तेन प्रवृद्धं विकरोति अथ यन्निधनमुपैति रेत एव तेन विकृतं प्रजनयति सैषर्क्सां नोः प्रजातिः ९ स य एवमेतामृक्सां नोः प्रजातिं वेद प्र हैनमृक्सामनी
जनयतः १० २

इति प्रथमेऽनुवाके द्वितीयः खण्डः

प्रथमोऽनुवाकस्समाप्तः

2.2.1

एष एवेदमग्र आसीद्य एष तपति स एष सर्वेषां भूतानां तेजो हर इन्द्रि यं वीर्यमादायोर्ध्व उदक्रामत् १ सोऽकामयतैकमेवाक्षरं स्वादु मृदु देवानां वनामेति २ स तपोऽतप्यत स तपस्तप्त्वैकमेवाक्षरमभवत् ३ तं देवाश्चर्षय-श्चोपसमैप्सन्नथैषोऽसुरान्भूतहनोऽसृजतैतस्य पाप्मनोऽनन्वागमाय ४ तं वा-चोपसमैप्सन्ते वाचं समारोहन्तेषां वाचं पर्यादत्त तस्मात्पर्यादत्ता वाक् सत्यं च ह्येनया वदत्यनृतं च ५ तं मनसोपसमैप्सन्ते मनस्समारोहन्तेषां मनः पर्यादत्त तस्मात्पर्यादत्तं मनस्पुण्यं च ह्येनेन ध्यायति पापं च ६ तं चक्षुषो-पसमैप्सन्ते चक्षुस्समारोहन्तेसां चक्षुः पर्यादत्त तस्मात्पर्यात्तं चक्षुः दर्शनीयं च ह्येनेन पश्यत्यदर्शनीयं च ७ तं श्रोत्रेणोपसमैप्सन्ते श्रोत्रं समारोहन्तेषां श्रोत्रं पर्यादत्त तस्मात्पर्यात्तं श्रोत्रं श्रवणीयं चैनेन शृणोत्यश्रवणीयं च ८ तमपानेनोपसमैप्सन्तेऽपानं समारोहन्तेषामपानं पर्यादत्त तस्मात्पर्यात्तोऽपानः सुरभि च ह्येनेन जिघ्रति दुर्गन्धि च ९ तं प्राणेनोपसमैप्सन्तं प्राणेनोप-समाप्नुवन् १० अथासुरा भूतहन आद्र वन्मोहयिष्याम इति मन्यमानाः ११ स यथाश्मानमृत्वा लोष्टो विध्वंसेतैवमेवासुरा व्यध्वंसन्त स एषोऽश्माखणो यत्प्राणः १२ स यथाश्मानमाखणमृत्वा लोष्टो विध्वंसत एवमेव स विध्वंसते य एवं विद्वांसमुपवदति १३ ३

इति द्वितीयेऽनुवाके प्रथमः खण्डः

2.2.2

स एष वशी दीप्ताग्र उद्गीथो यत्प्राणः एष हीदं सर्वं वशे कुरुते १ वशी भवति वशे स्वान्कुरुते य एवं वेद अस्य ह्यसावग्रे दीप्यते३ अमुष्य वा सः २ तं हैतमुद्गीथं शाट्यायनिराचष्टे वशी दीप्ताग्र इति दीप्ताग्रा ह वा अस्य कीर्तिर्भवति य एवं वेद ३ आभूतिरिति कारीरादयः प्राणं वा अनु प्रजाः पशव आभवन्ति स य एवमेतमाभूतिरित्युपास्त ऐव प्राणेन प्रजया पशुभिर्भवति ४ सं भूतिरिति सात्ययज्ञयः प्राणं वा अनु प्रजाः पशवस्सं भवन्ति स य एवमेतं सं भूतिरित्युपास्ते समे व प्राणेन प्रजया पशुभिर्भवति ५ प्रभूतिरिति शैलनाः प्राणं वा अनु प्रजाः पशवः प्रभवन्ति स य एवमेतं प्रभूतिरित्युपास्ते प्रैव प्राणेन प्रजया पशुभिर्भवति ६ भूतिरिति भाल्लबिनः प्राणं वा अनु प्रजाः पशवो भवन्ति स य एवमेतं भूतिरित्युपास्ते भवत्येव प्राणेन प्रजया पशुभिः ७ अपरोधोऽनपरुद्ध इति पार्ष्णश्शैलनः एष ह्यन्यमपरुणद्धि नैतमन्यः एष ह वास्य द्विषन्तं भ्रातृव्यमपरुणद्धि य एवं वेद ८ ४

इति द्वितीयेऽनुवाके द्वितीयः खण्डः

2.2.3

एकवीर इत्यारुणेयः एको ह्येवैष वीरो यत्प्राणः आ हास्यैको वीरो वीर्यवाञ्जायते य एवं वेद १ एकपुत्र इति चैकितानेयः एको ह्येवैष पुत्रो यत्प्राणः २ स उ एव द्विपुत्र इति द्वौ हि प्राणापानौ ३ स उ एव त्रिपुत्र इति त्रयो हि प्राणोऽपानो व्यानः ४ स उ एव चतुष्पुत्र इति चत्वारो हि प्राणोऽपानो व्यानस्समानः ५ स उ एव पञ्चपुत्र इति पञ्च हि प्राणोऽपानो व्यानस्स-मानोऽवानः ६ स उ एव षट्पुत्र इति षड्ढि प्राणोऽपानो व्यानस्समानोऽवान उदानः ७ स उ एव सप्तपुत्र इति सप्त हीमे शीर्षण्याः प्राणाः ८ स उ एव नवपुत्र इति सप्त हि शीर्षण्याः प्राणा द्वाववाञ्चौ ९ स उ एव दशपुत्र इति सप्त शीर्षण्याः प्राणा द्वाववाञ्चौ नाभ्यां दशमः १० स उ एव बहुपुत्र इति एतस्य हीयं सर्वाः प्रजाः ११ एतं ह स्म वै तदुद्गीथं विद्वांसः पूर्वे ब्राह्मणाः
कामागायिन आहुः कति ते पुत्रानागास्याम इति १२ ५

