प्रमुखा विकल्पसूचिः उद्घाट्यताम्
अनुमानखण्डः
प्रत्यक्षोपजीवकत्वात् प्रत्यक्षानन्तरं बहुवादिसम्मतत्वादुपमानात् प्रागनुमानं निरूप्यते । तत्र व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं ज्ञानमनुमितिः। तत्करणमनुमानम्।
तच्च लिङ्गपरामर्शो, न तु परामृश्यमानं लिङ्गमिति वक्ष्यते ।

अथानुमानं न प्रमाणम्, योग्योपाधीनां योग्यानुपलब्ध्या अभावनिश्चयेऽपि अयोग्योपाधिशङ्कया व्यभिचारसंशयात् शतशः सहचरितयोरपि व्यभिचारोपलब्धेश्च।
लोके धूमादिदर्शनानन्तरं वह्न्यादिव्यवहारश्च सम्भावनामात्रात् संवादेन च प्रामाण्याभिमानादिति नाप्रत्यक्षं प्रमाणमिति ।

न । अप्रमाणसाधर्म्येणाप्रामाण्यसाधने दृष्टसाधर्म्यस्यानुमानत्वात् एतद्वाक्यस्य सन्दिग्धविपर्यस्तान्यतरं प्रत्यर्थवत्त्वा। तयोश्च परकीययोरप्रत्यक्षत्वात् । अनुमानमप्रमाणमिति
वाक्यस्य प्रामाण्याप्रामाणयोर्व्याघाताच्च ।

अपि चानुमानाप्रामाण्ये प्रत्यक्षस्याप्यप्रमाणतापत्तेः प्रामाण्यस्यानुमेयत्वात् स्वतश्च प्रामाण्यग्रहे तत्संशयानुपपत्तेः । व्याप्तिग्रहोपायश्च वक्ष्यते ।
इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे अनुमिति निरूपणम्॥

56

नन्वनुमितिहेतुव्याप्तिज्ञाने का व्याप्तिः। न तावदव्यभिचरितत्वम् । तद्धि न साध्याभाववदवृत्तित्वम्, साध्यवद्भिन्नसाध्याभाववदवृत्तित्वम्,
साध्यवत्प्रतियोगिकान्योन्याभावासामानाधिकरण्यम् , सकलसाध्याभाववन्निष्ठाभावप्रतियोगित्वम्, साध्यवदन्यावृत्तित्वं वा; केवलान्वयिन्यभावात् ।
इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे व्याप्तिवादे व्याप्तिपञ्चकम्।

अथ सिंह-व्याघ्रोक्तव्याप्तिलक्षणे
नापि साध्यासामानाधिकरण्यानधिकरणत्वं, साध्यवैयधिकरण्यानधिकरणत्वं वा। तदुभयमपि साध्यानधिकरणानधिकरणत्वम्। तच्च तत्र, यत्किञ्चित्साध्यानधिकरणाधिकरणे
धूमे चाप्रसिद्धम् ।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे सिंह-व्याघ्रोक्तव्याप्तिलक्षणम्।
अथ चतुर्दशलक्षणी

अथेदं वाच्यं ज्ञेयत्वादित्यादौ समवायितया वाच्यत्वाभावो घट एव प्रसिद्धः, व्यधिकरणधर्र्मावच्छिन्नप्रतियोगिताकाभावस्य केवलान्वयित्वात् । न चैवं घट एव
व्यभिचारः, साध्यतावच्छेदकावच्छिन्नप्रतियोगिताकसाध्याभाववद्वृत्तित्वं हि व्यभिचारः । न च वाच्यत्वाभावस्तादृशो घट इति चेत्, तर्हि तादृशसाध्याभावसामानाधिकरण्याभावो
व्याप्तिः । तथा चाप्रसिद्धिः । प्रतियोग्यवृत्तिश्च धर्मो न प्रतियोेगितावच्छेदकः, तद्विशिष्टज्ञानस्याभावधीहेतुत्वात् । अन्यथा तन्निर्विकल्पकादपि घटो नास्तीति बुद्ध्यापत्तेः।
गवि शशशृङ्गं नास्तीतिप्रततेरप्रसिद्धेः। शशशृङ्गं नास्तीति च शशे शृङ्गाभाव इत्यर्थः ।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे व्याप्तिवादे चतुर्दशलक्षणी॥
अथ पूर्वपक्षव्याप्तिप्रकरणम्।

अथ साध्यासामानाधिकरण्यानधिकरणत्वे सति साधिकरणत्वं व्याप्तिः । केवलान्वयिनि साध्यासामानाधिकरण्यं निरधिकरणे आकाशादौ प्रसिद्धमिति चेत् , न।
साध्यासामानाधिकरण्यं हि न साध्यानधिकरणाधिकरणत्वं, साध्याधिकरणानधिकरणत्वं वा। केवलान्वयिनि, यत्किंचित्साध्याधिकरणानधिकरणे धूमे चाव्याप्तेः। नापि
स्वसमानाधिकरणात्यन्ताभावा प्रतियोगिसाध्यसामानाधिकरण्यम् । पर्वतीयवह्नेर्महानसीयधूमसमानाधिकरणात्यन्ताभावप्रतियोगित्वात् , द्रव्यत्वादेरव्याप्यवृत्त्यव्याप्यतापत्तेश्च।
न च प्रतियोगिविरोधित्वं व्याप्यवृत्तित्वं वा अभावविशेषणं देयम् । संयोगादौ साध्ये सत्त्वादेरनैकान्तिकत्वाभावप्रसङ्गात्। न हि प्रतियोगिविरोधी संयोगादेरपरोऽत्यन्ताभावोऽस्ति,
अधिकरणभेदेनाभावभेदाभावात्। नापि साधनवन्निष्ठान्योन्याभावाप्रतियोगिसाध्यवत्कत्वं व्याप्तिः । मूले वृक्षः कपिसंयोगवान्नेत्यबाधितप्रतीतेः तदन्योन्याभावस्यापि  तत्र
सत्त्वात् । न चैवं भेदाभेदः, अवच्छेदकभेदेन तत्सत्त्वाभ्युपगमात् । साधनवन्निष्ठान्योन्याभावाप्रतियोगि साध्यवद्यस्येति षष्ठ्यर्थव्याप्यव्यापकभावानिरूपणात्,
साध्यसाधनयोर्व्याप्तिनिरूप्यत्वात्, वह्निमत्पर्वतस्य धूमवन्महानसनिष्ठान्योन्याभावप्रतियोगित्वाच्च। विशेषाभावकूटादेवाभावव्यवहारोपपत्तौ सामान्याभावे मानाभावात्।
नापि साधनसमानाधिकरणयावद्धर्मनिरूपितवैयधिकरण्यानधिकरणसाध्यसामानाधिकरण्यम्। साधनसमानाधिकरणस्य प्रमेयत्वादेर्वैयधि करण्याप्रसिद्धेः। महानसादौ समवायितया
वह्निवह्निमतोरत्यन्तान्योन्याभावयोः सत्त्वात् धूमादावप्युक्तलक्षणाभावाच्च।

अथानौपाधिकः सम्बन्धो व्याप्तिः। उपाधिश्च साध्यव्यापकत्वे सति साधनाव्यापकः । व्यापकत्वं तु तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वम् । व्यभिचारे चावश्यमुपाधिः।
प्रतियोगित्वं न विरोधित्वं सहानवस्थाननियमलक्षणम्, गोत्वाश्वत्वयोरतथात्वात् अन्योन्याभावप्रतियोगिन्यसत्त्वाच्च । किं तु यथा अधिकरणाभावयोः स्वरूपविशेषः
सम्बन्धः तथा प्रतियोगित्वमनुयोगित्वमपि, अभावविरहामत्वं वेति चेत,्

यत्किंचित्साध्यव्यापकसाधनाव्यापकधर्मनिषेधो न धूमादौ, प्रकृतसाध्यव्यापकसाधनाव्यापकधर्मश्च सिद्ध्यसिद्धिभ्यां न निषेद्धुं शक्यः । यावत्साध्यव्यापके
प्रमेयत्वादौ साधनाव्यापकत्वम् , यावत्साधनाव्यापके च घटत्वादौ साध्यव्यापकत्वं निषिध्यत इति चेत् , न । व्यधिकरणत्वात्।

यावत्साधनाव्यापकमव्यापकं यत्साध्यस्य, यावत्साध्यव्यापकं व्यापकं वा यस्य तत्त्वं तदिति चेत्, न । सोपाधेरपि तथात्वात् । तथा हि- -साधनस्य वह्नेरव्यापकं
यावदार्द्रेन्धनं तत् प्रत्येकमव्यापकं साध्यधूमस्य, द्वितीये साध्यधूमस्य व्यापकमार्द्रेन्धनं तत् व्यापकं महानसीयवह्नेः।

नापि साध्यं यावद्व्यभिचारि तदव्यभिचारित्वमनौपाधिकत्वम्। साध्याव्यभिचारित्वस्यैव गमकत्वसम्भवात् । तच्च दूषितम् ।
नापि कात्स्र्न्येन सम्बन्धो व्याप्तिः । एकव्यक्तिके तदभावात् । नानाव्यक्तिकेऽपि सकलधूमसम्बन्धस्य प्रत्येकवह्नावभावात् । अत एव न कात्स्र्न्येन साध्येन
सम्बन्धो व्याप्तिः, विषमव्याप्ते तदभावाच्च । न च यावत्साधनाश्रयाश्रितसाध्यसम्बन्धः । साधनाश्रयमहानसादौ सकले प्रत्येकं वह्नेेराश्रितत्वाभावात्।
नापि साधनसमानाधिकरणयावद्धर्मसमानाधिकरणसाध्यसामानाधिकरण्यम् । यावद्धर्मसामानाधिकरण्यं हि यावद्धर्माधिकरणाधिकरणत्वम्। तच्चाप्रसिद्धम्।
साधनसमानाधिकरणसकलमहानसत्वाद्यधिकरणाप्रतीतेः ।

57

नापि स्वाभाविकः सम्बन्धो व्याप्तिः । स्वभावजन्यत्वे तदाश्रितत्वादौ वा अव्याप्त्यतिव्याप्तेः ।

नाप्यविनाभावः केवलान्वयिन्यभावात् ।
अथ सम्बन्धमात्रं व्याप्तिः । व्यभिचारिसम्बन्धस्यापि केनचित्सह व्याप्तित्वात् । धूमादिव्याप्तिस्तु विशिष्यैव वक्तव्येति ।

तन्न । लिङ्गपरामर्शविषयव्याप्तिस्वरूपनिरूपणप्रस्तावे लक्षणाभिधानस्यार्थान्तरत्वात् । न च सम्बन्धमात्रं तथा, तद्बोधादनुमित्यनुत्पत्तेः ।
नापि व्याप्तिपदप्रवृत्तिनिमित्तमिदम् । सम्बन्धज्ञानेऽपि व्याप्तिपदाप्रयोगात् । केवलान्वयिनि केवलान्वयिसंम्बन्धः व्यतिरेकिणि साध्यवदन्यावृत्तित्वम् व्याप्तिः।
एतयोरनुमितिविशेषजनकत्वम् । अनुमितिमात्रे पक्षधर्मतैव प्रयोजिका । न चातिप्रसङ्गः, विशेषसामग्रीसहिताया एव सामान्यसामग्र्याः कार्यजनकत्वनियमादिति  केचित्।
तदपि न। साध्यवदन्यावृत्तित्वस्य धूमेऽसत्त्वात् वह्निमत्पर्वतान्यस्मिन् धूमसत्त्वात् । न च सकलसाध्यवदन्यावृत्तित्वम् , वह्निमतां प्रत्येकं तथात्वात्। सर्वत्र
लक्षणे साध्यत्व साधनत्व तदभिमतत्वानां व्याप्तिनिरूप्यत्वेनात्माश्रयः । साध्यत्वं हि न सिद्धिकर्मत्वं सिषाधयिषाविषयत्वं वा । महानसीयवह्नौ तदभावात् । न च
सामान्यतो व्याप्त्यवगमोऽस्त्येव परस्य, कथमन्यथा दूषणेनासाधकतां साधयेदिति वाच्यम् । स्वार्थानुमानोपयोगिव्याप्तिस्वरूपनिरूपणं विना कथायामप्रवेशादिति ।
इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे पूर्वपक्षव्याप्तिप्रकरणम् ॥

अथ सिद्धान्तव्याप्तिलक्षणम्
अत्रोच्यते। प्रतियोग्यसमानाधिकरणयत्समानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नं यन्न भवति तेन समं तस्य सामानाधिकरण्यं व्याप्तिः ।
इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे सिद्धान्तव्याप्तिलक्षणम्॥

अथ सामान्याभावः
अन्यनिष्ठवह्नेः धूमवत्पर्वतवृत्त्यत्यन्ताभावप्रतियोगित्वेऽपि तत्प्रतियोगिता न वह्नित्वेनावच्छिद्यते, धूमवति वह्निर्नास्तीत्यप्रतीतेः । सामान्यावच्छिन्नप्रतियोगिताकाभावः
पृथगेव । अन्यथा सकलप्रसिद्धरूपाभावे प्रसिद्धरूपवदन्यत्वे चावगते वायौ रूपं न वा, वायू रूपवान्न वेति संशयो न स्यात्। विशेषाभावकूटस्य निश्चितत्वात् ।
इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे सामान्याभावः॥

अथ विशेषव्याप्तिः
यद्वा प्रतियोगिव्यधिकरणस्वसमानाधिकरणात्यन्ताभावाप्रतियोगिना सामानाधिकरण्यं , यत्समानाधिकरणान्योन्याभावप्रतियोगि यद्वन्न भवति तेन समं तस्य
सामानाधिकरण्यं वा, स्वसमानाधिकरणान्योन्याभावाप्रतियोगियद्वत्कत्वं वा । अन्यवृत्तिवह्नितद्वतोेरन्यवृत्तिधूमवन्निष्ठात्यन्ताभावान्योन्याभावप्रतियोगित्वात् व्यधिकरणवह्निधूमयोर्न
व्याप्तिः, किंतु तत्तद्धूमस्य समानाधिकरणतत्तद्वह्निना । न चैवं धूममात्रे न व्याप्तिरिति वाच्यम् । सर्वधूमव्यक्तेस्तथात्वेन धूममात्रस्य व्याप्यत्वात्। धूमसम्बन्धिवह्निस्तव्द्याप्य
एव। युगपदुत्पन्नविनष्टयोश्च व्याप्तिरेव । कर्मणि च संयोगाभावः प्रतियोग्यसमानाधिकरणः ।

यद्वा प्रतियोगिवैयधिकरण्यावच्छेदकावच्छिन्नत्वमत्यन्ताभावविशेषणम् । कर्मणि च संयोगाभावस्य प्रतियोगिवैयधिकरण्यावच्छेदकावच्छिन्नत्वमेव। न
चान्योन्याभावस्याव्याप्यवृत्तित्वम् । अभेदस्याबाधितप्रत्यभिज्ञानात् । व्याप्यव्यापकभावाज्ञानेऽपि वस्तुसतस्तथात्वेनाज्ञायमानस्य सम्बन्धत्वेनैव भातस्य षष्ठ्यर्थत्वम् ।
न चैवमननुगमो दोषाय। कस्य का व्याप्तिरित्यननुगतस्यैव लक्ष्यत्वात् ।

अथ धूमवति वह्निह्रदौ न स्तो धूमवान् वह्निमद्ध्रदौ न भवतीति प्रतीतेः व्यासज्यवृत्तिप्रतियोगिकौ वह्निवह्निमतोरत्यन्तान्योन्याभावौ धूमवति विद्येत इति
कथमेते लक्षणे इति चेत् ,

न। तादृशाभावानभ्युपगमात्। अभ्युपगमे वा तत्र तदुभयं प्रतियोगि, न वह्निवह्निमन्तौ ।
अथ वा अनौपाधिकत्वं व्याप्तिः । तच्च यावत्स्वसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नं यत् तत्प्रतियोगिकात्यान्ताभावसमानाधिकरणं यत् तेन
समं सामानाधिकरण्यम् । न ह्येवं सोपाधिः , तत्र साधनसमानाधिकरणात्यन्ताभावप्रतियोगिन आर्द्रेन्धनवत्त्वादेरुपाधेर्योऽत्यन्ताभावस्तेन समं साध्यस्य धूमादेः सामानाधिकरण्याभावात्
उपाधेः साध्यव्यापकत्वात् । एतदेव यावत्स्वव्यभिचारिव्यभिचारिसाध्यसामानाधिकरण्यमनौपाधिकत्वं गीयते ।

58

यद्वा यावद्यत्समानाधिकरणात्यन्ताभावाप्रतियोगिप्रतियोगिकात्यन्ताभावसामानाधिकरण्यं यस्य तस्य तदेवानौपाधिकत्वम् । सोपाधौ तु साध्यवन्निष्ठात्यन्ताभावाप्रतियोगिन
उपाधेर्योऽत्यन्ताभावस्तेन समं हेतोः सामानाधिकरण्यम्। उपाधेः साधनाव्यापकत्वात् ।

यद्वा यत्सम्बन्धितावच्छेदकरूपवत्त्वं यस्य तस्य सा व्याप्तिः । तथाहि धूमस्य वह्निसम्बन्धित्वे धूमत्वमवच्छेदकम् । धूममात्रस्य वह्निसम्बन्धित्वात् । वह्नेेस्तु
धूमसम्बन्धे न वह्नित्वमवच्छेदकम् , धूमासम्बन्धिनि गतत्वात् । न ह्यतिप्रसक्तमवच्छेदकं, संयोगादौ तथात्वादर्शनात् । किंतु वह्नावार्द्रेन्धनप्रभववह्नित्वं धूमसम्बन्धितावच्छेदकं,
तादृशं च व्याप्यमेव ।

अथवा यत्सामानाधिकरण्यावच्छेदकावच्छिन्नं यस्य स्वरूपं तत्तस्य व्याप्यम् । वह्निसामानाधिकरण्यं हि धूमे धूमत्वेनावच्छिद्यते । सोपाधौ तूपाधिना ।
इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे विशेषव्याप्तिप्रकरणम् ।

अथ अत एव चतुष्टयप्रकरणम्
अत एव साधनतावच्छेदकभिन्नेन येन साधनताभिमते साध्यसम्बन्धोऽवच्छिद्यते स एव तत्र साधने विशेषणमुपाधिरिति वदन्ति ।

अत एव च तत्र साधनाव्यापकत्वे सति साधनावच्छिन्नसाध्यव्यापकत्वं लक्षणं ध्रुवम् । व्यभिचारिणि साधने एकत्र साध्यतदभावयोर्विरोधेनावच्छेदकभेदं विना
तदुभयसम्बन्धाभावादवश्यं साध्यसम्बन्धितावच्छेदकमस्ति। तदेव च साधनावच्छिन्नसाध्यव्यापकं साधनाव्यापकं तत्रोपाधिः।

अत एव व्यभिचारे चावश्यमुपाधिरिति संगच्छते । अन्यथा व्यभिचारादेव तत्रागमकत्वेन व्यभिचारेण न तदनुमानम् । अप्रयोजकत्वात् ।
अत एव च तस्य साध्यसम्बन्धितावच्छेदकरूपलक्षणाव्याप्तिः साधनताभिमते चकास्तीति स्फटिके जपाकुसुमवदुपाधिरसावुच्यते।

लक्षणं तु साध्यसाधनसम्बन्धव्यापकत्वे सति साधनाव्यापकत्वम् । विषमव्याप्तस्तु नोपाधिपदवाच्यः प्रवृत्तिनिमित्ताभावात् । दूषकता च तस्य व्यभिचारोन्नायकतया।
न च व्यभिचारोन्नायकत्वमेवौपाधिकत्वम्, अप्रयोजकसाध्यव्यापकव्यभिचारिणोऽप्युपाधित्वापत्तेरिति ।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे विशेषव्याप्तिः ॥ व्याप्तिवादश्च समाप्तः ।
अथ व्याप्तिग्रहोपायप्रकरणम्

सेयं व्याप्तिर्न भूयोदर्शनगम्या । दर्शनानां प्रत्येकमहेतुत्वात् । आशुविनाशिनां क्रमिकाणां मेलकाभावात् । न च तावद्दर्शनजन्यसंस्कारा इन्द्रियसहकृता
व्याप्तिधीहेतवः, प्रत्यभिज्ञायामिन्द्रियस्य तथात्वकल्पनादिति वाच्यम् । समानविषये स्मरणे प्रत्यभिज्ञाने च संस्कारो हेतुः। अतः कथं संस्कारेण व्याप्तिज्ञानं जन्येत ।
अन्यथा अतिप्रसङ्गः ।

किं च सम्बन्धभूयोदर्शनं, भूयस्सु स्थानेषु दर्शनम् , भूयसां वा दर्शनं, भूयांसि वा दर्शनानि न तथा । एकत्र रूपरसयोर्द्रव्यत्वघटत्वयोश्च व्याप्तिग्रहात्। एकत्रैव
धारावाहिके तद्धीप्रसङ्गात् ,भूयस्त्वस्य त्रिचतुरादित्वेन अननुगमाच्च ।

अपि च पार्थिवत्वलौहलेख्यत्वादौ शतशो दर्शनेऽपि व्याप्त्यग्रहात् । तर्कसहकृतं तथेति चेत् , तर्हि सहचारदर्शनव्याभिचारादर्शनसहकृतः स एव व्याप्तिग्राहकोऽस्तु,
आवश्यकत्वात् । किं भूयोदर्शनेन । न च तेन विना तर्क एव नावतरति । प्रथमदर्शने व्युत्पन्नस्य तर्कसम्भवात् । न चैवमेवास्तु। तर्कस्य व्याप्तिग्रहमूलकत्वेनानवस्थानात्।
जातमात्रस्य प्रवृत्तिनिवृत्तिहेत्वनुमितिजनकव्याप्तिज्ञानं तर्कं विनैव । अतो नानवस्थेति चेत् , तर्हि व्यभिचारात् सोऽपि न व्याप्तिग्रहे हेतुः । न चैतद्बुुद्धाववान्तरजातिरस्ति।
सामान्यप्रत्यासत्त्या सर्वोपसंहारादविनाभावग्रहः, सामान्यरूपता च न सकृद्दर्शनगम्येेति भूयोदर्शनापेक्षेति चेत्, न । सामान्यस्य हि प्रत्यासत्तित्वं लाघवात् , न तु
सामान्यतया ज्ञातस्य । तदनभ्युपगमाच्च । न च काकतालीयत्वादिशङ्काव्युदासार्थं द्वितीयादिदर्शनापेक्षेति वाच्यम्। द्वितीयादिदर्शनेऽपि शङ्कातादवस्थ्यात् ।
नन्वनौपाधिकत्वज्ञानं व्याप्तिज्ञाने हेतुः तद्देशकालतत्रा(तत्तद?)वस्थितघटादीनामुपाधित्वशङ्कानिरासः कस्यचित् साधनव्यापकत्वज्ञानेन कस्यचित् साध्याव्यापकत्वज्ञानेन
स्यात् । तच्च भूयोदर्शनं विना नावतरतीति चेत्,

न । अयोग्योपाधिव्यतिरेकस्यानुमानाधीनज्ञानत्वेनानवस्थापातात्।
अथ साध्यसाधनसहचरितधर्मान्तराणाम् उपाधित्वसंशये न व्याप्तिग्रहः। अतस्तेषामनुपाधित्वज्ञानं भूयोदर्शनाधीनसाध्याव्यापकत्वज्ञाने सतीत्येतदर्र्थं भूयोदर्शनापेक्षा।
अत एव यावता दर्शनेन तन्निश्चयः तावत् भूयोदर्शनं हेतुरिति न वारसङ्ख्यानियमो, न वाननुगमः ।

59

यद्यपि चान्यस्य साध्यव्यापकत्वसाधनाव्यापकत्वसंशयो नान्यव्याप्तिग्रहप्रतिबन्धकः, तथापि तदाहितव्यभिचारसंशयः प्रतिबन्धक इति तद्विधूूननमावश्यकमिति
चेत्, न । अयोग्योपाधिसंशयाधीनव्यभिचारसंशयस्य तथाप्यनुच्छेदात् । स च न भूयोदर्शनात्, नाप्यनुमानादित्युक्तम् । अपि च भूयोदर्शनाहितसंस्कारो न बहिरिन्द्रियसहकारी,
तव्द्यापारं विनापि च सहचारादिज्ञानवतो व्याप्तिग्रहात् ।

नापि मनसः, इन्द्रियादिवत् भूयोदर्शनजन्यसंस्कारस्य तज्जन्यस्मरणस्य वा प्रमाणान्तरत्वापत्तेः । तस्मात् परिशेषात् सकृद्दर्शनगम्या सा । तथाहि- -उपाध्यभावो
व्याप्तिः । अभावश्च केवलाधिकरणं तत्कालसम्बन्धो वा स्वप्रकाशरूपं तज्ज्ञानं वा । तच्च प्रथमदर्शनेनावगतमेव चक्षुरादिना । न चाधिकस्तदभावोऽस्ति । न च
प्रतियोगिज्ञानमधिकरणादिज्ञानजनकम्, येनोपाधिज्ञानं विना तन्न स्यात् । एवमुपाध्यभावे ज्ञाते किंचिन्न ज्ञातुमवशिष्यते । उपाध्यभावव्यवहारस्तु तद्धियमपेक्षते ,
दीर्घत्वादिव्यवहार इवावधिज्ञानम् । न चैवं रासभसम्बन्धतुल्यवह्निधूमसम्बन्धज्ञानादेवानुमितिः स्यादिति वाच्यम्। उपाधिस्मरणे सति उपाधितव्द्याप्येतरसकलतदुपलम्भकसमवधाने
चोपाध्यनुपलम्भसहितस्य केवलाधिकरणज्ञानस्यानुमितिहेतुत्वात् तव्द्यवहारहेतुत्वाच्च।

नन्वेवं प्रथमदर्शनेन व्याप्तिनिश्चयात् विशेषदर्शने सति रासभादिसंशयवत् तत्संशयो न स्यादिति चेत्, व्याप्तिज्ञानानन्तरं किं विद्यमान एवोपाधिर्मयोपाधित्वेन न
ज्ञात इति शङ्कया गृहीतव्याप्तावपि संशयः । अतस्तत्र भूयोदर्शनेनोपाधिनिरासद्वारा व्याप्त्यभावशङ्का अपनीयते ।

यद्वा ज्ञानप्रामाण्यसंशयाव्द्याप्तिसंशयः, यथा घटज्ञानसामग्र्यां सत्यां घटज्ञाने सति तत्प्रामाण्यसंशयाहितस्तत्संशयः, न त्वग्रिमसंशयानुरोधेन तत्र घटज्ञानमेव न
वृत्तमिति कल्प्यते, तथेहाप्युपाध्यभावस्य व्याप्तित्वात्, तस्य च केवलाधिकरणरूपस्य प्रथमदर्शनेऽपि निश्चितत्वात् व्याप्तिग्राहकान्तरस्याभावाच्च परिशेषेण सकृद्दर्शनस्य
व्याप्तिग्राहकत्वात्तन्निश्चये प्रामाण्यसंशयादेव तत्संशयः ।

न चैवं रासभेऽपि प्रथमं व्याप्तिपरिच्छेदः स्यादिति वाच्यम् । तत्र व्याप्तेरभावात् , प्रत्यक्षे विषयस्य हेतुत्वात् , क्वचिदसंसर्गाग्रहात् तथा व्यवहारो
दोषमाहात्म्यात्। न चात्रापि तथा, आरोपे सति निमित्तानुसरणं, न तु निमित्तमस्तीत्यारोप इत्यभ्युपगमात् ।

केचित्तुसाधनवन्निष्ठात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यम्, साधनवन्निष्ठान्योन्याभावाप्रतिगोगिसाध्यवत्कत्वं वा व्याप्तिः । तदुभयमपि योग्यं प्रत्यक्षेण
वह्निधूमसम्बन्धानुभवेन प्रथममवगतमेव। महानसे योऽत्यन्ताभावोऽन्योन्याभावो वावगतः तस्य प्रतियोगी न वह्निर्न वा वह्निमानित्यनुभवात् । रासभे तथावगमेऽपि
अग्रे स बाध्यत इति । तन्न । एवं हि तद्वह्नितद्धूमयोरेव व्याप्तिः स्यात्, न तु धूमत्ववह्नित्वावच्छेदेन । न च तदनुमानोपयोगि वह्नित्वं वह्निमत्त्वं वा न
प्रतियोगितावच्छेदकमिति प्रथमतो ज्ञातुमशक्यमेवेति ।

मैवम् । प्रकृतसाध्यव्यापकसाधनाव्यापको वा, साधनत्वाभिमतेन समं प्रकृतसाध्यसम्बन्धितावच्छेदकं विशेषणं वा उपाधिः । उभयथापि तदभावो न व्याप्तिः ।
सिद्ध्यसिद्धिभ्यां तन्निषेधानुपपत्तेः । किं तु यावत्स्वव्यभिचारिव्यभिचारिसाध्यसामानाधिकरण्यमनौपाधिकत्वम् । तस्य च प्रथमं ज्ञातुमशक्यत्वात् । किं च न वस्तुगत्या
व्याप्तेर्ज्ञानं हेतुः, किं तु व्याप्तित्वेन । तच्चोपाध्यभावत्वम् । न चोपाधेरज्ञाने तदभावत्वेन ज्ञानं सम्भवति । विशेषणज्ञानसाध्यत्वाद्विशिष्टज्ञानस्य। न च नियमतः
प्रथममुपाधिधीरस्ति । यच्चोक्तं -प्रतियोगिज्ञानं व्यवहारहेतुर्नाभावज्ञाने इति । अस्तु तावदेवम् । तथापि तदभावो मा व्यवहारि । उपाध्यभावज्ञानाधीनानुमितिः
स्यादेवोपाधिज्ञानं विनापि । न चैवम् । वस्तुतस्तु विशेषादर्शने सहचारादिसाधारणधर्मदर्शनात् व्यभिचारसंशयात् प्रथमदर्शने न व्याप्तिनिश्चयः । अथ व्यभिचारसंशयो
नाव्यभिचारनिश्चयप्रतिबन्धकः ग्राह्यसंशयस्य निश्चयाप्रतिबन्धकत्वात् । अन्यथा संशयोत्तरं क्वापि निश्चयो न स्यादिति चेत्, न। व्यभिचारसंशयः प्रतिबन्धक इति
ब्रूमः। किं तु विशेषादर्शने सति सहचारादिसाधारणधर्मदर्शनात् संशयः स्यात् , न तु संशयसामग्रीतो निश्चयः इति।

किं च यद्धीसामग्री यत्र प्रतिबन्धिका विशेषादर्शने तत्र तद्धीरपीति व्यभिचारसंशयोऽपि प्रतिबन्धकः । एवं भूयोदर्शनमपि संशायकम् तर्कस्त्वनवस्थाग्रस्त एवेति
कथं व्याप्तिग्रहः ।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानाख्यद्वितीयखण्डे व्याप्तिग्रहोपायपूर्वपक्षः।
अथ व्याप्तिग्रहोपायसिद्धान्तः॥

अत्रोच्यते । व्यभिचारज्ञानविरहसहकृतं सहचारदर्शनं व्याप्तिग्राहकम्। ज्ञानं निश्चयः शङ्का च । सा च क्वचिदुपाधिसन्देहात् , क्वचित्
विशेषादर्शनसहितसाधारणधर्मदर्शनात्। तद्विरहश्च क्वचित् विपक्षबाधकतर्कात् , क्वचित् स्वतस्सिद्ध एव ।

तर्कस्य व्याप्तिग्रहमूलकत्वेनानवस्थेति चेत्, न । यावदाशङ्कं तर्कानुसरणात्। यत्र च व्याघातेन शङ्कैव नावतरति तत्र तर्कं विनैव व्याप्तिग्रहः ।
इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे व्याप्तिग्रहोपायसिद्धान्तः।

60

अथ तर्कप्रकरणम्

तथाहि-धूमो यदि वह्न्यसमवहिताजन्यत्वे सति वह्निसमवहिताजन्यः स्यात् , नोत्पन्नः स्यात् इत्यत्र किं धूमोऽवह्नेरेव भविष्यति, क्वचिद्वह्निं विनापि
भविष्यति, अहेतुक एव वोत्पत्स्यते इति शङ्का स्यात् । सर्वत्र स्वक्रियाव्याघातः स्यात् । यदि हि गृहीतान्वयव्यतिरेकं हेतुं विनापि कार्योत्पतिं्त शङ्केत, तदा स्वयमेव
धूमार्थं वह्नेः तृप्त्यर्थं भोजनस्य परप्रतिपत्त्यर्थं शब्दस्य चोपादानं नियमतः कथं कुर्यात्, तेन विनापि तत्सम्भवात् । तस्मात्तत्तदुपादानमेव तादृशशङ्काप्रतिबन्धकम्।
शङ्कायां न नियतोपादानम्। नियतोपादाने च न शङ्का । तदिदमुक्तम् तदेव ह्याशङ्क्यते यस्मिन्नाशङ्क्यमाने स्वक्रियाव्याघातो न भवतीति । न हि संभवति स्वयं
वह्न्यादिकं धूमादिकार्यार्थं नियमत उपादत्ते, तत्कारणं तन्नोत्याशङ्क्यते चेति ।

एतेनव्याघातो विरोधः । स च सहानवस्थाननियम इति तत्राप्यनवस्थेति  निरस्तम्। स्वक्रियाया एव शङ्काप्रतिबन्धकत्वात् । अत एव
" "व्याघातो यदि शङ्कास्ति न चेच्छङ्का ततस्तराम् ।

व्याघातावधिराशङ्का तर्कः शङ्कावधिः कुतः " "॥
इति खण्डनकारमतमप्यपास्तम् । न हि व्याघातः शङ्काश्रितः, किं तु स्वक्रियैव शङ्काप्रतिबन्धिकेति। न वा विशेषदर्शनात् क्वचिच्छङ्कानिवृत्तिरेवं स्यात् ।
न चैतादृशतर्कावतारो भूयोदर्शनं विनेति भूयोदर्शनादरः । न तु स स्वत एव प्रयोजकः ।

अत एव न तदाहितसंस्कारो मानान्तरम् । तर्कस्याप्रमात्वात् । तच्च प्रत्यक्षव्याप्तिज्ञाने हेतुः । तदभावेऽपि शब्दानुमानाभ्यां तद्ग्रहात् ।
ननु सहचारदर्शनव्यभिचारादर्शनवत् व्यभिचारशङ्काविरहानुकूलतर्कयोर्ज्ञानं व्यभिचारिसाधारणमिति न ततोऽपि व्याप्तिनिश्चय इति चेत् , न । स्वरूपसतोरेव
तयोर्व्याप्तिग्राहकत्वात् । सत्तर्कात् व्याप्तिप्रमा, तदाभासात् तदप्रमा, विशेषदर्शनसत्यत्वासत्यत्वाभ्यां पुरुषज्ञानमिव ।

अपरेतु यत्र तर्के व्याप्त्यनुभवो मूलं तत्र तर्कान्तरापेक्षा, यत्र तु व्याप्तिस्मरणं हेतुस्तत्र न तर्कान्तरापेक्षेति नानवस्था । अस्ति च जातमात्राणा
मिष्टानिष्टसाधनतानुमितिहेतुव्याप्तिस्मरणम्, तदानीं व्याप्त्यनुभावकाभावात् । तन्मूलानुभवमूला चाग्रेऽपि व्याप्तिस्मरणपरम्परेति ।
यत्तु अनादिसिद्धकार्यकारणभावविरोधादिमूलाः केचित्तर्का इति ।  तन्न,प्रमाणानुयोगेऽनुमान एव पर्यवसानात् । न च व्याप्तिग्रहान्यथानुपपत्त्यैव
तर्कस्यानादिसिद्धव्याप्तिकत्वज्ञानमिति वाच्यम् । अनुपपत्तेरप्यनुमानत्वात् ।

अन्ये तुविपक्षबाधकतर्कादनौपाधिकत्वग्रह एव तदधीनो व्याप्तिग्रह इति ।  तदपि न। तर्कस्याप्रमाणत्वात् । व्यभिचारादिशङ्कानिरासद्वारा प्रत्यक्षादिसहकारी
स इति चेत्, न । अनवस्थाभयेन तर्कं विना व्याघातात्। यत्र शङ्काविरहस्तत्र व्याप्तिग्रहे तर्कस्य व्यभिचारात् ।

यत्तुयोग्यानामुपाधीनां योग्यानुपलब्ध्या अभावग्रहः । अयोग्यानां तु साध्याव्यापकत्वसाधनव्यापकत्वसाधनादभावग्रह इत्यनौपाधिकत्वं मनसा सुग्रहमिति।
तत्तुच्छम्  । अनुमानेन तत्साधनेऽनवस्थानात्, प्रमाणान्तरस्याभावात्। ये चानुकूलतर्कं विनैव सहचारादिदर्शनमात्रेण व्याप्तिग्रहं वदन्ति तेषां पक्षेतरत्वस्य
साध्यव्यापकत्वग्रहेऽनुमानमात्रमुच्छिद्येत। अनुमानमात्रोच्छेदकत्वादेव पक्षेतरो नोपाधिरिति चेत्, भ्रान्तोऽसि। नहि वयमुपाधित्वेन तस्य दोषत्वमाचक्ष्महे । साध्यव्यापकत्वेन
तव्द्यतिरेकात् पक्षे साध्यव्यावर्तकतया व्यापकव्यतिरेके व्याप्यव्यतिरेकस्य वज्रलेपत्वाच्च।

अपि च करवह्निसंयोगः शक्त्यतिरिक्तातीन्द्रियधर्मसमवायी जनकत्वादित्यत्राप्रयोजकत्वान्न साधकम् । तत्र व्याप्तस्य पक्षधर्मत्वे किमप्रयोजकं नाम।
तस्माद्विपक्षबाधकतर्काभावान्न तत्र व्याप्तिग्रह इत्यप्रयोजकत्वमिति ।

॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे तर्कप्रकरणम् ॥
अथ व्याप्त्यनुगमप्रकरणम्

उक्तव्याप्तिप्रकारेष्वन्योन्याभावगर्भैव व्याप्तिरनुमितिहेतुर्लाघवात् । अतो नाननुगमः अनौपाधिकत्वं तु तल्लक्षणम् । नन्वेवमुपाधिरसिद्ध्युपजीव्यत्वेन
व्यभिचारवद्हेत्वाभासान्तरं स्यात् , न तु व्याप्त्यभावत्वेनासिद्धिरिति चेत् , तज्ज्ञानमुपजीव्यमपि न स्वतो दूषकम् । नह्यन्यस्य साध्यव्यापकत्वसाधनाव्यापकत्वज्ञानमन्यस्य
साध्यव्याप्यत्वज्ञाने प्रतिबन्धकम्, अतिप्रसक्तेः । व्यभिचाराज्ञानस्य तद्हेतुत्वात्तद्बुद्धिस्तथा । न चानौपाधिकत्वज्ञानं व्याप्तिज्ञानहेतुरित्युक्तम् । तथा च व्यभिचारज्ञानद्वारा
स दूषकः । एवं च परमुखनिरीक्षकतया सिद्धसाधनवन्न पृथक् । न चैवमव्यभिचारस्य व्याप्तित्वे व्यभिचारस्तदभावत्वेनासिद्धिः स्यादिति वाच्यम् । साध्याभाववद्वृत्तित्वं
हि व्यभिचारः । तदभावश्च नाव्यभिचारः, केवलान्वयिन्यभावात् । किं तु स्वसमानाधिकरणात्यन्ताभावाप्रतियोगिसामानाधिकरण्यम्। न चानयोः परस्परविरहत्वमिति।
॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे व्याप्त्यनुगमप्रकरणम् ॥

61

अथ सामान्यलक्षणाप्रकरणम्

व्याप्तिग्रहश्च सामान्यलक्षणाप्रत्यासत्त्या सकलधूमविषयकः । कथमन्यथा पर्वतीयधूमे व्याप्त्यग्रहे तस्मादनुमितिः । सा चेन्द्रियसम्बद्धविशेषणता अतिरिक्तैव वा।
तद्विशेष्यकप्रत्यक्षे तदिन्द्रियसंनिकर्षस्य हेतुत्वेनानागतादौ संयोगादेरभावादिति वदन्ति । तदपरे न मन्यन्ते । तथा हि धूमत्वावच्छिन्ना व्याप्तिः संनिकृष्टधूमविषये धूमत्वेन
प्रत्यक्षेण ज्ञायते । ततः स्मृता सा तृतीयलिङ्गपरामर्शे पक्षनिष्ठधूमवृत्तितया ज्ञायते । ततोऽनुमितिः तदनभ्युपगमेऽपि सन्निकृष्टधूमविषये धूमत्वेन धूमो वह्निव्याप्य
इत्यनुभवः, तथैव व्याप्तिस्मरणम्, ततो धूमवानयमिति व्याप्तिस्मृतिप्रकारेण धूमत्वेन पक्षवृत्तिधूमज्ञानादनुमितिः ।

