प्रमुखा विकल्पसूचिः उद्घाट्यताम्

3.1.1

अथ तृतीयोऽध्यायः

एका ह वाव कृत्स्ना देवतार्धदेवता एवान्याः अयमेव योऽयम्पवते १ एष एव सर्वेषां देवानां ग्रहाः २ स हैषोऽस्तं नाम अस्तमिति हेह पश्चाद्ग्रहानाचक्षते ३ स यदादित्योऽस्तमगादिति ग्रहानगादिति हैतत्तेन सोऽसर्वः स एतमेवाप्येति ४ अस्तं चन्द्र मा एति तेन सोऽसर्वः स एतमेवाप्येति ५ अस्तं नक्षत्राणि यन्ति तेन तान्यसर्वाणि तान्येतमेवापियन्ति ६ अन्वग्निर्गच्छति तेन सोऽसर्वः स एतमेवाप्येति ७ एत्यहः एति रात्रिः तेन ते असर्वे ते एतमेवापीतः ८ मुह्यन्ति दिशो न वै ता रात्रिम्प्रज्ञायन्ते तेन ता असर्वाः ता एतमेवापियन्ति ९ वर्षति च पर्जन्य उच्च गृह्णाति तेन सोऽसर्वः स एतमेवाप्येति १० क्षीयन्त आप एव-मोषधय एवं वनस्पतयः तेन तान्यसर्वाणि तान्येतमेवापियन्ति ११ तद्यदेतत्सर्वं वायुं एवाप्येति तस्माद्वायुरेव साम १२ स ह वै सामवित्स कृत्स्नं साम वेद य एवं वेद १३ अथाध्यात्मं न वै स्वपन्वाचा वदति सेयमेव प्राणमप्येति १४ न मनसा ध्यायति तदिदमेव प्राणमप्येति १५ न चक्षुषा पश्यति तदिदमेव प्राणमप्येति १६ न श्रोत्रेण शृणोति तदिदमेव प्राणमप्येति १७ तद्यदेत-त्सर्वम्प्राणमेवाभिसमेति तस्मात्प्राण एव साम १८ स ह वै सामवित्स कृत्स्नं साम वेद य एवं वेद १९ तद्यदिदमाहुर्न बताद्य वातीति स हैतत्पुरु-षेऽन्तर्निरमते स पूर्णस्स्वेदमान आस्ते २० तद्ध शौनकं च कापेयमभिप्रतारिणं
च काक्षसेनिम्ब्राह्मणः परिवेविष्यमाणा उपावव्राज २१ १

इति प्रथमेऽनुवाके प्रथमः खण्डः
     
3.1.2

तौ ह बिभिक्षे तं ह नादद्रा ते को वा को वेति मन्यमानौ १ तौ होपजगौ महात्मनश्चतुरो देव एकः कस्स जगार भुवनस्य गोपाः तं कापेय न विजा-नन्त्येकेऽभिप्रतारिन्बहुधा निविष्टमिति २ स होवाचाभिप्रतारीमं वाव प्रपद्य प्रतिब्रूहीति त्वया वा अयम्प्रत्युच्य इति ३ तं ह प्रत्युवाच आत्मा देवानामुत मर्त्यानां हिरण्यदन्तो रपसो न सूनुः महान्तमस्य महिमानमाहुरनद्यमानो यददन्तमत्तीति ४ महात्मनश्चतुरो देव एक इति वाग्वा अग्निः स महात्मा देवः स यत्र स्वपिति तद्वाचम्प्राणो गिरति ५ मनश्चन्द्र मास्स महात्मा देवः स यत्र स्वपिति तन्मनः प्राणो गिरति ६ चक्षुरादित्यस्स महात्मा देवः स यत्र स्वपिति तच्चक्षुः प्राणो गिरति ७ श्रोत्रं दिशस्ता महात्मानो देवाः स यत्र स्वपिति तच्छ्रोत्रम्प्राणो गिरति ८ तद्यन्महात्मनश्चतुरो देव एक इत्येतद्ध तत् ९ कस्स जगारेति प्रजापतिर्वै कः स हैतज्जगार १० भुवनस्य गोपा इति स उ वाव भुवनस्य गोपाः ११ तं कापेय न विजानन्त्येक इति न ह्येतमेके विजा-नन्ति १२ अभिप्रतारिन्बहुधा निविष्टमिति बहुधा ह्येवैष निविष्टो यत्प्राणः १३ आत्मा देवानामुत मर्त्यानामिति आत्मा ह्येष देवानामुत मर्त्यानाम् १४ हिरण्यदन्तो रपसो न सूनुरिति न ह्येष सूनुः सूनुरूपो ह्येष सन्न सूनुः १५ महान्तमस्य महिमानमाहुरिति महान्तं ह्येतस्य महिमानमाहुः १६ अनद्यमानो
यददन्तमत्तीति अनद्यमानो ह्येषोऽदन्तमत्ति १७ २

इति प्रथमेऽनुवाके द्वितीयः खण्डः
    
3.1.3

तस्यैष श्रीरात्मा समुद्रूढो यदसावादित्यः तस्माद्गायत्रस्य स्तोत्रेणावान्यान्नेच्छ्रिया अवछिद्या इति १ स एष एवोक्थं यत्पुरस्तादवानिति तदेतदुक्थस्य शिरो यद्दक्षिणतस्स दक्षिणः पक्षो यदुत्तरतस्स उत्तरः पक्षो यत्पश्चात्तत्पुच्छम् २ अयमेव प्राण उक्थस्यात्मा स य एवमेतमुक्थस्यात्मानमात्मन्प्रतिष्ठितं वेद स हामुष्मिंल्लोके साङ्गस्सतनुस्सर्वस्सम्भवति ३ शश्वद्ध वा अमुष्मिंल्लोके यदिदम्पुरुषस्याण्डौ शिश्नं कर्णौ नासिके यत्किं चानस्थिकं न सम्भवति ४ अथ य एवमेतमुक्थस्यात्मानमात्मन्प्रतिष्ठितं वेद स हैवामुष्मिंल्लोके साङ्गस्सतनुस्सर्वस्सम्भवति ५ तदेतद्वैश्वामित्रमुक्थं तदन्नं वै विश्वम्प्राणो मित्रम् ६ तद्ध विश्वामित्रश्श्रमेण तपसा व्रतचर्येणेन्द्र स्य प्रियं धामोपजगाम ७ तस्मा उ हैतत्प्रोवाच यदिदम्मनुष्यानागतम् ८ तद्ध स उपनिषसाद ज्योतिरे-तदुक्थमिति ९ ज्योतिरिति द्वे अक्षरे प्राण इति द्वे अन्नमिति द्वे तदेतदन्न एव प्रतिष्ठितम् १० अथ हैनं जमदग्निरुपनिषसादायुरेतदुक्थमिति ११ आयुरिति द्वे अक्षरे प्राण इति द्वे अन्नमिति द्वे तदेतदन्न एव प्रतिष्ठितम् १२ अथ हैनं वसिष्ठ उपनिषसाद गौरेतदुक्थमिति तदेतदन्नमेव अन्नं हि गौः १३ तदाहुर्यदस्य प्राणस्य पुरुषश्शरीरमथ केनान्ये प्रानाश्शरीरवन्तो भवन्तीति १४ स ब्रूयाद्यद्वाचा वदति तद्वाचश्शरीरं यन्मनसा ध्यायति तन्मनसश्शरीरं यच्चक्षुषा पश्यति तच्चक्षुषश्शरीरं यच्छ्रोत्रेण शृणोति तच्छ्रोत्रस्य शरीरमेवमु हान्ये
प्राणाश्शरीरवन्तो भवन्तीति १५ ३

इति प्रथमेऽनुवाके तृतीयः खण्डः
    
3.1.4

तदेतदुक्थं सप्तविधं शस्यते स्तोत्रियोऽनुरूपो धाय्या प्रगाथस्सूक्तं निवि-त्परिधानीया १ इयमेव स्तोत्रियोऽग्निरनुरूपो वायुर्धाय्यान्तरिक्षम्प्रगाथो द्यौ-स्सूक्तमादित्यो निवित्तस्माद्बह्वृचा उदिते निविदमधीयन्ते आदित्यो हि निवित् दिशः परिधानीयेत्यधिदेवतम् २ अथाध्यात्ममात्मैव स्तोत्रियः प्रजानुरूपः प्राणो धाय्या मनः प्रगाथश्शिरस्सूक्तं चक्षुर्निविच्छ्रोत्रम्परिधानीया ३ तद्धैतदेके त्रिष्टुभा परिदधत्यनुष्टुभैके त्रिष्टुभा त्वेव परिदध्यात् ४ तद्धैतदेक एता व्याहृतीरभिव्याहृत्य शंसन्ति महान्मह्या समधत्त देवो देव्या समधत्त ब्रह्म ब्राह्मण्या समधत्त तद्यत्समधत्त समधत्तेति ५ तस्मादिदानीम्पुरुषस्य शरीराणि प्रतिसंहितानि पुरुषो ह्येतदुक्थम् ६ महान्मह्या समधत्तेति अग्निर्वै महानियमेव मही ७ देवो देव्या समधत्तेति वायुर्वै देवोऽन्तरिक्षं देवी ८ ब्रह्म ब्राह्मण्या समधत्तेति आदित्यो वै ब्रह्म द्यौर्ब्राह्मणी ९ तासां वा एतासां देवतानां द्वयोर्द्वयोर्देवतयोर्नवनवाक्षराणि सम्पद्यन्ते एतदिमे लोकास्त्रिणवा भवन्ति १० तद्ब्रह्म वै त्रिवृत्तद्ब्रह्माभिव्याहृत्य शंसन्ति एष उ एव स्तोमस्सोऽनुचरः ११ यदिममाहुरेकस्तोम इत्ययमेव योऽयम्पवते एषोऽधिदेवतं प्राणोऽध्यात्मं तस्य
शरीरमनुचरः १२ तद्यथा ह वै मणौ मणिसूत्रं सम्प्रोतं स्याद् १३ ४

