4.1.1

अथ चतुर्थोऽध्यायः

श्वेताश्वो दर्शतो हरिनीलोऽसि हरितस्पृशस्समानबुद्धो मा हिंसीः न मां त्वं वेत्थ प्रद्रव १ यदभ्यवचरणोऽभ्यवैषि स्वपन्तं पुरुषमकोविदमश्ममयेन वर्मणा वरुणोऽन्तर्दधातु मा २ यदभ्यवचरणोऽभ्यवैषि स्वपन्तं पुरुषमकोविदमयस्मयेन वर्मणा वरुणोऽन्तर्दधातु मा ३ यदभ्यवचरणोऽभ्यवैषि स्वपन्तं पुरुष-मकोविदं लोहमयेन वर्मणा वरुणोऽन्तर्दधातु मा ४ यदभ्यवचरणोऽभ्यवैषि स्वपन्तं पुरुषमकोविदं रजतमयेन वर्मणा वरुणोऽन्तर्दधातु मा ५ यदभ्यव-चरणोऽभ्यवैषि स्वपन्तं पुरुषं सुवर्णमयेन वर्मणा वरुणोऽन्तर्दधातु मा ६ आयुर्माता मतिः पिता नमस्त आविशोषण ग्रहो नामासि विश्वायुस्तस्मै ते विश्वाहा नमो नमस्तां राय नमो वरुणाय नमो जिघांसते ७ यक्ष्म राजन्मा मां हिंसीः राजन्यक्ष्म मा हिंसीः तयोस्संविदानयोस्सर्वमायुरयान्यहं ८ १

प्रथमोऽनुवाकस्समाप्तः

4.2.1

पुरुषो वै यज्ञः १ तस्य यानि चतुर्विंशतिर्वर्षाणि तत्प्रातस्सवनं चतुर्विंशत्यक्षरा गायत्री गायत्रं प्रातस्सवनं २ तद्वसूनां प्राणा वै वसवः प्राणा हीदं सर्वं वस्वाददते ३ स यद्येनमेतस्मिन्काल उपतपदुपद्रवेत्स ब्रूयात्प्राणा वसव इदं मे प्रातस्सवनं माध्यन्दिनेन सवनेनानुसंतनुतेति अगदो हैव भवति ४ अथ यानि चतुश्चत्वारिंशतं वर्षाणि तन्माध्यन्दिनं सवनं चतुश्चत्वारिंशदक्षरा त्रिष्टुप् त्रैष्टुभं माध्यन्दिनं सवनं ५ तद्रुद्राणां प्राणा वै रुद्राः प्राणा हीदं सर्वं रोदयन्ति ६ स यद्येनमेतस्मिन्काल उपतपदुपद्रवेत्स ब्रूयात्प्राणा रुद्रा इदं मे माध्यन्दिनं सवनं तृतीयसवनेनानुसंतनुतेति अगदो हैव भवति ७ अथ यान्यष्टाचत्वारिंशतं वर्षाणि तत्तृतीयसवनमष्टाचत्वारिंशदक्षरा जगती जागतं तृतीयसवनं ८ तदादित्यानां प्राणा वा आदित्याः प्राणा हीदं सर्वमाददते ९ स यद्येनमेतस्मिन्काल उपतपदुपद्रवेत्स ब्रूयात्प्राणा आदित्या इदं मे तृतीयसवनमायुषानुसंतनुतेति अगदो हैव भवति १० एतद्ध तद्विद्वान्ब्राह्मण उवाच महिदास ऐतरेय उपतपति किमिदमुपतपसि योऽहमनेनोपतपता न प्रेष्यामीति स ह षोडशशतं वर्षाणि जिजीव प्र ह षोडशशतं वर्षाणि जीवति नैनं प्राणस्सां यायुषो जहाति य एवं वेद ११

द्वितीयोऽनुवाकस्समाप्तः २

4.3.1

त्र्यायुषं कश्यपस्य जमदग्नेस्त्र्यायुषं त्रीण्यमृतस्य पुष्पाणि त्रीण्यायूंषि मेऽकृणोः १ स नो मयोभूः पितवाविशस्व शान्तिको यस्तनुवे स्योनः २ येऽग्नयः पुरीष्याः प्रविष्टाः पृठिवीमनु तेषां त्वमस्युत्तमः प्र णो जीवातवे सुव ३ ३

तृतीयोऽनुवाकस्समाप्तः

4.4.1

अरण्यस्य वत्सोऽसि विश्वनामा विश्वाभिरक्षणोऽपां पक्वोऽसि वरुणस्य दूतोऽन्तर्धिनाम १ यथा त्वममृतो मर्त्येभ्योऽन्तर्हितोऽस्येवं त्वमस्मानघायुभ्योऽन्तर्धेहि अन्तर्धिरसि स्तेनेभ्यः २ ४

चतुर्थोऽनुवाकस्समाप्तः

4.5.1
व्युषि सविता भवस्युदेष्यन्विष्णुरुद्यन्पुरुष उदितो बृहस्पतिरभिप्रयन्मघवेन्द्रो वैकुण्ठो माध्यन्दिने भगोऽपराह्न उग्रो देवो लोहितायन्नस्तमिते यमो भवसि १ अश्नसु सोमो राजा निशायां पितृराजस्स्वप्ने मनुष्यान्प्रविशसि पयसा पशून् २ विरात्रे भवो भवस्यपररात्रेऽङ्गिरा अग्निहोत्रवेलायां भृगुः ३ तस्य तदेतदेव मण्डलमूधः तस्यैतौ स्तनौ यद्वाक्च प्राणश्च ताभ्यां मे धुक्ष्वाध्या-यं ब्रह्मचर्यं प्रजां पशून्स्वर्गं लोकं सजातवनस्यां ४ एता आशिष आशासे
भूर्भुवस्स्वः उदिते शुक्रमादिश तदत्मन्दधे ५ ५

पञ्चमोऽनुवाकस्समाप्तः

4.6.1
भगेरथो हैक्ष्वाको राजा कामप्रेण यज्ञेन यक्ष्यमाण आस १ तदु ह कुरुपञ्चालानां ब्राह्मणा ऊचुर्भगेरथो ह वा अयमैक्ष्वाको राजा कामप्रेण यज्ञेन यक्ष्यमाणः एतेन कथां वदिष्याम इति २ तं हाभ्येयुः तेभ्यो हाभ्यागतेभ्योऽपचितीश्चकार ३ अथ हैषां स भाग आवव्राजोप्त्वा केशश्मश्रूणि नखा-न्निकृत्याज्येनाभ्यज्य दण्डोपानहं बिभ्रत् ४ तान्होवाच ब्राह्मणा भगवन्तः कतमो वस्तद्वेद यथाश्रावितप्रत्याश्राविते देवान्गच्छत इति ५ अथ होवाच कतमो वस्तद्वेद यद्विदुषस्सूद्गाता सुहोता स्वध्वर्युस्सुमानुषविदाजायत इति ६ अथ होवाच कतमो वस्तद्वेद यच्छन्दांसि प्रयुज्यन्ते यत्तानि सर्वाणि संस्तुतान्यभिसं पद्यन्त इति ७ अथ होवाच कतमो वस्तद्वेद यथा गायत्र्या उत्तमे अक्षरे पुनर्यज्ञमपिगच्छत इति ८ अथ होवाच कतमो वस्तद्वेद यथा दक्षिणाः प्रतिगृहीता न हिंसन्तीति ९ ६

षष्ठेऽनुवाके प्रथमः खण्डः

4.6.2

एतान्हैनान्पञ्च प्रश्नान्पप्रच्छ १ तेषां ह कुरुपञ्चालानां बको दाल्भ्योऽनूचान आस २ स होवाच यथाश्रावितप्रत्याश्राविते देवान्गच्छत इति प्राच्यां वै राजन्दिश्याश्रावितप्रत्याश्राविते देवान्गच्छतः तस्मात्प्राङ्तिष्ठन्नाश्रावयति प्राङ्तिष्ठन्प्रत्याश्रावयतीति ३ अथ होवाच यद्विदुषस्सूद्गाता सुहोता स्वध्व-र्युस्सुमानुषविदाजायत इति यो वै मनुष्यस्य सं भूतिं वेदेति होवाच तस्य सूद्गाता सुहोता स्वध्वर्युस्सुमानुषविदाजायत इति प्राणा उ ह वाव राज-न्मनुष्यस्य सं भूतिरेवेति ४ अथ होवाच यच्छन्दांसि प्रयुज्यन्ते यत्तानि सर्वाणि संस्तुतान्यभिसं पद्यन्त इति गायत्रीमु ह वाव राजन्सर्वाणि छन्दांसि संस्तुतान्यभिसं पद्यन्त ५ अथ होवाच यथा गायत्र्या उत्तमे अक्षरे पुनर्यज्ञमपिगच्छत इति वषट्कारेणो ह वाव राजन्गायत्र्या उत्तमे अक्षरे पुनर्यज्ञमपिगच्छत इति ६ अथ होवाच यथा दक्षिणाः प्रतिगृहीता न हिंसन्तीति ७ ७

षष्ठेऽनुवाके द्वितीयः खण्डः

4.6.3

यो वै गायत्र्यै मुखं वेदेति होवाच तं दक्षिणा प्रतिगृहीता न हिंसन्तीति १ अग्निर्ह वाव राजन्गायत्रीमुखं तस्माद्यदग्नावभ्यादधाति भूयानेव स तेन भवति वर्धते एवमेवैवं विद्वान्ब्राह्मणः प्रतिगृह्णन्भूयानेव भवति वर्धत उ एवेति २ स होवाचानूचानो वै किलायं ब्राह्मण आस त्वामहमनेन यज्ञेनैमीति ३ तस्य वै ते तथोद्गास्यामीति होवाच यथैकराडेव भूत्वा स्वर्गं लोकमेष्यसीति ४ तस्मा एतेन गायत्रेणोद्गीथेनोज्जगौ स हैकराडेव भूत्वा स्वर्गं लोकमियाय तेन हैतेनैकराडेव भूत्वा स्वर्गं लोकमेति य एवं वेद ५ ॐ वा इति द्वे अक्षरे ॐ वा इति चतुर्थे ॐ वा इति षष्ठे हुं भा ॐ वागित्यष्टमे ६ तेन हैतेन प्रतीदर्शोऽस्य भयदस्यासमात्यस्योज्जगौ ७ तं होवाच किं त आगास्यामीति स होवाच हरी मे देवाश्वावागायेति तथेति तौ हास्मा आजगौ तौ हैनमाजग्मतुः ८ स वा एष उद्गीथः कामानां सं पदॐ वा३चॐ वा३चॐ वा३छुं भा ॐ वागिति साङ्गो
हैव सतनुरमृतस्सं भवति य एतदेवं वेदाथो यस्यैवं विद्वानुद्गायति ९ ८