व्याप्त्यनुभवतत्स्मरणपक्षधर्मताज्ञानानामेकप्रकारकत्वेनानुमितिहेतुत्वात्। गवादिपदेष्वपि शक्त्यनुभव-तत्स्मरण-वाक्यार्थानुभवानामेकप्रकारकत्वेन हेतु-हेतुमद्भाव इत्यपूर्वे
वक्ष्यते । तत्र योग्यतादिबलादपूर्वव्यक्तिलाभः अनुमाने तु पक्षधर्मताबलात् धूमो वह्निव्याप्य इत्यनुभवो, न तु सर्वो धूमो वह्निव्याप्य इति, येन सर्वभानार्थं तत्स्वीकारः।
अथ वह्निमानयमित्यनुमितिर्विशेषणज्ञानसाध्याविशिष्टज्ञानत्वादिति पर्वतीयवह्निभानार्थं तत्कल्पने धूमेऽपि तथा। क्वचित् धूमस्यापि व्यापकत्वादिति चेत् , न ।
विशिष्टवैशिष्ट्यज्ञाने विशेषणतावच्छेदकप्रकारकज्ञानस्यावश्यकत्वेन हेतुत्वात् । तच्च वृत्तमेव । न तु विशेषणज्ञानमपि तथा गौरवात् । गौरयमिति विशिष्टज्ञाने
युगपद्विशेष्ये विशेषणे संनिकर्ष एव, कारणम् न तु निर्विकल्पकम् , मानाभावात् । विशिष्टज्ञानत्वमेव मानमिति चेन्न । द्दष्टान्ताभावात् । दण्डी पुरुष इत्यत्र
विशेषणधीजन्यत्वानभ्युपगमात्। विशिष्टवैशिष्ट्यज्ञानत्वात् । अपि च प्रमेयत्वेन व्याप्तिं परिच्छिन्दन् सर्वज्ञः स्यात् । तथा च परकीयज्ञानविषये घटत्वं न वेति संशयो
न स्यात् प्रमेयत्वेन तदन्यतरनिश्चयात् । प्रमेयत्वेन घटं जानात्येव घटत्वं तस्य न जानातीति चेत् न । तत् किं घटत्वं न प्रमेयं येन तन्न जानीयात् ।
सकलघटवृत्तिधर्मस्य प्रमेयत्त्वेन तदज्ञानासम्भवात् ।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे सामान्यलक्षणापूर्वपक्षः।
अथ सामान्यलक्षणासिद्धान्तः

उच्यते । यदि सामान्यलक्षणा नास्ति, तदा अनुकूलतर्कादिकं विना धूमादौ व्यभिचारसंशयो न स्यात् । प्रसिद्धधूमे वह्निसम्बन्धावगमात् कालान्तरीय-देशान्तरीयधूमस्य मानाभावेन अज्ञानात् सामान्येन तु सकलधूमोपस्थितौ विशेषादर्शनेन संशयो युज्यते । यत्तु पाकादौ चिकीर्षा सुखादाविच्छा न स्यात् सिद्धे
इच्छाविरहात् असिद्ध्यस्याज्ञानात् । तस्मात्सुखत्वादिना ज्ञातेषु सर्वेषु सिद्धं विहायासिद्धे इच्छा भवतीत्यभ्युपेयम्। तन्न। प्रसिद्धस्याज्ञानेऽपि सिद्धगोचरज्ञानादेव
इच्छाप्रवृत्तिस्वाभाव्यादसिद्धे तयोरुत्पत्तेः। न चातिप्रसङ्गः । समानप्रकारकत्वेन ज्ञानेच्छाकृतीनां कार्यकारणभावात्; न तु समानविषयत्वेनापि क्वचिदप्यकल्पनात्।
समानविषयकत्वे सत्यपि समानप्रकारकज्ञानाभावेनेच्छाकृत्योरभावात् तस्यावश्यकत्वेन गौरवाच्चेति परसिद्धान्तात्, । न च सर्वज्ञत्वे संशयो न स्यादिति दोषः। घटःस
इति घटत्वप्रकारकं हि ज्ञानं संशयविरोधि । तच्च न वृत्तम् स्वसामग्रीविरहात् । अतो घटत्वादिसकलविशेषज्ञानेऽपि स घटो न वेति संशय इति।
इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे सामान्यलक्षणासिद्धान्तः।

अथोपाधिवादप्रकरणम्
उपाधिज्ञानाद्व्यभिचारज्ञाने सति न व्याप्तिनिश्चय इत्युपाधिर्निरूप्यते । तत्रोपाधिः साध्यत्वाभिमतव्यापकत्वे सति साधनत्वाभिमताव्यापकः । अनौपाधिकत्वज्ञानं
च न व्याप्तिज्ञाने हेतुः । अतो व्यापकत्वादिज्ञाने नान्योन्याश्रयः । यद्वा व्यापकत्वं तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वम् । तत्प्रतियोगित्वं च अव्यापकत्वम् । प्रतियोगित्वं
च तदधिकरणानधिकरणत्वमिति वदन्ति । तन्न । साधनपक्षधर्मावच्छिन्नसाध्यव्यापकोपाध्यव्याप्तेः । न च तयोरनुपाधित्वम् । दूषकताबीजसाम्यात् । मित्रातनयत्वेन
श्यामत्वसाधने शाकपाकजत्वस्य, प्रत्यक्षस्पर्शाश्रयत्वेन वायोः प्रत्यक्षत्वे साध्ये उद्भूतरूपवत्त्वस्य च शास्त्रे प्रयोजकत्वेनोपाधित्वस्वीकाराच्चेति पक्षेतरेऽतिव्याप्तिश्च
(अतिव्याप्तेश्च)। न च व्यतिरेके पर्वतेतरान्यत्वादित्यत्र इतरान्यत्वस्यासिद्धिवारणार्थं पर्वतपदं विशेषणमिति व्यतिरेके व्यर्थविशेषणत्वान्न स उपाधिः । बाधोन्नीतस्याप्यनुपाधितापत्तेः।
न चेष्टापत्तिः, इतरान्यत्वस्याप्रसिद्ध्या विशेषणं विना व्याप्त्यग्रहेण तत्सार्थकत्वात्। वस्तुगत्या साध्यव्यापकः पक्षेतर उपाधिरिति चेत् , अस्तु तथा, तथापि पक्षातिरिक्ते
साध्यव्यापकताग्रहादुपाधेर्दूषकत्वम्, तच्च तत्राप्यस्ति । अन्यथा पक्षे साध्यसन्देहादनुपाधित्वे उपाधिमात्रमुच्छिद्येत । विपक्षाव्यावर्तकविशेषणशून्यत्वं विशेषणम् । तेन
बाधोन्नीतपक्षेतरस्य परिग्रहः तत्र पक्षस्यैव विपक्षत्वात् न तु पर्वतेतरत्वादेरिति चेत् न । न हि वस्तु विपक्षाव्यावर्त्तकविशेषणशून्यम् , सर्वत्र प्रमेयत्वादेर्स्सत्त्वात्।
तत्रोपात्तेति विशेषणे सिद्ध्यसिद्धिव्याघातः । तथापि च साध्यव्यापकत्व साधनाव्यापकत्वे तत्र स्त इति तद्व्यावृत्त्या पक्षे साध्यव्यावृत्तिः । अतो हेतोर्व्यभिचार एव ।
व्यभिचारे चावश्यमुपाधिरिति पक्षेतर एव तत्रोपाधिः स्यात् । तावन्मात्रस्यैव दूषकत्वाच्च व्यर्थं विशेषणम्। अत एवानुमानमात्रोच्छेदकतया जातित्वान्न पक्षेतर
उपाधिरित्यपास्तम् । दूषणसमर्थत्वेन जातित्वाभावात् । एतेन पक्षेतरव्यावृत्त्यर्थं प्रकारान्तरमपि निरस्तम्। उपाधित्वाभावेऽपि दूषणसमर्थत्वात् ।
अथोपाधिः स्वव्यतिरेकेण सत्प्रतिपक्षोत्थापकतया दूषणम् । पक्षेतरत्वव्यतिरेकश्च न साध्याभावसाधकः, असाधारणत्वात्। न तु व्यभिचारोन्नायकतया दूषणम्।
यथा हि साध्यव्यापकोपाध्यव्याप्यतया हेतोः साध्याव्याप्यत्वं तथा साध्यव्याप्यहेत्वव्यापकतयोपाधेर्न साध्यव्यापकत्वमपि सिध्येत् । व्याप्तिग्राहकस्योभयत्रापि साम्येन
विनिगमकविरहात् । तस्माद्यथा साध्यव्याप्येन हेतुना साध्यं साधनीयं तथा साध्यव्यापकोपाधिव्यावृत्त्या साध्याभावोऽपि साधनीयो व्याप्तिग्रहतौल्यादिति दूषकताबीजम् ।
सोऽयं सत्प्रतिपक्ष एवेति ।

मैवम्  । एवं हि सत्प्रतिपक्षे उपाध्युद्भावनं न स्यात् , सप्रतिपक्षान्तरवत् । किं चैवं बोधोन्नीतोऽपि पक्षेतरो नोपाधिः स्यात् व्यतिरेकेऽसाधारण्यात् । ननु बाधे
नोपाधिनियमः धूमेन ह्रदे वह्निसाधने तदभावात् । न तु हेतुमतिपक्षे बाधे पक्षेतरोपाधिनियमः, प्रत्यक्षे वह्नौ कृतकत्वेनानुष्णत्वे साध्ये अतेजस्त्वादेरुपाधित्वसम्भवादिति
चेत् न । तेजोमात्रपक्षत्वे अतेजस्त्वं विना अन्यस्योपाधेरभावात् । किं च (अपि च) पर्वतावयववृत्त्यन्यत्वं पर्वतेतरद्रव्यत्वं हृदपर्वतसंयोगानाधारत्वं हृदपर्वतान्यत्वादिकमुपाधिः

62

स्यादेव । व्यतिरेके असाधारण्याभावात् व्यतिरेकिणा सत्प्रतिपक्षसम्भवाच्च । न चासाधारण्यम् , तस्यापि सत्प्रतिपक्षोत्थापकतया दोषत्वात् , तस्मादुभयोरपि
व्याप्तिग्राहकसाम्ये विरोधान्न व्याप्तिनिश्चयः । किं तूभयत्र व्यभिचारसंशयः । तथा च व्यभिचारसंशयाधायकत्वेनोपाधेर्दूषकत्वम् । तच्च पक्षेतरेऽप्यस्ति । तदुक्तम् ।
उपाधेरेव व्यभिचारशङ्केति । भवतु वोेक्तन्यायेन सकलानुमानभङ्गभिया पक्षेतरोऽनुपाधिः तथापि लक्षणमतिव्यापकम् । नापि साध्यसमव्याप्तत्वे सति साधनाव्यापकत्वमुपाधित्वम्।
दूषकताबीजस्य व्यभिचारोन्नयनस्य सत्प्रतिपक्षस्य वा साम्येेन विषमव्याप्तस्याप्युपाधित्वात् । तथा दूषकतायां साध्यव्याप्यत्वस्याप्रयोजकत्वाच्च ।
अथ साध्यप्रयोजको धर्म उपाधिः । प्रयोजकत्वं च न न्यूनाधिकदेशवृत्तेः । तस्मिन् सत्यभवतः तेन विनापि भवतः तदप्रयोजकत्वात् । अन्यथा
पक्षेतरस्याप्युपाधित्वप्रसङ्गादिति चेत् न । दूषणौपयिकं हि प्रयोजकत्वमिह विवक्षितम् । तच्च साध्यव्यापकत्वे सति साधनाव्यापकत्वमेवेति तदेव प्रयोजकम्, नत्वधिकं
व्यर्थत्वात् ।

अथोपाधिः (ननूपाधिः) स उच्यते यद्धर्मोऽन्यत्र प्रतिबिम्बते, यथा जपाकुसुमं स्फटिकलौहित्ये उपाधिः । तथा चोपाधिवृत्तिव्याप्यत्वं हेतुत्वाभिमते चकास्ति,
तेनासावुपाधिः । न च व्याप्यत्वमात्रेण दूषकत्वमिति साध्यव्यापकतापीष्यते । तथा च समव्याप्त एवोपाधिरिति चेत् तत् किं विषमव्याप्तस्य दूषकताबीजाभावान्नोपाधिशब्दवाच्यत्वम्?
तथात्वेऽप्युपाधिपदप्रवृत्तिनिमित्ताभावाद्वा ? नाद्यः । तस्यापि व्यभिचाराद्युन्नायकत्वात्। नापरः, न हि लोके समव्याप्त एवान्यत्र स्वधर्मप्रतिबिम्बजनके एवोपाधिपदप्रयोगः।
लाभाद्युपाधिना कृतमित्यादौ लाभादावप्युपाधिपदप्रयोगात् । किं च न शास्त्रे लौकिकव्यवहारार्थमुपाधिव्युत्पादनम्, किन्त्वनुमानदूषणार्थम् । तच्च साध्यव्यापकत्वे सति
साधनाव्यापकत्वमात्रमिति शास्त्रे तथैैवोपाधिपदप्रयोगः ।

अन्ये तुयदभावो व्यभिचारविरोधी स उपाधिः । न च विषमव्याप्तस्याभावो व्यभिचारं विरुणाद्धि । तस्याभावेऽपि व्यभिचारात् । अस्ति ह्यनित्यत्वव्यापकं
प्रमेयत्वम् , तद्व्याप्यं च गुणत्वम्। न चानित्यत्वगुणत्वयोर्व्याप्तिरस्ति । समव्याप्तिकस्य च व्यतिरेकस्तथा । न हि साध्यव्यापकव्याप्यीभूतस्य व्याप्यं यत् तत् साध्यं
व्यभिचरति। व्यभिचारे चान्ततःसाध्यमेवोपाधिः, अभेदेऽपि व्याप्यव्यापकत्वात् साधनाव्यापकत्वाच्चेति स्वीचक्रुः। तन्न। तवापि ह्यव्यभिचारे साध्यव्याप्यव्याप्यत्वं तन्त्रम्,
आवश्यकत्वात् लाघवाच्च, न साध्यव्यापकव्याप्यत्वमपि, भवतैव व्यभिचारस्य दर्शितत्वात् । न च साध्यव्याप्यव्याप्यत्वमेव अनौपाधिकत्वम् । साध्यव्याप्यमित्यत्रापि हि
अनौपाधिकत्वं तदेव वाच्यम् । तथा चानवस्थेति । अनौपाधिकत्वे च व्याप्तिलक्षणे यावदिति पदं साध्यव्यापकत्वे विशेषणं दत्तमेव । किं च यस्मिन् सत्यनुमितिर्न भवति
तदेव तत्र दूषणम् । न तु यद्व्यतिरेके भवत्येवेत्येतद्गर्भम् । विरुद्धत्वादेरप्यदोषत्वापत्तेः । नापि पक्षधर्मावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकत्वनमुपाधित्वम् ।
साधनावच्छिन्नसाध्यव्यापकोपाध्यव्यापनात् । शब्दोऽभिधेयः प्रमेयत्वादित्यत्र अश्रावणत्वस्योपाधित्वापत्तेश्च । शब्दधर्मगुणत्वावच्छिन्नाभिधेयत्वं यत्र रूपादौ तत्र अश्रावणत्वं
व्यापकम्, पक्षे प्रमेयत्वस्य साधनस्याव्यापकं हि तत् । आर्द्रेन्धनवत्त्वादावुपाधौ पक्षनियतताद्दशधर्माभावाच्च । अथ साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापक
उपाधिः । तेन ध्वंसस्य जन्यत्वेन ध्वंसप्रतियोगित्वे साध्ये साधनावच्छिन्नसाध्यव्यापकं भावत्वमुपाधिः, श्यामत्वे शाकपाकजत्वमुपाधिरिति । तन्न ।
पक्षधर्मावच्छिन्नसाध्यव्यापकोपाध्यव्यापनात्। जलं प्रमेयं रसवत्वादित्यत्र रसवत्वावच्छिन्नसाध्यव्यापकपृथिवीत्वस्योपाधित्वप्रसङ्गात् । सोपाधित्वादसाधकमित्यत्र
साधनावच्छिन्नसाध्यव्यापकव्यभिचारित्वे साधनावच्छिन्नेत्यस्य व्यर्थत्वप्रसङ्गाच्च। किं च पक्षद्वयेऽपि विशिष्टसाध्यव्यभिचारं विशिष्टसाध्यव्यतिरेकं वा प्रसाध्य पश्चात्
केवलसाध्यव्यभिचारः केवलसाध्यव्यतिरेको वा साधनीयः । तथा चार्थान्तरम् । केवलसाध्ये हि विवादो न तु विशिष्टे । अथ प्रकृतसाध्यव्यभिचारसिद्ध्यर्थं
विशिष्टसाध्यव्यभिचारः साध्य इति चेत् न । अप्राप्तकालत्वात् । प्रथमं साध्यव्यभिचार एवोद्भाव्यः तत्रासिद्धावुपाधिरिति चेत् तर्हि प्रकृतानुमाने नोपाधिः दूषणं स्यात् ।
किं च साध्यव्यभिचारहेतुत्वेन पक्षधर्मावच्छिन्नसाध्यव्यापकव्यभिचार एवोपन्यसनीयो नोपाधिः । स्यादेतत् । पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापक उपाधिः ।
पर्र्यवसितं साध्यं पक्षधर्मताबललभ्यम् । यथा शब्दोऽनित्यत्वातिरिक्तशब्दधर्मातिरिक्तधर्मवान् मेयत्वादित्यत्र पर्यवसितं यत् साध्यम् अनित्यत्वं तस्य व्यापकं कृतकत्वमुपाधिः।
यदि च तथैव कृतकत्वमपि शब्दे साध्यते तदा अनित्यत्वमुपाधिः। तदुक्तं वाद्युक्तसाध्यनियमच्युतोऽपि कथकैरुपाधिरुद्भाव्यः पर्यवसितं नियमयन् दूषकतबीजसाम्राज्यात्
इति । अनेन पक्षधर्मसाधनावच्छिन्नसाध्यव्यापकोपाधिः संगृह्यते ताद्दशसाध्यस्य पर्यवसितत्वादिति । तन्न । एवं हि द्व्यणुकस्य सावयवत्वे सिद्धे द्व्यणुकम् अनित्यद्रव्या
समवेतं जन्यमहत्त्वानधिकरणद्रव्यत्वादित्यत्र निस्पर्शद्रव्यसमवेतत्वमुपाधिः स्यात् । भवति हि नित्यद्रव्यसमवेतत्वं पर्यवसितं साध्यम् तस्य व्यापकं साधनाव्यापकं च ।  किं
च पक्षधर्मताबललभ्यसाध्यसिद्धौ निष्फल उपाधिः । तदसिद्धौ च कस्य व्यापकः । न हि सोपाधौ पक्षधर्मताबलात् साध्यं सिध्यति यस्य व्यापक उपाधिः स्यादिति ।
इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे उपाधिवादपूर्वपक्षः

उपाधिवादसिद्धान्तः
अत्रोच्यते। यव्द्यभिचारित्वेन साधनस्य साध्यव्यभिचारित्वं स उपाधिः । लक्षणं तु पर्यवसितसाध्यव्यापकत्वे सति साधनाव्यापकत्वम्। यद्धर्मावच्छेदेन साध्यं
प्रसिद्धं तदवच्छिन्नं पर्यवसितं साध्यम् । स च धर्मः क्वचित्साधनमेव । क्वचित् द्रव्यत्वादि । क्वचिन्महानसत्वादि । तथा हि समव्याप्तस्य विषमव्याप्तस्य वा
साध्यव्यापकस्य व्यभिचारेण साधनस्य साध्यव्यभिचारः स्फुट एव । व्यापकव्यभिचारिणस्तव्द्याप्यव्यभिचारनियमात् । साधनावच्छिन्नपक्षधर्मावच्छिन्न
साध्यव्यापकयोर्व्यभिचारित्वेन साधनस्य साध्यव्यभिचारित्वमेव । यथा ध्वंसस्यानित्यत्वे साध्ये भावत्वस्य, वायोः प्रत्यक्षत्वे साध्ये उद्भूतरूपवत्त्वस्य च । विशेषणाव्यभिचारिणि
साधने विशिष्टव्यभिचारस्य विशेष्यव्यभिचारित्वनियमात् । अत एव नार्थान्तरम् । विशेषणाव्यभिचारित्वेन ज्ञाते साधने विशिष्टव्यभिचारः सिध्यन् विशेष्यसाध्यव्यभिचारमादायैव
सिध्यति, पक्षधर्मताबलात्। अन्यथा प्रतीतेरपर्यवसानात् । न च पक्षधर्मताबलात् प्रकृतसिद्धावर्थान्तरम् ।

यद्वा प्रत्यक्षस्पर्शाश्रयत्वं प्रत्यक्षत्वव्यभिचारि द्रव्यत्वाव्यभिचारित्वे सति द्रव्यप्रत्यक्षत्वव्यापकव्यभिचारित्वात् महत्त्ववत् । तथा मित्रातनयत्वं श्यामत्वव्यभिचारि
मित्रातनयत्वाव्यभिचारित्वे सति श्याममित्रातनयत्वव्यापकव्यभिचारित्वात् अघटत्ववत् । अव्यभिचारश्च तत्समानाधिकरणात्यन्ताभावाप्रतियोगित्वम् । तच्चाभेदेऽपि।
यद्वा यः साधनव्यभिचारी साध्यव्यभिचारोन्नायकः स उपाधिः । तत्त्वं च साक्षात् परम्परया वेति नार्थान्तरम् ।

63

किंचार्थान्तरस्य पुरुषदोषतया आभासान्तरस्य तत्राभावात् उपाधिरेव भावत्वादिकं दोषः । न चैवं शब्दोऽभिधेयः प्रमेयत्वादित्यत्राश्रावणत्वम्, जलं प्रमेयं
रसवत्त्वादित्यत्र पृथिवीत्वमुपाधिः स्यात्। केवलान्वयित्वसाधकप्रमाणेन तत्र साध्यसिद्धेरुपाधेर्विशिष्टाव्यापकत्वात् । न च पक्षेतरे स्वव्याघातकत्वेनानुपाधावतिव्याप्तिः।
तत्रानुकूलतर्काभावेन साध्यव्यापकत्वानिश्चयात्। सहचारदर्शनादेस्तेन विना संशायकत्वादित्युक्तम्।

बाधोन्नीते चानुकूलतर्कोऽस्त्येवेति। एवं पर्वतावयववृत्त्यन्यत्वादेरपि नोपाधित्वम् । पक्षमात्रव्यावर्तकविशेषणवत्त्वात्। अत एव धूमे आर्द्रेन्धनप्रभववह्निमत्त्वम्,
द्रव्यबहिरिन्द्रियप्रत्यक्षत्वे उद्भूतरूपवत्त्वम्, मित्रातनयश्यामत्वे शाकपाकजत्वम्, जन्यानित्यत्वे भावत्वमुपाधिः। तदुत्कर्षेण साध्योत्कर्षात्। अनन्यथासिद्धान्वयव्यतिरेकतो
वैद्यकात् कारणतावगमेन घटोन्मज्जनप्रसङ्गेन साध्यव्यापकतानिश्चयात्। तत् किं कार्यकारणयोरेव व्याप्तिः, तथा च बहुधा व्याकुली स्यादिति चेत्, न ।
तदुपजीव्यान्येषामप्यनुकूलतर्केण व्याप्तिग्रहात्। यत्र साध्योपाध्योर्हेतुसाध्ययोर्वा व्याप्तिग्राहकसाम्यान्नैकत्र व्याप्तिनिश्चयस्तत्र सन्दिग्धोपाधित्वम् , व्यभिचारसंशयोपधायकत्वात्।
यदा च तादृश्येकत्रानुकूलतर्कावतारस्तदा हेतुत्वमुपाधित्वं वा निश्चितम् । पक्षेतरस्य स्वव्याघातकत्वेन न हेतुव्यभिचारसंशायकत्वम्। अतो न संदिग्धोपाधिरपि सः ।
यत्तु  पक्षेतरस्य यथा साध्यव्यापकत्वं तथा साध्याभावव्यापकत्वमपि, ग्राहकसाम्यात् । तथा चोभयव्यापकनिवृत्त्या साध्यतदभावाभ्यां पक्षे निवर्तितव्यम्। न
चैवम्, तथा च पक्षेतरः साध्यव्यापकतासंशयेन सन्दिग्धः कथं परं दूषयेदिति ।

तन्न। तथाहि साध्यव्यापकतापक्षमालम्ब्य हेतुव्यभिचारसंशयाधायकत्वेन दूषणं स्यादेव।
ननु यत्रोपाधिस्तत्रानुकूलतर्को यदि नास्ति, तदा तदभावेनैव व्याप्तेरग्रहः। अथास्ति तदा साध्यव्याप्याव्यापकत्वेन उपाधिः साध्याव्यापकत्व
निश्चयान्नोपाधिरित्युभयथापि नोपाधिर्दूषणम्। न च व्याप्त्यभावव्याप्यमुभयम्, अत उपाधिरपि तदभावोन्नयनेन दोष इति वाच्यम् । उपाधेरात्मलाभार्थमनुकूलतर्काभावोपजीवकत्वेन
तस्यैव दोषत्वादिति चेत् ,

न । सोपाधावेकत्र साध्यतदभावसम्बन्धस्य विरुद्धत्वात् अवच्छेदकभेदेन तदुभयसम्बन्धो वाच्यः । तथा च साधनेसाध्यसम्बन्धितावच्छेदकरूपमनुकूलतर्का
भावोपजीवनमन्तरेणोपाधिरावश्यकः (साध्यसम्बन्धितावच्छेदकं रूपं उपाधिरावश्यकः) तथानुकूलतर्काभावोऽप्यावश्यक इति उभयोरपि विनिगमकाभावात् दूषकत्वम् ।
अन्येतु यव्द्यावृत्त्या यस्य साधनस्य साध्यं निवर्तते स धर्मस्तत्र हेतावुपाधिः । स च धर्मो यस्याभावात्पक्षे साध्यसाधनसम्बन्धाभावः यथा आर्द्रेन्धनवत्त्वम्।
व्यावर्तते हि तद्व्यावृत्त्या धूमवत्त्वमयोगोलके। अत एव तत्र साध्यसाधनसंबन्धाभावः पक्षे। एवं भावत्वव्यावृत्त्या ध्वंसे जन्यत्वानित्यत्वयोः सम्बन्धो निवर्तमानः
पक्षधर्मताबलादनित्यत्वाभावमादाय सिध्यति । तथा वायावुद्भूतरूपवत्त्वं निवर्तमानं बहिर्द्रव्यत्वे सति प्रत्यक्षत्वं निवर्तयत् प्रत्यक्षत्वाभावमादाय सिध्यति । तथा
चोभयत्रापि पक्षे साध्याभावसिद्ध्या साध्यसाधन सम्बन्धाभावोऽस्तीति । अत एव बाधानुन्नीतपक्षेतरस्यानुपाधित्वम् । स्वव्याघातकत्वेन तद्व्यतिरेकस्य साध्याव्यावर्तकत्वादिति।
यत्तूपाधिमात्रस्य लक्षणं व्यतिरेकिधर्मत्वम्। पक्षेतरोऽपि क्वचिदुपाधिः । तत्तदुपाधेस्तु तत्तत्साध्यव्यापकत्वे सति तत्तत्साधनाव्यापकत्वम् । न च वह्निधूमसम्बन्धोपाधिः
पक्षेतरत्वं स्यादिति वाच्यम् । आपाद्याप्रसिद्धेरिति ।

तन्न। अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकमुपाधित्वमिह निरूप्यम्। तच्च न व्यतिरेकित्वम्, अतिप्रसङ्गात् । विशेषलक्षणे वह्निधूमसम्बन्धे
पक्षेतरत्वस्योपाधित्वप्रसङ्गाच्च ।

केचितुसाधनव्यापकोऽप्युपाधिः क्वचित् यत्र पक्षावृत्तिर्हेतुः । यथा करका पृथिवी कठिनसंयोगादित्यत्रानुष्णाशीतस्पर्शवत्त्वम् । न च तत्र स्वरूपासिद्धिरेवदोषः।
सर्वत्रोपाधेर्दूषणान्तरसंकरादित्याहुः।

साध्यं च नोपाधिः व्यभिचारसाधने साध्याविशिष्टत्वात्। अनुमितिमात्रोच्छेदप्रसङ्गाच्च ।
इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे उपाधिसामान्यलक्षणम्

अथोपाधिविभागः
स चायं द्विविधः- - निश्चितः सन्दिग्धश्च । साध्यव्यापकत्वेन साधनाव्यापकत्वेन च निश्चितो व्यभिचारनिश्चयाधायकतया निश्चितोपाधिः। यथा वह्निमत्त्वेन
धूमवत्त्वे साध्ये आर्द्रेन्धनप्रभववह्निमत्त्वम् । यत्र च साधनाव्यापकत्वसन्देहस्साध्यव्यापकत्वसंशयो वा तदुभयसन्देहो वा तत्र हेतुव्यभिचारसंशयाधायकतया सन्दिग्धोपाधिः।
यथा मित्रातनयत्वेन श्यामत्वे साध्ये शाकाद्याहारपरिणतिजत्वम् । न च तेनैव हेतुना शाकपाकजत्वमपि साध्यम् । तत्र श्यामत्वस्योपाधित्वात्। उभयस्यापि साधनेऽर्थान्तरम्।
श्यामत्वमात्रे हि विवादो न तूभयत्र। न चैवं धूमाद्वह्न्यनुमानेऽपि वह्निसामग्री उपाधिः स्यात् । तत्र वह्निनेव तत्सामग्र्यापि समं धूमस्यानौपाधिकत्वनिश्चयात् । अत्र तु
मित्रातनयत्वव्याप्यश्यामसामग्र्या स्थातव्यमित्यत्र कार्यकारणभावादीनां व्याप्तिग्राहकाणामभावात् । अत एव साध्यसामग्र्या सह हेतोरपि यत्र व्याप्तिग्राहकमस्ति तत्र
सामग्री नोपाधिः। यत्र तु तन्नास्ति तत्र साप्युपाधिरित्यभिसन्धाय " "सामग्री च क्वचिन्नोपाधिर्न तु सर्वत्रे" "त्युक्तम्। यथा तुल्ययोगक्षेमयोरुपाधेर्व्यापकतासन्देहे ईश्वरानुमाने
शरीरजन्यत्वाणुत्वादिः, यथा च शाकपाकजन्यत्वस्य साध्यव्यापकतासन्देहे मित्रातनयत्वे।

64

यत्तुउपाधिसन्देहो नोपाधिः न वा हेत्वाभासान्तरमिति तदुद्भावने निरनुयोज्यानुयोग इति ।

तन्न। सन्दिग्धानैकान्तिकवत् व्यभिचारसंशयाधायकत्वेन दूषकत्वात् , उपाधेरिव व्यभिचारनिश्चयाधायकतया।
॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे उपाधिविभागः॥

अथोपाधेर्दूषकताबीजपूर्वपक्षः
इदानीमुपाधेर्दूषकताबीजं निरूप्यते। नाप्यस्य व्यतिरेकद्वारा सत्प्रतिपक्षत्वेन दूषकत्वम् । तदा हि सत्प्रतिपक्षे सत्प्रतिपक्षान्तरवदुपाधेरुद्भावनं न स्यात् । न च
प्रतिपक्षबाहुल्येनाधिकबलार्थमुद्भावनम् । " "शतमप्यन्धानां न पश्यति" " इति न्यायात्, एकेनापि बहूनां प्रतिबन्धाच्च। व्याप्तिपक्षधर्मते हि बलम् , तच्च तुल्यमेव। न तु
भूयस्त्वमपि, एकस्मादप्यनुमितिदर्शनात् (एकस्मादप्यन्वमितेः) सन्दिग्धोपाधेरदूषकतापत्तेश्च, तव्द्यतिरेकस्य पक्षे सन्दिग्धत्वात् ।
अपि चैवं बाधोन्नीतपक्षेतरस्योपाधित्वं न स्यात् । व्यतिरेकेऽसाधारण्यात्। पक्षवृत्तिश्चोेपाधिर्न स्यात् , यथा घटोऽनित्यो द्रव्यत्वादित्यत्र कार्यत्वम्, अन्धकारो
द्रव्यं स्वातन्त्र्येण प्रतीयमानत्वादित्यत्राश्रावणत्वम् , तव्द्यतिरेकस्य पक्षावृत्तित्वात् । न च नायमुपाधिः, तल्लक्षणसत्त्वात्, अन्यथापि दूषकत्वसम्भवाच्च।
किंच साध्यव्याप्याव्यापकत्वेनोपाधेः साध्याव्यापकत्वे तव्द्यतिरेकेण कथं सत्प्रतिपक्षः? न ह्यव्यापकव्यतिरेकादव्याप्यव्यतिरेकः। नापि व्याप्तिविरहरूपतया।
असिद्धत्वेनानौपाधिकत्वस्य व्याप्तित्वनिरासात्। नाप्यनौपाधिकत्वज्ञानस्य व्याप्तिधीहेतुत्वस्य तत्त्वेन व्याप्तिज्ञानकारणविघटकतया व्याप्यत्वासिद्धावन्तर्भावः। न
ह्यन्यस्य साध्यव्यापकत्वसाधनाव्यापकत्वज्ञानमन्यव्याप्तिज्ञानं प्रति प्रतिबन्धकमित्युक्तम् । न च साध्यव्यापकाव्याप्यत्वज्ञाने विद्यमाने साधनस्य साध्यव्याप्यत्वज्ञानं
नोत्पत्तुमर्हतीति वाच्यम् । न हि साध्यव्यापकव्याप्यत्वज्ञानं व्याप्तिज्ञानकारणम् , येन तत्प्रतिबन्धकं स्यात् , किंतु साध्यव्यापकव्यभिचारित्वेन साध्यव्यभिचारित्वज्ञानद्वारा।
नापि व्यभिचारोन्नायकत्वेन, यथा हि साध्यव्यापकव्यभिचारितया साधनस्य साध्यव्यभिचारित्वमनुमेयम् , तथा साध्यव्याप्यव्यभिचारित्वेन साध्यव्यभिचारित्वमुपाधेरप्यनुमेयम्
व्याप्तिग्राहकसाम्यात्। नापि साध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहोन्नायकतया , साध्यव्याप्याव्यापकत्वेनोपाधेरेव साध्याव्यापकत्वसाधनात् । तस्मादुपाधिर्हेत्वाभासान्तरमिति।
॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे उपाधिदूषकताबीजपूर्वपक्षः॥

अथोपाधिदूषकताबीजसिद्धान्तः
उच्यते। आर्द्रेन्धनवत्त्वादेस्तर्कादिना साध्यव्यापकत्वसाधनाव्यापकत्वे निश्चिते दूषकताबीजचिन्तनम्। यदि हि साध्यसाधनसहचारदर्शनेनोपाधौ साध्यव्यापकतानिश्चय
एव नास्ति तदोपाधित्वनिश्चयाभावात् दूषकतैव नास्तीति क्व बहिर्भावान्तर्भावचिन्ता।

किं च सत्प्रतिपक्षतया व्याप्यत्वासिद्धतया स्वातन्त्र्येण वा यदि दोषत्वं सर्वथा साध्यव्यापकतानिश्चयो वाच्यः, तेन विना तेषामभावात् ।
तस्मादुपाधिनिश्चयात् व्यभिचारनिश्चयः तत्संशयात्तत्संशय इति व्यभिचारज्ञानद्वारा साध्यव्यापकाव्याप्यत्वेन व्याप्तिविरहोन्नायकतया वोपाधेर्दूषकत्वम्।
यद्वा साध्यव्यापकाभाववद्वृत्तितया साध्यव्यभिचारित्वमुन्नेयम् । न च साधनाभाववद्वृत्तित्वमुपाधिरिति वाच्यम् । उपाधिमात्रोच्छेदप्रसङ्गात्। सत्प्रतिपक्षे पूर्वसाधनव्यतिरेकवत्।
अवृत्तिगगनादौ साध्याव्यापकत्वात् । संयोगादौ हेतौ साधनव्यापकत्वाच्च।

॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे उपाधिदूषकताबीजसिद्धान्तः॥
अथोपाध्याभासनिरूपणम्

अथोपाध्याभासः। असाधरणविपर्ययो यथा अन्वव्यतिरेकिणि साध्ये बाधोन्नीतान्यपक्षेतरत्वम्। अप्रसिद्धसाध्यविपर्ययो यथा केवलान्वयिनि साध्ये पक्षेतरत्वादिः।
बाधितसाध्यविपर्ययो यथा वह्निरुष्णस्तेजस्त्वादित्यत्राकृतकत्वम्। पक्षाव्यापकविपर्ययो यथा क्षित्यादिकं सकर्तृकं कार्यत्वादित्यत्राणुव्यतिरिक्तत्वम्। अत्राणुव्यतिरेकस्य
क्षित्यादेरेकदेशवृत्त्या भागासिद्धेः। पूर्वसाधनव्यतिरेको यथा शर्करारसोऽनित्यः अनित्यवृत्तिगुणत्वात्, रसो नित्यो रसनेन्द्रियजन्यनिर्विकल्पकविषयत्वात् रसत्ववदित्यादौ।
पूर्वसाधनतायाः प्रयोगानुरोधित्वेनाव्यवस्थितत्वात् कदाचिन्नित्यत्वसाधनव्यतिरेकस्योपाधित्वं कदाचिदनित्यत्वसाधनव्यतिरेकित्वस्येति वस्तुव्यवस्था न स्यात्। उपाधेर्नित्यदोषत्वाच्च।
न हि यद्येन सोपाधिसम्बद्धं तत् तेनानुपाधित्वसम्बद्धं सम्भवति। न तु सत्प्रतिपक्षोच्छेदः पूर्वसाधनव्यतिरेकस्यानुपाधित्वे बीजम्। स्थापनाया यथाभासत्वं तत्र पूर्वसाधनव्यतिरेकस्य
साध्यव्यापकत्वेनानुपाधित्वात् । न च पूर्वहेतोस्तत एवासाधकत्वात् सत्प्रतिपक्षवैयर्थ्यं तत्रेति वाच्यम्। अगृह्यमाणविशेषदशायां सत्प्रतिपक्षसम्भवात्। पूर्वसाधनव्याप्यव्यतिरेको
यथा अकर्तृकत्वानुमाने नित्यत्वादिः । पक्षविपक्षान्यतरान्यो यथा प्रसिद्धानुमाने पर्वतजलह्रदान्य तरान्यत्वम् । पक्षेतरसाध्याभावो यथात्रैव पर्वतेतराग्रिमत्त्वम् । न चात्र
व्यर्थविशेषणत्वं दूषणम्। तत्त्वेऽपि उपाधेराभासत्वात् । तत्तुल्यं च यथा अत्रैव पर्वतेतरेन्धनवत्त्वम् । एवं वह्निसामग्र्यादिकमूह्यम् ।
॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे उपाधिवादः ।

65

अथ पक्षताप्रकरणम्

व्याप्त्यनन्तरं पक्षधर्मतानिरूप्यते। तत्र न तावत् संदिग्धसाध्यधर्मत्वं पक्षत्वम् । संदेहो हि न विशेषणम्, परामर्शपूर्वं लिङ्गदर्शनव्याप्तिस्मरणादिना तस्य नाशात्।
नोपलक्षणम्, अव्यावर्तकतापत्तेः। नापि साधकबाधकप्रमाणाभावः, उभयाभावस्य प्रत्येकसत्त्वेऽपि सत्त्वात् । नाप्यभावद्वयं तथा । बाधकप्रमाणाभावस्य व्यर्थत्वात्। ह्रदादेः
पक्षत्वेऽपि बाधहेत्वसिद्ध्यादेरावश्यकत्वेन अनुमित्यनुत्पादात् । नापि साधकप्रमाणाभावः । "श्रोतव्यो मन्तव्यः" इति श्रुत्या समानविषयकश्रवणानन्तरं मननबोधनात्  ।
प्रत्यक्षद्दष्टेऽप्यनुमानदर्शनात् । एकलिङ्गावगतेऽपि लिङ्गान्तरेण तदनुमानाच्च। "मन्तव्यश्चोेपपत्तिभिः" इति स्मरणात् । अथ सिषाधयिषितसाध्यधर्मा धर्मी पक्षः ।
तथाहि मुमुक्षोः शब्दादात्मावगमेऽपि मननस्य मोक्षोपायत्वेन सिद्धिविशेषानुमितीच्छया आत्मानुमानम् । अत एव " "प्रत्यक्षपरिकलितमप्यर्थमनुमानेन बुभुत्सन्ते तर्करसिकाः।
न हि करिणि द्दष्टे चीत्कारेण तमनुमिमतेऽनुमातारः" " इति वाचस्पतिवचनयोरविरोधः, अनुमित्सातद्विरहाभ्यां तदुपपत्तेरिति चेत् न। सन्देहवत् परामर्शपूर्वं सिषाधयिषाया
अप्यभावात्। योग्यतायाश्चानिरूपणात्। सिषाधयिषाविरहेऽपि घनगर्जितेन मेघानुमानात्, स्वकारणाधीनतृतीयलिङ्गपरामर्शबलेन अनपेक्षितानुमानदर्शनाच्चेति। उच्यते।
सिषाधयिषाविरहसहकृतसाधकप्रमाणभावो (मानाभावो) यत्रास्ति स पक्षः । तेन सिषाधयिषाविरहसहकृतं साधकप्रमाणं यत्रास्ति स न पक्षः। यत्र साधकप्रमाणे सत्यसति
वा सिषाधयिषा यत्र वा उभयाभावस्तत्र विशिष्टाभावात् पक्षत्वम् । यद्यपि पक्षत्वस्य केवलान्वयित्वात् नास्य भेदकत्वम्, तथापि पक्षपदप्रवृत्तिनिमित्तमुक्तम् ।
॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे पक्षताप्रकरणम् ॥