इति प्रथमेऽनुवाके चतुर्थः खण्डः
  
3.1.5

एवं हैतस्मिन्सर्वमिदं सम्प्रोतं गन्धर्वाप्सरसः पशवो मनुष्याः १ तद्ध मुञ्जस्सा-मश्रवसः प्रययौ तस्मै ह श्वाजनिर्वैश्यः प्रेयाय २ तस्य हान्तरिक्षात्पतित्वा नवनीतपिण्ड उरसि निपपात तं हादायानुदधौ ३ ततो हैव स्तोमं ददर्शान्तरिक्षे विततम्बहु शोभमानं तस्यो ह युक्तिं ददर्श ४ बहिष्पवमानमासद्य टीत्र वियि प्राण्य इति कूर्यात्टीत्र गृहित्र अपान्य इति वाचा दिदृक्षेतैवाक्षिभ्यं शुश्रूषेतैव कर्णाभ्यां स्वयमिदम्मनोयुक्तम् ५ तद्यत्र वा इषुरत्यग्रो भवति न वै स ततो हिनस्ति तदु वा एतं नोपाप्नुयात् प इत्येवापान्यात्तद्यथा बिम्बेन मृगमानयेदेवमेवैनमेतया देवतयानयति स युक्तः करोति एष एवापि युक्तः ६ ५

इति प्रथमेऽनुवाके पञ्चमः खण्डः
 
प्रथमोऽनुवाकस्समाप्तः

3.2.1

योऽसौ साम्नः प्रत्तिं वेद प्र हास्मै दीयते १ ददा इति ह वा अयमग्निर्दीप्यते तथेति वायुः पवते हन्तेति चन्द्र मा ओमित्यादित्यः २ एषा ह वै साम्नः प्रत्तिः एतां ह वै साम्नः प्रत्तिं सुदक्षिणः क्षैमिर्विदां चकार ३ तां हैतां होतुर्वाज्ये गायेन्मैत्रावरुणस्य वा तां ददा३ तथा३ हन्ता३ हिम्भा ओवा इति प्र ह वा अस्मै दीयते ४ सोऽप्यन्यान्बहूनुपर्युपरि य एवमेतां साम्नः प्रत्तिं वेद ५ य उ ह वा अबन्धुर्बन्धुमत्साम वेद यत्र हाप्येनं न विदुर्यत्र रोषन्ति यत्र परीव चक्षते तद्धापि श्रैष्ठ्यमाधिपत्यमन्नाद्यम्पुरोधाम्पर्येति ६ अग्निर्ह वा अबन्धुर्बन्धुमत्साम कस्माद्वा ह्येनं दार्वोः कस्माद्वा पर्यावृत्य मन्थन्ति स श्रैष्ठ्यायाधिपत्याया-न्नाद्याय पुरोधायै जायते ७ स यत्र ह वा अप्येवंविदं न विदुर्यत्र रोषन्ति यत्र परीव चक्षते तद्धापि श्रैष्ठ्यमाधिपत्यमन्नाद्यम्पुरोधाम्पर्येति ८ ६

इति द्वितीयेऽनुवाके प्रथमः खण्डः
   
3.2.2

स्वयमु तत्र यत्रैनं विदुः १ सुदक्षिणो ह वै क्षैमिः प्राचीनशालिर्जाबालौ ते ह सब्रह्मचारिण आसुः २ ते हेमे बहु जप्यस्य चान्यस्य चानूचिरे प्राचीनशा-लिश्च जाबालौ च ३ अथ ह स्म सुदक्षिणः क्षैमिर्यदेव यज्ञस्याञ्जो यत्सुविदितं तद्ध स्मैव पृच्छति ४ त उ ह वा अपोदिता व्याक्रोशमानाश्चेरुश्शूद्रो दुरनूचान ह स्म सुदक्षिणं क्षैमिमाक्रोशन्ति प्राचीनशालिश्च जाबालौ च ५ स ह स्माह सुदक्षिणः क्षैमिर्यत्र भूयिष्ठाः कुरुपञ्चालास्समाअता भवितारस्तन्न एष संवादो नानुपदृष्टे शूद्रा इव संवदिष्यामह इति ६ ता उ ह वै जाबालौ दि-दीक्षाते शुक्रश्च गोश्रुश्च तयोर्ह प्राचीनशालिर्वृत उद्गाता ७ स तद्ध सुदक्षि-णोऽनुबुबुधे जाबालौ हादीक्षिषातामिति स ह संग्रहीतारमुवाचानयस्वारे जाबालौ हादीक्षिषातां तद्गमिष्याव इति ८ ७

इति द्वितीयेऽनुवाके द्वितीयः खण्डः

3.2.3

तस्य ह ज्ञातिका अश्रुमुखा इवासुरन्यतरां वा अयमुपागादिति १ अथ ह स्म वै यः पुरा ब्रह्मवाद्यं वदत्यन्यतरामुपागादिति ह स्मैनम्मन्यन्ते अथो ह स्मै-नम्मृतमिवैवोपासते २ तं ह संग्रहीतोवाचाथ यद्भगवस्ते ताभ्यां न कुशलं कथेत्थमात्थेति ३ ओमिति होवाच गन्तव्यम्म आचार्यस्सुयमानमन्यतेति ४ स ह रथमास्थाय प्रधावयां चकार तं ह स्म प्रतीक्षन्ते ५ कं जानीतेति सुदक्षिण इति न वै नूनं स इदमभ्यवेयादिति स एवेति ६ स ह सोपानादेवान्त-र्वेद्यवस्थायोवाचाङ्ग न्वित्थं गृहपता३ इति तं ह नानूदतिष्ठासत् स होवाचा-नूत्थाता म एधि कृष्णाजिनोऽसी ति तदिमे कुरुपञ्चाला अविदुरनूत्थातैव त इति होचुः ७ तं ह कनीयान्भ्रातोवाचानूत्तिष्ठ भगव उद्गातारमिति तं हानूत्तस्थौ ८ स होवाच त्रिर्वै गृहपते पुरुषो जायते पितुरेवाग्रेऽधि जायतेऽथ मातुरथ यज्ञात् ९ त्रिर्वेव म्रियत इति स यद्ध वा एनमेतत्पिता योन्यां रेतो भूतं सिञ्चति
१० ८

इति द्वितीयेऽनुवाके तृतीयः खण्डः
     
3.2.4

तत्प्रथमम्म्रियते १ अन्धमिव वै तमो योनिः लोहितस्तोको वा वै स तदा-भवत्यपां वा स्तोकः किं हि स तदाभवति २ स यस्तां देवतां वेद यां च स ततोऽनुसम्भवति या चैनं तम्मृत्युमतिवहति स उद्गाता मृत्युमतिवहतीति ३ अथ य एनमेतद्दीक्षयन्ति तद्द्वितीयम्म्रियते वपन्ति केशश्मश्रूणि निकृन्तन्ति नखान्प्रत्यञ्जन्त्यङ्गानि प्रत्यचत्यङ्गुलीः अपवृतोऽपवेष्टित आस्ते न जुहोति न यजते न योषितं चरति अमानुषीं वाचं वदति मृतस्य वावैष तदा रूपम्भवति ४ स यस्तां देवतां वेद यां च स ततोऽनुसम्भवति या चैनं तम्मृत्युमतिवहति स उद्गाता मृत्युमतिवहतीति ५ अथ य एनमेतदस्माल्लोकात्प्रेतं चित्या-मादधति तद्तृतीयम्म्रियते ६ स यस्तां देवतां वेद यां च स ततोऽनुसम्भवति या चैनं तम्मृत्युमतिवहति स उद्गाता मृत्युमतिवहतीति ७ एतावद्धैवोक्त्वा रथमास्थाय प्रधावयां चकार ८ तं ह जाबालम्प्रत्येतं कनीयान्भ्रातोवाच का-म्भवञ्छूद्र को वाचमवादीति हस्तिना गाधमैषीरिति ९ प्र हैवैनं तच्छशंस यः कथमवोचद्भगव इति यस्त्रयाणाम्मृत्यूनां साम्नातिवाहं वेद स उद्गाता
मृत्युमतिवहतीति १० ९