इति द्वितीयेऽनुवाके तृतीयः खण्डः

2.2.4

स यदि ब्रूयादेकं म आगायेति प्राण उद्गीथ इति विद्वानेकं मनसा ध्यायेत् एको हि प्राणः एको हास्याजायते १ स यदि ब्रूयाद्द्वौ म आगायेति प्राण उद्गीथ इत्येव विद्वान्द्वौ मनसा ध्यायेत् द्वौ हि प्राणापानौ द्वौ हैवास्याजायेते २ स यदि ब्रूयात्त्रीन्म आगायेति प्राण उद्गीथ इत्येव विद्वांस्त्रीन्मनसा ध्यायेत् त्रयो हि प्राणोऽपानो व्यानः त्रयो हैवास्याजायन्ते ३ स यदि ब्रूयाच्चतुरो म आगायेति प्राण उद्गीथ इत्येव विद्वांश्चतुरो मनसा ध्यायेत् चत्वारो हि प्राणोऽपानो व्यानस्समानः चत्वारो हैवास्याजायन्ते ४ स यदि ब्रूयात्पञ्च म आगायेति प्राण उद्गीथ इत्येव विद्वान्पञ्च मनसा ध्यायेत् पञ्च हि प्राणोऽपानो व्यानस्समानोऽवानः पञ्च हैवास्याजायन्ते ५ स यदि ब्रूयात्षण्म आगायेति प्राण उद्गीथ इत्येव विद्वान्षण्मनसा ध्यायेत् षड्ढि प्राणोऽपानो व्यानस्समा-नोऽवान उदानः षड्ढैवास्याजायन्ते ६ स यदि ब्रूयात्सप्त म आगायेति प्राण उद्गीथ इत्येव विद्वान्सप्त मनसा ध्यायेत् सप्त हीमे शीर्षण्याः प्राणाः सप्त हैवास्याजायन्ते ७ स यदि ब्रूयान्नव म आगायेति प्राण उद्गीथ इत्येव विद्वान्नव मनसा ध्यायेत् सप्त शीर्षण्याः प्राणा द्वाववाञ्चौ नव हैवास्याजायन्ते ८ स यदि ब्रूयाद्दश म आगायेति प्राण उद्गीथ इत्येव विद्वान्दश मनसा ध्यायेत् सप्त शीर्षण्याः प्राणा द्वाववाञ्चौ नाभ्यां दशमः दश हैवास्याजायन्ते ९ स यदि ब्रूयात्सहस्रं म आगायेति प्राण उद्गीथ इत्येव विद्वान्सहस्रं मनसा ध्यायेत् सहस्रं हैत आदित्यरश्मयः तेऽस्य पुत्राः सहस्रं हैवास्याजायन्ते १० एवं हैवैतमुद्गीथं पर आट्णारः कक्षीवांस्त्रसदस्युरिति पूर्वे महाराजाश्श्रोत्रिया-स्सहस्रपुत्रमुपनिषेदुः ते ह सर्व एव सहस्रपुत्रा आसुः ११ स य एवैवं वेद सहस्रं हैवास्य पुत्रा भवन्ति १२ ६

इति द्वितीयेऽनुवाके चतुर्थः खण्डः

द्वितीयोऽनुवाकस्समाप्तः

2.3.1

शर्यातो वै मानवः प्राच्यां स्थल्यामयजत तस्मिन्ह भूतान्युद्गीथेऽपित्वमेषिरे १ तं देवा बृहस्पतिनोद्गात्रा दीक्षामहा इति पुरस्तादागच्छन्नयं त उद्गायत्विति। बम्बेनाजद्विषेण पितरो दक्षिणतोऽयं त उद्गायत्विति। उशनसा काव्येनासुराः पश्चादयं त उद्गायत्विति। अयास्येनाङ्गिरसेन मनुष्या उत्तरतोऽयं त उद्गायत्विति २ स हेक्षां चक्रे हन्तैनान्पृच्छानि कियतो वा एक ईशे कियत एकः कियत एक इति ३ । स होवाच बृहस्पतिं यन्मे त्वमुद्गायेः किं ततस्स्यादिति ४ स होवाच देवेष्वेव श्रीस्स्याद्देवेष्वीशा स्वर्गमु त्वां लोकं गमयेयमिति ५ अथ होवाच बं बमाजद्विषं यन्मे त्वमुद्गायेः किं ततस्स्यादिति ६ स होवाच पितृष्वेव श्रीस्स्यात्पितृष्वीशा स्वर्गमु त्वां लोकं गमयेयमिति ७ अथ होवाचोशनसं काव्यं यन्मे त्वमुद्गायेः किं ततस्स्यादिति ८ स होवाचासुरेष्वेव श्रीस्स्यादसुरेष्वीशा स्वर्गमु त्वां लोकं गमयेयमिति ९ अथ होवाचायास्यमाङ्गिरसं यन्मे त्वमुद्गायेः किं ततस्स्यादिति १० स होवाच देवानेव देवलोके दध्यां मनुष्यान्मनुष्यलोके पितॄन्पितृलोके नुदेयास्माल्लोकादसुरान्स्वर्गमु त्वां लोकं गमयेयमिति ११ ७

इति तृतीतेऽनुवाके प्रथमः खण्डः

2.3.2

स होवाच त्वं मे भगव उद्गाय य एतस्य सर्वस्य यशो ऽसीति १ तस्य हायास्य एवोज्जगौ तस्मादुद्गाता वृत उत्तरतो निवेशनं लिप्सेत एतद्ध नारुद्धं निवेशनं यदुत्तरतः २ उत्तरत आगतोऽयास्य आङ्गिरसश्शर्यातस्य मानवस्योज्जगौ स प्राणेन देवान्देवलोकेऽदधादपानेन मनुष्यान्मनुष्यलोके व्यानेन पितॄन्पितृलोके हिङ्कारेण वज्रेणास्माल्लोकादसुराननुदत ३ तान्होवाच दूरं गच्छतेति स दूरो ह नाम लोकः तं ह जग्मुः त एतेऽसुरा असं भाव्यं पराभूताः ४ छन्दोभिरेव वाचा शर्यातं मानवं स्वर्गं लोकं गमयां चकार ५ ते होचुरसुरा एत तं वेदाम यो नोऽयमित्थमधत्तेति तत आगच्छन्तमेत्यापश्यन् ६ तेऽब्रुवन्नयं वा आस्य इति यदब्रुवन्नयं वा आस्य इति तस्मादयमास्यः अयमास्यो ह वै नामैषः तमयास्य इति परोक्षमाचक्षते ७ स प्राणो वा अयास्यः प्राणो ह वा एनान्स नुनुदे ८ स य एवं विद्वानुद्गायति प्राणेनैव देवान्देवलोके दधात्यपानेन मनु-ष्यान्मनुष्यलोके व्यानेन पितॄन्पितृलोके हिङ्कारेणैव वज्रेणास्माल्लोकाद्द्विषन्तं भ्रातृव्यं नुदते ९ ८

इति तृतीयेऽनुवाके द्वितीयः खण्डः

2.3.3

तं ह ब्रूयाद्दूरं गच्छेति स यमेव लोकमसुरा अगच्छंस्तं हैव गच्छति १ छन्दोभिरेव वाचा यजमानं स्वर्गं लोकं गमयति २ ता एता व्याहृतयः प्रेत्येति वाग् इति भूर्भुवस्स्वरित्य् उदिति ३ तद्यत्प्रेति तत्प्राणस्तदयं लोकस्तदिमं लोकमस्मिंल्लोक आभजति ४ एत्यपानस्तदसौ लोकस्तदमुं लोकममु-ष्मिंल्लोक आभजति ५ वागिति तद्ब्रह्म तदिदमन्तरिक्षं ६ भूर्भुवस्स्वरिति सा त्रयी विद्या ७ उदिति सोऽसावादित्यः तद्यदुदित्युदिव श्लेषयति ८ तद्यदेकमेवाभिसं पद्यते तस्मादेकवीरः एको ह तु सन्वीरो वीर्यवान्भवति आ हास्यैको वीरो वीर्यवान्जायते य एवं वेद ९ तदु होवाच शाट्यायनिर्बहुपुत्र एष उद्गीथ इत्येवोपासितव्यं बहवो ह्येत आदित्यस्य रश्मयस्तेऽस्य पुत्राः तस्माद्बहुपुत्र एष उद्गीथ इत्येवोपासितव्यमिति तृतीयेऽनुवाके तृतीयः खण्डः
१० ९

