ज्ञापकसंग्रहपरिशिष्टम्/प्रथमोऽध्यायः

ज्ञापकसंग्रहपरिशिष्टम्
प्रथमोऽध्यायः
[[लेखकः :|]]
द्वितीयोऽध्यायः →

।। श्रीः ।।
ज्ञापकसंग्रहपरिशिष्टम् (1) (विवृत्या समेतम्)
।। प्रथमोऽध्यायः ।।
    ज्ञापकसंग्रहे नागेशेन असंगृहीतानि भाष्यारूढानि वचनानि संकलय्य अत्र व्याख्यायन्ते । झ्र्ज्ञा.प.ट एओङ् । ऐऔच् । "अमि पूर्वः' (सू.6-1-107) इति पूर्वग्रहणं ज्ञापकं यथाजातीयकः पूर्वस्तथाजातीयक उभयोर्भवतीति । नानेन संप्रसारणस्य दीर्घो भवतीत्यत्र "हलः' (सू.6-4-3) इति सूत्रं ज्ञापकम् । रूपग्रहणं ज्ञापकं यथाजातीयकं परस्य रूपं तथाजातीयकमुभयोरिति । झ्र्वि.ट ठआद्गुणः' (सू.6-1-87) इत्यादिषु एकादेशविधायकसूत्रेषु दीर्घग्रहणं कर्तव्यम् पूर्वपरयोः पूर्वपरयोः स्थाने भवन् गुणवृद्ध्यादिः द्विमात्र एव यथा स्यात् स्थान्यनुसारेण त्रिमात्रश्चतुर्मात्रो वा मा भूदित्येवमर्थम इति वार्तिककारेणोक्ते भाष्यकारः-- दीर्घग्रहणं न कर्तव्यम्, योगविभागादेवेष्टसिद्धेः । "अकः सवर्णे' इत्येको योगः । तस्य चाकः सवर्णे परे एको भवतीत्यर्थः । ततो "दीर्घः' इत्येको योगः । तस्य च "एकः पूर्वपरयोः' इत्येवं निर्दिष्टे यः स दीर्घः---द्विमात्रो भवतीत्यर्थः इति प्रत्यपादयत् । तदुपरि "पशुम्, विद्धम्, पचन्ति' इत्यत्राप्येकादेशो द्विमात्रो भवेदित्याशङ्क्य ज्ञापकेन समाधानमुक्तम् । तदाह--अमि पूर्व इति । अयमाशयः--पशुम् इत्यत्र पशुअअम् इति स्थिते पूर्वपरयोरुकाराकारयोः स्थाने पूर्व उकार आदेशो भवति, स द्विमात्रो भवेत् सति दीर्घग्रहणे इति शङ्का । यद्यत्र द्विमात्र आदेशः स्यात् तदा पूर्वग्रहणं न कुर्यात् । प्रथमयोः पूर्वसवर्ण इत्यतः पूर्वसवर्णानुवृत्त्यैवेष्टलाभात् । एवं स्थिते यत्पूर्वग्रहणं करोति तज्ज्ञापयति यथाजातीयकः पूर्वस्तथाजातीयक एवोभयोः स्थाने भवतीति । तथा च पशुमित्यत्र एकादेशः पूर्वजातीयः-- एकमात्र एव भवतीति समाधानम् । तथा विद्धमित्यत्र व्यधधातोः क्तप्रत्यये संप्रसारणे वि अध्त इति स्थिते "संप्रसारणाच्च' (सू.6-1-108) इत्यनेन भवत् पूर्वरूपं द्विमात्रं भवेदिति शङ्का । यदि द्विमात्रं भवेत्तदा "हल' इति सूत्रेण हल उत्तरस्य संप्रसारणस्य दीर्घं न विदध्यात्, द्विमात्रात्मकपूर्वरूपेणैव इष्टसिद्धेः । अतस्तत्सूत्रं ज्ञापयति "संप्रसारणाच्च' इति सूत्रेण भवत् पूर्वरूपं दीर्घात्मकं नेति । अतो न दोष इति समाधानम् । तथा पचन्तीत्यत्र पचअअन्तीति स्थिते "अतो गुणो' (सू.6-1-97) इत्यनेन पररूपं दीर्घत्मकं भवेदिति शङ्का । पररूपमिति रूपग्रहणात् यथाजातीयकं परस्य रूपं तथाजातीयकमेवोभयोः स्थाने भवतीति ज्ञाप्यते । अतोऽत्र एकमात्र एवादेशो भवतीति समाधानम् । झ्र्ज्ञा.पट दीर्घाच्छे तुग्विधानात् ज्ञापकात् न दीर्घे ह्रस्वाश्रयो विधिर्भवतीति । झ्र्विदृट वर्णैकदेशा वर्णग्रहणेन गृह्यन्त इति पक्षे आलूय प्रलूय इत्यादौ ह्रस्वग्रहणेन ऊकारैकदेशस्य उकारस्यापि ग्रहणात् "ह्रस्वस्य पिति कृति तुक्' (सू.6-1-71) इति तुक्प्रसङ्ग इत्याशङ्क्याह--दीर्घाच्छ इति । चेच्छिद्यत इत्यादौ तुगागमसिद्धये हि "दीर्घात्' (सू.6-1-75) इति सूत्रमारभ्यते । तत्राप्येकारैकदेशस्य इकारस्य ह्रस्वशब्देन ग्रहणात् "छे च' (सू.6-1-73) इत्यनेनैव तुक्सिद्धेः दीर्घात् इति सूत्रं व्यर्थं सत् दीर्घे ह्रस्वमाश्रित्य विधीयमानं कार्यं न भवतीति ज्ञापयति । अतो न आलूयेत्यादौ तुगापत्तिरिति भावः ।झ्र्ज्ञा.प.ट गापोष्टक् (सू.3-2-8) इति ककारानुबन्धो ज्ञापयति नाकारस्थस्य अकारस्य लोपो भवतीति । झ्र्वि.ट ननु वर्णैकदेशा वर्णग्रहणेन गृह्यन्त इति पक्षे याता वाता इत्यादौ आकारैकदशस्य अकारस्य "अतो लोपः' (सू.6-4-48) इति लोपः प्राप्नोतीत्याशङ्क्याह--गापोष्टक् इति । "गापोष्टक्' इति सूत्रेण गायतेः पिबतेश्चानुपसर्गे
कर्मण्युपपदे टक्प्रत्ययो विधीयते । सामगः सुराप इत्युदारणम् । टकि ककारानुबन्धः सामगा अ इत्यत्र "आतो लोप इटि च' (सू.6-4-64) इत्याकारलोपार्थं क्रियते । स मास्तु । आकारावयवस्य अकारस्य "अतो लोपः' (सू.6-4-48) इति लोपे कृते सामग अ अ इति स्थिते द्वयोरकारयोः पररूपेणेष्टं रूपं सिध्यतीति किमाकारलोपार्थेन ककारानुबन्धेन । स क्रियमाणः आकारस्थस्य अकारस्य लोपो न भवतीति ज्ञापयति । तथा च अकारलोपाभावे आकारस्यापि यदि लोपो न स्यात् तदेष्टरूपासिद्धेः आलोपार्थं ककारानुबन्ध इति स्वांशे चारितार्थ्यम् । प्रयोजनं तु याता ता इत्यादावतो लोपो न भवतीति । यद्यपि ककारनुबन्धस्य आकारस्य गुणो न भवतीत्यर्थज्ञापकत्वम् "इकोगुणवृद्धी' (सू.1-1-3) इति सूत्रे भाष्ये प्रोक्तम्, तथापि एकस्योभयज्ञापकत्वं न विरुध्यत इति बोध्यम् । स्पष्टं चेदं तत्र तत्र प्रदीपादौ । झ्र्ज्ञा.