ज्ञापकसंग्रहः/अष्टमोऽध्यायः
← सप्तमोऽध्यायः | ज्ञापकसंग्रहः अष्टमोऽध्यायः [[लेखकः :|]] |
। अथ अष्टमोऽध्यायः ।
झ्र्ज्ञा.ट सर्वस्य द्वे (सू.8-1-1)।। कस्कादिषु कौतस्कुतशब्दपाठात् ज्ञापकात् द्विः प्रयोगपक्षेऽपि पौनः पुन्यमित्यादिसिद्धिः । झ्र्वि.ट ननु "सर्वस्य द्वे' इति सूत्रेण विधीयमानं द्विर्वचनं द्विः प्रयोग इति पक्षे पुनः शब्दस्य द्विर्वचने पुनः पुनर्भवितरि वर्तमानात् पुनः पुनः शब्दात् भावे ष्यञ्प्रत्यये पौनः पुन्यमिति, भवार्थे "कालट्ठञ्' (सू.4-3-11) इति ठञि पौनः पुनिकमिति च रूपमिष्यते, तन्न सिध्येत् । समासग्रहणकृतेन नियमेन अर्थवतः समासरूपसमुदायस्यैव प्रातिपदिकसंज्ञाभ्यनुज्ञानेन पुनः पुनरिति समुदायस्य प्रातिपदिकत्वाभावेन प्रातिपदिकाधिकारीयतद्धितानुपपत्तेरित्याशङ्क्याह-- कस्कादिष्विति । कुतस्कुतः शब्दस्याप्रातिपदिकत्वेन ततोऽणो दुर्लभत्वेन कौतस्कुत इत्यणन्तपाठोऽसंगतः सन् द्विरूक्तादप्रातिपदिकादपि तद्धितोत्पत्तिर्भवतीति ज्ञापयति । अतो न दोष इति भावः । झ्र्ज्ञा.ट जात्वपूर्वम् (सू.8-1-47)।। "आहो उताहो' (सू.8-1-49) इत्यत्रानन्तरग्रहणात् ज्ञापकात् अपूर्वग्रहणं जातुविशेषणं न तिङन्तस्य । तत्राप्यपूर्वमित्यनुवृत्तेः । झ्र्वि.ट ननु "जात्वपूर्वम्' इत्यत्र अपूर्वमित्यस्य अविद्यमानपूर्वमित्यर्थः । तत्रापूर्वमिति किं जातुविशेषणम् उत तिङन्तविशेषणम् इति संदेहः । तत्र प्रथमपक्षे अविद्यमानपूर्वं यज्जातु तद्युक्तं तिङन्तं नानुदात्तमित्यर्थः । जातु भोक्ष्यस इत्यादिकमुदाहरणम् । द्वितीयपक्षे जातुशब्दादपूर्वं तिङन्तं नानुदात्तमित्यर्थः । तत्र कतरः पक्षः प्रामाणिक इत्याशङ्क्याह--आहो उताहो इति । अयमाशयः- "आहो उताहो चानन्तरम्' (सू.8-1-49) इति सूत्रेण आहो उताहो इत्याभ्यामनन्तरं तिङन्तं न निहन्यत इति बोध्यते । आहो भुङ्क्ये उताहो भुङ्क्ते इत्युदाहरणे । तत्रापि "जात्वपूर्वम्' इति सूत्रात् अपूर्वमित्यनुवर्तते । तद्यदि तिङन्तविशेषणं स्यात् तर्हि अविद्यमानपूर्वं तिङ्न्तं आहो उताहो इत्याभ्यामनन्तरमेव भविष्यतीति "आहो देवदत्तः पचति' इत्यत्र सपूर्वत्वादेव तिङन्तस्य निघातनिषेधो न भविष्यतीति "आहो उताहो' इति सूत्रे अनन्तरग्रहणं व्यर्थम् । कृतं च तत्, अपूर्वमित्येतन्न तिङन्तविशेषणम्, अपि तु निमित्तविशेषणमिति ज्ञापयति । तथा च अपूर्वात् आहो इत्यस्मात् उताहो इत्यस्माच्च तिङन्तं नानुदात्तमित्युक्ते देव आहो भुङ्क्त इति सपूर्वस्य आहोशब्दस्य व्यावर्तनेऽपि आहो देवदत्तः पचतीति सपूर्वं तिङन्तं न व्यावर्तितं भवतीति तध्द्यावृत्तये अनन्तरग्रहणम् । तेन "जात्वपूर्वम्' इत्यत्रापि अपूर्वमित्येतत् निमित्तस्य जातु इत्यस्यैव विशेषणं न तिङन्तस्येति निश्चीयत इति । इत्यष्टमोऽध्यायः श्रीवेंकटेशस्य तथा गुरूणां बुधोत्तमानां करुणार्द्रदृष्ट्या । श्रीपार्थसारथ्यभिमानतश्च व्याख्येयमापूरि विनैव विघ्नम् ।। नावल्पाकेति विख्याते सूधीगणविभूषिते । अग्रहारे लब्धजन्मा चतुश्शास्त्रशिरोमणिः ।। रामानुजाचार्यनामा कृष्णतातसुधीसुतः । बालानां सुखबोधाय विवृतिं कृतवानिमाम ।।