तृतीयोऽनुवाकस्समाप्तः

2.4.1

देवासुरास्समयतन्तेत्याहुः न ह वै तद्देवासुरास्सं येतिरे प्रजापतिश्च ह वै तन्मृत्युश्च सं येताते १ तस्य ह प्रजापतेर्देवाः प्रियाः पुत्रा अन्त आसुः तेऽध्रियन्त तेनोद्गात्रा दीक्षामहै येनापहत्य मृत्युमपहत्य पाप्मानं स्वर्गं लोकमियामेति २ तेऽब्रुवन्वाचोद्गात्रा दीक्षामहा इति ३ ते वाचोद्गात्रादीक्षन्त तेभ्य इदं वागा-गायद्यदिदं वाचा वदति यदिदं वाचा भुञ्जते ४ तां पाप्मान्वसृज्यत स यदेव वाचा पापं वदति स एव स पाप्मा ५ तेऽब्रुवन्न वै नोऽयं मृत्युं न पाप्मा-नमत्यवाक्षीत् मनसोद्गात्रा दीक्षामहा इति ६ ते मनसोद्गात्रादीक्षन्त तेभ्य इद-ं मन आगायद्यदिदं मनसा ध्यायति यदिदं मनसा भुञ्जते ७ तत्पाप्मा-न्वसृज्यत स यदेव मनसा पापं ध्यायति स एव स पाप्मा ८ तेऽब्रुवन्नो न्वाव नोऽयं मृत्युं न पाप्मानमत्यवाक्षीत् चक्षुषोद्गात्रा दीक्षामहा इति ९ ते चक्षुषो-द्गात्रादीक्षन्त तेभ्य इदं चक्षुरागायद्यदिदं चक्षुषा पश्यति यदिदं चक्षुषा भुञ्जते १० तत्पाप्मान्वसृज्यत स यदेव चक्षुषा पापं पश्यति स एव स पाप्मा ११ तेऽब्रुवन्नो न्वाव नोऽयं मृत्युं न पाप्मानमत्यवाक्षीत् श्रोत्रेणोद्गात्रा दीक्षामहा इति १२ ते श्रोत्रेणोद्गात्रादीक्षन्त तेभ्य इदं श्रोत्रमागायद्यदिदं श्रोत्रेण शृणोति यदिदं श्रोत्रेण भुञ्जते १३ तत्पाप्मान्वसृज्यत स यदेव श्रोत्रेण पापं शृणोति स एव स पाप्मा १४ तेऽब्रुवन्नो न्वाव नोऽयं मृत्युं न पाप्मानमत्यवाक्षीत् प्राणेनोद्गात्रा दीक्षामहा इति १५ ते प्राणेनोद्गात्रादीक्षन्त तेभ्य इदं प्राण आगायद्यदिदं प्राणेन प्राणिति यदिदं प्राणेन भुञ्जते १६ तं पाप्मान्वसृज्यत स यदेव प्राणेन पापं प्रा-णिति स एव स पाप्मा १७ तेऽब्रुवन्नो न्वाव नोऽयं मृत्युं न पाप्मानमत्यवाक्षीत् अनेन मुख्येन प्राणेनोद्गात्रा दीक्षामहा इति १८ तेऽनेन मुख्येन प्राणेनो-द्गात्रादीक्षन्त १९ सोऽब्रवीन्मृत्युरेष एषां स उद्गाता येन मृत्युमत्येष्यन्तीति २० न ह्येतेन प्राणेन पापं वदति न पापं ध्यायति न पापं पश्यति न पापं शृणोति न पापं गन्धमपानिति २१ तेनापहत्य मृत्युमपहत्य पाप्मानं स्वर्गं लोकमाय-
न्नपहत्य हैव मृत्युमपहत्य पाप्मानं स्वर्गं लोकमेति य एवं वेद २२ १०

इति चतुर्थेऽनुवाके प्रथमः खण्डः

2.4.2

स यथा हत्वा प्रमृद्यातीयादेवमेवैतं मृत्युमत्यायन् १ स वाचं प्रथमाम-त्यवहत्तां परेण मृत्युं न्यदधात् सोऽग्निरभवत् २ अथ मनोऽत्यवहत्तत्परेण मृत्युं न्यदधात् स चन्द्र मा अभवत् ३ अथ चक्षुरत्यवहत्तत्परेण मृत्युं न्यदधात् स आदित्योऽभवत् ४ अथ श्रोत्रमत्यवहत्तत्परेण मृत्युं न्यदधात्ता इमा दिशो-ऽभवन्ता उ एव विश्वे देवाः ५ अथ प्राणमत्यवहत्तं परेण मृत्युं न्यदधात् स वायुरभवत् ६ अथात्मने केवलमेवान्नाद्यमागायत ७ स एष एवायास्यः आस्ये धीयते तस्मादयास्यः यद्वेवा यमास्ये रमते तस्माद्वेवायास्यः ८ स एष एवाङ्गिरसः अतो हीमान्यङ्गानि रसं लभन्ते तस्मादाङ्गिरसः यद्वेवैषामङ्गानां रसस्तस्माद्वेवाङ्गिरसः ९ तं देवा अब्रुवन्केवलं वा आत्मनेऽन्नाद्यमागासीः अनु न एतस्मिन्नन्नाद्य आभज एतदस्यानामयत्वमस्तीति १० तं वै प्रविशतेति स वा आकाशान्कुरुष्वेति स इमान्प्राणानाकाशानकुरुत ११ तं वागेव भूत्वाग्निः प्राविशन्मनो भूत्वा चन्द्र माश्चक्षुर्भूत्वादित्यश्श्रोत्रं भूत्वा दिशः प्राणो भूत्वा वायुः १२ एषा वै दैवी परिषद्दैवी सभा दैवी संसत् १३ गच्छति ह
वा एतां दैवीं परिषदं दैवीं सभां दैवीं संसदं य एवं वेद १४ ११

इति चतुर्थेऽनुवाके द्वितीयः खण्डः

2.4.3

यत्रो ह वै क्व चैता देवता निस्पृशन्ति न हैव तत्र कश्चन पाप्मा न्यङ्गः परिशिष्यते १ स विद्यान्नेह कश्चन पाप्मा न्यङ्गः परिशेक्ष्यते सर्वमेवैता देवताः पाप्मानं निधक्ष्यन्तीति तथा हैव भवति २ य उ ह वा एवंविदमृच्छति यथैता देवता ऋत्वा नीयादेवं न्येति एतासु ह्येवैनं देवतासु प्रपन्नमेतासु वसन्तमुपवदति ३ तस्य हैतस्य नैव का चनार्तिरस्ति य एवं वेद य एवैनमुपवदति स आर्तिमार्च्छति ४ स य एनमृच्छादेव ता देवता उपसृत्य ब्रूयादयं मारत्स इमामार्तिं न्येत्विति तां हैवार्तिं न्येति ५ यावदावासा उ हास्येमे प्राणा अस्मिंल्लोक एतावदावासा उ हास्यैता देवता अमुष्मिंल्लोके भवन्ति ६ तस्मादु हैवं विद्वान्नैवागृहतायै बिभीयान्नालोकतायै एता मे देवता अस्मिंल्लो-के गृहान्करिष्यन्ति एता अमुष्मिंल्लोके भवन्ति तस्मादु लोकं प्रदास्यन्तीति ७ तस्मादु हैवं विद्वान्नैवागृहतायै बिभीयान्नालोकतायै एता मे देवता अस्मिं-ल्लोके गृहेभ्यो गृहान्करिष्यन्ति स्वेभ्य आयतनेभ्य इति हैव विद्यादेता देवता अमुष्मिंल्लोके लोकं प्रदास्यन्तीति ८ तस्मादु हैवं विद्वान्नैवागृहतायै बिभीयान्नालोकतायै एता म एतदुभयं संनंस्यन्तीति हैव विद्यात्तथा हैव भवति ९ १२