अथ परामर्शप्रकरणम्
पक्षधर्मस्य व्याप्तिविशिष्टज्ञानमनुमितिहेतः । ननु व्याप्यतावच्छेदकप्रकारेण व्याप्तिस्मरणं पक्षधर्मताज्ञानं तथा, लाघवात् परामर्शहेतुत्वेनावश्यकत्वाच्च। एवं
धूमो वह्निव्याप्यो धूमवानश्चायमिति ज्ञानद्वयादेवानुमितिरस्तु ।

न चानुमितिं प्रति व्याप्यत्वज्ञानमेव हेतुर्लाघवात् उपजीव्यत्वाच्चेति वाच्यम्। तस्यानुमितेः पूर्वमसिद्धोै युगपदुपस्थित्यभावात्। अथ यथा तत्ताविशिष्टस्मरणे
सतीन्द्रियसंनिकृष्टे स एवायमित्यभेदप्रत्ययो भवति तथेन्द्रियसंनिकृष्टे धूमे वह्निव्याप्यधूमस्मरणे धूमत्वसाधारणधर्मदर्शनात् व्याप्योऽयमित्यभेदप्रत्ययः स्यात् सामग्र्या
वृत्तत्वादिति स एवानुमितिहेतुरिति चेत् न । प्रत्यक्षसामग्रीतोऽनुमितिसामग्र्या बलवत्त्वात् अनुमितिरेवोत्पद्यते न तु व्याप्याभेदप्रत्यक्षम् । अन्यथा तवापि परामर्शानन्तरं
तदनुव्यवसायो वा भवेन्नत्वनुमितिरेव। अथ वह्निव्याप्यो धूम इति स्मरतः पर्वतीयधूमेन्द्रियसंनिकर्षेण प्रथमत एव व्याप्तिधूमत्वयोर्वैशिष्ट्यं यत्र भासते विशेषणज्ञानस्य
पूर्वं वृत्तत्वात् तत्र, यत्र वा आप्तवाक्यात् वह्निव्याप्यवानयमिति ज्ञानं तत्रोभयत्रापि लाघवात् पक्षधर्मव्याप्यत्वज्ञानहेतुत्वकल्पनात् अन्यत्रापि तथेति चेत् न ।
इन्द्रियासंनिकृष्टेऽतीन्द्रिये च लिङ्गे प्रत्यक्षविशिष्टज्ञानसामग्रीविरहात् तेन विना अनुमित्यनुत्पादापत्तेः, अस्मदुक्तसामग्र्याश्च तत्रापि सत्त्वात् । न चानुमानादिना तत्र
परामर्शः, अनवस्थानात् । अथ यथा सः देवदत्तो गौरो न वा, परमाणु गुरुत्वाधिकरणं न वेति संशयः बहिरस्वतन्त्रेणापि मनसा कोटिस्मरणविशेषादर्शनादिसहकारिवशाज्जन्यते,
यथा वा निद्रासहकारेण बाह्यस्वप्नानुभवस्तथेहापि ज्ञानान्तरोपनीतविशेष्ये व्याप्तिस्मरणसहकृतेन मनसा परामर्शो जन्यते तदनन्तरमनुमितिदर्शनादिति चेत् न। व्याप्तिस्मरणादेः
प्रमाणान्तरतापत्तेः। तदेव हि प्रमाणान्तरं यदसाधारणं सहकार्र्यासाद्य मनो बहिर्गोचरप्रमां जनयति, यथेन्द्रियादि । संशयस्वप्नौ तु न प्रेमे इति न निद्रादेः प्रमाणान्तरत्वम् ।
न च तवापि कथं स धूमो वह्निव्याप्य इति व्यवहारः, तदानीं तद्व्याप्यत्वानुभावकाभावादिति वाच्यम् । तत्र स्मृतधूमे धूमत्वेन वह्निव्याप्यत्वानुमानात् । न च त्वन्मते
धूमत्वेन व्याप्यत्वानुभवः सम्भवति । अत एव यो वह्निव्याप्यवान् सोऽवश्यं वह्निमानिति व्याप्तिज्ञानवतोऽनुमितिर्नान्यथा । अथ पर्वतीयधूमे ज्ञाते वह्निव्याप्योऽयं न
वेति संशयेऽप्यनुमितिः स्यादिति चेत् न । धूमो वह्निव्याप्य इति स्मरणे विद्यमाने धूमत्वज्ञानस्य विशेषदर्शनत्वेन संशयाभावात् । अन्यथा परामर्शोऽपि कुतो न स्यात्।
संशयेन प्रतिबन्धादिति चेत् तुल्यम् । न च सामान्यनिश्चयस्य सामान्यसंशयनिवर्तकत्वात् धूमसामान्ये संशयो मा भूत्, विशेषसंशयस्तु विशेषनिश्चयनिवर्तनीय इति
धूमविशेषे संशयनिरासार्र्थं पृथक् व्याप्तिनिश्चयो वाच्य इति वाच्यम् । यत्र हि यद्व्यावर्तकधर्मदर्शनं तत्र न तत्संशयः, तच्च सामान्ये विशेषे वेति । वस्तुतस्तु
धूमत्वपुरस्कारेण व्याप्तिस्मरणे पक्षधर्मताज्ञाने चानुमितिर्भवत्येव । ननु भावोऽभावो वा उभयथापि प्रमेयमित्यत्र भावत्वाभावत्वयोर्व्याप्यतावच्छेदकयोरग्रहादनुमानं न
स्यात् तदन्यान्यत्वरूपस्यान्तरत्वस्य लिङ्गत्वाभावादिति चेत् न । भावत्वाभावत्वान्यान्यधर्मवत्त्वस्य लिङ्गत्वात् । एवं धूमालोकान्यतरत्वमपि लिङ्गम् । अथ
यद्व्यतिरेकज्ञानं यदुत्पत्तिप्रतिबन्धकं तत् तन्निश्चयसाध्यम् । तथा च पक्षधर्मस्य व्याप्यभेदज्ञानमनुमितिप्रतिबन्धकम् , अतो व्याप्याभेदज्ञानं तद्धेतुः सिद्ध्यतीति चेत् न ।
धूमत्वपुरस्कारेण व्याप्तिस्मरणपक्षधर्मताज्ञाने सति विशेषदर्शनान्न धूमे व्याप्यभेदज्ञानम्, किं त्वनुमितेरेव तत्रोत्पत्तिः तत्सामग्रीसत्त्वात् । अतो न व्याप्यभेदज्ञानमनुमितिप्रतिबन्धकम्
येन व्याप्याभेदज्ञानं तद्धेतुः स्यात् । न च धूमत्वपुरस्कारेण व्याप्तिस्मरणपक्षधर्मताज्ञाने इयं धूमव्यक्तिर्वह्निव्याप्या नेति भ्राम्यतोऽनुमित्यापत्तिः, अतो विशिष्टज्ञानं
तद्धेतुरिति वाच्यम् । धूमत्वस्य विशेषस्य दर्शनेन तादृशभ्रमानुत्पत्तेः तत्रानुमितिसद्भावादेव। अन्यथा निश्चयसामग्र्यां सत्यां भ्रमानन्तरं परामर्श एव कुतो न भवति।
अस्तु वा व्याप्यतया पक्षधर्मतया चावगतस्य भेदाग्रह एवानुमितिहेतुः, परामर्शहेतुतया तस्यावश्यकत्वात् । अत एवासन्निकृष्टधूमज्ञानादप्यनुमितिः। न चैवं गौरवम्, तदा
विशिष्टज्ञानानुपस्थितेः। न च जनकज्ञानाविरोधिनो ज्ञानस्याप्रतिबन्धकत्वात् भेदग्रहो न प्रतिबन्धक इति वाच्यम् । अभेदज्ञानस्याजनकत्वात्। त्वयापि लिङ्गपरामर्शे
तादृशस्य प्रतिबन्धकत्वस्वीकाराच्च।

अथ गोत्वं मधुरत्वावान्तरजातिर्वा लिङ्गं न स्यात् तद्गतधर्मान्तरस्याभावात्, अत एव तस्य विलक्षणत्वादिति चेत् न। व्यक्तेरेव तत्र प्रकारत्वात् । न हि
गौर्गोत्वमिति ज्ञानयोरविशेषः । अन्यथा गोत्वमिति ज्ञानस्य निर्विकल्पकत्वापत्त्या व्याप्यत्वग्रहे परामर्शे चानुपयोगात्, गवेतरावृत्तित्वे सति सकलगोवृत्तित्वं गोत्वत्वमित्यनुभवाच्च।
न चैवमनवस्था, तदितरवृत्तित्वे सति तद्वृत्तित्वस्यानुभवेनापलापासम्भवात् ।

इति परामर्शपूर्वपक्षचिन्तामणिः।

66

अथ परामर्शसिद्धान्तः
अत्रोच्यते । अयमालोको धूमो वा उभयथापि वह्निव्याप्य इति ज्ञानं ततोऽनुमितिः । न च धूमत्वेनालोकत्वेन वा तत्र निश्चयः । अथ तदन्यान्यत्वमेव तत्र
लिङ्गम् । न च तदज्ञानदशायामनुमितिदर्शनात् न तथेति वाच्यम् । धूमालोकान्यान्यत्वज्ञानं विना तवापि तत्र व्याप्यत्वानिश्चयेन तदर्थं तद्बोधावश्यकत्वादिति चेत् न।
न हि धूमालोकान्यान्यत्वं धूमान्यान्यत्वं वा व्याप्यतावच्छेदकम्, गौरवात्, व्यभिचारा वारकविशेषणवत्त्वाच्च । किं तु धूमत्वादिकं, तच्च तत्र संदिग्धमेव । ननु
तदन्यान्यद्वह्निव्याप्यमेव व्यभिचाराभावेन व्याप्तिविरहसाधनस्य बाधितत्वात् । पुरुषस्तु तत्र नीलधूमवत्त्वादित्यत्रेवाधिकेन निगृह्यते न तु व्याप्यत्वासिद्ध्येति चेत् न।
तदन्यान्यत् धूमालोकस्वरूपमेव तच्च व्याप्यमिति सत्यम् । न च वस्तुगत्या व्याप्यज्ञानादनुमितिः अतिप्रसङ्गात् । किं तु व्याप्यतावच्छेदकप्रकारकज्ञानात् । न च
तदन्यान्यत्वं वह्निव्याप्यतावच्छेदकमित्युक्तम् । न च तदन्यान्यत्वात् वह्निव्याप्यत्वमपि तत्र नानुमेयम्, व्यर्थविशेषणत्वादिति वाच्यम् । प्रत्यक्षं हि तदन्यान्यत्वविशेषदर्शनात्
व्याप्यत्वज्ञानं जनयति । विशेषणज्ञानविशेषणविशेष्यसम्बन्धविशेषणविशेष्येन्द्रिय संनिकर्षतदसंसर्गाग्रहविशेषदर्शनानां सत्त्वेन वह्निव्याप्यत्वप्रत्यक्षसत्त्वात्। न चैवं  न
प्रत्यक्षेऽपि तदन्यान्यत्वज्ञानं सहकारीति वाच्यम् । अन्वयव्यतिरेकाभ्यां गुरोरपि तस्य विशेषदर्शनत्वेन प्रत्यक्षसहकारित्वात् । तस्मात्तदन्यान्यत्वज्ञानं तत्र व्याप्यताज्ञानोपक्षीणं
न तु साक्षादनुमितिहेतुरिति । किं च वह्निव्याप्यवानयमिति शाब्दज्ञाने व्याप्यत्त्वज्ञानं कारणमित्यन्यत्रापि तथा ।

अथ वह्निव्याप्यत्वमपि वह्निव्याप्यतावच्छेदकम् । तथा हि वह्निनिरूपिता धूमादिप्रत्येकवृत्तिरेव व्याप्तिर्व्याप्तित्वेन सकलधूमादिवृत्तिव्याप्त्यवच्छेदिका,
आश्रयभेदेन च व्याप्तिभेदादिति चेत् , न । सकलधूमादिवृत्तिव्याप्तौ मानाभावात् यत्र वह्निव्याप्यस्तत्र वह्निरिति व्याप्तिबुद्धौ शाब्दव्याप्यत्वबुद्धौ च प्रत्येकवृत्तिव्याप्त्याश्रयत्वस्यैव
विषयत्वात् प्रत्येकवृत्तिव्याप्तिज्ञानं विना तद्बोधाभावात् । अपि च यत्र धूमत्वव्याप्त्योर्वैशिष्ट्यं प्रथममेव प्रत्यक्षेण युगपत् पक्षधर्मे भासते तत्र लाघवात् व्याप्यत्वज्ञानत्वमेव
कारणतावच्छेदकम् । न चैवमतिरिक्तविशिष्टज्ञानकारणत्वे गौरवं दोषाय । सप्रमाणकत्वात्, कारणताग्रहदशायां फलमुखगौरवस्य सिद्ध्यसिद्धिभ्यामदोषत्वात् । न
चासंनिकृष्टे धूमे तदभावः, भवन्मतानुमितिहेतुव्याप्तिस्मरणधूमत्वज्ञानसहितेन मनसा तदुत्पादात् । यथा परमाणुर्निरवयवद्रव्यं नित्यपरिमाणवत्त्वात् आकाशवत् इत्यादौ
प्रत्येकानुमानोपनीतातीन्द्रियसाध्यसाधनयोराकाशवृत्तितया स्मरणे व्यभिचाराज्ञाने मनसा व्याप्त्यनुभवः, अनुमानयोः प्रत्येकतदुभयसहचारविषयत्वेन व्याप्त्यग्राहकत्वात् ।
न चातीन्द्रियव्याप्यत्वमतीन्द्रियेऽनुमेयम् । तत्रापि व्याप्तिग्राहकाभावात्। न च तदुपनयसहितस्य मनसो बहिरर्थप्रमाहेतुत्वे उपनयस्य प्रमाणान्तरत्वम् । इन्द्रियादेः
संनिकर्षवदुपनयस्य नियतव्यापाराभावेन प्रमायामकरणत्वात् । सहकारिता च तदभावेऽपि भवति । बहिरिन्द्रियलिङ्गसादृश्यादिव्यापारं विनापि चिन्तोपनीतपदार्थानां
बाधकानवतारे संसर्गानुभवस्य सकलजनसिद्धत्वात् । कथमन्यथा कविकाव्यादिकमिति।

स्यादेतत्  । पक्षधर्मस्य व्याप्यताज्ञानं नेन्द्रियेण । वह्नेरसंनिकर्षे तन्नियतसामानाधिकरण्यस्य व्याप्यत्वस्यास्योग्यत्वात् । न च धूमत्वेन सकलधूमव्याप्यतावगमात्
धूमविशेषे संस्कारात् स्मरणाद्वा उपनीतव्याप्याभेदग्रहः प्रत्यभिज्ञाने तत्ताविशिष्टस्येवेति वाच्यम् । एवं हि धूमवत्त्वेन वह्निमत्त्वज्ञानात् धूमवद्विशेषे पर्वते संस्कारवशात्
प्रत्यक्षेण व्याप्तिज्ञानापेक्षेण वह्निमदभेदग्रहो वह्निमत्त्वसंसर्गग्रहो वास्तु, किमनुमानेन।

पृथग्वह्निमत्त्वस्मरणं तत्र नास्ति, किं तु व्याप्त्यवच्छेदकतयेति चेत्, न। वह्निमान्न वेति संशयानुरोधेन स्वतन्त्रवह्निमत्त्वस्मरणात् । न च विशिष्टज्ञाने
स्वतन्त्रविशेषणज्ञानत्वेन हेतुत्वम्, गौरवात् ।

अथ यो यत्र विशिष्य पूर्वमवगतः स तत्र संस्कारवशात् यथार्थप्रत्यक्षे भासते, यथा तत्ताप्रत्यभिज्ञाने । न च पर्वते विशिष्य पुरा वह्निरवगतः । यत्र चन्दने
सौरभमुपलब्धं तत्र संस्कारवशाच्चक्षुषा सुरभि चन्दनमिति ज्ञानम्। अन्यथा अनुमितिरिति चेत् , तर्हि पक्षधर्मधूमेऽपि न पुरा विशिष्य व्याप्तिरवगतेति कथं संस्कारवशात्
तद्गतव्याप्तिबोधः प्रत्यक्षेण।

न च सहचारदर्शनजन्यसंस्कारसहितेनेन्द्रियेण व्यभिचारज्ञानाभावे सति महानसीयधूमवत् पर्वतीयधूमे व्याप्त्यवगमः, वह्नेस्तु न प्रत्यक्षसामग्री संनिकर्षाभावादिति
वाच्यम् । हेतुसाध्यसाक्षात्कारं विना प्रत्यक्षेण व्याप्त्यग्रहात् । न च पर्वते वह्निसाक्षात्कारः । न च पक्षधर्मस्य साध्यसामानाधिकरण्यविशेषो व्याप्तिः पक्षे साध्यग्रहं
विनेत्युक्तम् ।

उच्यते। विशेषणज्ञानं तस्य विशेष्ये सम्बन्धः तयोरसंसर्गाग्रहो विशेषदर्शनं विशेषणविशेष्येन्द्रियसंनिकर्षो गौरयमित्यादियथार्थविशिष्टप्रत्यक्षकारणम्, अस्ति
चात्रापि व्याप्तिस्मरणम् , स्मृतव्याप्तेः पक्षवृत्तिधूमे सत्त्वम् ।

एकैव हि सा व्याप्तिः तयोरसंसर्र्गाग्रहो धूमत्वविशेषदर्शनं व्याप्तिविशिष्टधूमेन्द्रियसंनिकर्षश्च व्याप्तिविशिष्टज्ञानकारणम्। न च वह्निविशिष्टज्ञानसामग्री
वह्नेरसंनिकर्षात् ।

कश्चित्तु  धूमत्वे परम्परासम्बन्धेन वह्निव्याप्यत्वं पूर्वं गृहीतम् । तथा च संस्कारोपनीतं वह्निव्याप्यत्वं परम्परासम्बन्धेन पक्षवृत्तिधूमत्वे प्रत्यभिज्ञायते तद्वृत्तित्वेन
पूर्वमनुभवात् । एवं च धूमत्वव्याप्यत्वपरामर्शादेवानुमितिरिति  प्राह।

भवतु तावदेवं तथापि जातिरेव लिङ्गं स्यात् न तु व्यक्तिः । तथा च सर्वोपसंहारेण व्यक्तौ व्याप्तिग्रहार्थं सामान्यलक्षणप्रत्यासत्तिव्युत्पादनमफलं स्यात्। दृश्यते
च परम्परासम्बन्धज्ञानं विना जातिव्याप्तिमविदुषोऽपि धूमाद्वह्न्यनुमानम् । न हि व्याप्यतावच्छेदकतया भासमानस्यावश्यं व्याप्यताग्रहः, मानाभवात्। तस्मात् पक्षधर्मे
व्याप्तिविशिष्टज्ञानं तदनन्तरं विशिष्टवैशिष्ट्यज्ञानं पक्षे वा तृतीयलिङ्गपरामर्शः ।

67

अन्ये तुस्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं व्यापकत्वम्, तत्सामानाधिकरण्यं च व्याप्यत्वम् । तथा च लाघवात् व्यापकताज्ञानमनुमितिहेतुः । साध्यस्य
पक्षधर्मव्यापकताज्ञानं च परामर्शः, न तु साध्यव्याप्तस्य पक्षधर्मताज्ञानं साध्यव्याप्यवत्पक्षज्ञानं वा, गौरवात् ।

अत एव यो यो धूमवान् स सोऽग्निमान् इत्युदाहरणवाक्ये साध्यायोगव्यवच्छेदेन धूमव्यापकता वह्नेरुपदर्श्यते । अन्यथा वह्निमानेव
धूमवानित्यन्ययोगव्यवच्छेदेनोदाहरणशरीरं स्यात् । दोषोऽपि व्यभिचारादिर्न पक्षधर्मव्यापकं साध्यमित्येवोद्भाव्यः ।

अथ पर्वतवृत्तिधूमव्यापको वह्निरिति परामर्शो यदि, तदा पर्वतीयधूमं प्रति व्यापकतायाः पर्वतधूमसामानाधिकरण्यनैयत्यात् पर्वतवह्निः परामर्शविषय एवेति
किमनुमेयमिति चेत्, तर्हि पर्वतीयधूमे नियतसाध्यसामानाधिकरण्यस्य व्याप्यत्वस्य ज्ञानं साध्यसामानाधिकरण्यभाननियतमिति व्याप्यत्वभानेऽपि तुल्यम्। यदि च स्मृता
व्याप्तिर्धूमेऽवगम्यते तदा व्यापकत्वेऽपि समानम् ।

वस्तुतस्तु व्यापकत्वं तद्वन्निष्ठात्यन्ताभावाप्रतियोगित्वम्, न तु धूमसामानाधिकरण्यम् । व्याप्यत्वं तु सामानाधिकरण्यविशेष इति तवैवानुमितिरफला स्यात् । न
चैवं परामर्शस्य चाक्षुषत्वं न स्यात् व्यापकस्य विशेष्यस्येन्द्रियासंनिकर्षादिति वाच्यम् । इष्टत्वात् । असंनिकृष्टधूमादाविव मानस एव हि सर्वत्र परामर्शः ।
चक्षुरन्वयव्यतिरेकानुविधानं च पक्षवृत्तिधूमोपनयोपक्षीणम् ।

अथ जनकज्ञाने उपसर्जनतया भातस्य पक्षस्य पर्वतादेरनुमितौ प्राधान्येन भानं न स्यात् । न हि जनकज्ञाने उपसर्जनतयावगतं जन्यज्ञाने प्राधान्येन भासते,
तथादर्शनात् । न चानुमितेस्तथात्वमसिद्धम् , पर्वतोऽयं वह्निमानित्यनुमितेर्लोकसिद्धत्वादिति चेत्-न । पुरुषस्य दण्ड इति ज्ञानानन्तरं दण्डी पुरुष इति ज्ञानजन्यज्ञानदर्शनात्। अन्यथा तवापि कथं पक्षविशेष्यकत्वनियमः । न हि कारणीभूतज्ञाने यत्
विशेष्यतया भासते तत् कार्यीभूतेऽपि तथा । इह भूतले घटो नास्तीति ज्ञानजन्ये घटाभाववद्भूतलमिति ज्ञाने तव च व्यभिचारात् । तस्मात् पक्षवृत्तिलिङ्गपरामर्शस्यायं
स्वभावो यत् स्वाश्रयविशेष्यिकामनुमितिं जनयति नातथाभूताम्, एवं ममापि तुल्यमिति ।

॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे परामर्शवादः।
अथ लिङ्गकारणतावादः

एवं लिङ्गपरामर्शः कारणम्, न तु परामृश्यमानं लिङ्गम् । अथ परामर्शमात्रं न हेतुः, अपि तु लिङ्गपरामर्शः । तथा च लिङ्गमपि हेतुः, विशिष्टकारणताग्राहकमानेन
बाधकं विना विशेषणस्यापि हेतुत्वग्रहात् । न च लिङ्गं परामर्शपरिचायकत्वेनान्यथासिद्धम्, परिचये विशेषणान्तराभावेन लिङ्गमेव विशेषकम् । तथा चानन्यथासिद्धत्वात्
तदपि हेतुः । अन्यथा परिचायकतया संयोगेनान्यथासिद्धमिन्द्रियमपि कारणं न स्यात् ।

अपि च धूमवान् वह्निमानिति धूमसमानकालवह्निविषया धूमविशेषणिका अनुमितिः ज्ञायमानविशेषणजन्या विशेषणसमानकालतया
विशेष्यविषयेऽशाब्दविशिष्टभानत्वात्, दण्डी पुरुष इति विशिष्टप्रत्ययवत् ।

अत एव ज्ञायमानविशेषणजन्यत्वेन विशेषणकालवृत्तितया विशेष्यभाननैयत्यं यथा दण्डी पुरुष इति प्रत्यक्षे, तेन धूमसमानकालीनवह्निसिद्धिः । अन्यथा
तत्तद्धूमकालवृत्तिवह्न्यनुमानं न स्यात्, समयविशेषमन्तर्भाव्य व्याप्त्यग्रहात् ।

किं च लिङ्गकरणत्वपक्षे परामर्श एव तद्व्यापारः । परामर्शस्य तु न व्यापारान्तरमस्ति, चरमकारणत्वादिति न तत् करणम् ।
अत्रोच्यते  । अतीतानागतधूमादिज्ञानेऽप्यनुमितिदर्शनान्न लिङ्गं तद्धेतुः, व्यापारपूर्ववर्तितयोरभावात् ।

न च विद्यमानं लिङ्गान्तरमेव तद्धेतुः तदा तस्यापरामर्शात् , परामर्शाविषयस्य कारणताग्राहकाभावात्। भाविनि पक्षे व्यक्त्यैक्यमेव वा यत्र लिङ्गं तत्र
लिङ्गान्तराभावाच्च । यदि च वर्तमानमेव तत्र लिङ्गं तदा वर्तमानवह्न्यनुमानोपपत्तिः। अथ भावि भूतं वा धूमादि न लिङ्गम् । किं तु तत्प्रागभावस्तद्ध्वंसश्च
वर्तमान एव, तयोरपि वह्निसमानदेशत्वादिति चेत् न। अतीतभाविदिनवृत्तितया निश्चितात् वर्तमानतया सन्दिग्धात् धूमादनुमितौ हि न प्रागभावध्वंसौ लिङ्गे, तयोः
संदिग्धत्वात्। नापि धूमः तस्यावर्तमानत्वात् ।

किं च भूतभाविवर्तमानत्वाविषयात् पर्वते धूम इति ज्ञानात् यत्रानुमानं तत्र का गतिः ? सर्वत्र प्रागभावाद्यन्यतमवत्वं धूमाद्यत्यन्ताभावाभाववत्त्वं वा
लिङ्गमिति चेत् न । व्यर्थविशेषणत्वेन तेषामलिङ्गत्वात् । अन्यतमत्वाज्ञानेऽपि धूमज्ञानादनुमितिसत्त्वाच्च ।

अपि च धूमप्रागभावादि न लिङ्गम् , न वा तद्धीरनुमितिकारणम् । प्रागभावादीनां व्यर्थत्वात् आवश्यकधूमादिज्ञानादेवानुमितिसम्भवाच्च । किं च लिङ्गं
नानुमितिमात्रे हेतुः । लिङ्गं विनापि धूलीपटलाल्लिङ्गभ्रमेणानुमित्युत्पत्तेः। नापि लिङ्गं प्रमानुमितौ परामर्शोऽनुमितिमात्रे हेतुः । तद्विशेषप्रमात्वाप्रमात्वाभ्यामेवानुमितितथात्वात्
यत्सामान्ये यत्सामान्यं प्रयोजकं तद्विशेषे तद्विशेषस्य प्रयोजकत्वात् ।

68

अथ परामर्शस्य प्रमात्वं विद्यमानलिङ्गविषयत्वम् । तथा चायातं लिङ्गस्य प्रमानुमितिहेतुत्वमिति चेत् न । भाविना भूतेन वा यदा कदाचिद्विद्यमानेनापि
लिङ्गेन परामर्शप्रमात्वसम्भवान्नानुमितिपूर्वसमये तत्प्रमात्वानुरोधेन लिङ्गस्य सत्त्वं कारणत्वं वा । धूमकालीनवह्न्यनुमानं च यदा यत्र धूमस्तदा तत्र वह्निरिति
व्याप्तिज्ञानादेव।

अथ वा धूमकालः पक्षतावच्छेदकः । पक्षतावच्छेदकधर्मसमानाधिकरणं च पक्षधर्मताबलात् साध्यं सिध्यतीति धूमकालीनवह्निसिद्धिः।
यत्तु व्यापाराभावान्न परामर्शः करणमिति (तत्) तथैव किं तु व्याप्तिज्ञानं करणं परामर्शो व्यापारः । न च परामर्शस्य संस्कारो व्यापारः। परामर्शस्य
चरमकारणत्वेन संस्कारोत्पादनसमयेऽनुमित्युत्पादनात् । नापि तर्कः । व्याप्तिग्राहकस्य विषयपरिशोधकस्य वा तस्य तदजन्यत्वादिति ।
इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे लिङ्गकारणतावादः ।

अथ केवलान्वयिप्रकरणम्
तच्चानुमानं त्रिविधम् केवलान्वयिकेवलव्यतिरेक्यान्वयव्यतिरेकि भेदात् । तत्रासद्विपक्षं केवलान्वयि । तथा हि केवलान्वयिनोऽभिधेयत्वस्य न विपक्षः।
अभिधानेऽनभिधाने च विपक्षत्वव्याघातात् ।

अथ यथाकाशशब्दाच्छब्दाश्रयत्वमनभिधेयमप्युपतिष्ठते तथाभिधेयत्वविपक्षस्यानभिधेयत्वेऽपि पदादुपस्थितिः स्यात् । एवं चाभिधेयत्वं कुतोऽपि व्यावृत्तं धर्मत्वात्
गोत्ववत् इति चेत् न । व्यावृत्तत्त्वस्याव्यावृत्तत्वे व्यावृत्तत्वमेव केवलान्वयि, व्यावृत्तत्वे अत एव व्यावृत्तं व्यावृत्तत्वं तदेव केवलान्वयीति धर्मत्वस्यानैकान्तिकत्वात् ।
एवमत्यन्ताभावप्रतियोगित्वस्यात्यन्ताभावाप्रतियोगित्वेऽत्यन्ताभावाप्रतियोगित्वमेव केवलान्वयि । अत्यन्ताभावप्रतियोगित्वे यन्निष्ठात्यन्ताभावप्रतियोग्यन्ताभावप्रतियोगित्वं
तदेव केवलान्वयि। न चात्यन्ताभावप्रतियोगित्वं व्यावृत्तत्वं च नानेति वाच्यम् । अनुगतप्रतीतिबलेन गोत्ववत्तयोः सिद्धेः ।

अत्र न तावदव्याप्यवृत्त्यत्यन्ताभावः केवलान्वयी, तस्य प्रतियोग्यवच्छिन्नेऽप्यत्यन्ताभावात् । अत्यन्ताभावाप्रतियोगिनश्च केवलान्वयित्वात् ।
नाप्याश्रयनाशजन्यगुणनाशात्यन्ताभावः तस्य नाशस्य सर्वत्रात्यन्ताभावादिति वाच्यम् । यत्र हि प्रतियोगिप्रागभावो वर्तते तत्र न तदत्यन्ताभावो वर्तते । तथा च नाशस्य
प्रागभावो यत्र नाशप्रतियोगिसमानदेशे वर्तते तत्र कथं नाशात्यन्ताभावो वर्तताम् । तर्हि नाशस्य तत्र वृत्तिः स्यादिति चेत् न । पूर्वं तत्र नाशप्रागभावस्यैव सत्त्वात्
उत्तरकाले आश्रयस्यैवाभावात् । नाप्याकाशात्यन्ताभावः केवलान्वयी । तस्यापि प्रतियोगिरूपात्यन्ताभावप्रतियोगित्वात् । अभावात्यन्ताभावस्य भावत्वात् ।
अथाभावात्यन्ताभावो न प्रतियोगिरूपः, तथा सत्यन्योन्याभावात्यन्ताभावः प्रतियोगिरूप इति प्रतियोगिसमानदेशोऽन्योन्याभावो न स्यादिति चेत् न ।
अत्यन्ताभावात्यन्ताभावः प्रतियोग्येव, अन्योन्याभावात्यन्ताभावस्तु प्रतियोगिवृत्तिरसाधारणो धर्म इति ।

उच्यते । वृत्तिमदत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम्। आकाशात्यन्ताभावो यद्यपि प्रतियोगिरूपात्यन्ताभावप्रतियोगी तथापि न स वृत्तिमान् इत्याकाशात्यन्ताभाव
एव केवलान्वयी। तथा प्रमेयत्वाभिधेयत्वादि केवलान्वयि । वृत्तिमतोऽत्यन्ताभावस्याप्रतियोगित्वात् । ननु प्रमेयत्वं प्रमाविषयत्वम्, तच्च न केवलान्वयि, प्रमाया
विषयत्वस्य चाननुगमादिति वाच्यम् । प्रमात्वमेव हि परम्परासम्बन्धात् घटादौ प्रमेयत्वमनुगतं प्रमाजातीयविषयत्वं वा । तथापि केवलान्वयिनि संशयाभावात्
कथमनुमितिः ? प्रमेयत्वमत्र वर्तते न वेति संशयश्च न प्रमेयपक्षकः किंतु प्रमेयत्वपक्षको भिन्नविषयकः । प्रमेयत्वपक्षके चास्तित्वसाध्यस्यान्वयव्यतिरेकित्वम् । तथा च
घटः प्रमेयो न वेति संशयो मृग्यते। स च नास्त्येव ।

अथ पक्षः साध्यवान्न वा, पक्षे साध्यमस्ति न वेति संशयौ समानविषयकावेव, ""तदस्यास्त्यस्मिन्" " (पा.सू.5.2.94) इति मतुपो विधानादिति चेत् , न।
विशेषणविशेष्यभावभेदेनार्थभेदात् ।

मैवम् । य एव हि संशयः पक्षे साध्यसिद्धिविरोधी स एवानुमानाङ्गम् , आवश्यकत्वात् लाघवाच्च । न तु समानविषयकत्वमपि तत्र तन्त्रम् , गौरवात्। प्रमेयत्वं
घटनिष्ठाभावप्रतियोगि न वेति संशयश्च घटः प्रमेय इति साध्यसिद्धिविरोधी भवत्येव । यद्वा संशययोग्यतैवानुमानाङ्गम्, संशयश्च तदानीं विनाशात्। न च सापि
साधकबाधकप्रमाणाभावः, प्रमेयत्वाभावासिद्धौै तत्प्रमाणासिद्धस्तदभावासिद्धिरिति वाच्यम् । पक्षनिष्ठात्यन्ताभावाप्रतियोगित्वज्ञानस्येव साध्यसाधकत्वेन तदाभावस्यैव
योग्यतात्वात् । प्रमेयत्वमत्यन्ताभावप्रतियोगीति भ्राम्यतः संशय इत्यन्ये ।

नन्वेकरूपविकलमिदं कथं गमकम् ? तत्त्वे वा व्यतिरेकविकलवत् रूपान्तरविकलमपि गमकं स्यादिति चेत् न । अन्वयव्यतिरेकव्याप्त्योरन्यतरनिश्चयेनानुमित्यनुभवात्।
युगपदुभयव्याप्त्युपस्थितौ विनिगमनाभावेन उभयोरपि प्रयोजकत्वे व्यतिरेकोपासना । व्यतिरेकश्च विपक्षवृत्तित्वशङ्कानिवृत्तिद्वारा व्यतिरेकव्याप्तावुपयुज्यते। अत्र तु
विपक्षाभावेन शङ्कैव नोदेति ।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे केवलान्वयिप्रकरणम् ।

69

अथ केवलव्यतिरेकिप्रकरणम्  ।
केवलव्यतिरेकी त्वसत्सपक्षः । यत्र व्यतिरेकसहचारेण व्याप्तिग्रहः । ननु व्यतिरेकि नानुमानम् , व्याप्तिपक्षधर्मताज्ञानस्य तद्धेतुत्वात् । अत्र च व्यतिरेकसहचारात्तत्र
व्याप्तिरन्वयस्य न पक्षधर्मता । न च व्याप्तपक्षधर्मत्वं साध्याभावव्यापकाभावप्रतियोगित्वं द्वयमनुमितिप्रयोजकमिति वाच्यम्। अननुगमात्। न चान्यतरत्वं तथा,
एकप्रमाणपरिशेषापत्तेः । न च तृणारणिमणिन्यायेनानुमितिविशेषे तत्कारणत्वमिति वाच्यम्। व्यतिरेकिसाध्येऽनुमितित्वासिद्धेः, उभयसिद्धक्लृप्ततत्कारणस्याभावात् । न
च साध्याभावव्यापकाभावप्रतियोगित्वमेवानुमितिप्रयोजकमिति वाच्यम् । गौरवात् । केवलान्वयिन्यभावाच्च ।

अथ साध्याभावव्यापकभावप्रतियोगित्वेन साध्यव्याप्यत्वमेवानुमीयते । एवं व्यतिरेकव्याप्त्या अन्वयव्याप्तिमनुमाय यत्रानुमितिः स एव व्यतिरेकीत्युच्यते इति ।
तन्न । अन्वयव्याप्तेर्गमकत्वे व्यतिरेकव्याप्त्युपन्यासस्यार्थान्तरतापत्तेः । अन्वयव्याप्त्यनुकूलतया च तदुपन्यासेऽन्वयव्याप्तिमनुपन्यस्य तदुपन्यासस्याप्राप्तकालत्वादिति ।
उच्यते  । निरुपाधिव्यतिरेकसहचारेणान्वव्याप्तिरेव गृह्यते प्रतियोग्यनुयोगिभावस्य नियामाकत्वात् अन्वयव्यतिरेकिवत् । न चैवं व्याप्तिग्रह एव पृथिवीतरभिन्नेति
भासितम्, नियतसामानाधिकरण्यरूपत्वात् व्याप्तेरिति चेत् , सत्यम्। गन्धवत्त्वावच्छेदेनेतरभेदस्य साध्यत्वात् । अत एवाचार्यः पक्षतावच्छेदके न हेतुत्वमनुमेने ।
पृथिवीत्वमितरभेदव्याप्यमिति प्रतीतावपि सर्वा पृथिवी इतरभिन्नेति पृथिवीविशेष्यकबुद्धेर्व्यतिरेकिसाध्यत्वाच्च।

यद्वा व्यतिरेकव्याप्तेरेवान्वयेन गम्यगमकभावः। साध्याभावव्यापकसाधनाभावाभावेन साधनेन पक्षे साध्याभावाभावस्य साध्यस्य साधनात् । व्यापकाभावेन
व्याप्याभावावश्यम्भावात्।

अथैवं न साऽनुमितिः क्लृप्ततद्धेतुलिङ्गपरामर्शाभावात् , अन्यथाऽननुगम इति चेन्न । अनुमितिमात्रे व्याप्तिज्ञानस्य प्रयोजकत्वात्। न चैवमतिप्रसङ्गः,
अनुमितिसामान्यसामग्र्यां सत्यामप्यनुमितिविरहादनुमित्यनुत्पत्तेः , विशेषसामग्रीसापेक्षाया एव सामान्यसामग्र्या जनकत्वात्। अन्वयिव्यतिरेकिविशेषद्वयसामग्री च नास्त्येव।
ननु पृथिवी इतरेभ्यो भिद्यते पृथिवीत्वादिति व्यतिरेकिणि साध्यमसिद्धं, तथा च न व्यतिरेकिनिरूपणं न वा पक्षत्वं न वा लिङ्गजन्यसाध्यविशिष्टतज्ज्ञानं, तेषां
साध्यज्ञानजन्यत्वात् । अथ साध्यं प्रसिद्धं तदा यत्र प्रसिद्धं तत्र हेतोरवगमेऽन्वयित्वं अनवगमे असाधारण्यम् । किञ्च इतरभेदो न स्वरूपं अधिकरणप्रतियोगिनोः
पृथिवीजलाद्योरनुमानात् प्रागेव सिद्धेः नापि वैधर्म्यं जलादिनिष्ठात्यन्ताभावप्रतियोगिमत्वम् , तद्धि पृथिवीत्वादिकं तच्च सिद्धमेव। न च जलादिनिष्ठात्यन्ताभावप्रतियेगित्वेन
पृथिवीत्वं न सिद्धमिति वाच्यम् । जलादौ पृथिवीत्वात्यन्ताभावग्रहदशायां पृथिवीत्वेऽपि तत्प्रतियोगित्वग्रहात् । अन्योन्याभावस्तु भेदो यद्यपि साध्यं सम्भवति
वैधर्म्यज्ञानसाध्यत्वादन्योन्याभावग्रहस्य, तथापि जलादिप्रतियोगिकान्योन्याभावस्य अप्रसिद्धिः। न च जलादिप्रत्येकान्योन्याभावः साध्यः, असाधारण्यप्रसङ्गात्।
अथ पृथिवी तेजोभिन्ना न वेति संशयेन तेजोभिन्नत्वेऽवगते पृथिवी तेजोभिन्ना सती जलादिद्वादशभिन्ना न वेति संशये तेजोभिन्नत्वे सति जलादिद्वादशभिन्नत्वं प्रसिद्धं
तदेव साध्यम्, एकविशेषणविशिष्टे विशेषणान्तरबुद्धेरेव विशिष्टवैशिष्ट्यज्ञानत्वात्, एवञ्च संशयप्रसिद्धं साध्यमादाय व्यतिरेकादिनिरूपणम् । यद्वा पृथिवी जलादिभिन्ना न
वेति प्रत्येकं त्रयोदशसंशयविषयाणां त्रयोदशान्योन्याभावानां समुदायः पृथिव्यामवगतो व्यतिरेकादिनिरुपकः। न चैवं पृथिव्यामेव साध्यप्रस्द्धिेर्व्यतिरेकिवैयर्थ्यम्, साध्यनिश्चयार्थ
व्यतिरेकिप्रवृत्तेः। न चासाधारण्यम् , समुदितान्योन्याभावानां साध्यत्वे सपक्षाभावादिति चेन्न। साध्यनिश्चये हि साध्यव्यतिरेकनिश्चयो भवत्येव साध्यसन्देहे तव्द्यतिरेकसंशयस्य
वज्रलेपत्वात्, तथा च संशयरूपा साध्यसिद्धिरिति शिष्यबन्धनम् , एतेन पृथिवी जलादिभ्यो भिन्नेति विप्रतिपत्तिरूपवादिवाक्यादाकाङ्क्षादिमतोऽपूर्वार्थप्रतिपादकात्
साध्यप्रसिद्धिरिति परास्तम्। वाक्यादेव पृथिव्यां साध्यसिद्धेर्व्यतिरेकिवैयर्थ्यात् ।