षष्ठेऽनुवाके तृतीयः खण्डः

षष्ठोऽनुवाकस्समाप्तः

4.7.1

पुरुषो वै यज्ञः पुरुषो होद्गीथः अथैत एव मृत्यवो यदग्निर्वायुरादित्यश्चन्द्र माः १ ते ह पुरुषं जायमानमेव मृत्युपाशैरभिदधति तस्य वाचमेवाग्निरभिदधाति प्राणं वायुश्चक्षुरादित्यश्श्रोत्रं चन्द्र माः २ तदाहुस्स वा उद्गाता यो यजमानस्य प्राणे-भ्योऽधि मृत्युपाशानुन्मुञ्चतीति ३ तद्यस्यैवं विद्वान्प्रस्तौति य एवास्य वाचि मृत्युपाशस्तमेवास्योन्मुञ्चति ४ अथ यस्यैवं विद्वानुद्गायति य एवास्य प्राणे मृत्युपाशस्तमेवास्योन्मुञ्चति ५ अथ यस्यैवं विद्वान्प्रतिहरति य एवास्य चक्षुषि मृत्युपाशस्तमेवास्योन्मुञ्चति ६ अथ यस्यैवं विद्वान्निधनमुपैति य एवास्य श्रोत्रे मृत्युपाशस्तमेवास्योन्मुञ्चति ७ एवं वा एवंविदुद्गाता यजमानस्य प्राणेभ्योऽधि मृत्युपाशानुन्मुञ्चति ८ तदाहुस्स वा उद्गाता यो यजमानस्य प्राणेभ्योऽधि मृत्युपाशानुन्मुच्याथैनं साङ्गं सतनुं सर्वमृत्योस्स्पृणातीति ९ ९

सप्तमेऽनुवाके प्रथमः खण्डः

4.7.2

तद्यस्यैवं विद्वान्हिङ्करोति य एवास्य लोमसु मृत्युपाशस्तस्मादेवैनं स्पृणाति १ अथ यस्यैवं विद्वान्प्रस्तौति य एवास्य त्वचि मृत्युपाशस्तस्मादेवैनं स्पृणाति २ अथ यस्यैवं विद्वानादिमादत्ते य एवास्य मांसेषु मृत्युपाशस्तस्मादेवैनं स्पृणाति ३ अथ यस्यैवं विद्वानुद्गायति य एवास्य स्नावसु मृत्युपाशस्तस्मा-देवैनं स्पृणाति ४ अथ यस्यैवं विद्वान्प्रतिहरति य एवास्याङ्गेषु मृत्युपा-शस्तस्मादेवैनं स्पृणाति ५ अथ यस्यैवं विद्वानुपद्रवति य एवास्यास्थिषु मृत्युपाशस्तस्मादेवैनं स्पृणाति ६ अथ यस्यैवं विद्वान्निधनमुपैति य एवास्य मज्जसु मृत्युपाशस्स तस्मादेवैनं स्पृणाति ७ एवं वा एवंविदुद्गाता यजमानस्य प्राणेभ्योऽधि मृत्युपाशानुन्मुच्याथैनं साङ्गं सतनुं सर्वमृत्योस्स्पृणाति ८ तदाहुस्स वा उद्गाता यो यजमानस्य प्राणेभ्योऽधि मृत्युपाशानुन्मुच्याथैनं साङ्गं सतनुं सर्वमृत्योस्स्पृत्वा स्वर्गे लोके सप्तधा दधातीति ९ स वा एष इन्द्रो वैमृध उद्यन्भवति सवितोदितो मित्रस्संगवकाल इन्द्रो वैकुण्ठो मध्यन्दिने समावर्तमानश्शर्व उग्रो देवो लोहितायन्प्रजापतिरेव संवेशेऽस्तमितः १० तद्यस्यैवं विद्वान्हिङ्करोति य एवास्योद्यतस्स्वर्गो लोकस्तस्मिन्नेवैनं दधाति ११ अथ यस्यैवं विद्वान्प्रस्तौति य एवास्योदिते स्वर्गो लोकस्तस्मिन्नेवैनं दधाति १२ अथ यस्यैवं विद्वानादिमादत्ते य एवास्य संगवकाले स्वर्गो लोकस्तस्मिन्नेवैनं दधाति १३ अथ यस्यैवं विद्वानुद्गायति य एवास्य मध्यन्दिने स्वर्गो लोकस्तस्मिन्नेवैनं दधाति १४ अथ यस्यैवं विद्वान्प्रतिहरति य एवास्यापराह्णे स्वर्गो लोकस्तस्मिन्नेवैनं दधाति १५ अथ यस्यैवं विद्वानुपद्रवति य एवास्यास्तंयतस्स्वर्गो लोकस्तस्मिन्नेवैनं दधाति १६ अथ यस्यैवं विद्वान्निधनमुपैति य एवास्यास्तमिते स्वर्गो लोकस्तस्मिन्नेवैनं दधाति १७ एवं वा एवंविदुद्गाता यजमानस्य प्राणेभ्योऽधि मृत्युपाशानुन्मुच्याथैनं साङ्गं सतनुं सर्वमृत्योस्स्पृत्वा स्वर्गे लोके सप्तधा दधाति १८ १०

सप्तमेऽनुवाके द्वितीयः खण्डः

सप्तमोऽनुवाकस्समाप्तः

4.8.1

षड्ढ वै देवतास्स्वयं भुवोऽग्निर्वायुरसावादित्यः प्राणोऽन्नं वाक् १ ताश्श्रैष्ठ्ये व्यवदन्ताहं श्रेष्ठास्मि अहं श्रेष्ठास्मि मां श्रियमुपाध्वमिति २ ता अन्योन्यस्यै श्रेष्ठतायै नातिष्ठन्त ता अब्रुवन्न वा अन्योन्यस्यै श्रेष्ठतायै तिष्ठामह एता सं प्रब्रवामहै यथा श्रेष्ठास्स्म इति ३ ता अग्निमब्रुवन्कथं त्वं श्रेष्ठोऽसीति ४ सोऽब्रवीदहं देवानां मुखमस्मि अहमन्यासां प्रजानां मयाहुतयो हूयन्ते अहं देवानामन्नं विकरोंम्यहं मनुष्याणां ५ स यदहं न स्याममुखा एव देवास्स्युरमुखा अन्याः प्रजाः नाहुतयो हूयेरन्न देवानामन्नं विक्रियेत न मनुष्याणां ६ तत इदं सर्वं पराभवेत्ततो न किं चन परिशिष्येतेति ७ एवमेवेति होचुर्नैवेह किं चन परिशिष्येत यत्त्वं न स्या इति ८ अथ वायुमब्रुवन्कथमु त्वं श्रेष्ठोऽसीति ९ सोऽब्रवीदहं देवानां प्राणोऽस्मि। अहमन्यासां प्रजानां यस्मादहमुत्क्रामामि ततस्स प्रप्लवते १० स यदहं न स्यां तत इदं सर्वं पराभवेत्ततो न किं चन परिशिष्येतेति ११ एवमेवेति होचुर्नैवेह किं चन परिशिष्येत यत्त्वं न स्या इति १२ ११

अष्टमेऽनुवाके प्रथमः खण्डः

4.8.2

अथादित्यमब्रुवन्कथमु त्वं श्रेष्ठोऽसीति १ सोऽब्रवीदहमेवोद्यन्नहर्भवां यहमस्तंयन्रात्रिः मया चक्षुषा कर्माणि क्रियन्ते स यदहं न स्यां नैवाहस्स्यान्न रात्रिः न कर्माणि क्रियेरन् २ तत इदं सर्वं पराभवेत्ततो न किं चन परिशिष्येतेति ३ एवमेवेति होचुर्नैवेह किं चन परिशिष्येत यत्त्वं न स्या इति ४ अथ प्राणमब्रुवन्कथमु त्वं श्रेष्ठोऽसीति ५ सोऽब्रवीत्प्राणो भूत्वाग्निर्दीप्यते प्राणो भूत्वा वायुराकाशमनुभवति प्राणो भूत्वादित्य उदेति प्राणादन्नं प्राणाद्वाक् ६ स यदहं न स्यां तत इदं सर्वं पराभवेत्ततो न किं चन परिशिष्येतेति ७ एवमेवेति होचुर्नैवेह किं चन परिशिष्येत यत्त्वं न स्या इति ८ अथान्नमब्रु-वन्कथमु त्वं श्रेष्ठमसीति ९ तदब्रवीन्मयि प्रतिष्ठायाग्निर्दीप्यते मयि प्रतिष्ठाय वायुराकाशमनुविभवति मयि प्रतिष्ठायादित्य उदेति मदेव प्राणो मद्वाक् १० स यदहं न स्यां तत इदं सर्वं पराभवेत्ततो न किं चन परिशिष्येतेति ११ एवमेवेति होचुर्नैवेव किं चन परिशिष्येत यत्त्वं न स्या इति १२ अथ वाच-मब्रुवन्कथमु त्वं श्रेष्ठासीति १३ साब्रवीन्मयैवेदं विज्ञायते मयादः स यदहं न स्यां नैवेदं विज्ञायेत नादः १४ तत इदं सर्वं पराभवेन्नैवेह किं चन परिशिष्येतेति १५ एवमेवेति होचुर्नैवेह किं चन परिशिष्येत यत्त्वं न स्या इति १६ १२

अष्टमेऽनुवाके द्वितीयः खण्डः

4.8.3

ता अब्रुवन्नेता वै किल सर्वा देवताः एकैकामेवानु स्मः स यन्नु नस्सर्वासां देवतानामेका चन न स्यात्तत इदं सर्वं पराभवेत्ततो न किं चन परिशिष्येत हन्त सार्धं समेत्य यच्छ्रेष्ठं तदसामेति १ ता एतस्मिन्प्राण ओकारे वाच्यकारे समायन्तद्यत्समायन्तत्सां नस्सामत्वं २ ता अब्रुवन्यानि नो मर्त्यान्यनपह-तपाप्मान्यक्षराणि तान्युद्धृत्यामृतेष्वपहतपाप्मसु शुद्धेष्वक्षरेषु गायत्रं गाया-माग्नौ वायावादित्ये प्राणेऽन्ने वाचि तेनापहत्य मृत्युमपहत्य पाप्मानं स्वर्गं लोकमियामेति ३ एत्यग्नेरमृतमपहतपाप्म शुद्धमक्षरं ग्निरित्यस्य मर्त्यमन-पहतपाप्माक्षरं ४ वेति वायोरमृतमपहतपाप्म शुद्धमक्षरं युरित्यस्य मर्त्य-मनपहतपाप्माक्षरं ५ एत्यादित्यस्यामृतमपहतपाप्म शुद्धमक्षरं त्येत्यस्य मर्त्यमनपहतपाप्माक्षरं ६ प्रेति प्राणस्यामृतमपहतपाप्म शुद्धमक्षरं णेत्यस्य मर्त्यमनपहतपाप्माक्षरं ७ एत्यन्नस्यामृतमपहतपाप्म शुद्धमक्षरं नमित्यस्य मर्त्यमनपहतपाप्माक्षरं ८ वेति वाचोऽमृतमपहतपाप्म शुद्धमक्षरं गित्यस्यै मर्त्यमनपहतपाप्माक्षरं ९ ता एतानि मर्त्यान्यनपहतपाप्मान्यक्षराण्युद्धृत्या-मृतेष्वपहतपाप्मसु शुद्धेष्वक्षरेषु गायत्रमागायन्नग्नौ वायावादित्ये प्राणेऽन्ने वाचि तेनापहत्य मृत्युमपहत्य पाप्मानं स्वर्गं लोकमायन् १० अपहत्य मृत्युमपहत्य पाप्मानं स्वर्गं लोकमेति य एवं वेद ११ १३