इति चतुर्थेऽनुवाके तृतीयः खण्डः

चतुर्थोऽनुवाकस्समाप्तः

2.5.1

देवा वै ब्रह्मणो वत्सेन वाचमदुह्रन्नग्निर्ह वै ब्रह्मणो वत्सः १ सा या सा वाग्ब्रह्मैव तत् अथ योऽग्निर्मृत्युस्सः २ तामेतां वाचं यथा धेनुं वत्सेनोपसृज्य प्रत्तां दुहीतैवमेव देवा वाचं सर्वान्कामानदुह्रन् ३ दुहे ह वै वाचं सर्वान्कामान्य एवं वेद स हैषोऽनानृतो वाचं देवीमुदिन्धे वद वद वदेति ४ तद्यदिह पुरुषस्य पापं कृतं भवति तदाविष्करोति यदिहैनदपि रहसीव
कुर्वन्मन्यतेऽथ हैनदाविरेव करोति तस्माद्वाव पापं न कुर्यात् ५ १३

इति पञ्चमेऽनुवाके प्रथमः खण्डः

2.5.2

एष उ ह वाव देवानां नेदिष्ठमुपचर्यो यदग्निः १ तं साधूपचरेत् य एनमस्मिं-ल्लोके साधूपचरति तमेषोऽमुष्मिंल्लोके साधूपचरति अथ य एनमस्मिंल्लोके नाद्रि यते तमेषोऽमुष्मिंल्लोके नाद्रि यते तस्माद्वा अग्निं साधूपचरेत् २ तं नैव हस्ताभ्यां स्पृशेन्न पादाभ्यां न दण्डेन ३ हस्ताभ्यां स्पृशति यदस्यान्तिक-मवनेनिक्ते अथ यदभिप्रसारयति तत्पादाभ्यां ४ स एनमास्पृष्त ईश्वरो
दुर्धायां धातोः तस्माद्वा अग्निं साधूपचरति सुधायां हैवैनं दधाति ५ १४

इति पञ्चमेऽनुवाके द्वितीयः खण्डः

2.5.3

एष उ ह वाव देवानां महाशनतमो यदग्निः १ तन्न व्रत्यमददानोऽश्नीयात् यो वै महाशनेऽनश्नत्यश्नातीश्वारो हैनमभिषङ्क्तोः पूतिमिव हाश्नीयात् २ अथो ह प्रोक्तेऽशने ब्रूयात्समिन्त्स्वाग्निमिति स यथा प्रोक्तेऽशने श्रेयांसं परिवेष्टवै ब्रूयात्तादृक्तत् ३ एतदु ह वाव साम यद्वाक् यो वै चक्षुस्साम श्रोत्रं सामेत्युपास्ते न ह तेन करोति ४ अथ य आदित्यस्साम चन्द्र मास्सामेत्युपास्ते न हैव तेन करोति ५ अथ यो वाक्सामेत्युपास्ते स एवानुष्ठ्या साम वेद वाचा हि सां नार्त्विज्यं क्रियते ६ स यो वाचस्स्वरो जायते सोऽग्निर्वाग्वेव वाक् तदत्रैकधा साम भवति ७ स य एवमेतदेकधा साम भवद्वेदैवं हैतदेकधा साम भवतीत्येकधेव श्रेष्ठस्स्वानां भवति ८ तस्मादु हैवंविदमेव सां नार्त्विज्यं कारयेत स ह वाव साम वेद य एवं वेद पञ्चमेऽनुवाके तृतीयः खण्डः ९ १५

पञ्चमोऽनुवाकस्समाप्तः

इति द्वितीयोऽध्यायः


2.1.1

अथ द्वितीयोऽध्यायः

देवानां वै षडुद्गातार आसन्वाक्च मनश्च चक्षुश्च श्रोत्रं चापानश्च प्राणश्च १ तेऽध्रियन्त तेनोद्गात्रा दीक्षामहै येनापहत्य मृत्युमपहत्य पाप्मानं स्वर्गं लोकमियामेति २ तेऽब्रुवन्वाचोद्गात्रा दीक्षामहा इति ते वाचोद्गात्रादीक्षन्त स यदेव वाचा वदति तदात्मन आगायदथ य इतरे कामास्तान्देवेभ्यः ३ ताम्पाप्मान्वसृज्यत स यदेव वाचा पापं वदति स एव स पाप्मा ४ तेऽब्रुवन्न वै नोऽयम्मृत्युं न पाप्मानमत्यवाक्षीत् मनसोद्गात्रा दिक्षामहा इति ५ ते मनसोद्गात्रादीक्षन्त स यदेव मनसा ध्यायति तदात्मन आगायदथ य इतरे कामास्तान्देवेभ्यः ६ तत्पाप्मान्वसृज्यत स यदेव मनसा पापं ध्यायति स एव स पाप्मा ७ तेऽब्रुवन्नो न्वाव नोऽयम्मृत्युं न पाप्मानमत्यवाक्षीत् चक्षुषोद्गात्रा दीक्षामहा इति ८ ते चक्षुषोद्गात्रादीक्षन्त स यदेव चक्षुषा पश्यति तदात्मन आगायदथ य इतरे कामास्तान्देवेभ्यः ९ तत्पाप्मान्वसृज्यत स यदेव चक्षुषा पापम्पश्यति स एव स पाप्मा १० तेऽब्रुवन्नो न्वाव नोऽयम्मृत्युं न पाप्मानमत्यवाक्षीत् श्रोत्रेणोद्गात्रा दीक्षामहा इति ११ ते श्रोत्रेणोद्गात्रादीक्षन्त स यदेव श्रोत्रेण शृणोति तदात्मन आगायदथ य इतरे कामास्तान्देवेभ्यः १२ तत्पाप्मान्वसृज्यत स यदेव श्रोत्रेण पापं शृणोति स एव स पाप्मा १३ तेऽब्रुवन्नो न्वाव नोऽयम्मृत्युं न पाप्मानमत्यवाक्षीत् अपानेनोद्गात्रा दीक्षामहा इति १४ तेऽपानेनोद्गात्रादीक्षन्त स यदेवापानेनापानिति तदात्मन आगायदथ य इतरे कामास्तान्देवेभ्यः १५ तम्पाप्मान्वसृज्यत स यदेवापानेन पापं गन्धमपानिति स एव स पाप्मा १६ तेऽब्रुवन्नो न्वाव नोऽयम्मृत्युं न पाप्मानमत्यवाक्षीत् प्राणेनोद्गात्रा दीक्षामहा इति १७ ते प्राणेनोद्गात्रादीक्षन्त स यदेव प्राणेन प्राणिति तदात्मन आगायदथ य इतरे कामास्तान्देवेभ्यः १८ तम्पाप्मा नान्वसृज्यत न ह्येतेन प्राणेन पापं वदति न पापं ध्यायति न पापम्पश्यति न पापं शृणोति न पापं गन्धमपानिति १९ तेनापहत्य मृत्युमपहत्य पाप्मानं स्वर्गं लोकमायनपहत्य हैव मृत्युमपहत्य पाप्मानं स्वर्गं लोकमेति य एवं वेद २० १