न च तद्बुद्धौ वादिवाक्यजन्यत्वेनाप्रमाण्यसंशयात् निश्चयेऽपि संशय इति तन्निश्चयार्र्थं व्यतिरेकीति वाच्यम् । तर्हि संशयप्रसिद्धं साध्यम् , तस्य च न
व्यतिरेकनिश्चयाकत्वमित्युक्तत्वात् , स्वार्थानुमाने तदभावाच्च ।

केवलव्यतिरेकिसिद्धान्तः
उच्यते। घटादावेवेतरसकलभेदस्य प्रत्यक्षतः प्रसिद्धिः घटो न जलादिरिति प्रतीतेः। नन्वयमन्योन्याभावो न प्रत्यक्षः अतीन्द्रियप्रतियोगिकाभावत्वात् परमाणुसंसर्गाभाववत्।
योग्यानुपलब्धेरभावग्राहकत्वात् नयनोन्मीलनानन्तरं स्तम्भः पिशाचो न भवतीति प्रतितेर्बाधकबलेन वायुर्वातीतिवल्लिङ्गग्रहोपक्षीणत्वादिति चेत् , न । यो ह्यानुपलम्भोऽधिकरणे
प्रतियोगिमत्त्वविरोधी सोऽभावं ग्राहयति न तु योग्यानुपलब्धिमात्रम्, अन्यथा वायौ रूपाभावप्रतीतिवत् जलपरमाणौ पृथिवीत्वाभावग्रहप्रसङ्गात् । अधिकरणे
प्रतियोगिसत्वञ्च तर्कितं-यदि हि स्तम्भः पिशाचः स्यात् स्तम्भवदुपलभ्येत न पिशाचानुपलम्भः स्यात् । न च पृथिवी जलाद्भिद्यते जलावृत्तिधर्मवत्त्वात् तेजोवत् ,
एवमन्येभ्योऽपि भेदसिद्धौ द्वादशभिन्नेति विशेषणं दत्त्वा समवायभेदसाधनादन्वयिन एव पृथिव्यां त्रयादशभेदसिद्धिरिति किं व्यतिरेकिणेति वाच्यम् । जलादिभिन्ना सती
समवायिभिन्नेति बुद्धावपि त्रयोदशभिन्नेति बुद्धेः व्यतिरेकिसाध्यत्वात् । न च घटस्यापि पक्षत्वादंशतः सिद्धसाधनम्, सर्वा पृथिवीतरभिन्नेत्युद्देश्यप्रतीतेरभावात् ।  पक्षतावच्छेदकनानात्वे
हि तत् , अत एवानित्ये वाङ्मनसे इत्यत्रानित्या वागिति बुुद्धेः उद्देश्यायाः सिद्धत्वादंशतः सिद्धसाधनम्, अन्यथानुमानमात्रोच्छेदात् पक्षस्य सिद्धस्यैव साध्यत्वात् । न च
घटः कथं पक्षः साध्यनिश्चयेन संशयसिषाधयिषयोः अभावादिति वाच्यम् । सर्वा पृथिवी इतरभिन्ना न वेति संशयस्य तत्प्रकारकसिषाधयिषायाश्च सामान्यतो
घटविषयत्वात् घटत्वेन विशेषदर्शनं सिद्धिर्वा, अतस्तेन रुपेण संशयसिषाधयिषे न स्तः, पृथिवत्वेन तु भवत एव धूमवान् वह्निमानिति धूमवत्वेन वह्निनिश्चयेपि पर्वते
वह्निसंशयवत् ।

70

यद्वा सर्वत्वेन रूपेण न पक्षता सर्वत्राविप्रतिपत्तेः। घटाद्येकदेशे इतरभेदस्य प्रत्यक्षसिद्धत्वात्। तथाचैकदेशे विप्रतिपत्तौ सामान्ये इतरभेदसाधने अर्थान्तरम,् किन्तु
सामान्येन पृथिवीत्वेन यावदेव विप्रतिपत्तिविषयस्तावतामेव पक्षता विशेष्याननुगमात् । तर्हि पृथिवी इतरभिन्ना पृथिवीत्वात् घटवदित्यन्वयिनैवेतरभेदस्य सिद्धत्वात् किं
व्यतिरेकिणा , घटसाधारणपक्षत्वेऽप्यभेदानुमानवत् पक्षस्यापि दृष्टान्तत्वाविरोधात् पक्षान्यत्वं हि तत्रातन्त्रम्। किन्तु साध्यवत्तया निश्चितत्वं प्रयोजकम्। न च
पृथिवीत्वाग्रहे पूर्वं गृहीतं यत्र साध्यं पश्चात् स्मर्यते तत्र हेतुसाध्यसामानाधिकरण्याग्रहाद्व्यतिरेक्यवतार इति वाच्यम्। हेतोरेव पक्षातावच्छेदकत्वेन घटे पृथिवीत्वग्रहदशायां
इतरभेदसामानाधिकरण्यग्रहावश्यंभावादिति चेत् , सत्यम् ।

अन्वयितुल्यतया व्यतिरेकिणोऽपि सामर्थ्यात्। अन्वयाप्रतिसन्धानदशायां व्यतिरेक्युपन्यासस्यापर्यनुयोज्यत्वात्। तदुक्तम् ""आस्तां तावदयं सुहृदुपदेशः, केवलव्यतिरेकिलक्षणं
तावन्निर्व्यूढम्" "।

अथवा जलादीनां त्रयोदशान्योन्याभावाः त्रयोदशसु प्रसिद्धाः पृथिव्यां साध्यन्ते । अत एवाकाशे व्यतिरेकिणा जलादिमिलितप्रतियोगिकान्योन्याभावाप्रतीतावपि
त्रयोदशान्योन्याभावाः साध्या इति नान्वयित्वासाधारण्ये।

यद्वा जलं तेजःप्रभृतिद्वादशभिन्नप्रतियोगिकान्योन्याभाववत् द्रव्यत्वात् तेजोवत् इत्यनुमानात् त्रयोदशभिन्नस्य सामान्यतः सिद्धौ पृथिव्यां त्रयोदशभिन्नत्वं साध्यम् ।न
चान्वयित्वमसाधारण्यं वा, पक्षादन्यत्र साध्याप्रसिद्धेः। वस्तुगत्या पृथिव्यामेव साध्यसिद्धेः किं व्यतिरेकिणेति चेत्, न। पृथिवी त्रयोदशभिन्नेति व्यतिरेकिणं विना अप्रतीतेः।
नन्वेवं पृथिवी जलादित्रयोदशभिन्नप्रतियोगिकान्योन्याभाववती द्रव्यत्वादिति पृथिवीभिन्नतद्भिन्नादिसिद्धिः स्यादिति चेत् , न । अप्रयोजकत्वात्। प्रकृते चानुभूयमानजलादिवैधर्म्यस्य
पृथिवीत्वशब्दाश्रयत्वादेरतिरिक्तं विनानुपपत्तेः ।

नन्वितरभेदो यद्यन्योन्याभावस्तदा भावाद्भेेदो न सिद्ध्येत् । अभावस्याभावान्तराभावात् । यदि च तेन समं स्वरूपभेद एव साध्यः, तदाननुगमादनुमानाप्रवृत्तिः।
भावोऽभावो वा न भवतीत्यबाधितप्रतीतिबलादभावस्यापि अन्योन्याभावोऽस्तीति केचित् । तन्न । अपसिद्धान्तात् । अनतिप्रसक्ताधिकरणस्वरूपमात्रेणैवाभावप्रतीत्युपपत्तौ
चाधिकाभावे मानाभावाच्चेति चेत् , न । इतराभावान्योन्याभावस्य साध्यत्वात् । न चैवमभावादविवेकतादवस्थ्यम् । तेन समं स्वरूपभेदस्यान्वयिना व्यतिरेकिणा वा
साध्यत्वात् ।

अन्ये तु पृथिवीत्वभिन्नधर्मात्यन्ताभाव एव साध्यः जलत्वादिप्रतियोगिकास्तावन्तोऽत्यन्ताभावा वा तत्तदसाधारणतत्तद्धर्मात्यन्ताभावयोगो वा । एते चाभावा
जलत्वं न घटादौ घटादि जलात्यन्ताभाववदिति प्रत्यक्षादेः क्वचित्तत्तद्वैधर्म्यादेव प्रसिद्धा इति नाप्रसिद्धिः । तावतमभावानां वैशिष्ट्यं न प्रसिद्धमिति चेत्, किमेतावता ।न
हि तावद्वैशिष्ट्यमत्र साध्यते । किं तु जलत्वादीनां यावन्तोऽभावा इह साध्यास्ते च तत्र तत्र प्रसिद्धा एव । तावद्वैशिष्ट्यधीस्तु फलम् । अन्यथा सिद्धसाधनात् ।
मिलितानामपि साध्यत्वे नाप्रसिद्धिः। किञ्चिदेकधर्मावच्छेदो हि बलादिवन्मेलकार्थः, स न नासिद्धः । न च हेतोरसाधारण्यम् । तावदभावयोगीह्यत्र सपक्षो भवति, न तु
तदेकदेशकतिपयाभाववान् । साध्यतायास्तावत्यपर्याप्तेः । यद्वा जलत्वात्यन्ताभावस्तेजस्त्वात्याभावाधिकरणृत्तिः अत्यन्ताभावत्वात् घटत्वात्यन्ताभाववत् ।
एवमत्यन्ताभावान्तरसामानाधिकरण्यमपि तत्र साध्यमिति क्वाप्रसिद्धिः ।

किं चेतरे तावत् प्रसिद्धा एव । ते च भेदप्रतियोगिनो मेयत्वात् इतीतरभेदोऽपि सुग्रह एव ।
ननु पृथिवी नेतरभेदवती गुरुत्वादिभ्यो जलवदिति प्रतिरोध इति चेत् न । इतरभेदनिषेधो हीतराभेदः न तु तेजः प्रभृत्यभेदो जल इति दृष्टान्तस्य साध्यवैकल्यात्।
चतुर्दशाभेदानां चैकत्र विरोधेनासम्भवात् । चतुर्दशभेदानां चैकत्र वृत्तौ न विरोधः ।

यत्तु साध्यप्रसिद्धौ पृथिवीतरभिन्ना तत्साध्याधिकरणपृथिव्यन्यतरत्वात् तदधिकरणवत् पृथिव्यां तत्साध्यमन्वयिन एव सेत्स्यतीति । तन्न ।
अन्यतरत्वस्यालिङ्गत्वादित्युक्तत्वात्। लिङ्गत्वे वा जलादावपि तत्सिद्धिप्रसङ्गात्। एवं तर्हि पृथिवी जलं पृथिवीत्वात् यन्न जलं तन्न पृथिवी यथा तेज इति
सत्प्रतिपक्षोऽस्त्विति चेत् न । अजलस्य घटादेः प्रत्यक्षत एव पृथिवीत्वनिश्चये व्यतिरेकव्यभिचारादस्य न्यूनत्वात् । तदनवधारणे तु सत्प्रतिपक्षत्वमिष्टमेव।
ननु जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् इच्छादिकार्यवत्त्वाद्वेति व्यतिरेकिणि साध्याप्रसिद्धौ कथं व्यतिरेकादिनिरूपणम् नेराम्यं च न घटस्य प्रत्यक्षवेद्यं, तस्य
तत्रासामर्थ्यात्। नानुमानगम्यं। । नैरात्म्याप्रतीतावन्वयिनोऽभावात् । सात्मकत्वप्रतीतिं विना व्यतिरेकिणोऽनुपपत्तेः । अथेच्छा समवायिकारणजन्या कार्यत्वात्। तच्च
समवायिकारणं पृथिव्याद्यष्टद्रव्यभिन्नं पृथिव्यादित्वे बाधकसत्त्वादिति पृथिव्यादिभिन्नात्मसिद्धौ तद्वत्वं जीवच्छरीरे साध्यत इति चेत् यदि सात्मकत्वमात्मसंयोगवत्त्वम् तदा
घटादौ तदस्तीति ततो हेतुव्यावृत्तावसाधारण्यम् । ज्ञानसमानाधिकरणज्ञानकारणीभूतसंयोगाश्रयकार्यत्वं, सात्मकत्वं, शरीरात्मसंयोगस्य ज्ञानकारणत्वात्,
आत्ममनसोस्तथात्वेऽप्यकार्यत्वादिति चेत् न । शरीरादन्यत्रासिद्धेः । तत्र प्रसिद्धौ सिद्धसाधनात् । इच्छाया असमवायिकारणसंयोगावच्छेदकत्वस्याभावो घटादौ दृष्टः
तव्द्यतिरेकः शरीरे साध्यत इति चेत् , न । इच्छाया असमवायिकारणसंयोगवच्छेदकत्वस्य शरीर एव प्रसिद्धेः सिद्धसाधनात् । अन्यथा असिद्धिव्यतिरेकाद्यनिरूपणात् ।
अप्रसिद्धसाध्यसंसर्गमिव साध्यमप्रसिद्धंं साधयति व्यतिरेकीति चेत् , न । व्यतिरेकाद्यनिरूपणादसाधारणधर्मेणाप्रतीतपदार्थानुमाने घटत्वादिनापि स्वेच्छाकल्पितडित्थाद्यनुमानप्रसङ्ग
इति ।

उच्यते । इच्छासमवायिकरणसिद्धाविच्छात्वं संयोगसमवायिकारणकवृत्ति , नित्येन्द्रियग्राह्यविशेषगुणवृत्तिगुणत्वसाक्षाद्व्याप्यजातित्वात् शब्दत्ववत्। स चासमवायिकारणं
संयोगः किञ्चिदवच्छिन्नः संयोगत्वात् आत्मसंयोगमात्रस्येच्छाजनकत्वे सात्मकत्वं शरीरे साध्यते ।

71

यद्वा आत्मनीच्छाधारता महत्संयोगावच्छेद्या जन्यविभुविशेषगुणाधारतात्वात् वाय्वादिसंयोगावच्छेद्यशब्दाधारत्ववदिति सामान्यतः

सिद्धमिच्छाधारताघटकेच्छासमवायिकारणद्रव्यसंयोगवत्वं सात्मकत्वम् । अत एव ज्ञानसमानाधिकरणज्ञानकारणीभूतसंयोगाश्रयकार्यत्वं वा सात्मकत्वम् । स्वशरीरे
प्राणादिमत्त्वस्य इच्छादिमत्त्वस्य च चेष्टावयवोपचयादिव्याप्यत्वग्रहात् । घटादौ चेष्टादिविरहेण प्राणादिमत्त्वेच्छादिमत्त्वविरहानुमानम् , इच्छादिविरहात्
इच्छादिप्रयोजकेच्छाद्याघारताघटकेच्छाद्यसमवायिकारणसंयागविरहानुमानं कार्याभाववति कारणाभावनियमात् ।

न च सात्मकत्वं शरीरवृत्ति शरीरे बाधकाभावात् शरीरत्ववदिति अन्वयिनैव साध्यसिद्धेः किं व्यतिरेकिणेति वाच्यम् । शरीरं सात्मकमिति शरीरविशेष्यकबुद्धेर्व्यतिरेकिणं
विनानुपपत्तेः । उपायान्तरस्योपायान्तरादूषकत्वाच्च।

यद्वा चेष्टा संयोगासमवायिकारणिका संस्कारजन्यक्रियात्वदिति चेष्टाया असमवायिकारणसंयोगसिद्धौ प्रयत्नवदात्मसंयोग एवं (च) पर्यवस्यति
प्रयत्नान्वयव्यतिरेकानुविधायित्वात् । एवं चेष्टायाः असमवायिकारणसंयोगाश्रयत्वे सति शरीरत्वं सात्मकत्वं जीवच्छरीरे साध्यम् , चेष्टावत्त्वादिति हेतुः । चेष्टाविरहश्च
घटादौ प्रत्यक्षसिद्धः । चेष्टाविरहात्तदसमवायिकारणसंयोगविरहोऽपि सुग्रहः।

यद्वा जीवच्छरीरं तदवयवो वा आत्मभिन्नत्वे सति आत्मविशेषगुणकारणभोगानाधिकरणावृत्तिसंयोगवत् प्राणान्यत्वे सति ज्ञानकारणीभूतप्राणसंयोगवत्त्वात् यन्नैवं
तन्नैवं यथा घटः।

आत्मप्राणसंयोगः प्राणमनस्संयोगो वा शरीरप्राणसंयोगेनैवान्यथासिद्धोे न कारणम् । भोगाधारत्वं भोगसमवायिकारणातिरिक्तवृत्ति सकलभोगाधिकरणवृत्तित्वात्
प्रमेयत्वादिवदिति तार्किकी रीतिः ।

किं च संशयोपस्थितसाध्यस्य व्यतिरेकनिरूपणं न योग्यानुपलम्भात्, साध्यनिश्चयं विना योग्यानुपलम्भाभावात् । नापि व्यापकाभावात् साध्यनिश्चयं विना
तद्व्यापकत्वनिश्चयाभावात् । न च यदीच्छा अष्टद्रव्यातिरिक्तद्रव्याश्रिता न स्यात् अष्टानाश्रिता सती द्रव्याश्रिता न स्यात् रूपवदिति साध्यविपर्ययकोटौ प्रतिकूलतर्कसहकृतः
साध्यसंशय एव निश्चयकार्यं करोति । अत एवैतादृशसंशयोपस्थितकल्पितङित्थादिसाधनमप्यपास्तम् । तद्विपर्यये प्रतिकूलतर्काभावादिति वाच्यम् । साध्यनिश्चयं विना
साध्यव्यतिरेकनिश्रयतन्मूलतर्कानवतारात् । अन्यथा अष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वनिरूपणे तर्कोदयस्तर्कोदये च तत्सहकृतसाध्यसंशयस्य साध्यव्यतिरेकनिश्चायकत्वमिति।
उच्यते। इच्छाश्रयद्रव्यसिद्धौ पृथिव्यादाविच्छाधारताभावे तद्द्रयं पृथिव्याद्यष्टद्रव्यभिन्नम् अष्टद्रव्यावृत्तिधर्मवत्त्वात् पृथिव्यादित्वे बाधकसत्त्वाद्वा इत्यष्टद्रव्यातिरिक्तद्रव्यसिद्धौ
इच्छायामष्टद्रव्यातिरिक्तद्रव्यवत्त्वम् अष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वं वा साध्यते । साध्यप्रसिद्धिद्रव्यत्वे इच्छाविशेष्यकाष्टद्रव्यातिरिक्तद्रव्यावृत्तित्वप्रतीतेर्व्यतिरेकिसाध्यत्वात्  ।
तथापीच्छा अष्टद्रव्यातिरिक्तद्रव्याश्रिता अष्टद्रव्यामाश्रितत्वे सति द्रव्याश्रितत्वात् अष्टद्रव्यातिरिक्तद्रव्यत्ववदिति साध्यप्रसिद्ध्यैव दृष्टान्तप्रसिद्धेरन्वयी हेतुः स्यादिति
चेत् न । अन्वयव्याप्त्यप्रतिसन्धाने व्यतिरेकव्याप्तिप्रतिसन्धानदशायां व्यतिरेकिसम्भवात् । न च द्रव्यत्वादेः सपक्षात् व्यावृत्तावसाधारण्यम् । तद्धि साध्यतदभावोभयसाधकत्वेन
सत्प्रतिपक्षोत्थापकतया दोषावहम् । प्रकृते च न हेतोः साध्याभावसाधकत्वम् विपक्षे बाधकाभावात् साध्यसाधकत्वे तत्सत्त्वाच्च । अत एव यावदेकत्रानुकूलतर्को
नावतरति तावदेव दशाविशेषेऽसाधारण्यं दोष इत्युक्तम् । सुवर्णतैजसत्वसाधकव्यतिरेकिणि शब्दोऽनित्यः शब्दत्वात् इत्यादावपि तथा । अथाष्टद्रव्याधारत्वबाधानन्तरमिच्छादौ
गुणत्वादेवाष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वं सिध्यति पक्षधर्मताबलात् । प्रसिद्धविशेषबाधे सामान्यज्ञानस्य तदितरविशेषविषयत्वनियमात्। अत एवासर्वविषयानित्यज्ञानबाधानन्तरं
क्षित्यादौ कार्यत्वेन ज्ञानजन्यत्वं सिध्यत् नित्यसर्वविषयत्वं ज्ञानस्यादायैव सिध्यतीति चेत् , न । बाधानन्तरमष्टद्रव्यातिरिक्तद्रव्यविषयाप्यनुमितिर्द्रव्याश्रितत्वप्रकारिका
स्यात् । अनुमितेर्व्यापकतावच्छेदकमात्रप्रकारकत्वनियमात् । न त्वष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वप्रकारिका, तस्य पूर्वमप्रतीतत्वेन प्रकारत्वासम्भवादिति तत्प्रकारिकानुमितिर्व्यतिरेकिणैव।
अनाद्यनन्तव्द्व्यणुकादियावत्पक्षीकरणेऽनाद्यनतन्तावदुपादनगोचरापरोक्षज्ञानत्वमेव नित्यसर्वविषयकत्वम् , एतदन्यनित्यसर्वविषयत्वं व्यतिरेकिण एव सिध्यति। पक्षधर्मताबलेनापि
व्यापकतावच्छेदकप्रकारेण साध्यसिद्धिर्भवति न तु साध्यगतविशेषप्रकारिका, अतिप्रसङ्गात् ।

नन्वष्टद्रव्यानाश्रितेच्छा द्रव्याश्रितेति यदि साध्यते तदा अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वमन्तरेण प्रतिज्ञार्थ एव नोपपद्यते ।
सत्यम् । एवमप्यष्टद्रव्यानाश्रितेच्छायां द्रव्याश्रितत्वं सिध्यतु, तस्याष्टद्रव्यातिरेक्यं कुतः सिध्येत् ।

अथ सामान्याव्यभिचारमादाय मानान्तरोपनीतं तत्तदन्यत्वमुपजीव्याष्टद्रव्यान्यद्रव्यवृत्तितैवेच्छादेः परिच्छिद्यते । ज्ञानान्तरोपस्थापितविशेषणविशिष्टज्ञानस्य सुरभि
चन्दनमित्यादौ दर्शनादिति चेत् न । मानान्तरान्नियमेनानुपस्थितेः । ये चेच्छाश्रये पृथिव्यादिभिन्नत्वं न जानन्ति इच्छायाश्च पृथिव्याद्यनाश्रितत्वं न जानन्ति तेषामप्यनुमानादित्यप्याहुः।
अथ व्यतिरेकी नानुमानं, सर्वत्र प्रमेयत्वादिना सत्प्रतिपक्षग्रस्तत्वादिति चेत् न । विपक्षबाधकेन व्यतिरेकिणो बलवत्त्वात् । अन्ये तु व्यतिरेकिण्यभाव एव
साध्यः, स चाप्रसिद्ध एव सिध्यति । यस्याभावस्य व्यापको हेत्वभावो गृहीतः तस्याभावः पक्षे व्यापकभावरूपेण हेतुना सिध्यति। व्यापकाभाववत्तया ज्ञाते
व्याप्याभावज्ञानावश्यम्भावात् । तथा हि पृथिवी इतरेभ्यो भिद्यते पृथिवीत्वादित्यत्र इतरस्य जलादेर्व्यापकः पृथिवीत्वाभावो गृहीत इति पृथिवीत्वाभावाभावरूपेण
पृथिवीत्वेन पृथिव्यामितरान्योन्याभावोऽप्रसिद्ध एव सिध्यति, प्रतियेगिज्ञानस्य वृत्तत्वात् , प्रत्यक्षेण भूतले घटाभाववत् ।

एवमन्यत्राप्यव्याप्यवृत्तीच्छायाः स्वाश्रयत्वे सिद्धे स्वाश्रये योऽत्यन्ताभावस्तदवच्छेदकं घटादि सर्वं तदवच्छेदेनेच्छानुपल्भात् । तथा चेच्छात्यन्ताभावाश्रयतावच्छेदकत्वरूपस्य
नेरात्म्यस्य घटादौ प्राणादिमत्त्वाभावो व्यापको गृहीत इति जीवच्छरीरे प्राणादिमत्त्वेन इच्छात्यन्ताभावाश्रयत्वावच्छेदकत्वस्याभावः सात्मकत्वं साध्यते ।

72

एवं प्रामाण्यसाध्यकव्यतिरेकिण्यपि व्यधिकरप्रकारावच्छिन्नत्वस्य व्यापकः समर्थप्रवृत्तिजनकत्वाभावोऽप्रमायां गृहीतः । अतो विवादाध्यासितानुभवे समर्थप्रवृत्तिजकत्वेन
व्यधिकरणप्रकारवच्छिन्नत्वस्याभावः सिध्यति । व्यधिकरणप्रकारावच्छिन्नत्वमेव प्रमात्वम्।

ननु साध्याप्रसिद्धौ कथं साध्यविशिष्टज्ञनम्, विशेषणज्ञानजन्यत्वा द्विशिष्टज्ञानस्येति चेत् , न । पक्षे साध्यानुमितिसामग्रीसत्त्वात् पक्षविशेषणकः साध्यविशेष्यक
एव प्रत्ययो जायते भूतले घटो नास्तीत्यभावविशेष्यकप्रत्ययवत् ।

तथापि साध्याभावव्यापकाभावाभावरूपहेतुमत्तया पक्षज्ञानं व्यतिरेकिणि गमकतौपयिकम् । न च साध्यप्रसिदिं्ध विना एतादृशप्रतिसन्धानं सम्भवति। न च
वस्तुगत्या यः साध्याभावः तद्व्यापकाभावप्रतियोगिमत्तया ज्ञानं मृग्यत इति वाच्यम् । व्यतिरेक्यभासानुपपत्तेरिति चेत् , न ।

योऽभावो यस्य भावस्य व्यापकत्वेन गृहीतः तदभावाभावेन तस्य व्याप्यस्याभावः पक्षे साध्यत इत्यनुगतानतिप्रसक्तस्य गमकतौपयिकत्वात् । अयं च
व्यतिरेकिप्रकारः स्वार्थ एव।

परं प्रति साध्याप्रसिद्ध्या प्रतिज्ञाद्यसम्भवादिति सर्वं समञ्जसम् ।
इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे केवलव्यतिरेकिप्रकरणम् ।

अथ अर्थापत्तिप्रकरणम्
व्यतिरेक्यनुमानसिद्धावर्थापत्तिर्न मानान्तरम् । तेनैव तदर्थसिद्धेः । स्यादेतत् ज्योतिश्शास्त्रात् तत्कथितलिङ्गाद्वा देवदत्तस्य शतवर्षजीवित्वमवगतम् , चरमं
शतवर्षजीवी गृह एवेति नियमे प्रत्यक्षेणावगते पश्चात् योग्यानुपलब्धा निश्चितो गृहाभावो जीवननियमग्राहकप्रमाणयोर्बलाबलानिरूपणात् बहिस्सत्त्वकल्पनं विना
नियमद्वयविषयकं संशयं जनयित्वा जीवति न वेति संशयमापाद्य जीवनसंशयापनुत्तये जीवनोपपादकं बहिः सत्त्वं कल्पयतीति, यथोक्तसामग्र्यनन्तरं बहिरस्तीति प्रतीतेः ।
तत्रान्वयव्यतिरेकाभ्यां संशयद्वारा गृहाभावः तदुत्पादितनियमद्वयविषयकसंशयो वा कारणम्, जीवनसंशय एव वा । करणे सव्यापारकत्वानियमात्। प्रमाण्योर्विरोधज्ञानं
तदाहितसंशयद्वारा करणमिति कश्चित् । तदा जीवित्वस्य लिङ्गविशेषणस्य सन्दिग्धत्वेनानुमानासम्भवादर्थापत्तिर्मानान्तरम् ।

ननु संशयस्य कल्पकत्वे स्थाणुपुरुषसंशयादपि तदेककोटिनिर्वाहकल्पनापत्तिः। न च प्रमितसंशयः कल्पनाङ्गम् । जीवनस्य तदानीं प्रमितत्वे संशयाभावप्रसङ्गात्
जीवित्वनिश्चयेऽनुमानदेव बहिस्सत्त्वनिश्चयाच्च। कदाचित् प्रमितत्वे च प्राक्प्रमितपुरुषत्वस्यान्तरा तत्संशये कल्पना स्यात् । किं च जीवनसंशयस्य मृतेऽपि दृष्टत्वान्न
व्यभिचारेण बहिः सत्त्वगमकत्वमिति चेत् ,

न । यथोक्तसामग्रीप्रभवसंशयस्य कल्पनाङ्गत्वात् । अत एव मृतजनिष्यमाणयोर्गृहाभावनिश्चयो न यथोक्तसंशयमापादयतीति न बहिस्सत्त्वकल्पकः ।
गृहाभावश्च योग्यानुपलब्धिनिश्चितो न संशय इति । अथ जीवनमियमग्राहकप्रमाणयोर्यदि च तुल्यबलत्वमवगतम्, क्व तर्हि बहिस्सत्त्वकल्पना? विशेषदर्शनविरहात्।
कल्पने वा प्रमितजीवननिर्वाहकबहिस्सत्त्ववत् गृहनियमनिर्वाहकमरणस्याप्युचितत्वेन तत्कल्पनापि स्यात्, जीवनमरणयोः संशयाविशेषात् । अथ तयोरेकं बलीयोऽपरमबलम्,
तदैकेनापरस्य बाध एवेति न संशयः ।

तस्माद्यत्र शतवर्षजीवित्वमवधारितम् गृहाभावश्च निश्चितः तत्र बहिस्सत्त्वकल्पनं न तु जीवनसंशये । एवं च देवदत्तो बहिः सन् जीवित्वे सति
गृहनिष्ठात्यन्ताभावप्रतियोगित्वादिति व्यतिरेकिणा बहि-सत्त्वज्ञानेनार्थापत्त्या लिङ्गविशेषणजीवित्वसंशये बहिस्सत्त्वकल्पना च नास्त्येव । किं च गृहाभावनिश्चयः
प्रामाणद्वयविषयसंशयं जनयित्वा जीवनसंशयमापाद्य बहिस्सत्त्वं कल्पयतीति न युक्तम्। न हि यत एव यत्संशयः स एव तन्निश्चयाय प्रभवति अतिप्रसङ्गात्। मैवम् ।
यथोक्तसामग्रीजनितसंशयवानेवं तर्कयति , योग्यानुपलब्धिगृहीतो गृहाभाव इति तन्निश्चयः सुदृढः इति जीवननियमग्राहकयोरेकं बाध्यं विरुद्धयोरप्रमाणत्वात्।
तदिह मरणं कल्पयित्वा जीवनग्राहकं बाध्यतां, नो वा बहिस्सत्वं कल्पयित्वा गृहनियमग्राहकम् । तत्र बहिस्सत्त्वकल्पने गृहनियमग्राहकमात्रबाधा। मरणकल्पने तु
शतवर्षजीवी देवदत्तः शतवर्षजीवो गृह एवेति नियमद्वयस्यापि बाधा स्यात् । तदाह जीवनबाधे तन्नियमबाधस्यावश्यकत्वादिति ।

किं च अद्य जीवति श्वो जीविष्यतीत्यादिबहुतरक्षणलवमुहूर्तादि समयोणाधिनियतं जीवनमुपलब्धमिति तद्बाधे बहुतरव्याप्तिबाधः देवदत्ततदवयवगहसत्त्व्याप्तिश्चाल्पा।
तथाभावस्वरूपमरणापेक्षया बहिस्सत्त्वस्य भावस्य लघुुत्वात्। यदि च गृहान्योन्याभावाश्रयबहिः पदार्थवृत्तिसंयोगाश्रयत्वं बहिरसत्त्वमिति तदपेक्षया मरणमेव लघु, तथापि
मरणापेक्षया जीवनमात्रं लघ्विति तदेव कल्पयितुमर्हम्। ततोऽर्थापत्तिकल्पितं जीवित्वमुपजीव्यानुमानादपि बहिस्सत्त्वज्ञानं भविष्यतीत्येतावत्तर्कसहकृतो यथोक्तप्तासामग्रीप्रभवः
संशयो बहिस्सत्त्वं कल्पयति ।

न च वाच्यं तर्काणां विपर्ययापर्यनसायित्वे आभासत्वम् ।

73

तत्पर्यवसाने च तदेवानुमानमेतत्तर्कसहायं बहिस्सत्त्वमनुमाययिष्यतीति । यतो लाघवगौरवतर्कणां विपर्ययापर्यवसायिनामेव प्रमाणसहकारित्वम् , अत एव
प्रत्यक्षशब्दादवपि सहकारी सः । न च तस्यां दशायामेव प्रमाणान्तरमस्ति, ततोऽर्थापत्तिसहकारित्वं तर्कस्य ।

ननु स्वकारणाधीनस्वभावविशेषात् तर्कानुगृहीतयथोक्तसंशयस्य यदि बहिस्सत्वप्रमापकत्वं तदा मृते गृहस्थिते वा तादृशसंशयाद्यत्र बहिस्सत्त्वकल्पना सापि प्रमा
स्यादिति चेत् न । यथा हि प्रमापकस्येन्द्रियस्य दोषेण प्रमाशाक्तितिरोधानादैन्द्रियभ्रमः, तथा यथोक्तसंशयस्यापि दोषेण प्रमाशक्तितिरोधानादग्रहक्वभ्रमसंभवात्। परोक्षज्ञानानां
जनकज्ञानाविभ्रामत्वे यथार्थत्वनियम इति चेत् , सत्यम्। प्रवृत्तेपि जीवनगृहाभावग्राहकप्रमाणायोरन्यतराभासत्वेनाभासत्वसंभवात्। यद्वा दोषाभावसहकृतस्य यथोक्तसंशयस्य
बहिस्सत्वप्रमापकत्वमिति।

उच्यते। अनयोरेकं बाध्यं विरुद्धार्थग्राहकत्वादिति सामान्यतो दृष्टादेव तर्कसहकृताद् गृहनियमग्राहकबाधे लिङ्गविशेषेण जीवित्वनिश्चयेऽनुमानात् बहिस्सत्त्वसिद्धिः।
तथाहि-जीवनप्रमाणबाधे गृहनियमप्रमाणोत्थापितलिङ्गेनमरणानुमानात् प्रमाणत्वाभिमतयोर्द्वयोरपि बाधा स्यात् । गृहनियमग्राहकमानबाधे च निष्परिपन्थिजीवनप्रमाणात्
लिङ्गविशेषणजीवित्वनिश्चये बाध्यमिति जायमानानुमितिः परम्परामरणज्ञापकं विषयीकरोति, न तु बहिस्सत्त्वपरम्परासाधकं जीवनप्रमाणम् । तथा च सामान्यतो
दृष्टादेव गृहनियमग्राहकबाधे जीवनप्रमाणाल्लिङ्गविशेषणजीवित्वनिश्चयेऽनुमानादेव बहिस्सत्त्वज्ञानमिति किमर्थापत्त्या?

ननु बहिस्सत्त्वज्ञानं विना जीवी गृह एवेत्यस्य ब्रह्मणापि बाधितुमशक्यत्वात् प्रथमं बहिस्सत्त्वज्ञानम्, न तु गृहनियमग्राहकबाधानन्तरं तत् , येन
निष्परिपन्थिजीवनग्राहकाज्जीवित्वनिश्चयेऽनुमानं स्यात् । न प्राथमिकबहिस्सत्त्वज्ञानमर्थापतिं्त विना । न च गृहनियमग्राहिणि तुल्यबले जागरूके कथमर्थापत्त्यापि
बहिस्सत्त्वज्ञानमिति वाच्यम् । तर्कसहकारेणार्थापत्तेर्बलवत्त्वात् बहिस्सत्त्वज्ञानमुत्पाद्य गृहनियमग्राहकमानबाधादिति चेत् ।
न । तर्कसहकारेण सामान्यतो दृष्टस्य बलवत्त्वेन गृहनियमग्राहकबाधसम्भवात् । तस्माद्यथोक्त संशयदशायां जीवनबाधे तन्नियमबाधस्यावश्यकत्वादिति
तर्कानन्तरमेव बहिस्सत्त्वज्ञानमित्यविवादम्। तत्र कल्पनीय प्रमाणबाधे यथोक्तसंशये तर्कस्य न सहकारित्वं गौरवात् । किं तु नियमग्राहकबाधद्वारा बहिस्सत्वपरम्परासाधके
सामान्यतोदृष्टे लाघवात् । न च सामान्यतोदृष्टावतार एवात्र नास्तीति वाच्यम् । अनिर्धिरितैकबाधप्राप्तौ प्रत्येकबाधानुकूलकल्पनायां विनिगमकस्तर्को भवति। न
चैकबाधप्राप्तिः सामान्यतोदृष्टं विना ।

किं च विरोधज्ञानानन्तरमेकमप्रमाणमिति यदि धीर्नास्ति तदा प्रामाण्यसंशयो न स्यात्, न स्याच्च जीवनसंशयः द्वयोरपि जीवनमरणनिश्चायकत्वात् ।
अथैकमनयोरप्रमाणमिति ज्ञानं जनयित्वा सामान्यतोदृष्टस्य मा.ापर्यवसितत्वात्तज्जनितनियमद्वयसंशयाहितजीवनसंशयानन्तरं तर्कावतारे बहिरस्तीति ज्ञानं
जायमानं संशयस्य कारणत्वं व्यवस्थापयतीति चेत्,

न । यदेव हि विरुद्धार्थग्राहकत्वं तर्कं विनाकृतमनिर्धारितेकाप्रामाण्यानुमितिमजीजनत् तदेव तर्कसहकृतं पुनरनुसन्धीयमानं गृहनियमग्राहकप्रमाणमिति अनुमितिं
बहिस्सत्त्वज्ञानानुकूलां जनयति, सहकारिवैचित्र्येणैकस्यापि विचित्रफलजनकत्वात् । न च जीवनसंशयानन्तरं तदनुसन्धानमसिद्धम् । गृहनियमग्राहकस्य
जीवनग्राहकत्वविरुद्धार्थग्राहकत्वानुसन्धानं विना बहिस्सत्त्वकल्पनेऽप्यबाधप्रसङ्गात् ।

अथ यदि पर्यवसन्नमपि प्रमाणं पुनरनुसन्धीयमानं सहकारिविशेषात् फलान्तरजनकम् , तदा इच्छा द्रव्याश्रिता कार्यत्वादिति सामान्यतोदृष्टद्रव्याश्रितत्वानुमितौ
पश्चादष्टद्रव्यवृत्तित्वबाधे व्यतिरेकिणा आत्मसिद्धिरिति विज्येते। अष्टदृव्यवृत्तित्वबाधसहकृतात् सामान्यतोदृष्टादेव पुनरनुसन्धीयमानात् तत्सिद्धेरिति चेत् ,
न । अनुमितेर्व्यापकतावच्छेदकप्रकारकत्वनियमेन तत्प्रकारकबुद्धेर्व्यतिरेकिसाध्यत्वात् । व्यतिरेकिणोऽप्यन्यत्र सामर्थ्यावधारणेनोपायान्तरस्यादोषाच्च। अपि च
देवत्तो जीवनमरणान्यतरप्रतियोगि प्राणित्वात् मद्वदिति सामान्यतोदृष्टं लाघवसहकारेण जीवनप्रतीयोगित्वं विषयीकरोति । तथा च लिङ्गविशेषणानिश्चयात् अनुमानादेव
बहिस्सत्त्वसिद्धिः ।

अथ लाघवसाचिव्यात् सामान्यतोदृष्टस्यापि विशेषविषयत्वात् नियमग्राहकप्रमाणोत्थापितलिङ्गकमरणानुमानेन जीवनग्राहकस्येवास्यापि सत्प्रतिपक्षत्वम्। एकेनापि
भूयसामपि प्रतिबन्धसम्भवात् । न च तर्कात् समान्यतोदृष्टस्य बलवत्त्वम् । व्याप्तिपक्षधर्मते हि बलम् । तच्च तुल्यमेव ज्ञातम्, लाघवाख्यतर्कस्य विशेषमात्रपर्यवसायकत्वेन
व्याप्तिग्राहकत्वस्य तुल्यत्वादिति चेत् ।

तर्हि पक्षधर्मताबलाद्विशेषसिद्धिः क्वापि न स्यात् । सर्वत्र सामान्यमुखप्रवृत्तप्रमाणस्य विशेषपर्यनसानेऽन्यसाधर्म्येण सत्प्रतिपक्षसम्भवात्। अप्रयोजकत्वान्न
विपरीतसाधनमिति तुल्यम् । नियमग्राहकस्याप्रयोजकत्वात् । जीवनग्राहकस्य तु सामान्यतोदृष्टस्य ज्योतिश्शास्त्राद्यथार्थत्वमेव विपक्षबाधकं व्याप्तिग्राहकमस्ति।
तस्मात् सामान्यमुखप्रवृत्तस्य सहकारिविशेषात् विशेषपरस्यानुमानस्य तद्विशेषविलक्षणग्राहकप्रमाणेन सत्प्रतिपक्षत्वम् । न च प्रमाणविराधेनास्य तर्को न
सहकारीति वाच्यम् । तर्कानवतारे विशेषपरत्वाभावेनाविरोेधात् । तदवतारे तदधिकबलत्वादेव । अन्यथा तर्कानवतारे सत्प्रतिपक्षस्य तदवतारेऽपि तत्त्वं न निवर्तते ।
किं चैवमर्थापत्तावपि तद्विरोधेन न सहकारी स्यात् । यदुक्तं मरणकल्पने शतवर्षावच्छिन्नजीवी गृह एवेत्यस्यापि बाध इति। तत्र विशिष्टबाधो न विशेष्यबाधात्।
मरणेऽपि जीवी गृह एवेत्यस्य विशेषणस्याबाधात्। किन्तु विशेषणबाधात्। स च शतवर्षिणीवित्वबाध एव। विशेषणाभावायत्तो विशिष्टभावोऽप्यस्तीति चेत् न ।
विशेष्यवति विशिष्टाभावस्य केवलविशेषणाभावात्मकत्वात् , विशिष्टस्यातिरिक्तस्यानभ्युपगमात् ।