अष्टमेऽनुवाके तृतीयः खण्डः

4.8.4

ता ब्रह्माब्रुवन्त्वयि प्रतिष्ठायैतमुद्यच्छामेति ता ब्रह्माब्रवीदास्येन प्राणेन युष्मानास्येन प्राणेन मामुपाप्नवाथेति १ ता एतेन प्राणेनौकारेण वाच्यकारम-भिनिमेष्यन्त्यो हिङ्काराद्भकारमोकारेण वाचमनुस्वरन्त्य उभाभ्यां प्राणाभ्यां गायत्रमगायन्नोवा३चोवा३चोवा३छुं भा वो वा इति २ स यथोभयापदी प्रतितिष्ठत्येवमेव स्वर्गे लोके प्रत्यतिष्ठन्प्रति स्वर्गे लोके तिष्ठति य एवं वेद ३ य उ ह वा एवंविदस्माल्लोकात्प्रैति स प्राण एव भूत्वा वायुमप्येति वायोरध्यभ्राण्यभ्रेभ्योऽधि वृष्टिं वृष्ट्यैवेमं लोकमनुविभवति ४ ऋषयो ह सत्त्रमासां चक्रिरे ते पुनःपुनर्बह्वीभिर्बह्वीभिः प्रतिपद्भिस्स्वर्गस्य लोकस्य द्वारं नानु चन बुबुधिरे ५ त उ श्रमेण तपसा व्रतचर्येणेन्द्र मवरुरुधिरे ६ तं होचुस्स्वर्गं वै लोकमैप्सिष्म ते पुनःपुनर्बह्वीभिर्बह्वीभिः प्रतिपद्भिस्स्वर्गस्य लोकस्य द्वारं नानु चनाभुत्स्महि तथा नोऽनुशाधि यथा स्वर्गस्य लोकस्य द्वारमनुप्रज्ञायानार्तास्स्वस्ति संवत्सरस्योदृचं गत्वा स्वर्गं लोकमियामेति ७ तान्होवाच को वस्स्थविरतम इति ८ १४

अष्टमेऽनुवाके चतुर्थः खण्डः

4.8.5

अहमित्यगस्त्यः १ स वा एहीति होवाच तस्मै वै तेऽहं तद्वक्ष्यामि यद्विद्वांस-स्स्वर्गस्य लोकस्य द्वारमनुप्रज्ञायानार्तास्स्वस्ति संवत्सरस्योदृचं गत्वा स्वर्गं लोकमेष्यथेति २ तस्मा एतं गायत्रस्योद्गीथमुपनिषदममृतमुवाचाग्नौ वाया-वादित्ये प्राणेऽन्ने वाचि ३ ततो वै ते स्वर्गस्य लोकस्य द्वारमनुप्रज्ञायाना-र्तास्स्वस्ति संवत्सरस्योदृचं गत्वा स्वर्गं लोकमायन् ४ एवमेवैवं विद्वा-न्स्वर्गस्य लोकस्य द्वारमनुप्रज्ञायानार्तस्स्वस्ति संवत्सरस्योदृचं गत्वा स्वर्गं लोकमेति ५ १५

अष्टमेऽनुवाके पञ्चमः खण्डः

अष्टमोऽनुवाकस्समाप्तः

4.9.1

एवं वा एतं गायत्रस्योद्गीथमुपनिषदममृतमिन्द्रो ऽगस्त्यायोवाचागस्त्य इषाय श्यावाश्वय इषश्श्यावाश्विर्गौषूक्तये गौषूक्तिर्ज्वालायनाय ज्वालायनश्शा-ट्यायनये शाट्यायनी रामाय क्रातुजातेयाय वैयाघ्रपद्याय रामः क्रातुजातेयो वैयाघ्रपद्यः १ १६

नवमेऽनुवाके प्रथमः खण्डः

4.9.2

शङ्खाय बाभ्रव्याय शङ्खो बाभ्रव्यो दक्षाय कात्यायनय आत्रेयाय दक्षः कात्यायनिरात्रेयः कंसाय वारक्याय कंसो वारक्यस्सुयज्ञाय शाण्डिल्याय सुयज्ञश्शाण्डिल्योऽग्निदत्ताय शाण्डिल्यायाग्निदत्तश्शाण्डिल्यस्सुयज्ञाय शाण्डिल्याय सुयज्ञश्शाण्डिल्यो जयन्ताय वारक्याय जयन्तो वारक्यो जनश्रुताय वारक्याय जनश्रुतो वारक्यस्सुदत्ताय पाराशर्याय १ सैषा शाट्यायनी गायत्रस्योपनिषदेवमुपासितव्या २ १७

नवमेऽनुवाके द्वितीयः खण्डः

नवमोऽनुवाकस्समाप्तः

4.10.1

केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः केनेषितां वाचमिमां वदन्ति चक्षुश्श्रोत्रं क उ देवो युनक्ति १ श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति २ न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः न विद्म न विजानीमो यथैतदनुशिष्यात् ३ अन्यदेव तद्विदितादथो अविदितादधि इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ४ यद्वाचानभ्युदितं येन वागभ्युद्यते तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ५ यन्मनसा न मनुते येनाहुर्मनो मतं तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ६ यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ७ यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतं तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ८ यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ९ १८

दशमेऽनुवाके प्रथमः खण्डः

4.10.2

यदि मन्यसे सु वेदेति दह्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपं यदस्य त्वं यदस्य देवेषु अथ नु मीमांस्यमेव ते मन्येऽविदितं १ नाहं मन्ये सु वेदेति नो न वेदेति वेद च यो नस्तद्वेद तद्वेद नो न वेदेति वेद च २ यस्यामतं तस्य मतं मतं यस्य न वेद सः अविज्ञातं विजानतां अविजानतां ३ प्रति-बोधविदितं मतममृतत्वं हि विन्दते आत्मना विन्दते वीर्यं विद्यया विन्दते-ऽमृतं ४ इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः भूतेषु-भूतेषु विविच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ५ १९

दशमेऽनुवाके द्वितीयः खण्डः

4.10.3

ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त त ऐक्षन्तास्माकमेवायं विजयः अस्माकमेवायं महिमेति १ तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानन्त किमिदं यक्षमिति २ तेऽग्निमब्रुवञ्जातवेद एतद्वि-जानीहि किमेतद्यक्षमिति तथेति ३ तदभ्यद्र वत्तमभ्यवदत्कोऽसीति अग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ४ तस्मिंस्त्वयि किं वीर्यमिति अपीदं सर्वं दहेयं यदिदं पृथिव्यामिति ५ तस्मै तृणं निदधावेतद्दहेति तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैनदशकं विज्ञातुं यदेतद्यक्षमिति ६ अथ वायुमब्रुवन्वायवेतद्विजानीहि किमेतद्यक्षमिति तथेति ७ तदभ्यद्र वत्तमभ्यवदत्कोऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ८ तस्मिंस्त्वयि किं वीर्यमिति अपीदं सर्वमाददीय यदिदं पृ-थिव्यामिति ९ तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव निववृते नैनदशकं विज्ञातुं यदेतद्यक्षमिति १० अथेन्द्र मब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्र वत्तस्मा-त्तिरोऽदधे ११ स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहु शोभमानामुमां हैमवतीं तां होवाच किमेतद्यक्षमिति १२ २०

दशमेऽनुवाके तृतीयः खण्डः

4.10.4

ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्व इति ततो हैव विदां चकार ब्रह्मेति १ तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्र ः! ते ह्येनन्ने-दिष्ठं पस्पृशुस्स ह्येनत्प्रथमो विदां चकार ब्रह्मेति २ तस्माद्वा इन्द्रो ऽतितरामि-वान्यान्देवान्स ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदां चकार ब्रह्मेति ३ तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३ इति न्यमिषदा३ इत्यधिदेवतं ४ अथाध्यात्मं यदेनद्गच्छतीव च मनोऽनेन चैनदुपस्मरत्यभीक्ष्णं संकल्पः ५ तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि हैनं सर्वाणि भूतानि संवाङ्छन्ति ६ उपनिषदं भो ब्रूहीति उक्ता त उपनिषत् ब्राह्मीं वाव त उपनिषदमब्रूमेति ७ तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदास्सर्वाङ्गाणि सत्य-मायतनं ८ यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोकेऽज्येये प्रतितिष्ठति ९ २१

दशमेऽनुवाके चतुर्थः खण्डः

दशमोऽनुवाकस्समाप्तः

4.11.1

आशा वा इदमग्र आसीद्भविष्यदेव तदभवत्ता आपोऽभवन् १ तास्तपोऽतप्यन्त तास्तपस्तेपाना हुस्सित्येव प्राचीः प्राश्वसन्स वाव प्राणोऽभवत् २ ताः प्राण्यापानन्स वा अपानोऽभवत् ३ ता अपान्य व्यानन्स वाव व्यानोऽभवत् ४ ता व्यान्य समानन्स वाव समानोऽभवत् ५ तास्समान्योदानन्स वा उदानोऽभवत् ६ तदिदमेकमेव सधमाद्यमासीदविविक्तं ७ स नाम-रूपमकुरुत तेनैनद्व्यविनक् वि ह पाप्मनो विच्यते य एवं वेद ८ तदसौ वा आदित्यः प्राणोऽग्निरपान आपो व्यानो दिशस्समानश्चन्द्रमा उदानः ९ तद्वा एतदेकमभवत्प्राण एव स य एवमेतदेकं भवद्वेदैवं हैतदेकधा भवतीत्येकधैव श्रेष्ठस्स्वानां भवति १० तदग्निर्वै प्राणो वागिति पृथिवी वायुर्वै प्राणो वागि-त्यन्तरिक्षमादित्यो वै प्राणो वागिति द्यौर्दिशो वै प्राणो वागिति श्रोत्रं चन्द्र मा वै प्राणो वागिति मनः पुमान्वै प्राणो वागिति स्त्री ११ तस्येदं सृष्टं शिथिल-ं भुवनमासीदपर्याप्तं १२ स मनोरूपमकुरुत तेन तत्पर्याप्नोत् दृढं ह वा अस्येदं सृष्टमशिथिलं भुवनं पर्याप्तं भवति य एवं वेद १३ २२