प.ट गोनौग्रहणात् ज्ञापकात् दीर्घे व्ध्द्यज्लक्षणो विधिर्न भवति । झ्र्वि.ट ठएकवर्णवच्च' इति वार्तिकम् । तस्य च दीर्घ आकारादिः ह्रस्वाकारद्वयसमुदायरूपोऽपि एकवर्णेन तुल्यो भवतीति वक्तव्यम् । अन्यथा वाचा तरतीत्यर्थे वाक्शब्दात् "नौव्द्यचष्ठन्' (सू.4-4-7) इति ठन् प्रत्ययः स्यादित्यर्थः । इदं वार्तिकं ज्ञापकेनान्यथासिद्धमित्याशयेनाह--गोनौग्रहणादिति । ओकारस्य अकार-उकारसमुदायरूपत्वेन गोशब्दस्य व्द्यच्त्वात् "व्द्यच्' इत्यनेनैव गोशब्दस्यापि ग्रहणे सिद्धे "गोव्द्यचोऽसंख्यापरिमाणाश्वादेर्यत्' (सू.5-1-39) इति सूत्रे गोग्रहणं व्यर्थम् । तथा "नौव्द्यचष्ठन्' इति सूत्रे नौग्रहणं च व्यर्थम् । अतस्तदुभयं ज्ञापयति दीर्घे व्द्यज्लक्षणो विर्धिर्नेति । अतो न दोष इति भावः । तथा च "एकवर्णवच्च' इति वार्तिकमनावश्यकम्। तत्फलस्य ज्ञापकेनैव सिद्धेरित्यवधेयम् । झ्र्ज्ञा.पट इको गुणवृद्धी (सू.1-1-3)।। "गापोष्टक्' (सू.3-2-8) इत्यनन्यार्थककारानुबन्धकरणात् ज्ञापकात् न आकारस्य गुणो भवतीति । झ्र्वि.ट ठइको गुणवृद्धी' इति सूत्रे "इग्ग्रहणमाकारसन्ध्यक्षरव्यञ्जननिवृत्त्यर्थम्' इति वार्तिकम् । याता वातेत्यादौ आकारस्य "सार्वधातुकार्धधातुकयोः' (सू.7-3-84) इति गुणः प्राप्नोति, इग्ग्रहणाच्च स न भवतीति प्रथमं प्रयोजनम् । इदं च प्रयोजनं भाष्यकारः प्रत्याचख्यौ । तथा हि-इग्ग्रहणस्य नाकारनिवृत्तिः प्रयोजनम् । आकारस्य गुणो न भवतीति ज्ञापकमहिम्ना अवगमात् । "गापोष्टक्' (सू.3-2-8) इति सूत्रे प्रत्यये कित्करणमाकारस्य गुणो न भवतीत्यत्र ज्ञापकम् । तेन हि सूत्रेणानुपसृष्टाभ्यां गापाभ्यां कर्मण्युपपदे टक्प्रत्ययो विधीयते । सामगाअटक् (अ) इति स्थिते "आतो लोप इटि च' इत्याकारलोपे सामग इति भवति । प्रत्ययस्य कित्त्वमाकारलोपार्थं क्रियते । तन्मास्तु । ट इत्येव प्रत्ययोऽस्तु । आकारस्य "सार्वधातुकार्धधातुकयोः' इति गुणे अकारे सामगअअ इति स्थिते द्वयोरकारयोः पररूपेण सामग इति रूपमाकारलोपं विनैव सिध्यति । तथा च ककारानुबन्घः व्यर्थः सन् आकारस्य गुणो न भवतीति ज्ञापयति । गुणाभावे आकारलोपे चासति इष्टं रूपं न सिध्येदिति आलोपार्थ ककारानुबन्धकारणमिति स्वांशे चारितार्थ्यंम् । अन्यत्र प्रयोजनं तु याता वातेत्यादौ आकारस्य गुणो न भवतीति । तथा च ज्ञापकेनैव आकारस्य गुणाभावे सिद्धे तदर्थमिग्ग्रहणमिति न युक्तमिति भाष्याशयः । तदाह--गापोष्टक् इति । अनन्यार्थेति । आकारलोपातिरिक्तप्रयोजनरहितेत्यर्थः । "आतोऽनुपसर्गे कः' (सू.3-2-3) इति ककारानुबन्धस्य "तुन्दशोकयोः परिमृजापनुदोः' (सू.3-2-5) इत्यत्र प्रयोजनं भवितुमर्हति । न तादृशमन्यत्प्रयोजनमस्ति टकः ककारानुबन्धस्येत्याशयेनैवमुक्तम् । झ्र्ज्ञा.पट ईदूतौ च
(सू.1-1-19)।। न प्रगृह्यसंज्ञायांप्रत्ययलक्षणं भवतीत्यत्रार्थग्रहणं ज्ञापकम् । झ्र्वि.ट ननु "ईदूतौ च सप्तम्यर्थे' इति सूत्रे अर्थग्रहणं मास्तु । न च तदभावे "सोमो गौरी अधिश्रितः' इत्यत्र सप्तम्याः लुप्तत्वेन सप्तमीरूपस्य ईकारस्याभावात् प्रगृह्यसंज्ञा न स्यात् । इष्यते च सा । तदर्थमर्थग्रहणं कृतम् । कृते च तस्मिन् सप्तम्याः लुप्तत्वेषडड्डत्ध्;पि तदर्थसद्भावात् प्रगृह्यसंज्ञा भविष्यतीति वाच्यम् । अर्थग्रहणाभावेऽपि सप्तमीरूपयोरीदूतोरसंभवेन वचनबलात् सप्तमीसहचरितमीदूदन्तमित्यर्थलाभात् सप्तम्याः लुप्तत्वेऽपि प्रत्ययलक्षणेन सप्तमीसहचरितत्वमस्तीति प्रगृह्यसंज्ञायाः सिद्धेरर्थग्रहणवैर्यथ्यतादवस्थ्यादित्याशङ्क्याह--न प्रगृह्यसंज्ञायामिति । यदि प्रगृह्यसंज्ञाप्रकारणे प्रत्ययलक्षणं स्यात्तदा "ईदूतौ सप्तमी' इत्यनेनैव सप्तमीसहचरितमीदूदन्तं प्रगृह्यमित्यर्थकेन लुप्तायामपि सप्तम्यां प्रत्ययलक्षणेन पूर्वोक्तरीत्या संज्ञा भविष्यतीति किम् अर्थग्रहणेन ।तत्क्रियमाणं प्रत्ययलक्षणाभावं सूचयति । तथा च वाप्यश्व इत्यादौ प्रगृह्यसंज्ञाया अभावः प्रयोजनमिति भावः । झ्र्ज्ञा.प.