इति द्वितीयेऽनुवाके चतुर्थः खण्डः
 
3.2.5

तं वाव भगवस्ते पितोद्गातारममन्यतेति होवाच तदु ह प्राचीनशाला विदुर्य एषामयं वृत उद्गातास तस्मिन्ह नानुविदुः १ ते होचुरनुधावत काण्ड्वियमिति तं हानुसस्रुः ते ह काण्ड्वियमुद्गातारं चक्रिरे ब्रह्माणम्प्राचीनशालिम् २ तं हाभ्यवेक्ष्योवाचैवमेष ब्राह्मणो मोघाय वादाय नाग्लायत् स नाणु सा-म्नोऽन्विच्छतीति अति हैवैनं तच्चक्रे ३ स यद्ध वा एनमेतत्पिता योन्यां रेतो भूतं सिञ्चत्यादित्यो हैनं तद्योन्यां रेतो भूतं सिञ्चति स हास्य तत्र मृत्योरीशे ४ अथो यदेवैनमेतत्पिता योन्यां रेतो भूतं सिञ्चति तद्ध वाव स ततोऽनुसम्भवति प्राणं च यदा ह्येव रेतस्सिक्तम्प्राण आविशत्यथ तत्सम्भवति ५ अथो यदेवैनमेतद्दीक्षयन्त्यग्निर्हैवैनं तद्योन्यां रेतो भूतं सिञ्चति स हैवास्य तत्र मृत्योरीशे ६ अथो यामेवैतां वैसर्जनीयामाहुतिमध्वर्युर्जुहोति तामेव स ततोऽनुसम्भवति छन्दांसि चैव ७ अथ य एनमेतदस्माल्लोकात्प्रेतं चित्यामादधति चन्द्र मा हैवैनं तद्योन्यां रेतो भूतां सिञ्चति स उ हैवास्य तत्र मृत्योरीशे ८ अथो यदेवैनमेतदस्माल्लोकात्प्रेतं चित्यामादधत्यथो या एवैता अवोक्षणीया आपस्ता एव स ततोऽनुसम्भवति प्राणम्वेव प्राणो ह्यापः ९ तं ह वा एवंवि-दुद्गाता यजमानमोमित्येतेनाक्षरेणादित्यम्मृत्युमतिवहति वागित्यग्निं हुमिति वायुम्भा इति चन्द्र मसम् १० तान्वा एतान्मृत्यून्साम्नोद्गातात्मानं च यजमानं चातिवहत्योमित्येतेनाक्षरेण प्राणेनामुनादित्येन ११ तस्यैष श्लोक उतैषां ज्येष्ठ उत वा कनिष्ठ उतैषाम्पुत्र उत वा पितैषामेको ह देवो मनसि प्रविष्टः पूर्वो ह जज्ञे स उ गर्भेऽन्तरिति १२ तद्यदेषोऽभ्युक्त इममेव पुरुषं योऽयमाछन्नोऽन्तरो-
मित्येतेनैवाक्षरेण प्राणेनैवामुनैवादित्येन १३ १०

इति द्वितीयेऽनुवाके पञ्चमः खण्डः

द्वितीयोऽनुवाकस्समाप्तः
   
3.3.1

त्रिर्ह वै पुरुषो म्रियते त्रिर्जायते १ स हैतदेव प्रथमम्म्रियते यद्रे तस्सिक्तं सम्भूत-म्भवति स प्राणमेवाभिसम्भवति आशामभिजायते २ अथैतद्द्वितीयम्म्रियते यद्दीक्षते स छन्दांस्येवाभिसम्भवति दक्षिणामभिजायते ३ अथैतत्तृतीयम्म्रियते यन्म्रियते स श्रद्धामेवाभिसम्भवति लोकमभिजायते ४ तदेतत्त्र्! यावृद्गायत्रं गायति तस्य प्रथमयावृतेममेव लोकं जयति यदु चास्मिंल्लोके तदेतेन चैनम्प्राणेन समर्धयति यमभिसम्भवत्येतां चास्मा आशाम्प्रयच्छति याम-भिजायते ५ अथ द्वितीययावृतेदमेवान्तरिक्षं जयति यदु चान्तरिक्षे तदेतैश्चैनं छन्दोभिस्समर्धयति यान्यभिसम्भवति एतां चास्मै दक्षिणाम्प्रयच्छति यामभिजायते ६ अथ तृतीययावृतामुमेव लोकंजयति यदु चामुष्मिंल्लोके तदेतया चैनं श्रद्धया समर्धयति ययैवैनमेतच्छ्रद्धयाग्नावभ्यादधति समयमि
तो भविष्यतीति एतं चास्मै लोकम्प्रयच्छति यमभिजायते ७ ११

इति तृतीयेऽनुवाके प्रथमः खण्डः
   
3.3.2

एतद्वै तिसृभिरावृद्भिरिमांश्च लोकाञ्जयत्येतैश्चैनम्भूतैस्समर्धयति यान्यभिस-म्भवति १ अथ वा अतो हिङ्कारस्यैव तं ह स्वर्गे लोके सन्तम्मृत्युरन्वेत्यशनया २ श्रीर्वा एषा प्रजापतिस्साम्नो यद्धिङ्कारः तमिदुद्गाता श्रिया प्रजापतिना हिङ्कारेण मृत्युमपसेधति ३ हुम्मेत्याह मात्र नु गा यत्रैतद्यजमान इति हैतत् ४ स यथा श्रेयसा सिद्धः पापीयान्प्रतिविजत एवं हैवास्मान्मृत्युः पाप्मा प्रतिविजते ५ यन्मेत्याह चन्द्र मा वै मा मासः एष ह वै मा मासः तस्मान्मेत्याह भा इति हैतत्परोक्षेणेव यस्माद्वेव मेत्याह यद्वेव मेत्याहैतानि त्रीणि तस्मान्मेत्य्ब्रूयात् ६ १२

इति तृतीयेऽनुवाके द्वितीयः खण्डः
   
3.3.3

हुम्भा इति ब्रह्मवर्चसकामस्य भतीव हि ब्रह्मवर्चसम् १ हुम्बो इति पशुकामस्य बो इति ह पशवो वाश्यन्ते २ हुम्बगिति श्रीकामस्य बगिति ह श्रियम्पणायन्ति ३ हुम्भा ओवा इत्येतदेवोपगीतम् ४ महदिवाभिपरिवर्तयन्गायेदिति ह स्माह नाको महाग्रामो महानिवेशो भवतीति स यथा स्थाणुमर्पयित्वेतरेण वेतरेण वा परियायात्तादृक्तत् ५ तदु होवाच शाट्यायनिः कस्मै कामाय स्थाणुमर्पयेत् अथोपगीतमेवैतत् नैवैतदाद्रि येतेति ६ इति नु हिङ्कारानां अथ वा अतो निध-नमेव ओवा इति द्वे अक्षरे अन्तो वै साम्नो निधनमन्तस्स्वर्गो लोकानामन्तो ब्रध्नस्य विष्टपम् ७ तमेतदुद्गाता यजमानमोमित्येतेनाक्षरेणान्ते स्वर्गे लोके दधाति ८ य उ ह वा अपक्षो वृक्षाग्रं गच्छत्यव वै स ततः पद्यते अथ यद्वै पक्षी वृक्षाग्रे यदसिधारायां यत्क्षुरधारायामास्ते न वै स ततोऽवपद्यते पक्षाभ्यां हि संयत आस्ते ९ तमेतदुद्गाता यजमानमोमित्येतेनाक्षरेण स्वरपक्षं कृत्वान्ते स्वर्गे लोके दधाति स यथा पक्ष्यबिभ्यदासीतैवमेव स्वर्गे लोकेऽबिभ्य-दास्तेऽथाचरति १० ते ह वा एते अक्षरे देवलोकश्चैव मनुष्यलोकश्च आदित्यश्च ह वा एते अक्षरे चन्द्र माश्च ११ आदित्य एव देवलोकश्चन्द्र मा मनुष्यलोकः ओमित्यादित्यो वागिति चन्द्र माः १२ तमेतदुद्गाता यजमानमोमित्येतेनाक्षरे-णादित्यं देवलोकं गमयति १३ १३

इति तृतीयेऽनुवाके तृतीयः खण्डः
  
3.3.4

तं हागतम्पृच्छति कस्त्वमसीति स यो ह नाम्ना वा गोत्रेण वा प्रब्रूते तं हाह यस्तेऽयम्मय्यात्माभूदेष ते स इति १ तस्मिन्हात्मन्प्रतिपत्तमृतवस्सम्पदार्य-पद्गृहीतमपकर्षन्ति तस्य हाहोरात्रे लोकमाप्नुतः २ तस्मा उ हैतेन प्रब्रुवीत कोऽहमस्मि सुवस्त्वं स त्वां स्वर्ग्यं स्वरगामिति ३ को ह वै प्रजापतिरथ हैवंविदेव सुवर्गः स हि सुवर्गच्छति ४ तं हाह यस्त्वमसि सोऽहमस्मि योऽहमस्मि स त्वमस्येहीति ५ स एतमेव सुकृतरसम्प्रविशति यदु ह वा अस्मिंल्लोके मनुष्या यजन्ते यत्साधु कुर्वन्ति तदेषामूर्ध्वमन्नाद्यमुत्सीदति तदमुं चन्द्र मसम्मनुष्यलोकम्प्रविशति ६ तस्येदम्मानुषनिकाशनमण्डमुदरेऽन्तस्स-म्भवति तस्योर्ध्वमन्नाद्यमुत्सीदति स्तनावभि स यदाजायतेऽथास्मै माता स्तनमन्नाद्यम्प्रयच्छति ७ अजातो ह वै तावत्पुरुषो यावन्न यजते स यज्ञेनैव जायते स यथाण्डम्प्रथमनिर्भिण्णमेवमेव ८ तदा तं ह वा एवंविदुद्गाता यजमानमोमित्येतेनाक्षरेणादित्यं देवलोकं गमयति वागित्यस्मा उत्तरेणाक्षरेण चन्द्र मसमन्नाद्यमक्षितिम्प्रयच्छति ९ अथ यस्यैतदविद्वानुद्गायति न हैवैनं देव-लोकं गमयति नो एनमन्नाद्येन समर्धयति १० स यथाण्डं विदिग्धं शयी-तान्नाद्यमलभमानमेवमेव विदिग्धश्शेतेऽन्नाद्यमलभमानः ११ तस्मादु हैवंविदमेवोद्गापयेत एवंविदिहैवोद्गातरिति हूतः प्रतिशृणुयात् १२ १४

