प्रमुखा विकल्पसूचिः उद्घाट्यताम्
ज्ञानामृतसारसंहिता
[[लेखकः :|]]

ज्ञानामृतसारसंहिता
श्री-नारद-पञ्च-रात्रम्

प्रथमैक-रात्रे प्रथमो ऽध्यायः

ॐ नमो भगवते वासुदेवाय

अथ मङ्गलाचरणम्

नारायणं नमस् कृत्य नरं चैव नरोत्तमम् |
देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् ||

गणेश-शेष-ब्रह्मेश-दिनेश-प्रमुखाः सुराः |
कुमाराद्याश् च मुनयः सिद्धाश् च कपिलादयः || ज्ञा. सा. सं_१,१.१ ||
लक्ष्मी सरस्वती दुर्गा सावित्री राधिका परा |
भक्त्या नमन्ति यं शश्वत् तं नमामि परात् परं || ज्ञा. सा. सं_१,१.२ ||
ध्यायन्ते सततं सन्तो योगिनो वैष्णवास् तथा |
ज्योतिर्-अभ्यन्तरे रूपम् अतुलं श्याम-सुन्दरम् || ज्ञा. सा. सं_१,१.३ ||
ध्यायेत् तं परमं ब्रह्म परमात्मानम् ईश्वरम् |
निरीहम् अति-निर्लिप्तम् निर्गुणं प्रकृतेः परं || ज्ञा. सा. सं_१,१.४ ||
सर्वेशं सर्व-रूपं च सर्व-कारण-कारणम् |
सत्यं नित्यं च पुरुषं पुराणं परम् अव्ययम् || ज्ञा. सा. सं_१,१.५ ||
मङ्गल्यं मङ्गलार्हं च मङ्गलं मङ्गलालयम् |
स्वेच्छा-मयं परं धाम भगवन्तं सनातनम् || ज्ञा. सा. सं_१,१.६ ||
स्तुवन्ति वेदा यं शश्वन्न् आनन्तं जानन्ति यस्य ते |
तं स्तौमि परमानन्दं सानन्दं नन्द-नन्दनम् || ज्ञा. सा. सं_१,१.७ ||
भक्त-प्रियं च भक्तेशं भक्तानुग्रह-विग्रहं |
श्रीदं श्रीशं श्री-निवासं श्री-कृष्णं राधिकेश्वरम् || ज्ञा. सा. सं_१,१.८ ||
ज्ञानामृतं ज्ञान-सिन्धोः संप्राप्य शङ्कराद् गुरोः |
परावराच् च परमाद् योगीन्द्राणां गुरोर् गुरोः || ज्ञा. सा. सं_१,१.९ ||
वेदेभ्यो दधि-सिन्धुभ्यश् चतुर्भ्यः सुमनोहरम् |
तज् ज्ञान-मन्थ-दण्डेन संनिर्मथ्य नवं नवम् || ज्ञा. सा. सं_१,१.१० ||
नवनीतं समुद्धृत्य नत्वा शम्भोः पदाम्बुजम् |
विधि-पुत्रो नारदो ऽहं पञ्च-रात्रं समारभे || ज्ञा. सा. सं_१,१.११ ||

ॐ नारायणाश्रमे पुण्ये पुण्य-क्षेत्रे च भारत |
सिद्धे नारायण-क्षेत्रे वट-मूले सुपुण्यदे || ज्ञा. सा. सं_१,१.१२ ||
कृष्णांशं कृष्ण-भक्तं च पलं कृष्ण-परायणम् |
श्री-कृष्ण-चरणाम्भोज-ध्यानैकतान-मानसम् || ज्ञा. सा. सं_१,१.१३ ||
जपन्तं परमं ब्रह्म कृष्ण इत्य् अक्षर-द्वयम् |
सुखासने सुखासीनं कृष्ण-द्वैपायनं मुनिम् || ज्ञा. सा. सं_१,१.१४ ||
पप्रच्छ शुकदेवश् च सर्व-ज्ञं पितरं मुनिः |
कारणण् च पुराणानां पुराणं परम् अव्ययम् || ज्ञा. सा. सं_१,१.१५ ||

श्री-शुक उवाच
भगवन् सर्व-तत्त्व-ज्ञ वेद-वेदाङ्ग-पारग |
यद् यत् प्रकारं ज्ञानं च निगूढं श्रुति-सम्मतम् || ज्ञा. सा. सं_१,१.१६ ||
तेषु यत् सार-भूतं चाप्य् अज्ञानान्ध-प्रदीपकम् |
तत् तत् सर्वं समालोच्य मां बोधयितुम् अर्हसि || ज्ञा. सा. सं_१,१.१७ ||

अथ श्री-कृष्ण-भक्ति-प्रशंशा

स पिता ज्ञान-दाता यो ज्ञानं तत् कृष्ण-भक्तिदम् |
सा भक्तिः परमा शुद्धा कृष्ण-दास्य-प्रदा च या || ज्ञा. सा. सं_१,१.१८ ||
तद् एव दास्यं शस्तं यत् साक्षाच् चरण-सेवनं |
नित्यं गोलोक-वासं च पुरतः स्तवनं हरेः || ज्ञा. सा. सं_१,१.१९ ||
शश्वन् निमेष-रहितं तत्-पाद-पद्म-दर्शनम् |
शश्वत् तत्-सार्धम् आलाप-सेवा-कर्म-नियोजनम् || ज्ञा. सा. सं_१,१.२० ||
तेन सार्धम् अविच्छेद-स्थानं परं शोभनम् |
भक्तानां वाञ्च्छितं वस्तु सार-भूतं श्रुतौ श्रुतम् || ज्ञा. सा. सं_१,१.२१ ||

पुत्रस्य वचनं श्रुत्वा व्यासदेवो जहास सः |
विज्ञाय ज्ञानिनं पुत्रं परमाह्लादम् आप ह || ज्ञा. सा. सं_१,१.२२ ||
पुत्रं शुभाशिषं कृत्वा सर्व-ज्ञः सर्व-भावनः |
यथाप्राप्तं गुरु-मुखात् प्रवक्तुम् उपचक्रमे || ज्ञा. सा. सं_१,१.२३ ||

श्री-व्यास उवाच
शुक धन्यो ऽसि मान्यो ऽसि पुण्य-रूपो ऽसि भारते |
पुत्रेण भवतास्माकं कुलं मुक्तं च पावनम् || ज्ञा. सा. सं_१,१.२४ ||
स पुत्रः कृष्ण-भक्तो यो भारते सुयशस्-करः |
पुनाति पुंसां शतकं जन्म-मात्रेण लीलया || ज्ञा. सा. सं_१,१.२५ ||
माता-महानां शतकं मातरं मातृ-मातरम् |
सोदरान् बान्धवांश् चैव भृत्यान् पत्नीं सहात्मजाम् || ज्ञा. सा. सं_१,१.२६ ||
यत्-कन्यां प्रतिगृह्णाति तद्-आदि-पुरुष-त्रयम् |
कन्या-प्रदाता श्वशुरो जीवन्-मुक्तः सभार्यकः || ज्ञा. सा. सं_१,१.२७ ||
स्वयं विधाता भगवान् परं कृष्ण-परायणः |
कृष्ण-भक्तो वसिष्टस् तु तत् सुतो वैष्णवः स्वयम् || ज्ञा. सा. सं_१,१.२८ ||
वैष्णवस् तत् सुतः शक्तिः कृष्ण-ध्यानैक-मानसः |
पराशरश् च तत्-पुत्रः कृष्ण-पादाब्ज-सेवया || ज्ञा. सा. सं_१,१.२९ ||
जीवन्-मुक्तो महा-ज्ञानी योगीन्द्राणां गुरोर् गुरुः |
अहं वेद-विभक्ता च श्री-कृष्ण-पाद-सेवया || ज्ञा. सा. सं_१,१.३० ||
गुरुर् मे भगवान् साक्षाद् योगीन्द्रो नारदो मुनिः |
गुरोर् गुरुर् मे शम्भुश् च योगीन्द्राणां गुरोर् गुरुः || ज्ञा. सा. सं_१,१.३१ ||
तेषां पुण्येन पुत्रस् त्वं पुण्य-राशिश् च मूर्तिमान् |
पद्मानां मम पुंसां च प्रकाशो भास्करः स्वयम् || ज्ञा. सा. सं_१,१.३२ ||
श्री-कृष्ण-चरणाम्भोजं पादाब्जं नारदेशयोः |
सरस्वतीं नमस् कृत्य ज्ञानं वक्ष्ये सनातनम् || ज्ञा. सा. सं_१,१.३३ ||
श्रूयताम् पञ्च-रात्रं च वेद-सारम् अभीप्सितम् |
पञ्च-संवादम् इष्टं च भक्तानाम् अभिवाञ्च्छितम् || ज्ञा. सा. सं_१,१.३४ ||
प्राणाधिकं प्रियं शुद्धं परं ज्ञानामृतं शुभं |
अथ षट्-संवादाः ?wहत्? हि गोलोके शत-शृङ्गे च पर्वते || ज्ञा. सा. सं_१,१.३५ ||
सुपुण्ये विरजा-तीरे वट-मूले मनोहरे |
पुरतो राधिकायाश् च ब्रह्माणं कमलोद्भवम् || ज्ञा. सा. सं_१,१.३६ ||
तम् उवाच महा-भक्तं स्तुवन्तं प्रणतं सुतम् |
पञ्च-रात्रम् इदं पुण्यं श्रुत्वा च जगतां विधिः || ज्ञा. सा. सं_१,१.३७ ||
प्रणम्य राधिकां कृष्णं प्रययौ शिव-मन्दिरम् |
भक्त्या तम् पूजयाम् आस शङ्करः परमादरम् || ज्ञा. सा. सं_१,१.३८ ||
सुखासने सुखासीनं स्वस्थं भक्तं च पूजितम् |
पप्रच्छ वार्तां विनयी विनयेन सुखावहाम् || ज्ञा. सा. सं_१,१.३९ ||
सर्वं तं कथयाम् आस पञ्च-रात्रादिकं शुभम् |
वसन्तं वट-मूले च स्वर्गे मन्दाकिनी-तटे || ज्ञा. सा. सं_१,१.४० ||
योगीन्द्रैर् अपि सिद्धेन्द्रैर् मुनीन्द्रैश् च स्तुतं प्रभुं |
ज्ञानामृतं तम् उक्त्वा स ब्रह्म-लोकं जगाम ह || ज्ञा. सा. सं_१,१.४१ ||
शम्भुश् च कथयाम् आस स्व-शिष्यं नारदं मुनिम् |
नारदः कथयाम् आस पुष्करे सूर्य-पर्वणि || ज्ञा. सा. सं_१,१.४२ ||
मां भक्तम् अनुरक्तं च पुण्याहे मुनि-संसदि |
पञ्च-रात्रम् इदं शुद्धं भ्रमान्ध-ध्वंस-दीपकम् || ज्ञा. सा. सं_१,१.४३ ||

अथ पञ्च-रात्र-पद-व्याख्या

रात्रं च ज्ञान-वचनं ज्ञानं पञ्च-विधं स्मृतम् |
तेनेदं पञ्च-रात्रं च प्रवदन्ति मनीषिणः || ज्ञा. सा. सं_१,१.४४ ||
ज्ञानं परम-तत्त्वं च जन्म-मृत्यु-जरापहम् |
ततो मृत्युञ्जयः शम्भुः संप्राप कृष्ण-वक्त्रतः || ज्ञा. सा. सं_१,१.४५ ||
ज्ञानम् द्वितीयं परमं मुमुक्षूणां च वाञ्च्छितम् |
परं मुक्ति-प्रदं शुद्धं यतो लीनं हरेः पदे || ज्ञा. सा. सं_१,१.४६ ||
ज्ञानं शुद्धं तृतीयं च मङ्गलं कृष्ण-भक्तिदम् |
तद्-दास्यम् अधीष्टं च यतो दास्यं लभेद् धरेः || ज्ञा. सा. सं_१,१.४७ ||
चतुर्थं यौगिकं ज्ञानं सर्व-सिद्धि-प्रदं परम् |
सर्वस्वं योगिनां पुत्र सिद्धानां च सुख-प्रदम् || ज्ञा. सा. सं_१,१.४८ ||
अणिमा लघिमा व्याप्तिः प्राकाम्यं महिमा तथा |
ईशित्वं च वशित्वं च तथाकामावसायिता || ज्ञा. सा. सं_१,१.४९ ||
सावज्ञं दूर-श्रवणं पर-काय-प्रवेशनम् |
काय-व्यूहं जीव-दानं पर-जीव-हरं परम् || ज्ञा. सा. सं_१,१.५० ||
सर्ग-कर्तृत्व-शिल्पं च सर्ग-संहार-कारणम् |
सिद्धं च षोडश-विधं ज्ञानिनां च यतो भवेत् || ज्ञा. सा. सं_१,१.५१ ||
ज्ञानं च परमं प्रोक्तं तद् वै वैषयिकं नृणां |
यद् इष्ट-देवी माया सा परं संमोह-कारणं || ज्ञा. सा. सं_१,१.५२ ||
विषये बद्ध-चितं च सर्वम् इन्द्रिय-सेवनम् |
पोषनं स्व-कुटुम्बानां स्वात्मनश् च निरन्रतम् || ज्ञा. सा. सं_१,१.५३ ||
प्रथमं सात्त्विकं ज्ञानं द्वितीयं च तद् एव च |
नैर्गुण्यं च तृतीयं च ज्ञानं च सर्वतः परम् || ज्ञा. सा. सं_१,१.५४ ||
चतुर्थम् च राजसिकं भक्तस् तन् नाभिवाञ्च्छति |
पञ्चमं तामसं ज्ञानं विद्वांस् तन् नाभिवाञ्च्छति || ज्ञा. सा. सं_१,१.५५ ||
ज्ञानं पञ्च-विधं प्रोक्तं पञ्च-रात्रं विदुर् बुधाः |
पञ्च-रात्रं सप्त-विधं ज्ञानिनां ज्ञानदं परम् || ज्ञा. सा. सं_१,१.५६ ||
ब्राह्मं शैवं च कौमारं वासिष्टं कापिलं परम् |
गौतमीयं नारदीयम् इदं सप्त-विधं स्मृतम् || ज्ञा. सा. सं_१,१.५७ ||

अथ ग्रन्थ-प्रशंसा

षट् पञ्च-रात्रं वेदाश् च पुराणानि च सर्वशः |
इतिहासं धर्म-शास्त्रं शात्रं च सिद्धि-योग-जम् || ज्ञा. सा. सं_१,१.५८ ||
दृष्ट्वा सर्वं समालोक्य ज्ञानं संप्राप्य शङ्करात् |
ज्ञानामृतं पञ्च-रात्रं चकार नारदो मुनिः || ज्ञा. सा. सं_१,१.५९ ||
पुण्यं च पाप-विघ्नं भक्ति-दास्य-प्रदं हरेः |
सर्वस्वं वैष्णवानां च प्रियं प्राणाधिकं सुत || ज्ञा. सा. सं_१,१.६० ||
सार-भूतं च सर्वेषां वेदानां परमाद्भुतम् |
नारदीयं पञ्च-रात्रं पुराणेषु सुदुर्लभम् || ज्ञा. सा. सं_१,१.६१ ||
सर्वान्तरात्मा भगवान् ब्रह्म-ज्योतिः सनातनम् |
परिपूर्णतमः श्रीमान् यथा कृष्णः सुरेषु च || ज्ञा. सा. सं_१,१.६२ ||
यथा देवीषु पूज्या सा मूल-प्रकृतिर् ईश्वरी |
वैष्णवानां च सिद्धानां ज्ञानिनां योगिनां शिवः || ज्ञा. सा. सं_१,१.६३ ||
विश्वस्तानां इन्द्रियानाम् मनश् च शीघ्र-गामिनाम् |
ब्रह्मा च वेद-विदुषां पूज्यानां च गणेश्वरः || ज्ञा. सा. सं_१,१.६४ ||
सनत्-कुमारो भगवान् मुनीनां प्रवरो यथा |
बृहस्पतिर् बुद्धिमतां सिद्धानां कपिलो यथा || ज्ञा. सा. सं_१,१.६५ ||
योगीन्द्रानां सतां शुद्ध ऋषिर् नारायणो यथा |
कवीनां च यथा शुक्रः पण्डितानां बृहस्पतिः || ज्ञा. सा. सं_१,१.६६ ||
सरिताम् च यथा गङ्गा समुद्राणां जलार्णवः |
वृन्दावनं वनानां च वर्षानां भारतं यथा || ज्ञा. सा. सं_१,१.६७ ||
पुष्करं तत्र तीर्थानां पूज्यानां वैष्णवो यथा |
आत्माकाशो यथाप्तानां यथा काशी पुरीषु च || ज्ञा. सा. सं_१,१.६८ ||
वृक्षाणां कल्प-वृक्षश् च सुरभी काम-धेनुषु |
पुष्पाणां पारिजातश् च पत्राणां तुलसी यथा || ज्ञा. सा. सं_१,१.६९ ||
मन्त्राणां कृष्ण-मन्त्रश् च यथा विद्या धनेष्व् अपि |
यथा तेजस्विनां सूर्यो मिष्टानाम् अमृतं यथा || ज्ञा. सा. सं_१,१.७० ||
आधाराणां च स्थूलानां महा-विष्णुर् यथा सुत |
सूक्ष्माणां परमाणुश् च गुरुणां मन्त्र-तन्त्र-दः || ज्ञा. सा. सं_१,१.७१ ||
पुत्रश् च स्नेह-पात्राणां नक्षत्राणां यथा शशी |
यथा घृतं च गव्यानां शस्यानां धान्यम् ईप्सितम् || ज्ञा. सा. सं_१,१.७२ ||
शास्त्राणां च यथा वेदाः साश्रमाणां यथा द्विजः |
तैजसानां यथा रत्नं मुक्तामाणिक्यहीरकम् || ज्ञा. सा. सं_१,१.७३ ||
यथा छन्दसि गायत्री दुर्गा शक्तिमतीष्व् अपि |
पति-व्रतासु लक्स्मीश् च क्षमाशीलासु मेदिनी || ज्ञा. सा. सं_१,१.७४ ||
सौभाग्यासु सुन्दरीषु राधा कृष्ण-प्रियासु च |
हनुमान् वानराणां च पक्षिणां गरुडो यथा || ज्ञा. सा. सं_१,१.७५ ||
वाहनानां बलवतां शङ्करस्य यथा वृषः |
शालग्रामश् च यन्त्राणां पूजासु कृष्ण-पूजनम् || ज्ञा. सा. सं_१,१.७६ ||
एकादशी व्रतानां च तपःस्व् अनशनं यथा |
यज्ञानां जप-यज्ञश् च सत्यं धर्मेषु पुत्रक || ज्ञा. सा. सं_१,१.७७ ||
सुशीलं च गुणानां च पुण्येषु कृष्ण-कीर्तनम् |
शोभाशु सुख-दृश्येषु प्रभा तेजःसु सर्वतः || ज्ञा. सा. सं_१,१.७८ ||
पोष्ट्रीणां उपकर्तृणां मित्राणां जननी यथा |
लोकानाम् अपि लोकेशः शेषो नागेषु पूजितः || ज्ञा. सा. सं_१,१.७९ ||
सुदर्शनं च शस्त्राणां विश्वकर्मा च शिल्पिनाम् |
धर्मिष्ठेषु दयावत्सु देवर्षिसु महत्सु च || ज्ञा. सा. सं_१,१.८० ||
विष्णु-भक्तेषु विज्ञेषु यथैव नारदो मुनिः |
एवं च सर्व-शास्त्रेषु पञ्च-रात्रं च पूजितम् || ज्ञा. सा. सं_१,१.८१ ||
यथा निपीय पीयूषं न स्पृहा चान्य-वस्तुषु |
पञ्च-रात्रम् अभिज्ञाय नान्येषु च स्पृहा सताम् || ज्ञा. सा. सं_१,१.८२ ||
सर्वार्थ-ज्ञान-बीजं चाप्य् अज्ञानान्ध-प्रदीपम् |
वेदसारोद्धृतं तत्त्वं सर्वेषां समभीप्सितम् || ज्ञा. सा. सं_१,१.८३ ||

इति श्री-नारद-पञ्च-रात्रे ग्रन्थ-प्रशंसनं नाम प्रथमो ऽध्यायः


प्रथमैक-रात्रे द्वितीयो ऽध्यायः


शुक उवाच
कुत्र वा पञ्च-रात्रं च नारदस्य च धीमते |
प्रदत्तं शम्भुना तात तन् मे व्याख्यातुम् अर्हसि || ज्ञा. सा. सं_१,२.१ ||

अथ नारदस्य तपो-वर्णनम्

व्यास उवाच
अधीत्य सर्वान् वेदांश् च वेदाङ्गाण् पितुर् अन्तिके |
जगाम तीत्र्हं केदारं सुप्रशस्तं च भारते || ज्ञा. सा. सं_१,२.२ ||
हिमालयस्य पूर्वे य गङ्गा-तीरे मनोहरे |
सिद्धे नारायण-क्षेत्रे सर्वेषां अभिवाञ्च्छिते || ज्ञा. सा. सं_१,२.३ ||
तपश् चकार स मुनिर् दिव्यं वर्ष-सहस्रकम् |
पित्रोक्तेनैव विधिना सततं संयुतः शुचिः || ज्ञा. सा. सं_१,२.४ ||
शुश्रावाकाश-वाणीं च तपसो ऽन्ते महा-मुनिः |
स्वल्पाक्षरां च बह्व्-अर्थां परिणाम-सुखावहाम् || ज्ञा. सा. सं_१,२.५ ||

अथ नारदं प्रति दैव-वाणी

अशरीरिष्य् उवाच
आधारितो यदि हरिस् तपसा ततः किम् |
नाधारितो यदि हरिस् तपसा ततः किम् |
अन्तर् बहिर् यदि हरिस् तपसा ततः किम् |
नान्तर् बहिर् यदि हरिस् तपसा ततः किम् || ज्ञा. सा. सं_१,२.६ ||
विरम विरम ब्रह्मन् किं तपस्यासु वत्स |
व्रज व्रज द्विज शीघ्रं शङ्करं ज्ञान-सिन्धुम् |
लभ लभ हरि-भक्तिं वैष्णवोक्तां सुपक्वां |
भव-निगड-निबन्ध-छेदिनीं कर्तनीं च || ज्ञा. सा. सं_१,२.७ ||

इति श्रुत्वा च स मुनिर् विमनाः स्वर्-णदी-तटे |
चकारार्थानुसन्धानं न प्रसन्नम् च तन् मनः || ज्ञा. सा. सं_१,२.८ ||
रुरोद स्वर्-णदी-तीरे स्मारं स्मारं हरेः पदम् |
ददर्श पुरतस् तातं ब्रह्माणं सकुमारकम् || ज्ञा. सा. सं_१,२.९ ||
ननाम सहसा मूर्ध्ना पितरं तं सहोदरम् |
पाद्यम् अर्घ्यं च प्रददौ जवेन सादरं मुनिः || ज्ञा. सा. सं_१,२.१० ||
श्लोक-द्वयार्थं पप्रच्छ कुमारं जगतां विधिम् |
सुखासीनं सुस्थिरं च सस्मितं च गत-श्रमम् || ज्ञा. सा. सं_१,२.११ ||
स्वात्मारामं पूर्ण-कामं ज्ञानिनां च गुरोर् गुरुम् |
साश्रु-नेत्रः पुलकितो भक्त्या प्रणत-कन्धरम् || ज्ञा. सा. सं_१,२.१२ ||
नारदस्य वचः श्रुत्वा दृष्ट्वा तं कातरं विधिः |
पुत्रेण सार्द्धम् आलोच्य व्याख्यां कर्तुं समारेभे || ज्ञा. सा. सं_१,२.१३ ||

अथ दैव-वाण्यर्थः

ब्रह्मोवाच
हे वत्स पूर्व-श्लोकार्थं निगूढं श्रुति-सम्मतम् |
वेदार्थं द्वि-विधं शुद्धं व्याख्यां कुर्वन्ति वैदिकाः || ज्ञा. सा. सं_१,२.१४ ||
आराधितो यदि हरिर् येन पुंसा स्व-भक्तितः |
किं तस्य तपसा व्यर्थं तीर्थ-पूतस्य नारद || ज्ञा. सा. सं_१,२.१५ ||
कृष्ण-मन्त्रोपासकस्य जीवन्-मुक्तस्य भारते |
तपश् चोपहास-बीजं तथा चर्वित-चर्वणम् || ज्ञा. सा. सं_१,२.१६ ||
मन्त्र-ग्रहण-मात्रेण पुरुषाणां शतं सुत |
पुनाति स्व-स्व-भक्तं च चान्धवंश् चावलीलया || ज्ञा. सा. सं_१,२.१७ ||
नहि धर्मो नहि तपः श्री-कृष्ण-सेवनात् परम् |
परिश्रमं च विफलं तपसा वैष्णवस्य च || ज्ञा. सा. सं_१,२.१८ ||
कृष्ण-मन्त्रोपासकस्य तीर्थ-पूतस्य पुत्रक |
तीर्थ-स्नानम् अनशनं वेदेषु च विडम्बनम् || ज्ञा. सा. सं_१,२.१९ ||
पूर्व-कर्मानुरोधेन यत् पापं वैष्णवस्य च |
मन्त्र-ग्रहण-मात्रेण नष्टं वह्नौ यथा तृणम् || ज्ञा. सा. सं_१,२.२० ||
पवित्रः परमो वह्निः पवित्रं चामलं जलं |
पवित्रं भारतं वर्षं तीर्थं यत् तुलसी-दलम् || ज्ञा. सा. सं_१,२.२१ ||
पुनाति लीलयैतानि शुद्धः कृष्ण-परायणः |
उपस्पर्श च भक्तस्याप्य् एते वाञ्च्छन्ति सादरम् || ज्ञा. सा. सं_१,२.२२ ||
भक्तस्य पाद-रजसा सद्यः पूता वसुन्धरा |
नहि पूत-स्त्रि-भुवने श्री-कृष्ण-सेवकात् परः || ज्ञा. सा. सं_१,२.२३ ||
शालिग्राम-शिला-चक्रे करोति कृष्ण-पूजनम् |
तत्-पादोदक-नैवेद्यं नित्यं भुङ्क्ते च यः पुमान् || ज्ञा. सा. सं_१,२.२४ ||
स वैष्णवो महा-पूतस् तन्-मन्त्रोपासकः शुचिः |
पुनाति पुंसां शतकं जन्म-मात्रात् सबान्धवम् || ज्ञा. सा. सं_१,२.२५ ||
वत्स श्लोकस्यैक-पादं व्याख्यातं च यथागमम् |
व्याख्यातं करोम्य् अन्य-पादं यथाज्ञानं मिशामय || ज्ञा. सा. सं_१,२.२६ ||
नाराधितो यदि हरिर् येन पुंसाधमेन च |
किं तस्य तपसा व्यर्थं निष्फलं तत्-परिश्रमः || ज्ञा. सा. सं_१,२.२७ ||
व्रतान्य् एव हि दानानि तपांस्य् अनशनानि च |
वेदोपयुक्ता यज्ञाश् च कर्माणि च शुभानि च |
न निष्पुनात्य् अभक्तं च सुराकुम्भम् इवापगा || ज्ञा. सा. सं_१,२.२८ ||
अभक्त-स्पर्श-मात्रेण तीर्थानि कम्पितानि च |
अभक्त-भार-दुःखेन कम्पिता सा वसुन्धरा || ज्ञा. सा. सं_१,२.२९ ||
श्लोकार्धं कथितं वत्स किंचिद् एव यथागमम् |
तस्यार्धस्यापि व्याख्यानं करोमीति निशामय || ज्ञा. सा. सं_१,२.३० ||
वेद-सारं कृष्ण-मतं ममापि नहि कल्पना |
अन्तर् बहिर् यदि हैर् येषां पुंसां महात्मनां || ज्ञा. सा. सं_१,२.३१ ||
स्वप्ने जागरणे शश्वत् तपस् तेषां च निष्फलम् |
स एव विष्णु-तुल्यो हि तद्-अंशो भारते मुने || ज्ञा. सा. सं_१,२.३२ ||
तस्य रक्षा-निबन्धेन तद्-अभ्यासे सुदर्शनम् |
ध्यान-मात्रेण निष्-पापः पुनाति भुवन-त्रयम् || ज्ञा. सा. सं_१,२.३३ ||
दत्वा चक्रं च रक्षार्थं न निश्चिन्तो जनार्दनः |
स्वयं तन् निकटं याति द्रष्टुं रक्षणाय च || ज्ञा. सा. सं_१,२.३४ ||
तत्-परो हि प्रियो नास्ति कृष्णस्य परमात्मनः |
नहि भक्तात् परश् चात्मा प्राणाश् चावयवादयः |
न लक्ष्मी राधिका वाणी स्वयंभुः शम्भुर् एव च || ज्ञा. सा. सं_१,२.३५ ||
भक्त-प्राणो हि कृष्णश् च कृष्ण-प्राणा हि वैष्णवाः |
ध्यायन्ते वैष्णवाः कृष्णं कृष्णश् च वैष्णवांस् तथा || ज्ञा. सा. सं_१,२.३६ ||
व्याख्यातम् च त्रि-पादं च हे मुनीन्द्र यथागमम् |
शेष-पादस्य व्याख्यानं करोमीति निशामय || ज्ञा. सा. सं_१,२.३७ ||
नान्तर् बहिर् यदि हरिर् येषां पुंसां च नारद |
तेषाम् अपि तपो व्यर्थम् अन्तर्-मलिन-चेतसां || ज्ञा. सा. सं_१,२.३८ ||
किं तज्-ज्ञानेन तपसा व्रतेन नियमेन च |
तीर्थ-स्नानेन पुण्येनापि अभक्त-मूढ-चेतसां || ज्ञा. सा. सं_१,२.३९ ||
कृष्ण-भक्ति-विहीनेभ्यो द्विजेभ्यः श्वपचो महान् |
शूकरो म्लेच्छ-निवहः स्व-धर्माचरेण च || ज्ञा. सा. सं_१,२.४० ||
स्व-धर्म-हीना विप्राश् चाप्य् अभक्ष्य-भक्षणेन च |
नित्यं नित्यं विधर्मेण पतिताः श्वपचाधमाः || ज्ञा. सा. सं_१,२.४१ ||
ब्रह्मणानां स्व-धर्मश् च सन्ततं कृष्ण-सेवनम् |
नित्यं ते भुञ्जते सन्तस् तन्-नैवेद्यं पादोदकम् || ज्ञा. सा. सं_१,२.४२ ||
न दत्वा हरये यस् तु यदि भुङ्क्ते द्विजाधमः |
अन्नं विष्ठा-समं मूत्र-समं तोयं विदुर् बुधाः || ज्ञा. सा. सं_१,२.४३ ||
भुङ्क्ते स्व-भक्ष्यं कोलश् च म्लेच्छश् च श्वपचाधमः |
विप्रो नित्यम् अभक्ष्यं च भुङ्क्ते च पतितस् ततः || ज्ञा. सा. सं_१,२.४४ ||
श्लोकम् एकं च व्याख्यातं यथा-ज्ञानं च नारद |
सन्निबोध परस्यार्धं व्याख्यानं च यथोचितं || ज्ञा. सा. सं_१,२.४५ ||
तपसो विरम ब्रह्मन् व्यर्थं भक्त-तपो ध्रुवम् |
शङ्करश् च गुरुं कृत्वा हरि-भक्तिं लभाचिरम् || ज्ञा. सा. सं_१,२.४६ ||
सुपक्वा हरि-भक्तिश् च तरणी भव-तारणे |
गुरुर् एव परं ब्रह्म कर्ण-धार-स्वरूपकः || ज्ञा. सा. सं_१,२.४७ ||
इत्य् एवम् उक्त्वा त्वां देवी प्रजगाम सरस्वती |
व्याख्यातस् तद्-अभिप्रायः किं भूयः कथयामि ते || ज्ञा. सा. सं_१,२.४८ ||