इति प्रथमेऽनुवाके प्रथमः खण्डः

2.1.2

सा या सा वागासीत्सोऽग्निरभवत् १ अथ यत्तन्मन आसीत्स चन्द्र मा अभवत् २ अथ यत्तच्चक्षुरासीत्स आदित्योऽभवत् ३ अथ यत्तच्छ्रोत्रमासीत्ता इमा दिशोऽभवन्ता उ एव विश्वे देवाः ४ अथ यस्सोऽपान आसीत्स बृहस्पति-रभवत् यदस्यै वाचो बृहत्यै पतिस्तस्माद्बृहस्पतिः ५ अथ यस्स प्राण आसीत्स प्रजापतिरभवत् स एष पुत्री प्रजावानुद्गीथो यः प्राणः तस्य स्वर एव प्रजाः प्रजावान्भवति य एवं वेद ६ तं हैतमेके प्रत्यक्षमेव गायन्ति प्राणा३ प्राणा३ प्राणा३ हुम्भा ओवा इति ७ तदु होवाच शाट्यायनिस्तत एतमर्हति प्रत्यक्षं गातुं यद्वाव वाचा करोति तदेतदेवास्य कृतम्भवतीति ८ अथ वा अत ऋक्सा-म्नोरेव प्रजातिः स यद्धिङ्करोत्यभ्येव तेन क्रन्दति अथ यत्प्रस्तौत्यैव तेन प्लवते अथ यदादिमादत्ते रेत एव तेन सिञ्चति अथ यदुद्गायति रेत एव तेन सिक्तं सम्भावयति अथ यत्प्रतिहरति रेत एव तेन सम्भूतम्प्रवर्धयति अथ यदुपद्र वति रेत एव तेन प्रवृद्धं विकरोति अथ यन्निधनमुपैति रेत एव तेन विकृतम्प्रजनयति सैषर्क्साम्नोः प्रजातिः ९ स य एवमेतामृक्साम्नोः प्रजातिं वेद प्र हैनमृक्सामनी
जनयतः १० २

इति प्रथमेऽनुवाके द्वितीयः खण्डः
  
प्रथमोऽनुवाकस्समाप्तः
    
2.2.1

एष एवेदमग्र आसीद्य एष तपति स एष सर्वेषाम्भूतानां तेजो हर इन्द्रि यं वीर्यमादायोर्ध्व उदक्रामत् १ सोऽकामयतैकमेवाक्षरं स्वादु मृदु देवानां वनामेति २ स तपोऽतप्यत स तपस्तप्त्वैकमेवाक्षरमभवत् ३ तं देवाश्चर्षय-श्चोपसमैप्सन्नथैषोऽसुरान्भूतहनोऽसृजतैतस्य पाप्मनोऽनन्वागमाय ४ तं वा-चोपसमैप्सन्ते वाचं समारोहन्तेषां वाचम्पर्यादत्त तस्मात्पर्यादत्ता वाक् सत्यं च ह्येनया वदत्यनृतं च ५ तम्मनसोपसमैप्सन्ते मनस्समारोहन्तेषाम्मनः पर्यादत्त तस्मात्पर्यादत्तम्मनस्पुण्यं च ह्येनेन ध्यायति पापं च ६ तं चक्षुषो-पसमैप्सन्ते चक्षुस्समारोहन्तेसां चक्षुः पर्यादत्त तस्मात्पर्यात्तं चक्षुः दर्शनीयं च ह्येनेन पश्यत्यदर्शनीयं च ७ तं श्रोत्रेणोपसमैप्सन्ते श्रोत्रं समारोहन्तेषां श्रोत्रम्पर्यादत्त तस्मात्पर्यात्तं श्रोत्रं श्रवणीयं चैनेन शृणोत्यश्रवणीयं च ८ तमपानेनोपसमैप्सन्तेऽपानं समारोहन्तेषामपानम्पर्यादत्त तस्मात्पर्यात्तोऽपानः सुरभि च ह्येनेन जिघ्रति दुर्गन्धि च ९ तम्प्राणेनोपसमैप्सन्तम्प्राणेनोप-समाप्नुवन् १० अथासुरा भूतहन आद्र वन्मोहयिष्याम इति मन्यमानाः ११ स यथाश्मानमृत्वा लोष्टो विध्वंसेतैवमेवासुरा व्यध्वंसन्त स एषोऽश्माखणो यत्प्राणः १२ स यथाश्मानमाखणमृत्वा लोष्टो विध्वंसत एवमेव स विध्वंसते य एवं विद्वांसमुपवदति १३ ३

इति द्वितीयेऽनुवाके प्रथमः खण्डः
    
2.2.2

स एष वशी दीप्ताग्र उद्गीथो यत्प्राणः एष हीदं सर्वं वशे कुरुते १ वशी भवति वशे स्वान्कुरुते य एवं वेद अस्य ह्यसावग्रे दीप्यते३ अमुष्य वा सः २ तं हैतमुद्गीथं शाट्यायनिराचष्टे वशी दीप्ताग्र इति दीप्ताग्रा ह वा अस्य कीर्तिर्भवति य एवं वेद ३ आभूतिरिति कारीरादयः प्राणं वा अनु प्रजाः पशव आभवन्ति स य एवमेतमाभूतिरित्युपास्त ऐव प्राणेन प्रजया पशुभिर्भवति ४ सम्भूतिरिति सात्ययज्ञयः प्राणं वा अनु प्रजाः पशवस्सम्भवन्ति स य एवमेतं सम्भूतिरित्युपास्ते समे व प्राणेन प्रजया पशुभिर्भवति ५ प्रभूतिरिति शैलनाः प्राणं वा अनु प्रजाः पशवः प्रभवन्ति स य एवमेतम्प्रभूतिरित्युपास्ते प्रैव प्राणेन प्रजया पशुभिर्भवति ६ भूतिरिति भाल्लबिनः प्राणं वा अनु प्रजाः पशवो भवन्ति स य एवमेतम्भूतिरित्युपास्ते भवत्येव प्राणेन प्रजया पशुभिः ७ अपरोधोऽनपरुद्ध इति पार्ष्णश्शैलनः एष ह्यन्यमपरुणद्धि नैतमन्यः एष ह वास्य द्विषन्तम्भ्रातृव्यमपरुणद्धि य एवं वेद ८ ४
 