इति तृतीयेऽनुवाके पञ्चमः खण्डः

तृतीयोऽनुवाकस्समाप्तः
   
3.4.1

वागिति हेन्द्रो विश्वामित्रायोक्थमुवाच तदेतद्विश्वामित्रा उपासते वाचमेव १ मनुर्ह वसिष्ठाय ब्रह्मत्वमुवाच तस्मादाहुर्वासिष्ठमेव ब्रह्मेति २ तदु वा आहु-रेवंविदेव ब्रह्मा क उ एवंविदं वासिष्ठमर्हतीति ३ प्रजापतिः प्राजिजनिषत स तपोऽतप्यत स ऐक्षत हन्त नु प्रतिष्ठां जनयै ततो याः प्रजास्स्रक्ष्ये ता एतदेव प्रतिष्ठास्यन्ति नाप्रतिष्ठाश्चरन्तीः प्रदघिष्यन्त इति ४ स इमं लोकमजनय-दन्तरिक्षलोकममुं लोकमिति तानिमांस्त्रींल्लोकाञ्जनयित्वाभ्यश्राम्यत् ५ तान्समतपत्तेभ्यस्संतप्तेभ्यस्त्रीणि शुक्राण्युदायन्नग्निः पृथिव्या वायुरन्तरिक्षा-दादित्यो दिवः ६ स एतानि शुक्राणि पुनरभ्येवातपत्तेभ्यस्संतप्तेभ्यस्त्रीण्येव शुक्राण्युदायन्नृग्वेद एवाग्नेर्यजुर्वेदो वायोस्सामवेद आदित्यात् ७ स एतानि शुक्राणि पुनरभ्येवातपत्तेभ्यस्संतप्तेभ्यस्त्रीण्येव शुक्राण्युदायन्भूरित्येवर्ग्वेदा-द्भुव इति यजुर्वेदात्स्वरिति सामवेदात्तदेव ८ तद्ध वै त्रय्यै विद्यायै शुक्र-मेतावदिदं सर्वं स यो वै त्रयीं विद्यां विदुषो लोकस्सोऽस्य लोको भवति य
एवं वेद ९ १५

इति चतुर्थेऽनुवाके प्रथमः खण्डः
 
3.4.2

अयं वाव यज्ञो योऽयम्पवते तस्य वाक्च मनश्च वर्तन्यौ वाचा च ह्येष एतन्मनसा च वर्तते १ तस्य होताध्वर्युरुद्गातेत्यन्यतरां वाचा वर्तनिं संस्कुर्वन्ति तस्मात्ते वाचा कुर्वन्ति ब्रह्मैव मनसान्यतरां तस्मात्स तूष्णीमास्ते २ स यद्ध सोऽपि स्तूयमाने वा शस्यमाने वा वावद्यमान आसीतान्यतरामेवास्यापि तर्हि स वाचा वर्तनिं संस्कुर्यात् ३ स यथा पुरुष एकपाद्यन्भ्रेषन्नेति रथो वैकचक्रो वर्तमान एवमेव तर्हि यज्ञो भ्रेषन्नेति ४ एतद्ध तद्विद्वान्ब्राह्मण उवाच ब्रह्माण-म्प्रातरनुवाक उपाकृते वावद्यमानमासीनमर्धं वा इमे तर्हि यज्ञस्यान्तरगुरिति अर्धं हि ते तर्हि यज्ञस्यान्तरीयुः ५ तस्माद्ब्रह्मा प्रातरनुवाक उपाकृते वाचंयम आसीतापरिधानीयाया आ वषट्कारादितरेषां स्तुतशस्त्राणामेवासंस्थायै पवमानानाम् ६ स यथा पुरुष उभयापाद्यन्भ्रेषं न न्येति रथो वोभयाचक्रो वर्तमान एवमेतर्हि यज्ञो भ्रेषं न न्येति ७ १६

इति चतुर्थेऽनुवाके द्वितीयः खण्डः
   
3.4.3

स यदि यज्ञ ऋक्तो भ्रेषन्नियाद्ब्रह्मणे प्रब्रूतेत्याहुः अथ यदि यजुष्टो ब्रह्मणे प्रब्रूतेत्याहुः अथ यदि सामतो ब्रह्मणे प्रब्रूतेत्याहुः अथ यदि अनुपस्मृतात्कुत इदमजनीति ब्रह्मणे प्रब्रूतेत्येवाहुः १ स ब्रह्मा प्राङुदेत्य स्रुवेणाग्नीध्र आज्यं जुहुयाद्भूर्भुवस्स्वरित्येताभिर्व्याहृतिभिः २ एता वै व्याहृतयस्सर्वप्रायश्चित्तयः तद्यथा लवणेन सुवर्णं संदध्यात्सुवर्णेन रजतं रजतेन त्रपु त्रपुणा लोहायसं लोहायसेन कार्ष्णायसं कार्ष्णायसेन दारु दारु च चर्म च श्लेष्मणैवमेवैवं विद्वांस्तत्सर्वम्भिषज्यति ३ तदाहुर्यदहौषीन्मे ग्रहान्मेऽग्रहीदित्यध्वर्यवे दक्षि-णा नयन्त्यशंसीन्मे वषडकर्म इति होत्र उदगासीन्म इत्युद्गात्रेऽथ किं चक्रुषे ब्रह्मणे तूष्णीमासीनाय समावतीरेवेतरैरृत्विग्भिर्दक्षिणा नयन्तीति ४ स ब्रूयादर्धभाग्घ वै स यज्ञस्यार्धं ह्येष यज्ञस्य वहतीति अर्धा ह स्म वै पुरा ब्रह्मणे दक्षिणा नयन्तीति अर्धा इतरेभ्य ऋत्विग्भ्यः ५ तस्यैष श्लोको मयीदम्मन्ये भुवनादि सर्वम्मयि लोका मयि दिशश्चतस्रः मयीदम्मन्ये निमिषद्यदेजति मय्याप ओषधयश्च सर्वा इति ६ मयीदम्मन्ये भुवनादि सर्वमित्येवंविदं ह वावेदं सर्वम्भुवनमन्वायत्तम् ७ मयि लोका मयि दिशश्चतस्र इत्येवंविदि ह वाव लोका एवंविदि दिशश्चतस्रः ८ मयीदम्मन्ये निमिषद्यदेजति मय्याप ओषधयश्च सर्वा इत्येवंविदि ह वावेदं सर्वम्भुवनम्प्रतिष्ठितम् ९ तस्मादु हैवंविदमेव ब्रह्माणं कुर्वीत स ह वाव ब्रह्मा य एवं वेद १० १७
 
इति चतुर्थेऽनुवाके तृतीयः खण्डः
   
3.4.4

अथ वा अतस्स्तोमभागानामेवानुमन्त्राः १ तद्धैतदेके स्तोमभागैरेवानुमन्त्रयन्ते तत्तथा न कुर्यात् २ देवेन सवित्रा प्रसूतः प्रस्तोतर्देवेभ्यो वाचमिष्येत्यु हैके-ऽनुमन्त्रयन्ते सविता वै देवानाम्प्रसविता सवित्रा प्रसूता इदमनुमन्त्रयामह इति वदन्तः तदु तथा न कुर्यात् ३ भूर्भुवस्स्वरित्यु हैकेऽनुमन्त्रयन्त एषा वै त्रयी विद्या त्रय्यैवेदं विद्ययानुमन्त्रयामह इति वदन्तः तदु तथा नो एव कुर्यात् ४ ओमित्येवानुमन्त्रयेत ५ अथैष वसिष्ठस्यैकस्तोमभागानुमन्त्रः तेन हैतेन वसिष्ठः प्रजातिकामोऽनुमन्त्रयां चक्रे देवेन सवित्रा प्रसूतः प्रस्तोतर्देवेभ्यो वाचमिष्य भूर्भुवस्स्वरोमिति ततो वै स बहुः प्रजया पशुभिः प्राजायत ६ स एव तेन वसिष्ठस्यैकस्तोमभागानुमन्त्रेणानुमन्त्रयेत बहुरेव प्रजया पशुभिः प्रजायते इयं त्वेव स्थितिरोमित्येवानुमन्त्रयेत ७ १८