ब्रह्माणश् च वचः श्रुत्वा जहास योगिनां गुरुः |
सनत्-कुमारो भगवान् उवाच पितरं शुक || ज्ञा. सा. सं_१,२.४९ ||

सनत्-कुमार उवाच
पूर्व-श्लोकस्य व्याख्यानं न बुद्धं शिशुना मया |
पुत्रं शिष्यम् अबोधं च युक्तं बोधयितुम् पुनः || ज्ञा. सा. सं_१,२.५० ||
आराधितो हरिर् येन तस्य व्यर्थं तपो यदि |
नाराधितो हैर् येन तस्य व्यर्तं तपो यदि || ज्ञा. सा. सं_१,२.५१ ||
तस्यारहितौ तौ द्वौ तपसश् च स्थलं कुतः |
तपः कुर्वन्ति ये तात त्वं मां बोधय बालकम् || ज्ञा. सा. सं_१,२.५२ ||

पुत्रस्य वचनं श्रुत्वा सन्दिग्धो जगतां गुरुः |
दध्यौ कृष्ण-पदाम्भोजं परं कल्प-तरुं शुक || ज्ञा. सा. सं_१,२.५३ ||
क्षणं संचित्य पादाब्जं प्राप राद्धान्तम् ईप्सितम् |
व्याख्यां कर्तुं समारेभे विधाता जगताम् अपि || ज्ञा. सा. सं_१,२.५४ ||

अथ नैवेद्य-प्रशंसा

ब्रह्मोवाच
धन्यो ऽहं भवतः पुत्रात् ज्ञानिनां च गुरोर् गुरोः |
विष्णु-भक्ताच् च धर्मिष्ठात् सत्-पुत्राच् च पिता सुखी || ज्ञा. सा. सं_१,२.५५ ||
धन्यो ऽसि पण्डितो ऽसि त्वं हरि-भक्तो ऽसि पुत्रक |
ममापि सफलं जन्म जीवनं च त्वया बुध || ज्ञा. सा. सं_१,२.५६ ||
निबोध पूर्व-श्लोकार्थं पुनर् व्याख्यां करोमि च |
तथापि चेन् न सन्तोषो भवान् व्याख्यां करिष्यति || ज्ञा. सा. सं_१,२.५७ ||
आशब्दः सम्यग्-अर्थे च राधितः प्राप्त-वाचकः |
संप्राप्तश् च हरिर् येन व्यर्थस् तस्य तपः-श्रमः || ज्ञा. सा. सं_१,२.५८ ||
येन सम्यक्-प्रकारेण संप्राप्तो हरिर् ईश्वरः |
स्वप्ने ज्ञाने च ज्ञातस् तेषां व्यर्थस् तपः-श्रमः || ज्ञा. सा. सं_१,२.५९ ||
श्री-कृष्ण-विमुखं मूढं द्विजम् एव नराधमम् |
तीर्थं दानं तापः पुण्यं व्रतं नैव पुनाति तम् || ज्ञा. सा. सं_१,२.६० ||
यश् च मूढतमो लोके यश् च भक्तिं परां गतः |
ताव् उभौ सुख-सेधेते तपः कुर्वन्ति मध्यमाः || ज्ञा. सा. सं_१,२.६१ ||
देवान् अन्यांश् च भजते हरिं जानाति तत्-परः |
तपः करोति तं प्राप्तुम् आकाङ्क्षन् मध्यमो जनः || ज्ञा. सा. सं_१,२.६२ ||
प्राक्तनाद् अनुरागी च गृही संसार-संवृतः |
तपः करोति श्री-कृष्ण-पाद-पद्मार्थम् ईप्सितम् || ज्ञा. सा. सं_१,२.६३ ||
परं श्री-कृष्ण-भजनं ध्यानं तन्-नाम-कीर्तनम् |
तत्-पादोदक-नैवेद्य-भक्षणं सर्व-वाञ्च्छितम् || ज्ञा. सा. सं_१,२.६४ ||
अतीव मूढो विप्रश् च प्राक्तनाद् गुरु-दोषतः |
तामसो हि न जानाति श्री-कृष्णं त्रि-गुणात् परम् || ज्ञा. सा. सं_१,२.६५ ||
अज्ञानाद् अथ वा ज्ञानात् सत्-सङ्गाद् एव प्राक्तनात् |
भुङ्क्ते नैवेद्यं ईशस्य कृष्णस्य परमात्मनः || ज्ञा. सा. सं_१,२.६६ ||
स च मुक्तो भवेत् पुत्र मुच्यते सर्व-पातकात् |
स याति दिव्य-यानेन गोलोकं लोकम् उत्तमम् || ज्ञा. सा. सं_१,२.६७ ||
शृणु वत्स प्रवक्ष्यामि पूर्वाख्यानं पुरातनम् |
अतीव सुश्रवं चारु मधुरं मुक्तिदं परम् || ज्ञा. सा. सं_१,२.६८ ||
कान्यकुब्जः सुक्षुब्धश् च ब्राह्मणो ग्राम-याजकः |
देवलो वृष-वाहश् च महा-मूढश् च पातकी || ज्ञा. सा. सं_१,२.६९ ||
स्वप्ने ज्ञाने न जानाति पुण्यं वा कृष्ण-पूजनम् |
कृष्ण-भक्त-सहालाप-दर्शन-स्पर्शनं शुभं || ज्ञा. सा. सं_१,२.७० ||
बभूव प्राक्तनात् तस्य क्षण-मात्रं सुदुर्लभम् |
तेन पुण्येन नैवेद्यं लेभे कृष्णस्य ब्राह्मणः || ज्ञा. सा. सं_१,२.७१ ||
पितुः पुण्येन पुत्रश् च मार्गे पतितम् अल्पकम् |
स्वयं भुक्तावशेषं च पतितं वैष्णवाज् जनात् || ज्ञा. सा. सं_१,२.७२ ||
सुस्निग्धाक्षत-जीर्णं च रजसा मिश्रितं परम् |
गच्छतस् तत्र विप्रस्य पतितं भक्ष्य-वस्तु च || ज्ञा. सा. सं_१,२.७३ ||
नैवेद्योपरि कृष्णस्य त्वरायुक्तस्य पुत्रक |
तद्-वस्तु भुक्तं विप्रेण कृष्ण-नैवेद्य-मिश्रितम् || ज्ञा. सा. सं_१,२.७४ ||
सपुत्रेण क्षुधार्तेन तौ ययतुर् गृहम् |
विप्रोच्छिष्टं च बुभुजे तस्य पत्नी पति-व्रता || ज्ञा. सा. सं_१,२.७५ ||
परम्परानुसंबन्धात् पवित्रा सा बभूव ह |
जीवन्-मुक्तो ब्राह्मणश् च बभूव स सपुत्रकः || ज्ञा. सा. सं_१,२.७६ ||
कालेन तेन पुण्येन व्याघ्र-भुक्तश् च कानने |
सार्धं च व्याघ्र-पुत्राभ्यां गोलोकं प्रययौ द्विज |
पति-व्रता सह-मृता भर्ता सार्धं जगाम सा || ज्ञा. सा. सं_१,२.७७ ||

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे ब्रह्म-सनत्-कुमार-संवादे नैवेद्य-प्रशंसनं नाम द्वितीयो ऽध्यायः


प्रथमैक-रात्रे तृतीयो ऽध्यायः


सनत्-कुमार उवाच

अहो तात किम् आश्चर्यं कृष्णस्य परमात्मनः |
परं नैवेद्य-माहात्म्यं विस्तराद् वद साम्प्रतम् || ज्ञा. सा. सं_१,३.१ ||

अथ श्री-कृष्ण-महिम-वर्णनम्

ब्रह्मोवाच
एकदा ब्राह्मणो हृष्टः प्रफुल्ल-वदनेक्षणः |
पुत्रेण सार्धं प्रययौ बान्धवस्य गृहं मुदा || ज्ञा. सा. सं_१,३.२ ||
निमन्त्रितो विवाहेन महा-संभार-संभृतः |
भुक्त्वा पीत्वा च तद्-गृहे स्व-गृहं प्रययौ मुदा || ज्ञा. सा. सं_१,३.३ ||
सपुत्रो ब्राह्मणो मार्गे क्षुत्-पिपासार्दितः सुतः |
ददर्श चन्द्र-भागां तां नदीम् अति-मनोहराम् || ज्ञा. सा. सं_१,३.४ ||
उवाच पुत्रः पित्रं स्नात्वा भोक्ष्यामि चेति भोः |
क्षुत्-पिपासा बलवती वर्धते तात वर्त्मनि || ज्ञा. सा. सं_१,३.५ ||
पुत्रस्य वचनं श्रुत्वा तम् उवाच द्विजः स्वयम् |
भयंकरं वनम् इदं समीपे सरितः सुतः || ज्ञा. सा. सं_१,३.६ ||
सुशीघ्रं गच्छ ग्रामान्तं पुरो रम्य-सरोवरम् |
तत्र स्नात्वा च भोक्ष्यावो गच्छ वत्स यथासुखम् || ज्ञा. सा. सं_१,३.७ ||
तातस्य वचनं श्रुत्वा जहास च चुकोप ह |
पितरं वक्तुम् आरेभे रक्त-पण्ग्कज-लोचनः || ज्ञा. सा. सं_१,३.८ ||

शिशुर् उवाच
बालो ऽहं दश-वर्षीयस् त्वं च वृद्धश् च ज्ञानदः |
पिता ददाति पुत्राय ज्ञानं सर्वत्र भू-तले || ज्ञा. सा. सं_१,३.९ ||
अहो दुरत्ययः कालो वृध्हो वदति बालवत् |
कथं प्राक्तनम् उल्लङ्घ्य ब्रूहि तात दुरत्ययम् || ज्ञा. सा. सं_१,३.१० ||
प्राक्तनात् सुख-दुःखं च रोगं शोकं भयं पितः |
सुमृत्युर् अपमृत्युर् वा चिरायुर् अल्प-जीवनः || ज्ञा. सा. सं_१,३.११ ||
यत्र काले च यन्-मृत्युर् भवनं शुभ-कर्म च |
न्यूनाधिकं क्षणं नास्ति निषेकः केन वार्यते || ज्ञा. सा. सं_१,३.१२ ||
यस्य हस्ते च यन्-मृत्युर् विधात्रा लिखितः पुरा |
न च तं खण्डितुं शक्तः स्वयं विष्णुश् च शङ्करः || ज्ञा. सा. सं_१,३.१३ ||
तात व्यर्थम् अधीतं ते दुर्बुद्धेर् जन्म निष्फलम् |
सुबुद्धेः सफलं जन्म तत्-क्षणम् जीवनं सुखम् || ज्ञा. सा. सं_१,३.१४ ||
येन शुक्ली-कृता हंसाः शुकाश् च हरिती-कृताः |
मयूराश् चित्रिता येन स मे रक्षां करिष्यति || ज्ञा. सा. सं_१,३.१५ ||
येन कृष्णेन विश्वानि चासंख्यानि कृतानि च |
चराचरं च यो रक्षेत् स मे रक्षां करिष्यति || ज्ञा. सा. सं_१,३.१६ ||
घोरारण्ये सुखं शेते यो हि कृष्णेन रक्षितः |
निर्बन्धो ऽपि यस्य मरणं तस्य मन्दिरे || ज्ञा. सा. सं_१,३.१७ ||
यः शेते नाग-शय्यासु प्राक्तनान् मङ्गलाहितः |
यो नाग-भक्षितो भोगात् स भृतो गरुडान्तिके || ज्ञा. सा. सं_१,३.१८ ||
न समुद्रे च म्रियते नाग्नि-राशौ विषानले |
न शस्त्रेण न चास्त्रेणायुर्-मर्माणि रक्षति || ज्ञा. सा. सं_१,३.१९ ||
नाप्राप्त-कालो म्रियते विद्धः शर-शतैर् अपि |
तृणाग्रेणापि संस्पृष्टः प्राप्त-कालो न जीवति || ज्ञा. सा. सं_१,३.२० ||
कश्चिद् गर्भे च म्रियते कश्चिद् भूमिष्ट-मात्रतः |
कश्चिद् यौवन-काले च कश्चिद् एव हि वार्द्धके || ज्ञा. सा. सं_१,३.२१ ||
कश्चिद् चिरायु रोगी चाप्य् अरोगी चापि कश्चन |
कश्चिद् धनी दरिद्रश् च कश्चिद् एव हि कर्मणा || ज्ञा. सा. सं_१,३.२२ ||
कश्चित् कल्पान्त-जीवी च चिर-जीवी च कश्चन |
प्राक्तनाद् अमरः कश्चिन् निषेको बलवत्तरः || ज्ञा. सा. सं_१,३.२३ ||
कश्चिद् याति च राजेन्द्रो दिव्य-यानेन कर्मणा |
कश्चित् कीट-पतङ्गेषु कश्चित् पश्वादि-योनिषु || ज्ञा. सा. सं_१,३.२४ ||
कश्चिद् एव हि सन्न्यासी कश्चिच् च नर-घातकः |
कश्चिद् गजेन्द्र-गामी च पशु-यायी च कश्चन || ज्ञा. सा. सं_१,३.२५ ||
कश्चिद् सूक्ष्मांशुका-धारी कश्चिज् जीर्ण-पटी जनः || ज्ञा. सा. सं_१,३.२६ ||
कश्चिन् नग्नो ऽअप्य् अनाहारी सुधा-भोजी च च कश्चन |
कश्चिच् च सुन्दरः श्रीमान् गलत्-कुष्टी च कश्चन || ज्ञा. सा. सं_१,३.२७ ||
कश्चित् कुब्जश् चाङ्ग-हीनो बधिरः काण एव च |
कश्चिद् दीर्घो मध्यमश् च कश्चित् खञ्जश् च वामनः || ज्ञा. सा. सं_१,३.२८ ||
कश्चित् कृष्णश् च गौरश् च श्यामलश् च स्व-कर्मणा |
कश्चिद् भक्त्या च प्राप्नोति कृष्ण-दास्यं सुदुर्लभम् || ज्ञा. सा. सं_१,३.२९ ||
ब्रह्मणः परमं स्थानं जन्म-मृत्यु-जरा-हरम् |
कश्चित् प्राप्नोति परमं ब्रह्म-लोकं निरामयम् || ज्ञा. सा. सं_१,३.३० ||
कश्चित् स्वर्गम् इन्द्र-पदं शिव-लोकं स्वकर्मणा |
कश्चित् वर्गम् इन्द्र-लोकं यम-लोकं च कश्चन || ज्ञा. सा. सं_१,३.३१ ||
कश्चिच् च नरके घोरे प्राप्नोति क्लेशम् उल्वणम् |
तादितो यम-दूतेन क्षुधितस् तृषितः सदा || ज्ञा. सा. सं_१,३.३२ ||
भुङ्क्ते विण्-मूत्र-कीटं तन्-मलं श्लेष्मं गरं वसाम् |
क्षुर-धारे तप्त-तैले वह्नौ शिते जले स्थले || ज्ञा. सा. सं_१,३.३३ ||
प्राप्नोति दारुणं दुःखम् आकल्पं पातकी पितः |
तथा भोगावशेषे च लब्धा जन्म स्व-कर्मणा || ज्ञा. सा. सं_१,३.३४ ||
व्याधि-युक्तः प्रमुच्येत तया चेद् ईश्वरेच्छया |
यद्-भयाद् वाति वातो ऽयं सूर्यस् तपति यद्-भयात् || ज्ञा. सा. सं_१,३.३५ ||
वर्षतीन्द्रो दहत्य् अग्निर् मृत्युश् चरति जन्तुषु |
यस्याज्ञया सृष्टि-विधौ मूर्मो ऽनन्तं दधाति च || ज्ञा. सा. सं_१,३.३६ ||
स च सर्वं च ब्रह्माण्डं लीलया चेश्वरेच्छया |
यस्याज्ञया महा-भीता सर्वाधारा वसुन्धरा || ज्ञा. सा. सं_१,३.३७ ||
धरा सा सर्वस्याद्या रत्नवांश् च हिमालयः |
स्वयं विधाता भगवान् ध्यायते यम् अहर्-निशम् || ज्ञा. सा. सं_१,३.३८ ||
यं ध्यायते च भजते स्वयं मृतुञ्जयः शिवः |
सहस्र-वक्त्रो ऽयं स्तौति ध्यायते भजते सदा || ज्ञा. सा. सं_१,३.३९ ||
स्वय्ं सरस्वती स्तौति यम् ईश्वरम् अभीप्सितम् |
सेवते पाद-पद्मं च स्वयं पद्मालया पितः || ज्ञा. सा. सं_१,३.४० ||
माया भीता च यं स्तौति दुर्गा दुर्गति-नाशिनी |
स्तुवन्ति वेदाः सततं सावित्री वेद-मातृका || ज्ञा. सा. सं_१,३.४१ ||
सिद्धेन्द्राश् च मुनीन्द्राश् च योगीन्द्राः सनकादयः |
राजेन्द्राश् चासुरेन्द्राश् च सुरेन्द्रा मनवस् तथा || ज्ञा. सा. सं_१,३.४२ ||
ध्यायन्ते च भजन्ते च भक्ताः सन्तो हि सन्ततम् |
केचिद् विदन्ति यं ब्रह्मां भगवन्तं सनातनम् || ज्ञा. सा. सं_१,३.४३ ||
केचित् प्रधानं सर्वाद्यं केचिच् च ज्योतिर् ईश्वरम् |
केचिच् च सर्व-रूपं च सर्व-कारण-कारणम् || ज्ञा. सा. सं_१,३.४४ ||
केचित् स्वेच्छाभयं रूपं भक्तानुग्रह-विग्रहम् |
केचित् सुरुचिरं श्याम-सुन्दरं मनोहरम् || ज्ञा. सा. सं_१,३.४५ ||
सानन्दं परमानन्दं गोविन्दं नन्द-नन्दनम् |
भज तात परं ब्रह्म स्मर शश्वत् सुरेश्वरम् || ज्ञा. सा. सं_१,३.४६ ||

इत्य् एवम् उक्त्वा पितरं चन्द्र-भागा-नदी-जले |
स्नात्वा पपौ जलं स्वच्छं बुभुजे मिष्ट-मोदकम् || ज्ञा. सा. सं_१,३.४७ ||
पिता तद्-वचनं श्रुत्वा सानन्दाश्रु मुमोच सः |
चुचुम्ब गण्डं पुत्रस्य समाश्लेषण-पूर्वकम् || ज्ञा. सा. सं_१,३.४८ ||
पिता स्नात्वा समारेभे सन्ध्यां कर्तुं च पूजनम् |
सुस्नातं पितरं दृष्ट्वा पुत्रः स प्रययौ वनम् || ज्ञा. सा. सं_१,३.४९ ||
पत्रं भोजन-पात्रार्थम् अर्हतुं चञ्चलः शिशुः |
चकार चयनं तूर्णं प्रशस्तं पत्र-पञ्चकम् || ज्ञा. सा. सं_१,३.५० ||
सुन्दरं कुसुमं वन्यं पूजनार्थं पितुस् तथा |
ददर्श पुरतो बालः सुपक्वं वदरी-फलम् || ज्ञा. सा. सं_१,३.५१ ||
चकार चयनं तानि फलानि शोभनानि च |
धात्री-फलं सुपक्वं च पक्वम् आम्रातकं तथा || ज्ञा. सा. सं_१,३.५२ ||
सुपक्वं च कदम्बं च चकार चयनं पुनः |
सुपक्वं सुन्दरं रम्यं दाडिमं श्री-फलं तथा || ज्ञा. सा. सं_१,३.५३ ||
रम्यं जम्बु-फलं चैव खर्जूरं सुमनोहरम् |
करञ्जकं च जाम्बीरं सुन्दरं चिकुरं तथा || ज्ञा. सा. सं_१,३.५४ ||
तत् सर्वं चयनं कृत्वा ददर्श पुरतः सरः |
सुनिर्मलं जलं स्वच्छं श्वेत-पद्मं मनोहरम् || ज्ञा. सा. सं_१,३.५५ ||
रुचिरं रक्त-कह्लारं प्रस्फुटं च जलान्तिके |
विहाय तानि सर्वाणि सरः-शिरसि सुस्थले || ज्ञा. सा. सं_१,३.५६ ||
पपौ सरः-स्वच्छ-तोयं जहार पद्मम् उल्वणम् |
किंचित् सुरक्त-कह्लारं पक्वं पद्म-फलं तथा || ज्ञा. सा. सं_१,३.५७ ||
सर्वम् आहरणं कृत्वा पितरं गन्तुम् उद्यतः |
प्रफुल्ल-वदनः श्रीमान् सस्मितो द्विज-बालकः || ज्ञा. सा. सं_१,३.५८ ||
प्रफुल्ल-चम्पक-तरुं ददर्श पुरतः शिशुः |
मल्लिका-मालती-कुन्दयूथिका-माधवी-लताः || ज्ञा. सा. सं_१,३.५९ ||
चकार चयनं स्फीतः पुष्पाणि सुन्दराणि च |
पुष्पेण फल-पत्रेण तस्य भारो बभूव ह || ज्ञा. सा. सं_१,३.६० ||
बालो वोढुम् अशक्यन्तश् च ययौ गमन-मन्थरः |
न फलं बुभुजे सो ऽपि धर्माधर्म-भयेन च || ज्ञा. सा. सं_१,३.६१ ||
पुरो ददर्श स शिशुर् घोरं व्याघ्रालयं भिया |
तात तातेति शब्दं च चकार ह पुनः पुनः || ज्ञा. सा. सं_१,३.६२ ||
न ददर्श च तातं च शार्दुलं च ददर्श सः |
भिया सस्मार गोविन्द-पादारवैन्दम् ईप्सितम् || ज्ञा. सा. सं_१,३.६३ ||
हरिं नर-हरिं रामं कृष्णं विष्णुं च माध्वम् |
दामोदरं हृषीकेशं मुकुन्दं मधु-सूदनम् || ज्ञा. सा. सं_१,३.६४ ||
एतानि दश नामानि जपन् विप्र-शिशुर् भिया |
प्रययौ पुरतः शीघ्रं पुनर् एव सरोवरम् || ज्ञा. सा. सं_१,३.६५ ||
सरसो निर्मले तीरे पुष्पाणि च फलानि च |
ददौ भक्त्या भगवते कृष्णाय परमात्मने || ज्ञा. सा. सं_१,३.६६ ||
श्री-कृष्ण-पूजां कुर्वन्तं ध्यानमानां पदाम्बुजम् |
निकटं न ययौ व्याघ्रो दृष्ट्वा बालं च दूरतः || ज्ञा. सा. सं_१,३.६७ ||
व्याघ्रं ददर्श बालश् च प्रकटास्यं भयानकम् |
विकृताकार-दशनं विकटाक्षं महोदरम् || ज्ञा. सा. सं_१,३.६८ ||
दृष्ट्वा च दुरतो व्याघ्रम् उवास सरसस् तटे |
दध्यौ कृष्ण-पदाम्भोजं जन्म-मृत्यु-जरा-हरम् || ज्ञा. सा. सं_१,३.६९ ||
मूलाधारं स्वाधिष्ठानं मणिपूरम् अनाहतम् |
विशुद्धं च तथाज्ञाख्यं षट्-चक्रं च विभाव्य च || ज्ञा. सा. सं_१,३.७० ||
कुण्डलिन्या स्व-शक्त्या च सहितं परमेश्वरम् |
सहस्र-दल-पद्म-स्थं हृदये स्वात्मनः प्रभुम् || ज्ञा. सा. सं_१,३.७१ ||
ददर्श द्विभुजं कृष्णं पीत-कौशेय-वाससम् |
सस्मितं सुन्दरं शुद्धं नवीन-जलद-प्रभम् || ज्ञा. सा. सं_१,३.७२ ||
कोटि-कन्दर्प-सौन्दर्य-लीला-धाम-मनोहरम् |
कोटि-पार्वण-पूर्णेन्दु-प्रभा-जुष्टं च सुन्दरम् || ज्ञा. सा. सं_१,३.७३ ||
सुख-दृश्यं सुरूपं च भक्तानुग्रह-कारकम् |
चन्दनोक्षित-सर्वाङ्गं रत्न-भूषण-भूषितम् || ज्ञा. सा. सं_१,३.७४ ||
प्रफुल्ल-पद्म-नयनं राधा-वक्षः-स्थल-स्थितम् |
मालती-माल्य-सम्बद्ध-चूडा-चारु-सुशोभनम् || ज्ञा. सा. सं_१,३.७५ ||
धृत-रत्नं रत्न-पद्मं दक्षिणेन करेण च |
वामेन मणि-निर्माण-दीप्त-दर्पणम् उज्ज्वलम् || ज्ञा. सा. सं_१,३.७६ ||
रत्न-कुण्डाल-युग्मेन गण्ड-स्थल-विराजितम् |
कौस्थुभेन मणीन्द्रेण चारु-वक्षः-स्थलोज्ज्वलम् || ज्ञा. सा. सं_१,३.७७|
मुक्ताराजि-विनिन्दैक-दन्त-राजि-विराजितम् |
आजानु-मालती-माला-वन-माला-विभूषितम् || ज्ञा. सा. सं_१,३.७८ ||
वेदानन-सरस्वत्या स्तुतं ब्रह्मेश-वन्दितम् |
पद्मापद्मालया-माया-संसेवित-पदाम्बुजम् || ज्ञा. सा. सं_१,३.७९ ||
परि-पूर्णतमम् ब्रह्म परमात्मानम् ईश्वरम् |
निर्लिप्तं साक्षि-भूतं च भगवन्तं सनातनम् || ज्ञा. सा. सं_१,३.८० ||
सर्वेशां सर्व-रूपं च सर्व-कारण-कारणम् |
पुरुषं परमात्मैकं परेशं प्रकृतेः परं || ज्ञा. सा. सं_१,३.८१ ||
एवं भूतं विभुं दृष्ट्वा मनसा प्रणनाम तम् |
तुष्टाव परया भक्त्या तम् ईशं सम्पुटाञ्जलिः || ज्ञा. सा. सं_१,३.८२ ||

श्री-सुभद्र उवाच
हे नाथ दर्श्नं देहि मां भक्तं शरणागतम् |
श्रीद श्रीश श्री-निवास श्री-निधे श्री-निकेतन || ज्ञा. सा. सं_१,३.८३ ||
श्रिया सेवित-पादाब्ज श्री-समुत्पत्ति-कारण |
वेदानिर्वचनियेश निरीह निर्गुणाधिप || ज्ञा. सा. सं_१,३.८४ ||
सर्वाद्य सर्व-निलय सर्व-बीज सनातन |
शान्त सरस्वती-कान्त नितान्त सर्व-कर्मसु || ज्ञा. सा. सं_१,३.८५ ||
सर्वाधार निराधार काम-पूर परात् पर |
दुष्पारासार-संसार-कर्ण-धार नमो ऽस्तु ते || ज्ञा. सा. सं_१,३.८६ ||

इत्य् एवम् उक्त्वा स शिशु रुरोद च पुनः पुनः |
ध्यायेन तत्-पदाम्भोजं शरणं च चकार सः || ज्ञा. सा. सं_१,३.८७ ||
इति विप्रकृतं स्तोत्रं त्रि-सन्ध्यं यः पठेन् नरः |
मुच्यते सर्व-पापेभ्यो विष्णु-लोकं स गच्छति || ज्ञा. सा. सं_१,३.८८ ||

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे ब्रह्म-सनत्-कुमार-संवादे श्री-कृष्ण-महिमोपालम्भनं नाम तृतीयो ऽध्यायः