एकादशेऽनुवाके प्रथमः खण्डः

4.11.2

सैषा चतुर्धा विहिता श्रीरुद्गीथस्सामार्क्यं ज्येष्ठब्राह्मणं १ प्राणो वावोद्वाग्गी स उद्गीथः २ प्राणो वावामो वाक्सा तत्साम ३ प्राणो वाव को वागृक्तदर्क्यं ४ प्राणो वाव ज्येष्ठो वाग्ब्राह्मणं तज्ज्येष्ठब्राह्मणं ५ उपनिषदं भो ब्रूहीति उक्ता त उपनिषद्यस्य ते धातव उक्ताः त्रिधातु विषु वाव त उपनिषदमब्रूमेति ६ एतच्छुक्लं कृष्णं तां रं सामवर्ण इति ह स्माह यदैव शुक्लकृष्णे तां रो वर्णोऽभ्यवैति स वै ते वृङ्ते दशम मानुषमिति त्रिधातु स ऐक्षत क्व नु म उत्तानाय शयानायेमा देवता बलिं हरेयुरिति ७ २३

एकादशेऽनुवाके द्वितीयः खण्डः

4.11.3

स पुरुषमेव प्रपदनायावृणीत १ तं पुरस्तात्प्रत्यञ्चं प्राविशत्तस्मा उरुरभव-त्तदुरस उरस्त्वं २ तस्मा अत्रसद एता देवता बलिं हरन्ति ३ वाचमनु-हरन्तीमग्निरस्मै बलिं हरति ४ मनोऽनुहरच्चन्द्र मा अस्मै बलिं हरति ५ चक्षुरनुहरदादित्योऽस्मै बलिं हरति ६ श्रोत्रमनुहरद्दिशोऽस्मै बलिं हरन्ति ७ प्राणमनुहरन्तं वायुरस्मै बलिं हरति ८ तस्यैते निष्खाताः पन्था बलिवाहना इमे प्राणाः एवं हैतं निष्खाताः पन्था बलिवाहनास्सर्वतोऽपियन्ति प्राणा य एवं वेद ९ सा हैषा ब्रह्मासन्दीमारूढा आ हास्मै ब्रह्मासन्दीं हरन्त्यधि ह ब्रह्मासन्दीं रोहति य एवं वेद १० तदेतद्ब्रह्मयशश्श्रिया परिवृढं ब्रह्म ह तु सन्यशसा श्रिया परिवृढो भवति य एवं वेद ११ तस्यैष आदेशो योऽयं दक्षिणेऽक्षन्नन्तः तस्य यच्छुक्लं तदृचां रूपं यत्कृष्णं तत्सां नां यदेव तां रमिव बभ्रुरिव तद्यजुषां १२ य एवायं चक्षुषि पुरुष एष इन्द्र एष प्रजापतिस्समः पृथिव्या सम आकाशेन समो दिवा समस्सर्वेण भूतेन एष परो दिवो दीप्यते एष एवेदं सर्वमित्युपासितव्यं १३ २४

एकादशेऽनुवाके तृतीयः खण्डः

4.11.4

सच्चासच्चासच्च सच्च वाक्च मनश्च मनश्च वाक्च चक्षुश्च श्रोत्रं च श्रोत्रं च चक्षुश्च श्रद्धा च तपश्च तपश्च श्रद्धा च तानि षोडश १ षोडशकलं ब्रह्म स य एवमेत-त्षोडशकलं ब्रह्म वेद तमेवैतत्षोडशकलं ब्रह्माप्येति २ वेदो ब्रह्म तस्य सत्यमायतनं शमः प्रतिष्ठा दमश्च ३ तद्यथा श्वः प्रैष्यन्पापात्कर्मणो जुगुप्से-तैवमेवाहरहः पापात्कर्मणो जुगुप्सेताकालात् ४ अथैसां दशपदी विराट् ५ दश पुरुषे स्वर्गनरकाणि तान्येनं स्वर्गं गतानि स्वर्गं गमयन्ति नरकं गतानि नरकं गमयन्ति ६ २५

एकादशेऽनुवाके चतुर्थः खण्डः

4.11.5

मनो नरको वाङ्नरकः प्राणो नरकश्चक्षुर्नरकश्श्रोत्रं नरकस्त्वङ्नरको हस्तौ नरको गुदं नरकश्शिश्नं नरकः पादौ नरकः १ मनसा परीक्ष्याणि वेदेति वेद २ वाचा रसान्वेदेति वेद ३ प्राणेन गन्धान्वेदेति वेद ४ चक्षुषा रूपाणि वेदेति वेद ५ श्रोत्रेण शब्दान्वेदेति वेद ६ त्वचा संस्पर्शान्वेदेति वेद ७ हस्ताभ्यां कर्माणि वेदेति वेद ८ उदरेणाशनयां वेदेति वेद ९ शिश्नेन रामान्वेदेति वेद १० पादाभ्यामध्वनो वेदेति वेद ११ प्लक्षस्य प्रास्रवणस्य प्रादेशमात्रादुदक्तत्पृथिव्यै मध्यमथ यत्रैते सप्तर्षयस्तद्दिवो मध्यं १२ अथ यत्रैत ऊषास्तत्पृथिव्यै हृदयमथ यदेतत्कृष्णं चन्द्र मसि तद्दिवो हृदयं १३ स य एवमेते द्यावापृथिव्योर्मध्ये च हृदये च वेद नाकामोऽस्माल्लोकात्प्रैति १४ नमोऽतिसामायैतुरेताय धृतराष्ट्राय पार्थुश्रवसाय ये च प्राणं रक्षन्ति ते मा रक्षन्तु स्वस्ति कर्मेति गार्हपत्यश्शम इत्याहवनीयो दम इत्यन्वाहार्यपचनः १५ २७

एकादशेऽनुवाके पञ्चमः खण्डः

एकादशोऽनुवाकस्समाप्तः

4.12.1

का सावित्री अग्निरेव सविता पृथिवी सावित्री १ स यत्राग्निस्तत्पृथिवी यत्र वा पृथिवी तदग्निः ते द्वे योनी तदेकं मिथुनं २ कस्सविता का सावित्री वरुण एव सविता आपस्सावित्री ३ स यत्र वरुणस्तदापो यत्र वापस्तद्वरुणः ते द्वे योनी तदेकं मिथुनं ४ कस्सविता का सावित्री वायुरेव सविता आकाशस्सावित्री ५ स यत्र वायुस्तदाकाशो यत्र वाकाशस्तद्वायुः ते द्वे योनी तदेकं मिथुनं ६ कस्सविता का सावित्री यज्ञ एव सविता छन्दांसि सावित्री ७ स यत्र यज्ञस्तच्छन्दांसि यत्र वा छन्दांसि तद्यज्ञः ते द्वे योनी तदेकं मिथुनं ८ कस्सविता का सावित्री स्तनयित्नुरेव सविता विद्युत्सावित्री ९ स यत्र स्तनयित्नुस्तद्विद्युद्यत्र वा विद्युत्तत्स्तनयित्नुः ते द्वे योनी तदेकं मिथुनं १० कस्सविता का सावित्री आदित्य एव सविता द्यौस्सावित्री ११ स यत्रादित्य-स्तद्द्यौर्यत्र वा द्यौस्तदादित्यः ते द्वे योनी तदेकं मिथुनं १२ कस्सविता का सावित्री चन्द्र एव सविता नक्षत्राणि सावित्री १३ स यत्र चन्द्र स्तन्नक्षत्राणि यत्र वा नक्षत्राणि तच्चन्द्र ः! ते द्वे योनी तदेकं मिथुनं १४ कस्सविता का सा-वित्री मन एव सविता वाक्सावित्री १५ स यत्र मनस्तद्वाग्यत्र वा वाक्तन्मनः ते द्वे योनी तदेकं मिथुनं १६ कस्सविता का सावित्री पुरुष एव सविता स्त्री सावित्री स यत्र पुरुषस्तत्स्त्री यत्र वा स्त्री तत्पुरुषः ते द्वे योनी तदेकं मिथुनं १७ २७

द्वादशेऽनुवाके प्रथमः खण्डः

4.12.2

तस्या एष प्रथमः पादो भूस्तत्सवितुर्वरेण्यमिति अग्निर्वै वरेण्यमापो वै वरेण्यं चन्द्र मा वै वरेण्यं १ तस्या एष द्वितीयः पादो भर्गमयो भुवो भर्गो देवस्य धीमहीति अग्निर्वै भर्गः आदित्यो वै भर्गः चन्द्र मा वै भर्गः २ तस्या एष तृतीयः पादस्स्वर्धियो यो नः प्रचोदयादिति यज्ञो वै प्रचोदयति स्त्री च वै पुरुषश्च प्रजनयतः ३ भूर्भुवस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहीति अग्निर्वै भर्गः आदित्यो वै भर्गः चन्द्र मा वै भर्गः ४ स्वर्धियो यो नः प्रचोदयादिति यज्ञो वै प्रचोदयति स्त्री च वै पुरुषश्च प्रजनयतः ५ भूर्भुवस्स्वस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयादिति यो वा एतां सावित्रीमेवं वेदाप पुनर्मृत्युं तरति सावित्र्! या एव सलोकतां जयति सावित्र्! या एव सलोकतां जयति ६ २८

द्वादशेऽनुवाके द्वितीयः खण्डः द्वादशोऽनुवाकस्समाप्तः

इत्युपनिषद्ब्राह्मणं समाप्तं

Credits Source: Hanns Oertel, "The Jaiminiya or Talavakara Upanisad Brahmana: Text, Translation, and Notes", in: Journal of the American Oriental Society 16 (1896), pp. 79-260. Typescript: Entered by Masato Fujii and proofread by Mieko Kajihara Conversion to Devanagari using Vedapad Software by Ralph Bunker