74

अन्ये तु शतवर्षजीवी देवदत्तो जीवी गृह एव गृहे नास्तीति प्रमाणेषु द्वयोरविरोधेऽपि तृतीयमादाय विरोधज्ञानमस्ति । तत्र जीवी गृह एवेत्यप्रमाणघटित
प्रमाणद्वयविरोधज्ञानजनिताप्रमाण्यसंशयाहितजीवनसंशयात् प्रमाणयोरविरोधोपपादकप्रमाणविरोधि बहिस्सत्वं कल्प्यते । यथोक्तसंशयस्याायमेव स्वाभावो यद्वस्तुगत्या
अप्रमाणं तद्विरोधि कल्पयति । विराधघटकस्य वस्तुगत्या अप्रमाणत्वमेव विनिगमकत्वमिति ।

तत्तुच्छम्। अप्रमाणस्यापि प्रमाणत्वेन ज्ञानात् । तर्कादिभिर्विशेषदर्शनं विना यथोक्तसंशयानन्तरं बहिरस्तीति ज्ञानमसिद्धम् । अतो न फलबलेन तथार्थापत्तिकल्पनम्।
किं च मृते गृहस्थिते बहिः स्थिते तादृशसंशयादेवबहिस्सत्त्वं गृहसत्त्वं मरणं च कल्प्येत । कस्यचित् क्वचित् वस्तुगत्या अप्रमाणत्वात् । अर्थापत्त्याभासश्चैवं
न स्यात् ।

स्यादेतत् मा भूत् संशयः करणमर्थापत्तौ, अनुपपत्तिस्तु स्यात् । तथा हि जीवी देवदत्तो गृहे नास्तीति ज्ञाने सति बहिस्सत्त्वं विना जीवतो गृहासत्त्वमनुपपन्नमिति
ज्ञानानन्तरं बहिरस्तीति धीरस्ति, तत्रान्वयव्यतिरेकाभ्यामनुपपत्तिज्ञानं करणम् । न च देवदत्तो बहिरस्ति विद्यमानत्वे सति गृहासत्त्वात् घटवदित्यनुमानात् विद्यमानत्वे
सति यत्र यन्नास्ति तदन्यदेशे तदस्ति यथा गृह एव कोणेऽसन्नहं मध्ये तिष्ठामीति व्याप्तिप्रभावानुमानाद्वा बहिस्सत्त्वसिद्धेः किमर्थापत्त्येति वाच्यम्। हेतुसाध्ययोः
सहचाराज्ञानदशायामनुपपत्तिज्ञानेऽपि बहिस्सत्त्वज्ञानात्। सामान्यतो व्याप्तिश्चानुमाने उपसंहतुमशक्ययेति तदन्यदेशसिद्धिरर्थापत्त्यैव।
ननु जीविनो गृहसत्त्वमनुपपन्नं किं देवदत्तबहिरसत्त्वं विना उतबहिस्सत्त्वमात्रं विना । नाद्यः प्रथमं देवदत्तबहिस्सत्त्वप्रतीतौ तेन विनेदमनुपपन्नमिति ज्ञानाभावात्।
प्रतीतौ वा किमर्थापत्त्या । अर्थापत्तित एव तत्प्रतीतावन्योन्याश्रयः । तदुक्तम् यतोऽन्यत्वं तसिद्धेरग्रे तदसिद्धेेः इति । नान्त्यः अन्यदीयबहिस्सत्त्वज्ञानं विनानुपपत्त्यभावात्।
बहिस्सत्त्वमात्रसिद्धावपि देवदत्तबहिस्सत्वावासिद्धेरिति चेत् ,

न । सामान्येन हि विनानुपपत्तिज्ञानं कारणम् सामानान्याकारेण विशेषज्ञानं फलम् । तथा हि जीवतो बहिसस्सत्त्वं विना गृहासत्त्वमनुपपन्नमिति ज्ञानं यस्य
गृहासत्त्वमनुपपन्नं तत्र बहिसत्त्वं कल्पयति नान्यत्र देवदत्तश्च तथेति सिद्धे देवदत्ते बहिस्सत्त्वं कल्प्यत इति देवदत्तबहिस्सत्त्वं पर्यवस्यति । न तु तेन रुपेण कल्पना न  वा
तेन विनानुपपत्तिज्ञानं कारणम् । यथा वह्निमात्रव्याप्ताद्धूमात् पर्वते वह्निसिद्धिर्न तु पर्वयतीयत्वेनैव धूमात्तत्सिद्धिः तेन रुपेण व्यापकत्वाग्राहात्।
अथ उपादकाभाववत्युपपाद्याभावानियमोऽनुपपत्तिर्नत्वभावमात्रम् अतिप्रसङ्गात् ।

एवं च व्यतिरेकव्याप्तिमत उपपाद्यात् व्यतिरेक्यनुमानमुद्रयैव साध्यसिद्धेः किमर्थापत्त्या । तथा हि देवदत्तो बहिः सन् जीवित्वे सति गृहासत्त्वात् यन्नैवं तन्नैवम्
यथा मृतो गहस्थितो वा । न चान्यव्याप्त्या अन्यस्य गमकत्वेऽतिप्रसङ्गः । साध्याभावव्यापकाभावप्रतियोगित्वस्य नियामकत्वात् । न चार्थापत्तौ स्वरुपसती
व्याप्तिर्लिङ्गम्, नानुमान इति वाच्यम् । अनुपपत्तेर्ज्ञानं विना कल्पनानुदयात्, अर्थात्त्याभासानवकाशाच्च ।

मैवम् । अत्र हि व्यतिरेकव्याप्तिरन्वयस्य पक्षधर्मत्वमिति व्याप्तिधीजन्यमपि बहिस्सत्त्वज्ञानं नानुमितिः, तस्यां व्याप्तिपक्षधर्मताज्ञानजन्यतानियमात् । न च
साध्याभावव्यापकाभावप्रतियोगित्वेन पक्षधर्मस्य ज्ञानमनुमितिप्रयोजकमिहाप्यतीति वाच्यम् । केवलान्वयिनि तदसम्भवात्, तदपेक्षया साध्यव्याप्यत्वज्ञानस्य लघुत्वाच्च।
अथ व्यतिरेकसहचाराद्धेतोरेव व्याप्तिदृर्दृश्यते । एवं चान्वयस्य व्यतिरेकस्योभयस्य वा सहचारात् व्याप्तिग्रहत्रैैविध्येऽनुमानत्रैैविध्यम्। अत एव धूमो
दशाविशेषेऽन्वयी व्यतिरेकी अन्यव्यतिरेकी चेति चेत्-अस्तु तावदेवम् । तथापि जीविदेवदत्ताभावो गृहे वर्तमानो न बहिस्सत्त्वे लिङ्गं देवदत्तावृत्तित्वात् । बहिस्सत्त्वगृहनिष्ठाभावयोर्व्यधिकरणत्वेन
नियतसामानाधिकरण्यरुपव्याप्त्यभावाच्च। उपरि सविता भूमेरालोकवत्त्वादित्यत्र भूमेरुपरिसंनिहितसवितृकत्वेनानुमानात् । नापि गृहनिष्ठाभावप्रतियोगित्वम् । तत्प्रतियेगित्वस्य
देवदत्तधर्मतया तदसंनिकर्षे प्रत्यक्षेण ज्ञातुमशक्यत्वात् । अत एव विशेष्यासंनिकर्षात् तृतीयलिङ्गपरामर्शोऽपि न प्रत्यक्षेण। न च व्यतिरेकव्याप्तिगृहनिष्ठाभावयोर्ज्ञानं
सहकार्यासाद्य मनसैव न जन्यत इति वाच्यम् । सहकारिण एव मानान्तरत्वप्रसङ्गात्।

अथ व्याप्तिज्ञानानन्तरं स्मर्यमाणधूमात् कथमनुमितिः उक्तन्यायेन तत्रापि लिङ्गपरामर्शाभावादिति चेत् न कथंचित् । कथं तर्हि वह्निज्ञानम् पक्षधर्मधूमस्मृतिसहितात्
धूमो वह्निम् विना नास्तीत्यनुपपत्तिज्ञानादिति गृहाण । अत एव दृश्यमानो धूमो वह्निं विनानुपान्न इति यदा ज्ञायते तदार्थापत्तिरेव । यदा त्वनुपपतिज्ञानं विना व्याप्यत्वेन
प्रतिसन्धीयते तदानुमानम् । त्वयापि तत्र त्रिविधानुमानस्वीकारात् व्यतिरेकव्याप्तिमुपजीव्य जीविदेवदत्तगृहाभावो बहिस्सत्वं कल्पयति ।
उच्यते । देवदत्तासंनिकर्षेऽपि तस्य गृहनिष्ठाभावप्रतियोगित्वं प्रत्यक्षेण गृह्यते । तथाहि गृहे देवदत्तस्याभाव इति प्रत्यक्षं देवदत्तं षष्ठ्यर्थं चाभावसम्बन्धं
प्रतियोगित्वलक्षणं गोचरयति । सम्बन्धज्ञानस्य संबन्धिद्वयविषयत्वात्, प्रतियोगिना सममभावस्य संबन्धान्तराभावात्। गृहनिष्ठाभावप्रतियोगित्वे च प्रत्यक्षोपस्थिते
स्मृतव्याप्तिवैशिष्ट्यमपि प्रत्यक्षेण सुग्रहम् । न च देवदत्तविशेष्यकं बहिस्सत्त्वव्याप्यगृहनिष्ठाभावप्रतियोगित्वज्ञानं नास्तीति वाच्यम् । पक्षवृत्तिलिङ्गपरामर्शमात्रस्यानुमितिजनकत्वात्
अधिकस्य गौरवपराहतत्वात् ।

75

अथ वा अनितप्रसक्तसहकारिवशान्मनसैव स्मृतदेवदत्तविशेष्यकस्तृतीयलिङ्गपरामर्शः । यथा च न सहकारि मानान्तरं तथोपपादितमधस्तात् ।
ननु मयूरः पर्वतेतरे न नृत्यति , नृत्यति चेति ज्ञानानन्तरं पर्वते नृत्यतीति ज्ञानमस्ति। न च व्यतिरेकिणस्तत् सम्भवति । पर्वतनृत्याप्रसिद्धौ तेन
विनानुपपत्तिप्रतिसन्धानमपि नेति कथमर्थापत्तिरपीति वाच्यम् । अधिकरणं विनानुपपद्यमानं नृत्यं प्रसिद्धाधिकरणबाधसहकृतं प्रसिद्धेेतरमधिकरणं कल्पयतीति चेत्।
न मयूरनृत्यं साधिकरणं नृत्यत्वादिति सामान्यतोदृष्टं प्रसिद्धाधिरणबाधसहकृतं प्रसिद्धेतरं पर्वतमधिकरणमादाय नृत्यज्ञानं जनयति ।
यद्वा पर्वतेतरे न नृत्यतीति शब्देन नृत्याभावबोधानन्तरं मयूरो नृत्यतीति शब्दाज्जायमानं ज्ञानं पर्वतनृत्यं गोचरयति । प्रसिद्धविशेषबाधसहकृतसामान्यज्ञानजनकप्रमाणस्य
प्रसिद्धेतरं पर्वतमधिकरणविशेषमादाय ज्ञानजनकत्वनियमात्। अत एवानित्यज्ञानाबाधनन्तरं क्षित्यादौ ज्ञानजन्यत्वं सिद्ध्यत् नित्यत्वमादाय सिद्ध्यतीत्याचार्याः ।
यद्वा मयूरनृत्यं पर्वताधिकरणकं पर्वतेतरानधिकरणत्वे सति साधिकरणत्वात् पर्वतत्ववत् इत्यन्वयव्यतिरेकी ।

अथवा यः सम्भाविततत्तदिरावृत्तिः सन् तदतिरिक्तवृत्तिर्न भवति स तद्वृत्तिर्भवतीति सामान्येन यत्तदर्थान्तर्भावेण व्याप्त्या नृत्यस्य पर्वतवृत्तित्वं सिद्ध्यति । एवं
पीनो देवदत्तो दिवा न भुङ्क्त इत्यत्रापि अप्रसिद्धरात्रिभोजनसाध्यपीनत्वज्ञानं रात्रिभोजनमादाय सिद्ध्यति ।

अथ यथा अभोजी पीन इत्यत्रायोग्यताज्ञानं तथा पीनो दिवा न भुङ्क्त इत्यत्रापि दिवाभोजनस्य बाधात् योग्यताघटकरात्रिभोजनस्य प्रतीतेः। अतो
योग्यताघटकोपस्थितिं विना अन्वयमलभमानमिदं वाक्यं योग्यताघटकरात्रिभोजनोपपादकं रात्रौ भुङक्त इति वाक्यं कल्पयित्वा तेन सहान्वयबोधं जनयति । न चैवं
लाघवाद्रात्रिभोजनमेव कल्पयितुं युक्तम् । शाब्दी ह्याकाङक्षा शब्देेनैव प्रपूर्यते इति न्यायेन शब्दोपस्थापितमादाय शब्दस्यान्वयबोधजनकत्वात् । एवं च श्रूयमाणशब्दस्यान्वयबोधकत्वं
योग्यताघटकोपस्थापकेन शब्देन विनानुपपद्यमानं तं कल्पयित्वा यत्रान्वयबोधं जनयति तत्र श्रुतार्थापत्तिः ।

द्वारमित्यादौ पिधेहीति शब्दकल्पनं श्रुतार्थापत्तिरेव । शब्दश्च यद्यपि श्रूयमाणो बाधितः, तथापि अभिप्रायस्थः कल्प्यते । यथा गुरुमते " "स्वर्गकामो यजेत" " इत्यत्र
साक्षात्साधनताबाधे परम्पराघटकस्यानुपस्थित्या परंपरासाधनताज्ञानविरहः योग्यताज्ञानाभावात् प्रसिद्धपदसामानाधिकरण्यानुपपत्तिरिति योग्यताज्ञानस्य परम्परासाधनताघटकमपूर्वं
लिङ्ादिवाच्यं कल्पयति, ततः स्वर्गसाधनं याग इति ज्ञानं जायते । अन्यथा अपूर्वमपि वाच्य न स्यादिति ।

उच्यते । बाधकप्रमाणाभावोऽन्वयविरोधिरूपविरहो वा योग्यता । अतो दिवा अभोजने रात्रिभोजनाप्रतीतावपि भोजनसाध्यपीनत्वात् दिवा न भूङक्त इति
शब्दाद्धीरुत्पद्यते न प्रतीत्यनुपपत्तिः । किं तु प्रतीतानुपपत्त्या रात्रिभोजनं कल्प्यते । अत एवापूर्वमपि न वाच्यमिति वक्ष्यते । तस्मान्नार्थापत्तिरनुमानादतिरिच्यत
॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे अर्थापत्तिप्रकरणम् ॥

अथ अवयवप्रकरणम्
तच्चानुमानं परार्थं न्यायसाध्यमिति न्यायस्तदवयवाश्च प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि निरूप्यन्तेे । तत्र न समस्तरूपोपपन्नलिङ्गप्रतिपादकवाक्यं न्यायः ।
अत्रैव वाक्येऽतिव्याप्तेः । किंतु अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकवाक्यं न्यायः । प्रतिज्ञादिपञ्चवाक्यैरकवाक्यतया स्वार्थविशिष्टज्ञानं जन्यते ।
तेन च विशिष्टवैशिष्ट्यावगाहिमानान्तरमुत्थाप्यते । तेन च चरमपरामर्श उत्पाद्यत इति न्यायजन्यशाब्दज्ञानस्य परामर्शप्रयोजकता।
अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकशाब्दज्ञानजनकवाक्यत्वमवयवत्वम् । अत एव वह्निव्याप्यधूमवानयमिति वाक्ये तदवयवे च न
न्यायतदवयवलक्षणातिव्याप्तिः । तेन परामर्शस्य तदवयवेन परामर्शजनकस्य जननात् ।

यत्तु संक्षेपतः परामर्शप्रयोजकवाक्यत्वेन विशेषाभावात् सोऽपि न्याय एवेति । तन्न । कथायामाकाङ्क्षाक्रमेणाभिधानमिति प्रथमं विशिष्टवैशिष्ट्ये आकाङ्क्षा
नास्तीति तदभिधाने निग्रहादिति वक्ष्यते । अन्यथा चक्षुरादेरपि परामर्शजनकतया न्यायत्वापत्तिः । आकाङ्क्षाविरहस्तुल्य    एव ।
अन्येतु पञ्चावयववाक्याद्विजातीयमेव शाब्दज्ञानमुत्पद्यत इति तद्धीजनकवाक्यत्वं न्यायत्वम् । एवं प्रतिज्ञाद्यवयवादपि प्रत्येकं विजातीयं शाब्दज्ञानमिति
तत्तद्धीजनकशाब्दत्वमेव तत्तल्लक्षणमिति ।

तन्न। ज्ञानविशेषजनकत्वं तत्तज्ज्ञानजनकत्वं वा न्याये प्रतिज्ञादौ चानतिप्रसक्तमनुगतरूपमन्तरेण दूर्निरूपमिति तत्स्वीकारे तस्यैव लक्षणत्वात् । अन्यथा
जातिसंकरप्रसङ्गः ।

तत्र प्रतिज्ञा न साध्यनिर्देशः, साध्यपदेऽतिव्याप्तेः । किं तूद्देश्यानुमितिहेतुलिङ्गपरामर्शप्रयोजकवाक्यार्थज्ञानजनकत्वे सति उद्देश्यानुमित्यन्यूनान
तिरिक्तविषयकशाब्दज्ञानजनकं वाक्यम्।

76

अन्यूनानातिरिक्तपदं विहाय लिङ्गाविषयकत्वं वा ज्ञानविशेषणम् । तेनोदाहरणादिव्युदासः । निगमनं च न परामर्शहेतुः , अबाधितासत्प्रतिपक्षत्वज्ञानजनकत्वात्।
हेत्वभिधानप्रयोजकजिज्ञासाजनकवाक्यत्वं वा, लिङ्गाविषयकलिङ्गिविषयकज्ञानजनकन्यायावयववाक्यत्वं वा । इतरावयवानां लिङ्गविषयकज्ञानजनकत्वात्।
प्रतिज्ञात्वं जातिः, अन्यूनानतिप्रसक्ततान्त्रिकव्यवहारादिति  केचित्  ।  तन्न  । देवदत्तप्रभवत्वादिना जातिसंकरप्रसङ्गात् । प्रतिज्ञाजन्यं विजातीयं ज्ञानं व्यवहारादिति
तज्जनकं प्रतिज्ञेत्यपि न । तज्जनकत्वं जनकत्वज्ञानं वा नानुगतरूपमन्तरेण सम्भवतीत्युक्तस्यानुसरणीयत्वात् ।

एतेनशब्दोऽनित्य इति लिङ्गिधीपरवाक्यजन्यज्ञानवृत्तिकृतकत्वा दित्यादिवाक्यजन्यज्ञानावृत्तिजातियोगिज्ञानजनकवाक्यं प्रतिज्ञेति  निरस्तम्  ।
ननु प्रतिज्ञा न साधनाङ्गम् । विप्रतिपत्तेः पक्षपरिग्रहे तत्र प्रमाणाकाङ्क्षायां हेत्वभिधानस्य प्राथम्यादिति चेत् , न । विप्रतिपत्त्यग्रे समयबन्धानन्तरं शब्दानित्यत्वं
साधयेति मध्यस्थस्य वादिनो वा आकाङ्क्षायां शब्दानित्यत्वं साध्यम् । न च साध्यनिर्देशं विना हेतुवाक्यं निष्प्रतियोगिकमन्वयं बोधयितुमीष्टे । न च वादिवाक्येऽनुपस्थितमपि
योग्यतयान्वेति । अतिप्रसङ्गात् । न च विप्रतिपत्तितः साध्योपस्थितिः । तस्याः प्रतिवादिविप्रतिपत्त्या प्रमाणादिव्यवस्थया चान्तरितत्वात् । परविप्रतिपतिं्त समयबन्धं च
विना स्थापनाया अभावात् । विप्रतिपत्तिवाक्यस्य पक्षपरिग्रहेण पर्यवसिततया निराकाङ्क्षत्वाच्च । आवृत्तौ तु सैव प्रतिज्ञा । न चावयवान्तराद्धेत्वन्वययोग्या
साध्योपस्थितिः । नाप्यवयवान्तरेणाक्षेपात्। साध्यान्वये तदभिधानं तदभिधाने च साध्यान्वय इत्यन्योन्याश्रयात् । तस्मात् प्रतीत्यनुपपत्त्या प्रतीतानुपपत्त्या वा नेहाक्षेपः ।
अन्ये  तु शब्दानित्यत्वे प्रमाणं वदेति यदि मध्यस्थस्यानुयोगः, तथापि प्रमाणमात्रे नाकाङ्क्षा, किंतु विशिष्टे । विशिष्टं तु विशेषणं साध्यमनभिधाय न
शक्याभिधानम् । न च वस्तुतो यत् साध्यं तत्र प्रमाणं वदेति मध्यस्थनियोगः । वादिद्वयमध्ये तदसम्भवात्। तस्मात् साध्याभिधानं विना न हेतोराकाङक्षा न वा
अन्वयबोधकत्वमिति प्रतिज्ञा साधनाङ्गमिति ।

हेतुः
साध्यनिर्देशानन्तरं कुत इत्याकाङ्क्षायां साधनताव्यञ्जकविभक्तिमल्लिङ्गवचनमेवोचितम् । अन्यथा अनाकाङ्क्षिताभिधाने निग्रहापत्तेः । लोके तथैवाकाङ्क्षानिवृत्तिरिति
व्युत्पत्तेरिति प्रतिज्ञानन्तरं हेतूपन्यासः ।

हेतुत्वं च अनुमितिकारणीभूतलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकसाध्याविषयकशाब्दधीजनकहेतुविभक्तिमच्छब्दत्वम् । हेतुत्वप्रतिपादकविभक्तिमन्न्यायावयवत्वं
वा उदाहरणप्रयोजकाकाङ्क्षाजनकशाब्दज्ञानजनकन्यायावयवत्वं वा साध्याविषयकज्ञानजनक हेतुपञ्चम्यन्तानुमितिपरशब्दत्वं वा

प्रतिज्ञावाक्यधीजन्यकारणाकाङ्क्षानिवर्तकज्ञानजनकहेतुविभक्तिमद्वाक्यत्वं वा । पञ्चम्यन्तलाक्षणिकपदवदनुमितिपरवाक्यत्वं वा । हेतुपदेन ज्ञानलक्षणात् । अन्यथा
लिङ्गस्याहेतुत्वेन हेतुविभक्त्यर्थानन्वयात्, तथैवाकाङ्क्षानिवृत्तेः । अनुमितिहेतुज्ञानकारणधूमवत्त्वादितिशब्दजन्यज्ञानवृत्ति
प्रतिज्ञादिजन्यज्ञानावृत्तिजातियोगिज्ञानजनकवाक्यत्वं हेतुत्वमित्यन्ये। जातिं विना केन रूपेण ज्ञानस्यानुमितिजनकत्वम्, वाक्यविशेषजन्यत्वस्यापि जन्यतावच्छेदकरूपापरिचये
दुर्र्ग्रहादित्यपरे ।

अन्वयव्याप्त्यभिधायकावयवाभिधानप्रयोजकज्ञानजनकहेतुत्वप्रतिपादकविभक्तिमन्न्यायावयवत्वमन्वयिहेतुत्वम्। एतदेव व्यतिरेकव्याप्त्यभिधायकपद
प्रक्षेपाद्व्यतिरेकिहेतुत्वम् । अन्वयव्यतिरेकोदाहरणाकाङ्क्षाप्रयोजकतथा-भूतावयवत्वमन्वयव्यतिरेकिहेतुत्वम् ।

यद्वा पक्षसपक्षसतो विपक्षासतो हेतुवचनमन्वयव्यतिरेकि, अत्यन्ताभावाप्रतियोगिसाध्यसमानाधिकरणपक्षसपक्षसद्धेतुवचनं केवलान्वयि ।
यद्वा अनुमितिकारणीभूतपरामर्शप्रयोजकशाब्दज्ञानकारणसाध्याविषयकशाब्दधीजनकप्रतीतान्वयसाध्य-साधनवाचकहेतुविभक्तिमच्छब्दत्वमन्वयिहेतुत्वम् ।
एतदेवाप्रतितान्वयसाध्यसाधनेतिविशेषणात् व्यतिरेकि हेतुलक्षणम् । कथायां धूमादित्येव प्रयोक्तव्यं न तु धूमवत्त्वादिति, मतुपो व्यर्थत्वात् ।
सामान्यवत्त्वे सति बाह्यकरणप्रत्यक्षत्वादित्यपार्थकम् । विभक्त्युपस्थापितहेतुत्वेन सामान्यवत्त्वस्य विभक्त्यन्तरावरुद्धस्यानन्वयादिति  केचित्  ।  तन्न। सतिसप्तमीबलात्
सामान्यवत्त्वस्य बाह्यकरणप्रत्यक्षत्वस्य च सामानाधिकरण्योपस्थितौ विशिष्टे हेतुत्वान्वयात् तथैव व्युत्पत्तेः । न ह्ययमर्थोऽस्मान्नावगम्यतइति
उदाहरणम्

हेतावुक्ते कथमस्य गमकत्वमित्याकाङ्क्षायां व्याप्तिपक्षधर्मतयोः प्रदर्शनप्राप्तौ व्याप्तेः प्राथम्यात् तत्प्रदर्शनाय उदाहरणम्। तत्रानुमितिहेतुलिङ्गपरामर्श
परवाक्यजन्यज्ञानजनकव्याप्यत्वाभिमतवन्निष्ठनियतव्यापकत्वाभिमतसम्बन्धबोधजनकशब्दत्वमुदाहरणत्वम्। सामान्यलक्षणे साध्य साधनसम्बन्धबोधकत्वं
साध्यसाधनाभावसम्बन्धबोधकत्वं च विशेषलक्षणद्वयम्।

न्यायावयवदृष्टान्तवचनमुदाहरणमिति तु न । दृष्टान्तप्रयोगस्य सामयिकत्वेनासार्वत्रिकत्वात् । यो यो धूमवान् सोऽग्रिमानित्येव व्याप्तिप्रतीतेः ।

77

नापि  प्रकृतानुमितिहेतुलिङ्गपरामर्शपरवाक्यजन्यज्ञानविषयव्याप्त्युपनायकं वचनं तत्। उपनयातिव्याप्तेः।
अतः उपनयाभिधानप्रयोजकजिज्ञासाजनकवाक्यमुदाहरणम्। एतदेवान्वयव्यतिरेकव्याप्तिविषयत्वविशेषितं विशेषलक्षणद्वयमित्यन्ये ।

अत्र च व्यभिचारवारणाय वीप्सामाहुः । यत्र च सामानाधिकरण्यादेव व्याप्तिस्तत्र न वीप्सा । केवलान्वयिन्यभेदानुमाने च वीप्सायामपि व्यभिचारतादवस्थ्यमिति
तु वयम् ।

वीप्सा च यत्पदे न तत्पदेऽपि। विरूपोपस्थितयोरपि तत्पदेन परामर्शात् बुद्धिस्थवाचकत्वादिति न व्युत्पत्तिविरोधः । यथा " "यद्यत्पापं प्रतिजहि" " इत्यत्र।
इदं च साध्यसाधनोभयाश्रयविकलानुपदर्शितान्वयविपरीतोपदर्शितान्वयानुपदर्शितव्यतिरेकविपरीतोपदर्शितव्यतिरेकभेदादाभासरूपमिति।

उपनयः
उदाहरणानन्तरं भवतु व्याप्तिः तथापि व्याप्तं किं पक्षे वर्तते न वेत्याकाङ्क्षायां व्याप्तस्य पक्षधर्मत्वप्रदर्शनायोपनयः ।

तत्रानुमितिकारणतृतीयलिङ्गपरामर्शजनकावयवत्वम् उपनयत्वमिति सामान्यलक्षणम् । साध्यव्याप्यविशिष्टपक्षबोधकावयवत्वं
साध्याभावव्यापकाभावप्रतियोगिमत्पक्षबोधकावयवत्वं च विशेषलक्षणद्वयम्।

उदाहरणान्त एव प्रयोग इति न वाच्यम् । तृतीयलिङ्गपरामर्शस्य व्याप्तिपक्षधर्मतावगाहिनोऽवयवान्तरादलाभात् । तदनभ्युपगमेऽपि पक्षधर्मताया अलाभात् ।
न च हेतुवचनादेव तदवगमः । तस्य को हेतुरित्याकाङ्क्षायामेव प्रवृत्तत्वेन हेतुस्वरूपोपस्थापकस्यातत्परत्वात् । वादिवाक्यादेवाक्षेप इति चेत् न । तदर्थस्यासिद्धत्वेनानाक्षेपकत्वात्।
अन्यथा प्रतिज्ञामात्रादेव सर्वाक्षेपेऽवयवान्तरविलयात् । प्रतिपाद्यानां स्वत एव तदवगम इति चेत् , न । तेषां व्युत्पन्नाव्युत्पन्नतया सर्वत्र तदसम्भवात् प्रतिपादकेन
स्वव्यापारस्य निर्वाहयितुमुचितत्वाच्च । अन्यथा अवयवान्तरेऽप्येवं प्रसङ्गात् ।

निगमनम्
उपनयानन्तरं निगमनम् । तच्चानुमितिहेतुलिङ्गपरामर्शप्रयोजकशाब्दज्ञानकारणव्याप्तिपक्षताधीप्रयुक्तसाध्यधीजनकं वाक्यम्। न च व्याप्तिपक्षधर्मतयोश्चतुर्भिरेवावयवैः
पर्याप्तेः किं तेनेति वाच्यम् । अबाधितासत्प्रतिपक्षत्वयोरलाभे चतुर्णामप्यपर्यवसानात्।

अथाभिधानभिधेययोर्व्याप्तिपक्षधर्मतावल्लिङ्गप्रतिपादनादेव पर्यवसानेनावयवान्तराणां निराकाङ्क्षत्वम् । विपरीतशङ्कानिवृत्तेरपि तत एव लाभात् । अन्यथा
निगमनेनापि तदवारणात् । न हि तद्विशेषदर्शमनादृत्यैव तन्निवर्तकम् । सिद्धनिर्देशतया वारयतीति चेत् , न । स्वरूपमात्राभिधानात् । साध्यत्वानुपस्थितौ तस्मादिति
हेतुविभक्त्यनन्वयप्रसङ्गाच्च इति चेत् , न । व्याप्तिपक्षधर्मताज्ञानेऽपि बाधसत्प्रतिपक्षबुद्धेः साध्यज्ञानानुत्पत्तिदर्शनात् तदभावाबोधने समीहितानिर्वाहात्।
अथ बाधादिविरहस्य प्रयोजकत्वं न तु तद्वोधस्य मानाभावादसिद्धेश्चेति किमर्थं बाधादिविरहो बोधनीय इति चेत् न । यदवगमे सति यन्न भवति तत्तदभावज्ञानसाध्यमिति
व्याप्तेः ।

न चानन्वयः । तस्मादित्यन्वयबलादेव हेत्वनाकाङिक्षतत्वलक्षणसिद्धत्वज्ञानात् न त्वन्वयात्पूर्वम् ।
इह केचित्  - - यथा तस्मादिति सर्वनाम्ना हेतोः परामर्शः पूर्वोक्तशेषरूपलाभाय तथा साध्यांशस्यापि तथा इति सर्वनाम्ना सिद्धस्थल इव (विरोधादिवारणाय)
विरोधिवारणाय युक्त इत्याहुः ।

तन्न । तथेति स्वरूपे प्रकारे सादृश्ये वा ? आद्ये तथा चायमिति प्रक्रान्तात् तथेति हेतुमानित्यर्थः स्यात्, तथा चानन्वयः । न हि हेतुमत्त्वादेव हेतुमानित्यन्वितम्।
न द्वितीयः, सामान्येन पक्षस्यापि अन्वयव्याप्तौ प्रवेशात् तत्प्रकारान्वयस्तत्रैवेत्यनन्वयात् । अत एव न तृतीयोऽपि । अभेदानुमाने चान्वयिनि तस्मात्तथेति सादृश्याभावात्।
बहूनां च प्रक्रमे विशेष्यानन्वयात् । वादिवाक्ये च योग्यतान्वयेऽतिप्रसङ्गात् ।

तस्मादित्यत्र विभक्त्यर्थानन्वयादेव नियमः। तस्मादनित्य इत्यभिधाने विशिष्य सिद्धतावगभ्यते । पूर्वं साध्यतयोक्तस्य समर्थहेतुसंबन्धेन पुनरुत्कीर्तनात्। अन्यथा
तद्वैयर्थ्यात् । संशयप्रयोजनादयस्तु अवयवलक्षणाभावादेव नावयवाः, किं तु न्यायाङ्गतया उपयुज्यन्त इति नाधिक्यम् । कण्टकोद्धारस्य च न सार्वत्रिकत्वम् ,
समयविशेषोपयोगित्वादिति ।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ
अनुमानखण्डे अवयववादः समाप्तः।

78

अथ हेत्वाभासनिरूपणम्

अथ हेत्वाभासास्तत्त्वनिर्णयविजयप्रयोजकत्वान्निरूप्यन्ते । तत्रानुमितिकारणीभूताभावप्रतियेगियथार्थज्ञानविषयत्वम् , यद्विषयकत्वेन लिङ्गज्ञानस्यानुमितिप्रतिबन्धकत्वम्
ज्ञायमानं सदनुमितिप्रतिबन्धकं यत् तत्त्वं वा हेत्वाभासत्वम्। दशाविशेषे हेत्वोरेवासाधारणसत्प्रतिपक्षयोराभासत्वात् तद्बुद्धेेरप्यनुमितिप्रतिबन्धकत्वम् ।
यद्यपि बाधसत्प्रतिपक्षयोः प्रत्यक्षशाब्दज्ञानप्रतिबन्धकत्वान्न लिङ्गाभासत्वं तथापि ज्ञायमानस्याभासस्यात्र लक्षणम् ।

यद्वा प्रत्यक्षादौ बाधेन न ज्ञानं प्रतिबध्यते किन्तूत्पन्नज्ञानेऽप्रामाण्यं ज्ञायते। अनुमितौ तूत्पत्तिरेव प्रतिबध्यते । ते च सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः
पञ्च ।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे हेत्वाभाससामान्यनिरुक्तिः ।
अथ सव्यभिचारप्रकरणम्।

सव्यभिचारोऽपि त्रिविधः साधारणासाधारणानुपसंहारिभेदात् । तत्र सव्यभिचारः साध्यतदभावप्रसञ्जक इति न त्रितयसाधारणं लक्षणम् । एकस्योभयं प्रत्यसाधकत्वात्
अनापादकत्वाच्च । नाप्युभयपक्षवृत्तित्वं उभयव्यावृत्तत्वं वा तत्त्वम्, अननुगमात् ।

अथ साध्यसंशयजनककोटिद्वयोपस्थापकपक्षधर्र्मताज्ञानविषयत्वे सति हेत्वभिमतः सः। विप्रतिपत्तिस्तु प्रत्येकं न तथा, न वा पक्षवृत्तिः । साधारणमन्वयेन
असाधारणं व्यतिरेकेण अनुपसंहारी पक्ष एवोभयसाहचर्येण कोटिद्वयोपस्थापकः।

केवलान्वयिसाध्यकानुपसंहारी अयं घट एतत्त्वादित्यसाधारणश्च सद्धेतुरेव। तदज्ञानं दोषः पुरुषस्य। अत एवासाधारणप्रकरणसमयोरनित्यदोषत्वम्। अन्यथा
सद्धेतौ बाधादिज्ञाने हेत्वाभासाधिक्यापत्तिः। न च प्रमेयत्वेनाभेदानुमाने शब्दोऽनित्यः शब्दाकाशान्यतरत्वादित्यत्र च साधारणेऽव्याप्तिः। तयोः साध्यवदवृत्तित्वेन विरुद्धत्वादिति
चेत् , न। एतदज्ञानेऽपि साधारण्यादिप्रत्येकस्य ज्ञानात् उद्भावनाच्च स्वपरानुमितिप्रतिबन्धात् उद्भावितैतन्निर्वाहार्थं साधारणादेरवश्योद्भाव्यत्वेन तस्यैव दोषत्वाच्च ।
एतेनपक्षवृत्तित्वे सत्यनुमितिविरोधिसंबन्धाव्यावृत्तिरनैकान्तिकः। सपक्षविपक्षवृत्तित्वमुभयव्यावृत्तत्वमनुपसंहारित्वञ्चानुमितिविरोधि, तत्सम्बन्धः प्रत्येकमस्ति ।
विरुद्धोऽप्यनेन रूपेण सव्यभिचार एव । उपाधेश्च न सङ्कर इति वक्ष्यत इति  निरस्तम्  ।

एतदज्ञाने ज्ञानेपिवा आवश्यकप्रत्येकज्ञानस्य दोषत्वात् असाधकतानुमितौ व्यर्थविशेषणत्वाच्च ।
अत एव साध्याव्याप्यत्वे सति साध्याभावाव्याप्यहेत्वाभासत्वम्, साध्यवन्मात्रवृत्त्यन्यत्वे सति साध्याभाववन्मात्रवृत्त्यन्यत्वं वेति परास्तम्। व्यर्थविशेषणत्वात्
प्रथमं हेत्वाभासत्वाज्ञानाच्च ।

गगनमनित्यं शब्दाश्रयत्वादित्यादिबाधविरुद्धसङ्कीर्णासाधारणाव्याप्तिरिति  कश्चित्।
नापि सपक्षविपक्षगतसर्वसपक्षविपक्षव्यावृत्तान्यतरत्वम् । व्यर्थविशेषणत्वात् अनुपसंहार्यव्याप्तेश्च। किञ्च पक्षातिरिक्तसाध्यवतः सपक्षत्वे प्रमेयत्वेनाभेदसाधनेऽनुपसंहार्ये
अव्याप्तिः। पक्षातिरिक्तसाध्यवतोऽप्रसिद्धेः। साध्यवतः सपक्षत्वे विवक्षितेऽप्रसिद्धिः, वृत्तिमतो धर्मस्य साध्यवद्विपक्षान्यतरवृत्तित्वनियमात्।
नापि पक्षातिरिक्तसाध्यवन्मात्रवृत्त्यन्यत्वे सति पक्षातिरिक्तसाध्याभाववन्मात्रवृत्तिभिन्नत्वम् । अनुपसंहार्यव्याप्तेः धूमादावतिव्याप्तेश्च, तस्य पक्षे साध्यवति वृत्तेः ।
नापि पक्षवृत्तित्वे विरुद्धान्यत्वे च सत्यनुमित्यौपयिकसम्बन्धशून्यत्वम्, व्यर्थविशेषणत्वात् ।

एतेनानुगतं सर्वमेव लक्षणं  प्रत्युक्तम्।प्रत्येकमेव दूषणत्वात् , उद्भावने वादिनिवृत्तेश्च ।
इति सव्यभिचारपूर्वपक्षः ।

79

अथ सव्यभिचारसिद्धान्तः।

उच्यते । उभयकोट्युपस्थापकतावच्छेदकरूपवत्त्वं तत्त्वम्। तच्च साधारणत्वादि ।
विरुद्धान्यपक्षवृत्तित्त्वे सत्यनुमितिविरोधिसम्बन्धाव्यावृत्तिर्वा । तेनैव रूपेण ज्ञातस्य प्रतिबन्धकत्वात्, परस्य तथैवोद्भावनाच्च लक्षणानुरोधेन प्रत्येकमेव
हेत्वाभासत्वम् ।

यद्वा साध्यवन्मात्रवृत्त्यन्यत्वे सति साध्याभाववन्मात्रवृत्त्यन्यत्वम्। तेनासाधारणस्य साध्यतदभावोपस्थापकतया दूषकत्वपक्षे नाव्याप्तिः । न चैवमाधिक्येेे
विभागव्याघातः। स्वरूपसतानुगतरूपेण त्रयाणामेकीकृत्य महर्षिणा विभागकरणात् । न चैवं साध्याभावज्ञापकत्वेन बाधप्रकरणसमयोः, तदज्ञापकतयान्येषामुपसंग्रहः
कुतो न कृत इति वाच्यम् । स्वतन्त्रेच्छस्य नियोगपर्यनुयोगानर्हत्वात् ।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे सव्यभिचारः।
अथ साधारणप्रकरणम्।

तत्र साधारणत्वं न साध्याभाववद्गामित्वम् । सर्वमनित्यं मेयत्वादित्यनुपसंहार्ये, भूर्नित्या गन्धवत्त्वादित्यसाधारणे, संयोगादिसाध्यकद्रव्यत्वे चातिव्याप्तेः । अत
एव न साध्यवत्तदन्यवृत्तित्वम्।