प्रथमैक-रात्रे चतुर्थो ऽध्यायः


ब्रह्मोवाच
ब्राह्मणस्य स्तवं श्रुत्वा परितुष्टो जनार्दनः |
कृपां चकार भगवान् भक्तेशो भक्त-वत्सलः || ज्ञा. सा. सं_१,४.१ ||
एतस्मिन्न् अन्तरे तत्र भगवान् नन्द-नन्दनः |
नारायणर्षिः कृपया चाजगाम सरोवरम् || ज्ञा. सा. सं_१,४.२ ||
ददर्श ब्राह्मण-वटुं तम् एव मुनि-पुङ्गवम् |
तेजसा सुख-दृश्येन सुन्दरं सुमनोहरम् || ज्ञा. सा. सं_१,४.३ ||
पीत-वस्त्र-परीधानं नवीन-जलद-प्रभम् |
चन्दनोक्षित-सर्वाङ्गं वन-माला-विभूषितम् || ज्ञा. सा. सं_१,४.४ ||
प्रसन्न-वदनं शुद्धं सस्मितं सर्व-पूजितम् |
विभान्तं च जपन्तं शुद्ध-स्फटिक-मालया || ज्ञा. सा. सं_१,४.५ ||
दृष्ट्वा ननाम सहसा शिरसा विप्र-पुङ्गवः |
शुभाशिषं ददौ तस्मै दत्वा शिरसि हस्तकम् || ज्ञा. सा. सं_१,४.६ ||
तम् उवाच मुनि-श्रेष्ठः कृपया दीन-वत्सलः |
हितं तथ्यं नीति-सारं परिणाम-सुखावहम् || ज्ञा. सा. सं_१,४.७ ||

श्री-नारायणर्षिर् उवाच
अये विप्र महा-भाग सफलं जीवनं तव |
यस्मिन् कुले च जातो ऽसि तद्-धन्यं सुप्रशंसितम् || ज्ञा. सा. सं_१,४.८ ||
भज त्वं परमानन्दं सानन्दं नन्द-नन्दनम् |
ध्रुवं यास्यसि गोलोकं परमानन्दम् ईप्सितम् || ज्ञा. सा. सं_१,४.९ ||
तत् कुलं पावनं धन्यं यशस्यं च निरापदम् |
यस्मिन् स्वयं भवान् जातः पुण्यः कृष्ण-परायणः || ज्ञा. सा. सं_१,४.१० ||
नैवेद्यं पतितं मार्गे जीर्नं श्वापद-भक्षितम् |
भुक्त्वा तवैषा बुद्धिश् च कृष्ण-भक्तिर् बभूव च || ज्ञा. सा. सं_१,४.११ ||
कृष्ण-नैवेद्य-माहात्म्यं को वत्स कथितुं क्षमः |
यद् वक्तुं न हि शक्ताश् च वेदाश् चत्वार एव च || ज्ञा. सा. सं_१,४.१२ ||
वरं वृणुष्व भद्रं ते सुभद्र द्विज-पुङ्गव |
सर्वं दातुम् अहं शक्तो यत् ते मनसि वाञ्च्छितम् || ज्ञा. सा. सं_१,४.१३ ||

नारायण-वचः श्रुत्वा तम् उवाच शिषुः स्वयम् |
पुनः कम्पित-सर्वाङ्गः साश्रु-नेत्रः पुटाञ्जलिः || ज्ञा. सा. सं_१,४.१४ ||

सुभद्र उवाच
देहि मे कृष्ण-पादाब्जे दृढं भक्तिं सुदुर्लभम् |
तद्-दास्यं तत्-पदे वासं जरा-मृत्यु-हरं परम् || ज्ञा. सा. सं_१,४.१५ ||
अन्यं वरं न गृह्णामि न मे किंचित् प्रयोजनम् |
नाहं वरार्थी कामी च रागी वेतन-भुग् यथा || ज्ञा. सा. सं_१,४.१६ ||

नारायणर्षिर् उवाच
श्री-कृष्णो यस्य भक्तिश् च तस्यात्र किं सुदुर्लभम् |
अणिमादिक-द्व-त्रिंशत्-सिद्धिः कर-तले परा || ज्ञा. सा. सं_१,४.१७ ||
निर्विकल्पो ददात्य् अस्य नैव गृह्णाति वैष्णवः |
अनिमित्तां हरेर् भक्तिं भक्ता वाञ्च्छन्ति सन्ततम् || ज्ञा. सा. सं_१,४.१८ ||
गृहाण मन्त्रं कृष्णस्य परं कल्प-तरुं वरम् |
भक्तिदं दास्यदं शुद्धं कर्म-मूल-निकृन्तनम् || ज्ञा. सा. सं_१,४.१९ ||
लक्ष्मीर् माया-काम-बीजं ङे ऽन्तं कृष्ण-पदं तथा |
वह्नि-जायान्त-मन्त्रं च मन्त्र-राजं मनोहरम् || ज्ञा. सा. सं_१,४.२० ||

इत्य् एवम् उक्त्वा तत्-कर्णे कथयाम् आस दक्षिणे |
वार-त्रयं मुनि-श्रेष्ठः शुद्ध-भावेन पुत्रक || ज्ञा. सा. सं_१,४.२१ ||
येन स्तोत्रेण तुष्टाव सुभद्रः परमेश्वरम् |
आज्ञां चकार स ऋषिस् तद् एव पठितुं मुदा || ज्ञा. सा. सं_१,४.२२ ||
कवचं च ददौ तस्मै जगन्-मङ्गल-मङ्गलम् |
ध्यानं च साम-वेदोक्तं सर्व-पूजा-विधि-क्रमम् || ज्ञा. सा. सं_१,४.२३ ||
हरेर् दास्यं च तद्-भक्तिर् गोलोक-वासम् ईप्सितम् |
जन्म-द्वयान्तरे चैव कर्म-भोग-क्षये सति || ज्ञा. सा. सं_१,४.२४ ||

सुभद्र उवाच
सत्यं कुरु महा-भाग वरं मे यदि दास्यसि |
वरं वृणोमि तत् पश्चात् यन् मे मनसि वाञ्च्छितम् || ज्ञा. सा. सं_१,४.२५ ||

नारायणर्षिर् उवाच
ॐ सत्यं वत्स दास्यामि वरं वृणु यथेप्सितम् |
ममाशक्यं नास्ति किंचित् दाताहं सर्व-सम्पदाम् || ज्ञा. सा. सं_१,४.२६ ||

सुभद्र उवाच
कण्ठे ते किं च कवचं कस्य वा सर्व-पूजितम् |
अमूल्य-रत्न-गुटिका-युक्तं च सुमनोहरम् || ज्ञा. सा. सं_१,४.२७ ||
कवचं देहि मे देव स्व-सत्य-रक्षणं कुरु |

विप्रस्य वचनं श्रुत्वा शुष्क-कण्ठौष्ठातालुकः || ज्ञा. सा. सं_१,४.२८ ||
वक्तुं न शक्तस् तद् वाक्यं दध्यौ कृष्ण-पदाम्बुजम् |
प्रददौ गुटिकां तस्मै नोवाच कवचं मुनिः || ज्ञा. सा. सं_१,४.२९ ||
तम् उवाच महर्षिश् च वितुष्टश् चोन्मनाः सुत |
वत्स क्रोधो हि देवस्य वरं तुल्यं च वाञ्च्छितम् || ज्ञा. सा. सं_१,४.३० ||

नारायणर्षिर् उवाच
त्रिंषत्-सहस्र-वर्षं च भुङ्क्ष्व राज्यं सुदुर्लभम् |
लभस्व दुर्लभां लक्ष्मीं मायया मोहितो भव || ज्ञा. सा. सं_१,४.३१ ||
मद्-इष्ट-देव-कवचं गृहीतं येन हेतुना |
सप्त-कल्पान्त-जीवस्य परत्र च भविष्यति || ज्ञा. सा. सं_१,४.३२ ||
सुचिरेणैव कालेन गोलोकं च प्रायस्यसि |
परे मृकण्डु-पुत्रस् त्वं मार्कण्डेयो भविष्यसि || ज्ञा. सा. सं_१,४.३३ ||
मया दत्तं च कवचं त्वां च रक्षति पुत्रक |
तव कण्ठे स्थितिश् चाश्य प्रति जन्मनि जन्मनि || ज्ञा. सा. सं_१,४.३४ ||

पुनश् च गुटिका-युक्तं कृत्वा च कवचं मुनिः |
गले दधार भक्त्या च तद्-भक्तो धर्म-नन्दनः || ज्ञा. सा. सं_१,४.३५ ||
वरं दत्वा च स मुनिर् ययौ गेहं स उन्मनाः |
विप्राय कवचं दत्वा नष्ट-वत्सा गौर् यथा || ज्ञा. सा. सं_१,४.३६ ||
भ्रात्रा नरेण पित्रा च धर्मेण च महात्मना |
मात्रा मूर्त्या च पत्न्या च शान्त्या च भर्त्सितो मुनिः || ज्ञा. सा. सं_१,४.३७ ||
विप्रः सम्प्राप्य कवचं मन्त्रं कल्प-तरुं परम् |
सरोवरात् समुत्थाय प्रज्वलन् ब्रह्म-तेजसा || ज्ञा. सा. सं_१,४.३८ ||
क्षणं तस्थौ सरस्-तीरे वट-मूले मनोहरे |
जजाप परमं मन्त्रं सम्पूज्य जगद्-ईश्वरम् || ज्ञा. सा. सं_१,४.३९ ||
अथ तत्-तात-विप्रो हि समन्विष्य सुतं चिरम् |
गत्वा च स्व-गृहं दुःखी शोकार्तः स रुरोद च || ज्ञा. सा. सं_१,४.४० ||
समुद्यता तनुं त्यक्तुं तन्-माता पुत्र-वार्तया |
न तत्याज तनुं विप्रो दृष्ट्वा सुस्वप्नम् उत्तमम् || ज्ञा. सा. सं_१,४.४१ ||
विप्रो विप्रा गृहं त्यक्त्वा पुत्रान्वेषण-पूर्वकम् |
प्रययौ काननं घोरं सर्वैश् च बान्धवैः सहः || ज्ञा. सा. सं_१,४.४२ ||
सर्वं वनं समन्विष्य प्रययुस् ते सरोवरम् |
ददृशुस् ते शिशुं गृह्यं सूर्याभं वट-मूलके || ज्ञा. सा. सं_१,४.४३ ||
चुचुम्ब गण्डं पुत्रस्य विप्रो विप्रा च सारदम् |
आशिश्लेष क्रमेणैव माता तातः पुनः पुनः || ज्ञा. सा. सं_१,४.४४ ||
पुत्रश् च सर्व-वृत्तान्तं कथयाम् आस सादरम् |
श्रुत्वा पुत्रस्य विप्रश् च विप्रा बान्धवस् तथा || ज्ञा. सा. सं_१,४. ४५ ||
ययुः सर्वे स्व-देशं च परमाह्लाद-मानसाः |
चन्द्र-भागां समुत्तीर्य विवेश नगरं परम् || ज्ञा. सा. सं_१,४.४६ ||
नगर-स्थो नृपेन्द्रश् च दृष्ट्वा तेजस्विनं शिशुम् |
ददौ तस्मै स्व-कन्यां च रत्नालङ्कार-भूषितम् || ज्ञा. सा. सं_१,४.४७ ||
युवतीं सुन्दरीं श्यामां तप्त-कञ्चन-संनिभाम् |
पति-व्रतां महा-भागां सुन्दरीं कमलाकलां || ज्ञा. सा. सं_१,४.४८ ||
गजेन्द्राणां सहस्रं च प्रददौ यौतुकं मुदा |
अश्वानां दश-लक्षं च रत्नानां च सहस्रकम् || ज्ञा. सा. सं_१,४.४९ ||
दासीनां निष्क-कण्ठीनां सौन्दरीणां सहस्रकम् |
वस्त्र-रत्न-सहस्रं च बहु-मूल्यं सुदुर्लभम् || ज्ञा. सा. सं_१,४.५० ||
दासानां च सहस्रं च पदातीनां त्रि-लक्षकम् |
दश-लक्षं सुवर्णं च रत्न-मालां सुदुर्लभाम् || ज्ञा. सा. सं_१,४.५१ ||
दत्वा तस्मै च कन्यां च रुरोद च सभार्यकः |
राजा च कन्यया सार्धं प्रययौ विप्र-मन्दिरम् || ज्ञा. सा. सं_१,४.५२ ||
गत्वा चापि कियद् दूरं ददर्श नगरं नृपः |
अतीव सुन्दरं रम्यं विजित्य चामरावतीम् || ज्ञा. सा. सं_१,४.५३ ||
शुद्ध-स्फटिक-संकाशं रत्न-सार-विनिर्मितम् |
त्रि-कोटि-चट्टालिका-गेहं नव-कोटि-सुमन्दिरम् || ज्ञा. सा. सं_१,४.५४ ||
सप्त-प्राकार-युक्तं च परिखा-त्रय-सम्युक्तम् |
दुर्लङ्घ्यम् अति-दुर्गम्यं रिपूणाम् अपि पुत्रक || ज्ञा. सा. सं_१,४.५५ ||
शिशोश् च स्वाश्रमं रम्यं सद्-रत्न-सार-निर्मितम् |
स्फुरत् वज्र-कपाटं च रत्नेन्द्र-कलशान्वितम् || ज्ञा. सा. सं_१,४.५६ ||
सद्-रत्न-दर्पणाइर् दीपं रत्न-कुम्भैर् विराजितम् |
प्राङ्गणं रत्न-साराढ्यं रत्न-सोपान-शोभितम् || ज्ञा. सा. सं_१,४.५७ ||
मनोहरं राज-मार्गं सिन्दूरादि-परिष्कृतम् |
प्राकारं मणि-भूषाढ्यम् उच्चैर् आकाश-स्पर्शि च || ज्ञा. सा. सं_१,४.५८ ||
जगाम विस्मयं राजा दृष्ट्वा नगरम् उत्तमम् |
पित्रा मात्रा सह शिशुर् विस्मयं च ययौ मुदा || ज्ञा. सा. सं_१,४.५९ ||
गजेन्द्राणां त्रि-लक्षं च श्वानां शत-लक्षकम् |
चतुर्-गुणं पदातीनाम् आययुस् ते ऽप्य् अनुव्रजम् || ज्ञा. सा. सं_१,४.६० ||
वारणेन्द्रं पुरस् कृत्य वेश्यां च नर्तकं तथा |
द्विजांश् च पूर्ण-कुम्भांश् च पति-पुत्रवतीं सतीं || ज्ञा. सा. सं_१,४.६१ ||
महा-पात्रः शिशुं दृष्ट्वा गजेन्द्रोपरि-संस्थितम् |
मूर्ध्ना ननाम वेगेनाप्य् अवरुह्य गजाद् अपि || ज्ञा. सा. सं_१,४.६२ ||
शिशुं प्रवेशयां आस रत्न-निर्माण-मन्दिरम् |
रत्न-सिंहासनं तस्मै प्रददौ सादरं मुदा || ज्ञा. सा. सं_१,४.६३ ||
कन्या-दात्रे च पित्रे च मात्रे च सादरं मुदा |
रत्न-सिंःआसनं रम्यं प्रददौ पात्र एव च || ज्ञा. सा. सं_१,४.६४ ||
शिशुम् सिषेव पात्रश् च स्वयं च श्वेत-चामरैः |
दधार रत्न-छत्रं च हीराहार-परिष्कृतम् || ज्ञा. सा. सं_१,४.६५ ||
उवास स स-भार्यां च सुधर्म्यां महेन्द्रवत् |
श्वसुरश् च ययौ गेहं शिशुना च पुरस्कृतः || ज्ञा. सा. सं_१,४.६६ ||
त्रिंशत्-सहस्र-वर्षं च राजा राज्यं चकार सः |
कालान्तरे तत्-पिता च वने व्याघ्रेण भक्षितः || ज्ञा. सा. सं_१,४.६७ ||
पति-व्रता महा-भागा माता सह-मृता सुत |
रत्न-यानेन रम्येण स-स्त्रीकः कृष्ण-मन्दिरम् || ज्ञा. सा. सं_१,४.६८ ||
प्रययौ सादरं विप्रः कृष्ण-नैवेद्य-भक्षणात् |
तद्-अस्थि भुक्त्वा व्याघ्रश् च पूतः सद्यश् च सांप्रतम् || ज्ञा. सा. सं_१,४.६९ ||
ताभ्यां सार्धं च प्रययौ गोलोकं सुमनोहरम् |
शिशुर् देहं परित्यज्य हिमाद्रौ स्वर्-णदी-तटे || ज्ञा. सा. सं_१,४.७० ||
दत्वा पुत्राय राज्यं च स्वर्गाद् अपि सुदुर्लभम् |
मृकण्डु-पत्नी-गर्भे च लेभे जन्म स्व-कर्मणा || ज्ञा. सा. सं_१,४.७१ ||
मार्कण्डेयो मुनि-श्रेष्ठो बभूव पर-जन्मनि |
सप्त-कल्पान्त-जीवी च नारायण-वरेण सः || ज्ञा. सा. सं_१,४.७२ ||
बभूव सांप्रतं विप्रः कृष्ण-नैवेद्य-भक्षणात् |
श्व-भक्षितं च नैवेद्यं भुक्त्वा चेद् ईदृशी गतिः |

अकामतश् चाप्य् अज्ञातो जीर्ण-मार्ग-स्थितं सुत || ज्ञा. सा. सं_१,४.७३ ||
यो भक्षेत् कामतो ज्ञातो नित्यं नैवेद्यम् ईप्सितम् |
न जानन्ति गतिस् तस्य वेदाश् चत्वार एव च || ज्ञा. सा. सं_१,४.७४ ||
इति ते कथितं ब्रह्मन्न् इतिहासं पुरातनम् |
आश्चर्यं मधुरं रम्यं किं भूयः श्रोतुम् इच्छसि || ज्ञा. सा. सं_१,४.७५ ||

श्री-नारद उवाच
श्रुतं नैवेद्य-माहात्म्यम् अतीव सुमनोहरम् |
ईश्वरस्यापि हे तात कृष्णस्य परमात्मनः || ज्ञा. सा. सं_१,४.७६ ||
अधुना श्रोतुम् इच्छामि स्वात्म-सन्देह-भञ्जनम् |
नारायणर्षेर् कण्ठे च कवचं तस्य तद् वद || ज्ञा. सा. सं_१,४.७७ ||

अथ कवच-प्रश्नः

सनत्-कुमार उवाच
ममाप्य् अस्तीति सन्देहो वचने प्रपितामह |
कस्य तत् कवचं ब्रह्मन्न् इदं वक्तुं त्वम् अर्हसि || ज्ञा. सा. सं_१,४.७८ ||
स पिता स गुरुः स्वच्छः करोति भ्रम-भञ्जनम् |
शीघ्रं ब्रूहि महा-भाग नारदं मां सुत-प्रिय || ज्ञा. सा. सं_१,४.७९ ||

पुत्रयोश् च वचः श्रुत्वा शुष्क-कण्ठौष्ठतालुकः |
उवाच वचनं ब्रह्मा स्मरन् कृष्ण-पदाम्बुजम् || ज्ञा. सा. सं_१,४.८० ||

ब्रह्मोवाच
नारायणेन मुनिना जगन्-मङ्गल-मङ्गलम् |
विप्राय कवचं दत्तम् ध्यानं च पर्मात्मनः || ज्ञा. सा. सं_१,४.८१ ||
तद् ब्रवीमि महा-भाग त्वाम् एव नारदं प्रति |
कण्ठ-स्थं कवचं वक्तुं नैव शक्नोमि सांप्रतम् || ज्ञा. सा. सं_१,४.८२ ||
मत्-कण्ठे कवचं यस्य गोपनीयं सुदुर्लभम् |
नारायणर्षि-कण्ठे च तद् एव परमाद्भुतम् || ज्ञा. सा. सं_१,४.८३ ||
तद् एव धर्म-कण्ठे च नरस्य च महात्मनः |
अगस्त्यस्य च कण्ठे च लोमशस्य महा-मुनेः || ज्ञा. सा. सं_१,४.८४ ||
तुलस्याश् चापि संज्ञायाः सावित्र्याश् चापि पुत्रक |
अन्येषां च भाग्यवतां भारते च सुदुर्लभे || ज्ञा. सा. सं_१,४.८५ ||

नारद उवाच
पश्चात् श्रोष्यामि कवचं जगन्-मङ्गल-मङ्गलम् |
ध्यानं पूजां विधानं च कृष्णस्य परमात्मनः || ज्ञा. सा. सं_१,४.८६ ||
आदौ कथय भद्रं ते परं परम-भद्रकम् |
सुभद्र-प्राप्तं कवचं माहात्म्यं यस्य दुर्लभम् || ज्ञा. सा. सं_१,४.८७ ||

ब्रह्मोवाच
सुभद्र-प्राप्तं कवचं पश्चात् श्रोष्यसि पुत्रक |
शङ्करस्य मुखाद् विप्र स्व-गुरोर् ज्ञानिनस् तथा || ज्ञा. सा. सं_१,४.८८ ||

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे ब्रह्मा-नारद-संवादे
प्रथमैक-रात्रे कवच-प्रश्नो नाम चतुर्थो ऽध्यायः


प्रथमैक-रात्रे पञ्चमो ऽध्यायः


श्री-सनत्-कुमार उवाच
तवेच्छा यत्र कवचे ध्याने तद् वद साम्प्रतम् |
यच् छृणोमि शुभं तच् च केन श्रेयसि तृप्यते || ज्ञा. सा. सं_१,५.१ ||

ब्रमोवाच
ध्यानं साम-वेदोक्तं दत्तम् नारायणेन वै |
कवचं च सुभद्राय धर्मिष्ठाय महात्मने || ज्ञा. सा. सं_१,५.२ ||
नवीन-जलद-श्यामं पीत-कौशेय-वाससम् |
चन्दनोक्षित-सर्वाङ्गं सस्मितं श्यामसुन्दरम् || ज्ञा. सा. सं_१,५.३ ||
मालती-माल्य-भूषाढ्यं रत्न-भूषण-भूषितम् |
मुनीन्द्रेश-सुसिद्धेश-ब्रह्मेश-शेष-वन्दितम् || ज्ञा. सा. सं_१,५.४ ||
सर्व-स्वरूपं सर्वेशं सर्व-बीजं सनातनम् |
सर्वाद्यं सर्व-ज्ञं पुरुषं प्रकृतेः परम् || ज्ञा. सा. सं_१,५.५ ||
निर्गुणं च निरीहं च निर्लिप्तम् ईस्वरं भजे |
ध्यात्वा मूलेन तस्मै च दद्यात् पाद्यादिकं मुदा || ज्ञा. सा. सं_१,५.६ ||
ततः स्तोत्रं च कवचं भक्त्या च प्रपठेन् नरः |
जप्त्वा च मन्त्रं भक्त्या दण्डवत् प्रणमेद् भुवि |
इति ते कथितं वत्स किं भूयः श्रोतुम् इच्छसि || ज्ञा. सा. सं_१,५.७ ||

श्री-सनत्कुमार उवाच
ब्रूहि मे कवचं ब्रह्मन् जगन्-मङ्गल-मङ्गलम् |
पूज्यं पुण्य-स्वरूपं च कृष्णस्य परमात्मनः || ज्ञा. सा. सं_१,५.८ ||

अथ जगन्-मङ्गल-मङ्गल-कवचम्

ब्रह्मोवाच
शृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतं |
श्री-कृष्णेनैव कथितं मह्यं च कृपया परा || ज्ञा. सा. सं_१,५.९ ||
मया दत्तं च धर्माय तेन नारायणर्षये |
ऋषिणा तेन तद् दत्तं सुभद्राय महात्मने || ज्ञा. सा. सं_१,५.१० ||
अति-गुह्यतमं शुद्धं परं स्नेहाद् वदाम्य् अहम् |
यद् धृत्वा पठनात् सिद्धाः सिद्धानि प्राप्नुवन्ति च || ज्ञा. सा. सं_१,५.११ ||
एवम् इन्द्रादयः सर्वे सर्वैश्वर्यम् आप्नुयुः |
ऋषिश् छन्दश् च सावित्री देवो नारायणः स्वयम् || ज्ञा. सा. सं_१,५.१२ ||
धर्मार्थ-काम-मोक्षेषु विनियोगः प्रकीर्तितः |
राधेशो मे शिरः पातु कण्ठं रधेश्वरः || ज्ञा. सा. सं_१,५.१३ ||
गोपीशश् चक्षुषी पातु तालु च भगवान् स्वयम् |
गण्ड-युग्मं च गोविन्दः कर्ण-युग्मं च केशवः || ज्ञा. सा. सं_१,५.१४ ||
गलं गदाधरः पातु स्कन्धं कृष्णः स्वयं प्रभुः |
वक्ष-स्थलं वासुदेवश् चोदरं चापि सो ऽच्युतः || ज्ञा. सा. सं_१,५.१५ ||
नभिं पातु पद्म-नाभः कङ्कालं कंस-सूदनः |
पुरुषोत्तमः पातु पृष्ठं नित्यानन्दो नितम्बकम् || ज्ञा. सा. सं_१,५.१६ ||
पुण्डरीकः पाद-युग्मं हस्त-युग्मं हरिः स्वयम् |
नासां च नखरं पातु नरसिंहः स्वयं प्रभुः || ज्ञा. सा. सं_१,५.१७ ||
सर्वेश्वरश् च सर्वाङ्गं सन्ततं मधु-सूदनः |
प्राच्यां पातु च रामश् च वह्नौ च वंशी-धरः स्वयम् || ज्ञा. सा. सं_१,५.१८ ||
पातु दामोदरो दक्षे नैरृते च नरोत्त्मः |
पश्चिमे पुण्डरीकाक्षो वायव्यां वामनः स्वयम् || ज्ञा. सा. सं_१,५.१९ ||
अनन्तश् चोत्तरे पातु ऐशान्याम् ईश्वरः स्वयम् |
जले स्थले चान्तरीक्षे स्वप्ने जागरणे तथा || ज्ञा. सा. सं_१,५.२० ||
पातु वृन्दावनेशश् च मां भक्तं शरणागतम् |
इति ते कथितं वत्स कवचं परमाद्भुतम् || ज्ञा. सा. सं_१,५.२१ ||
सुखदं मोक्षदं सारं सर्व-सिद्धि-प्रदं सताम् |
इदं कवचम् इष्टं च पूजा-काले च यः पठेत् || ज्ञा. सा. सं_१,५.२२ ||
हरि-दास्यम् अवाप्नोति गोलोके वासम् उत्तमम् |
इहैव हरि-भक्तिं च जीवन्-मुक्तो भवेन् नरः || ज्ञा. सा. सं_१,५.२३ ||

नारद उवाच
नारायणर्षिणा दत्तं कवचं यत् सुदुर्लभम् |
सुभद्राय ब्राह्मणाय तन् मे वक्तुम् इहार्हसि || ज्ञा. सा. सं_१,५.२४ ||

ब्रह्मोवाच
मद्-इष्ट-देव्याः कवचं कथं तत् कथयामि ते |
मत्-कण्ठे पश्य कवचं सद्-रत्न-गुटिकान्वितम् || ज्ञा. सा. सं_१,५.२५ ||
नारायणर्षिणा दत्तं कवचं गुटिकान्वितम् |
तथापीदं न कथितं निषिद्धं हरिणा स्मृतम् || ज्ञा. सा. सं_१,५.२६ ||
तस्यर्षेश् चेष्ट-देव्याश् च नोक्तं तेनेदम् ईप्सितम् |
मह्यं न दत्ता गुटिका बान्धवैर् भर्त्सितेन च || ज्ञा. सा. सं_१,५.२७ ||
आत्मनः कवचं मन्त्रं स्वयं दातुं न चार्हति |
प्राणा नष्टाश् च दानेन चेति वेद-विदो विदुः || ज्ञा. सा. सं_१,५.२८ ||
शङ्करं गच्छ भगवन् जन्मान्तर-गुरुं तव |
स एव तुभ्यं कवचं दास्यस्य् एव न संशयः || ज्ञा. सा. सं_१,५.२९ ||
त्वत्-प्राक्तनेन विप्रेन्द्र सत्-वरेण शुभेन च |
ध्रुवं प्राप्स्यसि त्वं वत्स कवचं तत् सुदुर्लभम् || ज्ञा. सा. सं_१,५.३० ||
कुमार गच्छ वैकुण्ठं स्व-गुरुं पश्य सत्-वरम् |
नारायणश् च कवचं तुभ्यं दास्यसि निश्चितम् || ज्ञा. सा. सं_१,५.३१ ||
सनत्-कुमारो भगवान् गत्वा वैकुण्ठम् ईप्सितम् |
संप्राप्य कवचं वत्स कवचं तत् सुदुर्लभम् || ज्ञा. सा. सं_१,५.३२ ||

आज्ञया ब्रह्मणश् चापि नारदो गन्तुम् उद्यतः |
ब्रह्मा ययौ ब्रह्म-लोकं जन्म-मृत्यु-जरापहम् || ज्ञा. सा. सं_१,५.३३ ||

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे पञ्चमो ऽध्यायः


प्रथमैक-रात्रे षष्ठो ऽध्यायः


श्री-शुक उवाच
सनत्-कुमारो वैकुण्ठं ब्रह्म-लोकं च ब्रह्मणि ?wहत्?|
गते ब्रह्मन् किं चकार भगवान् नारदो मुनिः || ज्ञा. सा. सं_१,६.१ ||