इति द्वितीयेऽनुवाके द्वितीयः खण्डः
 
2.2.3

एकवीर इत्यारुणेयः एको ह्येवैष वीरो यत्प्राणः आ हास्यैको वीरो वीर्यवाञ्जायते य एवं वेद १ एकपुत्र इति चैकितानेयः एको ह्येवैष पुत्रो यत्प्राणः २ स उ एव द्विपुत्र इति द्वौ हि प्राणापानौ ३ स उ एव त्रिपुत्र इति त्रयो हि प्राणोऽपानो व्यानः ४ स उ एव चतुष्पुत्र इति चत्वारो हि प्राणोऽपानो व्यानस्समानः ५ स उ एव पञ्चपुत्र इति पञ्च हि प्राणोऽपानो व्यानस्स-मानोऽवानः ६ स उ एव षट्पुत्र इति षड्ढि प्राणोऽपानो व्यानस्समानोऽवान उदानः ७ स उ एव सप्तपुत्र इति सप्त हीमे शीर्षण्याः प्राणाः ८ स उ एव नवपुत्र इति सप्त हि शीर्षण्याः प्राणा द्वाववाञ्चौ ९ स उ एव दशपुत्र इति सप्त शीर्षण्याः प्राणा द्वाववाञ्चौ नाभ्यां दशमः १० स उ एव बहुपुत्र इति एतस्य हीयं सर्वाः प्रजाः ११ एतं ह स्म वै तदुद्गीथं विद्वांसः पूर्वे ब्राह्मणाः
कामागायिन आहुः कति ते पुत्रानागास्याम इति १२ ५

इति द्वितीयेऽनुवाके तृतीयः खण्डः
   
2.2.4

स यदि ब्रूयादेकम्म आगायेति प्राण उद्गीथ इति विद्वानेकम्मनसा ध्यायेत् एको हि प्राणः एको हास्याजायते १ स यदि ब्रूयाद्द्वौ म आगायेति प्राण उद्गीथ इत्येव विद्वान्द्वौ मनसा ध्यायेत् द्वौ हि प्राणापानौ द्वौ हैवास्याजायेते २ स यदि ब्रूयात्त्रीन्म आगायेति प्राण उद्गीथ इत्येव विद्वांस्त्रीन्मनसा ध्यायेत् त्रयो हि प्राणोऽपानो व्यानः त्रयो हैवास्याजायन्ते ३ स यदि ब्रूयाच्चतुरो म आगायेति प्राण उद्गीथ इत्येव विद्वांश्चतुरो मनसा ध्यायेत् चत्वारो हि प्राणोऽपानो व्यानस्समानः चत्वारो हैवास्याजायन्ते ४ स यदि ब्रूयात्पञ्च म आगायेति प्राण उद्गीथ इत्येव विद्वान्पञ्च मनसा ध्यायेत् पञ्च हि प्राणोऽपानो व्यानस्समानोऽवानः पञ्च हैवास्याजायन्ते ५ स यदि ब्रूयात्षण्म आगायेति प्राण उद्गीथ इत्येव विद्वान्षण्मनसा ध्यायेत् षड्ढि प्राणोऽपानो व्यानस्समा-नोऽवान उदानः षड्ढैवास्याजायन्ते ६ स यदि ब्रूयात्सप्त म आगायेति प्राण उद्गीथ इत्येव विद्वान्सप्त मनसा ध्यायेत् सप्त हीमे शीर्षण्याः प्राणाः सप्त हैवास्याजायन्ते ७ स यदि ब्रूयान्नव म आगायेति प्राण उद्गीथ इत्येव विद्वान्नव मनसा ध्यायेत् सप्त शीर्षण्याः प्राणा द्वाववाञ्चौ नव हैवास्याजायन्ते ८ स यदि ब्रूयाद्दश म आगायेति प्राण उद्गीथ इत्येव विद्वान्दश मनसा ध्यायेत् सप्त शीर्षण्याः प्राणा द्वाववाञ्चौ नाभ्यां दशमः दश हैवास्याजायन्ते ९ स यदि ब्रूयात्सहस्रम्म आगायेति प्राण उद्गीथ इत्येव विद्वान्सहस्रम्मनसा ध्यायेत् सहस्रं हैत आदित्यरश्मयः तेऽस्य पुत्राः सहस्रं हैवास्याजायन्ते १० एवं हैवैतमुद्गीथम्पर आट्णारः कक्षीवांस्त्रसदस्युरिति पूर्वे महाराजाश्श्रोत्रिया-स्सहस्रपुत्रमुपनिषेदुः ते ह सर्व एव सहस्रपुत्रा आसुः ११ स य एवैवं वेद सहस्रं हैवास्य पुत्रा भवन्ति १२ ६
 
इति द्वितीयेऽनुवाके चतुर्थः खण्डः
   
द्वितीयोऽनुवाकस्समाप्तः
    
2.3.1

शर्यातो वै मानवः प्राच्यां स्थल्यामयजत तस्मिन्ह भूतान्युद्गीथेऽपित्वमेषिरे १ तं देवा बृहस्पतिनोद्गात्रा दीक्षामहा इति पुरस्तादागच्छन्नयं त उद्गायत्विति बम्बेनाजद्विषेण पितरो दक्षिणतोऽयं त उद्गायत्वित्युशनसा काव्येनासुराः पश्चादयं त उद्गायत्वित्ययास्येनाङ्गिरसेन मनुष्या उत्तरतोऽयं त उद्गायत्विति २ स हेक्षां चक्रे हन्तैनान्पृच्छानि कियतो वा एक ईशे कियत एकः कियत एक इति ३ स होवाच बृहस्पतिं यन्मे त्वमुद्गायेः किं ततस्स्यादिति ४ स होवाच देवेष्वेव श्रीस्स्याद्देवेष्वीशा स्वर्गमु त्वां लोकं गमयेयमिति ५ अथ होवाच बम्बमाजद्विषम्यन्मे त्वमुद्गायेः किं ततस्स्यादिति ६ स होवाच पितृष्वेव श्रीस्स्यात्पितृष्वीशा स्वर्गमु त्वां लोकं गमयेयमिति ७ अथ होवाचोशनसं काव्यं यन्मे त्वमुद्गायेः किं ततस्स्यादिति ८ स होवाचासुरेष्वेव श्रीस्स्या-दसुरेष्वीशा स्वर्गमु त्वां लोकं गमयेयमिति ९ अथ होवाचायास्यमाङ्गिरसं यन्मे त्वमुद्गायेः किं ततस्स्यादिति १० स होवाच देवानेव देवलोके दध्या-म्मनुष्यान्मनुष्यलोके पितॄन्पितृलोके नुदेयास्माल्लोकादसुरान्स्वर्गमु त्वां लोकं
गमयेयमिति ११ ७