नापि निश्चितसाध्यवत्तदन्यवृत्तित्वम् , साध्यवदन्यवृत्तित्वस्य दूषकत्वेन शेषवैयर्थ्यात् ।
अत एवामुकेनायमनैकान्तिक इत्येवोद्भाव्यते तत एव वादिनिवृत्तेश्च, न तु सपक्षगतत्वमपि । अनुपसंहार्यो व्यावर्त्यः, अन्यथा तस्यैतद्विशेषत्वापत्तिरिति चेत् ,
त्यज तर्हि तमधिकम्, क्लप्तेऽन्तर्भावात् ।

नापि सपक्षविपक्षगतत्वम्। व्यर्थविशेषणत्वात्। विरुद्धो व्यावर्त्य इति चेत् , न । विपक्षगामित्वस्यैव दूषकत्वे तस्याप्येतदन्तर्भावात् ।
अथ पक्षान्यसाध्यवत्तदन्यवृत्तित्वं साधारणत्वम्। तेन सर्वमनित्यं मेयत्वादित्यनुपसंहार्ये नातिप्रसङ्गः । न च व्यर्थविशेषणता। घटोऽनित्यो
घटाकाशोभयवृत्तिद्वित्वाश्रयत्वादित्यनुपसंहार्यस्य विरुद्धस्यानैकान्तिकभिन्नस्य व्यवच्छेद्यत्वादिति चेत् , न । दूषकताप्रयोजकरूपभेदमन्तरेण भेदस्यैवानुपपत्तेः ।
साध्यवद्वृृत्तित्वे सति सर्वसाध्यवदन्यवृत्तित्वमित्यपि न। व्यर्थविशेषणत्वात् , एकव्यक्तिकसाध्ये तदभावाच्च ।  एतेन हेत्वाभासान्तरव्यवच्छेदकं विशेषणं
व्यर्थमिति।

इति साधारणपूर्वपक्षः।
अथ साधारणसिद्धान्तः।

उच्यते । विपक्षवृत्तित्वं साधारणत्वम्, तन्मात्रस्य दूषकत्वात् । विरुद्धस्यापि तत्त्वज्ञाने विपक्षवृत्तिताज्ञानदशायां साधारणत्वम्। अन्यथा तस्य हेत्वाभासान्तरतापत्तेः।
उपाधेरसङ्कर एव । सर्वमनित्यं मेयत्वादित्यनुपसंहारी, शब्दो नित्यः शब्दत्वात् , भूर्नित्या गन्धवत्त्वादित्यसाधारणश्च वस्तुगत्या साध्याभाववद्वृृत्तित्वेन साधारणोऽपि
पक्षतादशायाम् उद्भावयितुं न शक्यत इत्युभयोर्भेदेनोपन्यासः।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे साधारणप्रकरणम् ।
असाधारणप्रकरणम्।

सर्वसपक्षविपक्षव्यावृत्तोऽसाधारणः । ननु सपक्षत्वं न साध्यवन्मात्रत्त्वम्, विपक्षावृत्तेर्वृत्तिमतः साध्यवद्वृत्तित्वनियमात् । नापि पक्षातिरिक्तसाध्यवत्त्वम्, शब्दोऽनित्यः
शब्दत्वादित्यादेः व्याप्तिधीदशायामप्यसाधारणतापत्तेः । न चेष्टापत्तिः, बाधप्रतिरोधौ विना व्याप्तिपक्षधर्मतया ज्ञातादनुमितिनियमादिति चेत् , न। सर्वनिश्चित
साध्यवद्विपक्षव्यावृत्तत्वस्य तत्त्वात् ।

शब्दत्वानित्यत्व व्याप्तिग्रहे सति शब्दे साध्यनिश्चयान्नातिव्याप्तिः । न च घटोऽयमेतत्त्वादिति सद्धेतावतिव्याप्तिः, साध्यसन्देहदशायां तस्य हेत्वाभासत्वात् ।
यद्यपि भूर्नित्या गन्धवत्त्वादित्यादिर्वस्तुतः साधारणः, शब्दो नित्यः शब्दत्वादिति विरुद्धः, शब्दोऽनित्यः शब्दत्वादित्यादिः सद्धेतुरेव, व्याप्त्यज्ञानस्य पुरुषदोषत्वादित्युदाहरणाभावादसाधारणो
न पृथक्। तथापि पक्षतादशायां साध्यतदभावानिश्चयेन तस्य दोषत्वम् । अन्यथा पक्षत्वभङ्गप्रसङ्गात् ।

80

अथ सर्वसपक्षव्यावृत्तिरेव दोषः न विपक्षव्यावृत्तिरपि, तस्या अनुगुणत्वात् । प्रत्युत विपक्षव्यावृत्तत्त्वेन व्यतिरेकितया परसाध्यसाधकमेवोपन्यस्तं स्यात् । न च
संशायकतया दोषत्वं तच्चोभयव्यावृत्तत्वज्ञानादिति वाच्यम् । व्याप्तिग्राहकं सहचारज्ञानं तदभावद्वारैव सपक्षव्यावृत्तिमात्रस्य दोषत्वात् ।
किञ्च शब्दोऽनित्यः शब्दत्वादित्युक्त्वा निवृत्ते तावन्नेदमुद्भाव्यम्, न्यूनत्वेनैव वादिनिग्रहात् तदुद्भावने वादिनिवृत्तेश्च। न च न्यूनत्वे तदुपजीव्यम्। असाधारण्यव्यतिरेकेणापि
तदुद्भावनात्। न च व्यतिरेकिप्रयोगे तदुपन्यासः। व्याप्तिपक्षधर्मतयोरप्रतिक्षेपेऽकिञ्चित्करत्वात्, स्वार्थानुमाने च सर्वसपक्षव्यावृत्तिरेव दोष इत्युक्तमिति ।
इति असाधारणपूर्वपक्षः ॥

असाधारणसिद्धान्तः।
उच्यते  । शब्दत्वं साध्यवतस्तदभाववतश्च निवृत्तत्वेन ज्ञातमर्थाद्व्यतिरेकितया वा पक्षे साध्यं तदभावञ्च साधयेत् अविशेषात्, अन्यथा पक्षवृत्तित्वानुपपत्तिरिति
साध्यतदभावोत्थापकतया स्वार्थानुमानेऽसाधारणो दोषः। सत्प्रतिपक्षे द्वौ हेतू तथा, अत्र त्वेक एवेति तयोर्भेदः । असाधारणेन व्यतिरेकिप्रयोगे परस्य सर्वसपक्षव्यावृत्तत्वमात्रमुद्भाव्यम्,
साध्याभावोत्थापकत्वात् , न तु विपक्षव्यावृत्तत्वमपि, प्रतिकूलत्वात् , व्यर्थत्वाच्च ।

यद्वा विपक्षव्यावृत्ततया साध्यमिव सपक्षव्यावृत्ततया साध्याभावमपि साधयेदिति दृष्टान्ततया प्रतिबन्दितया वा तदुद्भावनमपि। लक्षणन्तु सर्वसपक्षव्यावृत्तत्वम्,
न तु विपक्षव्यावृत्तत्वमपि, व्यर्थविशेषणत्वात् । विरुद्धमप्यनेनोपाधिना असाधारणमेव । अन्यथैतदवगमे विरुद्धत्वाज्ञाने हेत्वाभासान्तरतापत्तेः ।
इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे असाधारणप्रकरणम्।

अथानुपसंहारिप्रकरणम्।
अनुपसंहारो नासत्सपक्षविपक्षः, सिद्ध्यसिद्धिविरोधात् । नापि केवलान्वयिधर्मावच्छिन्नपक्षकः, केवलान्वयिसाध्यकस्य सद्धेतुत्वात् । व्यतिरेकिसाध्यकस्य तु
साध्यतदभाववद्गामित्वेन साधारणत्वात् । अन्यथा संशयाहेतुत्वेनानैकान्तिकता न स्यात्। सर्वं क्षणिकं सत्त्वादिति साध्याप्रसिद्ध्या व्याप्यत्वासिद्धमपार्थकं वा,
साध्यप्रसिद्धौ तु साधारणमेव । न च पक्षान्यसाध्यवत्तदन्यवृत्तित्वं पक्षातिरिक्तसाध्याभाववद्वृत्तित्वं वा साधारणत्वम्, व्यर्थविशेषणत्वात् । न च विरुद्धं विशेषणस्य
व्यावर्त्यमित्युक्तम् ।

नाप्यत्यन्ताभावप्रतियोगिसाध्यकत्वे सति केवलान्वयिधर्मावच्छिन्नपक्षकत्वम्। सर्वमभिधेयं मेयत्वादित्यत्र विप्रतिपत्त्या पक्षतादशायां पक्षे
साध्यानिश्चयेनानुपसंहारिण्यव्यापकत्वात् ।

अथ पक्षातिरिक्ते व्याप्तिग्रहानुकूलाप्रतीतसहचारोऽनुपसंहार्यः। यदि च पक्षे व्याप्तिग्रहः कथञ्चित्, तदा शब्दोपदर्शितव्याप्तिकानुमानवदभेदानुमानवच्च सद्धेतुरेवेति
चेत् , न । तत्रैव सद्धेतावतिव्याप्तेः। सर्वस्य पक्षत्वे पक्षातिरिक्ताप्रसिद्धेः। असाधारणविरुद्धयोरतिव्याप्तेश्च । दूषकतायां व्यर्थविशेषणत्वाच्च । न च दूषकतानैकान्तिकत्वेन
न प्रत्येेकमिति वाच्यम् । अर्थगत्या व्यर्थविशेषणत्वात् ।

नापि विप्रतिपत्तिविषयमात्रवृत्तित्वम्। केवलान्वयिसाध्यके अव्याप्तेः, सर्वस्य पक्षत्वे मात्रार्थाभावादिति ।
इति अनुपसंहारिपूर्वपक्षः।

अनुपसंहारिसिद्धान्तः।
उच्यते। व्याप्तिग्रहानुकूलैकधर्म्युपसंहाराभावो यत्र स हेत्वभिमतोऽनुपसंहारी। स चान्वयेन व्यतिरेकेण वा सर्वस्य पक्षत्वे दृष्टान्ताभावात् घटोऽनित्यो
घटाकाशोभयवृत्तिद्वित्वाश्रयत्वादित्यादौ साध्यसाधनसाहचर्याज्ञानात् तस्य विरुद्धत्वाज्ञानदशायामनुपसंहारित्वस्येष्टत्वात्।

केवलान्वयिधर्मावच्छिन्नपक्षको वा। सर्वमभिधेयं प्रमेयत्वादिति सद्धेतौ  न केवलान्वयी पक्षतावच्छेदकः निश्चितसाध्यवद्वृत्तित्वात्। विप्रतिपत्त्या साध्यानिश्चयदशायां
पक्षत्वे तदनुपसंहार्येव। व्यतिरेकिसाध्यके साध्याभाववद्वृत्तित्वाज्ञानदशायामिदं दूषणम्। तदवगमेऽपि साधारणसङ्कर एव। एवं व्याप्यत्वासिद्धेर्ज्ञाने। तदुद्भावने  चायं
व्यभिचारवदुपजीव्यत्वाददोषः। घटाकाशोभयवृत्तिद्वित्वाश्रयत्वञ्च विरुद्धमेव ।  एतेनानुपसंहारित्वप्रतिसन्धाने यदि व्याप्तिग्रहस्तदानुमितिरेव तदभावे व्याप्यत्वासिद्धिरेवेति
निरस्तम्,उपजीव्यत्वादिति।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे अनुपसंहारिप्रकरणम्।

81

अथ विरुद्धप्रकरणम्
विरुद्धो न साध्याभावव्याप्यः, संयोगादिसाध्यके सद्धेतावतिव्याप्तेः । नापि साध्यवन्निष्ठात्यन्ताभावप्रतियोगिव्याप्यत्वं तत्त्वम्। इदं द्रव्यं गुणवत्त्वादित्यादौ
संयोगादिव्याप्येऽतिव्याप्तेः । किन्तु साध्यासमानाधिकरणसाध्याभावव्याप्यः साध्यवदन्योन्याभावव्याप्यो वा । साध्याभावत्वं साध्यविरोधित्वमात्रं भावाभावसाधारणम्।
तेनाभावे साध्येऽभावाभावस्य भावत्वेऽपि नाव्याप्तिः । अभावाभावोऽभावप्रतियोगिनिरूप्यत्वेन भावभिन्न एव वा । न च भावत्वेनैवोपपत्तौ किमधिकेनेति वाच्यम् ।
बाधकं विना अभावप्रतीतेः प्रमात्वात् । अन्यथा अत्यन्ताभावान्योन्याभावयोरप्रसिद्धिः ।

अथ साध्यहेत्वोर्विरोधे पक्षे साध्यसत्त्वे हेत्वसिद्धिः। हेतुसत्त्वे साध्याभावसिद्धौ बाधः । न च प्रमाणान्तरेण साध्याभावसिद्धौ बाधो न हेतुत्वेनैवेति वाच्यम्।
विशेषणवैयर्थ्यादिति चेत् , न । हेतोः पक्षे साध्याभावबाधानुपस्थापनेऽपि प्रथमोपस्थितविरोधस्यैव उपजीव्यत्वेन दोषत्वात् ।

ननु साध्याभावसम्बन्धो व्यभिचार एव दोषो न तु तन्नियतत्वमपि, गौरवात् असाधकत्वे व्यर्थत्वाच्च । न च साध्यासहचरितस्य साध्याभावसहचरितस्य वा
गमकत्वभ्रमरूपायामशक्तौ विशेषोऽस्ति, येनाशक्तिविशेषोन्नायकतया न व्यर्थविशेषणता । न चानैकान्तिकसामान्यलक्षणे विपक्षवृत्तित्वं न विशेषणम् , असाधारणाद्यव्याप्तेः,
साधारणन्तु सपक्षवृत्तित्वसहितमिति वाच्यम् । विपक्षगामित्वस्यैव साधारणत्वात् अधिकस्य व्यर्थत्वात् । न च विरुद्धं व्यावर्त्यम्, विपक्षगामित्वेनात्रैव तदन्तर्भावात्।
अथानैकान्तिके विपक्षसम्बन्धो न दूषकताबीजम्  असाधारणाद्यव्याप्तेः । न च तत्रान्यदेव बीजम् , हेत्वाभासाधिक्यापत्तेरिति चेत्, अस्तु तावदेवम्। तथापि
साधारणे विरुद्धप्रवेशो वज्रलेप एव ।

अन्येतु विरुद्धलक्षणे न व्यर्थत्वम् , साधारणस्य व्यवच्छेद्यत्वात् । नाप्यसाधकतानुमितौ, एतस्यापि व्याप्यत्वात् । नीलधूमादौ च व्याप्तिरस्त्येवेति न
स्वार्थानुमाने दोषः। परस्य तु व्यर्थत्वमधिकम् । न च विरुद्धत्वादित्यत्र शब्दाधिक्यमिति।

तन्नअर्थो हि लिङ्गम् । न च व्यभिचारावारकविशेषणावच्छेदेनापि व्याप्तिः , गौरवादिति वक्ष्यते। न चार्थगत्या व्यर्थत्वेऽपि विरुद्धत्वादित्यत्र उद्भावनाशक्यत्वम्।
आवश्यकतद्विवेचने तदुद्भावनस्य शक्यत्वादिति। हेतुद्वयोपन्यासे चाधिकम् , प्रथमेन द्वितीयस्य कृतकर्तव्यतया दुष्टबीजत्वात् । न च नीलधूमादित्यादौ विशिष्टकर्र्तव्यमन्येन
केनापि कृतम्। धूमवत्त्वादित्यनेनैव कृतमिति चेत् , न। तथानुपन्यासात् । अन्यथा नीलानन्वयापत्तेः ।

अपरे  तु साध्यानवगतसहचारः साध्याभावसहचारी विरुद्धः । अन्यथा पृथिव्यां मेयत्वेनेतरभेदानुमानं न विरुद्धं स्यात् , साध्याभावाव्याप्यत्वात् । न च
तत्साधारणम् , सपक्षासत्त्वात् । न च साध्यसहचाराज्ञानदशायां साधारणातिव्याप्तिः, तदा तस्यापि विरुद्धत्वादिति प्राहुः ।

तन्न। विपक्षगामित्वमात्रं दूषकताप्रयोजकमित्युक्तत्वात् । अत एव व्यभिचरितो व्यतिरेकी अनैकान्तिक एव । नापि साध्याभावसाधकत्वम् , तत्प्रमापकत्वं वा।
साध्याभावसम्बन्धबुदिं्ध विना तदज्ञानात् । नापि साध्यवदन्यत्वव्याप्यत्वम् , व्याप्यत्वविवेचने व्यर्थविशेषणत्वात्। नापि स्वव्यापकाभावप्रतियोगिसाध्यकत्वम् , साध्याभावस्य
हेतुव्यापकत्वप्रतीतौ हेतुसाध्याभावसम्बन्धभानस्यावश्यकत्वात् ।

॥ इति विरुद्धपूर्वपक्षः॥
अथ विरुद्धसिद्धान्तः

उच्यते। साध्यव्यापकाभावप्रतियोगित्वं विरुद्धत्वम्। न च प्रतियोगिनोरनन्वये भासामान एव तदभावयोर्व्याप्तिग्रहः भिन्नग्राहकसामग्रीकत्वात् । अन्यथा
व्यतिरेकिविलयापत्तेः ।

यद्वा वृत्तिमतः साध्यवदवृत्तित्वं साध्यवद्वृत्तित्वानधिकरणत्वं साध्यासमानाधिकरणधर्मत्वं साध्यवद्वृत्तित्वानधिकरणधर्म्मत्वं वा तत्त्वम् । न च व्यतिरेक्यतिव्याप्तिः।
तत्र साध्याप्रसिद्ध्या तथा ज्ञानविरहात् । असाधारणे च संकर एव । अनेनापि रूपेण तस्य दोषत्वात् । न च साध्यवद्वृत्तित्वे सति वृत्तिमत्त्वज्ञानात्
साध्याभाववद्गामित्वज्ञानमावश्यकम् , तेन विना साध्यवद्वृत्तित्वाज्ञानादिति वाच्यम् । उपजीव्यत्वेन भिन्नत्वात् । उपजीव्यत्वेऽपि साध्यवति न वर्र्तत इति ज्ञानं न स्वतो
दूषकमिति चेत् , न । असहचारज्ञानस्य विरोधितया व्याप्तिग्रहप्रतिबन्धकत्वात् , व्यभिचाराज्ञानविरोधित्वेन व्यभिचारज्ञानवत् ।

ननु विरुद्धस्य स्वार्थानुमानदोषत्वेऽपि परार्थानुमानेऽपार्थकत्वम् , अयोग्यताज्ञानेन निश्चितानन्वयादिति चेत् , न । अयोग्यताज्ञानस्य विरुद्धत्वज्ञानेपजीवकत्वेेन
तस्यैव दोषत्वात् बाधेऽप्येवम् ।

स चायं विधिसाधने त्रिविधः - - साक्षात्साध्याभावव्याप्यत्वात् साध्यव्यापकाभावव्याप्यत्वात् साध्यव्यापकविरुद्धोपलम्भात् । यथा धूमवानयं योग्यधूमवत्तया
अनुपलभ्यमानत्वात् निरग्निकत्वात् जलाशयत्वात् । न च सर्र्वत्र साध्यव्यापकविरुद्धोपलम्भ इति न त्रैविध्यम् । एतदज्ञानेऽपि साध्याभावतद्व्यापकाभावव्याप्यत्वेनापि
ज्ञातस्य दोषत्वात् । न च धूमवानयं तदभाववत्त्वादिति त्रयाधिकम् , स्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं हि व्यापकत्वम् । तच्चाभेदेऽपि धूमवानयं
धूमाभाववत्तयोपलभ्यमानत्वात् तद्वत्तया अनुपलभ्यमानत्वादित्यनैकान्तिकमेव ।

82

निषेधसाधनेऽपि त्रिविधः - - प्रतियोग्युपलम्भात् साध्यव्यापकाभावोपलम्भात् साध्यव्यापकविरुद्धोपलम्भात्। यथा निरग्निकोऽयमग्निमत्त्वात् धूमाभावशून्यत्वात्
धूमवत्त्वात् । सर्वश्चायं विशेषणद्वारापि । यथा कृष्णागुरुप्रभववह्निमानयं कटुकासुरभिपाण्डुरधूमवत्त्वात् । अयञ्च बाधाश्रयासिद्धस्वरूपासिद्धासाधारणसङ्कीर्णः
क्वचित्।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानखण्डे विरुद्धप्रकरणम्॥
अथ सत्प्रतिपक्षप्रकरणम्।

सत्प्रतिपक्षपूर्वपक्षः।
सत्प्रतिपक्षत्वं न समानबलबोधितसाध्यविपर्ययलिङ्गत्वम्। परस्परप्रतिबन्धेनोभयोरबोधकत्वात् । बलञ्च न सपक्षसत्त्वादि, व्यतिरेकिण्यभावात्। नापि समानव्याप्ति-पक्षधर्मतावत्त्वम्। विरोधेनैकत्र तद्भङ्गनियमात् । नापि व्याप्तिपक्षधर्मतया ज्ञातत्वम्। विरोधिव्याप्तिपक्षधर्मविशिष्टज्ञानयोरन्यतरभ्रमत्वनियमेन नित्यत्वव्याप्तश्रावणत्वादि-वैशिष्ट्याप्रसिद्ध्या आरोपयितुमशक्यत्वात् । न च साध्यव्याप्यस्य पक्षधर्मता पक्षधर्मस्य वा साध्यव्याप्यता आरोप्येति वाच्यम् । एकत्र तदुभयाभावात् विशिष्टस्याप्रसिद्ध्या
तद्वैशिष्ट्यस्यारोपासम्भवात्। नाप्यनिर्र्धारितविशेषेण बोधितसाध्यविपर्ययकत्वम् , उभयोरबोधकत्वात् । विशेषश्च न व्याप्तिभङ्गरूपः, एकत्र तद्भङ्गनियमात् ।
इति सत्प्रतिपक्षपूर्वपक्षः ॥

अथ सत्प्रतिपक्षसिद्धान्तः।
उच्यते। साध्यविरोध्युपस्थापनसमर्थसमानबलोपस्थित्या प्रतिरुद्धकार्यलिङ्गत्वं तत्त्वम्। बलञ्च व्याप्तिपक्षधर्मते । विरोधिबोधकान्यगमकतौपयिकरूपसम्पत्तिमत्तया
ज्ञायमानेन प्रतिरुद्धकार्यत्वं वा तत्त्वम् ।

स्थापनाया व्याप्तिपक्षधर्मत्वमुभयवादिसिद्धम् , वादिना तदभावानुपन्यासात्। द्वितीयस्य तत्त्वमन्यतरासिद्धमिति प्रथमेन द्वितीयं बाधितमिति स्वार्थानुमान एवावश्यं
दोष इत्येके।

तन्न। एकदा निरन्तरयोर्वा उभयोर्व्याप्तिपक्षधर्मतया ज्ञातयोः प्रतिपक्षत्वात् । युगपदुपस्थितेः कारणवशेन स्वपरसाधारणत्वात् ।
अथ वस्तुनोऽद्व्यात्मकत्त्वेन व्याप्तिपक्षधर्मताभङ्ग एकत्रावश्यक इति स एव दोषः । न च तयोर्विरोधभङ्गेऽप्युपपत्तेर्न व्याप्त्यादिभङ्गनियम इति वाच्यम् ।
अविरोधेऽप्यनुमित्यविरोधात् , विरोधे तु व्याप्त्यादिभङ्गनियमादिति चेत् , न । प्रतिरुद्धत्वज्ञानानन्तरं व्याप्त्यादिभङ्गज्ञानमित्युपजीव्यत्वेन व्यभिचारवदस्यापि
दोषत्वात्।

ननु साध्यतदभावयोरिव तद्व्याप्यत्वेनावधारितयोर्विरोधादेकत्र न निश्चयः, किन्तु संशयः। निर्णये वान्यतरव्याप्तिसंशय इति व्याप्यत्वासिद्धिरिति चेत् , न।
उभयोरेकत्र निश्चयानन्तरमन्यतरव्याप्तिसंशय इति उपजीव्यत्वेनास्य भिन्नत्वात् । दूषकताबीजन्तु समबलविरोधिसामग्रीप्रतिबन्धेन निर्णयाजनकत्वम् , न तु व्याप्तिपक्षधर्मताविरह
एव, सद्धेतावपि सत्प्रतिपक्षत्वात्। एकत्र व्याप्तिभङ्गज्ञानद्वारा वास्य दूषकत्वम् । चक्षुरादेश्च नानुमानेन प्रतिरोधः तदुपस्थितावपि फलदर्शनेन तस्याधिकबलत्वात् ।
नन्वेवं वादिवाक्यमात्रस्य प्रतिरोधकत्वेनानुमानमात्रोच्छेदः। न च विरोधिवाक्यस्य न्यूनबलत्वे लक्षणायोगः, समानबलत्वे प्रतिरोध एव, अधिकबलत्वे
नरशिरःशौचानुमानवत्तेन बाध एवेति वाच्यम् । अगृह्यमाणविशेषदशायां प्रतिवादिवाक्येन सर्वानुमानप्रतिरोधापत्तेः। अनुमानात् पूर्वं पश्चाद्वा अनुमानान्तरेण तस्य
न्यूनाधिकबलत्वानिरूपणात् । निरूपणे वानुमानवैयर्थ्यापत्तेः।

मैवम् । विरोधिवाक्यमात्रस्य समबलत्वाभावात् । उक्तं हि " "व्याप्तिपक्षधर्मते बलम्" " इति ।
प्रत्यक्षादेर्लिङ्गभावेनैवानुमितिप्रतिरोधः, कथायां तदुपन्यासानर्हत्वात् । यत्तु  विरोधिव्याप्यद्वयस्यासाधारणत्वात् संशयजनकत्वं दूषकताबीजमिति । तन्न । एकैकं
हि सत्प्रतिपक्षं न तु विशिष्टम् , तादृशञ्च न संशायकमिति। अनुमितिद्वयस्य प्रामाण्याग्राहकाप्रवृत्तिर्दूषकताबीजमित्यन्ये।  तन्नपरस्परप्रतिबन्धेनानुमितेरवानुत्पत्तेः ।
रत्नकोषकारस्तुसत्प्रतिपक्षाभ्यां प्रत्येकं स्वसाध्यानुमितिः संशयरूपा जन्यते । विरुद्धोभयज्ञानसामग्र्याः संशयजनकत्वात् संशयद्वारा अस्य दूषकत्वम् । न च
संशयरूपा नानुमितिः बाधस्येव विरोध्युपस्थितेरनुमितिसामग्रौविघटकत्वेनावघारणात् अन्यथा बाधेऽप्यनुमित्यापत्तेरिति वाच्यम् । अधिकबलतया बाधेन प्रतिबन्धात्
तुल्यबलत्वादनुमितिः स्यादेव सामग्रीसत्त्वात् । साध्याभावबोधस्य च तत्र प्रतिबन्धकत्वं न तु तद्बोधकस्य चक्षुरादेः । प्रत्येकं निर्णायकत्वेनावधारितात् कथं संशयःइति
चेत्, न। प्रत्येकाद्धि ज्ञानुमुत्पद्यमानमर्थात् संशयः न तु प्रत्येकं संशयजनकत्वमिति मेने।

83

तन्न । साध्यतदभावयोर्विरोधेन यथैकज्ञानस्यापरधीप्रतिबन्धकत्वं तथा साध्याभावव्याप्यवत्त्वस्यापि साध्यविरोधित्वात्तद्बुुद्धेरपि साध्यधीप्रतिबन्धकत्वात् , विरोधिज्ञानत्वस्य
प्रतिबन्धकत्वे तन्त्रत्वात् ।

निबन्धे तु हेत्वाभासानां फलद्वारकं लक्षणम्। अनैकान्तिकानामन्वयाद्व्यतिरेकाद्वा कोट्प्युपस्थापकतया संशयः फलम्। विरुद्धस्य साध्यविपरीतस्य ज्ञानं
अपक्षधर्मोऽपि विरुद्धोऽन्यत्र विपरीतज्ञानसमर्थ एव बाधेऽन्यतो विपरीतज्ञानं न तु हेत्वभिमतादेः। नित्यो घटः कार्यत्वादिति विरुद्धे बाधसङ्करेऽप्यदोषः।
असिद्धेऽनैकान्तिकादिचतुष्टयज्ञानान्यलिङ्गत्वज्ञानम्। बाधे पक्षधर्महेतौ व्याप्तिबाधः। प्रकरणसमे तु न व्याप्तिपक्षधर्मताबाधः फलम्। नाप्यलिड्गत्वज्ञानम् , व्याप्त्यादिबुद्धिसत्त्वात्।
नापि विपरीतबुद्धिः, स्वसाध्यविपरीतेनानियमात् । नापि संशयः, प्रत्येकं कोटिद्वयानुपनयात् । किन्तु कथमत्र तत्त्वनिर्णय इति जिज्ञासा फलम्।
तथाच प्रकृतसाध्यहेत्वोः किं तत्त्वमिति जिज्ञासाजनिका व्याप्तिपक्षधर्मतोपस्थितिः प्रकरणसमः । न ह्यनुपस्थिते प्रतिपक्षे एकस्माज्जिज्ञासा, किन्तु निर्णय एव ।
अथज्ञातुमिच्छा जिज्ञासा । सा च ज्ञानेष्टसाधनताज्ञानात् संशयाद्वेति कथं तेन विना विरोधिसाधनज्ञानमात्रादिति चेत्, न। असति प्रति पक्षे न जिज्ञासा, सति
तु सेत्यन्वयव्यतिरेकाभ्यां प्रकरणसमस्यापि जिज्ञासजनकत्वात्। न चानैकान्तिकातिव्याप्तिः । तत्र हि संशयद्वारा साध्ये जिज्ञासा , अत्र तु हेतुसमीचीनत्व इति ।
ननुपरामर्शयोरेकदानुत्पादात् कथं प्रतिरोधः। क्रमोत्पन्नयोरेकदा सत्वादिति चेत्, न। एकानन्तरमपरहेतुव्याप्ति-पक्षधर्मताज्ञानाभ्यामग्रिमव्याप्तिविशिष्टज्ञानोत्पत्तिकाले
पूर्वपरामर्शनाशात् । न चोभयहेतुव्याप्तिपक्षधर्मताज्ञानानां परस्परप्रतिबन्धात् परामर्शोत्पाद इति वाच्यम्। व्याप्त्यादिज्ञानचतुष्टयस्य यौगपद्याभावात् ।
यत्तुव्याप्तिद्वयसंस्कारोद्बोधकहेतुद्वयज्ञानयोः परस्परप्रतिबन्धात् नोभयव्याप्तिस्मृतिरिति दूषकताबीजमिति ।  तन्न  । व्याप्तिस्मृतिं विना सत्प्रतिपक्षाभावात्
वादिभ्यां व्याप्त्युद्भावनाच्चेति ।

मैवम्  । हेतुद्वयसमूहालम्बनाद्युगपदुभयव्याप्तिस्मृतावुभयपरामर्शरूपं ज्ञानमुत्पद्यते। अत एकदा विरुद्धकार्यद्वयकरणान्नैकमपि कार्यमुत्पद्यते। तादृशपरामर्शश्च
स्वार्थानुमाने प्रत्यक्षादितः, परस्य तु वाद्युपन्यस्तन्यायोत्थापितप्रमाणावतारात् ।

अस्य च केवलान्वयिन्यपि सम्भवः। घटोऽभिधेयः प्रमेयत्वादित्यत्राभिधेेयत्वं घटनिष्ठात्यन्ताभावप्रतियोगि जात्यन्यत्वे सति घटमात्रवृत्त्यन्यधर्मत्वात् घटान्योन्याभाववत्
पटरूपवच्च। घटनिष्ठात्यन्ताभावोऽभिधेयत्वप्रतियोगिकः घटवृत्तिनित्याभावत्वात् घटनिष्ठान्योन्याभाववदिति विशेषादर्शनदशायां । न च पक्षैक्यमपि तन्त्रम्। विरोधस्यैव
दूषकत्वेऽधिकस्य व्यर्थत्वादिति ॥

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानाख्यद्वितीयखण्डे सत्प्रतिपक्षप्रकरणम् ॥
अथासिद्धिप्रकरणम्

अथासिद्धिपूर्र्वपक्षः।
असिद्धिस्तु न व्याप्तिपक्षधर्मताविरहः प्रत्येकमननुगमात् । अथ प्रत्येकाभावेऽनुगतो व्याप्तिपक्षधर्मताविशिष्टाभावोऽसिद्धिः। यद्यपि विशिष्टस्यान्यत्वे प्रत्येकाभाव
एव स इत्यननुगमः तथाऽपि विशेषणावच्छिन्नप्रतियोगिको विशेष्याभावो विशेषण विशेष्यसम्बन्धाभावो वा विशिष्टाभावोऽनुगत इति चेत् , न । विशिष्टाभावाज्ञानेऽपि
व्याप्त्यादिप्रत्येकाभावज्ञाने उद्भावने चानुमितिप्रतिबन्धो वादिनिवत्तिश्चेति तत्प्रत्येकाभावाव्याप्तिः। अन्यथा तेषां हेत्वाभासान्तरतापत्तेः। न च विशिष्टाभावधीद्वारा
प्रत्येकाभावो दोषो न तु स्वत इति वाच्यम् । प्रत्येकाभावस्य स्वत एव दोषत्वसम्भवात् ।

वस्तुतोविशिष्टाभावो दोष एव न। प्रत्येकस्य समर्थत्वे तेनैवान्यथासिद्धेर्व्यर्थविशेषणत्वात् । प्रत्येकाभावमज्ञात्वा न विशिष्टाभावज्ञानमित्युपजीव्यत्वाद्,
विशिष्टाभावानुद्भावनेऽपि प्रत्येकोद्भावने वादिनिवृत्तेश्च । अत एव व्याप्तिपक्षधर्मताविशिष्टज्ञानविषयाभावत्वं प्रत्येकाभावानुगतमसिद्धत्वम्। व्यभिचारादावसिद्धत्वेऽप्युपजीव्यत्वेन
प्राथम्यात्तदुद्भावने वादिनिवृत्तेश्च स स्वत एव दूषकः। तत्र व्याप्तिसिद्ध्यर्थमुपाधौ तूद्भाविते विप्रतिपद्यतेऽपि। तस्य दुरूहत्वात् व्यभिचारेणैव तदन्वयाच्च।
यदि च व्यभिचारादिकमज्ञात्वाप्यसिद्धिबुद्धिः तथाप्युपधेयसङ्करेऽप्युपाधेरसङ्कर एवेति निरस्तम् । व्यर्थविशेषणत्वादेव।

एतेनव्याप्तिपक्षधर्मतान्यतराभावोऽसिद्धिरिति प्रत्युक्तम् । अन्यतरत्वाज्ञानेऽपि प्रत्येकाभावस्य दोषत्वात् व्यर्थविशेषणत्वाच्च ।
यत्तु व्याप्तिपक्षधर्मताप्रमितिविरहः आश्रयासिद्ध्यानुगतोऽसिद्धिः, तत्प्रमितिसत्त्वे तत्रानुमितिप्रमित्यापत्तेरिति । तदपि व्यर्थविशेषणत्वात् तदज्ञानेऽपि प्रत्येकज्ञानस्य
दोषत्वाच्च निरस्तम् ।

84

वस्तुतस्तुप्रकृतहेतुव्याप्तिपक्षधर्मतावैशिष्ट्यस्य तत्प्रमितेश्चाप्रसिद्ध्या तदभावो ज्ञातुमुद्भावयितुञ्चाशक्य एव। यत्किञ्चिद्व्याप्तिपक्षधर्मताविशिष्टप्रमितिविरहः
सद्धेतुसाधारणः। स्वप्रमितिविरहो यत्किञ्चित्प्रमितिविरहो वा सद्धेतावपि। सकलतत्प्रमितिविरहो दूर्निरूपः। व्यात्यभावादेव तद्ग्रहे स एव दोषः, उपजीव्यत्वात् । यदि च
प्रमितिविरहः स्वरूपसन्नेव दोषः कारणाभावत्वात् तदा व्याप्त्यादिभ्रमादनुमितिर्न स्यात् , न स्याच्च हेत्वाभासता, ज्ञानगर्भतल्लक्षणाभावात् ।
एतेनव्याप्तिप्रमितिपक्षधर्मताप्रमितिविरहान्यतरत्वमसिद्धिः । अन्यतरत्वच्च तदन्यान्यत्वम्, तेनोभयविरहेऽपि नाव्याप्तिरिति निरस्तम् । व्यर्थविशेषणत्वादेव ।
स्यादेतत्  । व्याप्तिपक्षधर्मताभ्यां निश्चयः सिद्धिः तदभावोऽसिद्धिः। अत एवाव्याप्तेऽपक्षधर्मे च तदारोपरूपा सिद्धिरित्यनुमितिः, न तु व्याप्तपक्षधर्मादपि
तदनिश्चये । न चैवं हेतोरप्याभासत्वं तदाभासस्यापि हेतुत्वं स्यात् । दशाविशेषे इष्टत्वात्। सेयं स्वरूपसती दूषिका, कारणाभावत्वात् । न च व्याप्त्यादिप्रत्येकनिश्चयाभाव
एव दूषकः , आवश्यकत्वादिति वाच्यम्। विशिष्टनिश्चयस्य हेतुत्वे तदभावस्य कार्यानुत्पादकत्वादिति ।

मैवम्  । एवं सव्यभिचारादेरप्यत्रैवान्तर्भावप्रसङ्गात् । असिद्धेः स्वरूपसत्या एव दोषत्वे स्वज्ञानार्थं व्यभिचाराद्यनुद्भावनात् । यदि च तस्मात् सिद्धिर्नोपपद्यत
इति तस्योपजीव्यत्वम् , तदाश्रयासिद्ध्यादिज्ञानात् सिद्धिर्नेति स एव पृथग्दोषः स्यात् । असिद्धिश्च ज्ञाता परस्योद्भाव्येति
स्वज्ञानार्थमुद्भावितासिद्धिनिर्वाहार्थञ्चाश्रयासिद्धिज्ञानमावश्यकम्। कथञ्च हेतुतदाभासविवेकः ? सिद्धौ द्वयोरपि हेतुत्वात् असिद्धौ तदाभासत्वात् । व्यभिचारादेःसद्धेतौ
सिद्धिमखण्डयतश्च हेत्वाभासत्वाभावात् ।

अथसुषुप्तौ जागरेऽपि व्याप्तिपक्षधर्मतासत्त्वे तदनिश्चयेऽनुमित्यनुत्पादो हेत्वाभासप्रयोज्यः, सव्यभिचारादौ तथावधारणादित्यसिद्धिरज्ञातापि हेत्वाभासः । न
चैवं हेत्वाभासाधिक्यं क्लृप्तान्तर्भावो वा , तेन रूपेण व्याप्त्यसिद्ध्यादेरेव संग्रहादिति चेत्, न। एवं सव्यभिचारादिरप्यसिद्धिः स्यादित्युक्तत्वात्। उपजीवनाद्भेदे
आश्रयासिद्ध्यादिरपि पृथक् स्यात् । सुषप्त्यादावनुमित्यभावः कारणाभावात्। कार्यानुत्पादो हि न प्रतिबन्धकत्वात् , किन्तु कारणाभावादपि। असत्यपि प्रतिबन्धके
वह्न्यभावेन दाहानुत्पत्तेः ।

अथानुमित्यनुत्पादो हेत्वाभासप्रत्युक्त एवेति चेत्, तर्ह्यनुमितौ मनोयोगादिरपि न हेतुः। हेत्वाभासादेवानुमित्यनुत्पादे तद्व्यतिरेकेणानुमित्यनुत्पादाभावात् ,सिद्धेरेव
तद्धेतुत्वे चरमकारणमेव हेतुः स्यात् ।

अन्ये तुगमकतौपयिकप्रतिद्वन्द्विव्याप्तिपक्षधर्मताविरहतन्नियतयोरन्यतरत्वं हेत्वाभासत्वम् । तत्राधिकसमानबलौ बाधप्रतिरोधौ प्रतिद्वन्द्विनौ । व्याप्तिपक्षधर्मताविरहश्चासिद्धिः।
तन्नियतौ च सव्यभिचारविरुद्धौ । न चानयोरप्यसिद्ध्यन्तर्भावः । व्याप्तिविरहनियतत्वेन ज्ञातयोः स्वातन्त्र्येणैव दूषकत्वात् भ्रमे विशेषदर्शनस्यैवेति ।
तन्न  । अत्रापि व्याप्तिपक्षधर्मताविरह एवासिद्धिः पर्यवस्यति। तत्र चोक्तमेवान्यतरत्वञ्च न लक्षणम् , व्यर्थविशेषणत्वात् । हेत्वाभासान्तरबहिष्कृतस्य
व्याप्तिपक्षधर्मतानिश्चयविरोधिनो रूपस्य विवक्षितत्वात् । तच्चाश्रयासिद्ध्यादिकमेवेति ।

इति श्रीमद्गङ्गेशोेपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानाख्यद्वितीयखण्डे असिद्धिपूर्वपक्षः ॥ ॥
अथासिद्धिसिद्धान्तः