व्यासो उवाच
मुनिस् तयोश् च गतयोः स रुरोद सरित्-तटे |
इतस् ततश् च बभ्राम मद्-वियोग-शुचास्पद || ज्ञा. सा. सं_१,६.२ ||
स्व-मानसे समालोक्य मुनि-श्रेष्ठः स उन्मनाः |
ध्यायमानो हरि-पदं शिवं द्रष्टुं समुत्सुकः || ज्ञा. सा. सं_१,६.३ ||
प्रणम्य पितरं भक्त्या कुमारं भ्रातरं तथा |
जगाम तपस-स्थानात् कैलासाभिमुखे मुनिः || ज्ञा. सा. सं_१,६.४ ||
स्नात्वा च कृत-मालायां संपूज्य परमेश्वरम् |
भुक्त्वा फलं जलं पीत्वा प्रययौ गन्ध-मादनम् || ज्ञा. सा. सं_१,६.५ ||
ददर्श ब्राह्मणं तत्र वट-मूले मनोहरे |
कटमस्तम् ध्यायमानं श्री-कृष्ण-चरणाम्बुजम् || ज्ञा. सा. सं_१,६.६ ||
दीर्गं नग्नं गौराङ्गं दीर्घ-लोमभिर् आवृतम् |
निमीलिताक्षं सानन्दं सानन्दाश्रु-समन्वितम् || ज्ञा. सा. सं_१,६.७ ||
पाद्मे पद्मेश-शेषादि-सुर-पूजित-वन्दिते |
श्री-पाद-पद्मे शोभाढ्ये शश्वत्-संन्यस्त-मानसम् || ज्ञा. सा. सं_१,६.८ ||
बाह्य-ज्ञान-परित्यक्तं योग-ज्ञान-विशारदम् |
शिवस्य शिष्यं सद्-भक्तं योगीन्द्राणां गुरोर् गुरोः || ज्ञा. सा. सं_१,६.९ ||
हृत्-पद्मे पद्म-नाभं च परमात्मानम् ईश्वरम् |
प्रदीप-कलिकाकारं ब्रह्म-ज्योतिः-सनातनम् || ज्ञा. सा. सं_१,६.१० ||
साक्षि-स्वरूपं परमं भगवन्तम् अधोक्षजम् |
पश्यन्तं सस्मितं कृष्णं पुलकाङ्कित-विग्रहम् || ज्ञा. सा. सं_१,६.११ ||
सद्-भावोद्रिक्त-चित्तं च सद्-भावं पुरुषोत्तमे |
दृष्ट्वा महर्षि-प्रवरं देवर्षि-विस्मयम् ययौ || ज्ञा. सा. सं_१,६.१२ ||
इतस् ततश् च बभ्राम ददर्श स्वाश्रमं मुनेः |
अतीव सुरहः-स्थानं रम्यं रम्यं नवं नवम् || ज्ञा. सा. सं_१,६.१३ ||
सुस्निग्धं सुन्दरं शुद्धं परं स्वच्छं सरोवरम् |
श्वेत-रक्तोत्पल-दलैः कमलैः कमनीयकम् || ज्ञा. सा. सं_१,६.१४ ||
गुञ्जदिन्दिन्द-वरैर् ?wहत्? मकरन्दोदरैस् तथा |
व्याकुलैः संकुलैः शश्वद्-राजितैश् च विराजितम् || ज्ञा. सा. सं_१,६.१५ ||
वन्यैर् वृक्षैर् बहु-विधैः फल-शाखा-सुशोभितैः |
करञ्जकैश् च करजैर् बिम्बैः शाखोटिकैस् तथा || ज्ञा. सा. सं_१,६.१६ ||
तिन्तिडीभिः कपित्थैश् च वट-शिंशपा-चन्दनैः |
मन्दारैः सिन्धु-वारैश् च ताडि-पत्रैः सुशोभनैः || ज्ञा. सा. सं_१,६.१७ ||
गुवाकैर् नारिकेतैश् च खर्जुरैः पनसैस् तथा |
तालैः शालैः पियालैश् च हिन्तालैर् वकुलैर् अपि || ज्ञा. सा. सं_१,६.१८ ||
आम्रैर् आम्रातकैश् चैव जम्बीरैर् दाडिमैस् तथा |
श्री-फलैर् वदरीभिश् च जम्बुभिर् नागरङ्गकैः || ज्ञा. सा. सं_१,६.१९ ||
सुपक्व-फल-शोभाड्यैः सुस्निग्धैः सुमनोहरैः |
तरुणैस् तरु-राजैस् च नाना-जातिभिर् ईप्सितम् || ज्ञा. सा. सं_१,६.२० ||
मल्लिका-मालती-कुन्द-केतकी-कुसुमैः शुभैः |
माधवीनां लता-जालैश् चर्चितं चारु-चम्पकैः || ज्ञा. सा. सं_१,६.२१ ||
कदम्बानां कदम्बैश् च स्वच्छैः श्वेतैश् च पुष्पितैः |
नागेश्वराणां वृन्दैश् च दीप्तं मन्दारकैर् वरैः || ज्ञा. सा. सं_१,६.२२ ||
हंस-कारण्ड-वकुलैः पुंस्-कोकिल-कुलैस् तथा |
सन्ततं कूजितं शुद्धं सुव्यक्तं सुमनोहरम् || ज्ञा. सा. सं_१,६.२३ ||
शार्दूलैः शरभैः सिंहैर् गण्डकैर् महिषैः परम् |
मनोहरैः कृष्ण-सारैश् चमरभिर् भाव-भूषितम् || ज्ञा. सा. सं_१,६.२४ ||
महा-मुनि-प्रभावेन हिंसा-दोष-विवर्जितम् |
दस्यु-चौर-हिंस्र-जन्तु-भय-शोक-विवर्जितम् || ज्ञा. सा. सं_१,६.२५ ||
सुपुण्यदं तीर्थ-वरं भारते सुप्रशंसितम् |
सिद्ध-स्थलं सिद्धिदं तं मन्त्र-सिद्धि-करं परं || ज्ञा. सा. सं_१,६.२६ ||
दृष्ट्वाश्रमं मुनि-श्रेष्ठो जगाम मुनि-संसदि |
आसने च समासीनं ध्यान-हीनं ददर्श तम् || ज्ञा. सा. सं_१,६.२७ ||
समुत्तस्थौ स वेगेन दृष्ट्वा देवर्षि-पुङ्गवम् |
दत्वामलं फलं मूलं संभाषां स चकार ह || ज्ञा. सा. सं_१,६.२८ ||
प्रश्नं चकार स मुनि-वीणा-पाणिं नारदम् |
सस्मितः सस्मितं शुद्धं शुद्ध-वंश-समुद्भवम् || ज्ञा. सा. सं_१,६.२९ ||
सद्-भाग्योपस्थितं दीप्तं ज्वलन्तं ब्रह्म-तेजसा |
अतिथिं ब्राह्मण-वरं ब्रह्म-पुत्रं च पूजितं || ज्ञा. सा. सं_१,६.३० ||

मुनिर् उवाच
किं नाम भवतो विप्र क्व यासीति क्व चागतः |
क्व ते पिता स को वापि क्व वासः कुत्र संभवः || ज्ञा. सा. सं_१,६.३१ ||
मां वा ममाश्रमं वापि पूतं कर्तुम् इहागतः |
मूर्तिमद्-ब्रह्म-तेजो हि मम भाग्याद् उपस्थितः || ज्ञा. सा. सं_१,६.३२ ||

अथ वैष्णव-दर्शन-फलम्

न ह्य् अम्मयानि तीर्थानि न देवा मृच्छितामयाः |
ते पुनन्त्य् उरुकालेन वैष्णवो दर्शनेन च || ज्ञा. सा. सं_१,६.३३ ||
सद्यः पूतानि तीर्थानि सद्यः पूता स-सागरा |
स-शैल-कानन-द्वीपा पाद-स्पर्शाद् वसुन्धरा || ज्ञा. सा. सं_१,६.३४ ||
धन्यो ऽहं कृत-कृत्यो ऽहं सफलं मम जीवनम् |
सहसोपस्थितो गेहे ब्राह्मणो वैष्णवो ऽतिथिः || ज्ञा. सा. सं_१,६.३५ ||
पूजितो वैष्णवो येन विश्वं च तेन पूजितम् |
आश्रमं वस्तु-सहितं सर्वं तुभ्यं निवेदितम् || ज्ञा. सा. सं_१,६.३६ ||
फलानि च सुपक्वानि भुङ्क्ष्व भोगानि साम्प्रतम् |
सुवासितम् पिब स्वादु शीतलं निर्मलं जलम् || ज्ञा. सा. सं_१,६.३७ ||
दुग्धं च सुरभी-दत्तं रम्यं मधुरितं मधु |
परिपक्वं फल-रसं पिब स्वादु मुहुर् मुहुः || ज्ञा. सा. सं_१,६.३८ ||
सुख-बीज्ये सुतल्पे च शयनं कुरु सुन्दरे |
सुशीत-वात-सौगन्ध्य-पूतेन सुरभी-कृते || ज्ञा. सा. सं_१,६.३९ ||

अथातिथि-पूजन-फलम्

अतिथिर् यस्य पुष्टो हि तस्य पुष्टो हरिः स्वयम् |
हरौ तुष्टे गुरुस् तुष्टो गुरौ तुष्टे जगत्-त्रयम् || ज्ञा. सा. सं_१,६.४० ||
अधिष्ठातातिथिर् गेहे सन्ततं सर्व-देवताः |
तीर्थान्य् एतानि सर्वाणि पुण्यानि च व्रतानि च || ज्ञा. सा. सं_१,६.४१ ||
तपांसि यज्ञाः सत्यं च शीलं धर्मः सुकर्म च |
अपूजितैर् अतिथिभिर् सार्धं सर्वे प्रयान्ति ते || ज्ञा. सा. सं_१,६.४२ ||

अथातिथि-विमुखे दोषाः
अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते |
पितरस् तस्य देवाश् च पुण्यं धर्म-व्रताशनाः || ज्ञा. सा. सं_१,६.४३ ||
यमः प्रतिष्ठा लक्ष्मीश् चाभीष्ट-देवो गुरुस् तथा |
निराशाः प्रतिगच्छन्ति त्यक्त्वा पापं च पूरुषम् || ज्ञा. सा. सं_१,६.४४ ||
स्त्री-घ्नैश् चैव कृत-घ्नैश् च ब्रह्म-घ्नैर् गुरु-तल्प-गैः |
विश्वास-घातिभिर् दुष्टैर् मित्र-द्रोहिभिर् एव च || ज्ञा. सा. सं_१,६.४५ ||
सत्य-घ्नैश् च कृत-घ्नैश् च पापिभिः स्थापिभिस् तथा |
दानापहारिभिश् चैव कन्या-विक्रियिभिस् तथा || ज्ञा. सा. सं_१,६.४६ ||
सीमापहारिभिश् चैव मिथ्या-साक्षि-प्रदातृभिः |
ब्रह्म-स्वहारिभिश् चैव तथा स्थाप्यस्वहारिभिः || ज्ञा. सा. सं_१,६.४७ ||
वृष-वाहैर् देवलैश् च तथैव ग्राम-याजिभिः |
शूद्रान्न-भोजिभिश् चैव शूद्र-श्राद्धाह-भोजिभिः || ज्ञा. सा. सं_१,६.४८ ||
श्री-कृष्ण-विमुखैर् विप्रैर् हिंस्रैर् नर-विघातिभिः |
गुराव् अभक्तै रोगार्तैः शश्वन्-मिथ्या-प्रवादिभिः || ज्ञा. सा. सं_१,६.४९ ||
विप्र-स्त्री-गामिभिः शूद्रैर् मातृ-गामिभिर् एव च |
अश्वत्थ-घातिभिश् चैव पत्नीभिः पति-घातिभिः || ज्ञा. सा. सं_१,६.५० ||
पितृ-मातृ-घातिभिश् च शरणागत-घातिभिः |
ब्राह्मण-क्षत्र-विट्-शूद्रैः शिला-स्वर्णापहारिभिः || ज्ञा. सा. सं_१,६.५१ ||
तुल्यो भवति विप्रेन्द्रातिथिर् एव त्व् अनर्चितः |

इत्य एवम् उक्त्वा मुनिः पूजयाम् आस नारदम् |
मिष्टं च भोजयाम् आस शाययाम् आस भक्तितः || ज्ञा. सा. सं_१,६.५२ ||

श्री-नारद उवाच
नारदो ऽहं मुनि-श्रेष्ठ ब्राह्मणो ब्रह्मणः सुतः |
तपः-स्थलाद् आगतो ऽहं यामि कैलासम् ईप्सितम् || ज्ञा. सा. सं_१,६.५३ ||
आत्मानं पावनं कर्तुं त्वां च द्रष्टुम् इहागतः |
पुनन्ति प्राणिनः सर्वे विष्णु-भक्त-प्रदर्शनात् || ज्ञा. सा. सं_१,६.५४ ||
को भवान् ध्यान-पूतश् च नग्नश् च कट-मस्तकः |
किं ध्यायसे महा-भाग श्रेष्ठ-देवश् च को गुरुह् || ज्ञा. सा. सं_१,६.५५ ||

मुनिर् उवाच
जीव-मुक्तो भवान् एव पुनासि भुवन-त्रयम् |
यस्य तत्र कुले जन्म तस्य तत्-तद्-वचोमनः || ज्ञा. सा. सं_१,६.५६ ||
पुत्रे यशसि तोये च कवित्वेन च विद्यया |
प्रतिश्ह्ठायां च ज्ञायेत सर्वेषां मानसं नृणाम् || ज्ञा. सा. सं_१,६.५७ ||
विधाता जगतां ब्रह्मा ब्रह्मैकतान-मानसः |
तत्-पुत्रो ऽसि महाख्यातो देवर्षि-प्रवरो महान् || ज्ञा. सा. सं_१,६.५८ ||
लोमशो ऽ हं महा-भाग जगत्-पावन-पावन |
नग्नोऽल्पायुर् विवेकी च वाससा किं प्रयोजनम् || ज्ञा. सा. सं_१,६.५९ ||
वृक्ष-मूले निवासे मे छत्रेण किं गृहेण च |
रौद्र-वृष्टि-वारणार्थं सांप्रतं कट-मस्तकः || ज्ञा. सा. सं_१,६.६० ||
जल-बुद्बुद-विद्युद्वत्-त्रैलोक्यं कृत्रिमं द्विज |
ब्रह्मादि-तृण-पर्यन्तं सर्वं मिथ्याइव स्वप्नवत् || ज्ञा. सा. सं_१,६.६१ ||
किं कलत्रेण पुत्रेण धनेन संपदा श्रिया |
किं वित्तेन च रूपेण जीवनाल्पायुषा मुने || ज्ञा. सा. सं_१,६.६२ ||
इन्द्रस्य पतनेनैव लोमकोत्पाटनं मम |
मनोश् च पतनं तत्र मायया किं प्रयोजनम् || ज्ञा. सा. सं_१,६.६३ ||
सर्व-लोमकोत्पाटनेन केशौघोत्पाटनेन च |
अल्पायुषो मम मुने मरणं निश्चितं भवेत् || ज्ञा. सा. सं_१,६.६४ ||
ध्याये श्री-पाद-पद्मं तत्-पाद्म-पद्मेश-वन्दितम् |
परस्य प्रकृतेस् तस्य कृष्णस्य परमात्मनः || ज्ञा. सा. सं_१,६.६५ ||
तस्य मे ऽभीष्ट-देवस्य सर्वेषां कारणस्य च |
गुरुर् मे जगतां नाथो योगीन्द्राणां गुरुः शिवः || ज्ञा. सा. सं_१,६.६६ ||
मत्-कण्ठे कवचं यस्य मद्-गुरुः कथयिष्यति |
गुरोर् निषेधो यत्रास्ते तद् वक्तुं कः क्षमो भुवि || ज्ञा. सा. सं_१,६.६७ ||
गुरोश् च वचनं यो हि पालनं न करोति च |
गुरूक्तम् उक्त्वा पापी स ब्रह्म-हत्यां लभेद् ध्रुवम् || ज्ञा. सा. सं_१,६.६८ ||
स्व-गुरुं शिव-रूपं च तद्-भिन्नं मन्यते हि यः |
ब्रह्म-हत्यां लभेत् सो ऽपि विघ्नस् तस्य पदे पदे || ज्ञा. सा. सं_१,६.६९ ||
अकर्तव्यं तु कर्तव्यं पालनीयं गुरोर् वचः |
अपालने सर्व-विघ्नं लभते नात्र संशयः || ज्ञा. सा. सं_१,६.७० ||
आशिषा पाद-रजसा चोच्छिष्टालिङ्गेन च |
मुच्यते सर्व-पापेभ्यो जीवन्-मुक्तो भवेन् नरः || ज्ञा. सा. सं_१,६.७१ ||
स्व-गुरुं शङ्करं पश्य गच्छ कैलासम् ईप्सितम् |
मुच्यते विघ्न-पापेभ्यो गुरोश् चरण-दर्शनात् || ज्ञा. सा. सं_१,६.७२ ||

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथ्मैक-रात्रे
लोमश-नारद-संवादे षष्ठो ऽध्यायः


प्रथमैक-रात्रे सप्तमो ऽध्यायः


संभाष्य लोमशं तस्माज् जगाम नारदो मुनिः |
पुष्प-भद्रा-नदी-तीरम् अतीव सुमनोहरम् || ज्ञा. सा. सं_१,७.१ ||
यत्रास्ते शृङ्ग-कूटश् च शुद्ध-स्फटिक-सन्निभिः |
नाना-वृक्ष-समायुक्तैस् त्रिभिर् अन्यैः सरोवरैः || ज्ञा. सा. सं_१,७.२ ||
हंसकारण्डवाकीर्णैर् भ्रमरैर् ध्वनि-सुन्दरैः |
पुंस्-कोकिल-निनादैश् च सन्ततं सुमनोहरैः || ज्ञा. सा. सं_१,७.३ ||
शैत्य-सौगन्ध्य-मान्ध्यैश् च वायुभिः सुरभी-कृतैः |
समाधि-युक्तो यत्रास्ते मार्कण्डेयो महा-मुनिः || ज्ञा. सा. सं_१,७.४ ||
स मुनिर् नारदं दृष्ट्वा भक्त्या च प्रणनाम च |
पप्रच्छ कुशलं शान्तं शान्तः सत्त्व-गुणाश्रयः || ज्ञा. सा. सं_१,७.५ ||

मार्कण्डेयो उवाच
अद्य मे सफलं जन्म जीवनं चातिसार्थकम् |
ममाश्रमे पुण्य-राशिर् ब्रह्म-पुत्रश् च नारदः || ज्ञा. सा. सं_१,७.६ ||
अहो देवर्षि-प्रवरो दीप्तमान् ब्रह्म-तेजसा |
क्व यासि कुत आयासि किं ते मनसि वर्तते || ज्ञा. सा. सं_१,७.७ ||
मानसं प्राणिनाम् एव सर्व-कर्मैक-कारणम् |
मनोनुरूपं वाक्यं च वाक्येन प्रस्फुटं मनः || ज्ञा. सा. सं_१,७.८ ||

मुनेश् च वचनं श्रुत्वा वीणा-पाणि स्वम् ईप्सितम् |
उवाच सस्मितं शान्तं वचः सत्यं सुधोपमम् || ज्ञा. सा. सं_१,७.९ ||

नारद उवाच
हे बन्धो यामि कैलासं ज्ञानार्थं ज्ञानिनां वरम् |
द्रष्टुं महा-देवं च प्रणामं कर्तुम् ईश्वरम् || ज्ञा. सा. सं_१,७.१० ||

पूजां गृहीत्वा चेत्य् उक्त्वा प्रययौ नारदो मुनिः |
मार्कण्डेयश् च शोकार्तः सद्विच्छेदः सुदारुणः || ज्ञा. सा. सं_१,७.११ ||
हिमालयं च दुर्लघ्यं विलघ्यं चैव लीलया |
स्वर्ग-मन्दाकिनी-तीरं कैलासं प्रययौ मुनिः || ज्ञा. सा. सं_१,७.१२ ||
ददर्श वट-वृक्षं च योजनायतम् उच्छ्रितम् |
शोभितं शतकैः स्कन्धैः रक्त-पक्व-फलान्वितैः || ज्ञा. सा. सं_१,७.१३ ||
सुस्निग्धैः सुन्दरैः रम्यै रम्य-पक्षीन्द्र-संकुलैः |
सिद्धेन्द्रैश् च मुनीन्द्रैश् योगीन्द्रैः परिशोभितम् || ज्ञा. सा. सं_१,७.१४ ||
प्रणतांस् तांश् च संभाष्य पार्वती-काननं ययौ |
सुन्दरं वर्तुलाकारं चतुर्-योजनम् ईप्सितम् || ज्ञा. सा. सं_१,७.१५ ||
शोभितं सुन्दरै रम्यैः सप्तभिश् च सरोवरैः |
शश्वन्-मधुकरासक्त-पद्म-राजि-विराजितैः || ज्ञा. सा. सं_१,७.१६ ||
नील-रक्तोत्पल-दल-पटलैः परिशोभितैः |
पुष्पोद्यानैश् च शतकैः पुष्पितैः सुमनोहरैः || ज्ञा. सा. सं_१,७.१७ ||
मल्लिका-मालती-कुन्द-यूथिका-माधवी-लता |
केतकी-चम्पकाशोक-मन्दारक-विराजिका || ज्ञा. सा. सं_१,७.१८ ||
नाग-पुन्नाग-कुटजपाटलाज्ञिण्ट्ज्ञिज्ज्ञिका |
विष्णु-क्रान्ता च तुलसी शोफली सप्तला तथा || ज्ञा. सा. सं_१,७.१९ ||
एतेषां च समूहैश् च पुष्प-वल्ली-विराजितैः |
आम्रैर् आम्रातकैस् तालनारिकेलैः पियालकैः || ज्ञा. सा. सं_१,७.२० ||
खर्जूरैश् च गुवाकैश् च पलासैर् जम्बुभिस् तथा |
दाडिम्बैश् चापि जम्बीरैर् निम्बैश् चैव वटैस् तथा || ज्ञा. सा. सं_१,७.२१ ||
करञ्जैर् वदरीभिश् च परितः श्री-फलोज्ज्वलैः |
कदम्बानां कदम्बैश् च तिन्तिण्डीनां कदम्बकैः || ज्ञा. सा. सं_१,७.२२ ||
अश्वत्थैः सरलैः शालैः शाल्मलीनां समूहकैः |
वट-शाखोटकैः कुन्दैः शंगुभिः सप्त-पर्णकैः || ज्ञा. सा. सं_१,७.२३ ||
पिच्छिलैः पर्ण-शालैश् च गम्भारिभिश् च वल्गुकैः |
हिङ्गुलैर् अञ्जनैर् वल्कैर् भूर्ज-पत्रैः सपत्रकैः || ज्ञा. सा. सं_१,७.२४ ||
अन्यैश् च दुर्लभैर् वन्यैः पुष्प-पत्रैर् विराजितम् |
कल्प-वृक्षैः पारिजातैश् चारु-चन्दन-पल्लवैः || ज्ञा. सा. सं_१,७.२५ ||
सुस्निग्ध-स्थल-पद्मैश् च चित्रितैर् भूमि-चम्पकैः |
अन्यैश् च दुर्लभैर् वन्यैः पुष्प-पत्रैर् विभूषितम् || ज्ञा. सा. सं_१,७.२६ ||
सिंहेन्द्रैः शरभेन्द्रैश् च गजेन्द्रैर् गण्डकेन्द्रैः |
शार्दूलेन्द्रैश् च महिषैर् अश्वैश् च वन्य-शूकरैः || ज्ञा. सा. सं_१,७.२७ ||
शल्लकैर् बल्लकैर् मर्कैः कूटैश् च शशकैः शकैः |
कृष्ण-सारैश् च हरिणैश् चमरी-चामरोज्ज्वलम् || ज्ञा. सा. सं_१,७.|२८ ||
पुंस्-कोकोल-कुलानां च गानैश् च विराजितम् |
मत्तानां पल्लव-स्थानां माधवेषु मनोहरम् || ज्ञा. सा. सं_१,७.२९ ||
शुकानां राज-हंसानां मयूराणां च पुत्रकैः |
क्षेम-करी-खञ्जनानां राजिभिश् च मनोहरम् || ज्ञा. सा. सं_१,७.३० ||
हरित्-पीत-रक्त-कृष्ण-सुपक्व-फल-पत्रकैः |
सुस्निग्धाक्षत-पत्रैश् च नूतनैर् अभिभूषितम् || ज्ञा. सा. सं_१,७.३१ ||
हिंसा-भयादि-रहितं सर्वेषां पशु-पक्षिणां |
परस्परं च सुप्रीतं हिंस्राणां क्षुद्र-जन्तुभिः || ज्ञा. सा. सं_१,७.३२ ||
तत्र क्रीडा-स्थलं रम्यं पार्वती-परमेशयोः |
मुनीन्द्रैर् इन्द्र-नीलैश् च पद्म-रागैः परिष्कृतम् || ज्ञा. सा. सं_१,७.३३ ||
क्रोशायतं परिमितं वर्तुलं चन्द्र-विम्बवत् |
अम्लान-रम्भा-स्तम्भानां लक्ष-लक्षैश् च वेष्टितम् || ज्ञा. सा. सं_१,७.३४ ||
चित्रितं सूक्ष्म-सूत्राक्तैर् नूतनैर् अभिभूषितम् |
नूतनाक्षत-पत्रैश् च ललितैः परिशोभितम् || ज्ञा. सा. सं_१,७.३५ ||
रक्त-पीतासितैः स्निग्धैर् अम्लानैः सुमनोहरैः |
परितः परितः शश्वन् मालाजालैर् विभूषितम् || ज्ञा. सा. सं_१,७.३६ ||
शय्या-भूतं सुतल्पैश् च स्निग्ध-चम्पक-चन्दनैः |
पुष्प-चन्दन-युक्तेन वायुना सुरभी-कृतम् || ज्ञा. सा. सं_१,७.३७ ||
कस्तूरी-कुङ्कमासक्त-सुगन्धि-चन्दनैः सितैः |
मार्जितं चित्रितं चित्रैः परितो रङ्ग-वस्तुभिः || ज्ञा. सा. सं_१,७.३८ ||
दृष्ट्वा तद् अद्भुतं शीघ्रं प्रययौ स्वर्-णदीं मुनिः |
शुद्ध-स्फटिक-संकासां सर्व-पाप-विनाशिनीम् || ज्ञा. सा. सं_१,७.३९ ||
भवाब्धिघोर-तरणे तरणीं नित्यनूतनाम् |
कृष्ण-पाद-प्रसूतां च जगत्-पूज्यां पति-व्रतां || ज्ञा. सा. सं_१,७.४० ||
स्नाट्वा कृष्णं च संपूज्य परमात्मानम् ईश्वरम् |
प्रकृतेः परिमिष्टं च निर्लिप्तं निर्गुणं परम् || ज्ञा. सा. सं_१,७.४१ ||
साक्षिणं कर्मणाम् एव ब्रह्म ज्योतिः सनातनम् |
प्रययौ पुरतो रम्यं राज-मार्गं ददर्श सः || ज्ञा. सा. सं_१,७.४२ ||
मणिभिः स्फटिकाकारैर् अमलैर् बहु-मूल्यकैः |
परिष्कृतं च सर्वत्र निर्मितं विश्व-कर्मणा || ज्ञा. सा. सं_१,७.४३ ||
सतां पुण्यवतां दृष्टम् अदृष्टं कृत-पापिनाम् |
धनुः शतं परिमितं चित्र-राजि-विराजितम् || ज्ञा. सा. सं_१,७.४४ ||
दध्यं सर्वाश्रमान्तं च प्रख्यात् कोटि-गुणोत्तरम् |
रथं ददर्श पुरतो मनोयायि मनोहरम् || ज्ञा. सा. सं_१,७.४५ ||
अमूल्य-रत्न-निर्माण-विमाण-सार-सुन्दरम् |
धनुर् लक्षं परिमितं परितो वर्तुलाकृतम् || ज्ञा. सा. सं_१,७.४६ ||
ऊर्ध्व-स्थितम् ऊर्ध्व-गं च सहस्र-चक्र-संयुतम् |
धनुर् लक्षो ऽपि सूतं च वह्नि-शुद्धांशुकान्वितम् || ज्ञा. सा. सं_१,७.४७ ||
हीरासार-विनिर्माणं सुचारु-कलशोज्ज्वलम् |
रत्न-प्रदीप-दीप्ताढ्यं रत्न-दर्पण-भूषितम् || ज्ञा. सा. सं_१,७.४८ ||
मुक्ताशुक्ति-निबद्धैश् च शोभितं श्वेत-चामरैः |
माणिक्य-सार-हारेण मणि-राजैर् विराजितम् || ज्ञा. सा. सं_१,७.४९ ||
पारिजाट-प्रसूतानां मायाजालैः परिष्कृतम् |
ग्रीष्म-मध्याह्न-मार्तण्डं सहस्र-सदृशोज्ज्वलम् || ज्ञा. सा. सं_१,७.५० ||
ईश्वरेच्छा-विनिर्माणं काम-पुरं च कामिनाम् |
सर्व-भोग-समाविष्टं कल्प-वृक्ष-परं वरम् || ज्ञा. सा. सं_१,७.५१ ||
ससक्त-चित्रितै रम्यै रति-मन्दिर-सुन्दरैः |
गोलोकाद् आगतं पूर्वं क्रीडार्थं शङ्करस्य च || ज्ञा. सा. सं_१,७.५२ ||
विवाहे परिनिष्पन्ने पार्वती-परमेशयोः |
रथं दृष्ट्वा च प्रययौ कियद् दूरं महा-मुनिः || ज्ञा. सा. सं_१,७.५३ ||
अतीव रम्यं रुचिरं ददर्श शङ्कराश्रमम् |
रत्नेन्द्र-सार-निर्माणं शिविरैः शत-कोटिभिः || ज्ञा. सा. सं_१,७.५४ ||
मितैस् तस्मात् शत-गुणैस् तत्र सुन्दर-मन्दिरैः |
युक्तं रत्न-कपाटैश् च रत्न-धातु-विचित्रितैः || ज्ञा. सा. सं_१,७.५५ ||
परम-स्तम्भ-सोपानैर् वज्र-मिश्रैर् विभूषितम् |
ददर्श शिविरं शम्भोः परिखाभिस् त्रिभिर् युतम् || ज्ञा. सा. सं_१,७.५६ ||
दुर्लघ्याभिरा-मित्राणां सुगम्याभिः सताम् अहो |
प्रकारैश् च त्रिभिर् युक्तं धनुर् लक्षोच्छ्रितं सुत || ज्ञा. सा. सं_१,७.५७ ||
सम्मितं सप्तभिर् द्वारैर् नाना-रक्षक-रक्षितैः |
धनुः-शत-सहस्रं च चतुरस्रं च सम्मितम् || ज्ञा. सा. सं_१,७.५८ ||
अमूल्य-रत्न-निर्माणं चतुः-शाला-शतैर् युतम् |
अतीव रम्यं पुरतो पुर-द्वारं ददर्श सः || ज्ञा. सा. सं_१,७.५९ ||
पुरतो रत्न-भित्तौ च कृत्रिमं च सुशोभितम् |
पुण्यं वृन्दावनं रम्यं तन्-मध्ये रास-मण्डलम् || ज्ञा. सा. सं_१,७.६० ||
सर्वत्र राधा-कृष्णं च प्रत्येकं रति-मन्दिरे |
रम्यं कुञ्ज-कुटीराणां सहस्रं सुमनोहरम् || ज्ञा. सा. सं_१,७.६१ ||
सुगन्धि पुष्प-शय्यानां सहस्रं चन्दनोक्षितम् |
द्वार-पालं च तत्रैव मणि-भद्रं भयंकरम् || ज्ञा. सा. सं_१,७.६२ ||
त्रि-शूल-पट्टिश-धरं व्याघ्र-चर्माम्बरं परम् |
तं संभाष्य विलोक्यैवं द्वितीय-द्वारम् ईप्सितम् || ज्ञा. सा. सं_१,७.६३ ||
जगाम च मुनि-श्रेष्ठो ददर्श चित्रम् उत्तमम् |
कदम्बानां समूहं च तन्-मूलं च मनोहरम् || ज्ञा. सा. सं_१,७.६४ ||
रत्न-भित्ति-समायुक्तं कालिन्दी-कूलम् उत्तमम् |
स्नातं गोपी-समूहं च नग्न-सर्वाङ्गम् अद्भुतम् || ज्ञा. सा. सं_१,७.६५ ||
कदम्बाग्रे च श्री-कृष्णं वस्त्र-पुञ्ज-करं परम् |
तत्रैव शूल-हस्तं च महा-कालं ददर्श च || ज्ञा. सा. सं_१,७.६६ ||
कृपालुं द्वार-पालं तं संभाष्य नारदो मुनिः |
प्रययौ शीघ्र-गामी स तृतीय-द्वारम् उत्तमम् || ज्ञा. सा. सं_१,७.६७ ||
ददर्श तत्र पुरतः कृत्रिमं वट-मूलकम् |
गोपानां च समूहं च पीतम्बर-धरं परम् || ज्ञा. सा. सं_१,७.६८ ||
बाल-क्रीडां च कुर्वन्तं तन्-मध्ये कृष्णम् उत्तमम् |
ब्राह्मणीभिः प्रदत्तम् च भुक्तवन्तं सुपायसम् || ज्ञा. सा. सं_१,७.६९ ||
कुर्वन्तं च समाधानं मुनेः वाम-करेण च |
गृहीत्वा तद्-अनुज्ञां च चतुर्थं द्वारम् ईप्सितम् || ज्ञा. सा. सं_१,७.७० ||
प्रययौ ब्रह्म-पुत्रश् च ददर्श चित्रम् उत्तमम् |
गोवर्धनं पर्वतं च तत्र कृष्ण-कर-स्थितम् || ज्ञा. सा. सं_१,७.७१ ||
गोकुलं गोकुल-स्थानां गोपीनां चैव रक्षणम् |
व्याकुलं गोकुलं भीतं शक्र-वृष्टि-भयेन च || ज्ञा. सा. सं_१,७.७२ ||
अभयं दत्तवन्तं च कृष्णं दक्ष-करेण च |
नन्दिनं द्वार-पालं च शूल-हस्तं च सस्मितम् || ज्ञा. सा. सं_१,७.७३ ||
विलोक्य प्रययौ विप्रः पञ्चमं द्वाऋअम् उत्तमम् |
नाना-कृतिम-चित्राढ्यं वीर-भद्रान्वितं परम् || ज्ञा. सा. सं_१,७.७४ ||
तत्रैव नीप-मूलं च यमुनाकुलम् एव च |
कालीय-दमनं तत्र कृतिमं च ददर्श ःअ || ज्ञा. सा. सं_१,७.७५ ||
तद् दृष्ट्वा सस्मितस् तुष्टः षष्ट-द्वाऋअं जगाम सः |
द्वारे नियुक्तं बालं च शूल-हस्तं चतुर्-भुजम् || ज्ञा. सा. सं_१,७.७६ ||
रत्न-सिंहासन-स्थं च सस्मितं स्व-गणाधिपम् |
ददर्श चित्रं तत्रैव मथुरा-गमनं हरेः || ज्ञा. सा. सं_१,७.७७ ||
गोपिकानां विलापं च यशोदा-नन्दयोस् तथा |
व्याकुलं गोकुलं चापि रथ-स्थं शरणं हरिम् || ज्ञा. सा. सं_१,७.७८| ||
अक्रूरं च तथा नन्दं निरानन्दं शुचाकुलम् |
तद् दृष्ट्वा सप्तम-द्वारं द्वार-पालं ददर्श सः || ज्ञा. सा. सं_१,७.७९ ||
चित्रं कौतुक-युक्तं च मथुरायाः प्रवेशनम् |
सबलं गोप-सहितं श्री-कृष्णं प्रकृतेः परम् || ज्ञा. सा. सं_१,७.८० ||
मथुरा-नागरीभिश् च बालकैर् वानिरर्गलैः |
वीक्षन्तं सादरं सर्वैर् नगर-स्थैर् मनोहरम् || ज्ञा. सा. सं_१,७.८१ ||
धनुर् भङ्गं तथा शंभोः कंसादि-निधनादिकम् |
सभार्यं वसुदेवं च निगडान् मुक्तम् ईप्सितम् || ज्ञा. सा. सं_१,७.८२ ||
द्वारे नियुक्तं देवेशं गणेशं गण-संयुतम् |
ध्यान-स्थं च विभान्तं च शुद्ध-स्फटिक-मालया || ज्ञा. सा. सं_१,७.८३ ||
जपन्तं परमं शुद्धं ब्रह्म-ज्योतिः सनातनम् |
निर्लिप्तं निर्गुणं कृष्णं परमं प्रकृतेः परम् || ज्ञा. सा. सं_१,७.८४ ||
दृष्ट्वा तं च सुर-श्रेष्ठं मुनि-श्रेष्ठो ऽपि नारदः |
साम-वेदोक्त-स्तोत्रेण पुष्टाव परमेश्वरम् |
साश्रु-नेत्रः पुलकितो भक्ति-नम्रात्मकंधरः || ज्ञा. सा. सं_१,७.८५ ||