इति चतुर्थेऽनुवाके चतुर्थः खण्डः
   
3.4.5

अथैष वाचा वज्रमुद्गृह्णाति यदाह सोमः पवत इति वोपावर्तध्वमिति वा वाचैव तद्वाचो वज्रं विगृह्यते वाचस्सत्येनातिमुच्यते तस्मादोमित्येवानुमन्त्रयेत १ देवा वा अनया त्रय्या विद्यया सरसयोर्ध्वास्स्वर्गं लोकमुदक्रामन्ते ममुष्याणामन्वागमाद्बिभ्यतस्त्रयं वेदमपीळयन् २ तस्य पीळयन्त एकमेवाक्षरं नाशक्नुवन्पीळयितुमोमिति यदेतत् ३ एष उ ह वाव सरसः सरसा ह वा एवंविदस्त्रयी विद्या भवति ४ स यां ह वै त्रय्या विद्यया सरसया जितिं जगति यामृद्धिमृध्नोति जयति तां जितिमृध्नोति तामृद्धिं य एवं वेद ५ एतद्ध वा अक्षरं त्रय्यै विद्यायै प्रतिष्ठा ओमिति वै होता प्रतिष्ठित ओमित्य-ध्वर्युरोमित्युद्गाता ६ एतद्ध वा अक्षरं वेदानां त्रिविष्टपमेतस्मिन्वा अक्षर ऋत्विजो यजमानमाधाय स्वर्गे लोके समुदूहन्ति तस्मादोमित्येवानुमन्त्रयेत
७ १९

इति चतुर्थेऽनुवाके पञ्चमः खण्डः

चतुर्थोऽनुवाकस्समाप्तः
  
3.5.1

गुहासि देवोऽस्युपवास्युप तं वायस्व योऽस्मान्द्वेष्टि यं च वयं द्विष्मः १ महिनासि बहुलासि बृहत्यसि रोहिण्यस्यपन्नासि २ सम्भूर्देवोऽसि समहम्भू-यासमाभूतिरस्याभूयासं भूतिरसि भूयासम् ३ यास्ते प्रजा उपदिष्टा नाहं तव ताः पर्येमि उप ते ता दिशामि ४ नाम मे शरीरम्मे प्रतिष्ठा मे तन्मे त्वयि तन्मे मोपहृथा इतीमाम्पृथिवीमवोचत् ५ तमियमागतम्पृथिवी प्रतिनन्दत्ययं ते भगवो लोकः सह नावयं लोक इति ६ यद्वाव मे त्वयीत्याह तद्वाव मे पुन-र्देहीति ७ किं नु ते मयीति नाम मे शरीरम्मे प्रतिष्ठा मे तन्मे त्वयि तन्मे पुनर्देहीति तदस्मा इयम्पृथिवी पुनर्ददाति ८ तामाह प्र मा वाहेति किमभीति अग्निमिति तमग्निमभिप्रवहति ९ सोऽग्निमाहाभिजिदस्यभिजय्यासं लोक-जिदसि लोकं जय्यासमत्तिरस्यन्नमद्यासमन्नादो भवति यस्त्वैवं वेद १० सम्भू-र्देवोऽसि समहम्भूयासमाभूतिरस्याभूयासं भूतिरसि भूयासम् ११ यास्ते प्रजा उपदिष्टा नाहं तव ताः पर्येमि उप ते ता दिशामि १२ तपो मे तेजो मेऽन्नम्मे वाङ्मे तन्मे त्वयि तन्मे मोपहृथा इत्यग्निमवोचत् १३ तं तथैवागतमग्निः प्रतिन-न्दत्ययं ते भगवो लोकस्सह नावयं लोक इति १४ यद्वाव मे त्वयीत्याह त-द्वाव मे पुनर्देहीति १५ किं नु ते मयीति तपो मे तेजो मेऽन्नम्मे वाङ्मे तन्मे त्व-
यि तन्मे पुनर्देहीति तदस्मा अग्निर्पुनर्ददाति १६ तमाह प्र मा वहेति १७ २०

इति पञ्चमेऽनुवाके प्रथमः खण्डः

3.5.2

किमभीति वायुमिति तं वायुमभिप्रवहति १ स वायुमाह यत्पुरस्ताद्वासीन्द्रो राजा भूतो वासि यद्दक्षिणतो वासीशानो भूतो वासि यत्पश्चाद्वासि वरुणो राजा भूतो वासि यदुत्तरतो वासि सोमो राजा भूतो वासि यदुपरिष्टादववासि प्रजापतिर्भूतोऽववासि २ व्रात्योऽस्येकव्रात्योऽनवसृष्टो देवानाम्बिलमप्यधाः ३ तव प्रजास्तवौषधयस्तवापो विचलितमनुविचलन्ति ४ सम्भूर्देवोऽसि समहम्भूयासमाभूतिरस्याभूयासम्भूतिरसि भूयासम् ५ यास्ते प्रजा उपदिष्टा नाहं तव ताः पर्येमि उप ते ता दिशामि ६ प्राणापानौ मे श्रुतम्मे तन्मे त्वयि तन्मे मोपहृथा इति वायुमवोचत् ७ तं तथैवागतं वायुः प्रतिनन्दत्ययं ते भगवो लोकः सह नावयं लोक इति ८ यद्वाव मे त्वयीत्याह तद्वाव मे पुनर्देहीति ९ किं नु ते मयीति प्राणापानौ मे श्रुतम्मे तन्मे त्वयि तन्मे पुनर्देहीति तदस्मै वायुः पुनर्ददाति १० तमाह प्र मा वहेति किमभीति अन्तरिक्षलोकमिति तमन्तरिक्षलोकमभिप्रवहति ११ तं तथैवागतमन्तरिक्षलोकः प्रतिनन्दत्ययं ते भगवो लोकः सह नावयं लोक इति १२ यद्वाव मे त्वयीत्याह तद्वाव मे पुनर्देहीति १३ किं नु ते मयीति अयम्म आकाशः स मे त्वयि तन्मे पुनर्देहीति तमस्मा आकाशमन्तरिक्षलोकः पुनर्ददाति १४ तमाह प्र मा वहेति १५ २१

इति पञ्चमेऽनुवाके द्वितीयः खण्डः
    
3.5.3

किमभीति दिश इति तं दिशोऽभिप्रवहति १ तं तथैवागतं दिशः प्रतिनन्दन्त्ययं ते भगवो लोकः सह नोऽयं लोक इति २ यद्वाव मे युष्मास्वित्याह तद्वाव मे पुनर्दत्तेति ३ किं नु तेऽस्मास्विति श्रोत्रमिति तदस्मै श्रोत्रं दिशः पुनर्ददति ४ ता आह प्र मा वहतेति किमभीति अहोरात्रयोर्लोकमिति तमहोरात्रयो-र्लोकमभिप्रवहन्ति ५ तं तथैवागतमहोरात्रे प्रतिनन्दतोऽयं ते भगवो लोकः सह नोऽयं लोक इति ६ यद्वाव मे युवयोरित्याह तद्वाव मे पुनर्दत्तमिति ७ किं नु त आवयोरिति अक्षितिरिति तामस्मा अक्षितिमहोरात्रे पुनर्दत्तः ८ ते आह प्र मा वहतमिति ९ २२
 
इति पञ्चमेऽनुवाके तृतीयः खण्डः
 
3.5.4

किमभीति अर्धमासानिति तमर्धमासानभिप्रवहतः १ तं तथैवागतमर्धमासाः प्रतिनन्दन्त्ययं ते भगवो लोकः सह नोऽयं लोक इति २ यद्वाव मे युष्मा-स्वित्याह तद्वाव मे पुनर्दत्तेति ३ किं नु तेऽस्मास्विति इमानु क्षुद्रा णि पर्वाणि तानि मे युष्मासु तानि मे प्रतिसंधत्तेति तान्यस्यार्धमासाः पुनः प्रतिसंदधति ४ तानाह प्र मा वहतेति किमभीति मासानिति तम्मासानभिप्रवहन्ति ५ तं तथैवागतम्मासाः प्रतिनन्दन्त्ययं ते भगवो लोकः सह नोऽयं लोक इति ६ यद्वाव मे युष्मास्वित्याह तद्वाव मे पुनर्दत्तेति ७ किं नु तेऽस्मास्विति इमानि स्थूलानि पर्वाणि तानि मे युष्मासु तानि मे प्रतिसंधत्तेति तान्यस्य मासाः पुनः
प्रतिसंदधति ८ तानाह प्र मा वहतेति ९ २३

इति पञ्चमेऽनुवाके चतुर्थः खण्डः
   
3.5.5

किमभीति ऋतूनिति तमृतूनभिप्रवहन्ति १ तं तथैवागतमृतवः प्रतिनन्दन्त्ययं ते भगवो लोकः सह नोऽयं लोक इति २ यद्वाव मे युष्मास्वित्याह तद्वाव मे पुनर्दत्तेति ३ किं नु तेऽस्मास्विति इमानि ज्यायांसि पर्वाणि तानि मे युष्मासु तानि मे प्रतिसंधत्तेति तान्यस्यर्तवः पुनः प्रतिसंदधति ४ तानाह प्र मा वहतेति किमभीति संवत्सरमिति तं संवत्सरमभिप्रवहन्ति ५ तं तथैवागतं संवत्सरः प्रतिनन्दत्ययं ते भगवो लोकः सह नावयं लोक इति ६ यद्वाव मे त्वयीत्याह तद्वाव मे पुनर्देहीति ७ किं नु ते मयीति अयम्म आत्मा स मे त्वयि तन्मे पुनर्देहीति तमस्मा आत्मानं संवत्सरः पुनर्ददाति ८ तमाह प्र मा वहेति ९ २४