Formatted for Maharishi University of Management Vedic Literature Collection

सम्पाद्यताम्

4.6.1

द्र. भगीरथोपरि टिप्पणी


4.1.1

अथ चतुर्थोऽध्यायः
 
श्वेताश्वो दर्शतो हरिनीलोऽसि हरितस्पृशस्समानबुद्धो मा हिंसीः न मां त्वं वेत्थ प्रद्र व १ यदभ्यवचरणोऽभ्यवैषि स्वपन्तम्पुरुषमकोविदमश्ममयेन वर्मणा वरुणोऽन्तर्दधातु मा २ यदभ्यवचरणोऽभ्यवैषि स्वपन्तम्पुरुषमकोविदमयस्मयेन वर्मणा वरुणोऽन्तर्दधातु मा ३ यदभ्यवचरणोऽभ्यवैषि स्वपन्तम्पुरुष-मकोविदं लोहमयेन वर्मणा वरुणोऽन्तर्दधातु मा ४ यदभ्यवचरणोऽभ्यवैषि स्वपन्तम्पुरुषमकोविदं रजतमयेन वर्मणा वरुणोऽन्तर्दधातु मा ५ यदभ्यव-चरणोऽभ्यवैषि स्वपन्तम्पुरुषं सुवर्णमयेन वर्मणा वरुणोऽन्तर्दधातु मा ६ आयुर्माता मतिः पिता नमस्त आविशोषण ग्रहो नामासि विश्वायुस्तस्मै ते विश्वाहा नमो नमस्ताम्राय नमो वरुणाय नमो जिघांसते ७ यक्ष्म राजन्मा मां हिंसीः राजन्यक्ष्म मा हिंसीः तयोस्संविदानयोस्सर्वमायुरयान्यहम् ८ १

प्रथमोऽनुवाकस्समाप्तः
 
4.2.1

पुरुषो वै यज्ञः १ तस्य यानि चतुर्विंशतिर्वर्षाणि तत्प्रातस्सवनं चतुर्विंशत्यक्षरा गायत्री गायत्रम्प्रातस्सवनम् २ तद्वसूनां प्राणा वै वसवः प्राणा हीदं सर्वं वस्वाददते ३ स यद्येनमेतस्मिन्काल उपतपदुपद्र वेत्स ब्रूयात्प्राणा वसव इदम्मे प्रातस्सवनम्माध्यन्दिनेन सवनेनानुसंतनुतेति अगदो हैव भवति ४ अथ यानि चतुश्चत्वारिंशतं वर्षाणि तन्माध्यन्दिनं सवनं चतुश्चत्वारिंशदक्षरा त्रिष्टुप् त्रैष्टुभम्माध्यन्दिनं सवनम् ५ तद्रुद्रा णां प्राणा वै रुद्रा ः! प्राणा हीदं सर्वं रोदयन्ति ६ स यद्येनमेतस्मिन्काल उपतपदुपद्र वेत्स ब्रूयात्प्राणा रुद्रा इदम्मे माध्यन्दिनं सवनं तृतीयसवनेनानुसंतनुतेति अगदो हैव भवति ७ अथ यान्यष्टाचत्वा-रिंशतं वर्षाणि तत्तृतीयसवनमष्टाचत्वारिंशदक्षरा जगती जागतं तृतीयसवनम् ८ तदादित्यानां प्राणा वा आदित्याः प्राणा हीदं सर्वमाददते ९ स यद्ये-नमेतस्मिन्काल उपतपदुपद्र वेत्स ब्रूयात्प्राणा आदित्या इदम्मे तृतीयसवनमा-युषानुसंतनुतेति अगदो हैव भवति १० एतद्ध तद्विद्वान्ब्राह्मण उवाच महिदास ऐतरेय उपतपति किमिदमुपतपसि योऽहमनेनोपतपता न प्रेष्यामीति स ह षोडशशतं वर्षाणि जिजीव प्र ह षोडशशतं वर्षाणि जीवति नैनम्प्राणस्साम्यायुषो जहाति य एवं वेद ११
  
द्वितीयोऽनुवाकस्समाप्तः २

4.3.1

त्र्यायुषं कश्यपस्य जमदग्नेस्त्र्! यायुषं त्रीण्यमृतस्य पुष्पाणि त्रीण्यायूंषि मेऽकृणोः १ स नो मयोभूः पितवाविशस्व शान्तिको यस्तनुवे स्योनः २ येऽग्नयः पुरीष्याः प्रविष्टाः पृठिवीमनु तेषां त्वमस्युत्तमः प्र णो जीवातवे सुव ३ ३

तृतीयोऽनुवाकस्समाप्तः

4.4.1

अरण्यस्य वत्सोऽसि विश्वनामा विश्वाभिरक्षणोऽपाम्पक्वोऽसि वरुणस्य दूतोऽन्तर्धिनाम १ यथा त्वममृतो मर्त्येभ्योऽन्तर्हितोऽस्येवं त्वमस्मानघायुभ्योऽन्तर्धेहि अन्तर्धिरसि स्तेनेभ्यः २ ४

चतुर्थोऽनुवाकस्समाप्तः
     
4.5.1
व्युषि सविता भवस्युदेष्यन्विष्णुरुद्यन्पुरुष उदितो बृहस्पतिरभिप्रयन्मघवेन्द्रो वैकुण्ठो माध्यन्दिने भगोऽपराह्न उग्रो देवो लोहितायन्नस्तमिते यमो भवसि १ अश्नसु सोमो राजा निशायाम्पितृराजस्स्वप्ने मनुष्यान्प्रविशसि पयसा पशून् २ विरात्रे भवो भवस्यपररात्रेऽङ्गिरा अग्निहोत्रवेलायाम्भृगुः ३ तस्य तदेतदेव मण्डलमूधः तस्यैतौ स्तनौ यद्वाक्च प्राणश्च ताभ्याम्मे धुक्ष्वाध्या-यम्ब्रह्मचर्यम्प्रजाम्पशून्स्वर्गं लोकं सजातवनस्याम् ४ एता आशिष आशासे
भूर्भुवस्स्वः उदिते शुक्रमादिश तदत्मन्दधे ५ ५

पञ्चमोऽनुवाकस्समाप्तः
 
4.6.1
भगेरथो हैक्ष्वाको राजा कामप्रेण यज्ञेन यक्ष्यमाण आस १ तदु ह कुरुपञ्चालानाम्ब्राह्मणा ऊचुर्भगेरथो ह वा अयमैक्ष्वाको राजा कामप्रेण यज्ञेन यक्ष्यमाणः एतेन कथां वदिष्याम इति २ तं हाभ्येयुः तेभ्यो हाभ्यागतेभ्योऽपचितीश्चकार ३ अथ हैषां स भाग आवव्राजोप्त्वा केशश्मश्रूणि नखा-न्निकृत्याज्येनाभ्यज्य दण्डोपानहम्बिभ्रत् ४ तान्होवाच ब्राह्मणा भगवन्तः कतमो वस्तद्वेद यथाश्रावितप्रत्याश्राविते देवान्गच्छत इति ५ अथ होवाच कतमो वस्तद्वेद यद्विदुषस्सूद्गाता सुहोता स्वध्वर्युस्सुमानुषविदाजायत इति ६ अथ होवाच कतमो वस्तद्वेद यच्छन्दांसि प्रयुज्यन्ते यत्तानि सर्वाणि संस्तुतान्यभिसम्पद्यन्त इति ७ अथ होवाच कतमो वस्तद्वेद यथा गायत्र्या उत्तमे अक्षरे पुनर्यज्ञमपिगच्छत इति ८ अथ होवाच कतमो वस्तद्वेद यथा दक्षिणाः प्रतिगृहीता न हिंसन्तीति ९ ६

षष्ठेऽनुवाके प्रथमः खण्डः
    
4.6.2

एतान्हैनान्पञ्च प्रश्नान्पप्रच्छ १ तेषां ह कुरुपञ्चालानाम्बको दाल्भ्योऽनूचान आस २ स होवाच यथाश्रावितप्रत्याश्राविते देवान्गच्छत इति प्राच्यां वै राजन्दिश्याश्रावितप्रत्याश्राविते देवान्गच्छतः तस्मात्प्राङ्तिष्ठन्नाश्रावयति प्राङ्तिष्ठन्प्रत्याश्रावयतीति ३ अथ होवाच यद्विदुषस्सूद्गाता सुहोता स्वध्व-र्युस्सुमानुषविदाजायत इति यो वै मनुष्यस्य सम्भूतिं वेदेति होवाच तस्य सूद्गाता सुहोता स्वध्वर्युस्सुमानुषविदाजायत इति प्राणा उ ह वाव राज-न्मनुष्यस्य सम्भूतिरेवेति ४ अथ होवाच यच्छन्दांसि प्रयुज्यन्ते यत्तानि सर्वाणि संस्तुतान्यभिसम्पद्यन्त इति गायत्रीमु ह वाव राजन्सर्वाणि छन्दांसि संस्तुतान्यभिसम्पद्यन्त ५ अथ होवाच यथा गायत्र्या उत्तमे अक्षरे पुनर्यज्ञमपिगच्छत इति वषट्कारेणो ह वाव राजन्गायत्र्या उत्तमे अक्षरे पुनर्यज्ञमपिगच्छत इति ६ अथ होवाच यथा दक्षिणाः प्रतिगृहीता न हिंसन्तीति ७ ७

षष्ठेऽनुवाके द्वितीयः खण्डः
   
4.6.3

यो वै गायत्र्यै मुखं वेदेति होवाच तं दक्षिणा प्रतिगृहीता न हिंसन्तीति १ अग्निर्ह वाव राजन्गायत्रीमुखं तस्माद्यदग्नावभ्यादधाति भूयानेव स तेन भवति वर्धते एवमेवैवं विद्वान्ब्राह्मणः प्रतिगृह्णन्भूयानेव भवति वर्धत उ एवेति २ स होवाचानूचानो वै किलायम्ब्राह्मण आस त्वामहमनेन यज्ञेनैमीति ३ तस्य वै ते तथोद्गास्यामीति होवाच यथैकराडेव भूत्वा स्वर्गं लोकमेष्यसीति ४ तस्मा एतेन गायत्रेणोद्गीथेनोज्जगौ स हैकराडेव भूत्वा स्वर्गं लोकमियाय तेन हैतेनैकराडेव भूत्वा स्वर्गं लोकमेति य एवं वेद ५ ॐ वा इति द्वे अक्षरे ॐ वा इति चतुर्थे ॐ वा इति षष्ठे हुम्भा ॐ वागित्यष्टमे ६ तेन हैतेन प्रतीदर्शोऽस्य भयदस्यासमात्यस्योज्जगौ ७ तं होवाच किं त आगास्यामीति स होवाच हरी मे देवाश्वावागायेति तथेति तौ हास्मा आजगौ तौ हैनमाजग्मतुः ८ स वा एष उद्गीथः कामानां सम्पदॐ वा३चॐ वा३चॐ वा३छुम्भा ॐ वागिति साङ्गो
हैव सतनुरमृतस्सम्भवति य एतदेवं वेदाथो यस्यैवं विद्वानुद्गायति ९ ८