अथ गणपति-स्तोत्रम्

भो गणेश सुर-श्रेष्ठ लम्बोदर परात् पर |
हेरम्ब मङ्गलारम्भ गज-वक्त्र त्रि-लोचन || ज्ञा. सा. सं_१,७.८६ ||
मुक्तिद शुभद श्रीद श्रीधर-स्मरणे रत |
परमानन्द परम पार्वती-नन्दन स्वयम् || ज्ञा. सा. सं_१,७.८७ ||
सर्वत्र पूज्य सर्वेश जगत्-पूज्य महा-मते |
जगद्-गुरो जगन्-नाथ जगद्-ईश नमो ऽस्तु ते ||ज्ञा. सा. सं_१,७.८८ ||
यत्-पूजा सर्व-परतो यः स्तुतः सर्व-योगिभिः |
यः पूजितः सुरेन्द्रैश् च मुनीन्द्रैस् तं नमाम्य् अहम् || ज्ञा. सा. सं_१,७.८९ ||
परमाराधनेनैव कृष्णस्य परमात्मनः |
पुण्यकेन व्रतेनैव यं प्राप पार्वती सती || ज्ञा. सा. सं_१,७.९० ||
तं नमामि सुर-श्रेष्ठं सर्व-श्रेष्ठं गरिष्ठकम् |
ज्ञानि-श्रेष्ठं वरिष्ठं च तं नमामि गणेश्वरम् || ज्ञा. सा. सं_१,७.९१ ||

इत्य् एवम् उक्त्वा देवर्षिस् तत्रैवान्तर् दधे विभुः |
नारदः प्रययौ शीघ्रम् ईश्वराभ्यन्तरं मुदा || ज्ञा. सा. सं_१,७.९२ ||
इदं लम्बोदर-स्तोत्रं नारदेन कृतं पुरा |
पूजा-काले पठेन् नित्यं जयस् तस्य पदे पदे || ज्ञा. सा. सं_१,७.९३ ||
संकल्पितं पठेद् यो हि वर्षम् एकं सुसंयतः |
विशिष्ट-पुत्रं लभते परं कृष्ण-परायणम् || ज्ञा. सा. सं_१,७.९४ ||
यशस्विनं च विद्वांसं धनिनं चिर-जीविनम् |
विघ्न-नाशो भवेत् तस्य महैश्वर्यं यशो ऽमलम् |
इहैव च सुखं भक्त्यान्ते याति हरेः पदम् || ज्ञा. सा. सं_१,७.९५ ||

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे
गणपति-स्तोत्रं नाम सप्तमो ऽध्यायः


प्रथमैक-रात्रे अष्टमो ऽध्यायः


श्री-व्यास उवाच
अथ चाभ्यन्तरं गत्वा नारदो हृष्ट-मानसः |
ददर्श स्वाश्रमं रम्यम् अतीव सुमनोहरम् || ज्ञा. सा. सं_१,८.१ ||
पयः फेन-निभ-शय्या-सहितं रत्न-मन्दिरम् |
साक्षाद् गोरोचनाभैश् च मणि-स्तम्भैर् विभूषितम् || ज्ञा. सा. सं_१,८.२ ||
मणीन्द्र-सारसोपानैः कपाटैश् च परिष्कृतम् |
मुक्तामाणिक्य-हीराणां माला-राजि-विराजितम् || ज्ञा. सा. सं_१,८.३ ||
शुद्ध-स्फटिक-संकाशं प्राङ्गणं मणि-संस्कृतम् |
सुन्दरं मन्दिर-चयं सद्-रत्न-कलशोज्ज्वलम् || ज्ञा. सा. सं_१,८.४ ||
रत्न-पत्र-पटाकीर्णं वह्नि-शुद्धांशुकान्वितम् |
सुधानां च मधूनाम् च पूर्ण-कुम्भकं शतं शतम् || ज्ञा. सा. सं_१,८.५ ||
दास-दासी-समूहैश् च रत्नालङ्कार-भूषितैः |
पार्वती-प्रिय-सङ्गैश् च स्व-कर्माकुल-सङ्कल्पम् || ज्ञा. सा. सं_१,८.६ ||
तद् दृष्ट्वा च मुनि-श्रेष्ठस् तत् पराभ्यन्तरं ययौ |
रत्न-सिंहासन-स्थं च शङ्करं च ददर्श सः || ज्ञा. सा. सं_१,८.७ ||
व्याघ्र-चर्माम्बर-धरं सस्मितं चन्द्र-शेखरम् |
प्रसन्न-वदनं स्वच्छं शान्तं श्रीमन्तम् ईश्वरम् || ज्ञा. सा. सं_१,८.८ ||
विभूति-भूषिताङ्गं च परं गङ्गा-जटा-धरम् |
भक्त-प्रियं च भक्तेशं ज्वलन्तं ब्रह्म-तेजसा || ज्ञा. सा. सं_१,८.९ ||
त्रि-नेत्रं पञ्च-वक्त्रं च कोटि-चन्द्र-सम-प्रभम् |
जपन्तं परमात्मानं ब्रह्म ज्योतिः सनातनम् || ज्ञा. सा. सं_१,८.१० ||
निर्लिप्तं च निरीहं च दातारं सर्व-सम्पदाम् |
स्वेच्छा-मयं सर्व-बीजं श्री-कृष्णं प्रकृतेः परं || ज्ञा. सा. सं_१,८.११ ||
सिद्धेन्द्रैश् च मुनीन्द्रैश् च देवेन्द्रैः परिसेवितम् |
पार्श्वद-प्रवर-श्रेष्ठ-सेवितं श्वेत-चामरैः || ज्ञा. सा. सं_१,८.१२ ||
दुर्गा-सेवित-पादाब्जं भद्र-काली-परिष्टुतम् |
पुरतो हि वसन्तं तं स्कन्दं गण-पतीम् तथा || ज्ञा. सा. सं_१,८.१३ ||
गले बद्ध्वा च वसनं भक्ति-नम्रात्मकंधरः |
योगीन्द्रं स्व-गुरुं शंभुं शिरसा प्रणनाम सः || ज्ञा. सा. सं_१,८.१४ ||
तुष्टाव परया भक्त्या देवर्षिर् जगतां पतिम् |
स्व-गुरुं च पशु-पतिं वेदोक्तेन स्तवेन च || ज्ञा. सा. सं_१,८.१५ ||

श्री-नारद उवाच
नमस् तुभ्यं जगन्-नाथ मम नाथ मम प्रभो |
भव-रूप-तरोर् बीज फल-रूप फल-प्रद || ज्ञा. सा. सं_१,८.१६ ||
अबीजज प्रज प्राज सर्व-बीज नमो ऽस्तु ते |
सद्-भाव परमाभाव विभाव भावनाश्रय || ज्ञा. सा. सं_१,८.१७ ||
भवेश भव-बन्धेश भावाब्धिनाविनायक |
सर्वाधार निराधार साधार धरणी-धर || ज्ञा. सा. सं_१,८.१८ ||
वेद-विद्याधाराधार गङाधर नमो ऽस्तु ते |
जयेश विजयाधार जय-बीज जयात्मक || ज्ञा. सा. सं_१,८.१९ ||
जगद्-आदे जयानन्द सर्वानन्द नमो ऽस्तु ते|

इत्य् एवम् उक्त्वा देवर्षिः शम्भोश् च पुरतः स्थितः |
प्रसन्न-वदनः श्रीमान् भगवांस् तम् उवाच सः || ज्ञा. सा. सं_१,८.२० ||

श्री-महा-देव उवाच
वरं वृणु महा-भाग यत् ते मनसि वर्तते |
दास्यामि त्वां ध्रुवं पुत्र दाताहं सर्व-संपदाम् || ज्ञा. सा. सं_१,८.२१ ||
सुखं मुक्तिं हरेर् भक्तिं निश्चलाम् अविनाशिनीम् |
हरेः पादं तद्-दास्यं सालोक्यादि-चतुष्टयम् || ज्ञा. सा. सं_१,८.२२ ||
इन्द्रत्वम् अमरत्वं वा यमत्वम् अनिलेश्वरम् |
प्रजा-पतित्वं ब्रह्मत्वं सिद्धत्वं सिद्ध-साधनम् || ज्ञा. सा. सं_१,८.२३ ||
सिद्धैश्वर्यं सिद्धि-बीजं वेद-विद्याधिपं परम् |
अणिमादिक-सिद्धिं च मनो-यायित्वम् ईप्सितम् || ज्ञा. सा. सं_१,८.२४ ||
हरेः पदं च गमनं स-शरीरेण लीलया |
एतेषु वाञ्छितार्थेषु किं वा ते वाञ्छितं सुत || ज्ञा. सा. सं_१,८.२५ ||
तन् मे ब्रूहि मुनि-श्रेष्ठ सर्वं दातुम् अहं क्षमः |

शङ्करस्य वचः श्रुत्वा तम् उवाच महा-मुनिः || ज्ञा. सा. सं_१,८.२६ ||

श्री-नारद उवाच
देहि मे हरि-भक्तिं च तन्-नाम-सेवने रुचिः |
अति-तृष्णा गुणाख्याने नित्यम् अस्तु ममेश्वर || ज्ञा. सा. सं_१,८.२७ ||

नारदस्य वचः श्रुत्वा जहास शङ्करः स्वयम् |
पार्वती भद्र-काली च कार्त्तिकेयो गणेश्वरः || ज्ञा. सा. सं_१,८.२८ ||
सर्वं ददौ महा-देवो नारदाय च धीमते |
सर्व-प्रदस् तु सर्वेशः सर्व-कारण-कारणः || ज्ञा. सा. सं_१,८.२९ ||
नारदेन कृतं स्तोत्रं नित्यं यः प्रपठेत् शुचिः |
हरि-भक्तिर् भवेत् तस्य तन्-नाम्नि गुणतो रुचिः || ज्ञा. सा. सं_१,८.३० ||
दश-वार-जपेनैव स्तोत्र-सिद्धिर् भवेन् नृणाम् |
सर्व-सिद्धिर् भवेत् तस्य सिद्ध-स्तोत्रो भवेद् यदि || ज्ञा. सा. सं_१,८.३१ ||
इह प्राप्नोति लक्ष्मीं च निश्चलां लक्ष-पौरुषीम् |
परि-पूर्णम् अहैश्वर्यम् अन्ते याति हरेः पदम् || ज्ञा. सा. सं_१,८.३२ ||
पुत्रं विशिष्टं लभते हरि-भक्तं जितेन्द्रियम् |
सुसाध्यां सुविनीतां सुव्रतां च पति-व्रताम् || ज्ञा. सा. सं_१,८.३३ ||
प्रजां भूमिं यशः कीर्तिं विद्यां स-कवितां लभेत् |
प्रसूयते महा-बन्ध्या वर्षम् एकं शृणोति चेत् || ज्ञा. सा. सं_१,८.३४ ||
गलत्-कुष्ठी महा-रोगी सद्यो रोगात् प्रमुच्यते |
धनी महा-दरिद्रश् च कृपणः सत्यवान् भवेत् |
विप्रद्-ग्रस्तो राज-बद्धो मुच्यते नात्र संशयः || ज्ञा. सा. सं_१,८.३५ ||

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे अष्टमो ऽध्यायः


प्रथमैक-रात्रे नवमो ऽध्यायः


श्री-व्यास उवाच
वरं दत्वा महा-देवो भक्त्या तं ब्राह्मणातिथिम् |
पूजां चकार वेदोक्तां स्वयं वेद-विदां वरः || ज्ञा. सा. सं_१,९.१ ||
भुक्त्वा पीत्वा मुनि-श्रेष्ठो महा-देवस्य मन्दिरे |
तिष्ठन्न् उपासानां चक्रे पार्वती-परमेशयोः || ज्ञा. सा. सं_१,९.२ ||
एकदा चिर-कालान्ते तम् उवाच महा-मुनिम् |
महा-देवः सभा-मध्ये कृपया च कृपा-निधिः || ज्ञा. सा. सं_१,९.३ ||

श्री-महा-देव उवाच
किं वा ते वाञ्छितं वत्स ब्रूहि मां यदि रोचते |
वरो दत्तः किम् अपरं यत् ते मनसि वर्तते || ज्ञा. सा. सं_१,९.४ ||

महा-देव-वचः श्रुत्वा तम् उवाच महा-मुनिः |
कैलासे च सभा-मध्ये यत् तन्-मनसि वाञ्छितम् || ज्ञा. सा. सं_१,९.५ ||

श्री-नारद उवाच
ज्ञानम् आध्यात्मिकं नाम वेद-सारं मनोहरम् |
हरि-भक्ति-प्रदं ज्ञानं मुक्तिदं ज्ञानम् ईप्सितम् || ज्ञा. सा. सं_१,९.६ ||
योग-युक्तं च यज् ज्ञानं ज्ञानं यत् सिद्धिदं तथा |
संसार-विषय-ज्ञानम् एव पञ्च-विधं स्मृतम् || ज्ञा. सा. सं_१,९.७ ||
आश्रमाणां समाचारं तेषां धर्म-परिष्कृतम् |
विधवानां च भिक्षूणां यतीनां ब्रह्म-चारिणां || ज्ञा. सा. सं_१,९.८ ||
पूजा-विधानं कृष्णस्य तत्-स्तोत्रं कवचं मनुम् |
पुरश्चर्या-विधानं च सर्वाह्निकम् अभीप्सितम् || ज्ञा. सा. सं_१,९.९ ||
जीव-कर्म-विपाकं च कर्म-मूल-निकृन्तनम् |
संसार-वासनां कां वा लक्षणं प्रकृतीशयोः || ज्ञा. सा. सं_१,९.१० ||
तयोः परं वा किं वस्तु तस्यावतार-वर्णमम् |
को वा तद्-अंशः कः पूर्णः परिपूर्णतमश् च कः || ज्ञा. सा. सं_१,९.११ ||
नारायणर्षि-कवचं सुभद्र-प्रवराय च |
यद् दत्तं किं तद् देवेश तद् आराध्यं प्रयत्नतः || ज्ञा. सा. सं_१,९.१२ ||
मया ज्ञानंम् अनापृष्ठं यद् यद् अस्ति सुरोत्तम |
तन् मे कथय तत्त्वेन माम् एवानुग्रहं कुरु || ज्ञा. सा. सं_१,९.१३ ||
गुरोश् च ज्ञानोद्गिरणाज् ज्ञानं स्यान् मन्त्र-तन्त्रयोः |
तत् तन्त्रं स च मन्त्रः स्याद् यतो भक्तिर् अधोक्षजे || ज्ञा. सा. सं_१,९.१४ ||
ज्ञानं स्याद् विदुषां किंचिद् वेद-व्याख्यान-चिन्तया |
स्वयं भवान् वेद-कर्ता ज्ञानाधिष्ठातृ-देवता || ज्ञा. सा. सं_१,९.१५ ||

नारदस्य वचः श्रुत्वा सस्मितः पार्वती-पतिः |
निरीक्ष्य पार्वती-वक्त्रं गज-वक्त्रम् उवाच सः || ज्ञा. सा. सं_१,९.१६ ||

अथ नारदोपदेश-ग्रहणम्

श्री-महा-देव उवाच
अहो अनन्त-दासानां माहात्म्यं परमाद्भुतम् |
कुर्वन्त्य् अहैतुकीं भक्तिं ये च शश्वद् धरेः पदे || ज्ञा. सा. सं_१,९.१७ ||
पद्म-नाभ-पाद-पद्मं पद्मा-पद्मेश्वरार्चितम् |
दिवानिशं ये ध्यायन्ते शेषादि-सुर-वन्दितम् || ज्ञा. सा. सं_१,९.१८ ||
आलापं गात्र-संस्पर्शं पाद-रेणुम् अभीप्सितम् |
वाञ्छन्त्य् एव हि तीर्थानि वसुधा चात्म-शुद्धये || ज्ञा. सा. सं_१,९.१९ ||
कृष्ण-मन्त्रोपासकानां शुद्धं पादोदकं सुत |
पुनाति सर्व-तीर्थानि वसुधाम् अपि पार्वति || ज्ञा. सा. सं_१,९.२० ||
कृष्ण-मन्त्रो द्विज-मुखाद् यस्य कर्णं प्रयाति च |
तं वैष्णवं जगत्-पूतं प्रवदन्ति पुरा-विदः || ज्ञा. सा. सं_१,९.२१ ||
मन्त्र-ग्रहण-मात्रेण नरो नारायनात्मकः |
पुनाति लीला-मात्रेण पुरुषाणां शतं शतम् || ज्ञा. सा. सं_१,९.२२ ||
यज् जन्म-मात्रात् पूतं च तत् पितृणां शतं शतम् |
प्रयाति सद्यो गोलोकं कर्म-भोगात् प्रमुच्यते || ज्ञा. सा. सं_१,९.२३ ||
माता-महादिकान् सप्त जन्म-मात्रात् समुद्धरेत् |
यत् कन्यां प्रतिगृह्णाति तस्य सप्तावलीलया || ज्ञा. सा. सं_१,९.२४ ||
मातरं तत्-प्रशूं भार्यां पुत्राच् च सप्त-पूरुषम् |
भ्रातरं भगिनीं कन्यां कृष्ण-भक्तः समुद्धरेत् || ज्ञा. सा. सं_१,९.२४ ||
स स्नातः सर्व-तीर्थेषु सर्व-यज्ञेषु दीक्षितः |
फलं स लेभे पूजानां व्रती सर्व-व्रतेषु च || ज्ञा. सा. सं_१,९.२६ ||
विष्णु-मन्त्रं यो लभेत् वैष्णवाच् च द्विजोत्तमात् |
कोटि-जन्मार्जितात् पापान् मुच्यते नात्र संशयः || ज्ञा. सा. सं_१,९.२७ ||
कृष्ण-मन्त्रोपासकानां सद्यो दर्शन-मात्रतः |
शत-जन्मार्जितात् पापान् मुच्यते नात्र संशयः || ज्ञा. सा. सं_१,९.२८ ||
वैष्णवाद् दर्शनेनैव स्पर्शनेन च पार्वति |
सद्यः पूतं जलं वह्निर् जगत् पूतः समीरणः || ज्ञा. सा. सं_१,९.२९ ||
दर्शनं वैष्णवानां च देवा वाञ्छन्ति नित्यशः |
न वैष्णवात् परः पूतो विश्वेषु निखिलेषु च || ज्ञा. सा. सं_१,९.३० ||

इत्य् उक्त्वा सङ्करः शीघ्रं नारदेन सहात्मजः |
ययौ मन्दाकिनी-तीरं नीरं क्षीरोपमं परम् || ज्ञा. सा. सं_१,९.३१ ||
तत्र स्नातो महा-देवी नारदश् च महा-मुनिः |
समाचान्तः शुचिस् तत्र धृत्वा धौते च वासवी || ज्ञा. सा. सं_१,९.३२ ||
कृष्ण-मन्त्रं ददौ तस्मै नारदाय महेश्वरः |
परं कप्ल-तरु-वरं सर्व-सिद्धि-प्रदं शुक || ज्ञा. सा. सं_१,९.३३ ||
लक्ष्मीर् माया-काम-बीजं ङेन्तं कृष्ण-पदं ततः |
जगत्-पूत-प्रियान्तं च मन्त्र-राजं प्रकीर्तितम् || ज्ञा. सा. सं_१,९.३४ ||
मन्त्रं गृहीत्वा स मुनिः शिवं कृत्वा प्रदक्षिणम् |
सप्त वारान् नमस् कृत्य स्वात्मानं दक्षिणां ददौ || ज्ञा. सा. सं_१,९.३५ ||
तत्-पाद-पद्मे विक्रीतमाजन्म मस्तकं परम् |
मुनिना भक्ति-युक्तेन स्वर्ग-मन्दाकिनी-तटे || ज्ञा. सा. सं_१,९.३६ ||
एतस्मिन्न् अन्तरे वत्स पुष्प-वृष्टिर् बभूव ह |
नारदोपरि तत्रैव सुश्राव दुन्दुभिर् मुनिः || ज्ञा. सा. सं_१,९.३७ ||
ननर्त ब्रह्मणः पुत्रो ब्रह्म-लोके निरामये |
ब्रह्मा जगाम तत्रैव सुप्रसन्नश् च सस्मितः || ज्ञा. सा. सं_१,९.३८ ||
पुत्रं शुभाशिषं कृत्वा तुष्टाव चन्द्र-शेखरम् |
शम्भुश् च पूजयाम् आस ब्राह्मणम् अतिथिं तथा |
शम्भुं शुभाशिषं कृत्वा ब्रह्म-लोकं ययौ विधिः || ज्ञा. सा. सं_१,९.३९ ||

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे
नारदोपदेश-ग्रहणं नाम नवमो ऽध्यायः


प्रथमैक-रात्रे दशमो ऽध्यायः

श्री-शुक उवाच
नारदो हि महा-ज्ञानी देवर्षिर् ब्रह्मणः सुतः |
सर्व-वेद-विदां श्रेष्ठो गरिष्ठश् च वरिष्ठकः || ज्ञा. सा. सं_१,१०.१ ||
कथं स नोपदिष्टश् च ज्ञान-हीनो महा-मुनिः |
तन् मां बोधय विभो सन्देह-भञ्जनं कुरु || ज्ञा. सा. सं_१,१०.२ ||

श्री-व्यास उवाच
नारदो ब्रह्मणः पुत्रः पुरा-कल्पे बभूव सः |
सर्व-ज्ञानं ददौ तस्मै विधाता जगताम् अपि || ज्ञा. सा. सं_१,१०.३ ||
वेदांश् च पाठयाम् आस वेदाङ्गान्य् अपि सुव्रत |
सिद्ध-विद्यां शिल्प-विद्यां योग-शास्त्रं पुराणकम् || ज्ञा. सा. सं_१,१०.४ ||
भगवान् एकदा पुत्रं कथयाम् आस संसदि |
सृष्टिं कुरु महा-भाग कृत्वा दार-परिग्रहम् || ज्ञा. सा. सं_१,१०.५ ||
ब्रह्मणश् च वचः श्रुत्वा कोप-रक्तास्य-लोचनः |
उवाच पितरं कोपात् परं कृष्ण-परायनः || ज्ञा. सा. सं_१,१०.६ ||

श्री-नारद उवाच
सर्वेषाम् अपि वन्द्यानां पिता चैव महा-गुरुः |
ज्ञान-दातुः परो वन्द्यो न भूतो न भविष्यति || ज्ञा. सा. सं_१,१०.७ ||
स्तन-दात्री गर्भ-धात्री स्नेह-कर्त्री सदाम्बिका |
जन्म-दातान्न-दाता स्यात् स्नेह-कर्ता पिता सदा || ज्ञा. सा. सं_१,१०.८ ||
न क्षमौ तौ च पितरौ पुत्रस्य कर्म खण्डितुम् |
करोति सद्-गुरुः शिष्य-कर्म-मूल-निकृन्तनम् || ज्ञा. सा. सं_१,१०.९ ||
गुरुश् च ज्ञानोद्गिरणात् ज्ञानं स्यान् मन्त्र-तन्त्रयोः |
तत् तन्त्रं स च मन्त्रश् च कृष्ण-भक्तिर् यतो भवेत् || ज्ञा. सा. सं_१,१०.१० ||
श्री-कृष्ण-विमुखो भूत्वा विषये यस्य मानसम् |
विषम् अत्यमृतं त्यक्त्वा स च मूढो नराधमः || ज्ञा. सा. सं_१,१०.११ ||
स गुरुः स पिता वन्द्यः सा माता स पतिः सुतः |
यो ददाति हरौ भक्तिं कर्म-मूल-निकृन्तनी || ज्ञा. सा. सं_१,१०.१२ ||
श्री-कृष्ण-भजनं तात सर्व-मङ्गल-मङ्गलम् |
कर्मोपभोग-रोगआणाम् औषधं तन्-निकृन्तनम् || ज्ञा. सा. सं_१,१०.१३ ||
अहो जगद्-विधातुश् च धर्म-शास्तुर् इयं मतिः |
स्वयं माया-मोहितश् च परं भ्रष्टं करोति च || ज्ञा. सा. सं_१,१०.१४ ||
विष्णुस् त्वां मोहिताम् कृत्वा युयोज स्रष्टुम् ईश्वरः |
न ददौ स्वात्म-भक्तिं तां स्व-दास्यं चाति-दुर्लभम् || ज्ञा. सा. सं_१,१०.१५ ||
माता ददाति पुत्राय मोदकं क्षुन्-निवारकम् |
स च बालो न जानाति कथंभूतं च मोदकम् || ज्ञा. सा. सं_१,१०.१६ ||
बालकं वञ्चनं कृत्वा मिष्टं द्रव्यं प्रदाय सः |
पिता प्रयाति कार्यार्थं विष्णुना मोहितस् तथा || ज्ञा. सा. सं_१,१०.१७ ||
संसार-कूप-पतितो विष्णुना प्रेरितो भवान् |
न युक्तं पतनं तत्र तद् उद्धारम् अभीप्सितम् || ज्ञा. सा. सं_१,१०.१८ ||
ज्ञानी गुरुश् च बलवान् भवाब्धेः शिष्यम् उद्धरेत् |
गुरुः स्वयम् असिद्धश् च दुर्बलः कथम् उद्धरेत् || ज्ञा. सा. सं_१,१०.१९ ||
गुरोर् अत्य्-अवलिप्तस्य कार्याकार्यम् अजानतः |
उत्पथ-प्रतिपन्नस्य परित्यागो विधीयते || ज्ञा. सा. सं_१,१०.२० ||
स गुरुः परमो वैरी यो ददाति ह्य् असन्-मतिम् |
तं नमस्-कृत्य सत्-शिष्यः प्रयाति ज्ञानदं गुरुम् || ज्ञा. सा. सं_१,१०.२१ ||
संसार-विषयोन्मत्तो गुरु-रार्तः स्व-कर्मणि |
दुर्बलो दुर्वहं भारं ददाति जनकाय च || ज्ञा. सा. सं_१,१०.२२ ||