ट बहुगण (सू.1-1-23)।। "वतोरिड्ड्डत्ध्;वा' (सू.5-1-23) इत्यादिज्ञापकात् बहुगणादीनां संख्याकार्थं भवति । झ्र्विट ठबहुगणवतुडड्डत्ध्;ति संख्या' इति सूत्रं बहुगणादीनां संख्यासंज्ञां बोधयति । इदं सूत्रं त्यक्तुं शक्यम् । न च तर्हि विधिप्रदेशेषु संख्याशब्देन तेषां कथं ग्रहणं स्यादिति वाच्यम् । ज्ञापकेन बढद्धठ्ठड़14;वादीनां संख्याकार्थं भवतीत्यवगमात् । तथा हि--"वतोरिड्ड्डत्ध्;वा' इति सूत्रेण वत्वन्तात्परस्य कनः इडड्डत्ध्;ागमो विधीयते, तावतिकः तावत्कः इत्युदाहरणम् । कन्प्रत्ययश्च "संख्याया अतिशदन्तायाः कन्' (सू.5-1-22) इति सूत्रेण प्रापयितव्यः । यदि वत्वन्तस्य संख्याशब्देन ग्रहणं न स्यात् तदा ततः कनोऽप्राप्त्या ततः परस्य कनः इडि्ड्डत्ध्;वधानं नोपपद्येत । तद्विधानसार्मथ्याच्च वत्वन्तस्य संख्याकार्थं भवतीति ज्ञायते । एवं "बहुपूगगणसङ्घस्य तिथुक्' (सू.5-2-52) इति सूत्रेण बहुगणशब्दयोः डड्डत्ध्;टि परे तिथुगागमो विधीयते । डड्डत्ध्;ट्र च "तस्य पूरणे डड्डत्ध्;ट्र' (सू.5-2-48) इत्यनेन प्रापणियः । तथोः संख्याशब्देन अग्रहणे डड्डत्ध्;टोऽप्राप्त्या तस्मिन् परे आगमविधानमनुपपन्नं सत् बहुगणयोः संख्याकार्थं ज्ञापयति । एवं "षटूकतिकतिपयचतुरां थुक्' (सू.5-2-51) इति सूत्रेण डड्डत्ध्;त्यन्तात् कतिशब्दात् संख्यायाः विहिते डड्डत्ध्;ति परे विधीयमानः थुगागमः डड्डत्ध्;त्यन्तस्यापि संख्याकार्थं भवतीति ज्ञापयति । एवं वतुविषये "वतोरथिुक्' (सू.5-2-53) इति सूत्रमपि संख्याकार्यस्य ज्ञापकम् । तथा च बहुगणवतुडड्डत्ध्;ति संख्या' इति सूत्रं प्रत्याख्येयमिति भाष्ये स्थितम् । तदेतदभिप्रेत्याह--वतोरिड्ड्डत्ध्;वा इत्यादिज्ञापकादिति । झ्र्ज्ञा.प.ट अव्ययीभावश्च (सू 1-1-41)।। "नाव्ययीभावात्' (सू.2-4-83) इति प्रतिषेधात् ज्ञापकात् भवत्यव्ययीभावाल्लुक् । झ्र्वि.ट ठअव्ययीभावश्च' इति सूत्रेणाव्ययीभावसमासस्याव्ययसंज्ञा चोद्यते । तत्प्रयोजनं च "लुङूमुखस्वरोपचाराः' इति वार्तिके प्रोक्तम् । उपाग्नि प्रत्यग्रि इत्यादौ अव्ययीभावात् परस्य सुपः "अव्ययादाप्सुपः' इति सूत्रेण लुग्वक्तव्यः । स चाव्ययीभावस्याव्ययसंज्ञां विना न संभवतीति लुक् प्रथमं प्रयोजनम् । तच्च ज्ञापकादेव निर्वहति । तथा हि "नाव्ययीभावादतोऽम् त्वपञ्चम्याः ' (सू.2-4-83) इति सूत्रेण अदन्तादव्ययीभावात्परस्य सुपः लुक् न भवतीति यः प्रतिषेधः सः "अव्ययादाप्सुपः' इति सूत्रेण प्राप्तस्य लुक इति वक्तव्यम् । अव्ययीभावस्याव्ययत्वाभावे सुब्लुकोऽप्राप्त्या तन्निषेधो व्यर्थः सन् भवत्यव्ययीभावात्परस्य सुपो लुगिति ज्ञापयति । तथा
चाव्ययसंज्ञां विनैव ज्ञापकादेवाव्ययीभावात्परस्य सुपो लुक्सिद्धेः तत्प्रयोजनकत्वमव्ययीभावस्यव्ययसंज्ञाया न युज्यत इति भाष्ये स्थितम् । तदाह--नाव्ययीभावादिति । झ्र्ज्ञा.प.ट न लुमता (सू.1-1-63)।। सात्प्रतिषेधो ज्ञापकः स्वादिषु पदत्वेन येषां पदसंज्ञा न तेभ्यः प्रतिषेध इति । झ्र्वि.ट ठन लुमताङ्गस्य' इति सूत्रे "उत्तरपदत्वे चापदादिविधा' विति वार्तिकम् । उत्तरपदस्य पदव्यपदेशे कर्तव्ये प्रत्ययलक्षणं न भवति पदादिविधिं वर्जयित्वा इति तदर्थः । परमवाचा इत्यादौ परमा च सा वाक् चेति विग्रहे परमा सू वाच् सु इति स्थिते समासे तदवयवसुपोर्लुकि समुदायाद्विभक्तौ सत्यां परमवाचा इति भवति । तत्र वाच् इत्यस्य समासार्था या विभक्तिः कृता तां प्रत्ययलक्षणेनाश्रित्य सुबन्तत्वात् पदसंज्ञायां "चोः कुः' (सू.8-2-30) इति कुत्वं प्राप्नोति । अतः उत्तरपदस्य पदत्वव्यपदेशे कर्तव्ये प्रत्ययलक्षणं न भवतीतिवक्तव्यम् । एवं चेत् दधिसेचावित्यत्र दध्नः सेचाविति विग्रहे समासावयवसुपोर्लुकि प्रत्ययलक्षणेन पदत्वमाश्रित्य "सात्पदाद्योः' (सू.8-3-111) इति षत्वनिषेध इष्यते, स न स्यात् अत उक्तम् अपदादिविधाविति । षत्वनिषेधस्य पदादिविधित्वात् प्रत्ययलक्षणं भवत्येवेति न दोष इति वार्तिकाशयः । भाष्यकारस्तु "यचि भम्' इत्यस्य यजादिप्रत्यये पूर्वं भसंज्ञं भवतीति व्याख्यानं कृत्वा "परमवाचा' इत्यादौ भत्वात्पदत्वाभावेन कुत्वाप्राप्तेर्वार्तिकं प्रत्याख्येयमित्युपपादयामास । तदुपरि यदि वार्तिकं प्रात्याख्यायते तर्हि "अपदादिविधौ प्रत्ययलक्षणप्रतिषेधो न'इत्यर्थस्यालाभात् "दधिसेसौ' इत्यादौ पदादित्वप्रयुक्तषत्वप्रतिषेधः कथं साधनीयः इत्याशङ्कायामाह स्म भाष्यकारः "सात्पदाद्योः' इति सूत्रे पदस्यादिरिति न विग्रहः, अपि तु पदादादिरिति । तथा च दघि इति पदात् परस्य आदेः सकारस्य षत्वं न भवतीति । तदुपरि--तर्हि ऋक्षु वाक्षु इत्यादिष्वपि षत्वनिषेधः स्यात् ऋक्शब्दस्य स्वादिष्विति पदत्वात् ततः परस्य आदेः प्रत्ययादेः सकारस्यापि षत्वनिषेधः प्राप्नोतीत्याशङ्क्य, स्वादिष्विति सूत्रेण येषां पदसंज्ञा ततः परस्य षत्वप्रतिषेघो न भवति । अतः वाक्षु इत्यादौ न दोषः । दधिसेचावत्यित्र तु अन्तर्वर्तिनीं विभक्तिमाश्रित्य "सुप्तिङन्तं पदम् ' (सू.1-4-14) इति दधिशब्दस्य पदसंज्ञा न "स्वादिषु' इति । अतः ततः परस्य सकारस्य षत्वनिषेधो भवत्येव । उक्तविषये ज्ञापकं तु "सात्पदाद्योः' इति सूत्रे साद्ग्रहणम् । तद्धि अग्निसादित्यादौ षत्वनिषेधाय । अग्नि इत्यस्य "स्वादिषु' इति पदत्वात्ततः परस्य सकारस्य पदादादेरित्यनेनैव षत्वनिषेधे लब्धे साद्ग्रहणं व्यर्थं स्यात् । कृतं च तत् उक्तवचनं ज्ञापयति इति समाधानमुक्तं भाष्ये । तदेव पठति-- सात्प्रतिषेधो ज्ञापक इति । झ्र्ज्ञा.