इति तृतीतेऽनुवाके प्रथमः खण्डः
     
2.3.2

स होवाच त्वम्मे भगव उद्गाय य एतस्य सर्वस्य यशो ऽसीति १ तस्य हायास्य एवोज्जगौ तस्मादुद्गाता वृत उत्तरतो निवेशनं लिप्सेत एतद्ध नारुद्धं निवेशनं यदुत्तरतः २ उत्तरत आगतोऽयास्य आङ्गिरसश्शर्यातस्य मानवस्योज्जगौ स प्राणेन देवान्देवलोकेऽदधादपानेन मनुष्यान्मनुष्यलोके व्यानेन पितॄन्पितृलोके हिङ्कारेण वज्रेणास्माल्लोकादसुराननुदत ३ तान्होवाच दूरं गच्छतेति स दूरो ह नाम लोकः तं ह जग्मुः त एतेऽसुरा असम्भाव्यम्पराभूताः ४ छन्दोभिरेव वाचा शर्यातम्मानवं स्वर्गं लोकं गमयां चकार ५ ते होचुरसुरा एत तं वेदाम यो नोऽयमित्थमधत्तेति तत आगच्छन्तमेत्यापश्यन् ६ तेऽब्रुवन्नयं वा आस्य इति यदब्रुवन्नयं वा आस्य इति तस्मादयमास्यः अयमास्यो ह वै नामैषः तमयास्य इति परोक्षमाचक्षते ७ स प्राणो वा अयास्यः प्राणो ह वा एनान्स नुनुदे ८ स य एवं विद्वानुद्गायति प्राणेनैव देवान्देवलोके दधात्यपानेन मनु-ष्यान्मनुष्यलोके व्यानेन पितॄन्पितृलोके हिङ्कारेणैव वज्रेणास्माल्लोकाद्द्विषन्तम्भ्रातृव्यं नुदते ९ ८

इति तृतीयेऽनुवाके द्वितीयः खण्डः
   
2.3.3

तं ह ब्रूयाद्दूरं गच्छेति स यमेव लोकमसुरा अगच्छंस्तं हैव गच्छति १ छन्दोभिरेव वाचा यजमानं स्वर्गं लोकं गमयति २ ता एता व्याहृतयः प्रेत्येति वाग् इति भूर्भुवस्स्वरित्य् उदिति ३ तद्यत्प्रेति तत्प्राणस्तदयं लोकस्तदिमं लोकमस्मिंल्लोक आभजति ४ एत्यपानस्तदसौ लोकस्तदमुं लोकममु-ष्मिंल्लोक आभजति ५ वागिति तद्ब्रह्म तदिदमन्तरिक्षम् ६ भूर्भुवस्स्वरिति सा त्रयी विद्या ७ उदिति सोऽसावादित्यः तद्यदुदित्युदिव श्लेषयति ८ तद्यदेकमेवाभिसम्पद्यते तस्मादेकवीरः एको ह तु सन्वीरो वीर्यवान्भवति आ हास्यैको वीरो वीर्यवान्जायते य एवं वेद ९ तदु होवाच शाट्यायनिर्बहुपुत्र एष उद्गीथ इत्येवोपासितव्यं बहवो ह्येत आदित्यस्य रश्मयस्तेऽस्य पुत्राः तस्माद्बहुपुत्र एष उद्गीथ इत्येवोपासितव्यमिति तृतीयेऽनुवाके तृतीयः खण्डः
१० ९

तृतीयोऽनुवाकस्समाप्तः
     
2.4.1

देवासुरास्समयतन्तेत्याहुः न ह वै तद्देवासुरास्सम्येतिरे प्रजापतिश्च ह वै तन्मृत्युश्च सम्येताते १ तस्य ह प्रजापतेर्देवाः प्रियाः पुत्रा अन्त आसुः तेऽध्रियन्त तेनोद्गात्रा दीक्षामहै येनापहत्य मृत्युमपहत्य पाप्मानं स्वर्गं लोकमियामेति २ तेऽब्रुवन्वाचोद्गात्रा दीक्षामहा इति ३ ते वाचोद्गात्रादीक्षन्त तेभ्य इदं वागा-गायद्यदिदं वाचा वदति यदिदं वाचा भुञ्जते ४ ताम्पाप्मान्वसृज्यत स यदेव वाचा पापं वदति स एव स पाप्मा ५ तेऽब्रुवन्न वै नोऽयम्मृत्युं न पाप्मा-नमत्यवाक्षीत् मनसोद्गात्रा दीक्षामहा इति ६ ते मनसोद्गात्रादीक्षन्त तेभ्य इद-म्मन आगायद्यदिदम्मनसा ध्यायति यदिदम्मनसा भुञ्जते ७ तत्पाप्मा-न्वसृज्यत स यदेव मनसा पापं ध्यायति स एव स पाप्मा ८ तेऽब्रुवन्नो न्वाव नोऽयम्मृत्युं न पाप्मानमत्यवाक्षीत् चक्षुषोद्गात्रा दीक्षामहा इति ९ ते चक्षुषो-द्गात्रादीक्षन्त तेभ्य इदं चक्षुरागायद्यदिदं चक्षुषा पश्यति यदिदं चक्षुषा भुञ्जते १० तत्पाप्मान्वसृज्यत स यदेव चक्षुषा पापम्पश्यति स एव स पाप्मा ११ तेऽब्रुवन्नो न्वाव नोऽयम्मृत्युं न पाप्मानमत्यवाक्षीत् श्रोत्रेणोद्गात्रा दीक्षामहा इति १२ ते श्रोत्रेणोद्गात्रादीक्षन्त तेभ्य इदं श्रोत्रमागायद्यदिदं श्रोत्रेण शृणोति यदिदं श्रोत्रेण भुञ्जते १३ तत्पाप्मान्वसृज्यत स यदेव श्रोत्रेण पापं शृणोति स एव स पाप्मा १४ तेऽब्रुवन्नो न्वाव नोऽयम्मृत्युं न पाप्मानमत्यवाक्षीत् प्राणेनोद्गात्रा दीक्षामहा इति १५ ते प्राणेनोद्गात्रादीक्षन्त तेभ्य इदम्प्राण आगायद्यदिदम्प्राणेन प्राणिति यदिदम्प्राणेन भुञ्जते १६ तम्पाप्मान्वसृज्यत स यदेव प्राणेन पापम्प्रा-णिति स एव स पाप्मा १७ तेऽब्रुवन्नो न्वाव नोऽयम्मृत्युं न पाप्मानमत्यवाक्षीत् अनेन मुख्येन प्राणेनोद्गात्रा दीक्षामहा इति १८ तेऽनेन मुख्येन प्राणेनो-द्गात्रादीक्षन्त १९ सोऽब्रवीन्मृत्युरेष एषां स उद्गाता येन मृत्युमत्येष्यन्तीति २० न ह्येतेन प्राणेन पापं वदति न पापं ध्यायति न पापम्पश्यति न पापं शृणोति न पापं गन्धमपानिति २१ तेनापहत्य मृत्युमपहत्य पाप्मानं स्वर्गं लोकमाय-
न्नपहत्य हैव मृत्युमपहत्य पाप्मानं स्वर्गं लोकमेति य एवं वेद २२ १०