नारदस्य वचः श्रुत्वा क्रुद्धः पुत्रम् उवाच सः |
कम्पितस् तमसा धाता कोप-रक्तास्य-लोचनः || ज्ञा. सा. सं_१,१०.२३ ||

ब्रह्मोवाच
ज्ञानं ते भवतु भ्रष्टं स्त्री-जितो भव पामर |
सर्व-जातिषु गन्धर्वः कामी सो ऽपि भवान् भव || ज्ञा. सा. सं_१,१०.२४ ||
पञ्चाशत्-कामिनीनां च स्वयं भर्ता भवाचिरात् |
तासां वशश् च सततं स्त्रीणां क्रीडा मृगो यथा || ज्ञा. सा. सं_१,१०.२५ ||
शृङ्गार-शूरो भव रे शश्वत्-सुस्थिर-यौवनः |
तासां नित्यं यौवनानां सुन्दरीणां प्रियो भव || ज्ञा. सा. सं_१,१०.२६ ||
काम-बाध्यो भव चिरं दिव्य-वर्ष-सहस्रकम् |
निर्जने निर्जने रम्ये वने क्रीडां करिष्यसि || ज्ञा. सा. सं_१,१०.२७ ||
ततो वर्ष-सहस्रान्ते मया शप्तः स्व-कर्मणा |
विप्र-दास्यां तु शूद्रायां जनिष्यसि न संशयः || ज्ञा. सा. सं_१,१०.२८ ||
ततो वैष्णव-संसर्गात् विष्णोर् उच्छिष्ट-भोजनात् |
विष्णु-मन्त्र-प्रसादेन विष्णु-माया-विमोहितः || ज्ञा. सा. सं_१,१०.२९ ||

तातस्य वचनं श्रुत्वा चुकोप नारदो मुनिः |
शशाप पितरं शिघ्रं दारुणं च यथोचितम् || ज्ञा. सा. सं_१,१०.३० ||

अपूज्यो भव दुष्टं त्वं त्वन्-मन्त्रोपासकः कुतः |
अगम्यागमनेच्छा ते भविष्यति न संशयः || ज्ञा. सा. सं_१,१०.३१ ||

नारदस्य तु शापेन सो ऽपूज्यो जगतां विधिः |
दृष्ट्वा स्व-कन्या-रूपं च पश्चाद् धावितवान् पुरा || ज्ञा. सा. सं_१,१०.३२ ||
पुनः स्व-देहं तत्याज भर्त्सितः सनकादिभिः |
लज्जितः काम-युक्तश् च पुनर् ब्रह्मा बभूव सः || ज्ञा. सा. सं_१,१०.३३ ||
नारदस् तु नमस्-कृत्य पितरं कमलोद्भवम् |
विप्र-देहं परित्यज्य गन्धर्वश् च बभूव सः || ज्ञा. सा. सं_१,१०.३४ ||
नव-यौवन-कालेन बलवान् मदनोद्धतः |
जहार कन्याः पञ्चाशत् बलाच् चित्र-रथस्य तु || ज्ञा. सा. सं_१,१०.३५ ||
गान्धर्वेन विवाहेन ता उवाह च निर्जने |
मूर्च्छां प्रापुश् च ताः कन्या दृष्ट्वा सुन्दरम् ईश्वरम् || ज्ञा. सा. सं_१,१०.३६ ||
विसस्पुरुश् च पितरं मातरं भ्रातरं तथा |
रेमिरे तेन सार्धं च कामुक्यः कामुकेन च || ज्ञा. सा. सं_१,१०.३७ ||
कन्दरेर् कन्दरे रम्ये रम्ये सुन्दर-मन्दिरे |
शैले शैले सुरहसि कानने कानने तथा || ज्ञा. सा. सं_१,१०.३८ ||

पुष्पोद्यने तरु-द्याने नद्यां नद्यां नदे नदे |
सरःश्रेष्ठे सरःश्रेष्ठे वरे चन्द्र-सरोवरे || ज्ञा. सा. सं_१,१०.३९ ||
सुरेशस्यापि निकटे सुभद्रस्य तटे तटे |
अगम्ये च महा-घोरे गन्ध-मादन-गह्वरे || ज्ञा. सा. सं_१,१०.४० ||
परिजात-तरुणां च पुष्पितानां मनोहरे |
तद्-अन्तरे सुन्दरे चामोदिते पुष्प-वायुना || ज्ञा. सा. सं_१,१०.४१ ||
मलये निलये रम्ये सुगन्धे चन्दनान्विते |
चन्दनोक्षित-सर्वाङ्गश् चन्दनाक्तेन कामिना || ज्ञा. सा. सं_१,१०.४२ ||
रम्य-चम्पक-शय्यासु चन्दनाक्तासु सस्मिताः |
दिवानिशं न जानन्ति कामिना सस्मितेन च || ज्ञा. सा. सं_१,१०.४३ ||
विस्यन्दके शूरसेने नन्दने पुष्प-भद्रके |
स्वाहा-वने काम्यके च रम्यके पारिभद्रके || ज्ञा. सा. सं_१,१०.४४ ||
सुरन्धके गन्धके च सुरङ्ह्रे पुण्ड्रके ऽपि च |
कालञ्जरे पञ्जरे च काञ्ची-काञ्चन-कानने || ज्ञा. सा. सं_१,१०.४५ ||
मधु-माधव-मासे च मधूरे मधु-कानने |
वने कल्प-तरूणां च विश्व-कारु-कृत-स्थले || ज्ञा. सा. सं_१,१०.४६ ||
रत्नाकराणां निकरे सुन्दरे सुन्दरान्तरे |
सुवेले च सुपार्श्वे च प्रवालांकुर-कानने || ज्ञा. सा. सं_१,१०.४७ ||
मन्दारे मन्दिरे पूरे गान्धारे च युगन्धरे |
वने केलि-कदम्बानां केतकीनां मनोहरे || ज्ञा. सा. सं_१,१०.४८ ||
माधवी-मालतीनां च यूथिकानां वने वने |
चम्पकानां पलाशानां कुन्दानां विपिने तथा || ज्ञा. सा. सं_१,१०.४९ ||
नागेश्वर-लवङ्गानां अन्तरे ललितालये |
कुमुदानां पङ्कजानां पङ्किले कोमल-स्थले || ज्ञा. सा. सं_१,१०.५० ||
स्थल-पद्म-प्रकारो च भूमि-चम्पक-कानने |
लाङ्गलीनां रसालानां पनसानां सुख-प्रदे || ज्ञा. सा. सं_१,१०.५१ ||
कदली-बदरीणां च श्री-फलानां च श्री-युते |
जम्बीराणां च जम्बूनां करञ्जानां तथैव च || ज्ञा. सा. सं_१,१०.५२ ||
कृत्वा बिहारं ताभिश् च गन्धर्वश् चोपवर्हणः |
दिव्यं वर्ष-सहस्रं च स्वाश्रमं पुनर् आययौ || ज्ञा. सा. सं_१,१०.५३ ||
श्रुत्वा विधातुर् आह्वानं पुष्करं च ययौ पुनः |
ददर्श तत्र ब्रह्माणम् रत्न-सिंहासन-स्थितम् || ज्ञा. सा. सं_१,१०.५४ ||
देवेन्द्रैश् चापि सिद्धेन्द्रैर् मुनीन्द्रैः सन्कादिभिः |
समावृतं सभायां च रक्षो-गन्धर्व-किन्नरैः || ज्ञा. सा. सं_१,१०.५५ ||
सुशोभितं यथा चन्द्रं गगने भगणैः सह |
प्रणनाम सभा-मध्ये ताभिः सार्धं जगद्-विधिम् || ज्ञा. सा. सं_१,१०.५६ ||
महेशं च गणेशं च धनेशं शेषम् ईश्वरम् |
धर्मं धन्वन्तरिं स्कन्दं सूर्य-सोम-हुताशनम् || ज्ञा. सा. सं_१,१०.५७ ||
उपेन्द्रेन्द्रं विश्व-कारुं वरुणं पवनं स्मरम् |
यमम् अष्टौ वसून् रुद्रान् जयन्तं नलकूवरम् || ज्ञा. सा. सं_१,१०.५८ ||
सर्वान् देवान् नमस्-कृत्य ननाम मुनि-पुङ्गवम् |
अगस्त्यं च पुलस्त्यं च पुलहं च प्रचेतसम् || ज्ञा. सा. सं_१,१०.५९ ||
सर्व-श्रेष्ठं वसिष्ठं च दक्षं च कर्दमं तथा |
सनकं सनन्दं च तृतीयं च सनातनम् || ज्ञा. सा. सं_१,१०.६० ||
सनत्-कुमारं योगीशं ज्ञानिनां च गुरोर् गुरुम् |
वोढुं पञ्च-शिखं सङ्खं भृगुम् अङ्गिरसं तथा || ज्ञा. सा. सं_१,१०.६१ ||
आसुरिं कपिलं कौत्सं क्रतुं नारायणं नरम् |
मरीचिं कश्यपं कण्वं व्यासं दुर्वाससं कविम् || ज्ञा. सा. सं_१,१०.६२ ||
बृहस्पतिं च च्यवनं मार्कण्डेयं च लोमशम् |
वाल्मीकिं परशु-रामं संवर्तं च विभाण्डकम् || ज्ञा. सा. सं_१,१०.६३ ||
देवलं च वाम-देवम् ऋशयशृङ्गं पराशारम् |
एतान् सर्वान् नमस्-कृत्य तस्थौ स पुरतो विधेः || ज्ञा. सा. सं_१,१०.६४ ||
तुष्टाव सर्वान् देवांश् च मुनीन्द्रांश् च तथैव च |
तम् उवाच सभा-मध्ये विधाता जगताम् अपि |
सस्मितः सुप्रसन्नश् च गन्धर्वम् उपवर्हणम् || ज्ञा. सा. सं_१,१०.६५ ||

ब्रह्मोवाच
श्री-कृष्ण-रस-सङ्गीतं वीणा-ध्वनि-समन्वितम् |
कुरु वत्साधुनात्रैव शृण्वन्तु मुनयः सुराः || ज्ञा. सा. सं_१,१०.६६ ||
गोपीनां वस्त्र-हरणं हरं रास-महोत्सवम् |
ताभिः सार्धं जल-क्रीडां हरेर् उत्कीर्तनं कुरु || ज्ञा. सा. सं_१,१०.६७ ||
कृष्ण-सङ्कीर्तनं तूर्णं पुनाति श्रुति-मात्रतः |
श्रोतारं च प्रवक्तारं पुरुषैः सप्तभिः सह || ज्ञा. सा. सं_१,१०.६८ ||
यत्रैव प्रभवेद् वत्स तन्-नाम-गुणानुकीर्तनम् |
तत्र सर्वाणि तीर्थानि पुण्यानि मङ्गलानि च || ज्ञा. सा. सं_१,१०.६९ ||
तत्-कीर्तन-ध्वनिं श्रुत्वा सर्वाणि पातकानि च |
दूराद् एव पलायन्ते वैनतेयम् इवोरगाः || ज्ञा. सा. सं_१,१०.७० ||
तद् दिनं सफलं धन्यं यशस्यं सर्व-मङ्गलम् |
श्री-कृष्ण-कीर्तनं यत्र तत्रैव नायुषो व्ययः || ज्ञा. सा. सं_१,१०.७१ ||
संकीर्तन-ध्वनिं श्रुत्वा ये च नृत्यन्ति वैष्णवाः |
तेषां पाद-रजः-स्पर्शात् सद्यः पूता वसुन्धरा || ज्ञा. सा. सं_१,१०.७२ ||
तत्-कीर्तनं भवेद् यत्र कृष्णस्य परमात्मनः |
स्थानं तच् च भवेत् तीर्थं मृतानां तत्र मुक्तिदम् || ज्ञा. सा. सं_१,१०.७३ ||
नात्र पापानि तिष्ठन्ति पुण्यानि सुस्थिराणि च |
तपस्विनां च व्रतिनां व्रतानां तपसां स्थलम् || ज्ञा. सा. सं_१,१०.७४ ||
वर्तते पापिनां देहे पापानि त्रि-विधानि च |
महा-पापोपपापातिपापान्य् एव स्मृतानि च || ज्ञा. सा. सं_१,१०.७५ ||
हन्ता यो विप्र-भिक्षूणां यतीनां ब्रह्म-चारिणां |
स्त्रीणां च वैष्णवानां च स महा-पातकी स्मृतः || ज्ञा. सा. सं_१,१०.७६ ||
भ्रूणा-घ्नश् चापि गो-घ्नश् च शूद्र-घ्नश् च कृत-घ्नकः |
विश्वास-घाती विड्-भोजी स एव ह्य् उपपातकी || ज्ञा. सा. सं_१,१०.७७ ||
अगम्यागमिनो ये च सुर-विप्र-स्वहारिणः |
अतिपातकिनश् चैते वेद-विद्भिः प्रकीर्तिताः || ज्ञा. सा. सं_१,१०.७८ ||
कृष्ण-संकीर्त्न-ध्यानात् तन्-मन्त्र-ग्रहणाद् अहो |
मुच्यन्ते पातकैस् तैस् तैः पापिनस् त्रि-विधाः स्मृताः || ज्ञा. सा. सं_१,१०.७९ ||
तपो-यज्ञ-कृती पूतस् तीर्थ-स्नात-व्रती तथा |
भिक्षुर् यतिर् ब्रह्म-चारी वान-प्रस्थश् च तापसः || ज्ञा. सा. सं_१,१०.८० ||
पवित्रः परमो वह्निः सुपवित्रं जलं यथा |
एते सर्वे वैष्णवानां कलां नार्हन्ति षोडशीम् || ज्ञा. सा. सं_१,१०.८१ ||
विष्णु-पादोदकोच्छिष्टं भुञ्जते ये च नित्यशः |
पश्यन्ति च शिला-चक्रं पूजां कुर्वन्ति नित्यशः || ज्ञा. सा. सं_१,१०.८२ ||
जीवन्-मुक्तास् च ते धन्या हरि-दासाश् च भारते |
पदे पदे ऽश्वमेधस्य प्राप्नुवन्ति फलं ध्रुवम् || ज्ञा. सा. सं_१,१०.८३ ||
नहि तेषां पराभूताः पुण्यवन्तो जगत्-त्रये |
तेषां च पाद-रजसा तीर्थं पूतं तथा धरा || ज्ञा. सा. सं_१,१०.८४| ||
तेषां च दर्शनं स्पर्शं वाञ्छन्ति मुनयः सुराः |
पुरुषाणां सहस्रं च पूतं तज्-जन्म-मात्रतः || ज्ञा. सा. सं_१,१०.८५ ||

इत्य् उक्त्वा जगतां धाता तत्र तूष्णीं बभूव सः |
आश्चर्यं मेनिरे श्रुत्वा देवाश् च मुनयस् तथा || ज्ञा. सा. सं_१,१०.८६ ||
एतस्मिन्न् अन्तरे तत्र विद्या-धर्यः समागताः |
गन्धर्वाश् चापि विविधा ननृतुः किन्नरा जगुः || ज्ञा. सा. सं_१,१०.८७ ||
रम्भोर् वशी घृताची च मेनका च तिलोत्तमा |
सुधामुखी पूर्ण-चित्ती मोहिनी कलिका तथा || ज्ञा. सा. सं_१,१०.८८ ||
चम्पावती चन्द्र-मुखी पद्मा पद्म-मुखीति च |
एताश् चान्याश् च बह्व्यश् च श्वश्वत् सुस्थिर-यौवनाः || ज्ञा. सा. सं_१,१०.८९ ||
बृहन्-नितम्ब-श्रोणीकास्तनभारैः समानताः |
ईषद्धास्याः प्रसन्नास्याः कामार्ताश् च समाययुः || ज्ञा. सा. सं_१,१०.९० ||
वेद-ज्ञा मूर्तिमन्तश् च वेदाश् चात्वार एव च |
ब्राह्मणा भिक्षवः सिद्धा यतयो ब्रह्म-चारिणः || ज्ञा. सा. सं_१,१०.९१ ||
समाययुस् तथा मन्दा दैव-ज्ञाः स्तुति-पाठकाः |
लक्ष्मी सरस्वती दुर्गा सावित्री रोहिणी रतिः || ज्ञा. सा. सं_१,१०.९२ ||
तुलसी पृथिवी गङ्गा स्वाहा च यमुना तथा |
वारुणी मनसेन्द्राणी ताः सर्वा देव-योषितः || ज्ञा. सा. सं_१,१०.९३ ||
मुनि-पत्न्यश् च गन्धर्व्यो हर्ष-युक्ताः समाययुः |
अहो महोत्सवं परमानन्द-मानसाः |
विचित्रां च ब्रह्म-सभां पुष्करं तीर्थम् आययुः || ज्ञा. सा. सं_१,१०.९४ ||

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे
महोत्सवारम्भो नाम दशमो ऽध्यायः

प्रथमैक-रात्रे एकादशो ऽध्यायः


अथ महोत्सव-दर्शनम्

श्री-व्यास उवाच
अथ गन्धर्व-राजस् तु भगवान् आज्ञया विधेः |
संगीतं च जगौ तत्र कृष्ण-रास-महोत्सवम् || ज्ञा. सा. सं_१,११.१ ||
सुसमं तालमानं च सुतानं मधुरं श्रुतम् |
वीणा-मृदङ्ग-मुरज-युक्तं ध्वनि-समन्वितम् || ज्ञा. सा. सं_१,११.२ ||
रागिणी-युक्त-रागेण समयोक्तेन सुन्दरम् |
माधुर्यं मूर्च्छ्नायुक्तं मनसे हर्ष-कारणम् || ज्ञा. सा. सं_१,११.३ ||
विचित्रं नृत्य-रुचिरं रूप-वेशम् उत्तमम् |
लोकानुराग-बीजं च नाट्योपयुक्त-हस्तकम् || ज्ञा. सा. सं_१,११.४ ||
दृष्ट्वा श्रुत्वा सुराः सर्वे मुनयः सर्व-योषितः |
मूर्च्छां प्रायुश् च सहसा चेतनां च पुनः पुनः || ज्ञा. सा. सं_१,११.५ ||
गोपीनां वस्त्र-हरणं गोपी-गण-विलापनं |
ताभ्यो वस्त्र-प्रदानं च संमानं वरदानकम् || ज्ञा. सा. सं_१,११.६ ||
कात्यायनी-व्रतं चापि विप्र-दारान्न-भोजनम् |
महेन्द्र-दर्प-पूजादि भञ्जनं शैल-पूजनम् || ज्ञा. सा. सं_१,११.७ ||
पुनश् च शुश्रुवुः सर्वे श्री-वृन्दावन-वर्णनम् |
संप्रापुश् च पुनर् मूर्च्छां पुनः प्रापुश् च चेतनाम् || ज्ञा. सा. सं_१,११.८ ||
तस्मै ददौ पुरो ब्रह्मा वह्नि-शुद्धांशुकं परम् |
परं शुभाशीर्-वचनं यत् तन्-मानस-वाञ्छितम् || ज्ञा. सा. सं_१,११.९ ||
अमूल्य-रत्न-निर्माणं चारु-कुण्डाल-युग्मकम् |
मणीन्द्र-सार-मुकुटं परं रत्नाङ्गुरीयकम् || ज्ञा. सा. सं_१,११.१० ||
सुगन्धि चन्दनं पुष्पं स्व-पाद-रेणुम् ईप्सितम् |
अमूल्य-रत्न-तिलकं रत्न-भूषणम् उज्ज्वलम् || ज्ञा. सा. सं_१,११.११ ||
प्रत्येकं वस्तु रुचिरं तद्-योषिद्भ्यश् च संददौ |
विश्वकर्मा च निर्माण-मणिं भूषणम् उत्तमम् || ज्ञा. सा. सं_१,११.१२ ||
प्रत्येकं शङ्ख-सिन्दूरं कस्तूरी-युक्त-चन्दनम् |
सकर्पूरं च ताम्बूलं रत्नेन्द्र-सार-दर्पणम् || ज्ञा. सा. सं_१,११.१३ ||
मणि-निर्माणा-मञ्जोरं श्वेत-चामर-शोभनम् |
मनोयायि रथं दिव्यं ईस्वरेच्छा-विनिर्मितम् || ज्ञा. सा. सं_१,११.१४ ||
मुक्ता-माणिक्य-हीरेन्द्रैर् मणीन्द्रैश् च परिष्कृतम् |
सद्-रत्न-माला-जालैश् च श्वेत-चामर-दर्पणैः || ज्ञा. सा. सं_१,११.१५ ||
सुशोभितं च परितो लक्षैः सुन्दर-मन्दिरैः |
मणि-मानिक्य-हीराढ्यं सद्-रत्न-कलशोज्ज्वलम् || ज्ञा. सा. सं_१,११.१६ ||
सहस्र-चक्र-संसक्तं योजनायत-सम्मितम् |
धनुर् लक्षोच्छ्रितं चैव सहस्राश्वेन योजितम् || ज्ञा. सा. सं_१,११.१७|
एतद् एव ददौ ब्रह्मा प्रहृष्टस् तुष्ट एव च |
शम्भुस् तुष्टो ददौ हृष्टो हरि-भक्तिं च निश्चलाम् || ज्ञा. सा. सं_१,११.१८ ||
ज्ञानम् अध्यात्मिकं चैव योग-ज्ञानं सुदुर्लभम् |
नाना-जन्म-स्मृति-ज्ञानं नैपुण्यं सर्व-सिद्धिषु || ज्ञा. सा. सं_१,११.१९ ||
हरेश् चर्चाविधानं च स्तवनं पूजनं तथा |
माणिक्य-हीराहारं च रत्न-लक्षं सुदुर्लभम् || ज्ञा. सा. सं_१,११.२० ||
नाग-हारं ददौ शेषो नागेन्द्रमौलि-मण्डनम् |
नाग-कन्या-शतं चैव वर-भूषण-भूषितम् || ज्ञा. सा. सं_१,११.२१ ||
नागेभ्यश् चाभ्यं नित्यं हिस्र-जन्तुभ्य एव च |
नृपालय-गति-ज्ञानं सर्व-लोक-विलोकनम् || ज्ञा. सा. सं_१,११.२२ ||
निर्विघ्नत्वं ददौ तस्मै विघ्न्-राजश् च संसदि |
सुदुर्लभं पाद-पद्म-युग्म-रेणुम् अभीप्सितम् || ज्ञा. सा. सं_१,११.२३ ||
अमूल्यं च निरुपमं ग्रीष्म-सूर्य-प्रभोपमम् |
मणि-राजं सुदीप्तं च त्रिषु लोकेषु दुर्लभम् || ज्ञा. सा. सं_१,११.२४ ||
सर्वत्र विजयं चैव वाञ्च्छितं निर्मलं यशः |
संगीत-विद्या-विज्ञानं तन्-नैपुण्यं मनोहरम् || ज्ञा. सा. सं_१,११.२५ ||
लक्ष-स्वर्णं धनेशश् च दासानां च शतं शतम् |
धर्मः कीर्तिमयीं मालां स्कन्दो धैर्यं ददौ तथा || ज्ञा. सा. सं_१,११.२६ ||
विषय-जीर्णापहरणं ददौ धन्वन्तरिर् मनुम् |
सूर्यः स्यमन्तक-मणिं स्वर्णा-भाराष्टकप्रसुम् || ज्ञा. सा. सं_१,११.२७ ||
चन्द्रः श्वेताश्व-रत्नं च ह्य् अमूल्यम् उत्तमं ददौ |
वह्नि-शुद्धांशुक-युगं ददौ वह्निश् च संसदि || ज्ञा. सा. सं_१,११.२८ ||
उपेन्द्रो रत्न-कोटिं च तद् एवेन्द्रो ददौ पुरा |
वीणा-शिल्पं विश्वकर्मा वरुणश् च मणि-स्रजम् || ज्ञा. सा. सं_१,११.२९ ||
स्मरः शृङ्गार-नैपुण्यं वीर्य-स्तम्भनम् एव च |
काम-सन्दीपनं ज्ञानं कामिनी-प्रेम-मूर्छनम् || ज्ञा. सा. सं_१,११.३० ||
कामिनी-वश-गं शिल्पं रति-तत्त्वं ददौ तथा |
पाप-दाहन-मन्त्रं च रत्न-छत्रं समीरणः || ज्ञा. सा. सं_१,११.३१ ||
यमश् च धर्म-तत्त्वं च नरक-त्राण-कारणम् |
वसवश् च वसून् दिव्यान् रुद्रस् तेभ्यो ऽभयं ददौ || ज्ञा. सा. सं_१,११.३२ ||
मधु-पात्रं सुधा-पात्रं जयन्तो नलकूवरः |
शुक्ल-पुष्पं शुक्ल-धान्यं पाद-रेणुम् अभीप्सितम् || ज्ञा. सा. सं_१,११.३३ ||
मनोभिरां मनुयो ददौ तस्मै शुभाशिषम् |
लक्ष्मीश् च परमैश्वर्यं भारती हारम् उत्तमम् || ज्ञा. सा. सं_१,११.३४ ||
रत्न-मालां ददौ दुर्गा सर्वत्राभयम् ईप्सितम् |
तत्-पत्नीभ्यश् च रत्नानि सिन्दूराभरणानि च || ज्ञा. सा. सं_१,११.३५ ||
क्रीडा-पद्मं रोहिनी च रतिः सद्-रत्न-दर्पणम् |
तुलसी चातुलं माल्यं दिव्यं वसु वसुन्धरा || ज्ञा. सा. सं_१,११.३६ ||
गङ्गा च विपुलं पुण्यं स्वाहा सद्-रत्न-पाशकम् |
यमुना जलजं पद्मम् अम्लानं सार्वकालिकम् || ज्ञा. सा. सं_१,११.३७ ||
वारुणीं वारुणी तुष्टा रत्न-पात्रं शची ददौ |
मनसा प्रददौ तस्मै नागानां मौलि-मण्डनम् || ज्ञा. सा. सं_१,११.३८ ||
गन्धर्वाश् चापि तत्-पत्न्यः स्व-शिल्पं प्रददुस् तथा |
परमानन्द-युक्ताश् च मुनि-पत्न्यः शुभाशिषम् || ज्ञा. सा. सं_१,११.३९ ||

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे
महोत्सव-दर्शनं नाम एकादशो ऽध्यायः


प्रथमैक-रात्रे द्वादशो ऽध्यायः


शुक उवाच
महोत्सवे सुनिष्पन्ने दानस्योत्तर-कालतः |
किं बभूव रहस्यं च तन् मां व्याख्यातुम् अर्हसि || ज्ञा. सा. सं_१,१२.१ ||