पट स्थानिवदादेशो (सू.1-1-56)।। "युष्मदस्मदोरनादेशे (सू.7-2-86) इत्यादेशे प्रतिषेधात् ज्ञापकात् स्थानिवदादेशो भवतीति । झ्र्वि.ट स्थानिवत्सूत्रं प्रत्याख्यातुमाह--युष्मदस्मदोरिति । "युष्मदस्मदोरनादेशे' इति सूत्रेण हलोदौ विभक्तौ परतो युष्मदस्मदोराकारं विधाय आदेशे परतः आत्वं प्रतिषिध्यते । तत्र विभक्तयादेशस्य विभक्तित्वाभावादेव आदेशे परत आत्वाप्रसक्तेः किमनादेश इति प्रतिषेधेन । स क्रियमाणः आदेशः स्थानिवत् इति ज्ञापयति । ततश्च विभत्तयादेशस्य स्थानिवद्भावेन विभक्तित्वमादाय तस्मिन् परत आत्वे प्राप्ते तन्निषेधाय अनादेश इत्युक्तमिति स्वांशे चारितार्थ्यम् । तथा च सूत्रं प्रत्याख्येयमिति भावः । झ्र्ज्ञा.पट ठअदो जग्घिर्ल्यप्तिकिति' (सू.2-4-36) इति ल्यप्ग्रहणात् ज्ञापकात् अल्विधौ स्थानिवद्भावो न भवति । झ्र्वि.ट नन्वनल्विधाविति प्रतिषेधं वक्तुं स्थानिवदादेश इति वक्तव्यम् । न हि प्रतिषेध्यमप्रर्दश्य निषेधः कर्तुं शक्यते । अतः कथं स्थानिवदादेश इति प्रत्याख्यायत इत्यत
आह--अदो जग्धिरिति । प्रजग्ध्येत्यादौ ल्यपि परतः अदधातोः जग्ध्यादेशो विधीयते । तत्र क्त्वास्थानिकस्य ल्यपः स्थानिवद्भावेन कित्त्वं तकारादित्वं चास्तीति "ति किति' इत्यनेनैव ल्यपि परतोऽप्यादेशसिद्धेः किं ल्यब्ग्रहणेन । तत् क्रियमाणमल्विधौ स्थानिवद्भावो नेति ज्ञापयति । ततश्च "ति' इति वर्णमाश्रित्य जग्ध्यादेशविधानात् तत्र "स्थानिवद्भावाप्राप्तेः' इति भागस्य "अनल्विधौ' इति भागस्य च ज्ञापकेनैव सिद्धत्वात् संपूर्णं स्थानिवत्सूत्रमनर्थकमिति भावः । कौस्तुभे तु स्थानिवत्सूत्रावश्यकता स्थापिता । झ्र्ज्ञा.पट अचः परस्मिन् (सू.1-1-57)।। ओह्रस्वादिति वक्तव्ये एङ्ह्रस्वादिति प्रत्याहारग्रहणं ज्ञापयति न संबुद्धिलोपे स्थानिवद्भावो भवतीति । झ्र्वि.ट ठअचः परस्मिन् पूर्वविधौ' इति सूत्रे पूर्वविधावित्यस्य हे गौः अत्यत्र प्रयोजनमुकत्वा तत्खण्डिड्डत्ध्;तं भाष्ये । तथा हि-गोशब्दात् संबुद्धौ गोअसु इति स्थिते सोः "गोतो णित्' (सू.7-1-90) इति णिद्वद्भावेन "अचो ञ्णिति' (सू.7-2-115) इति ओकारस्य वृद्धौ हे गौअस् इति स्थिते परनिमित्तकस्य औकारस्य "अचः परस्मिन्' इति स्थानिवद्भावात् ओकारत्वेन एङ्त्वात् ततः परस्याः संबुद्धेः "एङूह्रस्वात्' (सू.6-1-69) इति लोपः प्राप्यनोति । पूर्वविघावित्युक्तौ तु स्थानिबूतादचः परस्यैवात्र लोपो न तु पूर्वस्योति स्थानिवत्त्वाप्रवृत्तेः संबुद्धिलोपो न भवतीत्येवं पूर्वविधावित्यस्य प्रयोजनं वक्तव्यम् । तत्तु न भवति । तथा हि--एङूह्रस्वादिति सूत्रे एङ्ग्रहणं व्यर्थम् । न च तदभावे अग्नो वायो खट्वे माले इत्यादौ संबुद्धिलोपो न स्यादिति वाच्यम् । अग्नो वायो इत्यत्र गुणस्य स्थानिवद्भावेन ह्रस्वादित्येव संबुद्धिलोपसिद्धेः । खट्वे माले इत्यादौ च आपः स्थाने "संबुद्धौ च' (सू.7-3-106) इति सूत्रेम प्रवृत्तस्य एकारस्य स्थानिवद्भावेन आप्त्वात् "हल्ङ्याब्भ्यः' (सू.6-1-68) इत्यनेनैव संबुद्धिलोपस्य सिद्धेः । न च गोशब्दादनिष्टस्यापि संबुद्धिलोपस्य साधनाय एङ्ग्रहणमिति वाच्यम् । तर्हि ओह्रस्वादित्येव ब्रूयात् । तथा अनुक्त्वा एङ्ह्रस्वादिति प्रत्याहारग्रहणं यत्करोति तज्ज्ञापयति संबुद्धिलोपविषये "अचः परस्मिन्' इति स्थानिवद्भावो न भवतीति । ततश्च स्थानिवत्त्वाभावे अग्ने वायो इत्यादौ लोपो न भवेदिति एङूग्रहणं सार्खकम् । हे गौः इत्यत्रापि स्थानिवत्त्वाभावात् एङः परत्वाभावादेव लोपाप्रवृत्तेः तत्र लोपवारणं पूर्वविधावित्यस्य न प्रयोजनमिति भाष्याशयः, तदाह--ओह्रस्वादिति । झ्र्ज्ञा.प.ट प्रत्ययलोपे (सू.1-1-62)।। "न लुमताङ्गस्य' (सू.1-1-63) इति प्रतिषेधात् ज्ञापकात् भवति लुकि प्रत्ययलक्षणम् । झ्र्वि.