इति चतुर्थेऽनुवाके प्रथमः खण्डः
   
2.4.2

स यथा हत्वा प्रमृद्यातीयादेवमेवैतम्मृत्युमत्यायन् १ स वाचम्प्रथमाम-त्यवहत्ताम्परेण मृत्युं न्यदधात् सोऽग्निरभवत् २ अथ मनोऽत्यवहत्तत्परेण मृत्युं न्यदधात् स चन्द्र मा अभवत् ३ अथ चक्षुरत्यवहत्तत्परेण मृत्युं न्यदधात् स आदित्योऽभवत् ४ अथ श्रोत्रमत्यवहत्तत्परेण मृत्युं न्यदधात्ता इमा दिशो-ऽभवन्ता उ एव विश्वे देवाः ५ अथ प्राणमत्यवहत्तम्परेण मृत्युं न्यदधात् स वायुरभवत् ६ अथात्मने केवलमेवान्नाद्यमागायत ७ स एष एवायास्यः आस्ये धीयते तस्मादयास्यः यद्वेवा यमास्ये रमते तस्माद्वेवायास्यः ८ स एष एवाङ्गिरसः अतो हीमान्यङ्गानि रसं लभन्ते तस्मादाङ्गिरसः यद्वेवैषामङ्गानां रसस्तस्माद्वेवाङ्गिरसः ९ तं देवा अब्रुवन्केवलं वा आत्मनेऽन्नाद्यमागासीः अनु न एतस्मिन्नन्नाद्य आभज एतदस्यानामयत्वमस्तीति १० तं वै प्रविशतेति स वा आकाशान्कुरुष्वेति स इमान्प्राणानाकाशानकुरुत ११ तं वागेव भूत्वाग्निः प्राविशन्मनो भूत्वा चन्द्र माश्चक्षुर्भूत्वादित्यश्श्रोत्रम्भूत्वा दिशः प्राणो भूत्वा वायुः १२ एषा वै दैवी परिषद्दैवी सभा दैवी संसत् १३ गच्छति ह
वा एतां दैवीम्परिषदं दैवीं सभां दैवीं संसदं य एवं वेद १४ ११

इति चतुर्थेऽनुवाके द्वितीयः खण्डः
    
2.4.3

यत्रो ह वै क्व चैता देवता निस्पृशन्ति न हैव तत्र कश्चन पाप्मा न्यङ्गः परिशिष्यते १ स विद्यान्नेह कश्चन पाप्मा न्यङ्गः परिशेक्ष्यते सर्वमेवैता देवताः पाप्मानं निधक्ष्यन्तीति तथा हैव भवति २ य उ ह वा एवंविदमृच्छति यथैता देवता ऋत्वा नीयादेवं न्येति एतासु ह्येवैनं देवतासु प्रपन्नमेतासु वसन्तमुपवदति ३ तस्य हैतस्य नैव का चनार्तिरस्ति य एवं वेद य एवैनमुपवदति स आर्तिमार्च्छति ४ स य एनमृच्छादेव ता देवता उपसृत्य ब्रूयादयम्मारत्स इमामार्तिं न्येत्विति तां हैवार्तिं न्येति ५ यावदावासा उ हास्येमे प्राणा अस्मिंल्लोक एतावदावासा उ हास्यैता देवता अमुष्मिंल्लोके भवन्ति ६ तस्मादु हैवं विद्वान्नैवागृहतायै बिभीयान्नालोकतायै एता मे देवता अस्मिंल्लो-के गृहान्करिष्यन्ति एता अमुष्मिंल्लोके भवन्ति तस्मादु लोकम्प्रदास्यन्तीति ७ तस्मादु हैवं विद्वान्नैवागृहतायै बिभीयान्नालोकतायै एता मे देवता अस्मिं-ल्लोके गृहेभ्यो गृहान्करिष्यन्ति स्वेभ्य आयतनेभ्य इति हैव विद्यादेता देवता अमुष्मिंल्लोके लोकम्प्रदास्यन्तीति ८ तस्मादु हैवं विद्वान्नैवागृहतायै बिभी-यान्नालोकतायै एता म एतदुभयं संनंस्यन्तीति हैव विद्यात्तथा हैव भवति ९ १२

इति चतुर्थेऽनुवाके तृतीयः खण्डः

चतुर्थोऽनुवाकस्समाप्तः
     
2.5.1

देवा वै ब्रह्मणो वत्सेन वाचमदुह्रन्नग्निर्ह वै ब्रह्मणो वत्सः १ सा या सा वाग्ब्रह्मैव तत् अथ योऽग्निर्मृत्युस्सः २ तामेतां वाचं यथा धेनुं वत्सेनोपसृज्य प्रत्तां दुहीतैवमेव देवा वाचं सर्वान्कामानदुह्रन् ३ दुहे ह वै वाचं सर्वान्कामान्य एवं वेद स हैषोऽनानृतो वाचं देवीमुदिन्धे वद वद वदेति ४ तद्यदिह पुरुषस्य पापं कृतम्भवति तदाविष्करोति यदिहैनदपि रहसीव
कुर्वन्मन्यतेऽथ हैनदाविरेव करोति तस्माद्वाव पापं न कुर्यात् ५ १३

इति पञ्चमेऽनुवाके प्रथमः खण्डः
   
2.5.2

एष उ ह वाव देवानां नेदिष्ठमुपचर्यो यदग्निः १ तं साधूपचरेत् य एनमस्मिं-ल्लोके साधूपचरति तमेषोऽमुष्मिंल्लोके साधूपचरति अथ य एनमस्मिंल्लोके नाद्रि यते तमेषोऽमुष्मिंल्लोके नाद्रि यते तस्माद्वा अग्निं साधूपचरेत् २ तं नैव हस्ताभ्यां स्पृशेन्न पादाभ्यां न दण्डेन ३ हस्ताभ्यां स्पृशति यदस्यान्तिक-मवनेनिक्ते अथ यदभिप्रसारयति तत्पादाभ्याम् ४ स एनमास्पृष्त ईश्वरो
दुर्धायां धातोः तस्माद्वा अग्निं साधूपचरति सुधायां हैवैनं दधाति ५ १४

इति पञ्चमेऽनुवाके द्वितीयः खण्डः
   
2.5.3

एष उ ह वाव देवानाम्महाशनतमो यदग्निः १ तन्न व्रत्यमददानोऽश्नीयात् यो वै महाशनेऽनश्नत्यश्नातीश्वारो हैनमभिषङ्क्तोः पूतिमिव हाश्नीयात् २ अथो ह प्रोक्तेऽशने ब्रूयात्समिन्त्स्वाग्निमिति स यथा प्रोक्तेऽशने श्रेयांसम्परिवेष्टवै ब्रूयात्तादृक्तत् ३ एतदु ह वाव साम यद्वाक् यो वै चक्षुस्साम श्रोत्रं सामेत्युपास्ते न ह तेन करोति ४ अथ य आदित्यस्साम चन्द्र मास्सामेत्युपास्ते न हैव तेन करोति ५ अथ यो वाक्सामेत्युपास्ते स एवानुष्ठ्या साम वेद वाचा हि साम्नार्त्विज्यं क्रियते ६ स यो वाचस्स्वरो जायते सोऽग्निर्वाग्वेव वाक् तदत्रैकधा साम भवति ७ स य एवमेतदेकधा साम भवद्वेदैवं हैतदेकधा साम भवतीत्येकधेव श्रेष्ठस्स्वानाम्भवति ८ तस्मादु हैवंविदमेव साम्नार्त्विज्यं कारयेत स ह वाव साम वेद य एवं वेद पञ्चमेऽनुवाके तृतीयः खण्डः ९ १५

पञ्चमोऽनुवाकस्समाप्तः
   
इति द्वितीयोऽध्यायः