उच्यते  । आश्रयासिद्धिः स्वरूपासिद्धिः व्याप्यत्वासिद्धिश्च प्रत्येकमेव दोषः। प्रत्येकस्य ज्ञानादुद्भावनाच्चानुमितिप्रतिबन्धात् । न तु विशिष्टाभावः परामर्शविषयाभावो
वा, व्यर्थविशेषणत्वात् । तस्य ज्ञानमुद्भावनं विनाप्यनुमितिप्रतिबन्धात् । अनुभवसिद्धं हि लक्षणम् , न तु लक्षणानुरोधेनानुभवकल्पना। परामर्शविषयाभावत्वेनानुगतेन
त्रयाणामसिद्धत्वेन संग्रहो महर्षिणा कृत इति न विभागविरोधो हेत्वाभासाधिक्यं वा ।

अत एव ""ये व्याप्तिविरहपक्षधर्मताविरहरूपास्तेऽसिद्धिभेदमध्यमध्यासते तदन्ये च यथायथं व्यभिचारादयः" " इति सिद्धान्तप्रवादोऽपि। न चैवं साक्षात् प्रतिबन्धकत्वेन
बाधप्रतिरोधयोर्व्याप्तिविरहलिङ्गत्वेन सव्यभिचारविरुद्धयोरपि सङ्ग्रहे विभागव्याघातः । स्वतन्त्राभिप्रायस्य निषेद्धुमशक्यत्वात् । अन्यथा शास्त्रे परिभाषोच्छेदापत्तेः ।
सव्यभिचारादेरप्येवं रूपसत्त्वेऽप्युपजीव्यत्वेन पृथक्त्वम्। उपधेयसङ्करेऽप्युपाधेरसङ्करात्

नन्वाश्रयाप्रसिद्ध्या कथमाश्रयासिद्धिरुद्भाव्या । न च शशीयतया गवि श्रृड्गनिषेधवत् व्योमकमलमिति वाच्यम्। शशश्रृङ्गनिषेधो न गवीत्युक्तत्वादिति चेत् ,
व्योमकमलमिति निश्चितानन्वयत्वेनापार्थकम् । आश्रयविशेषणासिद्ध्या चाश्रयासिद्धिरसङ्कीर्णा। व्याप्तिविरहश्च व्यर्थविशेषणादौ।
तदुक्तं- " "एकामसिदिं्ध परिहरतो द्वितीयापत्ते" "रिति।

85

उपाधिस्तु न व्याप्तिविरहः। वह्निव्यापकधूमाव्यापकधर्मस्याप्रसिद्ध्या धूमे तद्विरहासिद्धेेः, किन्तु यावत्स्व व्यभिचारिव्यभिचारिसाध्यसामानाधिकरप्यमनौपाधिकत्वं
व्याप्तिः। साध्यव्यापकसाधनाव्यापकश्च धर्मान्तरं न तु तद्विरहः, अपि तु तन्नियतः। न चैवमुपजीव्यत्वेन उपाधिर्हेत्वाभासान्तरम् , उपजीव्यत्वेऽपि स्वतोऽदूषकत्वेन तदर्थं
परमुखवीक्षकत्वात् । न हि साध्यव्यापकाव्याप्यत्वमनुमितिविरोधि। किन्तु व्यभिचारोन्नयनेन स्वव्यतिरेकेण सत्प्रतिपक्षतया वा। तदाह-" "उपाधाववश्यं व्यभिचारः, उपाधेरेव
व्यभिचारशङ्के" "ति ।

अप्रयोजकान्यथासिद्धौ सोपाधी नासिद्धौ । प्रतिकूलतर्कानुकूलतर्काभावावुपजीव्यत्वे सति स्वतो दूषकावपि न हेत्वाभासौ, स्वरूपसतोरेव प्रतिबन्धकत्वादित्युक्तम्।
॥ इति श्रीमद्गङगेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानाख्यद्वितीयखण्डे असिद्धिसिद्धान्तः॥

अथ बाधपूर्वपक्षः
बाधो न साध्याभाववत्पक्षकत्वम् , पक्षवृत्त्यभावप्रतियोगिसाध्यकत्वं वा, पक्षे साध्याभावज्ञानमात्रस्य प्रमात्वज्ञानं विना अधिकबलत्वाज्ञानेन बाधाभावादिति
वक्ष्यते । अत एव साध्याभाववत्पक्षवृत्तित्वमपि न। असिद्धिसङ्कीर्णबाधाव्याप्तेश्च ।

किन्तु साध्याभाववत्त्वप्रमाविषयपक्षकत्वम् , प्रमितसाध्याभाववत्पक्षकत्वम् , पक्षनिष्ठप्रमाविषयत्वप्रकाराभावप्रतियोगिसाध्यकत्वं वेति। विवक्षितविवेकेन
साध्याभावादिप्रमैव दोषः। सा च प्रमात्वेन ज्ञाता न स्वरूपसती, हेत्वाभासत्वात् । प्रमात्वज्ञानं विना अधिकबलत्वाभावेनादोषत्वात् अप्रमायामपि प्रमात्वज्ञानेऽनुमितिप्रतिबन्धाच्च।
अथसाध्याभाववति पक्षे हेतोः सत्त्वज्ञाने व्यभिचारः, तदज्ञानेऽसिद्धिः संशययोग्यत्वाभावेन पक्षत्वाभावादाश्रयासिद्धिश्च । न च पक्षभिन्ने व्यभिचारो दोषः।
व्यर्थविशेषणत्वात् सर्वोपसंहारप्रवृत्तव्याप्तेः साध्याभाववति साधनमित्यवगमादेव भङ्गात् । न चैवं सन्दिग्धसाध्यदृष्टान्ते सन्दिग्धानैकान्तिकवत् पक्षे व्यभिचारसंशयादनुमानमात्रोच्छेदः
इति पक्षे साध्यसन्देहोऽनुमानाङ्गमिति। व्याप्तस्य पक्षधर्मताज्ञानादनुमित्युत्पादेन संशयनिवृत्तेः । अन्यथा विशेषदर्शनस्य संशयविरोधिता भज्येत । न च पक्षे साध्याभावं
प्रतीत्य व्यभिचारज्ञानमित्युपजीव्यत्वाद्बाधः पृथक्। पक्षे साध्याभावप्रतीतिरेव हि साध्याभावहेत्वोः सम्बन्धोल्लेखिनीत्येकवित्तिवेद्यत्वेन नोपजीव्यत्वम् । अन्यथा
बाधदशायां पक्षे हेतोरज्ञानदसिद्धिरेव ।

न चोद्भावितव्यभिचारनिर्वाहाय बाधोद्भावनमावश्यकमित्युपजीव्यत्वम् , व्यभिचारोद्भावने परं कथन्तानावश्यकत्वात् । तत्त्वे वा तन्निर्वाह्यमेव दूषणं
क्लृप्तत्वात् । वह्निरुष्णः कृतक इत्युद्भावनाद्वह्निरुष्ण इत्युद्भावने लाघवमिति बाधः पृथगिति कश्चित्, तन्न। पक्षे साध्याभावप्रमा स्वार्थानुमाने यदि न दोषः तदा
प्रत्यपि न स्यादविशेषादिति तदुद्भावनस्य दूरनिरस्तत्वात्।

अथोपनीतकाञ्चनमयत्वविशिष्टवह्न्यनुमितेः सल्लिङ्गजन्यायाः आभासत्त्वं हेत्वाभासाधीनम् । न चानुमितेः पूर्वं तत्र व्यभिचारज्ञानम् , विशिष्टस्याप्रसिद्ध्या
तदभावस्याज्ञानात् । अत एव पक्षासिद्धिरपि न । अतः काञ्चनमयवह्न्यभावरूपाद्बाधात् अनुमानाभासत्वम् , व्यधिकरणप्रकारावच्छिन्नप्रतियोगिकश्चात्राभाव इति चेत्
, न। वस्तुतो व्यभिचारस्यापि तत्र सत्त्वात् । ज्ञानञ्च तस्य बाधस्येवानुमित्यनन्तरमेव। किञ्च वह्नौ काञ्चनमयत्वस्यानुमितावेव भाने काञ्चनमयवह्निमानित्यनुमितिर्न
स्यात् , विशिष्टस्य पूर्वमज्ञानात् । वह्नौ लिङ्गस्यासिद्धेः व्यभिचाराच्च । न चानुमितेर्विषयाभावाधीनप्रमात्वम् , किन्तु हेत्वाभासाधीनम् । यस्य हि ज्ञानमनुमितिप्रतिबन्धकं
स हेत्वाभासः । न च साध्याभावो ज्ञातः प्रतिबन्धकः इति न सः हेत्वाभासः ।

वस्तुतस्तुउपनीतस्यानुमितौ भाने मानाभावः, प्रत्यभिज्ञादौ च प्रतीतिबलेन तत्कल्पनम् । अन्यथा पूर्वोपस् िथतसकल पदार्थभाने यथार्थानुमित्युच्छेदः। अपिचैवं
परार्थानुमानेऽप्युपनीतभाने बाधितोऽर्थ उपनीतोऽयं मम भात इत्युद्भावनादेव विजयेत वादी। उद्देश्यानुमितेरप्रतिबन्धान्न तत्र बाधो दोष इति चेत्, तुल्यं स्वार्थानुमानेऽपि।
अत एव यत्र सामान्यतो दृष्टानुमानमेवेतरबाधसहायं विशेषानुमापकं तत्र बाधकानामाभासत्वे तत्प्रयुक्तं सामान्यस्यादृष्टाप्याभासत्वमिति बाधस्यासाङ्कर्यात्। न च  यदि
विशेषविप्रतिपत्तौ सामान्यप्रतिज्ञा तदा अर्थान्तरम् , सामान्यविप्रतिपत्तौ तु नेतरत्र बाधकापेक्षेति वाच्यम् । स्वार्थानुमान एवैवं बाधासङ्करस्योक्तत्वादित्यपास्तम्
अनुमित्यप्रतिबन्धेन तत्र बाधस्यादोषत्वात् ।

ननु पक्षे साध्याभावग्रहवत्साध्याभावव्याप्यग्रहोऽपि दूषको, विरोधित्वाविशेषात् । तथाच साध्याभावसम्बन्धो व्यभिचारः । साध्याभावव्याप्यसामानाधिकरण्यं
बाधः, साध्याभावव्याप्यञ्च वह्नित्वादिकमेवेति चेत् , न। पक्षे हि साध्याभावे ज्ञायमाने ज्ञाते वा यदि साध्याभावव्याप्यसामानाधिकरण्यबुद्धिस्तदा व्यभिचार एव ।
अथ पक्षे साध्याभावबुदिं्ध विनैव सा, तर्हि हेतुसाध्याभावव्याप्ययोरगृह्यमाणविशेषयोः सत्प्रतिपक्षत्वम् । अथ तुल्यबलेन सत्प्रतिपक्षोऽधिकबलेन बाध इति चेत्,
न। गमकतौपयिकरूपसाकल्यं हि बलम् तच्च द्वयोर्ज्ञातमिति कथं न सत्प्रतिपक्षत्वम्। गमकताबहिर्भूतञ्च न बलम् । अथ साध्याभावव्याप्यबुद्धेरन्यथासिद्धत्वं बलं तदा
ततः साधनवति पक्षे साध्याभावानुमितावनैकान्तिकत्वमेव। पक्षे साध्याभावग्रहवदिति यदुक्तं तदप्यसिद्धम्। तस्य दोषत्वानभ्युपगमात् , अन्यथा हेत्वाभासान्तरतापत्तिः।
अथ हेतुतः साध्यसिद्धिसम्भावनायां व्यभिचारासिद्धेः बाधेन हेतोरसाधकत्वे सिद्धे व्यभिचारसिद्धिरित्युपजीव्यत्वाद्बाधः पृथक् । अन्यथा हेतोरसाधकत्वे सिद्धे
साध्यसिद्धिसम्भावनाविरहाद्व्यभिचारबुद्धिः, तस्याञ्च सत्यां हेतोरसाधकत्वधीरित्यन्योन्याश्रय इति चेत् , न । साध्यसिद्ध्युन्मुखहेतुज्ञानस्य प्रमितसाध्याभावसहचरितहेतुविषयत्वेन
व्यभिचारज्ञानतयाऽदूषकत्वात् । तथापि व्यभिचारे साध्याभावप्रमा तन्त्रम्, तां विना तदभावादिति सैव दोष इति चेत्, सत्यम् , किन्तु साध्याभावप्रमा व्यभिचारज्ञानत्वेन

86

दूषिका , क्लृप्तत्वात् , न तु स्वतन्त्रा। अत एव पक्षे साध्याभावज्ञानत्वेन प्रतिबन्धकत्वं न तु साध्याभावसमानाधिकरणसाधनज्ञानत्वेनेति प्रत्युक्तम् । तस्य
लघुत्वेऽप्यक्लृप्तत्वात्।

अथ प्रत्यक्षादौ प्रमामात्रं प्रति स्वातन्त्र्येण बाधो दोषत्वेन क्लृप्त इत्यनुमितावपि स एव दोष इति चेत् , न तर्हि हेत्वाभासः, अनुमित्यसाधारणदोषस्य तत्वात्।
मनोयोगाभववत् स्वरूपसत एव प्रतिबन्धकत्वात् । हेतुत्वाभिमतावृत्तित्वेनासाधकतालिङ्गत्वाभावाच्च। बाधितपक्षकत्वं लिङ्गमिति चेत्, न। अन्यत्र तथा दूषकत्वाकल्पनात्
॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानाख्यद्वितीयखण्डे बाधपूर्वपक्षः॥ ॥

अथ बाधसिद्धान्तः।
उच्यते  । पक्षे साध्याभावनिश्चयः साध्याभावज्ञानप्रमात्वनिश्चयात्। ज्ञानमात्रादर्थनिश्चये प्रामाण्यग्रहवैयर्थ्यम्। भ्रमत्वेन ज्ञातादर्थनिश्चयप्रसङ्गश्च ।
तथाचोपजीव्यत्वेनाधिकबलत्वेन वा पक्षे साध्याभावज्ञानस्य प्रमात्वनिश्चये सव्यभिचारो नान्यथेत्युभयथापि साध्याभावनिश्चयाधीनव्यभिचारज्ञानात् पूर्वं ज्ञातं
साध्याभावज्ञानप्रमात्वमेव दोषः, उपजीव्यत्वात् ।

यदि च पक्षे साध्याभावज्ञानस्य प्रमात्वनिश्चयो नानुमितिविरोधी तदा व्याप्तिपक्षधर्मतया हेतुज्ञानं विशेषदर्शनत्वेन पक्षे साध्याभावज्ञानं परिभूय साध्यं साधयेदेव
पर्वते धूम इव वह्निम् । न च साध्याभावबुद्धिरेवागृह्यमाणविशेषा सत्प्रतिपक्षवत् प्रतिबन्धिकेति वाच्यम् । रजते नेदं रजतमिति ज्ञानेऽपि विशेषदर्शनेन रजतत्वस्य
शङ्खे पीतत्वज्ञाने शुक्लत्वस्य चानुमानात् । वादिवाक्येन पक्षे साध्याभावज्ञानादनुमानोच्छेदप्रसड्गाच्च । अथ पक्षे साध्याभावप्रमैव साध्याभावहेतुविषया व्यभिचारज्ञानत्वेन
दोषो न तु तस्याः प्रमात्वज्ञानमपीति चेत्, तर्हि प्रमायाः अप्रमात्वज्ञाने भ्रान्तानुमितिर्न स्यात् , न स्याच्च पक्षे साध्याभावज्ञानप्रमात्वभ्रमादनुमितिप्रतिबन्धः ।
ननूपजीव्यत्वेऽप्यत्र साध्याभावप्रमेति ज्ञानं न स्वतो दूषकं क्लृप्तत्वात् , पक्षे साध्याभावनिश्चयं कुर्वत् व्यभिचारज्ञानद्वारेति चेत् , न । अत्र साध्याभावप्रमेति
ज्ञानान्नियमतः साध्यज्ञानानुदयात् तस्यैव प्रतिबन्धकत्वात् शब्दादौ तथा दर्शनात् । साध्याभावप्रमाविषयवृत्तित्वस्य हेतुवृत्तित्वादसाधकत्वेन साध्याभावप्रमाया हेत्वाभासत्वम्।
साधारण्येऽपि ज्ञायमानं सत् यदनुमितिं प्रतिबध्नाति तस्यैव हेत्वाभासत्वम् । न च साध्याभावप्रमात्रेति निश्चयदशायां पक्षे साध्याभावहेत्वोर्ज्ञानाद्व्यभिचार इति वाच्यम्।
प्रमात्वज्ञानस्य साध्याभावनिश्चयहेतुत्वेन तद्दशायां तदभावात् । पक्षधर्मताबलेन प्रसिद्धं बाधान्न सिध्यतीति बाधः पृथक् । प्रसिद्धाभाववति पक्षे व्यभिचारान्न तत्सिद्धिरिति
चेत्, तर्ह्यसत्प्रसिद्धाभाववति सपक्षे व्यभिचारात् तमपि न साधयेत् । तदज्ञानात्तत्साधनेऽनुमितिरप्रमा स्यात् ।

अथ पक्षवृत्तेरन्य एव धूमादिः सपक्षे, तर्हि गोत्वपृथिवीत्वद्रव्यत्वादेरप्रसिद्धसास्नाद्यनुमानं न स्यात् सास्नादिप्रत्येकव्यभिचारात् । यदि च
साध्यतावच्छेदकसास्नात्वादिसामान्यावच्छिन्नप्रतियोगिताकाभाववति न गोत्वादिकमिति न व्यभिचारः। तर्हि धूमेऽप्येवं व्यभिचाराभावात् साध्यतावच्छेदकेन प्रकारेणाप्रसिद्धमिव
प्रसिद्धमपि साध्यं धूमगोत्वादिकं साधयेत्, यदि बाधो न दोष इति वयम् । साध्याभाववन्मात्रसहचारो न व्यभिचारः, साध्यप्रागभावध्वंसवद्वृत्तित्वेन व्यभिचारितया
पृथिवीत्वादिना गन्धादेः, द्रव्यत्वादिना गुणस्यानुमानभङ्गप्रसङ्गात्। किन्तु साध्यात्यन्ताभाववद्गामित्वम् । एवञ्च स्वप्रागभावध्वंसावच्छिन्नतदाश्रये तत्प्रतियोगिसाधने
पक्षे व्यभिचारो नेति बाधो दूषणम् ।

अथावच्छेद्ये सिद्धसाधनम् , अवच्छेदके हेत्वसिद्धिः। विशिष्टञ्च नान्यदिति चेत्, तर्हि प्रागभावध्वंसप्रतियोगिनोरेकवृत्तित्वेनैकसमयतापि स्यात् । अथ
यत्समयावच्छेदेन तत्र प्रागभावः प्रध्वंसो वा न तत्समयावच्छेदेन प्रतियोग्ीति चेत् , तर्हि तदवच्छेदेन प्रतियोगिसाधने न सिद्धसाधनम् , किन्तु बाध एव । अन्यथा
भावात्यन्ताभावयोरप्यव्याप्यवृत्तित्वभङ्गः एकवृत्तित्वात्। अवच्छेदकभेदेन वृत्तिरिहापि तुल्या। तत्र देशभेदोऽवच्छेदकोऽत्र तु समयभेदः इति। असिद्धेरपि बाध एवोपजीव्यः।
न चैवमुपजीव्यत्वाद्बाधवत् सिद्धसाधनमपि पृथक् । उपजीव्यत्वेपि स्वतोऽदूषकत्वात् । न हि साध्यज्ञानं तद्बुद्धिविरोधि, धारावाहिकज्ञानोदयात् । नाप्यनुमितिविरोधि,
अनुमित्सया प्रत्यक्षसिद्धेऽप्यनुमानदर्शनात्। तदुक्तं - - - " "प्रत्यक्षदृष्टमप्यनुमानेन बुभुत्सन्ते तर्करसिका" " इति। श्रवणानन्तरं मननदर्शनाच्च। तस्मात् सिद्धिमात्रार्थिनः सिद्धौ
न तदिच्छा । सिद्धिविशेषार्थिनः सास्तीति तस्यानुमितिरेव, एवञ्च सिषाधयिषितविघटनद्वारा सिद्धसाधनं दूषणं न तु स्वतः।

नन्वभावधीरपि न भावधीप्रतिबन्धिका। नेदं रजतमिति भ्रमानन्तरं रजतनिश्चयात् । नचाभावप्रमा तथा, अपीतः शङ्खः इति प्रमापयत एव पीतोऽयमिति
भ्रमदर्शनादिति चेत्, न। विरोधिज्ञानं हि प्रतिबन्धकम् । प्रत्यक्षभ्रमस्य प्रत्यक्षप्रमा विरोधिनी सा च शङ्खादौ दोषात् नास्त्येव। अनुमितौ त्वभावप्रमामात्रमेव विरोधीति
कथमभावप्रमायां भावानुमितिरिति।

स चायं दशविधः । धÐमग्राहकमानबाधितं घटोऽव्यापकः सत्त्वादिति प्रत्यक्षेण , परमाणवः सावयवा मूर्त्तत्वादित्यनुमानेन, मेरुः पाषाणमयः पर्वतत्वादिति
सुवर्णमयत्वबोधकागमेन , साध्यप्रतियोगिग्राहकबाधितम् वह्निरनुष्णः कृतकत्वादिति प्रत्यक्षेण, शब्दोऽश्रावणो गुणत्वादित्यनुमानेन, गवयत्वं गवयपदाप्रवृत्तिनिमित्तं
जातित्वादित्युपमानेन, साध्यग्राहकबाधितं- - -शुचि नरशिरः कपालं प्राण्यङ्गत्वादित्यत्रागमेन, हेतुग्राहकबाधितम्- - -जलानिलावुष्णौ पृथिवीतो विपरीतस्पर्शवत्वात् तेजोवदिति
प्रत्यक्षेण, मनो विभु ज्ञानसमवाय्याधारत्वादित्यनुमानेन, राजसूयं ब्राह्मणकर्त्तव्यं स्वर्गसाधनत्वादग्निष्टोमवदिति राजसूयकर्त्तव्यताबोधकागमेनेति ।
इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानाख्यद्वितीयखण्डे बाधसिद्धान्तः।

87

अथ हेत्वाभासानामसाधकतासाधकत्वनिरूपणम्।

अथ हेत्वाभासानामसाधकतासाधकत्वेन सदुत्तरत्वम् , जात्यादीनाञ्चासाधकतासाधारण्येन परासाधकतासाधकतया स्वव्याघातकत्वादसदुत्तरत्त्वम् । अथ
विरुद्धत्वादिज्ञानादेव स्वार्थानुमितिरिव परार्थानुमितेरपि प्रतिबन्धे किमसाधकतानुमानेन। यद्वचसि वाद्युक्तदूषणावगतिः स निगृहीत इति समयबन्धेन कथाप्रवृत्तौ
दूषणमात्रमुद्भाव्यमन्यथार्थान्तरत्वादिति चेत् , न। द्वयं

ह्युद्देश्यंपरार्थानुमितिप्रतिबन्धः, स्थापनाया असाधकतासाधनत्वञ्च । तत्राद्यं दूषणमात्रज्ञानादेव, द्वितीयन्तु लिङ्गत्वज्ञापनात्। प्रतिबन्धकत्ववदनेनापि रूपेण
दूषकत्वसम्भव इत्यभिप्रायेण वा असाधकतासाधनम्। नन्वेवं पञ्चावयप्रयोगापेक्षा स्यात् , अन्यथा न्यूनतापत्तिरिति चेत् , न । दूषणस्यासाधकताव्याप्यत्वमङ्गीकृत्य
कथेति तत्पक्षधर्मताया एवोद्भाव्यत्वात् , अन्यथा अधिकत्वापत्तेः।

नन्वेवं कृतकत्वेनानित्यत्वानुमानेऽपि व्याप्तिर्नाभिधेया, उभयसिद्धत्वादिति चेत् , न । कथायां समयविषयतया दूषणे त्वसाधकताव्याप्त्युुपस्थितेरावश्यकत्वात्
, अन्यथा कथकत्वविरोधात् । नन्वेवं कृतकत्वेनानुमाने तद्व्याप्तिमनङ्गीकृत्यापि कथासम्भवात् , यस्तु कथारम्भे बाधस्यासाधकत्वव्याप्तिं नाङ्गीकरोति तं प्रति
तद्दूषकत्वं प्रसाध्य पञ्चावयवप्रयोगः कर्त्तव्य एव ।

यत्तु  दूषणे पक्षधर्मतामात्रमुद्भाव्यं तत्र, यत्र वादिनोस्तथा समयोऽन्यत्र तु पञ्चाववप्रयोग एवेति । तन्न । कथासम्प्रदायविरोधात् । अथासाधकत्वं न पक्षे
साध्यप्रत्ययाजनकत्वम् । तेनापि तत्त्वेनाज्ञानदशायां पक्षे साध्यभ्रमजननात् कदाचिदजनकत्वं सद्धेतावपि । नन्वेतत्काले साध्यविशिष्टपक्षज्ञानाजनकं तत् , न हि
दूषणत्वज्ञानदशायां पक्षे भ्रमरूपाप्यनुमितिः, साध्यविशिष्टपक्षज्ञानञ्च हतुत्वेन ज्ञानदशायां प्रसिद्धमिति चेत्, न । सद्धेतावसत्प्रतिपक्षतादशायमपि पूर्वकाले
साध्यविशिष्टपक्षज्ञानाजनकत्वमस्तीत्यसाधकताप्रसङ्गात् ।

अथ पक्षे साध्यभ्रमजनकत्वं तत् । बाधविरुद्धयोरपि तत्त्वाज्ञानदशायां भ्रमजनकत्वादिति चेत्, न। सद्धेतौ सत्प्रतिपक्षेऽसाधारणे च तत्त्वेन ज्ञानदशायां
साध्यभ्रमजनकत्वात् , अज्ञाने साध्यप्रमाजनकत्वात् । नापि व्याप्तिपक्षधर्मतान्यतरराहित्यम् , सत्प्रतिपक्षासाधारणसद्धेतोरभावात् दशाविशेषे तस्य दोषत्वात् साध्याप्रसिद्धौ
प्रकृतसाध्यव्याप्त्यप्रसिद्धेश्च । नाप्यनैकान्तिकाद्यन्यमत्वम् । यत्किञ्चिदनैकान्तिकत्वस्यातिव्याप्तेः । प्रकृतसाध्यानैकान्तिकत्वस्याप्रसिद्धत्वेन केवलान्वयिसाधनेऽप्रसिद्धेः।
अंशतः सिद्धसाधनात् साध्याविशेषाच्च ।

यत्तु  एतत्कालीनैतत्पक्षीयत्वावच्छिन्नप्रतियोगिकैतत्साध्यप्रमाकरणत्वाभावः तत्तकालतत्तत्पक्षविषयसाध्यत्वाभिमतानित्यत्वादिप्रमाजनकत्वाभावो वाऽसाधकत्वम्
। न च प्रतियोग्यप्रसिद्धिः, एतत्कालीनैत्पक्षीयत्वतत्तत्कालतत्तत्पक्षविषयत्वयोर्व्यधिकरणयोरेव प्रतियोगितावच्छेदकत्वादिति। तन्न । सद्धेतोः सत्प्रतिपक्षत्वाज्ञानदशायामपि
तादृशप्रमायामकरणभावेनासाधकतापत्तेः । नापि तृतीयलिङ्गपरामर्शस्याप्रमात्वं तत्, विरुद्धादौ परामर्शाभावात् सद्धेतौ सत्प्रतिपक्षेऽसाधारणे च तत्प्रमात्वाच्च ।
नाप्यनुमितिहेतुभूताभावप्रतियोगिज्ञानविषयत्वं तत् । सद्धेतावपि कदाचित् व्यभिचारित्वसत्प्रतिपक्षत्वज्ञानस्यानुमितिप्रतिबन्धकत्वात् ।
अथानुमितिप्रतिबन्धकप्रमाविषयत्वमसाधकत्वम् , सद्धेतौ व्यभिचारादिभ्रमः प्रतिबन्धकः। अनुमितिप्रतिबन्धकत्वञ्च व्यभिचारादिप्रमायास्तृतीयलिङ्गपरामर्शविघटनद्वारा
तुल्यबलतया विषयतया वेति चेत् , न । सत्प्रतिपक्षयोर्विरुद्धयोर्वास्तवतुल्यबलत्वाभावेन तद्भ्रमस्य प्रतिबन्धकत्वात् । न च तुल्यबलतया ज्ञायमानेन बोधित
साध्यविपर्यकत्वज्ञानं प्रतिबन्धकम् , तच्च प्रमैवेति वाच्यम् । तुल्यबलताज्ञानमेव हि प्रतिबन्धकं न तु ज्ञायमानत्वज्ञानं गौरवादसिद्धेश्च । न च सत्प्रतिपक्षेऽन्यतराङ्गवैकल्यप्रमैव
प्रतिबन्धिकेति वाच्यम् । अन्यतरत्वं तदतद्वृत्ति, न च तदतद्वृत्तिसामानाधिकरण्येन ज्ञायमानस्य दोषत्वम्, धर्ममात्रस्य व्यभिचारज्ञानादनुमित्युच्छेदापत्तेः
अन्यतराङ्गवैकल्यज्ञानोपजीव्यस्य तुल्यबलत्वज्ञानस्यैव प्रतिबन्धकत्वाच्च। अन्यथा व्याप्यत्वासिद्ध्यन्तर्भावापत्तेः ।

अथानैकान्तिकादिज्ञानस्य तत्तदनुमितिप्रतिबन्धकत्वमसाधकत्वम्। तथा हीदमनैकान्तिकादिज्ञानमेतत्साध्यवत्तयैतत्पुरुषस्यैतत्कालीनैतत्पक्षकानुमितिप्रतिबन्धकम्
एतदनैकान्तिकादिज्ञानत्वात् एतदन्यतज्ज्ञानवदिति चेत् , न । एतत्साध्यवत्तयैतत्पक्षकानुमितेः कदाचिल्लिङ्गभ्रमात् प्रसिद्धावप्येतत्कालीनैतत्पुरुषस्य तादृशानुमित्यप्रसिद्धेः
। नापि समीचीनसाध्यविशिष्टपक्षविषयानुमित्यजनकत्वम् । बाधविरुद्धासिद्धेषु साध्यानधिकरणे पक्षे सत्यसाध्यप्रतीत्यप्रसिद्धेः, वह्निमति बाष्पे धूमभ्रमात् वह्न्यनुमितेः
सत्यत्वाच्च । न चान्य एव वह्निस्तत्र भासते, मानाभावात्। तद्वह्नेः प्रत्यभिज्ञानात् एकव्यक्तिके तदसम्भवाच्च । न च सानुमितिर्लिङ्गविषयत्वेन भ्रमः। अनुमितौ
लिङ्गभानेे मानाभावात् ।

किञ्च भावोऽभावो वोभयथापि प्रमेयमिति सत्यानुमितौ भावत्वाभावत्ववति प्रमेयत्वज्ञाने एकत्र तयोरभावादसत्यानुमितिः स्यात् । न चान्यतरत्वं लिङ्गम् ,
तद्व्याप्तिमविदुषोऽप्यनुमितेर्व्यर्थविशेषणत्वाच्च । अथ साध्यव्याप्यत्वमेव तत्र तन्त्रम् , तत्र च बाधो नास्तीति चेत्, तर्हि कूटलिङ्गादनुमितौ वह्निव्याप्यवत्त्वमेव  तन्त्रम्
, वह्निव्याप्यञ्च किञ्चित्तत्रास्त्येव । अथ कूटलिङ्गे वह्निव्याप्याभेद प्रतीयते । वह्नौ कूटलिङ्गव्यापकाभेदोऽपि । अन्यथा कूटस्यैव वह्निव्याप्यत्वाप्रतीतेः । एवञ्च
कूटलिङ्गव्यापको वह्नित्वेन भासत इति वह्न्यनुमितिरसत्यैवेति चेत् ,

न । वह्निव्याप्यालोके धूमारोपात् यत्रानुमितिस्तत्रासिद्धिभेदेऽसत्यत्वाभावापत्तेः। आलोकव्यापके धूमव्यापकाभेदात् ।
अथ लिङ्गमनुमितिविषयो नियमतः पक्षधर्मताज्ञानविषयत्वात् व्याप्तिज्ञानविषयत्वात् नियमेनानुमितिहेतुविशेषणधीविषयत्वाच्च पर्वतत्ववत् साध्यवच्च।
किञ्चैकविशेषणवत्वेन ज्ञाते विशेषणान्तरधीसामग्री तत्रैव विशिष्टवैशिष्ट्यानुमितिरिति धूमविशिष्ट एव वह्निवैशिष्ट्यानुमितिरिति। ननु अनुमितौ व्यापकत्वभानेऽनुमित्यविच्छेदः।

88

न च फलीभूतज्ञानन्यूनविषयस्यैव परामर्शस्यानुमितिहेतुत्वम् , गौरवात् । विषयान्तरसञ्चारात् नानुमितिरित्यपि न। परामर्शस्य चरमकारणत्वात् प्रत्यक्षादिसामग्रीतो
बलवत्त्वाच्चेति चेत् , न । सिद्धसाधनेन विच्छेदात् ।

यद्यप्येवं लिङ्गांशेऽप्रमात्वेऽपि साध्यप्रमात्वात् कथं तस्यासाधकत्वम् , तथाप्युक्तसाधकत्वमस्त्येवेति चेत्, अस्तु तावदेवं तथापि दैवात्तत्र धूमसत्त्वे कथं
तंदेशेऽप्यसत्यता । अत एव आर्द्रेन्धनप्रभवो वह्निर्धूमव्यापको नान्यः । न च वह्नित्वेन व्यापकत्वादन्योऽपि तथा, तेन विनापि धूमसत्त्वात्, एवं बाष्पे धूमभ्रमाद्
धूमव्यापको वह्निर्भासते। स च तत्र नास्त्येवेति न सानुमितिः सत्येति निरस्तम् । दैवाद्धूमसत्त्वे सत्यत्वादिति ।

उच्यते । स्वज्ञानदशायां पक्षे साध्यप्रत्ययाजनकत्वमसाधकत्वम् , तथाहि विरुद्धत्वादिज्ञानदशावर्तीदं पक्षे साध्यप्रत्ययाजनकम् , विरुद्धादित्वात्। पक्षविशेषणमहिम्ना
तद्धशायां पक्षे साध्यप्रत्ययाजनकत्वं सिद्ध्यति। बाधितादावपि लिङ्गत्वभ्रमात् पक्षे साध्यप्रत्ययजनकत्वमिति न प्रतियोग्यप्रसिद्ध्या साध्याप्रसिद्धिः। यद्वा
अनुमितिप्रतिबन्धकतावच्छेदकरूपवत्त्वमसाधकत्वम्, तथाहीदानीमिदमनुमितिप्रतिबन्धकतावच्छेदकरूपवदनैकान्तिकादित्वात् ज्ञानवत्। अनुमितिप्रतिबन्धकतावच्छेदकञ्च
रूपं ज्ञाने विषयतयानैकान्तिकादित्वमेव । न च साध्याविशेषः, उपाधिविशेषस्यानुमेयत्वात्, तोयत्वेन पिपासोपशमनसमर्थतावच्छेदकरूपरत्वानुमानवत् ।
अन्ये त्वनैकान्तिकबाधितविरुद्धेष्वव्याप्यत्वं व्याप्यत्वासिद्धेऽनैकान्तिकत्वम् स्वरूपासिद्धसत्प्रतिपक्षासाधारणेषु दशाविशेषेऽनुमितिप्रतिबन्धकज्ञानविषयत्वमसाधकत्वम्।
न चैवमनैकान्तिकोऽसाधक इति सहप्रयोगानुपपत्तिः तत्राव्याप्यत्वस्यासाधकशब्दार्थत्वात् । असाधकताननुगमेपि च हेत्वाभासत्वमनुगतमेव, यस्य ज्ञानमनुमितिप्रतिबन्धकं
तस्य हेत्वाभासत्वादिति ।

इति श्रीमद्गङ्गेेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानाख्यद्वितीयखण्डे हेत्वाभासानामसाधकतासाधकत्वनिरूपणम् ।
अथ ईश्वरानुमानम्

एवमनुमाने निरूपिते तस्माज्जगन्निर्मातृपुरुषधौरेयसिद्धिः, क्षित्यादौ कार्यत्वेन घटवत्सकर्त्तृकत्वानुमानात् । ननु क्षित्यादि प्रत्येकं न पक्षः, तस्य स्वशब्दोनाभिधातुमशक्यत्वात्।
नापि मिलितम्, एकरूपाभावात् । अत एव सकर्त्तृकत्वासकर्त्तृकत्वविचाराम्भकसंशयविषयः तथाभूतविवादविषयो वा न पक्षः। एकरूपाभावेन तयोस्तावत्ग्रहीतुमशक्यत्वात्।
वादिनोर्निश्चितत्वेन संशयाभावात् । न च वाद्यनुमानयोस्तुल्यबलत्वेन मध्यस्थस्य संशयः। अनुमानाभ्यां तस्य संशयो मध्यस्थप्रश्नानन्तरञ्चानुमानमित्यन्योन्याश्रयात् ।
घटेऽपि कदाचित्तयोः सम्भवात्, प्रत्येकं संशये विवादास्पदत्वेनानुमानेऽर्थान्तरतापत्तेश्च।

न च शरीरापेक्षेण कर्त्रा यन्नकृतं शरीरजन्यं जन्यं वा पक्षः, जन्यात्मविशेषगुणशब्दफूत्कारसर्गाद्यकालीनवेद घटादिलिप्यादिसम्प्रदायानामीश्वरमात्रकर्तृकाणामसंग्रहात्,
असिद्धेश्च । अदृष्टद्वारा शरीरिणोपि क्षित्यादिकर्तृत्वात्। नापि जन्यकृत्यजन्यं जन्यमुभयसिद्धकृतिजन्यान्यजन्यं वा पक्षः, क्षित्यादीनामदृष्टद्वारा जन्यकृतिजन्यत्वात् ।
नाप्यदृष्टजनककृत्यजन्यं जन्यकृतिसाक्षादजन्यं वा जन्यं पक्षः। ईश्वरकृतेरदृष्टजनकत्वेन क्षित्यादौ तदभावात् । घटादावप्येवं पक्षत्वेनांशतः सिद्धसाधनात् । न च क्षितिरेव
पक्षः, अङ्कुरेण सन्दिग्धानैकान्तिकत्वात् । न च निश्चित विपक्षे हेतुसन्देहात् स इति वाच्यम् । हेतौ साध्याभाववद्गामित्वसंशयस्य दूषकत्वात् । स च साध्याभाववति
हेतुसन्देहाद्धेतुमति साध्याभावसन्देहाद्वा उभयथापि दोषः । न चैवं पक्षेऽपि तत् स्यात्, अनुमानमात्रोच्छेदकत्वेनेतरत्र तस्य दूषकत्वात् । अङ्कुरे हेतोरनिश्चयेन
सन्दिग्धानैकान्तिकम् । तन्निश्चये च साध्यसन्देहवति साध्यानुमितिरेव, पक्षवत्सामग्रीसत्त्वात्, अत एवाङ्कुरः पक्षसम इति चेत्,
न। तस्यापक्षत्वेन हेतोः पक्षधर्मताविरहेण स्थापनानुमानाविषयत्वात् । तदा तस्यापि पक्षत्वे प्रतिज्ञान्तरापत्तिः। अनुमानान्तराधीनतत्साध्यानुमित्यनन्तरञ्च
पक्षेऽनुमितावितरेतराश्रयान्नैकमप्यनुमानं स्यात् तत्रापि क्षित्यादौ सन्दिग्धानैकान्तात् क्षितेर्विवादविषयत्वे अङ्कुरे प्रथमं साध्यसाधनेऽर्थान्तराच्च । किञ्चैवमेकैकोपादानाभिज्ञसिद्धावपि
नेश्वरसिद्धिः। नापि सर्गाद्यकालीनं द्व्यणुकं पक्षः, परम्प्रति सर्गाद्यसिद्धेः ।

किञ्च सकर्तृकत्वं न तावत्कृतिमत्सहभावः कृतिमज्जन्यत्वं वा। अस्मदादिना सिद्धसाधनात् । उपादानगोचरापरोक्षज्ञान-चिकीर्षाकृतिमज्जन्यत्वं तदिति चेत् ,
न। उपादानगोचरत्वं यदि यत्किञ्चिदुपादानगोचरत्वं तदा अस्मदादिना अर्थान्तरत्वम् । ज्ञानादिजन्यत्वमपि विवक्षितम्, न च घटोपादानगोचरापरोक्षज्ञानादीनां जनकत्वं
सम्भवति, व्यभिचारादिति चेत् , न। क्षितिजनकादृष्टजनकज्ञानादीनामुपादानाविषयत्वनियमेनादृष्टद्वारा तैरेव सिद्धसाधनात् । न च साक्षात्तज्जन्यत्वं विवक्षितम्, तद्धि  न
कृतिजन्याजन्यत्वे सति कृतिजन्यत्वम् स्वजनककृत्यव्यवहितोत्तरक्षणवर्तित्वं वा। घटदृष्टान्तस्य साध्यविकलतापत्तेः , घटादौ कुलालादिकर्त्तृकत्वाभावप्रसङ्गाच्च । न च
शरीरक्रिया दृष्टान्तः इति वाच्यम् । घटेनानैकान्तिकत्वात् चेष्टात्वस्योपाधित्वाच्च ।