षष्ठेऽनुवाके तृतीयः खण्डः
  
षष्ठोऽनुवाकस्समाप्तः
   
4.7.1

पुरुषो वै यज्ञः पुरुषो होद्गीथः अथैत एव मृत्यवो यदग्निर्वायुरादित्यश्चन्द्र माः १ ते ह पुरुषं जायमानमेव मृत्युपाशैरभिदधति तस्य वाचमेवाग्निरभिदधाति प्राणं वायुश्चक्षुरादित्यश्श्रोत्रं चन्द्र माः २ तदाहुस्स वा उद्गाता यो यजमानस्य प्राणे-भ्योऽधि मृत्युपाशानुन्मुञ्चतीति ३ तद्यस्यैवं विद्वान्प्रस्तौति य एवास्य वाचि मृत्युपाशस्तमेवास्योन्मुञ्चति ४ अथ यस्यैवं विद्वानुद्गायति य एवास्य प्राणे मृत्युपाशस्तमेवास्योन्मुञ्चति ५ अथ यस्यैवं विद्वान्प्रतिहरति य एवास्य चक्षुषि मृत्युपाशस्तमेवास्योन्मुञ्चति ६ अथ यस्यैवं विद्वान्निधनमुपैति य एवास्य श्रोत्रे मृत्युपाशस्तमेवास्योन्मुञ्चति ७ एवं वा एवंविदुद्गाता यजमानस्य प्राणेभ्योऽधि मृत्युपाशानुन्मुञ्चति ८ तदाहुस्स वा उद्गाता यो यजमानस्य प्राणेभ्योऽधि मृत्युपाशानुन्मुच्याथैनं साङ्गं सतनुं सर्वमृत्योस्स्पृणातीति ९ ९

सप्तमेऽनुवाके प्रथमः खण्डः
   
4.7.2

तद्यस्यैवं विद्वान्हिङ्करोति य एवास्य लोमसु मृत्युपाशस्तस्मादेवैनं स्पृणाति १ अथ यस्यैवं विद्वान्प्रस्तौति य एवास्य त्वचि मृत्युपाशस्तस्मादेवैनं स्पृणाति २ अथ यस्यैवं विद्वानादिमादत्ते य एवास्य मांसेषु मृत्युपाशस्तस्मादेवैनं स्पृणाति ३ अथ यस्यैवं विद्वानुद्गायति य एवास्य स्नावसु मृत्युपाशस्तस्मा-देवैनं स्पृणाति ४ अथ यस्यैवं विद्वान्प्रतिहरति य एवास्याङ्गेषु मृत्युपा-शस्तस्मादेवैनं स्पृणाति ५ अथ यस्यैवं विद्वानुपद्रवति य एवास्यास्थिषु मृत्युपाशस्तस्मादेवैनं स्पृणाति ६ अथ यस्यैवं विद्वान्निधनमुपैति य एवास्य मज्जसु मृत्युपाशस्स तस्मादेवैनं स्पृणाति ७ एवं वा एवंविदुद्गाता यजमानस्य प्राणेभ्योऽधि मृत्युपाशानुन्मुच्याथैनं साङ्गं सतनुं सर्वमृत्योस्स्पृणाति ८ तदाहुस्स वा उद्गाता यो यजमानस्य प्राणेभ्योऽधि मृत्युपाशानुन्मुच्याथैनं साङ्गं सतनुं सर्वमृत्योस्स्पृत्वा स्वर्गे लोके सप्तधा दधातीति ९ स वा एष इन्द्रो वैमृध उद्यन्भवति सवितोदितो मित्रस्संगवकाल इन्द्रो वैकुण्ठो मध्यन्दिने समावर्तमानश्शर्व उग्रो देवो लोहितायन्प्रजापतिरेव संवेशेऽस्तमितः १० तद्यस्यैवं विद्वान्हिङ्करोति य एवास्योद्यतस्स्वर्गो लोकस्तस्मिन्नेवैनं दधाति ११ अथ यस्यैवं विद्वान्प्रस्तौति य एवास्योदिते स्वर्गो लोकस्तस्मिन्नेवैनं दधाति १२ अथ यस्यैवं विद्वानादिमादत्ते य एवास्य संगवकाले स्वर्गो लोकस्तस्मिन्नेवैनं दधाति १३ अथ यस्यैवं विद्वानुद्गायति य एवास्य मध्यन्दिने स्वर्गो लोकस्तस्मिन्नेवैनं दधाति १४ अथ यस्यैवं विद्वान्प्रतिहरति य एवास्यापराह्णे स्वर्गो लोकस्तस्मिन्नेवैनं दधाति १५ अथ यस्यैवं विद्वानुपद्रवति य एवास्यास्तंयतस्स्वर्गो लोकस्तस्मिन्नेवैनं दधाति १६ अथ यस्यैवं विद्वान्निधनमुपैति य एवास्यास्तमिते स्वर्गो लोकस्तस्मिन्नेवैनं दधाति १७ एवं वा एवंविदुद्गाता यजमानस्य प्राणेभ्योऽधि मृत्युपाशानुन्मुच्याथैनं साङ्गं सतनुं सर्वमृत्योस्स्पृत्वा स्वर्गे लोके सप्तधा दधाति १८ १०

सप्तमेऽनुवाके द्वितीयः खण्डः

सप्तमोऽनुवाकस्समाप्तः
  
4.8.1

षड्ढ वै देवतास्स्वयम्भुवोऽग्निर्वायुरसावादित्यः प्राणोऽन्नं वाक् १ ताश्श्रैष्ठ्ये व्यवदन्ताहं श्रेष्ठास्म्यहं श्रेष्ठास्म्य्मां श्रियमुपाध्वमिति २ ता अन्योन्यस्यै श्रेष्ठ-तायै नातिष्ठन्त ता अब्रुवन्न वा अन्योन्यस्यै श्रेष्ठतायै तिष्ठामह एता सम्प्रब्रवामहै यथा श्रेष्ठास्स्म इति ३ ता अग्निमब्रुवन्कथं त्वं श्रेष्ठोऽसीति ४ सोऽब्रवीदहं देवानाम्मुखमस्म्यहमन्यासाम्प्रजानाम्मयाहुतयो हूयन्ते अहं देवानामन्नं विक-रोम्यहम्मनुष्याणाम् ५ स यन्न स्याममुखा एव देवास्स्युरमुखा अन्याः प्रजाः नाहुतयो हूयेरन्न देवानामन्नं विक्रियेत न मनुष्याणाम् ६ तत इदं सर्वम्परा-भवेत्ततो न किं चन परिशिष्येतेति ७ एवमेवेति होचुर्नैवेह किं चन परिशिष्येत यत्त्वं न स्या इति ८ अथ वायुमब्रुवन्कथमु त्वं श्रेष्ठोऽसीति ९ सोऽब्रवीदहं देवानाम्प्राणोऽस्म्यहमन्यासाम्प्रजानां यस्मादहमुत्क्रामामि ततस्स प्रप्लवते १० स यदहं न स्यां तत इदं सर्वम्पराभवेत्ततो न किं चन परिशिष्येतेति ११ एवमेवेति होचुर्नैवेह किं चन परिशिष्येत यत्त्वं न स्या इति १२ ११

अष्टमेऽनुवाके प्रथमः खण्डः
   
4.8.2

अथादित्यमब्रुवन्कथमु त्वं श्रेष्ठोऽसीति १ सोऽब्रवीदहमेवोद्यन्नहर्भवाम्यहमस्तंयन्रात्रिः मया चक्षुषा कर्माणि क्रियन्ते स यदहं न स्यां नैवाहस्स्यान्न रात्रिः न कर्माणि क्रियेरन् २ तत इदं सर्वम्पराभवेत्ततो न किं चन परिशिष्येतेति ३ एवमेवेति होचुर्नैवेह किं चन परिशिष्येत यत्त्वं न स्या इति ४ अथ प्राणमब्रुवन्कथमु त्वं श्रेष्ठोऽसीति ५ सोऽब्रवीत्प्राणो भूत्वाग्निर्दीप्यते प्राणो भूत्वा वायुराकाशमनुभवति प्राणो भूत्वादित्य उदेति प्राणादन्नम्प्राणाद्वाक् ६ स यदहं न स्यां तत इदं सर्वम्पराभवेत्ततो न किं चन परिशिष्येतेति ७ एवमेवेति होचुर्नैवेह किं चन परिशिष्येत यत्त्वं न स्या इति ८ अथान्नमब्रु-वन्कथमु त्वं श्रेष्ठमसीति ९ तदब्रवीन्मयि प्रतिष्ठायाग्निर्दीप्यते मयि प्रतिष्ठाय वायुराकाशमनुविभवति मयि प्रतिष्ठायादित्य उदेति मदेव प्राणो मद्वाक् १० स यदहं न स्यां तत इदं सर्वम्पराभवेत्ततो न किं चन परिशिष्येतेति ११ एवमेवेति होचुर्नैवेव किं चन परिशिष्येत यत्त्वं न स्या इति १२ अथ वाच-मब्रुवन्कथमु त्वं श्रेष्ठासीति १३ साब्रवीन्मयैवेदं विज्ञायते मयादः स यदहं न स्यां नैवेदं विज्ञायेत नादः १४ तत इदं सर्वम्पराभवेन्नैवेह किं चन परिशिष्येतेति १५ एवमेवेति होचुर्नैवेह किं चन परिशिष्येत यत्त्वं न स्या इति १६ १२
 
अष्टमेऽनुवाके द्वितीयः खण्डः
   
4.8.3

ता अब्रुवन्नेता वै किल सर्वा देवताः एकैकामेवानु स्मः स यन्नु नस्सर्वासां देवतानामेका चन न स्यात्तत इदं सर्वम्पराभवेत्ततो न किं चन परिशिष्येत हन्त सार्धं समेत्य यच्छ्रेष्ठं तदसामेति १ ता एतस्मिन्प्राण ओकारे वाच्यकारे समायन्तद्यत्समायन्तत्साम्नस्सामत्वम् २ ता अब्रुवन्यानि नो मर्त्यान्यनपह-तपाप्मान्यक्षराणि तान्युद्धृत्यामृतेष्वपहतपाप्मसु शुद्धेष्वक्षरेषु गायत्रं गाया-माग्नौ वायावादित्ये प्राणेऽन्ने वाचि तेनापहत्य मृत्युमपहत्य पाप्मानं स्वर्गं लोकमियामेति ३ एत्यग्नेरमृतमपहतपाप्म शुद्धमक्षरं ग्निरित्यस्य मर्त्यमन-पहतपाप्माक्षरम् ४ वेति वायोरमृतमपहतपाप्म शुद्धमक्षरं युरित्यस्य मर्त्य-मनपहतपाप्माक्षरम् ५ एत्यादित्यस्यामृतमपहतपाप्म शुद्धमक्षरं त्येत्यस्य मर्त्यमनपहतपाप्माक्षरम् ६ प्रेति प्राणस्यामृतमपहतपाप्म शुद्धमक्षरं णेत्यस्य मर्त्यमनपहतपाप्माक्षरम् ७ एत्यन्नस्यामृतमपहतपाप्म शुद्धमक्षरं नमित्यस्य मर्त्यमनपहतपाप्माक्षरम् ८ वेति वाचोऽमृतमपहतपाप्म शुद्धमक्षरं गित्यस्यै मर्त्यमनपहतपाप्माक्षरम् ९ ता एतानि मर्त्यान्यनपहतपाप्मान्यक्षराण्युद्धृत्या-मृतेष्वपहतपाप्मसु शुद्धेष्वक्षरेषु गायत्रमागायन्नग्नौ वायावादित्ये प्राणेऽन्ने वाचि तेनापहत्य मृत्युमपहत्य पाप्मानं स्वर्गं लोकमायन् १० अपहत्य मृत्युमपहत्य पाप्मानं स्वर्गं लोकमेति य एवं वेद ११ १३