इति पञ्चमेऽनुवाके पञ्चमः खण्डः
   
3.5.6

किमभीति दिव्यान्गन्धर्वानिति तं दिव्यान्गन्धर्वानभिप्रवहति १ तं तथैवागतं दिव्या गन्धर्वाः प्रतिनन्दन्त्ययं ते भगवो लोकः सह नोऽयं लोक इति २ यद्वाव मे युष्मास्वित्याह तद्वाव मे पुनर्दत्तेति ३ किं नु तेऽस्मास्विति गन्धो मे मोदो मे प्रमोदो मे तन्मे युष्मासु तन्मे पुनर्दत्तेति तदस्मै दिव्या गन्धर्वाः पुनर्ददति ४ तानाह प्र मा वहतेति किमभीति अप्सरस इति तमप्सरसोऽभिप्रवहन्ति ५ तं तथैवागतमप्सरसः प्रतिनन्दन्त्ययं ते भगवो लोकः सह नोऽयं लोक इति ६ यद्वाव मे युष्मास्वित्याह तद्वाव मे पुनर्दत्तेति ७ किं नु तेऽस्मास्विति हसो मे क्रीळा मे मिथुनम्मे तन्मे युष्मासु तन्मे पुनर्दत्तेति तदस्मा अप्सरसः पुनर्ददति ८ ता आह प्र मा वहतेति ९ २५

इति पञ्चमेऽनुवाके षष्ठः खण्डः
     
3.5.7

किमभीति दिवमिति तं दिवमभिप्रवहन्ति १ तं तथैवागतं द्यौः प्रतिनन्दत्ययं ते भगवो लोकः सह नावयं लोक इति २ यद्वाव मे त्वयीत्याह तद्वाव मे पुनर्देहीति ३ किं नु ते मयीति तृप्तिरिति सकृत्तृप्तेव ह्येषा तामस्मै तृप्तिं द्यौः पुनर्ददाति ४ तमाह प्र मा वहेति किमभीति देवानिति तं देवानभिप्रवहति ५ तं तथैवागतं देवाः प्रतिनन्दन्त्ययं ते भगवो लोकः सह नोऽयं लोक इति ६ यद्वाव मे युष्मास्वित्याह तद्वाव मे पुनर्दत्तेति ७ किं नु तेऽस्मास्विति अमृतमिति तदस्मा अमृतं देवाः पुनर्ददति ८ तानाह प्र मा वहतेति ९ २६

इति पञ्चमेऽनुवाके सप्तमः खण्डः
    
3.5.8

किमभीति आदित्यमिति तमादित्यमभिप्रवहन्ति १ स आदित्यमाह विभूः पुरस्तात्सम्पत्पश्चात् सम्यङ्त्वमसि समीचो मनुष्यानरोषी रुषतस्त ऋषिः पाप्मानं हन्ति अपहतपाप्मा भवति यस्त्वैवं वेद २ सम्भूर्देवोऽसि समहम्भूयासमाभूतिरस्याभूयासम्भूतिरसि भूयासम् ३ यास्ते प्रजा उपदिष्टा नाहं तव ताः पर्येमि उप ते ता दिशामि ४ ओजो मे बलम्मे चक्षुर्मे तन्मे त्वयि तन्मे मोपहृथा इत्यादित्यमवोचत् ५ तं तथैवागतमादित्यः प्रतिनन्दत्ययं ते भगवो लोकः सह नावयं लोक इति ६ यद्वाव मे त्वयीत्याह तद्वाव मे पुनर्देहीति ७ किं नु ते मयीति ओजो मे बलम्मे चक्षुर्मे तन्मे त्वयि तन्मे पुनर्देहीति तदस्मा आदित्यः पुनर्ददाति ८ तमाह प्र मा वहेति किमभीति चन्द्र मसमिति तं चन्द्र मसमभिप्रवहति ९ स चन्द्र मसमाह सत्यस्य पन्था न त्वा जहाति अमृतस्य पन्था न त्वा जहाति १० नवोनवो भवसि जायमानो भरो नाम ब्राह्मण उपास्से तस्मात्ते सत्या उभये देवमनुष्या अन्नाद्यम्भरन्ति अन्नादो भवति यस्त्वैवं वेद ११ सम्भूर्देवोऽसि समहम्भूयासमाभूतिरस्याभू-यासम्भूतिरसि भूयासम् १२ यास्ते प्रजा उपदिष्टा नाहं तव ताः पर्येमि उप ते ता दिशामि १३ मनो मे रेतो मे प्रजा मे पुनस्सम्भूतिर्मे तन्मे त्वयि तन्मे मोपहृथा इति चन्द्र मसमवोचत् १४ तं तथैवागतं चन्द्र माः प्रतिनन्दत्ययं ते भगवो लोकः सह नावयं लोक इति १५ यद्वाव मे त्वयीत्याह तद्वाव मे पुनर्देहीति १६ किं नु ते मयीति मनो मे रेतो मे प्रजा मे पुनस्सम्भूतिर्मे तन्मे त्वयि तन्मे पुनर्देहीति तदस्मै चन्द्र माः पुनर्ददाति १७ तमाह प्र मा वहेति १८ २७

इति पञ्चमेऽनुवाकेऽष्टमः खण्डः

3.5.9

किमभीति ब्रह्मणो लोकमिति तमादित्यमभिप्रवहति १ स आदित्यमाह प्र मा वहेति किमभीति ब्रह्मणो लोकमिति तं चन्द्र मसमभिप्रवहति स एवमेते देवते अनुसंचरति २ एसोऽन्तोऽतः परः प्रवाहो नास्ति यानु कांश्चातः प्राचो लोकानभ्यवादिष्म ते सर्व आप्ता भवन्ति ते जितास्तेष्वस्य सर्वेषु कामचारो भवति य एवं वेद ३ स यदि कामयेत पुनरिहाजायेयेति यस्मिन्कुले-ऽभिध्यायेद्यदि ब्राह्मणकुले यदि राजकुले तस्मिन्नाजायते स एतमेव लोकम्पुनः प्रजानन्नभ्यारोहन्नेति ४ तदु होवाच शाट्यायनिर्बहुव्याहितो वा अयम्बहुशो लोकः एतस्य वै कामाय नु ब्रुवते वा श्राम्यन्ति वा क एतत्प्रास्य पुनरिहेयादत्रैव
स्यादिति ५ २८

इति पञ्चमेऽनुवाके नवमः खण्डः

पञ्चमोऽनुवाकस्समाप्तः
     
3.6.1

उच्चैश्श्रवा ह कौपयेयः कौरव्यो राजास तस्य ह केशी दार्भ्यः पाञ्चालो राजा स्वस्रीय आस तौ हान्योन्यस्य प्रियावासतुः १ स होच्चैश्श्रवाः कौपये-योऽस्माल्लोकात्प्रेयाय तस्मिन्ह प्रेते केशी दार्भ्योऽरण्ये मृगयां चचाराप्रियं विनिनीषमाणः २ स ह तथैव पल्ययमानो मृगान्प्रसरन्नन्तरेणैवोच्चैश्श्रवसं कौपयेयमधिजगाम ३ तं होवाच दृप्यामि स्वी३ज्जानामीति न दृप्यसीति होवाच जानासि स एवास्मि यम्मा मन्यस इति ४ अथ यद्भगव आहुरिति होवाच य आविर्भवत्यन्येऽस्य लोकमुपयन्तीत्यथ कथमशको म आवि-र्भवितुमिति ५ ओमिति होवाच यदा वै तस्य लोकस्य गोप्तारमविदेऽतस्त आविरभूवमप्रियं चास्य विनेष्याम्यनु चैनं शासिष्यामीति ६ तथा भगव इति होवाच तं वै नु त्वा परिष्वजा इति तं ह स्म परिष्वजमानो यथा धूमं वापीयाद्वायुं वाकाशं वाग्न्यर्चिं वापो वैवं ह स्मैनं व्येति न ह स्मैनम्परिष्वङ्गायोपलभते ७ २९

इति षष्ठेऽनुवाके प्रथमः खण्डः

3.6.2

स होवाच यद्वै ते पुरा रूपमासीत्तत्ते रूपं न तु त्वा परिष्वङ्गायोपलभ इति १ ओमिति होवाच ब्राह्मणो वै मे साम विद्वान्साम्नोदगायत् स मेऽशरीरेण साम्ना शरीराण्यधूनोत्तद्यस्य वै किल साम विद्वान्साम्नोद्गायति देवतानामेव सलो-कतां गमयतीति २ पतङ्गः प्राजापत्य इति होवाच प्रजापतेः प्रियः पुत्र आस स तस्मा एतत्सामाब्रवीत्तेन स ऋषीणामुदगायत्त एत ऋषयो धूतशरीरा इति ३ एतेनो एव साम्नेति होवाच प्रजापतिर्देवानामुदगायत्त एत उपरि देवा धूतशरीरा इति ४ तस्मिन्हैनमनुशशास तं हानुशिष्योवाच यस्स्मैवैतत्साम विद्यात्स स्मैव त उद्गायत्विति ५ स हानुशिष्ट आजगाम स ह स्म कुरु-
पञ्चालानाम्ब्राह्मणानुपपृच्छमानश्चरति ६ ३०