ट ननु "प्रत्ययलोपे प्रत्ययलक्षणम्' इति सूत्रेण प्रत्ययस्य लोपे सति प्रत्ययनिमित्तकं कार्यं भवतीत्युच्यमानं प्रत्ययस्य लुकि न प्राप्नोति । लोपे हि प्रत्यलक्षणमुच्यते न लुकि । ततश्च पञ्च सप्तेत्यादौ "षङूभ्यो लुक्' (सू.7-1-22) इति जश्शसोर्लुकि प्रत्ययलक्षणाभावात्पदसंज्ञा न स्यादित्याशङ्क्याह--न लुमतेति । यदि लुकि प्रत्ययलक्षणं न स्यात् तदा प्राप्त्यभावात्तत्र "न लुमताङ्गस्य' इति प्रत्ययलक्षणनिषेधो न संगच्छते । कृतश्च सः न केवलं लोपशब्देन यत्र प्रत्ययादर्शानं तत्रैव प्रत्ययलक्षणम्, अपि तु लुमच्छब्दैर्यत्र तत् तत्रापि प्रत्ययलक्षणमस्तीति ज्ञापयति, अतो न दोष इति भावः । ज्ञापकसंग्रहे लुगादीनामपि लोपत्वमित्यनेनैतत्संगृहीतम् । वचनानुपूर्वीभेदो न विषयभेदः । झ्र्ज्ञा.प.ट न ङिसंबुद्ध्योः (सू.8-2-8) इति प्रतिषेधात् ज्ञापकात् न प्रत्ययलक्षणेन भसंज्ञा भवति । झ्र्वि.ट ननु राज्ञः पुरुषों राजपुरुष इत्यत्र "सुपो धातुप्रातिपदिकयोः' (सू.2-4-11) इति ङसो लुक्यपि प्रत्ययलक्षणेन "यचि भम्' (सू.1-4-18) इति भसंज्ञया पदसंज्ञाया बाधात् "नलोपः प्रातिपदिकान्तस्य' (सू.8-2-7) इति
नलोपो न प्राप्नोति इत्याशङ्क्याह--इति प्रतिषेधादिति । यदि हि प्रत्ययलक्षणेन भसंज्ञा स्यात् तदा "न ङिसंबुद्धयोः' इति ङौ नलोपस्य प्रतिषेधोऽनर्थकः स्यात् । "परमे व्योमन्' इत्यादौ "सुपां सुलुक्' (सू.7-1-39) इति ङेर्लुक्यपि तस्य प्रत्ययलक्षणेन "यचि भम्' इति भसंज्ञया पदसंज्ञाया बाधात् "नलोपः प्रातिपदिकान्तस्य' इति नलोपाप्रसक्तेः किं तत्प्रतिषेधेन । क्रियमाणश्च स प्रतिषेधः प्रत्ययलक्षणेन भसंज्ञा न भवतीति ज्ञापयति तेन राजपुरुष इत्यादौ भसंज्ञाविरहः सिध्यतीति भावः । झ्र्ज्ञा.प.ट अलोऽन्त्यात्पूर्व उपधा (सू.1-1-65)।। यदयं "नाम्रेडिड्डत्ध्;तस्यान्त्यस्य तु वा' (सू.6-1-99) इत्याह तज्ज्ञापयति नान्त्यस्य पररूपं भवतीति । झ्र्वि.ट ठअलोऽन्त्यात्पूर्वं' इति सूत्रे "नानर्थकेऽलोन्त्याविधिरनभ्यासविकारे' इति परिभाषां पठित्वा तस्याः प्रयोजनपरिगणनावसरे "प्रयोजनमव्यक्तानुकरणस्यात इतौ' इत्यपि प्रयोजनमुक्तम् । अव्यक्तानुकरणस्य योऽच्छब्दस्तस्येतौ परत उच्यमानं पररूपम् "अलोऽन्त्य' परिभाषया अन्त्यस्य तकारस्य प्राप्नोति । ततश्च पटत्अइति पटेति इति स्यात् । पटति इति चेष्यते । अतः "नानर्थकेऽलोन्त्यविधिः' इति परिभाषा आश्रयणीया । पटत् इत्यस्य योऽयमच्छब्दस्तस्यानर्थकत्वात्तत्रालोऽन्त्यविधेरप्रवृत्त्या अत् इत्यस्यैव पररूपमितीष्टसिद्धिरिति तदाशयः । वस्तुत इदं प्रयोजनं न योयुज्यते, ज्ञापकादेवान्त्यस्य पररूपं न भवतीत्यवगमादित्याह--यदयमिति । यद्यलोऽन्त्यपरिभाषया अच्छब्दे अन्त्यस्य तकारस्य पररूपमभिमतमभविष्यत् तदा "वाम्रेडिड्डत्ध्;तस्य' इत्येव सूत्रमकरिष्यत् । अन्त्यस्य पूर्वसूत्रेण (सू. 6-1-98)नित्ये पररूपे प्राप्ते विकल्पमात्रस्य विधेयत्वात् । तथा सूत्रमकृत्वा यतः "नाम्रेडिड्डत्ध्;तस्यान्त्यस्य तु वा' इत्याह तज्ज्ञापयति नान्त्यस्य पररूपं भवति इति । ततश्च आम्रेडिड्डत्ध्;तस्य अत् इत्यस्य पररूपे प्रप्ते तन्नषिध्य अन्त्यस्य विकल्पविधानमिति स्वांशे चारितार्थ्याम् । एवं चानेनैव पटत् इति इत्यत्रापि अन्त्यस्य पररूपाभावे सिद्धे "नानर्थकेऽलोन्त्यविधिः' परिभाषायाः नेदं प्रयोजनमित्याशयः । झ्र्ज्ञा.प.ट स्वं रूपं शब्दस्य (सू.1-1-68)।। रूपग्रहणं ज्ञापयति अस्त्यन्यद्रूपात्स्वं शब्दस्येति । "ष्णान्ता षट्' (1-1-24) इति षकारान्तायाः संख्यायाः षट्संज्ञाज्ञापकात् शब्दसंज्ञायां न स्वरूपविधिर्भवतीति । झ्र्वि.ट ननु "स्वं रूपं शब्दस्य' इति सूत्रे स्वाशब्दस्यात्मीयवाचित्वेन संबन्धग्रहणनिरपेक्षतया प्रथमतः श्रोत्रेणोपस्थित्या च स्वाशब्देन आत्मीयं रूपमेव ग्रहीष्यत इति किं रूपग्रहणेनेत्यत अह--रूपग्रहणमिति । तथा च रूपग्रहणात् रूपदन्यत् अर्थविशिष्ट स्वरूपं शब्दस्य स्वीयमस्तीति गम्यते । तथा च रूपग्रहणात् रूपादन्यत् अर्थविशिष्ट स्वरूपं शब्दस्य स्वीयमस्तीति गम्यते । तथा च शब्दस्यार्थविशिष्टं स्वरूपं संजीति बोधनार्थं रूपग्रहणम् । एतेनात्र शास्त्रे अर्थविशिष्टं शब्दस्वरूपमेव गृह्यते नानर्थकमिति लभ्यते । ततश्च सूत्रादेवार्थवद्ग्रहणलाभात् अर्थवद्ग्रहणपरिभाषा न कर्तव्यति सिद्धम् । एवं च प्रयमोपस्थितत्वादियुक्तिः रूपग्रहणेन बाध्यत इति बोध्यम् । ननु अशब्दसंज्ञा इति मास्तु । न च तदभावे शब्दशास्त्रे या संज्ञा टि घु इत्यादिस्तत्रापि स्वरूपग्रहणं भवेदिति वाच्यम् । "ष्णान्ता षट्' इति सूत्रे षट् इत्यनेन षष् इति शब्दस्वरूपस्य ग्रहणात् तस्य षट्संज्ञायाः वचनप्रामाण्याच्च नकारन्तस्य षट्संज्ञायाः सिद्धे षकारग्रहणं व्यर्थं सत् शब्दसंज्ञायां स्वरूपविधिर्न भवतीति ज्ञापयतीति टि घु इत्यादौ स्वरूपग्रहणाभावसिद्धेरित्याह--ष्णान्ता षडिड्डत्ध्;ति । तथा च अशब्दसंज्ञेत्यनावश्यकमेवेति भावः । झ्र्ज्ञा.प.ट न क्त्वा सेट् (सू.1-2-18)।। "इको झल्' (सू.1-2-9) इति झल्ग्रहणं ज्ञापयति