अष्टमेऽनुवाके तृतीयः खण्डः

4.8.4

ता ब्रह्माब्रुवन्त्वयि प्रतिष्ठायैतमुद्यच्छामेति ता ब्रह्माब्रवीदास्येन प्राणेन युष्मानास्येन प्राणेन मामुपाप्नवाथेति १ ता एतेन प्राणेनौकारेण वाच्यकारम-भिनिमेष्यन्त्यो हिङ्काराद्भकारमोकारेण वाचमनुस्वरन्त्य उभाभ्याम्प्राणाभ्यां गायत्रमगायन्नोवा३चोवा३चोवा३छुम्भा वो वा इति २ स यथोभयापदी प्रतितिष्ठत्येवमेव स्वर्गे लोके प्रत्यतिष्ठन्प्रति स्वर्गे लोके तिष्ठति य एवं वेद ३ य उ ह वा एवंविदस्माल्लोकात्प्रैति स प्राण एव भूत्वा वायुमप्येति वायोरध्यभ्राण्यभ्रेभ्योऽधि वृष्टिं वृष्ट्यैवेमं लोकमनुविभवति ४ ऋषयो ह सत्त्रमासां चक्रिरे ते पुनःपुनर्बह्वीभिर्बह्वीभिः प्रतिपद्भिस्स्वर्गस्य लोकस्य द्वारं नानु चन बुबुधिरे ५ त उ श्रमेण तपसा व्रतचर्येणेन्द्र मवरुरुधिरे ६ तं होचुस्स्वर्गं वै लोकमैप्सिष्म ते पुनःपुनर्बह्वीभिर्बह्वीभिः प्रतिपद्भिस्स्वर्गस्य लोकस्य द्वारं नानु चनाभुत्स्महि तथा नोऽनुशाधि यथा स्वर्गस्य लोकस्य द्वारमनुप्रज्ञायानार्तास्स्वस्ति संवत्सरस्योदृचं गत्वा स्वर्गं लोकमियामेति ७ तान्होवाच को वस्स्थविरतम इति ८ १४

अष्टमेऽनुवाके चतुर्थः खण्डः
   
4.8.5

अहमित्यगस्त्यः १ स वा एहीति होवाच तस्मै वै तेऽहं तद्वक्ष्यामि यद्विद्वांस-स्स्वर्गस्य लोकस्य द्वारमनुप्रज्ञायानार्तास्स्वस्ति संवत्सरस्योदृचं गत्वा स्वर्गं लोकमेष्यथेति २ तस्मा एतं गायत्रस्योद्गीथमुपनिषदममृतमुवाचाग्नौ वाया-वादित्ये प्राणेऽन्ने वाचि ३ ततो वै ते स्वर्गस्य लोकस्य द्वारमनुप्रज्ञायाना-र्तास्स्वस्ति संवत्सरस्योदृचं गत्वा स्वर्गं लोकमायन् ४ एवमेवैवं विद्वा-न्स्वर्गस्य लोकस्य द्वारमनुप्रज्ञायानार्तस्स्वस्ति संवत्सरस्योदृचं गत्वा स्वर्गं लोकमेति ५ १५

अष्टमेऽनुवाके पञ्चमः खण्डः

अष्टमोऽनुवाकस्समाप्तः
 
4.9.1

एवं वा एतं गायत्रस्योद्गीथमुपनिषदममृतमिन्द्रो ऽगस्त्यायोवाचागस्त्य इषाय श्यावाश्वय इषश्श्यावाश्विर्गौषूक्तये गौषूक्तिर्ज्वालायनाय ज्वालायनश्शा-ट्यायनये शाट्यायनी रामाय क्रातुजातेयाय वैयाघ्रपद्याय रामः क्रातुजातेयो वैयाघ्रपद्यः १ १६

नवमेऽनुवाके प्रथमः खण्डः
 
4.9.2

शङ्खाय बाभ्रव्याय शङ्खो बाभ्रव्यो दक्षाय कात्यायनय आत्रेयाय दक्षः कात्यायनिरात्रेयः कंसाय वारक्याय कंसो वारक्यस्सुयज्ञाय शाण्डिल्याय सुयज्ञश्शाण्डिल्योऽग्निदत्ताय शाण्डिल्यायाग्निदत्तश्शाण्डिल्यस्सुयज्ञाय शाण्डिल्याय सुयज्ञश्शाण्डिल्यो जयन्ताय वारक्याय जयन्तो वारक्यो जनश्रुताय वारक्याय जनश्रुतो वारक्यस्सुदत्ताय पाराशर्याय १ सैषा शाट्यायनी गायत्रस्योपनिषदेवमुपासितव्या २ १७

नवमेऽनुवाके द्वितीयः खण्डः
  
नवमोऽनुवाकस्समाप्तः
   
4.10.1

केनेषितम्पतति प्रेषितम्मनः केन प्राणः प्रथमः प्रैति युक्तः केनेषितां वाचमिमां वदन्ति चक्षुश्श्रोत्रं क उ देवो युनक्ति १ श्रोत्रस्य श्रोत्रम्मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति २ न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः न विद्म न विजानीमो यथैतदनुशिष्यात् ३ अन्यदेव तद्विदितादथो अविदितादधि इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ४ यद्वाचानभ्युदितं येन वागभ्युद्यते तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ५ यन्मनसा न मनुते येनाहुर्मनो मतं तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ६ यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ७ यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतं तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ८ यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ९ १८

दशमेऽनुवाके प्रथमः खण्डः

4.10.2

यदि मन्यसे सु वेदेति दह्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपं यदस्य त्वं यदस्य देवेषु अथ नु मीमांस्यमेव ते मन्येऽविदितम् १ नाहम्मन्ये सु वेदेति नो न वेदेति वेद च यो नस्तद्वेद तद्वेद नो न वेदेति वेद च २ यस्यामतं तस्य मतम्मतं यस्य न वेद सः अविज्ञातं विजानतां अविजानताम् ३ प्रति-बोधविदितम्मतममृतत्वं हि विन्दते आत्मना विन्दते वीर्यं विद्यया विन्दते-ऽमृतम् ४ इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः भूतेषु-भूतेषु विविच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ५ १९
 
दशमेऽनुवाके द्वितीयः खण्डः
  
4.10.3

ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त त ऐक्षन्तास्माकमेवायं विजयः अस्माकमेवायम्महिमेति १ तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानन्त किमिदं यक्षमिति २ तेऽग्निमब्रुवञ्जातवेद एतद्वि-जानीहि किमेतद्यक्षमिति तथेति ३ तदभ्यद्र वत्तमभ्यवदत्कोऽसीति अग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ४ तस्मिंस्त्वयि किं वीर्यमिति अपीदं सर्वं दहेयम्यदिदम्पृथिव्यामिति ५ तस्मै तृणं निदधावेतद्दहेति तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैनदशकं विज्ञातुं यदेतद्यक्षमिति ६ अथ वायुमब्रुवन्वायवेतद्विजानीहि किमेतद्यक्षमिति तथेति ७ तदभ्यद्र वत्तमभ्यवदत्कोऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ८ तस्मिंस्त्वयि किं वीर्यमिति अपीदं सर्वमाददीय यदिदम्पृ-थिव्यामिति ९ तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव निववृते नैनदशकं विज्ञातुं यदेतद्यक्षमिति १० अथेन्द्र मब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्र वत्तस्मा-त्तिरोऽदधे ११ स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहु शोभमानामुमां हैमवतीं तां होवाच किमेतद्यक्षमिति १२ २०

दशमेऽनुवाके तृतीयः खण्डः

4.10.4

ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्व इति ततो हैव विदां चकार ब्रह्मेति १ तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्र ः! ते ह्येनन्ने-दिष्ठम्पस्पृशुस्स ह्येनत्प्रथमो विदां चकार ब्रह्मेति २ तस्माद्वा इन्द्रो ऽतितरामि-वान्यान्देवान्स ह्येनन्नेदिष्ठम्पस्पर्श स ह्येनत्प्रथमो विदां चकार ब्रह्मेति ३ तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३ इति न्यमिषदा३ इत्यधिदेवतम् ४ अथाध्यात्मं यदेनद्गच्छतीव च मनोऽनेन चैनदुपस्मरत्यभीक्ष्णं संकल्पः ५ तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि हैनं सर्वाणि भूतानि संवाङ्छन्ति ६ उपनिषदम्भो ब्रूहीति उक्ता त उपनिषत् ब्राह्मीं वाव त उपनिषदमब्रूमेति ७ तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदास्सर्वाङ्गाणि सत्य-मायतनम् ८ यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोकेऽज्येये प्रतितिष्ठति ९ २१

दशमेऽनुवाके चतुर्थः खण्डः

दशमोऽनुवाकस्समाप्तः
 
4.11.1

आशा वा इदमग्र आसीद्भविष्यदेव तदभवत्ता आपोऽभवन् १ तास्तपोऽतप्यन्त तास्तपस्तेपाना हुस्सित्येव प्राचीः प्राश्वसन्स वाव प्राणोऽभवत् २ ताः प्राण्यापानन्स वा अपानोऽभवत् ३ ता अपान्य व्यानन्स वाव व्यानोऽभवत् ४ ता व्यान्य समानन्स वाव समानोऽभवत् ५ तास्समान्योदानन्स वा उदानोऽभवत् ६ तदिदमेकमेव सधमाद्यमासीदविविक्तम् ७ स नाम-रूपमकुरुत तेनैनद्व्यविनक् वि ह पाप्मनो विच्यते य एवं वेद ८ तदसौ वा आदित्यः प्राणोऽग्निरपान आपो व्यानो दिशस्समानशन्द्र मा उदानः ९ तद्वा एतदेकमभवत्प्राण एव स य एवमेतदेकम्भवद्वेदैवं हैतदेकधा भवतीत्येकधैव श्रेष्ठस्स्वानाम्भवति १० तदग्निर्वै प्राणो वागिति पृथिवी वायुर्वै प्राणो वागि-त्यन्तरिक्षमादित्यो वै प्राणो वागिति द्यौर्दिशो वै प्राणो वागिति श्रोत्रं चन्द्र मा वै प्राणो वागिति मनः पुमान्वै प्राणो वागिति स्त्री ११ तस्येदं सृष्टं शिथिल-म्भुवनमासीदपर्याप्तम् १२ स मनोरूपमकुरुत तेन तत्पर्याप्नोत् दृढं ह वा अस्येदं सृष्टमशिथिलम्भुवनम्पर्याप्तम्भवति य एवं वेद १३ २२