इति षष्ठेऽनुवाके द्वितीयः खण्डः

3.6.3

व्यूढच्छन्दसा वै द्वादशाहेन यक्ष्यमाणोऽस्मि स यो वस्तत्साम वेद यदहं वेद स एव म उद्गास्यति मीमांसध्वमिति १ तस्मै ह मीमांसमानानामेकश्चन न सम्प्रत्यभिदधाति २ स ह तथैव पल्ययमानश्श्मशाने वा वने वावृतीशया-नमुपाधावयां चकार तं ह चायमानः प्रजहौ ३ तं होवाच कोऽसीति ब्राह्म-णोऽस्मि प्रातृदो भाल्ल इति ४ स किं वेत्थेति सामेति ५ ओमिति होवाच व्यूढच्छन्दसा वै द्वादशाहेन यक्ष्यमाणोऽस्मि स यदि त्वं तत्साम वेत्थ यदहं वेद त्वमेव म उद्गास्यसि मीमांसस्वेति ६ तस्मै ह मीमांसमानस्तदेव सम्प्र-त्यभिदधौ ७ तं होवाचायम्म उद्गास्यतीति ८ तस्मै ह कुरुपञ्चालानाम्ब्राह्मणा असूयन्त आहुरेषु ह वा अयं कुल्येषु सत्सूद्गास्यति कस्मा अयमलमिति ९ अलम्न्वै मह्यमिति ह स्माह सैवालम्मस्यालम्मतायैतस्य हालमेवोज्जगौ
तस्मादालम्यैलाजोद्गातेत्याख्यापयन्ति १० ३१
 
इति षष्ठेऽनुवाके तृतीयः खण्डः
   
3.6.4

तद्ध सात्यकीर्ता आहुर्यां वयं देवतामुपास्मह एकमेव वयं तस्यै देवतायै रूपं गव्यादिशाम एकं वाहन एकं हस्तिन्येकम्पुरुष एकं सर्वेषु भूतेषु तस्या एवेदं देवतायै सर्वं रूपमिति १ तदेतदेकमेव रूपम्प्राण एव यावद्ध्येव प्राणेन प्राणिति तावद्रू पम्भवति तद्रू पम्भवति २ तदथ यदा प्राण उत्क्रामति दार्वेवेव भूतोऽनर्थ्यः परिशिष्यते न किं चन रूपम् ३ तस्यान्तरात्मा तपः तस्मा-त्तप्यमानस्योष्णतरः प्राणो भवति ४ तपसोऽन्तरात्माग्निः स निरुक्तः तस्मात्स दहति ५ अथाधिदेवतमियमेवैषा देवता योऽयम्पवते तस्मिन्नेतस्मिन्नापोऽन्तः तदन्नं सोऽरूक्ष उपासितव्यः यदस्मिन्नापोऽन्तस्तेनारूक्षः ६ तस्यान्तरात्मा तपस्तस्मादेष आतपत्युष्णतरः पवते ७ तपसोऽन्तरात्मा विद्युत् स निरुक्तः तस्मात्सोऽपि दहति ८ तानि वा एतानि चत्वारि साम प्राणो वाङ्मनस्स्वरः स एष प्रणो वाचा करोति मनोनेत्रः तस्य स्वर एव प्रजाः प्रजावान्भवति य एवं वेद ९ ३२
 
इति षष्ठेऽनुवाके चतुर्थः खण्डः
     
3.6.5

स यो वायुः प्राण एव सः योऽग्निर्वागेव सा यश्चन्द्र मा मन एव तद् य आदित्यस्स्वर एव सः तस्मादेतमादित्यमाहुस्स्वर एतीति १ स यो ह वा अमूर्देवता उपास्ते या अमूरधिदेवतं दूरूपा वा एता दुरनुसम्प्राप्या इव कस्तद्वेद यद्येता अनु वा सम्प्राप्नुयान्न वा २ अथ य एना अध्यात्ममुपास्ते स हान्तिदेवो भवति निर्जीर्यन्तीव वा इत एता तस्य वा एताश्शरीरस्य सह प्राणेन निर्जीर्यन्ति क उ एव तद्वेद यद्येता अनु वा सम्प्राप्नुयान्न वा ३ अथ य एना उभयीरेकधा भवन्तीर्वेद स एवानुष्ठ्या साम वेद स आत्मानं वेद स ब्रह्म वेद ४ तदाहुः प्रादेशमात्राद्वा इत एता एकम्भवन्ति अतो ह्ययम्प्राणस्स्वर्य उपर्युपरि वर्तत इति ५ अथ हैक आहुश्चतुरङ्गुलाद्वा इत एता एकम्भवन्तीति अतो ह्येवायम्प्राणस्स्वर्य उपर्युपरि वर्तत इति ६ स एष ब्रह्मण आवर्तः स य एवमेतम्ब्रह्मण आवर्तं वेदाभ्येनम्प्रजाः पशव आवर्तन्ते सर्वमायुरेति ७ स यो हैवं विद्वान्प्राणेन प्राण्यापानेनापान्य मनसैता उभयीर्देवता आत्मन्येत्य मुख आधत्ते तस्य सर्वमाप्तम्भवति सर्वं जितं न हास्य कश्चन कामोऽनाप्तो भवति य एवं वेद ८ ३३

इति षष्ठेऽनुवाके पञ्चमः खण्डः

3.6.6

तदेतन्मिथुनं यद्वाक्च प्राणश्च मिथुनमृक्सामे आचतुरं वाव मिथुनम्प्रजननम् १ तद्यत्राद आह सोमः पवत इति वोपावर्तध्वमिति वा तत्सहैव वाचा मनसा प्राणेन स्वरेण हिङ्कुर्वन्ति तधिङ्कारेण मिथुनं क्रियते २ सहैव वाचा मनसा प्राणेन स्वरेण निधनमुपयन्ति तन्निधनेन मिथुनम्क्रियते ३ तत्सप्तविधं साम्नः सप्तकृत्व उद्गातात्मानं च यजमानं च शरीरात्प्रजनयति ४ यादृशस्यो ह वै रेतो भवति तादृशं सम्भवति यदि वै पुरुषस्य पुरुष एव यदि गोर्गौरेव यद्यश्वस्याश्व एव यदि मृगस्य मृग एव यस्यैव रेतो भवति तदेव सम्भवति ५ तद्यथा ह वै सुवर्णं हिरण्यमग्नौ प्रास्यमानं कल्याणतरं कल्याणतरम्भवत्येवमेव कल्याणतरेण कल्याणतरेणात्मना सम्भवति य एवं वेद ६ तदेतदृचाभ्यनूच्यते ७ ३४

इति षष्ठेऽनुवाके षष्ठः खण्डः
   
3.6.7

पतङ्गमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः समुद्रे अन्तः कवयो वि चक्षते मरीचीनाम्पदमिच्छन्ति वेधस इति १ पतङ्गमक्तमिति प्राणो वै पतङ्गः पतन्निव ह्येष्वङ्गेष्वति रथमुदीक्षते पतङ्ग इत्याचक्षते २ असुरस्य माययेति मनो वा असुरं तद्ध्यसुषु रमते तस्यैष माययाक्तः ३ हृदा पश्यन्ति मनसा विपश्चित इति हृदैव ह्येते पश्यन्ति यन्मनसा विपश्चितः ४ समुद्रे अन्तः कवयो वि चक्षत इति पुरुषो वै समुद्र एवंविद उ कवयः त इमाम्पुरुषेऽन्तर्वाचं विचक्षते ५ मरीचीनाम्पदमिच्छन्ति वेधस इति मरीच्य इव वा एता देवता यदग्निर्वायुरादित्यश्चन्द्र माः ६ न ह वा एतासां देवतानाम्पदमस्ति पदेनो ह वै पुनर्मृत्युरन्वेति ७ तदेतदनन्वितं साम पुनर्मृत्युना अति पुनर्मृत्युं तरति य
एवं वेद ८ ३५

इति षष्ठेऽनुवाके सप्तमः खण्डः
    
3.6.8

पतङ्गो वाचम्मनसा बिभर्ति तां गन्धर्वोऽवदद्गर्भे अन्तः तां द्योतमानां स्वर्यम्मनीषामृतस्य पदे कवयो नि पान्तीति १ पतङ्गो वाचम्मनसा बिभर्तीति प्राणो वै पतङ्गः स इमां वाचम्मनसा बिभर्ति २ तां गन्धर्वोऽवदद्गर्भे अन्तरिति प्राणो वै गन्धर्वः पुरुष उ गर्भः स इमाम्पुरुषेऽन्तर्वाचं वदति ३ तां द्योतमानां स्वर्यम्मनीषामिति स्वर्या ह्येषा मनीषा यद्वाक् ४ ऋतस्य पदे कवयो नि पान्तीति मनो वा ऋतमेवंविद उ कवयः ओमित्येतदेवाक्षरमृतं तेन यदृ-
चम्मीमांसन्ते यद्यजुर्तत्साम तदेनां निपान्ति ५ ३६

इति षष्ठेऽनुवाकेऽष्टमः खण्डः

3.6.9

अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तं स सध्रीचीस्स विषू-चीर्वसान आ वरीवर्त्ति भुवनेष्वन्तरिति १ अपश्यं गोपामनिपद्यमानमिति प्राणो वै गोपाः स हीदं सर्वमनिपद्यमानो गोपायति २ आ च परा च पथि-भिश्चरन्तमिति तद्ये च ह वा इमे प्राणा अमी च रश्मय एतैर्ह वा एष एतदा च परा च पथिभिश्चरति ३ स सध्रीचीस्स विषूचीर्वसान इति सध्रीचीश्च ह्येष एतद्विषूचीश्च प्रजा वस्ते ४ आ वरीवर्त्ति भुवनेष्वन्तरिति एष ह्येवैषु भुव-नेष्वन्तरावरीवर्त्ति ५ स एष इन्द्र उद्गीथः स यदैष इन्द्र उद्गीथ आगच्छति नैवोद्गातुश्चोपगातॄणां च विज्ञायते इत एवोर्ध्वस्स्वरुदेति स उपरि मूर्ध्नो लेलायति ६ स विद्यादागमदिन्द्रो नेह कश्चन पाप्मा न्यङ्गः परिशेक्ष्यत इति तस्मिन्ह न कश्चन पप्मा न्यङ्गः परिशिष्यते ७ तदेतदभ्रातृव्यं साम न ह वा इन्द्रः कं चन भ्रातृव्यम्पश्यते स यथेन्द्रो न कं चन भ्रातृव्यम्पश्यत एवमेव न कं चन भ्रातृव्यम्पश्यते य एतदेवं वेदाथो यस्यैवं विद्वानुद्गायति ८ ३७