औपदेशिकस्य कित्त्वस्य प्रतिषेधो नातिदेशिकस्येति । झ्र्वि.ट ननु "न क्ताव सेट्' इति सूत्रे क्त्वाग्रहणं मास्तु । न च तदभावे निष्ठायामपि गुधिंतः गुधिंतवानित्यत्र कित्त्वानिषेधः स्यात् । ततश्च उपधागुणः स्यादिति वाच्यम् । "निष्ठा शीङि्स्वदिमिदिक्ष्विदिधृषः' (सू.1-2-19) इति सूत्रं हि "न सेट्'(सू.1-2-18) इत्यनेनैव निषेधे सिद्धे नियमार्थं संपद्यते । शीङादिब्य एव परा निष्ठा न किदिति नियमः । तथा च गुधित इत्यादौ निष्ठयाः कित्त्वानिषेधाभावान्न दोष इति । न चैवमपि पपिव पपिम इत्यादौ पपा इव, पपा इम इत्यवस्थायां क्ङित्याकारलोपो न स्यात् सेटः कित्त्वानिषेधादिति वाच्यम् । इटं निमित्तीकृत्य लोपसिद्धेः । न चैवमपि जग्मिव जघ्निव इत्यादौ "गमहनजनखनघसां लोपः क्ङित्यनङि' (सू.6-4-98) इत्युपधालोपो न स्यादिति वाच्यम् । ज्ञापकदेव सेटो लिटः कित्त्वानिषेदाभावात् । ज्ञापकमेवाह--झल्ग्रहणमिति । "इको झल्' इति सूत्रेण इगन्तात्परस्य झलादेः सनः कित्त्वं विधीयते । बुमूषतीत्यादिकमुदाहरणम् । तत्र झल्ग्रहणेन शिशयिषते इत्यादौ सेटः अत एवाजादेः सनः कित्त्वं व्यार्वत्यत इति वक्तव्यम् । परं तु "न क्त्वा सेटं' इत्यत्र क्त्वाग्रहणाभावे सेटः यस्य कस्यापि कित्त्वानिषेधात् शिशयिषते इत्यत्र सेटः सनोऽपि कित्त्वनिषेधलाभात् तत्फलकम् "इको झल्' इति सूत्रे झल्ग्रहणमनर्थकम् । तत्क्रियमाणं "न सेट्' इति सूत्रे औपदेशिकस्य कित्त्वस्य प्रतिषेधो नातिदेशिकस्येति ज्ञापयति । सेटः सनः औपदेशिकं कित्त्वं नास्ति, अपि तु "इको झक्' इत्यनेन आतिदेशिकम् । तस्य च "न सेट्'इत्यनेन प्रतिषेधो न भवेदिति झल्ग्रहणं कृतमिति स्वांशे चारितार्थ्यम् । अन्यत्र प्रयोजनं तु जग्मिवेत्यादौ "असंयोगाल्लिट् कित्' (सू.1-2-5) इत्यातिदेशिकस्य कित्त्वस्य "न सेट्' इति प्रतिषेधो न भवतीति क्ङितीत्युपधालोपः सिध्यतीति भावः । झ्र्ज्ञा.पट ऊकालोऽच् (सू.1-2-27) ।। "विभाषा पृषृप्रतिवचने हेः' (सू.8-2-93) इति मात्रकस्य प्लुतवचनं ज्ञापकं न मात्रिकिऽन्ते भवतीति । "अतो दीर्घो यञि, सुपि च' (सू.7-3-101-102) इति दीर्घविधानं ज्ञापकं न मात्रिको मध्ये भवतीति । "ओमभ्यादाने' (सू.8-2-87) इति द्विमात्रस्य प्लुतविधानं ज्ञापकं न द्विमात्रोऽन्ते भवतीति । झ्र्वि.ट ननु "ऊकालः' इति सूत्रे ऊ इति एकमात्रद्विमात्रत्रिमात्राणां प्रश्लिष्टनिर्देशः । तत्र च यथासंख्यामन्वयेन एकमात्रस्य ह्रस्वसंज्ञा द्विमात्रस्य दीर्घसंज्ञा त्रिमात्रस्य प्लुतसंज्ञा चेष्यते । तत्र क्रमेण संनिविष्टानामेकमात्रद्विमात्रत्रिमात्राणामेव प्रश्लिष्टनिर्देशोऽयमिति कथमवगम्यते । मात्रिको मध्ये वा अन्ते वा भवतु, द्विमात्रः आदौ वा अन्ते वास्तु, त्रिमात्रः आदौ वा मध्ये वास्तु । ततश्च एकमात्रस्यैव ह्रस्वत्वमित्यादिव्यवस्था न लभ्येतेत्याशङ्क्याह--इति मात्रिकस्य प्लुतवचनमिति । यदि हि मात्रिकस्यान्ते निर्देशः स्यात् तदा योऽन्ते स प्लुतसंज्ञ इति एकमात्रस्य प्लुतसंज्ञेति वक्तव्यम् । ततश्च "हि' इत्यत्र इकारस्यैकमात्रस्य प्लुतत्वात् "विभाषा पृष्टप्रतिवचने हेः' इति तस्य प्लुतविधानमनर्थकम् । अतस्तद्विधानं न मात्रिकोऽन्ते भवतीति ज्ञापयति । एवं यदि मात्रिको मध्ये भवेत् यो मध्ये स दीर्घसंज्ञ इति एकमात्रस्य दीर्घत्वात् "अतोदीर्घो यञि' इति द्विमात्रस्य द्विमात्रात्मकप्लुतविधानमनर्थकम् । अतस्तत् न द्विमात्रोऽन्ते बवतीति ज्ञापयति । एवं च मात्रिकस्यान्ते मध्ये वा असंभवेन आदौ निवेशे द्विमात्रस्यान्ते निवेशासंभवेन मध्ये निवेशे च सिद्धे अर्थात् त्रिमात्रोऽन्ते निविश्त इति यथासंख्यमेकमात्रद्विमात्रत्रिमात्राणां ह्रस्वदीर्घप्लुतसंज्ञाः सिद्यन्तीति भावः । झ्र्ज्ञ.पा.ट भूवादयो (सू.1-3-1)।। "अचिस्नु'(सू.6-4-77) इत्यत्र श्नुग्रहणं ज्ञापकं न प्रत्ययस्योवङादेशो भवतीति । दिवः सावौत्वविधानं ज्ञापयति उत्पद्यन्ते दिव्शब्दात्स्वादय