एकादशेऽनुवाके प्रथमः खण्डः

4.11.2

सैषा चतुर्धा विहिता श्रीरुद्गीथस्सामार्क्यं ज्येष्ठब्राह्मणम् १ प्राणो वावोद्वाग्गी स उद्गीथः २ प्राणो वावामो वाक्सा तत्साम ३ प्राणो वाव को वागृक्तदर्क्यम् ४ प्राणो वाव ज्येष्ठो वाग्ब्राह्मणं तज्ज्येष्ठब्राह्मणम् ५ उपनिषदम्भो ब्रूहीति उक्ता त उपनिषद्यस्य ते धातव उक्ताः त्रिधातु विषु वाव त उपनिषदमब्रूमेति ६ एतच्छुक्लं कृष्णं ताम्रं सामवर्ण इति ह स्माह यदैव शुक्लकृष्णे ताम्रो वर्णोऽभ्यवैति स वै ते वृङ्ते दशम मानुषमिति त्रिधातु स ऐक्षत क्व नु म उत्तानाय शयानायेमा देवता बलिं हरेयुरिति ७ २३
 
एकादशेऽनुवाके द्वितीयः खण्डः

4.11.3

स पुरुषमेव प्रपदनायावृणीत १ तम्पुरस्तात्प्रत्यञ्चम्प्राविशत्तस्मा उरुरभव-त्तदुरस उरस्त्वम् २ तस्मा अत्रसद एता देवता बलिं हरन्ति ३ वाचमनु-हरन्तीमग्निरस्मै बलिं हरति ४ मनोऽनुहरच्चन्द्र मा अस्मै बलिं हरति ५ चक्षुरनुहरदादित्योऽस्मै बलिं हरति ६ श्रोत्रमनुहरद्दिशोऽस्मै बलिं हरन्ति ७ प्राणमनुहरन्तं वायुरस्मै बलिं हरति ८ तस्यैते निष्खाताः पन्था बलिवाहना इमे प्राणाः एवं हैतं निष्खाताः पन्था बलिवाहनास्सर्वतोऽपियन्ति प्राणा य एवं वेद ९ सा हैषा ब्रह्मासन्दीमारूढा आ हास्मै ब्रह्मासन्दीं हरन्त्यधि ह ब्रह्मासन्दीं रोहति य एवं वेद १० तदेतद्ब्रह्मयशश्श्रिया परिवृढं ब्रह्म ह तु सन्यशसा श्रिया परिवृढो भवति य एवं वेद ११ तस्यैष आदेशो योऽयं दक्षिणेऽक्षन्नन्तः तस्य यच्छुक्लं तदृचां रूपं यत्कृष्णं तत्साम्नां यदेव ताम्रमिव बभ्रुरिव तद्यजुषाम् १२ य एवायं चक्षुषि पुरुष एष इन्द्र एष प्रजापतिस्समः पृथिव्या सम आकाशेन समो दिवा समस्सर्वेण भूतेन एष परो दिवो दीप्यते एष एवेदं सर्वमित्युपासितव्यम् १३ २४

एकादशेऽनुवाके तृतीयः खण्डः

4.11.4

सच्चासच्चासच्च सच्च वाक्च मनश्च मनश्च वाक्च चक्षुश्च श्रोत्रं च श्रोत्रं च चक्षुश्च श्रद्धा च तपश्च तपश्च श्रद्धा च तानि षोडश १ षोडशकलम्ब्रह्म स य एवमेत-त्षोडशकलम्ब्रह्म वेद तमेवैतत्षोडशकलम्ब्रह्माप्येति २ वेदो ब्रह्म तस्य सत्यमायतनं शमः प्रतिष्ठा दमश्च ३ तद्यथा श्वः प्रैष्यन्पापात्कर्मणो जुगुप्से-तैवमेवाहरहः पापात्कर्मणो जुगुप्सेताकालात् ४ अथैसां दशपदी विराट् ५ दश पुरुषे स्वर्गनरकाणि तान्येनं स्वर्गं गतानि स्वर्गं गमयन्ति नरकं गतानि नरकं गमयन्ति ६ २५

एकादशेऽनुवाके चतुर्थः खण्डः

4.11.5

मनो नरको वाङ्नरकः प्राणो नरकश्चक्षुर्नरकश्श्रोत्रं नरकस्त्वङ्नरको हस्तौ नरको गुदं नरकश्शिश्नं नरकः पादौ नरकः १ मनसा परीक्ष्याणि वेदेति वेद २ वाचा रसान्वेदेति वेद ३ प्राणेन गन्धान्वेदेति वेद ४ चक्षुषा रूपाणि वेदेति वेद ५ श्रोत्रेण शब्दान्वेदेति वेद ६ त्वचा संस्पर्शान्वेदेति वेद ७ हस्ताभ्यां कर्माणि वेदेति वेद ८ उदरेणाशनयां वेदेति वेद ९ शिश्नेन रामान्वेदेति वेद १० पादाभ्यामध्वनो वेदेति वेद ११ प्लक्षस्य प्रास्रवणस्य प्रादेशमात्रादुदक्तत्पृथिव्यै मध्यमथ यत्रैते सप्तर्षयस्तद्दिवो मध्यम् १२ अथ यत्रैत ऊषास्तत्पृथिव्यै हृदयमथ यदेतत्कृष्णं चन्द्र मसि तद्दिवो हृदयम् १३ स य एवमेते द्यावापृथिव्योर्मध्ये च हृदये च वेद नाकामोऽस्माल्लोकात्प्रैति १४ नमोऽतिसामायैतुरेताय धृतराष्ट्राय पार्थुश्रवसाय ये च प्राणं रक्षन्ति ते मा रक्षन्तु स्वस्ति कर्मेति गार्हपत्यश्शम इत्याहवनीयो दम इत्यन्वाहार्यपचनः १५ २७

एकादशेऽनुवाके पञ्चमः खण्डः
   
एकादशोऽनुवाकस्समाप्तः
   
4.12.1

का सावित्री अग्निरेव सविता पृथिवी सावित्री १ स यत्राग्निस्तत्पृथिवी यत्र वा पृथिवी तदग्निः ते द्वे योनी तदेकम्मिथुनम् २ कस्सविता का सावित्री वरुण एव सविता आपस्सावित्री ३ स यत्र वरुणस्तदापो यत्र वापस्तद्वरुणः ते द्वे योनी तदेकम्मिथुनम् ४ कस्सविता का सावित्री वायुरेव सविता आकाशस्सावित्री ५ स यत्र वायुस्तदाकाशो यत्र वाकाशस्तद्वायुः ते द्वे योनी तदेकम्मिथुनम् ६ कस्सविता का सावित्री यज्ञ एव सविता छन्दांसि सावित्री ७ स यत्र यज्ञस्तच्छन्दांसि यत्र वा छन्दांसि तद्यज्ञः ते द्वे योनी तदेकम्मिथुनम् ८ कस्सविता का सावित्री स्तनयित्नुरेव सविता विद्युत्सावित्री ९ स यत्र स्तनयित्नुस्तद्विद्युद्यत्र वा विद्युत्तत्स्तनयित्नुः ते द्वे योनी तदेकम्मिथुनम् १० कस्सविता का सावित्री आदित्य एव सविता द्यौस्सावित्री ११ स यत्रादित्य-स्तद्द्यौर्यत्र वा द्यौस्तदादित्यः ते द्वे योनी तदेकम्मिथुनम् १२ कस्सविता का सावित्री चन्द्र एव सविता नक्षत्राणि सावित्री १३ स यत्र चन्द्र स्तन्नक्षत्राणि यत्र वा नक्षत्राणि तच्चन्द्र ः! ते द्वे योनी तदेकम्मिथुनम् १४ कस्सविता का सावित्री मन एव सविता वाक्सावित्री १५ स यत्र मनस्तद्वाग्यत्र वा वाक्तन्मनः ते द्वे योनी तदेकम्मिथुनम् १६ कस्सविता का सावित्री पुरुष एव सविता स्त्री सावित्री स यत्र पुरुषस्तत्स्त्री यत्र वा स्त्री तत्पुरुषः ते द्वे योनी तदेकम्मिथुनम् १७ २७

द्वादशेऽनुवाके प्रथमः खण्डः
     
4.12.2

तस्या एष प्रथमः पादो भूस्तत्सवितुर्वरेण्यमिति अग्निर्वै वरेण्यमापो वै वरेण्यं चन्द्रमा वै वरेण्यम् १ तस्या एष द्वितीयः पादो भर्गमयो भुवो भर्गो देवस्य धीमहीति अग्निर्वै भर्गः आदित्यो वै भर्गः चन्द्रमा वै भर्गः २ तस्या एष तृतीयः पादस्स्वर्धियो यो नः प्रचोदयादिति यज्ञो वै प्रचोदयति स्त्री च वै पुरुषश्च प्रजनयतः ३ भूर्भुवस्तत्सवितुर्वरेण्यम्भर्गो देवस्य धीमहीति अग्निर्वै भर्गः आदित्यो वै भर्गः चन्द्र मा वै भर्गः ४ स्वर्धियो यो नः प्रचोदयादिति यज्ञो वै प्रचोदयति स्त्री च वै पुरुषश्च प्रजनयतः ५ भूर्भुवस्स्वस्तत्सवितुर्वरेण्यम्भर्गो देवस्य धीमहि धियो यो नः प्रचोदयादिति यो वा एतां सावित्रीमेवं वेदाप पुनर्मृत्युं तरति सावित्र्या एव सलोकतां जयति सावित्र्या एव सलोकतां जयति ६ २८
 
द्वादशेऽनुवाके द्वितीयः खण्डः द्वादशोऽनुवाकस्समाप्तः
   
इत्युपनिषद्ब्राह्मणं समाप्तम्

Credits Source: Hanns Oertel, "The Jaiminiya or Talavakara Upanisad Brahmana: Text, Translation, and Notes", in: Journal of the American Oriental Society 16 (1896), pp. 79-260. Typescript: Entered by Masato Fujii and proofread by Mieko Kajihara Conversion to Devanagari using Vedapad Software by Ralph Bunker

Formatted for Maharishi University of Management Vedic Literature Collection

सम्पाद्यताम्

4.6.1

द्र. भगीरथोपरि टिप्पणी