श्री-व्यास उवाच
संप्राप्य दानं देवानां गन्धर्वश् चोपवर्हणः |
तेषां च पुरतो भक्त्या विदयाम् आस वै सदा || ज्ञा. सा. सं_१,१२.२ ||
श्रुत्वा तद् वचनं ब्रह्मा तम् उवाच च संसदि |
शम्भुना च समालोच्य ब्रह्मोवाच विधाता जगताम् अपि || ज्ञा. सा. सं_१,१२.३ ||
मथुरा-गमनं चैव कृष्णस्य परमात्मनः |
विलापं गोप-गोपीनां श्रावयास्मांश् च साम्प्रतम् || ज्ञा. सा. सं_१,१२.४| ||
महोत्सवं कुरु पुनः शृण्वन्तु मुनयः सुराः |
गायन्तु ताश् च संगीतं नृत्यन्त्व् अप्सरां गणाः || ज्ञा. सा. सं_१,१२.५ ||
ब्रह्मणश् च वचः श्रुत्वा ननृत्युश् चाप्सरोगणाः |
चक्रुस् ताः सरसं गीतं विद्याधर्यश् च संसदि || ज्ञा. सा. सं_१,१२.६ ||
मायिनां चैव प्रवरो गन्धर्वश् चोपवर्हणः |
जगौ सन्धान-भावेन मथुरा-गमनं हरेः || ज्ञा. सा. सं_१,१२.७ ||
विलापं गोकुल-स्थानां श्रुत्वा विप्राः सुरादयः |
मूर्च्छां प्रापुश् च रुरुदुर् ददुर् दानं पुनः पुनः || ज्ञा. सा. सं_१,१२.८ ||
गोपीनां विरहालापैर् मूर्च्छितश् चोपवर्हणः |
विस्वरेण वितनात् तु ताल-भङ्गो बभूव ह || ज्ञा. सा. सं_१,१२.९ ||
तत् ताल-भङ्गं विज्ञाय देवाश् च मुनयस् तथा |
चुकुपुः सहसा सर्वे निर्गतास् तन् मुखाग्नयः || ज्ञा. सा. सं_१,१२.१० ||
तद् दृष्ट्वा सहसा भीतो गन्धर्वश् चोपवर्हणः |
सस्मार कृष्णं स्वभीष्टं परमात्मानम् ईश्वरम् || ज्ञा. सा. सं_१,१२.११ ||
ददृशुः स्मृति-मात्रेण तत्-तेजो नभसि स्थितम् |
स्तम्भिता देवताः सर्वाशि-चक्र-पुत्तलिका यथा || ज्ञा. सा. सं_१,१२.१२ ||
स्तम्भिता वह्नयः सर्वे मुनयश् च विजृम्भिताः |
हरि-स्मृतिश् चाभयदा शुभदा विघ्न-नाशिनी || ज्ञा. सा. सं_१,१२.१३ ||
ददृशुर् देवताः सर्वाः मुनयश् चापि योषितः |
गन्धर्वाश् च तथैवान्ये तेजो दृश्यं सुख-प्रदम् || ज्ञा. सा. सं_१,१२.१४ ||
परं कुञ्ज्ञटिकाकारं कोटीन्दु-किरण-प्रभम् |
योजनायत-विस्तीर्णं सुस्निग्धं सुमनोहरम् || ज्ञा. सा. सं_१,१२.१५ ||
तत् तेजो ऽभ्यन्तरे सर्वे ददृशू रथम् उत्तमम् |
गव्यूतिमानं विस्तीर्णं धनुष्-कोटि-समुच्छ्रितम् || ज्ञा. सा. सं_१,१२.१६ ||
श्वेताश्वानां च चक्राणां सहस्रेण समावृतम् |
अमूल्य-रत्न-रचितम् ईश्वरेच्छा-विनिर्मितम् || ज्ञा. सा. सं_१,१२.१७ ||
नाना-चित्र-विचित्राढ्यं मनोयायि ममोहरम् |
मुक्तामाणिक्य-परम-हीराहारैर् विराजितम् || ज्ञा. सा. सं_१,१२.१८ ||
रत्न-दर्पण-लक्षैश् च त्रि-लक्षैः श्वेत-चामरैः |
वह्नि-शुद्धांशुकानां च त्रि-लक्षैः परिशोभितम् || ज्ञा. सा. सं_१,१२.१९ ||
त्रि-कोटिभिश् च ज्वलितं क्रीडा-सुन्दर-मन्दिरैः |
पारिजात-प्रसूनानां मन्दराणां मनोहरैः || ज्ञा. सा. सं_१,१२.२० ||
मालाजालैस् त्रि-लक्षैश् च मालतीनां च मण्डितम् |
एवंभूतं रथं दृष्ट्वा ददृशुस् ते तद्-अनन्तरे || ज्ञा. सा. सं_१,१२.२१ ||
मध्य-कोष्ठाभ्यन्तरे च किशोरं श्याम-सुन्दरम् |
वह्नि-शुद्धांशुकेनैव पीत-वर्णेन शोभितम् || ज्ञा. सा. सं_१,१२.२२ ||
रत्न-केयूर-वलय-रत्न-मञ्जीर-रञ्जितम् |
रत्न-कुण्डल-युग्मेन गण्ड-स्थल-समुज्ज्वलम् || ज्ञा. सा. सं_१,१२.|२३ ||
ईषद्धास्य-प्रसन्नास्यं नित्योपास्यं सुरासुरैः |
चन्दनोक्षित-सर्वाङ्गं मालती-माल्य-मण्डितम् || ज्ञा. सा. सं_१,१२.२४ ||
मणिना कौस्तुभेन्द्रेण गण्ड-स्थल-विभूषितम् |
परं प्रधानं परमं परमात्मानम् ईश्वरम् || ज्ञा. सा. सं_१,१२.२५ ||
स्तुतं ब्रह्मेश-शेषैश् च राधा-वक्षः स्थल-स्थितम् |
वेदानिर्वचनीयं च स्वेच्छामयम् अनीश्वरम् || ज्ञा. सा. सं_१,१२.२६ ||
नित्यं नित्यं निर्गुणं च ज्योति-रूपं सनातनम् |
प्रकृतेः परम् ईशानं भक्तानुग्रहकातरम् || ज्ञा. सा. सं_१,१२.२७ ||
कोटि-कन्दर्प-लावण्य-लीला-धाम-मनोहरम् |
मयूर-पुच्छ-चूडं च वरं वंशी-धरं परं || ज्ञा. सा. सं_१,१२.२८ ||
दृष्ट्वा तम् अद्भुतं रूपं तुष्टाव कमलोद्भवः |
गणेशः शेषः शम्भुश् च तद्-अन्ये मुनयः सुराः || ज्ञा. सा. सं_१,१२.२९ ||

ब्रह्मोवाच
परं ब्रह्म परं धाम परमात्मानम् ईश्वरम् |
वन्दे वन्द्यं च सर्वेषां सर्व-कारण-कारणम् || ज्ञा. सा. सं_१,१२.३० ||
सर्वेश्वरं सर्व-रूपं सर्वाद्यं सद्भिर् ईडितम् |
वेदावेद्यं च विद्वद्भिर् न दृष्टं स्वप्न-गोचरे || ज्ञा. सा. सं_१,१२.३१ ||

श्री-महादेव उवाच
सिद्ध-स्वरूपं सिद्धाद्यं सिद्ध-बीजं सनातनम् |
प्रसिद्धं सिद्धिदं शान्तं सिद्धानां च गुरोर् गुरुम् || ज्ञा. सा. सं_१,१२.३२ ||
वन्दे वन्द्यं च महतां परात् परतरं विभुम् |
स्वात्मा-रामं पूर्ण-कामं भक्तानुग्रहकातरम् || ज्ञा. सा. सं_१,१२.३३ ||
भक्ति-प्रियं च भक्तेशं स्व-भक्ति-दास्यदं परम् |
स्व-पद-प्रदम् एकं च दातारं सर्व-सम्पदाम् || ज्ञा. सा. सं_१,१२.३४ ||

अनन्त उवाच
वक्त्राणां च सहस्रेण किं वा स्तौमि श्रुति-श्रुतम् |
कोटिभिः कोटिभिर् वक्त्रैः को वा स्तोतुं क्षमः प्रभो || ज्ञा. सा. सं_१,१२.३५ ||
किम् उ स्तोष्यति शम्भुश् च पञ्च-वक्त्रेण वाञ्च्छितम् |
कर्ता चतुर्णां वेदानां किं स्तोष्यति चतुर्-मुखः || ज्ञा. सा. सं_१,१२.३६ ||
षड्-वक्त्रो गज-वक्त्रश् च देवाश् च मुनयो ऽपि वा |
वेदा वा किं वेद-विदः स्तुवन्ति प्रकृतेः परम् || ज्ञा. सा. सं_१,१२.३७ ||
वेदानिर्वचनीयं च वेदा निर्वक्तुम् अक्षमाः |
वेद-विज्ञात-वाक्येन विद्वांसः किं स्तुवन्ति तम् || ज्ञा. सा. सं_१,१२.३८ ||
श्री-गणेश उवाच
मूर्खो वदति विष्णाय बुधो वदति विष्णवे |
नम इत्य् एवम् अर्थम् च द्वयोर् एव समं फलम् || ज्ञा. सा. सं_१,१२.३९ ||
यस्मै दत्तं च यज् ज्ञानं ज्ञान-दाता हरिः स्वयम् |
ज्ञानेन तेन स स्तौति भाव-ग्राही जनार्दनः || ज्ञा. सा. सं_१,१२.४० ||
एक-वक्त्रो ऽनेक-वक्त्रो मूर्खो विद्वान् स्व-कर्मणा |
अधनी च धनी वापि सपुत्रो वाप्य् अपुत्रकः || ज्ञा. सा. सं_१,१२.४१ ||
कर्मणा परम् ईशं च स्तोतुं को वाप्य् अनुत्तमम् |
यथा-शक्ति स्तुतिः पूजा वन्दनं स्मरणं हरेः || ज्ञा. सा. सं_१,१२.४२ ||
संकीर्तनं च भजनं जपनं बुद्ध्य्-अनुक्रमम् |
कुर्वन्ति सन्तो ऽसन्तश् च सन्ततं परमात्मनः || ज्ञा. सा. सं_१,१२.४३ ||

कार्तिकेय उवाच
सर्वान्तरात्मा भगवान् ज्ञानं च सर्व-जीविनां |
ज्ञानानुरूपं स्तवनं सन्तो नैव हसन्ति तम् || ज्ञा. सा. सं_१,१२.४४ ||
भवेषु त्रि-विधो लोको ऽप्य् उत्तमो मध्यमो ऽधमः |
सर्वे स्व-कर्म-वश-गा निषेकः केन वार्यते || ज्ञा. सा. सं_१,१२.४५ ||
सर्वेश्वरं च संवीक्ष्य सर्वो वदति मत्-प्रभुम् |
मद्-ईश्वरस्य समता सर्वेषु किंकरेषु च || ज्ञा. सा. सं_१,१२.४६ ||
भजन्ति केचित् शुद्धान्तं परमात्मानम् ईश्वरम् |
केचित् तद्-अंशांशं प्राप्नुवन्ति क्रमेण तम् || ज्ञा. सा. सं_१,१२.४७ ||

धर्म उवाच
अहं साक्षी च सर्वेषां विधिना निर्मितः पुरा |
विधातुश् च विधाता त्वं सर्वेश्वरं नमो ऽस्तु ते || ज्ञा. सा. सं_१,१२.४८ ||

देवा ऊचुः
यं स्तोतुम् असमर्थश् च सहस्रायुः स्वयं विधिः |
ज्ञानाधिदेवः शम्भुश् च तं स्तोतुं किं वयं क्षमाः || ज्ञा. सा. सं_१,१२.४९ ||

वेदा ऊचुः
किं जानीमो वयं के वाप्य् अनन्तेशस्य यो गुणः |
वयं वेदाश् त्वम् अस्माकं कारणस्यापि कारकः || ज्ञा. सा. सं_१,१२.५० ||

मुनयः ऊचुः
यदि वेदा न जानन्ति माहात्म्यं परमात्मनः |
न जानीमस् तव गुणं वेदानुसारिणो वयम् || ज्ञा. सा. सं_१,१२.५१ ||

सरस्वत्य् उवाच
विद्याधिदेवताहं च वेदा विद्याधिदेवकाः |
वेदाधिदेवो धाता च तद्-ईशं स्तौमि किं प्रभो || ज्ञा. सा. सं_१,१२.५२ ||

पद्मोवाच
यत् पाद-पद्मं पद्मेशः शेषाश् चान्ये सुरास् तथा |
ध्यायन्ते मुनयो देवा ध्याये तं प्रकृतेः परम् || ज्ञा. सा. सं_१,१२.५३ ||

सावित्र्य् उवाच
सावित्री वेद-माताहं वेदानां जनको विधिः |
त्वाम् एव धत्ते धातरं नमामि त्रि-गुणात् परम् || ज्ञा. सा. सं_१,१२.५४ ||

श्री-पार्वत्य् उवाच
तव वक्षसि राधाहं रासे वृन्दावने वने |
महा-लक्ष्मीश् च वैकुण्ठे पाद-पद्मार्चने रता || ज्ञा. सा. सं_१,१२.५५ ||
श्वेत-द्वीपे सिन्धु-कन्या विष्णोर् उरसि भू-तले |
ब्रह्म-लोके च ब्रह्माणी वेद-माता च भारती || ज्ञा. सा. सं_१,१२.५६ ||
तवाज्ञया च देवानाम् अविर्भूता च तेजसि |
निहत्य दैत्यान् देवारीन् दत्वा राज्यं सुराय च || ज्ञा. सा. सं_१,१२.५७ ||
तत्-पश्चाद् दक्ष-कन्याहम् अधुना पार्वती हरे |
तवाज्ञया हर-क्रोडे त्वद्-भक्ता प्रति-जन्मनि || ज्ञा. सा. सं_१,१२.५८ ||
नारायण-प्रिया शश्वत् तेन नारायणी श्रुतौ |
विष्णोर् अहं परा-शक्तिर् विष्णु-माया च वैष्णवी || ज्ञा. सा. सं_१,१२.५९ ||
अनन्त-कोटि ब्रह्माण्डं मया सम्मोहितं सदा |
विदुषां रसनाग्रे च प्रत्यक्षं हि सरस्वती || ज्ञा. सा. सं_१,१२.६० ||
महा-विष्णोश् च माताहं विश्वानि यस्य लोमसु |
रामेश्वरी च सर्वाद्या सर्व-शक्ति-स्वरूपिणी || ज्ञा. सा. सं_१,१२.६१ ||
तद्-रासे धारणाद् राधा विद्वद्भिः परिकीर्तिता |
परमानन्द-पादाब्जं वन्दे सानन्द-पूर्वकम् || ज्ञा. सा. सं_१,१२.६२ ||
यत्-पाद-पद्मं ध्यायन्ते परमानन्द-कारणम् |
पाद-पद्मेश-शेषाद्या मुनयो मनवः सुराः || ज्ञा. सा. सं_१,१२.६३ ||
योगिनः सन्ततं सन्तः सिद्धाश् च वैष्णवास् तथा |
अनुग्रहं कुरु विभो बुद्धि-शक्तिर् अहं तव || ज्ञा. सा. सं_१,१२.६४ ||

इति संवृतं स्तोत्रं यः पठेत् संयतः शुचिः |
इहैव च सुखं भुङ्क्ते यात्य् अन्ते श्री-हरेः पदम् || ज्ञा. सा. सं_१,१२.६५ ||
निवृत्तेषु च वेदेषु देवीषु मुनि-पुङ्गवे |
उपवर्हण-गन्धर्वः स्तुतिं कर्तुं समुद्यतः || ज्ञा. सा. सं_१,१२.६६ ||

अथ गन्धर्व-कृत-स्तोत्रम्

गन्धर्व उवाच
वन्दे नव-घन-श्यामं पीत-कौशेय-वाससम् |
सानन्दं सुन्दरं शुद्धं श्री-कृष्णं प्रकृतेः परम् || ज्ञा. सा. सं_१,१२.६७ ||
राधेशं राधिका-प्राण-वल्लभं वल्लवी-सुतम् |
राधा-सेवित-पादाब्जं राधा-वक्षः-स्थल-स्थितम् || ज्ञा. सा. सं_१,१२.६८ ||
राधानुरागं राधिकेष्टं राधापहृत-मानसम् |
राधाधरं भवाधारं सर्वाधारं नमामि तम् || ज्ञा. सा. सं_१,१२.६९ ||
राधा-हृत्-पद्म-मध्ये च वसन्तं सन्ततं शुभम् |
राधा-सह-चरं शश्वत् राधाज्ञा-परि-पालकम् || ज्ञा. सा. सं_१,१२.७० ||
ध्यायन्ते योगिनो योगात् सिद्धाः सिद्धेश्वराश् च यम् |
तं ध्याये सततं शुद्धं भगवन्तं सनातनम् || ज्ञा. सा. सं_१,१२.७१ ||
सेवन्ते सन्ततं सन्तो ब्रह्मेश-शेष-संज्ञकाः |
सेवन्ते निर्गुणं ब्रह्म भगवन्तं सनातनम् || ज्ञा. सा. सं_१,१२.७२ ||
निर्लिप्तं च निरीहं च परमात्मानम् ईश्वरम् |
नित्यं सत्यं च परं भगवन्तं सनातनम् || ज्ञा. सा. सं_१,१२.७३ ||
यं सृष्टेर् आदि-भूतं च सर्व-बीजं परात् परम् |
योगिनस् तं प्रपद्यन्ते भगवन्तं सनातनम् || ज्ञा. सा. सं_१,१२.७४ ||
बीजं नानावताराणां सर्व-कारण-कारणम् |
वेदावेद्यं वेद-बीजं वेद-कारण-कारणम् || ज्ञा. सा. सं_१,१२.७५ ||
योगिनस् तं प्रपद्यन्ते भगवन्तं सनातनम् |

इत्य् एवम् उक्त्वा गन्धर्वः पपात धरणी-तले || ज्ञा. सा. सं_१,१२.७६ ||
ननाम दण्डवद् भूमौ देव-देवं परात् परम् |
इति तेन कृतं स्तोत्रं यः पठेत् प्रयतः शुचिः || ज्ञा. सा. सं_१,१२.७७ ||
इहैव जीवन्-मुक्तश् च परे याति परां गतिम् |
हरि-भक्तिं हरेर् दास्यं गोलोके च निरामयः |
पार्षद-प्रवरत्वं च लभते नात्र संशयः || ज्ञा. सा. सं_१,१२.७८ ||

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे
गन्धर्व-कृत-स्तोत्रं नाम द्वादशो ऽध्यायः


प्रथमैक-रात्रे त्रयोदशो ऽध्यायः

श्री-शुक उवाच
स्तोत्रान्तरे च काले च किं रहस्यं बभूव ह |
तन् मे कथय भद्रं ते भगवन् भगवद्-वचः || ज्ञा. सा. सं_१,१३.१ ||

श्री-व्यास उवाच
स्तोत्रान्तरे च काले च गन्धर्वश् चोपवर्हणः |
उवाच ब्रह्म-संसदि भगवन्तं सनातनम् || ज्ञा. सा. सं_१,१३.२ ||

सर्वैर् देवैर् अहं शप्तश् चाधुना देव-हेतुना |
देवानाम् अग्नि-पुञ्जश् च प्रदीप्तश् च सुमेरुवत् || ज्ञा. सा. सं_१,१३.३ ||
अधुना च त्वयि गते भस्मासान् मां करिष्यति |
अतो रक्ष जगन्नाथ मां समुद्धर्तुम् अर्हसि || ज्ञा. सा. सं_१,१३.४ ||
त्वद्-अंश-शूकरेणैव धरोद्धारः कृतः पुरा |
हिरण्याख्यं महा-दैत्यं निहत्य चावलीलया || ज्ञा. सा. सं_१,१३.५ ||
पाद्म-पद्मार्चित-पदे पद्मे ते शरणागतम् |
माम् अनाथं भयाक्रान्तं रक्ष रक्ष सुरानलात् || ज्ञा. सा. सं_१,१३.६ ||

गन्धर्वस्य वचः श्रुत्वा प्रहस्य जगद्-ईश्वरः |
उवाच श्लक्ष्णया वाचा ब्रह्मेशो ब्रह्म-संसदि || ज्ञा. सा. सं_१,१३.७ ||

अथ गन्धर्व-मोक्षणम्

श्री-भगवान् उवाच
गन्धर्व-राज-प्रवर स्थिरो भव भयं त्यज |
शुभाश्रयस्य भक्तस्य भयं किं ते मयि स्थिते || ज्ञा. सा. सं_१,१३.८ ||
सर्वेभ्यो ऽपि भयं नास्ति मद्-भक्तानाम् अकर्मणाम् |
जन्म-मृत्यु-जरा-व्याधि-भयं तेषां न विद्यते || ज्ञा. सा. सं_१,१३.९ ||
मन्-मन्त्रोपासकश् चैव स्वतन्त्रो नित्य-विग्रहः |
पुनर् न विद्यते जन्म मन्त्र-ग्रहण-मात्रतः || ज्ञा. सा. सं_१,१३.१० ||
नास्ति कालाद् भयं तस्य न निषेकाद् विधेर् अपि |
मन्त्र-ग्रहण-मात्रेण मुच्यते सर्व-कर्मणः || ज्ञा. सा. सं_१,१३.११ ||
मन्-मन्त्रो हि देहात् पापं कोटि-जन्म-कृतं च यत् |
सुदीप्तो ज्वलद्-अग्निश् च तृण-पुञ्जं देहाद् यथा || ज्ञा. सा. सं_१,१३.१२ ||
मन्-मन्त्र-ग्रहणाद् योगान् मन्-नाम-ग्रहणस्य वा |
तेषां पापानि वेपन्ते कोटि-जन्म-कृतानि च || ज्ञा. सा. सं_१,१३.१३ ||
यमस् तन्-नाम-लिखनं दूरी-भूतं करोति च |
अन्ते दास्यं च लभते गत्वा गोलोकम् उत्तमम् || ज्ञा. सा. सं_१,१३.१४ ||
यावद् आयुर् भ्रमेत् तावत् स्वतन्त्रो मत्त-कुञ्जरः |
ततः पापाः फलायन्ते वैनतेयाद् इवोरगाः || ज्ञा. सा. सं_१,१३.१५ ||
तेषां च पाद-रजसा सद्यः पूता वसुन्धरा |
पुनाति सर्व-तीर्थानि दूरतो दर्शनाद् अपि || ज्ञा. सा. सं_१,१३.१६ ||
पूतश् च पवनो वह्निर् जलं च तुलसी-दलम् |
पूतान्य् एव हि तीर्थानि गङ्गादीनि च गायन || ज्ञा. सा. सं_१,१३.१७ ||
पूता सुशीला धर्मिष्ठा सुव्रता स्त्री पति-व्रता |
मन्-मन्त्रोपासकाश् चैव तेभ्यः पूतोत्तमाः सदा || ज्ञा. सा. सं_१,१३.१८ ||
मन्त्रोपासकानां च तीर्थ-स्थानं व्रतं सुत |
श्राद्धं दानं पूजनं च यथा चर्वित-चर्वणम् || ज्ञा. सा. सं_१,१३.१९ ||
भक्त्या तीर्थानि पूतानि स्वतः पूतो हि वैष्णवः |
तत् तन्त्रं च तथा दान-मलं श्राद्धं च निष्फलम् || ज्ञा. सा. सं_१,१३.२० ||
श्राद्धस्य सम्प्रदानं च कर्तुश् च पुरुष-त्रयम् |
पुरुषाणां शतं मुक्तं को भुङ्क्ते श्राद्ध-वस्तु च || ज्ञा. सा. सं_१,१३.२१ ||
केचिद् एवं वदन्तीति पितृ-लोकार्थम् एव च |
तद्-विरुद्धं च ते तुष्टा मन्त्र-ग्रहण-मात्रतः || ज्ञा. सा. सं_१,१३.२२ ||
तेषां शुभाशिषं कर्म नैव भोगाय कल्पते |
देवान् न प्रभवेद् वत्स सिद्ध-धान्ये यथाङ्कुरः || ज्ञा. सा. सं_१,१३.२३ ||
साक्षात् करोति तेषां च कर्म-मूल-निकृन्तनम् |
मन्त्रोपासकाद् अन्ये कर्म-भोगं च भुञ्जते || ज्ञा. सा. सं_१,१३.२४ ||
मया स्वयं प्रदत्तश् च स्व-मन्त्रः पुरुषाय च |
पर-द्वाराद् ग्राहयित्वा भक्तं मुक्तं करोम्य् अहम् || ज्ञा. सा. सं_१,१३.२५ ||
मया प्रदत्त-मन्त्रश् च पुरा मृत्युञ्जयस् तथा |
मृत्युञ्जयाय गोलोके शुद्ध-सत्त्व-गुणाय च || ज्ञा. सा. सं_१,१३.२६ ||
पुनः सनत्-कुमाराय धर्माय ब्रह्मणे तथा |
कपिलाय च शेषाय गणेशाय च महा-मते || ज्ञा. सा. सं_१,१३.२७ ||
नारायणर्षये चैव धर्म-पुत्राय धीमते |
पुनर् महा-विष्णवे च विश्वानि यस्य लोमसु || ज्ञा. सा. सं_१,१३.२८ ||
कालाधिष्ठातृ-देवाय तस्मै सर्वान्तकाय च |
उपेन्द्राय च कामाय भृगवे ऽङ्गिरसे तथा || ज्ञा. सा. सं_१,१३.२९ ||
सरस्वत्यै च पद्मायै राधायै विरजा-तटे |
शवित्र्यै विष्णु-मायायै पार्षदेभ्यश् च पुत्रक || ज्ञा. सा. सं_१,१३.३० ||
तुभ्यं न दत्तो मन्त्रो ऽत्र श्रूयतां तन् निमित्तकम् |
जनिष्यसि शूद्र-योनौ ब्रह्मणो वाक्य-पालनात् || ज्ञा. सा. सं_१,१३.३१ ||
इत्य् एवं कथितं सर्वं गच्छ वत्स यथा सुखम् |
द्वादशाब्दान्तरे शूद्र-योनौ देवाज् जनिष्यसि || ज्ञा. सा. सं_१,१३.३२ ||
पञ्च-वर्षाभ्यन्तरे च मन्-मन्त्रं प्राप्य विप्रतः |
दशाब्दान्ते वपुस् त्यक्त्वा ब्रह्म-पुत्रो भविष्यसि || ज्ञा. सा. सं_१,१३.३३ ||
मन्-मन्त्रं पुनर् एवेति शम्भु-वक्त्राल् लभिष्यसि |

इत्य् एवम् उक्त्वा सर्वात्मा तत्रैवान्तरधीयत || ज्ञा. सा. सं_१,१३.३४ ||
गन्धर्वः प्रययौ तस्माद् योषिद्भिः सह पुत्रक |
इत्य् एवं कथितं सर्वं पूर्व-वृत्तान्तम् एव च || ज्ञा. सा. सं_१,१३.३५ ||

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे
गन्धर्व-मोक्षणं नाम त्रयोदशो ऽध्यायः


प्रथमैक-रात्रे चतुर्दशो ऽध्यायः


श्री-शुक उवाच
प्रयाते राधिका-नाथे गोलोकं च निरामयम् |
बभूव किं रहस्यं च गते गन्धर्व-पुङ्गवे || ज्ञा. सा. सं_१,१४.१ ||

श्री-व्यास उवाच
सर्वे देवाश् च मुनयः प्रयाते परमात्मनि |
सर्वे बभूवुस् ते तूष्णीं वयांसीव दिनात्यये || ज्ञा. सा. सं_१,१४.२ ||
उवाच शम्भुर् ब्रह्माणं नीति-सार-विशारदम् |
ज्ञानाधिदेवो भगवान् परिणाम-सुखं वचः || ज्ञा. सा. सं_१,१४.३ ||

श्री-महा-देव उवाच
रक्षिता यस्य भगवान् कल्याणं तस्य सन्ततम् |
स यस्य विघ्न-कर्ता च रक्षितुं तं च कः क्षमः || ज्ञा. सा. सं_१,१४.४ ||
स्मृति-मात्रेण निर्विघ्ना ये च कृष्ण-परायणः |
विघ्नं कर्तुं के समर्थास् तेषां च मुनयः सुराः || ज्ञा. सा. सं_१,१४.५ ||
कोपाग्निनां स्थलं कुत्र स्तम्भितानां च साम्प्रतम् |
देवानां च मुनीनां च क्षणेनैवेश्वरेच्छया || ज्ञा. सा. सं_१,१४.६ ||
यदि तिष्ठन्ति भूमौ च दग्ध-शस्या वसुन्धरा |
जले यदि ततस् तप्तं नष्ठास्ते जल-जन्तवः || ज्ञा. सा. सं_१,१४.७ ||
स्थाले दहन्ति लोकांश् च वृक्षांश् च प्रलयाग्नयः |
विधानं कर्तुम् उचितम् एषां च जगतां विधे || ज्ञा. सा. सं_१,१४.८ ||
त्वम् एव धाता जगतां पिता च विष्णुर् ईश्वरः |
कालाग्नि-रुद्रः संहर्ता नेदानी प्रलय-क्षमः || ज्ञा. सा. सं_१,१४.९ ||
एते विषयिणः सर्वे कृष्णस्य परमात्मनः |
आज्ञावहाश् च सततं दिक्-पालाश् च दिग्-ईश्वराः || ज्ञा. सा. सं_१,१४.१० ||
तस्यैवाज्ञावहो धर्मः साक्षी च कर्मणां नृणाम् |
भ्रमन्ति विषये शश्वन् मोहिता मायया हरेः || ज्ञा. सा. सं_१,१४.११ ||
अहं न पाता न स्रष्टा न संहर्ता च जीवनाम् |
निर्लिप्तो ऽ हं तपस्वी च हरेर् आराधनोन्मुखः || ज्ञा. सा. सं_१,१४.१२ ||
संहार-विषयं मह्यं श्री-कृष्णश् च पुरा ददौ |
दत्वा रुद्राय तद् अहं तपस्यासु रतो हरेः || ज्ञा. सा. सं_१,१४.१३ ||
तद्-अर्चनेन ध्यानेन तपसा पूजनेन च |
स्तवेन कवचनेनैव नाम-मन्त्र-जपेन च || ज्ञा. सा. सं_१,१४.१४ ||
मृत्युञ्जयो ऽ हं अधुना न च कालाद् भयं मम |
कालः संहरते सर्वं मां विना च तथेश्वरम् || ज्ञा. सा. सं_१,१४.१५ ||
पुरा सर्वादि-सर्गे च कस्यचित् स्रष्टुर् एव च |
भालोद्भवाश् च ते रुद्रास् तेष्व् एको ऽ हं शङ्करः || ज्ञा. सा. सं_१,१४.१६ ||
कल्पश् च ब्रह्मणः पाते लये प्राकृतिके तथा |
सर्वे नष्टा विषयिणो न भक्ताश् च यथेश्वरः || ज्ञा. सा. सं_१,१४.१७ ||
असंख्य-ब्रह्मणः पातः कल्पश् चासंख्य एव च |
समतीतः कति-विधो भविता या पुनः पुनः || ज्ञा. सा. सं_१,१४.१८ ||
श्री-कृष्णस्य निमेषेण ब्रह्मणः पतनं भवेत् |
तत्र प्राकृतिकाः सर्वे तिरो-भूताः पुनः पुनः || ज्ञा. सा. सं_१,१४.१९ ||
न प्राकृतो न विषयी नित्य-देही च वैष्णवः |
हरेर् वरेणामरो ऽहं शिवाधारस् ततस् ततः || ज्ञा. सा. सं_१,१४.२० ||
जल-प्लुतं च विश्वौघं लये प्राकृतिके ध्रुवम् |
आब्रह्म-लोक-पर्यन्तं परं कृष्णालयं विना || ज्ञा. सा. सं_१,१४.२१ ||
सर्वा देव्यो विलीनाश् च कृष्णः सत्यं सुनिश्चितम् |
सर्वे पुमांसो लीनाश् च सत्ये नित्ये सनातने || ज्ञा. सा. सं_१,१४.२२ ||
अहं कृष्णश् च प्रकृतिः पार्षद-प्रवरो हरेः |
नित्यं नित्या विद्यमाना गोलोके च निरामये || ज्ञा. सा. सं_१,१४.२३ ||
एक ईशो न द्वितीय इति सर्वादि-सर्गतः |
नहि नश्यन्ति तद्-भक्ताः प्रकृति-प्राकृते लये || ज्ञा. सा. सं_१,१४.२४ ||
तस्य भक्तोत्तमानां च सततं स्मरणेन च |
आयुर्-व्ययो नहि भवेत् कथं मृत्युर् भविष्यति || ज्ञा. सा. सं_१,१४.२५ ||
न वासुदेव-भक्तानाम् अशुभं विद्यते क्वचित् |
तेषां भक्तोत्तमानां च सततं स्मरणेन च || ज्ञा. सा. सं_१,१४.२६ ||
जन्म-मृत्यु-जरा-व्याधि-भयं नाप्य् उपजायते |
अत्र कल्पे भवान् ब्रह्मा व्यवस्थाता च कर्मसु || ज्ञा. सा. सं_१,१४.२७ ||
स्थलं कोपानलानां च विधानं यद् विधे कुरु |
शम्भोश् च वचनं श्रुत्वा कम्पितः कमलासनः |
स्थलं चकार वह्नीनाम् आज्ञया शङ्करस्य च || ज्ञा. सा. सं_१,१४.२८ ||