इति । झ्र्वि.ट ननु "भूवादयो धातवः' इति सूत्रेण ये धातुपाठे पठिता भू इत्यादयस्तेषां धातुसंज्ञा विधीयते । तथा स्ति त्रस्नू इत्यत्र उवङावत्तिः । नु इत्यस्य धातुपाठे पठितत्वेन त्रस्नु औ इत्यत्र नु इत्यस्य धातुत्वेन "अचि श्नुधातुभ्रुवां थ्वोः' इत्युवङादेशस्य संभवात् । न च णुर्धतुषु पठितो न तु नुः । न चास्य तेन सारूप्यम् । तथा च कथमियमाशङ्केति वाच्यम् । प्रयोगे नुशब्दस्यैव धातुत्वेन तत्सारुप्यस्य त्रस्नु इत्यत्र नुशब्देऽपि स्त्त्वादित्यत् आह--श्नुग्रहणमिति । यदि प्रत्ययस्याप्युवङादेश स्यात्तदा श्नुप्रत्यये न इत्यस्यापि धातुत्वेनैवोवङः सिद्धेः श्नुग्रहणमनर्थकं स्यात् । कृतं च तत् प्रत्ययात्मको यो धातुसरूपः तस्योवङादेशो न भवतीति ज्ञापयति । तथा च न दोष इति भावः । नन्वेवमपि अव्युत्पन्नो यो दिव्शब्दस्तस्य धातुपाठपठितदिव्सरूपत्वेन धातुसंज्ञायाम् "अधातुः' इति प्रतिषेधात् प्रातिपदिकसंज्ञा न सिध्येत् । ततश्च प्रातिपदिकत्वप्रयुक्ता स्वाद्युत्पत्तिर्न स्यादित्याशङ्क्याह--दिवः साविति । "दिव औत्' (सू.7-1-84) इति सूत्रेण दिवः सौ परे औत्वं विधीयमानं दिवः प्रातिपदिकत्वाभावेन सोरेव दुर्लभत्वेनासंगतं सत् धातुसंज्ञकादपि दिव्शब्दात् स्वाद्युत्पत्तिर्मवतीति ज्ञापयति । अतो न दोष इति भावः । वस्तुतस्तु क्रियावाचिनामेव भूवादीनां धातुसंज्ञा इत्येतदनाश्रित्य ज्ञापकद्वयमिदमुपन्यस्तम् । त्रस्नु इत्यत्र नुशब्दस्य वा दिव् इत्यस्याव्युत्पन्नस्य शब्दस्य वा क्रियावाचित्वाभावेनैव धातसारूप्येऽपि धातुसंज्ञाया अप्रवृत्तेरित्यवधेयम् । झ्र्ज्ञ.पट चुटू (सू.1-3-7)।। "उन्दिर् निशामने' "स्कन्दिर् गतिशोषणयोः' इत्यादीनां इत्यादीनां केषांचित् इरितां नुमनुषक्तानां पाठो ज्ञापयति नैवंजातीयकानामिदिद्विधिर्भवतीति । झ्र्वि.ट ठचुटू' इति सूत्रे "हर उपसंख्यानम्' इति वार्तिकम् । रुधिर् इत्यादौ इर इत्संज्ञा वक्तव्या । "इरितो वा' (सू.3-1-57) इत्यनेन अङ् न स्यात् । न च रेफस्य "हलन्त्यम्' (सू.1-3-3) इत्यनेन, इकारस्य "उपदेशेऽजनुनासिकः' (सू.1-3-2) इत्यनेन च इत्संज्ञकत्वात् न दोष इति वाच्यम् । तथा सति इदित्त्वप्रयुक्तविधेरपि प्रसङ्गात् । तथा च भेत्ता छेत्ता इत्यादौ "इदितो नुम्' (सू.7-1-58) इति नुम् प्राप्नोति । अतोऽवयवेत्संज्ञया निर्वाहायोगात् इर् इति समुदायस्येत्संज्ञा वक्तव्येति वार्तिकाशयः । भाष्यकारस्तु अवयवयोः प्रत्येकमित्संज्ञयैव सिद्धौ समुदायेत्संज्ञा न वक्तव्या। न चेदित्त्वाप्रयुक्तनुम्प्रसङ्ग इति वाच्यम् । इरितां केषांचिद्धातूनां "उ उन्दिर् निशामने' "स्कन्दिर् गतिशोषणयोः' इत्येवं नुमनुषक्तानां पाठात् इरितामिद्त्कार्थं नेति ज्ञाप्यते । अतो भेत्तेत्यादौ नुमापत्तिविरहादिति न्यरूपयत् । तदाह--उन्दिर् निशामन इत्यादिना । झ्र्ज्ञा.प.ट णेरणौ (सू.1-3-67)।। अनाध्यान इति प्रतिषेधो ज्ञापयति भवत्येवंजातीयकानाम् आत्मनेपदमिति । झ्र्वि.ट ननु "णेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने' इति सूत्रस्य ण्यन्तादात्मनेपदं भवति अणौ या क्रिया सैव चेण्ण्यन्तेनोच्येत अणौ यत्कर्मकारकं स चेण्णौ कर्ता स्यादनाध्याने इत्यर्थः । तत्र "अनाध्याने' इति व्यर्थम् । कर्मस्थभावक्रियाणामेव कर्मवद्भावविषयत्वेन आध्यानार्थानां कर्तृस्थक्रियत्वेन कर्मवद्भावाविषयत्वादित्याशढद्धठ्ठड़14;क्य अत एव एवंजातीयकानाम् आत्मनेपदं ज्ञापयतीति तत्सार्थक्यमाह--अनाध्यान इति । अत्र च येषामण्यन्तानां यत्कर्म तेषां ण्यन्तानां यदा स कर्ता तदा कर्तृस्थभावक्रियत्वेऽप्यात्मनेपदं भवतीत्यर्थः। तेन पस्यन्ति भृत्या राजानम्, दर्शयते भृत्यान् राजा इत्यत्रात्मनेपदं सिद्धं भवतीति कैयटः । एतत्तत्त्वं स्पष्टतया ये ज्ञातुमिच्छन्ति तैरेतत्सूत्रव्याख्यानभूता कौमुदी तध्द्याख्या बालमनोरमा च द्रष्टव्या । झ्र्ज्ञा.पट अनुपराभ्यां कृञः (सू.1-3-79)।। द्युतादिभ्यो वावचनात्
ज्ञापकात् न परस्मैपदविषये अत्मनेपदं भवतीति । झ्र्वि.ट ननु "अनुपराभ्यां कृञः' इति सूत्रेण परस्मैपदविधानेऽपि परस्मैपदमेव भवतीति नियमाभावात् तद्विषये आत्मनेपदमपि स्यादित्यत आह-- द्युतादिभ्यो वावचनादिति । यदि परस्मैपदविषयेऽप्यात्मनेपदं स्यात् तदा "द्युद्भ्यो लुङि' (सू.1-3-91) इत्यत्र "वा क्यषः' (सू.1-3-90) इति सूत्रात् वा इत्यनुर्वत्य विकल्पेन परस्मैपदविधानमनर्थकं स्यात् । अन्तरेणापि वावचनानुवृतिं पदद्वयस्य सिद्धे । ततश्च वावचनानुवृत्तिर्लिङ्गं परस्मैपदविषये आत्मनेपदाभावस्य । अतो न दोष इति भावः । झ्र्ज्ञा.पट आ कडड्डत्ध्;ारादेका संज्ञा (सू.1-4-1)।। "हृक्रोरन्यतरस्याम्' इत्यन्यतरस्यांग्रहणं ज्ञापकं न कर्मसंज्ञायां कर्तृसंज्ञायां कर्तृसंज्ञा भवतीति । झ्र्वि.