इति षष्ठेऽनुवाके नवमः खण्डः

षष्ठोऽनुवाकस्समाप्तः
   
3.7.1

प्रजापतिम्ब्रह्मासृजत तमपश्यममुखमसृजत १ तमप्रपश्यममुखं शयान-म्ब्रह्माविशत् पुरुष्यं तत् प्राणो वै ब्रह्म प्राणो वावैनं तदाविशत् २ स उदति-ष्ठत्प्रजानां जनयिता तं रक्षांस्यन्वसचन्त ३ तमेतदेव साम गायन्नत्रायत यद्गायन्नत्रायत तद्गायत्रस्य गायत्रत्वम् ४ त्रायत एनं सर्वस्मात्पाप्मनो मुच्यते य एवं वेद ५ तमुपास्मै गायता नर इत्यृचाश्रवणीयेनोपागायन् ६ यदुपास्मै गायता नर इति तेन गायत्रमभवत्तस्मादेषैव प्रतिपत्कार्या ७ पवमानायेन्दावा अभि देवमिया हुं भा क्षाता इति षोडशाक्षराण्यभ्यगायन्त षोडशकलं वै ब्रह्म कलाश एवैनं तद्ब्रह्माविशत् ८ तदेतच्चतुर्विंशत्यक्षरं गायत्रमष्टाक्षरः प्रस्तावः षोडशाक्षरं गीतं तच्चतुर्विंशतिस्सम्पद्यन्ते चतुर्विंशत्यर्धमासस्संवत्सरः संव-त्सरस्साम ९ ता ऋचश्शरीरेण मृत्युरन्वैतत्तद्यच्छरीरवत्तन्मृत्योराप्तमथ यदशरीरं तदमृतं तस्याशरीरेण साम्ना शरीराण्यधूनोत् १० ३८

इति सप्तमेऽनुवाके प्रथमः खण्डः
 
3.7.2

ओवा३चोवा३चोवा३छुम्भा ओवा इति षोडशाक्षराण्यभ्यगायत षोडशकलो वै पुरुषः कलाश एवास्य तच्छरीराण्यधूनोत् १ स एषोऽपहतपाप्मा धूतशरीरः तदेक्क्रियावृतियुदासंगायत्यो इत्युदास आ इति आवृद्यात् वागिति तद्ब्रह्म तदिदन्तरिक्षं सोऽयं वायुः पवते हुमिति चन्द्र माः भा इत्यादित्यः २ एतस्य ह वा इदमक्षरस्य क्रतोर्भातीत्याचक्षते ३ एतस्य ह वा इदमक्षरस्य क्रतोर-भ्रमित्याचक्षते ४ एतस्य ह वा इदमक्षरस्य क्रतोः कुभ्रमित्याचक्षते ५ एतस्य ह वा इदमक्षरस्य क्रतोश्शुभ्रमित्याचक्षते ६ एतस्य ह वा इदमक्षरस्य क्रतो-र्वृषभ इत्याचक्षते ७ एतस्य ह वा इदमक्षरस्य क्रतोर्दर्भ इत्याचक्षते ८ एतस्य ह वा इदमक्षरस्य क्रतोर्यो भातीत्याचक्षते ९ एतस्य ह वा इदमक्षरस्य क्रतो-स्सम्भवतीत्याचक्षते १० तद्यत्किं च भा३ इति च भा३ इति च तदेतन्मिथुनं गायत्रं प्र मिथुनेन जायते य एवं वेद ११ ३९

इति सप्तमेऽनुवाके द्वितीयः खण्डः

3.7.3

तदेतदमृतं गायत्रम् एतेन वै प्रजापतिरमृतत्वमगच्छदेतेन देवा एतेनर्षयः १ तदेतद्ब्रह्म प्रजापतयेऽब्रवीत्प्रजापतिः परमेष्ठिने प्राजापत्याय परमेष्ठी प्राजापत्यो देवाय सवित्रे देवस्सवित्ताग्नयेऽग्निरिन्द्रा येन्द्र ः! काश्यपाय काश्यप ऋश्यशृङ्गाय काश्यपायर्श्यशृङ्गः काश्यपो देवतरसे श्यावसायनाय काश्यपाय देवतराश्श्यावसायनः काश्यपश्श्रुषाय वाह्नेयाय काश्यपाय श्रुषो वाह्नेयः काश्यप इन्द्रो ताय दैवापाय शौनकायेन्द्रो तो दैवापश्शौनको दृतय ऐन्द्रो तये शौनकाय दृतिरैन्द्रो तिश्शौनकः पुलुषाय प्राचिनायोग्याय पुलुषः प्राचीन-योग्यस्सत्ययज्ञाय पौलुषये प्राचीनयोग्याय सत्ययज्ञः पौलुषिः प्राचीनयो-ग्यस्सोमशुष्माय सात्ययज्ञये प्राचीनयोग्याय सोमशुष्मस्सात्ययज्ञिः प्राचीन-योग्यो हृस्त्वाशयायाल्लकेयाय माहावृषाय राज्ञे हृत्स्वाशय आल्लकेयो माहावृषो राजा जनश्रुताय काण्ड्वियाय जनश्रुतः काण्ड्वियस्सायकाय जानश्रुतेयाय काण्ड्वियाय सायको जानश्रुतेयः काण्ड्वियो नगरिणे जान-श्रुतेयाय काण्ड्वियाय नगरी जानश्रुतेयः काण्ड्वियश्शङ्गाय शाट्य्क्त अयनय आत्रेयाय शङ्गश्शाट्यायनिरात्रेयो रामाय क्रातुजातेयाय वैयाघ्रपद्याय रामः क्रातुजातेयो वैयाघ्रपद्यः २ ४०

इति सप्तमेऽनुवाके तृतीयः खण्डः
    
3.7.4

शङ्खाय बाभ्रव्याय शङ्खो बाभ्रव्यो दक्षाय कात्यायनय आत्रेयाय दक्षः कात्यायनिरात्रेयः कंसाय वारकये कंसो वारिकिः प्रोष्ठपादाय वारक्याय प्रोष्ठपादो वारक्यः कंसाय वारक्याय कंसो वारक्यो जयन्ताय वारक्याय जयन्तो वारक्यः कुबेराय वारक्याय कुबेरो वारक्यो जयन्ताय वारक्याय जयन्तो वारक्यो जनश्रुताय वारक्याय जनश्रुतो वारक्यस्सुदत्ताय पाराशर्याय सुदत्तः पाराशर्योऽषाढायोत्तराय पाराशर्यायाषाढ उत्तरः पाराशर्यो विपश्चिते शकुनिमित्राय पाराशर्याय विपश्चिच्छकुनिमित्रः पाराशर्यो जयन्ताय पाराशर्याय जयन्तः पाराशर्यः १ ४१
  
इति सप्तमेऽनुवाके चतुर्थः खण्डः
  
3.7.5

श्यामजयन्ताय लौहित्याय श्यामजयन्तो लौहित्यः पल्लिगुप्ताय लौहित्याय पल्लिगुप्तो लौहित्यस्सत्यश्रवसे लौहित्याय सत्यश्रवा लौहित्यः कृष्णधृतये सात्यकये कृष्णधृतिस्सात्यकिश्श्यामसुजयन्ताय लौहित्याय श्यामसुजयन्तो लौहित्यः कृष्णदत्ताय लौहित्याय कृष्णदत्तो लौहित्यो मित्रभूतये लौहित्याय मित्रभूतिर्लौहित्यश्श्यामजयन्ताय लौहित्याय श्यामजयन्तो लौहित्यस्त्रि-वेदाय कृष्णराताय लौहित्याय त्रिवेदः कृष्णरातो लौहित्यो यशस्विने जयन्ताय लौहित्याय यशस्वी जयन्तो लौहित्यो जयकाय लौहित्याय जयको लौहित्यः कृष्णराताय लौहित्याय कृष्णरातो लौहित्यो दक्षजयन्ताय लौहित्याय दक्षजयन्तो लौहित्यो विपश्चिते दृढजयन्ताय लौहित्याय विपश्चिद्दृढजयन्तो लौहित्यो वैपश्चिताय दार्ढजयन्तये दृढजयन्ताय लौहित्याय वैपश्चितो दार्ढजयन्तिर्दृधजयन्तो लौहित्यो वैपश्चिताय दार्ढजयन्तये गुप्ताय लौहित्याय १ तदेतदमृतं गायत्रमथ यान्यन्यानि गीतानि काम्यान्येव तानि काम्यान्येव
तानि २ ४२

इति सप्तमेऽनुवाके पञ्चमः खण्डः
  
सप्तमोऽनुवाकस्समाप्तः
   
इति तृतीयोऽध्यायः