ब्रह्मोवच
ज्वरस् त्रि-पादस् त्रि-शिराः षड्-भुजो नव-लोचनः |
भस्म-प्रहरणो रौद्रः कालान्तकयमोपमः || ज्ञा. सा. सं_१,१४.२९ ||
भवे भवतु सर्वत्र भव-कोपानलो ऽधुना |
प्राकृतेषु च देहेषु व्यापारो ऽस्य मया कृतः || ज्ञा. सा. सं_१,१४.३० ||
मम कोपानलः शम्भो संस्कृताग्निर् द्विजस्य च |
भवे भवतु सर्वत्र व्यापारो ऽस्य मया कृतः || ज्ञा. सा. सं_१,१४.३१ ||
शेषस्य कोप-वह्निश् च शेषास्ये ऽस्त्व् अधुना शिव |
यतो विश्वं च प्रलये दहेद् गोमय-पिण्डवत् || ज्ञा. सा. सं_१,१४.३२ ||
वह्नेर् मुख्यानलो विश्वे व्यवहाराग्निर् ईश्वरः |
भ्वत्व् एव हि सर्वत्र सर्वेषाम् उपकारकः || ज्ञा. सा. सं_१,१४.३३ ||
धर्मास्य-कोप-वह्निश् च कृष्णाग्निश् च भवत्व् अयम् |
अधर्मं कुर्वतां सर्वं दाहनं च करिष्यति || ज्ञा. सा. सं_१,१४.३४ ||
सूर्य-कोपानलश् चायं दावाग्निश् च वनेषु च |
स्थितिर् अस्य तरोः स्कन्धे तद्-भक्ष्याः पशु-पक्षिणः || ज्ञा. सा. सं_१,१४.३५ ||
चन्द्र-कोपानलो विश्वे कामिनां विरहानलः |
दम्पत्योर् विरहे शश्वद् भक्ष्यति स्म द्वयोस् तनुम् || ज्ञा. सा. सं_१,१४.३६ ||
इन्द्र-कोपानलः सद्यो वज्राग्निश् च बभूव ह |
उपेन्द्रस्यानलश् चैव विद्युद् एव भ्वत्व् अयम् || ज्ञा. सा. सं_१,१४.३७ ||
रुद्राणाम् आस्य-वह्निश् च महोल्काग्निर् भवत्व् अयम् |
गणेशाग्निः पृथिव्यां तु यथास्थाने तु तिष्ठति || ज्ञा. सा. सं_१,१४.३८ ||
यत्र तिष्ठेत् तद् उषरम् एवम् एवं विदुर् बुधाः |
स्कन्द-कोपानलश् चैव रणास्त्राग्निर् बभूव ह || ज्ञा. सा. सं_१,१४.३९ ||
कामेतराणां देवानां मुनीनां च मुखानलः |
जग्राहौर्व-मुनिस् तत्र तेजसि ब्रह्मणः सुतः || ज्ञा. सा. सं_१,१४.४० ||
स्व-दक्षिणोरौ स मुनिः संस्थाप्य वेद-मन्त्रतः |
ब्रह्मणं च नमस्-कृत्य शङ्करं तपसे ययौ || ज्ञा. सा. सं_१,१४.४१ ||
कालेन तस्मान् निःसृत्य समुद्रे वाडवानलः |
स बभूव पुरा पुत्र परमौर्वानलः स्वयम् || ज्ञा. सा. सं_१,१४.४२ ||
कामाग्निम् उल्वणं दृष्ट्वा विचिन्त्य मनसा विधिः |
समालोच्य सुरैः सार्धं मुनीन्द्रैः सह संसदि || ज्ञा. सा. सं_१,१४.४३ ||
अजुहाव स्त्रियः सर्वाः सुव्रताश् च पति-व्रताः |
आयुयुर् योषितः सर्वास् ता ऊचुः कमलोद्भवम् || ज्ञा. सा. सं_१,१४.४४ ||

स्त्रिय ऊचुः
किम् अस्मान् ब्रूहि भगवन् शाधि नः करवाम किम् |
आलोच्य मनसा सर्वं देहि भारं वयं स्त्रियः || ज्ञा. सा. सं_१,१४.४५ ||

ब्रह्मोवाच
गृहीत्वा मदनाग्निं च मैथुने सुख-दायकम् |
विश्वे च योषितः सर्वाः शश्वत्-कामा भवन्तु च || ज्ञा. सा. सं_१,१४.४६ ||
ब्रह्मणश् च वचः श्रुत्वा कोप-रक्तास्य-लोचनः |
तम् ऊचुः योषितः सर्वा भयं त्यक्त्वा च संसदि || ज्ञा. सा. सं_१,१४.४७ ||

स्त्रिय ऊचुः
धिक् त्वां जगद्-विधिं व्यर्थं चकार परमेश्वरः |
अपूज्यो मोहिनी-शापात् पुत्र-शापेन साम्प्रतम् || ज्ञा. सा. सं_१,१४.४८ ||
गृहीत्वा मदनाग्निं च पुरुषाश् च तथा स्त्रियः |
नित्यं दहन्ति सततं वास्तवं दुःसहं परम् || ज्ञा. सा. सं_१,१४.४९ ||
तद्-एक-भागः पुरुषे त्रि-भागश् चापि योषिति |
तेन दुग्धाः स्त्रियः सर्वाश् चास्माकम् अपरेण किम् || ज्ञा. सा. सं_१,१४.५० ||
समर्पणं चेत् पुरुषे यद् यस्मासु स्मरानलः |
भस्मी-भूतं करिष्यामो रक्षिता को भवेत् तव || ज्ञा. सा. सं_१,१४.५१ ||

पति-व्रता-वचः श्रुत्वा तम् उवाच शिवः स्वयम् |
हितं सत्यं निति-सारं परिणाम-सुखावहम् || ज्ञा. सा. सं_१,१४.५२ ||

अथ कुलटोत्पत्तिः

श्री-महा-देव उवाच
त्यज द्वन्द्वं महा-भाग सुव्रताभिः सहाधुना |
पति-व्रतानां तेजश् च सर्वेभ्यश् च परं भवेत् || ज्ञा. सा. सं_१,१४.५३ ||
निर्माणं कुरु देवेन्द्र कृत्यां स्त्री-जातिम् ईश्वर |
तस्यै देहि दुःख-बीजं काम-कोपानलं परम् || ज्ञा. सा. सं_१,१४.५४ ||

शङ्करस्य वचः श्रुत्वा सत्वरं जगतां विधिः |
ससृजे तत्-क्षणं मूर्तिं स्त्री-रूपां सुमनोहरां || ज्ञा. सा. सं_१,१४.५५ ||
अहो रूपम् अहो वेशम् अहो अस्या नवं वयः |
अहो चक्षुः कटाक्षं च मुनीनां मोहयन् मनः || ज्ञा. सा. सं_१,१४.५६ ||
अहो कठिनं चारु स्तन-युग्मं सुवर्तुलम् |
विचित्रं कठिनं स्थूलं श्रोणि-युग्मं च सुन्दरम् || ज्ञा. सा. सं_१,१४.५७ ||
नितम्ब-युग्मं वलितं चक्राकारं सुकोमलम् |
श्वेत-चम्पक-वर्णाभं सर्वावयम् ईप्सितम् || ज्ञा. सा. सं_१,१४.५८ ||
शरत्-पार्वण-कोटीन्दु-विनिन्दास्यं सुशोभनम् |
ईषद्धास्य-प्रसन्नास्यं वस्त्रेणाच्छादितं मुदा || ज्ञा. सा. सं_१,१४.५९ ||
वपुः सुकोमलम् चालं नाति-दीर्घं न वखरम् |
वह्नि-शुद्धांशुकं रत्न-भूषणैर् भूषितं सदा || ज्ञा. सा. सं_१,१४.६० ||
दाडिम्ब-कुमुदाकारं सान्द्रं सिन्दूर-सुन्दरम् |
कस्तूरी-विन्दुना सार्धं स्निग्ध-चन्दन-विन्दुभिः || ज्ञा. सा. सं_१,१४.६१ ||
पक्व-बिम्ब-फलाकारम् अध-रौष्ठ-पुटं परम् |
दन्त-पंक्ति-युगं चैव दाडिम्ब-बीज-सन्निभम् || ज्ञा. सा. सं_१,१४.६२ ||
सुचारु कवरी-भारं मालती-माल्य-मण्डितम् |
तस्यै ददौ च कामाग्निं दृष्ट्वा तां कमलोद्भवः || ज्ञा. सा. सं_१,१४.६३ ||
दृष्ट्वा सा चन्द्र-रूपं च कामोन्मत्ता विचेतना |
कृत्वा कटाक्षं स्मेराश्या मां भजस्वेत्य् उवाच सा || ज्ञा. सा. सं_१,१४.६४ ||
सस्पितः प्रययौ चन्द्रो लज्जया च सभा-तलात् |
कामं दृष्ट्वा च चकमे कामार्ता सा गत-त्रपा || ज्ञा. सा. सं_१,१४.६५ ||
दुद्राव कामस् तस्माच् च तत्-पश्चात् सा दधाव च |
जहसुर् देवताः सर्वा मुनयश् चापि संसदि || ज्ञा. सा. सं_१,१४.६६ ||
लज्जिता योषितह् सर्वास् तां वारयितुम् अक्षमाः |
सर्वे चक्रुः परीहासं स्त्री-वर्गं शङ्करादयः || ज्ञा. सा. सं_१,१४.६७ ||
कामं न लब्ध्वा सा च स्त्री निवृत्यागत्य संसदि |
तम् अश्विनी-कुमारं चाप्य् उवाच सुर-सन्निधौ || ज्ञा. सा. सं_१,१४.६८ ||

कृत्या-कामिन्य् उवाच
मां भजस्व रवेः पुत्र प्रियां रसवतीं मुदा |
शृङ्गारे सुखदां शान्तां परां कामातुरां वरां || ज्ञा. सा. सं_१,१४.६९ ||
त्वया शार्धं भ्रमिष्यामि सुन्दरे गहने वने |
रहसि रहसि क्रीडां करिष्यामि दिवानिशम् || ज्ञा. सा. सं_१,१४.७० ||
मधु-पानं च दास्यामि वासितं चामलं जलम् |
सकर्पूरं च ताम्बूलं भोग-वस्तु मनोहरम् || ज्ञा. सा. सं_१,१४.७१ ||
शय्यां मनोरमां कृत्वा सपुष्प-चन्दनार्चिताम् |
भगवन्तं करिष्यामि पुष्प-चन्दन-चर्चितम् || ज्ञा. सा. सं_१,१४.७२ ||

कुमार उवाच
वचनं वद वामे माम् आत्मनो हृदयङ्गम |
विहाय कपटं कान्ते कपटं धर्म-नाशनम् || ज्ञा. सा. सं_१,१४.७३ ||
स्त्री-धर्मं स्त्री-मनस्-कामं स्त्री-स्वभावं च कीदृशम् |
तद्-आचारं कति-विधं तन् मां व्याख्यातुम् अर्हसि || ज्ञा. सा. सं_१,१४.७४ ||

अश्विनीज-वचः श्रुत्वा कामार्ता तम् उवाच सा |
कामार्तानां क्व लज्जा च क्व भयं मानम् एव च || ज्ञा. सा. सं_१,१४.७५ ||

अथ कुलटा-स्वभाव-कथनम्

कामिन्य् उवाच
स्थानं नास्ति क्षणं नास्ति नास्ति दूती तद् उत्तमा |
तेनैव युवतीनां च सतीत्वम् उपजायते || ज्ञा. सा. सं_१,१४.७६ ||
सुवेशं कामुकं दृष्ट्वा कामिनी मदनातुरा |
तद् रात्रं च पुलकितं योनौ कण्डूयनं परं || ज्ञा. सा. सं_१,१४.७७ ||
विचेतना भवेत् सा च काम-ज्वर-प्रपीडिता |
सर्वं त्यजति तद्-धेतोः पुत्रं कान्तं गृहं धनम् || ज्ञा. सा. सं_१,१४.७८| ||
लब्ध्वा युवानं पुरुषं देश-त्यागं करोति सा |
तद्-उत्तमं पुनर् लब्ध्वा तं त्यजेत् सा क्षणेन च || ज्ञा. सा. सं_१,१४.७९ ||
विषं दातुं समर्था सा स्वामिनं गुणिनां वरम् |
म्लेच्छं युवानं सम्प्राप्य सर्वस्वं दातुम् उत्सुका || ज्ञा. सा. सं_१,१४.८० ||
त्यजेत् कुल-भयं लज्जां धर्मं बन्धुं यशः श्रियम् |
सम्प्राप्य रति-शूरं च युवानं सुरतोन्मुखम् || ज्ञा. सा. सं_१,१४.८१ ||
सुदृश्यं सुन्दर-मुखं शश्वन्-मधुरितं वचः |
हृदयं क्षुर-धाराभं को वा जानाति तन्-मनः || ज्ञा. सा. सं_१,१४.८२ ||
विद्युच्छटा जले रेखा चास्थिरा च यथाम्बरे |
तथास्थिरा च कुलटा-प्रीतिः स्वप्नं च तद्-वचः || ज्ञा. सा. सं_१,१४.८३ ||
कुलटानां न सत्यं च न च धर्मो भयं दया |
न लौकिकं न लज्जा स्याज् जार-जिन्ता निरन्तरम् || ज्ञा. सा. सं_१,१४.८४ ||
स्वप्ने जागरणे चैव भोजने शयने सदा |
निरन्तरं काम-चिन्ता जारे स्नेहो न चान्यतः || ज्ञा. सा. सं_१,१४.८५ ||
कुलटा नर-घातिभ्यो निर्दया दुष्ट-मानसाः |
जारार्थे च सुतं हन्ति बान्धवस्य च का कथा || ज्ञा. सा. सं_१,१४.८६ ||
न हि वेदा विदन्त्य् एवं कुलता-हृदयङ्गमम् |
कथं देवास् च मुनयः सन्तो जानन्ति निश्चयम् || ज्ञा. सा. सं_१,१४.८७ ||
रति-शूरं प्रियं दृष्ट्वा क्षीरं घृतम् इवाचरेत् |
गते वयसि जीर्णं तं विषं दृष्ट्वा त्यजेत् क्षणात् || ज्ञा. सा. सं_१,१४.८८ ||
न विश्वसेयुस् तां दुष्टो तस्मात् सन्तो हि सन्ततं |
न रिपुः पुरुषाणां च दुष्ट-स्त्रीभ्यः परो भुवि || ज्ञा. सा. सं_१,१४.८९ ||
विषं मन्त्राद् उपशमं जलाद् वह्निश् च निश्चितं |
अग्नेश् च कण्ठकोच्छन्नं दुर्जनः स्तवनाद् वशः || ज्ञा. सा. सं_१,१४.९० ||
लुब्धो धनेन राजा च सेवया सततं वशः |
मिश्रं स्वच्छ-स्वभावेन भयेन च रिपुर् वशः || ज्ञा. सा. सं_१,१४.९१ ||
आदरेण वशो विप्रो यौवती प्रेम-भारतः |
बन्धुर् वशः समतया गुरुः प्रणतिभिः सदा || ज्ञा. सा. सं_१,१४.९२ ||
मूर्खो वशः कथायां च विद्वान् विद्या-विचारतः |
न हि दुष्टा च कुलटा पुंसश् च वशगा भवेत् || ज्ञा. सा. सं_१,१४.९३ ||
स्व-कार्ये तत्-परा शश्वत् प्रीतिः कार्यानुरोधतः |
न सर्वस्य वशी-भूता विना शृङ्गारम् उल्वणम् || ज्ञा. सा. सं_१,१४.९४ ||
न प्रीत्या न धनेनैव न स्तवान् न सेवया |
न प्राण-दानतो वेश्या वशी-भूता भवेत् क्षणम् || ज्ञा. सा. सं_१,१४.९५ ||
आहारो द्वि-गुणस् तासां बुद्धिस् तासां चतुर्-गुणा |
षड्-गुणा मन्त्रणा तासां कामश् चाष्ट-गुनः स्मृतः || ज्ञा. सा. सं_१,१४.९६ ||
शश्वत्-कामा च कुलटा न च तृप्तिश् च क्रीडया |
हविषा कृष्ण-वर्त्मेव भूय एवाभिवर्धते || ज्ञा. सा. सं_१,१४.९७ ||
दिवानिशं च शृङ्गारं कुरुते तत्-पुमान् यदि |
न तृप्तिः कुलटानां च पुमांसं ग्रस्तुम् इच्छति || ज्ञा. सा. सं_१,१४.९८ ||
नाग्निस् तृप्यति काष्ठानां नापगानां महोदधिः |
नान्तकः सर्व-भूतानां नासां तृप्यति सम्पदाम् || ज्ञा. सा. सं_१,१४.९९ ||
न श्रेयसां मनस् तृप्तं वाडवाग्निर् न पाथसाम् |
वसुन्धरा न रजसां न पुंसां कुलटा तथा || ज्ञा. सा. सं_१,१४.१०० ||
इत्य् एवं कथितं किंचित् सर्वं वक्तुं च नोचितम् |
लज्जा बीजं योषितां च निबोध भास्करात्मज || ज्ञा. सा. सं_१,१४.१०१ ||

श्रुत्वा च कृत्या-स्त्री-वाक्यं जहसुर् मुनयः सुराः |
चुकुपुर् योषितः सर्वाः पद्माद्या लज्जिताः सुत || ज्ञा. सा. सं_१,१४.१०२ ||
लज्जा-नतानना लक्ष्मीर् निर्ययौ देव-मण्डलात् |
तत् पश्चात् पार्वती सार्धं सरस्वत्या नतानना || ज्ञा. सा. सं_१,१४.१०३ ||
सावित्री रोहिनी स्वाहा वारुणी च रतिः शची |
सर्वा बभूवुर् एकत्र प्रचक्रुर् मन्त्रणां च ताः || ज्ञा. सा. सं_१,१४.१०४ ||
कृत्या-स्त्रियः समाहूय ता ऊचुश् च क्रमेण च |
रोधयाम् आसुर् इष्टां तां सुगोप्यां अपि योषितः || ज्ञा. सा. सं_१,१४.१०५ ||
तस्या मुखे ददौ हस्तं सुशीला कमलालया |
सलज्जिता भव सुते शान्ता चेति शुभाशिषम् || ज्ञा. सा. सं_१,१४.१०६ ||
सरस्वती ददौ तस्यै चाभिमानं च धैर्यताम् |
मौखर्यं वावदूकत्वं मन्त्रणाम् आत्म-रक्षणम् || ज्ञा. सा. सं_१,१४.१०७ ||
सावित्री च ददौ तस्यै सौशील्यं चातिदुर्लभम् |
आत्म-संगोपनं चैव गाम्भीर्यं कुलतो भयम् || ज्ञा. सा. सं_१,१४.१०८ ||

पार्वत्य् उवाच
धिक् त्वां स्व-भाव-कुलटां लज्जिता भव सुन्दरि |
स्व-मानं गौरवं रक्ष ह्य् अस्माकं च स्मरातुर || ज्ञा. सा. सं_१,१४.१०९ ||
जनि लभ पृथिव्यां च काय-व्यूहं विधाय च |
पुंसाम् अष्ट-गुणं कामं लभस्व च पृथक् प्रृथक् || ज्ञा. सा. सं_१,१४.११० ||
लज्जां चतुर्-गुणां चापि द्विगुणां धैर्यतां तथा |
अभोगेच्छधमे गच्छ दूरं गच्छ ममान्तिकात् || ज्ञा. सा. सं_१,१४.१११ ||
पुंसां च द्वि-गुणः कामो वास्तवीणां च योषिताम् |
लज्जा चाष्ट-गुणा चापि धैर्यता च चतुर्-गुणा || ज्ञा. सा. सं_१,१४.११२ ||
कुल-धर्मः कुल-भयं सौशील्यं मानम् ऊर्जितम् |
शश्वत् तिष्ठतु पुंस्य् एव स्त्रीषु च ममाज्ञया || ज्ञा. सा. सं_१,१४.११३ ||
यस्मात् सदसि सर्वेभ्यो लज्जा-हीनः सुराधमः |
स्त्री-स्व-भावं च पप्रच्छ यज्ञ-भाक् न भवेत् ततः || ज्ञा. सा. सं_१,१४.११४ ||
अद्य-प्रभृति विश्वेषु नाग्राह्यं पाप-संयुतम् |
चिकित्सकानां विदुषां न भक्ष्य ममाज्ञया || ज्ञा. सा. सं_१,१४.११५ ||

इत्य् एवम् उक्त्वा प्रययुर् देव्यश् च सर्व-योषितः |
देवाश् च मुनयश् चापि ये चान्ये च समागतः || ज्ञा. सा. सं_१,१४.११६ ||
देवाश् च मुनयश् चापि ये चान्ये सर्वतः सुत |
पति-व्रताणां स्त्रीणां च लज्जा बीज-स्वरूपिणी || ज्ञा. सा. सं_१,१४.११७ ||

इति श्री-नारद-पञ्च-रात्रे ज्ञाणामृत-सारे प्रथमैक-रात्रे
कुलटोत्त्पतिर् नाम चतुर्दशो ऽध्यायः


प्रथमैक-रात्रे पञ्चदशो ऽध्यायः


गते नियमिते काले गन्धर्वश् चोपवर्हणः |
स्व-योगेन जहौ देहं भारते प्राक्तनाद् अहो || ज्ञा. सा. सं_१,१५.१ ||
स जज्ञे शुद्र-योनौ च पितुः शापेन च दैवतः |
विष्णु-प्रसादं भुक्त्वा च बभूव ब्रह्मणः सुतः || ज्ञा. सा. सं_१,१५.२ ||
विमुक्तस् तात-शापेन सम्प्राप्य ज्ञानम् उत्तमम् |
प्रति-जन्म-स्मृतिस् तस्य कृष्ण-मन्त्र-प्रसादतः || ज्ञा. सा. सं_१,१५.३ ||
पितुः सकाशाद् आगत्य सम्प्राप चन्द्र-शेखरात् |
श्री-कृष्ण-मन्त्रम् अतुलं स्वर्ग-मन्दाकिनी-तटे || ज्ञा. सा. सं_१,१५.४ ||
स्वर्ग-मन्दाकिनी-तीराद् गुरुणा शङ्करेण च |
सहितः प्रययौ तूर्णं पार्वती-सन्निधानतः || ज्ञा. सा. सं_१,१५.५ ||
उवास तत्र शम्भुश् च नारदश् च महा-मुनिः |
पार्वती भद्र-काली स्कन्दो गण-पतिः स्वयम् || ज्ञा. सा. सं_१,१५.६ ||
महा-कालश् च नन्दी च वीर-भद्रः प्रतापवान् |
सिद्धा महर्षयश् च मुनयः सन्कादयः || ज्ञा. सा. सं_१,१५.७ ||
योगीन्द्रा ज्ञानिनः सर्वे समूचुः शम्भु-संसदि |
यत् स्तोत्रं कवचं ध्यानं सुभद्राय च कानने || ज्ञा. सा. सं_१,१५.८ ||
नारायणर्षि-भगवान् ब्राह्मणाय ददौ पुरा |
पूजा-विधानं यद् यच् च पुरश्-चरण-पूर्वकम् || ज्ञा. सा. सं_१,१५.९ ||
तद् एव भगवान् शम्भुः प्रददौ नारदाय च |
उवाच शम्भुं देवर्षिर् योगिनां च गुरोर् गुरुम् |
पार्वती-सन्निधौ तत्र नारदश् च महा-मुनिः || ज्ञा. सा. सं_१,१५.१० ||

भगवन् सर्व-धर्म-ज्ञ सर्व-ज्ञ सर्व-कारण |
सद् यत् पृष्टं मया पूर्वं तन् मां व्याख्यातुम् अर्हसि || ज्ञा. सा. सं_१,१५.११ ||
यद् यत् पृष्टं त्वया ब्रह्मन् प्रत्येकं च क्रमेण च |
पुनः प्रश्नं कुरु मुने शृण्वन्तु मत्-सभासदः || ज्ञा. सा. सं_१,१५.१२ ||
आध्यात्मिकं च यज् ज्ञानं वेदानां सारम् उत्तमम् |
ज्ञानं ज्ञानिषु सारं यत् कृष्ण-भक्ति-प्रदं शुभं || ज्ञा. सा. सं_१,१५.१३ ||
निर्वाण-मुक्तिदं ज्ञानं कर्म-मूल-निकृन्तनम् |
तत्-सिद्धि-योगान् मुक्तिश् च योगिनाम् अपि वाञ्च्छितम् || ज्ञा. सा. सं_१,१५.१४ ||
संसार-विषयं ज्ञानं शश्वत् सम्मोह-वेष्टितम् |
आश्रमाणां समाचारं तेषां धर्म-परिष्कृतम् || ज्ञा. सा. सं_१,१५.१५ ||
चतुर्णां वर्णनां विधानां महेश्वर |
भिक्षूणां वैष्णवानां च यतीनां ब्रह्म-चारिणाम् || ज्ञा. सा. सं_१,१५.१६ ||
वान-प्रस्थाश्रमाणां च पण्डितानां तथैव च |
पति-व्रतानां यद् यच् च श्री-कृष्ण-पूजनं च यत् || ज्ञा. सा. सं_१,१५.१७ ||
यत् स्तोत्रं कवचं मन्त्रं पुरश्-चरणम् ईप्सितम् |
सार्वाह्निकम् अभीष्टं च विपाकं कर्म-जीविनाम् || ज्ञा. सा. सं_१,१५.१८ ||
संसार-वासना-बद्धं लक्षणं प्रकृतीशयोः |
तयोः परं वा यद् ब्रह्म तस्यावतार-वर्णनम् || ज्ञा. सा. सं_१,१५.१९ ||
कस् तत् कलावतीर्णश् च कस् तद्-अंशश् तथैव च |
परिपूर्णतमः कश् च कः पूर्णः कः कलांशकः || ज्ञा. सा. सं_१,१५.२० ||
कस्य वाराधने शम्भो किं फलं किं यशस् तथा |
अङ्गाङ्गिनोर् भेद-फलं विस्तीर्णं निरपेक्षकम् || ज्ञा. सा. सं_१,१५.२१ ||
नारायणर्षि-कवचं सुभद्र-ब्राह्मणाय च |
यद् दत्तं किं तद् देवेश तद्-आराध्यश् च कः सुरः || ज्ञा. सा. सं_१,१५.२२ ||
अति-संगोपनीयं च कवचं परमाद्भुतम् |
सुदुर्लभं च विश्वेषु नोक्तं मां ब्रह्मणा पुरा || ज्ञा. सा. सं_१,१५.२३ ||
सनत्-कुमारो जानाति नोक्तं तेन पुरा च माम् |
मया ज्ञानम् अनापृष्टं यद् यज् जानासि मङ्गलम् || ज्ञा. सा. सं_१,१५.२४ ||
वेद-सारम् अनुपमं कर्म-मूल-निकृन्तनम् |
तन् मे कथय भद्रेश माम् एवानुग्रहं कुरु || ज्ञा. सा. सं_१,१५.२५ ||
अपूर्वं राधिकाख्यानं वेदेषु च सुदुर्लभम् |
पुराणेष्व् इतिहासे च वेदाङ्गेषु सुदुर्लभम् || ज्ञा. सा. सं_१,१५.२६ ||
गुरोश् च ज्ञानोदिगरणात् ज्ञानं स्यान् मन्त्र-तन्त्रयोः |
तत् तन्तं स च मन्त्रः स्यात् कृष्ण-भक्तिर् यतो भवेत् || ज्ञा. सा. सं_१,१५.२७ ||
ज्ञानं स्याद् विदुषां किंचिद् वेद-व्याख्यानतः प्रभो |
वेद-कारण-पूज्यश् त्वं ज्ञानाधिष्ठातृ-देवता || ज्ञा. सा. सं_१,१५.२८ ||
तस्माद् भवान् परं ज्ञानं वद वेद-विदां वर |
मां भक्तम् अनुरक्तं च शरणागतम् ईश्वर || ज्ञा. सा. सं_१,१५.२९ ||

नारदस्य वचः श्रुत्वा योगिनां च गुरोर् गुरुः |
भगवत्या सहालोच्य ज्ञानं वक्तुं समुद्यतः || ज्ञा. सा. सं_१,१५.३० ||
इत्य् एवं कथितं सर्वं पूर्वाख्यानं मनोहरम् |
हरि-भक्ति-प्रदं सर्वं कर्म-मूल-निकृन्तनम् || ज्ञा. सा. सं_१,१५.३१ ||

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे
प्रथमैक-रात्रे पञ्चदशो ऽध्यायः

समाप्तश् चेदं नारद-पञ्च-रात्रैक-रात्रम्

"https://sa.wikisource.org/w/index.php?title=ज्ञानामृतसारसंहिता&oldid=206748" इत्यस्माद् पुनः प्राप्तिः