ट ननु गतिबुद्धिसूत्रेण (सू.1-4-52) "गमयति देवदत्तं ग्रामं यज्ञदत्त' इत्यादावण्यन्तावस्थायां कर्तुर्देवदत्तस्य ण्यन्तावस्थायां कर्मसंज्ञा भवतीत्युच्यते । णिजर्थव्यापारजन्यफलाश्रयत्वात् कर्मत्वमिव णिच्प्रकृतिधात्वर्थव्यापाराश्रयत्वात् कर्तृत्वमपिदेवदत्तस्य वर्तते । ततश्च देवतत्ते संज्ञाद्वयसमावेशात् संज्ञाद्वयप्रयुक्ते विभक्ती विभक्ती प्राप्नुत इत्याशढद्धठ्ठड़14;क्याह--हृक्रोरिति । यदि प्रयोज्यकर्तुः संज्ञाद्वयं भवेत् तदा हृक्रोरपि गत्यादिभिः सह पाठं कृत्वा अन्यतरस्यांग्रहणं न कुर्यात् । तेन प्रयोज्यकर्तुः कर्मसंज्ञायां कर्तृसंज्ञा न भवतीति ज्ञाप्यते । अतो न दोष इति भावः । झ्र्ज्ञा.प.ट विप्रतिषेधे परम् (सू.1-4-2)।। गौरादिषु श्वन्शब्दपाठो ज्ञापयति नोदात्तनिवृत्तिस्वरः शुन्यवतरतीति । झ्र्वि.ट ठबिप्रतिषेधे परं कार्यम्' इति सूत्रे "अन्तरङ्गं च' इति वार्तिकम् । तस्य चान्तरङ्गं बलीय इत्यर्थः । तस्य च प्रयोजनम्--"यणोकादेशेत्वोत्वानि गुणवृद्धिद्विर्वचनाल्लोपस्वरेभ्यः' इत्यनन्तरेण वार्तिकेन प्रदर्शितम् । तत्राल्लोपादेकादेशोऽतरङ्गत्वाद्भवतीत्यत्र शुना इत्युदाहरणम् । श्वन् अ आ इति स्थिते "श्वयुवमघोनाम्' (सू.6-4-133) इत्यनेन संप्रसारणे शु अ अन् अ आ इति स्थिते "अल्लोपोऽनः' (सू.6-4-134) इत्यल्लोपः "संप्रसारणाच्च' (सू.6-1-108) इति पूर्वरूपं च प्राप्नोति । तत्रान्तरङ्गत्वात्पूर्वरूपमेव भवति । नन्वत्राल्लोपे पूर्वरूपे वा न कश्विद्विशेषोऽस्ति रूपे । तथा चान्तरङ्गबलीयस्त्त्वावर्णनं प्रकृतेऽनुपयुक्तमिति चेन्न । अल्लोपे हि सति अकारस्योदात्तत्वेन तस्मिन् लुप्ते अनुदात्ताया विभक्तेरुदात्तत्वम् "अनुदात्तस्य च यत्रोदात्तलोपः' (सू.6-1-161) इत्यनेन भवतीति शुनाशब्दोऽन्तोदात्तः संपद्यते । यदा तु पूर्वरूपं भवेत्तदा "एकादेश उदात्तेनोदात्तः' (सू.8-2-5) इति सूत्रेण उकारस्यैकादेशरूपस्योदात्तत्वे विभक्तिरनुदात्तैव तिष्ठतीति मध्योदात्तः शुना इति शब्दो भवतीति स्वरे भेदस्य सद्भावात् । एवंरीत्या स्वरे भेदमङ्गीकृत्य प्रयोजनमुपर्वण्य तत्प्रत्याख्यानार्थं भाष्यकारैः स्वरभेदो दूषितः । तथा हि-शुना इत्यत्र अल्लोपे सत्यपि उदात्तनिवृत्तिस्वरः श्वन्शब्देन प्रवर्तत इति गौरादिगणे श्वन्शब्दस्य नान्तत्वात् "ऋन्नेभ्यो ङीप्' (सू.4-1-5) इति ङीपैव तद्रूपसिद्धेः किं तत्र पाठेन । न च ङीपि स्ति तस्य पित्त्वेनानुदात्तत्वात् शुनीशब्दे ईकारोऽनुदात्तो भवेत् । ङीषि तु प्रत्ययस्वरेम तस्योदात्तत्वात् शुनी इत्यत्र ईकार उदात्त इति स्वरे भेदसद्भावात् अन्तोदात्तत्वाय गौरादिषु पाठः । तथा च स कथं ज्ञापकः स्यादतिि वाच्यम् । ङीपि सत्यपि श्वन् अ ई इत्यत्र संप्रसारणे शु अन् ई इति स्थिते "अल्लोपोऽनः' इत्यकारस्योदात्तस्य लोपेऽनुदात्तस्य ईकारस्य "अनुदात्तस्य च यत्रोदात्तलोपः' इति सूत्रेणोदात्तत्वेनान्तोदात्तत्वसिद्धेः । तथा च गौरादिषु श्वन्शब्दपाठो व्यर्थः सन् उदात्तनिवृत्तिस्वरः श्वन्शब्दे न प्रवर्तत इति ज्ञापयति । एवं च शूना इत्यत्रापि विभक्त्युदात्तत्वस्याप्रवृत्तेः अल्लोपे
पूर्वरूपे च स्वरे वा रूपे वा भेदाभावात् "अन्तरङ्गं बलीयः' इत्यस्य अल्लोपादेकादेशः प्रयोजनं न भवतीति भाष्याशयः । सर्वमिदं मनसिकृत्याह--गौरादिषु श्वन्शब्दपाठ इति । उदात्तनिवृत्तिस्वरः इति । "अनुदात्तस्य च यत्रोदात्तलोपः' इति सूत्रेण विधीयमानः उदात्ते लुप्ते अनुदात्तस्योदात्तत्वात्मकः स्वर इत्यर्थः । झ्र्ज्ञा.पट साधकतमं करणम् (सू.1-4-42) तमग्रहणं ज्ञापयति कारकसंज्ञायां तरतमयोगो न भवतीति । झ्र्वि.ट ननु सर्वेषामपि कारकाणां यत्किंचित्क्रियानिर्वर्तकत्वेन साधकत्वात् साधकमित्यनुक्तावपिकरणसंज्ञाया असाधकेऽप्रवृत्तेः, साधकमित्युपादानं साधकतममित्यर्थं गमयिष्यतीति किं तमग्रहणेन । यथा "अबिरूपाय कन्या देया' इत्युक्ते अनभिरूपाय दाने प्रवृत्त्यभावेन अभिरूपतमायेति तमग्रहणं विनैव लभ्यते तद्वदित्याशङ्क्याह--तमग्रहणमिति । तथा च तमग्रहणात् एतत्सूत्रादन्यत्र कारकप्रकरणे तरतमभावो नाश्रीयत इति ज्ञाप्यते । अन्यथा "आधारोऽधिकरणम्' (सू.1-4-45) इत्यत्रान्वर्थमहासंज्ञाबलादेवाधारलाभे पुनस्तद्ग्रहणसार्मथ्यात् प्रकृष्ट आधारः नाम सर्वावयवव्याप्त्या य आधारः सोऽधिकरणमित्यर्थः स्यात् । तथा सति तिलेषु तैलम्, दध्नि सर्पिः इत्यादावेव स्यात्, गङ्गायां घोष इत्यादौ न स्यादिति भावः । इति प्रथमोऽध्यायः ।