नापि क्षित्याद्युपादानगोचरत्वं विवक्षितम्, अप्रसिद्धेः । न चोपादानशब्दस्य सम्बन्धिशब्दत्वेन घटक्षित्यादिपदसमभिव्यवहारे तत्तदुपादानबोधकत्वं चैत्रो मातृभक्तः
मैत्रवदिति वाच्यम्। शाब्दे हि बोधे तथा, न चात्र शब्दः प्रमाणम्, वादिनोरनाप्तत्वात् । अनुमाने त्वनुगतेन व्यापकत्वग्रहे तेन रूपेण व्यापकसिद्धिः। तच्चोपादानत्वमेवेति
कथं नार्थान्तरम् । किञ्चैवं घटादावपि तत्तदुपादानत्वेनैवोपस्थित्या सामान्येन रूपेण कुत्राप्यनुपस्थितेर्व्याप्तिरेव न गृह्येेत । अपि च सामान्यलक्षणया ज्ञानलक्षणया
योगजधर्मरूपया प्रत्यासत्त्या उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमता अस्मादादिना सिद्धसाधनम् । तेषां क्षित्यव्यवहितपूर्वसमयासत्त्वेऽपि तद्वतः सत्त्वात् अदृष्टद्वारा
तेषामपि जनकत्वसम्भवात् ज्ञानादिसाक्षाज्जन्यत्वस्य च निरस्तत्वात् ।

अथ योगजधर्माजन्यसविकल्पकाजन्यसामान्यलक्षणाप्रत्यासत्त्यजन्यजन्योपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमदजन्यं जन्यं पक्षः योगजधर्माजन्य
सविकल्पकाजन्यसामान्यलक्षणाप्रत्त्यासत्त्यजन्योपादानगोचरज्ञानचिकीर्षाकृतिमज्जन्यमिति साध्यम् । यद्वा अनागतगोचरसाक्षात्कारजनकप्रत्यासत्त्यजन्यजन्यज्ञानादिमदजन्यं

89

जन्यमनातगोचरसाक्षात्कारजनकप्रत्यासत्त्यजन्योपादानगोचरापरोक्षज्ञानादिमज्जन्यमिति साध्यम्। ज्ञानाव्यवहितोत्तरसमयवर्तीच्छातदव्यवहितोत्तरसमयवर्तिकृतीनां जनकत्वं
विवक्षितम् , न तु ज्ञानादीनां यौगपद्यम् पौर्वापर्यं वा । अतो न साध्याप्रसिद्धिर्न वा क्षित्यादौ बाध इति ।

मैवम् । योगजधर्मसामान्यज्ञानरूपप्रत्यासत्तीनामनागतगोचरसाक्षात्कारस्य तज्जनकप्रत्यासत्तीनाञ्च परस्याप्रसिद्धतया तदजन्यस्य साक्षात्कारस्याप्रसिद्धत्वेन
पक्षसाध्ययोर्विशेषणासिद्ध्या परं प्रत्याश्रयासिद्धेः साध्याप्रसिद्धेश्च । तत्सिद्धौ वा पक्षे तदजन्यत्वासिद्धेः क्षितिजनकादृष्टजनककृतिचिकीर्षासाक्षात्काराणां योगजधर्माद्यजन्यानामदृष्टद्वारा
क्षितिजनकत्वेन सिद्धसाधनात् । न च तादृशसाक्षाज्जन्यत्वं विवक्षितम्। घटादिदृष्टान्ते तदसम्भवात्, दृष्टान्ते घटादौ जनकेष्टसाधनताज्ञानस्यानुमितित्वेन
जन्यसविकल्पकव्याप्तिग्रहजन्यत्वेन साध्याप्रसिद्धेश्च ।

ननु व्याप्तिबलेन साध्यं सिध्यति व्याप्तिश्च यत्र यत्र कार्यत्वं तत्र तदुपादानाभिज्ञजन्यत्वम् इतिरूपा, न तु यद्यत्कार्यं तत्तत्किञ्चिदुपादानाभिज्ञजन्यमिति । एवञ्च
यत्र यत्र कार्यत्वं तत्र तदुपादानाभिज्ञजन्यत्वमिति विशिष्य व्याप्त्या क्षित्यादौ कार्यत्वं क्षित्याद्युपादानाभिज्ञजन्यत्वमेव साधयति। अतो न सिद्धसाधनमिति चेत्, न। घटे पटे
च कार्यत्वस्य व्याप्तिग्रहः किं प्रत्येकं घटोपादानाभिज्ञजन्यत्वेन, तत्तदुपादानाभिज्ञजन्यत्वेन, उपादानाभिज्ञजन्यत्वेन वा। आद्ये घटोपादानाभिज्ञजन्यत्वादौ कार्यत्वस्य
व्यभिचार एव ।

द्वितीये त्वननुगततत्तच्छब्दाभिधेयघटाद्युपादानगतानुगतरूपाभावात् कथं व्यापकताग्रहः। तत्तच्छब्दस्य स्वभावात् समभिव्याहृतपरतया नायं दोष इति चेत्, न ।
अनुमाने शब्दस्वभावोपन्यासस्याप्रयोजकत्वात् । अत एवेदानीं देवदत्तो बहिरस्ति विद्यमानत्वे सति गृहासत्त्वात्, विद्यमानत्वे सति यो यदा यत्र नास्ति स तदा तदतिरिक्ते
देशेऽस्ति यथाहमेव बहिरसन् गृहमध्ये तिष्ठामीत्यत्र पक्षदृष्टान्तसाधारणयत्वतत्त्वयोरनुगतयोरभावान्नान्वयी, किन्तु व्यतिरेकीत्युक्तम् । तृतीये सिद्धसाधनमेव ।
अथ सर्गाद्यकालीनद्व्यणुकं ज्ञानेच्छाकृतिसमानकालीनसामग्रीजन्यम् कार्यत्वात् घटवत् अदृष्टसामग्रीजन्यत्वेऽदृष्टत्वापत्तिरिति चेत् , न । परम्प्रति सर्गाद्यसिद्धेः।
ज्ञानादीनां सिद्धावपि द्व्यणुकाजनकत्वात् उदासीनसिद्धाप्रयोजकत्वाच्च ।

एतेन सर्गाद्यकालीनं द्व्यणुकं द्व्यणुकासमवायिकारणसमानकालीनकृतिजन्यमिति निरस्तम् । द्व्यणुकासमवायिकारण समानकालीनकृतित्वेन
गौरवाप्रयोजकत्वाभ्यामजनकत्वात्। किञ्च कार्यत्वं न तावद्योगोपस्थितकृत्यर्हत्वम् , असिद्धेः । नापि पूर्वकालासत्त्वे सति उत्तरकालसम्बन्धित्वम्, तत्तत्पूर्वकालत्वस्याननुगतत्वात्,
सकलपूर्वकालस्याप्रसिद्धेः । नापि कादाचित्कत्वम् , प्रागभावेनानैकान्तिकत्वात् । नापि प्रागभावप्रतियोगित्वम् , ध्वंसेनानैकान्तिकत्वात् । नापि सत्त्वे सति तत्त्वम्,
सत्ताजातेः परम्प्रति असिद्धेः, स्वरूपसत्त्वस्य च ध्वंसेऽपि सत्त्वात् ।

यत्त्वयंघटः एतद्घटजनकानित्यज्ञानचिकीर्षाकृत्यतिरिक्तज्ञानादिजन्यः कार्यत्वात् पटवदित्यादि । तन्न । विपक्षे बाधकाभावेनाप्रयोजकत्वात् । अन्यथा अयं घटः
एतद्घटजनकानित्यादृष्टातिरिक्तादृष्टजन्यः कार्यत्वादपरघटवत्। एतत्सुखदुःखसाक्षात्कारौ एतत्जनकानित्यसुखदुखातिरिक्तसुखदुःखसाध्यौ सुखदुःखसाक्षात्कारत्वादित्यादिना
नित्यधर्माधर्मसुखदुःखाश्रयस्यापिसिद्धिप्रसङ्गात् । अयं घटः स्वजनकानित्यज्ञानाद्यतिरिक्तज्ञानाद्यजन्यः घटत्वात् अपरघटवदित्यादिना सत्प्रतिपक्षाच्च ।
केचित्तुदृश्यते तावदभिमतविषयग्राहिणीन्द्रिये मनो निवेशयतः पुंसो मनःक्रियानुकूलो यत्नः। तथाच सर्गाद्यकालीनशरीरजन्यज्ञानध्वंसानाधार
कालाधारज्ञानजनकात्ममनोयोगजनिका मनःक्रिया तन्मनोगोचरप्रयत्नानाधारतन्मनोगोचरप्रयत्नतद्व्याप्येतरसकलकारणाधारकालानन्तरकालानाधाराद्यसत्ताका तन्मनः
क्रियात्वात् सम्मततन्मनः क्रियावत् । अर्थात् प्रयत्नाधारकालानन्तरकालाधारा सा क्रिया सिध्यतीत्याहुः । तन्न । सर्गाद्यकाले ज्ञानजनकमनः संयोगजनकक्रियायां
मानाभावः । पूर्वक्रिययैव संयोगसम्भवात् ईश्वरवादिनां तन्मनोगोचरप्रयत्नानाधारः कालोऽप्रसिद्ध एव । क्रियात्वस्यैव हेतुत्वे व्यर्थविशेषणत्वञ्च। किञ्चैवं
प्रयत्नानाधारकालानन्तरकालानाधारत्वम् , अर्थात् तत्सिद्धौ मानान्तरादीश्वरसिद्धौ अर्थान्तरत्वमिति।

अत्रोच्यते। अदृष्टद्वारकोपादानगोचरजन्यकृत्यजन्यानि समवेतानि जन्यानि अदृष्टप्रागभावव्याप्यप्रागभावाप्रतियोग्युपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यानि
स्वजनकादृष्टोत्तरोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यानि वा अपरोक्षज्ञानचिकीर्षाप्रयत्नविषयीभवदुपादानानि वा समवेतत्वे सति प्रागभावप्रतियोगित्वात् ।यदेवं
तदेवं यथा घटः, तथा चैतानि तस्मात्तथा । उक्तपक्षे कस्यचिदनन्तर्भावेऽपि तदादाय तथैव निरुक्तस्य पक्षत्वनिर्देशे समूहालम्बनरूपैवानुमितिरुत्पद्यते । न च
जन्यकृत्यजन्यत्वं तावदननुगतेष्वेकरूपाभावेन ग्रहीतुमशक्यमिति वाच्यम् । जन्यकृत्यजन्यत्वं हि जन्यकृतिजन्यान्यत्वमित्यन्यत्वेन रूपेण सामान्यलक्षणया तावतामुपस्थितेः।
न च जन्यत्वविशेषणव्यावत्र्त्याप्रसिद्धिः, प्रमेयो घट इतिवदव्यावर्त्तकत्वेऽपि तदुपरक्तबुद्धेरुद्देश्यत्वेन तस्योपरञ्जकत्वात् । उक्तान्यामत्वमेव सकर्तृकत्वम् । अत
एव घटभोक्ता न घटकर्तेति व्यवह्रियते । एवञ्च शब्दफूत्कारादीनां पक्षतैव । ज्ञानेच्छादीनामपि पक्षत्वान्न सन्दिग्धानैकान्तिकता, उपादानस्य सिद्धत्वेऽप्युपादेयस्यासिद्धत्वेन
तद्वत्तया तत्रापि चिकीर्षा । यद्वा पक्षे हेतौ च न समवेतत्त्वं विशेषणम् , तेन ध्वंसोऽपि पक्षः। साध्ये च उपादानपदं कारणमात्रपरम् , अनुपादेयमेव वा ।
जन्येच्छाकृत्यजन्यत्वञ्च पक्षे विवक्षितम् , तेन कृतिध्वंसस्य कृतिजन्यत्वेऽपि इच्छाजन्यत्वाभावात् पक्षत्वम् । क्षितिरेव वा पक्षः । न चाङ्कुरे सन्दिग्धानैकान्तिकत्वम्,
पक्षपक्षसमनैरपेक्ष्येण घटादौ निश्चितव्याप्तेर्लिङ्गस्य तयोर्दर्शनेनोभयत्रानुमित्यविरोधात् । न त्वनुमित्योरन्योऽन्यापेक्षत्वम् , येनान्योन्याश्रयः स्यात् ।
प्रतिज्ञाया अविषयत्वात् तत्र पक्षसमव्यपदेशः। न चाङ्कुरस्य पक्षत्वेनानिर्देशात्तत्र न पक्षधर्मताज्ञानमिति वाच्यम् । सिषाधयिषाविरहसहकृतसाधकप्रमाणाभाववति
लिङ्गज्ञानस्यानुमितिमात्रकारणत्वात् । तच्च क्षितौ पञ्चावयवेन अङ्कुरे स्वत एवेति न कश्चिद्विशेषः । यदि च क्षितौ हेतुनिश्चयदशायां अङ्कुरस्य हेतुमत्तया न
निश्चयस्तदा क्व सन्दिग्धानैकान्तिकत्वम् ।

90

अथ पक्षसमे साध्याभावसामानाधिकरण्यसंशयात् हेतौ व्याप्तिग्रह एव नोत्पद्यते उत्पन्नोऽपि वा बाध्यते इति चेत्, तर्हि महानसेऽपि धूमे व्याप्तिग्रहो न स्यात् ,
भूतोऽपि वा बाध्यते । सन्दिग्धवह्निकपर्वतापर्वतधूमवतामेकधर्माभावेनापक्षत्वात् । तस्मात्साध्यसन्देहवति हेतुनिश्चयो न दोषः, किन्तु गुण एव । अन्यथानुमानमात्रमुच्छिद्येत।
पक्षादन्यत्रतद्दूषणमिति यदुक्तं तत्र पक्षान्यत्वं सिषाधयिषितसाध्यान्यत्वं यदि , तदानपेक्षितानुमितिर्न स्यात् ।

अथ सन्दिग्धसाध्यान्यत्वं साधकबाधकप्रमाणाभावविषयान्यत्वं वा विवक्षितम् तदा अङ्कुरेऽपि तन्नास्ति । अथ प्रतिज्ञाविषयान्यत्वं तदा स्वार्थानुमित्युच्छेदः।
नियतविषयज्ञानाजन्यत्वेन पक्षविशेषणात्सर्वविषयज्ञानसिद्धिः। साध्ये च ज्ञानेच्छा प्रयत्नानां विशेषणत्वेन विशिष्टसाधनत्वं विवक्षितं तेन न तदुपलक्षितक्षेत्रज्ञेनार्थान्तरम्।
सामान्यतोऽपि साध्यनिर्द्देशे पक्षधर्मताबलेनाभिमतविशेषसिद्धिश्च।

नन्वाद्यसाध्यद्वये घटाद्युपादानगोचरापरोक्षज्ञानचिकीर्षाकृतीनामेव जनकत्वमायातु इत्यर्थान्तरम् । न च तेषां व्यभिचारात् क्षित्यादौ न कारणत्वमिति वाच्यम् ।
अनादौ प्रवाहे कस्यचित् कदाचित् क्षितिद्व्यणुकादिपूर्वं घटाद्युपादानगोचरज्ञानादिसत्त्वात् , न च सर्गाद्यकालीनस्यापि पक्षत्वात्तत्रेश्वरसिद्धिः । परम्प्रति तदसिद्धेरिति  चेत्,
न । ज्ञानादीनां त्रयाणां स्वविषयसमवेतकार्यं प्रत्येव जनकत्वावधारणेनैतदनुमानस्य तदविषयत्वात् । अत एवान्योपादानगोचरापरोक्षज्ञानाद्यजन्यत्वेन पक्षविशेषणमपिन
युक्तम् । तृतीयसाध्ये तु नार्थान्तरं क्षित्यादेर्घटाद्युपादानासमवेतत्वात् ।

ननु सामान्यलक्षणादिप्रत्यासत्त्या क्षित्याद्युपादानगोचरं यत् प्रत्यक्षं तज्जन्यत्वमेवास्तु। तथाचेश्वरे न प्रत्यक्षं न वेच्छा प्रयत्नौ। तयोः समानाधिकरणज्ञानाविषयेऽसत्त्वात्।
न च तादृशप्रत्यासत्त्यजन्यत्वं प्रत्यक्षविशेषणम् , परम्प्रत्यसिद्धेरिति चेत् , न । द्रव्यत्वेन ज्ञानलक्षणया वा कपालगोचरप्रत्यक्षेऽपि घटादौ अकर्तृकत्वात् क्षित्यादौ
सकर्तृकत्वनिर्वाहकं ज्ञानं सिध्यद्विलक्षणमेव सिध्यति । न चावयवविभागद्वारा क्षित्यादिषु जलक्षेपात्समुद्रादिषु हस्तक्षेपात्परमाणुद्वयसंयोगे च द्वणुकेष्वस्मदादिकर्तृकत्वादंशतः
सिद्धसाधनमिति वाच्यम् । तत्रहि क्षितिनाशे अस्मदादीनां कर्तृत्वं न तु खण्डक्षितौ, अवस्थितसंयोगेभ्य एव तदुपपत्तेः । सकलतदुपादानगोचरज्ञानेच्छाकृतीनामभावाच्च  ।
अत एव द्वयणुकेऽपि न कर्तृत्वम् जलक्षेपादधिकपरिमाणकसमुद्रादेः सपक्षत्वमेव घटस्येव ।

ननु घटे साध्यविकलत्वम् अन्वयव्यतिरेकाभ्यां ज्ञानादेरेव जनकत्वात् , न तु तदाश्रयस्य धर्मिग्राहकस्यान्वयव्यतिरेकस्य वा ग्राहकस्याभावात् । न च घट
आत्मजन्य उत्पत्तिमत्त्वात् ज्ञानवदिति वाच्यम् । आत्मसमवेतत्वस्योपाधित्वात्। घटः आकाशजन्य उत्पत्तिमत्त्वात् शब्दवदितिवदप्रयोजकत्वाच्चेति चेत् । मैवम् ।
प्रयत्नवदात्मसंयोगश्चेष्टाद्वारा घटहेतुरतः प्रयत्न वत् आत्मापि हेतुः । न चात्मसंयोगे सत्यपि प्रयत्नं विना न चेष्टेति प्रयत्न एव तत्कारणम्, असमवायिकारणं विना
कार्यानुत्पत्तेः । न चात्मसंयोगस्य कारणत्वेऽपि संयोगे परिचायकमात्रमात्मेति वाच्यम् । संयोगमात्रस्याकारणत्वेन संयोगिविशेषितस्य हेतुत्वात् ।
आत्मसंयोगव्यतिरेकप्रयुक्तक्रियाव्यतिरेकस्यासिद्धेर्नात्मसंयोगः कारणमिति चेत् , न । या क्रिया व्यधिकरणयदीयगुणजन्या सा तत्संयोगासमवायिकारणिका यथा
स्पर्शवद्वेगद्रव्यसंयोगजा क्रियेति व्याप्त्या तत्सिद्धेः। न च क्रियाया मूर्त्तमात्रसमवेतासमवायिकारणकत्वनियम इति वाच्यम्। कार्यमात्राभिप्रायेण ज्ञानादौ व्यभिचारात्
विशिष्याप्रयोजकत्वात् असमवायिकारणसंयोगाश्रयस्य तत्कार्यजनकत्वनियमाच्च ।

अन्ये तु  अनुकूलकृतिसमवायित्वं कर्तृत्वम् , न तु जनकत्वे सति गौरवात् । कर्त्तरि कारकव्यपदेशश्चाभियुक्तानां सविशेषणे हीति न्यायेन कृतिपर्यवसन्न एव।
एवं ज्ञानेच्छाकृतिजन्यत्वमेव साध्यम् तदाश्रयत्वमेवेश्वरस्य कर्त्तृत्वम्।

अथ घटे कृतिसाध्येष्टसाधनताज्ञानं चिकीर्षाद्वारा हेतुः, तच्च प्रत्यक्षम् । चिकीर्षाविषये अनागते इन्द्रियासन्निकर्षात् । किन्तु अनुमितिरूपम्। तथाच
साध्यविकलो दृष्टान्तः साध्याप्रसिद्धिर्वा दोष इति चेत् , न । सिद्धवृत्त्यसिद्धविषया हि कृतिः सिद्धविषयप्रत्यक्षे सति सम्भवति । न हि मृदवयवानां संस्थानविशेषे
कृतिसाध्येष्टसाधनतानुमितावप्यवयवस्य प्रत्यक्षेणोपस्थितिं विना प्रवृत्तिः । अत एव यागे शब्दात्तदुपजीविलिङ्गाद्वा कृतिसाध्येष्टसाधनत्वेऽवगतेऽपि हविरादीनां प्रत्यक्षेणानुपस्थितौ
न प्रवृत्तिः । न चोपादानप्रत्यक्षं प्रवर्तकज्ञानोपक्षीणम्। अप्रत्यक्षे परमाणौ तत्क्रियायामिष्टसाधनताज्ञानेऽपि प्रवृत्त्यभावात् । प्रवृत्तिविषयस्य मृदङ्गादेः प्रत्यक्षत्वात्न
शब्दफूत्कारादिना व्यभिचारः ।

न चाभिमतग्राहकेन्द्रियसंयोगार्थं मनसि प्रयत्नजन्यक्रियादर्शनाच्चव्यभिचारः। अदृष्टसहकृतत्वगिन्द्रियेण हि मनोवहनाडीनामुपलम्भेन तद्गोचरप्रयत्नात् नाडीक्रिया,
ततः स्पर्शवद्वेगवन्नाड्या नोदनान्मनसि क्रिया न तु प्रयत्नात् । अत एव जलाद्यभ्यवहारमलोत्सर्गहेतुनाडीनामनाद्यभ्यासवासनावशात् अदृष्टसहकृतत्वगिन्द्रियेणोपलम्भात्
तद््गोचरप्रयत्नः ।

नन्वेवं घटादावनुमितिजन्यत्वदर्शनादीश्वरे अनुमितिरपि सिद्ध्यत्। यथा च प्रत्यक्षस्येन्द्रियजन्यत्वेऽपि नित्यं तदीश्वरे, तथानुमितेर्लिङ्गजन्यत्वेपि सा तत्र
नित्यैव, अनित्येन अनादिद्व्यणुकाद्यजननादिति चेत् , न । सुखदुःखाभावादिसाधनतानुमितेर्हि हेतुत्वं घटादौ गृहीतम् । न च भगवति शरीरादृष्टाभावेन सुखमस्ति,अतो
न क्षित्यादौ तस्य तथानुमितिर्यथार्था सम्भवति । न च तादृशानुमितेरनुमित्यन्तरस्य वानुमितित्वेन घटादौ प्रवृत्तिविषयप्रत्यक्षवद्धेतुत्वं गृहीतमिति नेश्वरे अनुमितिः ।
ननु द्वेषजन्यकृतिसाध्ये चिकीर्षाविरहाद्व्यभिचारः तद्दृष्टान्तेन क्षित्यादौ द्वेषसाध्यत्वादीश्वरे द्वेषोऽपि भवेत्। द्वेषवतः संसारित्वेन भगवतोऽपि तथा त्वापत्तिरितिचेत्,
न । न हि सर्पादिद्वेषादेव तन्नाशानुकूलव्यापारे कृतिरुत्पत्तुमर्हति । प्रयोजनमन्तरेण प्रेक्षावतां दुःखैकफले कृतेरनुत्पत्तेः। किन्तु दुःखसाधनध्वंसं तत्साध्यदुःखानुत्पादं वा
फलमुद्दिश्य तत्साधनताज्ञानात् । तथाचेष्टसाधनताज्ञानात् तत्रेच्छाऽस्त्येवेति सैव कृतिकारणं क्लृप्तत्वात् , द्वेषस्तु परम्परया तदुपक्षीणः। कुतस्तर्हि द्वेषसिद्धिः , शत्रुं
द्वेष्मीत्यबाधितप्रत्ययात् । न चादृश्यस्य कर्तृरनुपलब्धिबाधः। अनुपलब्धिमात्रस्य बाधकत्वे अतीन्द्रियोच्छेदात् योग्यानुपलब्धेश्चासिद्धेः, परमात्मनोऽयोग्यत्वनियमात्।
शशश्रृङ्गप्रतिबन्द्या च नादृश्यमात्रनिरासः। परमाणादिस्वीकारात् ।

91

नाप्ययोग्यकर्तृनिरासः, चेष्टया ज्ञानादिमतः परमात्मनोऽनुमानात् परम्प्रति तस्यायोग्यत्वात् । नापि श्रृङ्गे पशुत्ववदप्रयोजकम्, कर्तुः कार्यमात्रे कारणत्वावधारणात्,
प्रतिबन्दिमात्रस्य चादूषणत्वात् । शशे पशुत्वेनायोग्यश्रृड्गसिद्धिः कुतो नेति चेत् , न । अर्थान्तरत्वात् , विपक्षे बाधकाभावेन व्याप्त्यसिद्धेः । श्रृङ्गत्वस्य
योग्यसंस्थानविशेषव्यड्गत्वेनायोग्यस्य विरोधेन शङ्कितुमशक्यत्वात् । शशे श्रृङ्गस्यात्यन्ताभाव इति सर्वेषामबाधितप्रत्यक्षबाधितत्वाच्च ।
अथ कृतिकार्ययोर्नान्वयव्यतिरेकाभ्यां व्याप्तिग्रहः। त्वन्मते व्यापककृतेः सत्त्वे तद्देशे समये वा कृतिमात्रव्यतिरेकानिरूपणात् । नित्यकृतेरन्वयोऽपि न गृहीतः
वह्निमात्रव्यतिरेकोऽस्ति गृह्यते चेति, न चैवमाकाशात्मनोरप्रसिद्धिः, समवायिमात्रस्य व्यतिरेकानिरूपणेन कार्यं समवायिकारणजन्यमिति व्याप्तेरसिद्धेरिति वाच्यम् ।
समवायिकारणत्वग्रहे हि तत्संसर्गाभावोऽप्रयोजको निमित्तमात्रसाधारणत्वात्। किन्तु यत्समवायि तत्र कार्यम्, यन्न समवायि तत्र नेत्यन्योऽन्याभावमादाय कार्यं
समवायिजन्यमिति व्याप्तिग्रहसम्भवात् , समवायित्वेन तयोरन्योऽन्याभावोऽस्ति गृह्यते च । यद्वा भावकार्यं समवेतमिति व्याप्त्या तयोः सिद्धिरिति। यथा हि
यद्यद्वह्नेरन्वये धूमो गृहीतस्तत्तद्व्यतिरेके धूममात्रव्यतिरेकग्रहात् वह्निधूममात्रयोर्व्याप्तिग्रहः न तु पर्वतीयवह्नेरन्वय व्यतिरेकग्रहात् । न चान्यान्वयव्यतिरेकाभ्यां
अन्यव्याप्तिग्रहे अतिप्रसड्गः इति वाच्यम् । यद्विशेषयोरन्वय व्यतिरेकग्रहस्तत्सामान्ययोर्र्बाधकं विना व्याप्तिग्रहात् , स च वह्निधूमव्याप्तिग्रहः उत्पद्यमानः सकलधूमगोचरो
धूमत्वपुरस्कारेण प्रसिद्धधूमगोचर एव वा भवति। तथेहापि कृतिविशेषकार्यविशेषयोरन्वयव्यतिरेकग्रहो बाधकमन्तरेण कृतिकार्यमात्रयोर्व्याप्तिग्रहे उपायः, न तु
पक्षधर्मताबललभ्यविशेषान्वयव्यतिरेकग्रहः अनुमानमात्रोच्छेदप्रसङ्गात् ।

एतेन
" "कार्यत्वस्य विपक्षवृत्तिहतये सम्भाव्यतेऽतीन्द्रियः

कर्त्ता चेद्व्यतिरेकसिद्धिविधुरा व्याप्तिः कथं सिध्यति।
दृश्योऽथ व्यतिरेकसिद्धिमनसा कर्त्ता समाश्रीयते

तत्त्यागेऽपि तदा तृणादिकमिति व्यक्तं विपक्षेक्षणमिति" "॥ निरस्तम् ।
ननु यदि कर्तृमात्रव्याप्तिग्रहाददृश्यकर्तृसिद्धिस्तदा वह्निमात्रव्याप्तधूमात् अदृश्यजाठरीयवह्निसिद्धिरपि स्यात् । न स्यात् । अदृश्यवह्नेेर्धूमानुत्पत्तेर्दृश्यस्यैव तत्र
हेतुत्वात् । ननु ज्ञानेच्छाप्रयत्नत्रयव्यतिरेकान्न कार्यव्यतिरेकः। किन्तु एकैकव्यतिरेकात् । तथाच व्यर्थविशेषणत्वेन विशिष्टव्यतिरेको न हेतुव्यतिरेकव्याप्य इति न
हेतोर्विशिष्टसिद्धिः, साध्याव्यापकाभावप्रतियोगिनः एव साध्यगमकत्वादिति चेत्, न । यत एकैकव्यतिरेकात्कार्यव्यतिरेकः , अत एव कार्यत्वादेरेकैकं सिध्यत् त्रयमपि
सिध्यति । आर्थस्तु समाजः ।

स्यादेतत्  । अशरीरः नित्यज्ञानादिमान् सर्वज्ञः कर्त्ता पक्षे विवक्षितो, घटादौ च कार्यत्वस्य तद्विपरीतकर्तृसह चारदर्शनाद्विशेषविरुद्धत्वमिति चेत् , न ।
हेतोर्विवक्षितसाध्यविपरीतसहचारमात्रस्यादूषकत्वात्। अन्यथानुमानमात्रोेच्छेदप्रसङ्गात् । न चानित्यज्ञानासर्वज्ञशरीरकर्तृत्वेन समं कार्यत्वस्य व्याप्तिरस्ति, येन विपरीतसाधने
विरुद्धत्वं स्यात् । तादृशव्याप्तिश्च त्वया मया वा नाङ्गीक्रियते । अङ्कुरादौ योग्यानुपलम्भेन शरीरकर्तृकत्वाभावात् ।

अथ यथादर्शनबलप्रवृत्तव्याप्त्याऽनित्यज्ञानादिमान् कर्त्तोपनेयः, पक्षधर्मतया च नित्यज्ञानादिमान् । तथाचोपनेयविशेषयोर्विरोधेन व्याप्तिपक्षधर्मतयोर्विरोधात्
परस्परसहकारिताविरहान्नानुमानं विशेषविरोधादिति । चेत् , न। अनित्यज्ञानादिकर्तृजन्यत्वेन व्याप्त्यग्रहात् , ज्ञानादिमत्कर्तृजन्यत्वव्याप्तेश्च पक्षधर्मताबललभ्यविशेषाविरोधात्,
केवलाया व्याप्तेः पक्षधर्मतायाश्च पृथगुपनायकत्वाभावाच्च एकवैयर्थ्यप्रसङ्गात् । तथाच निरपेक्षतादशायां विशेषानुपस्थानादेव न विरोधज्ञानम्, सापेक्षतादशायान्तु
सहोपलम्भादेव विरोधप्रतियोगिनोः सिद्ध्यसिद्धिभ्यां विरोधज्ञानाभावाच्च। लिङ्गविशेषेण साध्यविशेषेण विरोधे च विशेषविरोधः, यथा चन्दनप्रभववह्निमानयम्
असुरभिधूमवत्त्वादिति।

ननु ज्ञानत्वनित्यत्वयोः कर्तृत्वाशरीरित्वयोेश्च परस्परविरुद्धत्वेन एकधर्म्यसमावेशात् कथं नित्यज्ञानादिकर्तृसिद्धिरिति चेत् , न । उपसंहारस्थानस्याभावात् ।
तथाहि ईश्वरे तद्बुद्धौ चाशरीरत्वकर्तृत्वे बुुद्धित्वनित्यत्वे चोपसंह्रियमाणे विरुद्धे । न तु स्वाश्रयस्थिते, उभयोच्छेदप्रसङ्गात् । न चेश्वरस्तद्बुुद्धिर्वोपस्थिता,  उपस्थितौ वा
धÐमग्राहकमानेन तयोर्विरोधापहारात्। अनुपस्थिते च तद्द्वये विरोधज्ञानमकिञ्चत्करमेव, अस्मदादिबुद्धौ व्योमादौ कुविन्दे मुक्तात्मनि चोपस्थिते विरोधोपसंहारात्।
बुुद्धित्वनित्यत्वयोः कर्तृत्वाशरीरत्वयोरनधिगमेऽपि ईश्वरे अशरीरकर्तृत्वनित्यज्ञानादिसिद्धिरप्रत्यूहैव। अत एव नित्यत्वावयवत्योर्विरोधज्ञानमकिञ्चित्करमेवेति परमाणुसिद्धिः।
ईश्वरतद्बुद्ध्यादिकन्तर्कितमिति चेत् , न। तर्कस्य प्रसञ्जनस्य संशयस्य चाज्ञातेऽसम्भवात् ।

स्यादेतत्।घटादौ कृतिसाध्यता हस्तादिव्यापारद्वारैव गृहीता न तु साक्षात् । न च पितापुत्रयोरेकघटसाधनत्वमिव प्रयत्न हस्तादिव्यापारयोः साक्षात्साधनत्वं
वाच्यमिति वाच्यम् ।

घटार्थं हस्तव्यापारवत्कुलालसमीपस्थस्य हस्तादिव्यापारशून्यस्य तद्घटकर्तृत्वापत्तेः । न च हस्तादिव्यापारवत्ता अशरीरस्य सम्भवति । अन्यादृशी च कृतिसाध्यता
न दृष्टा । शरीरतद्व्यापारौ चाङ्कुरे बाधिताविति कर्त्तुरपि बाध एव । अन्यथा त्वदनुमानादेव क्षेत्रज्ञ एव कर्तानुमीयते बुद्ध्यादिमत्परात्मनो योग्यानुपलब्धिबाधाभावात्।
शरीरव्यापारद्वारैव क्षेत्रज्ञस्य हेतुत्वात् शरीरव्यापारस्य चाङ्कुरे बाधात् स बाधित इति चेत् । तर्हि कर्तृमात्रस्यापि तद्द्वारैव चेष्टेतरकार्ये कर्तृत्वाधारणत् तद्बाधे
कर्तृमात्रबाधोऽपि । एवञ्च कृतिसाध्यत्वे शरीरव्यापारजन्यत्वं प्रयोजकमिति स एव उपाधिः। एवं ज्ञानेच्छयोरपि इच्छाकृतिद्वारा जनकत्वमिति कथं द्वारं विना क्षित्यादौ
जनकत्वमिति ।

92

उच्यते  । जन्यमात्रे हस्तादिव्यापारजनककृतित्वेन न जनकत्वम्, चेष्टायां कृत्यादौ च व्यभिचारात् । किन्तु घटादौ च तथा जनकत्वमिति जन्यमात्रे कृतिमात्रस्य
जनकत्वविरोधिविशेषयोर्जन्यजनकभावे बाधकं विना सामान्ययोरपि तथाभावनियमात्। न हि विशेषे विशेषप्रयोजकत्वेन सामान्यप्रयोजकत्वविरोधः। चेष्टेतरकार्ये
शरीरव्यापारद्वारैव कृतेर्हेतुत्वात् तेन विना क्षित्यादौ न कृतिसाध्यत्वमिति चेत् , न । चेष्टेतरकार्यमात्रे शरीरव्यापारजनककृतित्वेन न जनकत्वम् , क्षित्यादौ व्यभिचारात्,
किन्तु तद्विशेषघटादावित्युक्तत्वात् ।

न चैवमामवातजडीकृतकलेवरस्य प्रयत्नादेव घटोत्पत्तिः स्यात् , हस्तादिव्यापारं विनैव कृर्तेर्हेतुत्वादिति वाच्यम् । घटे कृतिवत् हस्तादिव्यापारस्यापि हेतुत्वात्।
यदुक्तं " "क्षेत्रज्ञ एव कुतो नानुमीयते" " इति । तत्र हस्तादिव्यापारकृतिमान् यदि क्षेत्रज्ञोऽभिमतस्तदा हस्तादिव्यापारकृतिमान् क्षेत्रज्ञोऽभिमतस्तदा हस्तादिव्यापारस्याङ्कुरे
योग्यानुपलब्धिबाधात् ।

अथहस्तादिव्यापाररहितकृतिमानभिमतस्तदोमित्युच्यते। स एव भगवानीश्वरः । अत एव सहभावनिरूपकत्वे नियतपूर्ववर्त्तित्वं कारणत्वम् । समवाय्यसमवायिनोस्तथात्वेन
निमित्तेऽपि तथाभावात् । अन्यथा प्रतिबन्धकाभावानन्तरं प्रतिबन्धकसत्त्वकाले कार्यं स्यात् प्रतिबन्धकाभावस्य पूर्वं सत्त्वात् । न च कृतेः सहभावनिरूपकत्वं स्वतः,
कार्यसमये अभावात् । तथाच तत्परिचायितव्यापारद्वारा तस्याः सहभावनिरुपकत्वम्। अतः शरीरव्यापारद्वारैव कृतेर्जनकत्वं न केवलायाः इत्यपास्तम् ।
समवाय्यसमवायिप्रतिबन्धकाभावानामविनश्यदवस्थत्वेन कारणत्वात् तथैवान्वयव्यतिरेकात्। तेन तेषामभावे विनाशक्षणे च न कार्यम् । अन्यथा प्रतिव्यक्ति
कार्यसहभावनिरूपणे कार्येत्पत्तेः प्राक् सहभावस्य निरूपयितुमशक्यत्वात् कारणत्वानिश्चयेन क्वापि प्रवृत्तिर्न स्यादिति तज्जातीयत्वस्यावश्यवाच्यत्वे विनश्यदवस्थं कथं
सहभावेनापि व्यवच्छेद्यम्। अतः स्वरूपयोग्यतारूपा कारणता तत्रापि । कार्याभावस्तु सहकारिविरहात् । अन्यथा निमित्तानां प्रत्येकं कार्यसहभावनिरूपकत्वेन जनकत्वे
गौरवम्। प्रागभावस्य प्रतियोग्यजनकत्वप्रसङ्गाच्च । अन्यथा उत्पन्नोऽपि घटः पुनरुत्पद्येत सामग्रीसत्त्वात् ।

न च स एव तत्र प्रतिबन्धकः। अभावान्तरस्य तत्राकारणत्वेन कारणीेभूताभावप्रतियोगित्वरूपस्य प्रतिबन्धकत्वस्य प्रागभावकारणत्व एव विश्रामात् ।
न चैका सामग्री एकदैकमेव कार्यं जनयति स्वभावादिति वाच्यम् । सामग्रीतद्विरहस्य कार्यतदभावप्रयोजकत्वेन सामग्र्यांं सत्यां कार्यस्य , तदभावे कार्याभावस्य
वज्रलेपायितत्वात् ।

स्यादेतत्।कर्ता शरीर्येव ज्ञानमनित्यमेव बुद्धिरिच्छाद्वारैव इच्छा कृतिद्वारैव हेतुरित्यादिप्राथमिकव्याप्तिप्रत्यक्षविरोधान्नाशरीरनित्य ज्ञानादिकर्तृसिद्धिः। अत एव
शरीरमनित्यमेवेति नियमान्न कर्तृत्वेन नित्यातीन्द्रियशरीरसिद्धिरीश्वरे । न चाप्रयोजकत्वम्, निरुपाधित्वेन शङ्काकलड्कानवतारात् । कार्यत्वसकर्तृकत्वयोरपि यदि
निरुपाधित्वमस्ति तदापि तुल्यबलत्वेन सत्प्रतिपक्षात् तत्प्रतिबन्धोस्तु । न च कार्यत्वं पक्षधर्मताबलात् बलीयः, कर्ता शरीर्येवेत्यादौ तु तन्नास्तीति वाच्यम् ।
ज्ञानमनित्यमिति व्याप्तेरेव क्षित्यादौ ज्ञानजन्यत्वविरोधित्वात् ।

एवं कार्यं ज्ञानजन्यं ज्ञानमनित्यमेवेत्यनयोर्विरोध एव । अविरोधे तु द्वयमपि स्यात्। तथाच क्षित्यादौ शरीरर्यनित्यज्ञानपर्यवसाने विरोध एव स्यात्।
किञ्च ज्ञानमनित्यमेवेत्यादौ नित्यज्ञानादेरप्रसिद्धेस्तदव्यावर्त्तकतया नोपाधित्वनिश्चयः तत्संशयो वा। कार्यत्व सकर्तृकत्वव्याप्तिग्रहदशायां
शरीरव्यापाराव्यभिचारादुपाधेर्निश्चयः संशयो वास्तीति ।

तन्न। ज्ञानमनित्यमेवेत्यादिव्याप्तेरसिद्धेः । विपक्षबाधकाभावेनाप्रयोजकत्वात् । निरुपाधिसहचारदर्शनव्यभिचारादर्शनादेव व्याप्तिग्रहः, निरुपाधित्वेन वा विपक्षे
बाधकमिति चेत्, न। अवयवो महानेव तेज उद्भूतरूपमेवेत्यादिव्याप्तिग्रहात् परमाणुनयनादेरसिद्धिप्रसङ्गात्।

अथद्रव्यचाक्षुषे अनेकद्रव्यवत्त्वस्य, साक्षात्कारे विषयेन्द्रिसन्निकर्षस्य हेतुत्वात् तन्मूलकविपक्षबाधकेन परमाण्वादिसाधकस्य बलवत्त्वात् परमाण्वादि सिद्धौ
विरोधिव्याप्तेर्बाधः न तु वैपरीत्यम् । विपक्षे बाधकाभावेन तस्याबलवत्त्वादिति मन्यसे, तर्हि ज्ञानादिकार्यकारणभावावधारणात् तन्मूलकविपक्षबाधकेन निष्कलङ्कव्याप्तिग्रहात्
पक्षधर्मताग्रहसहितान्नित्यज्ञानादिसिद्धौ व्यभिचारान्न व्याप्तिः । अन्यथा साध्यं पक्षातिरिक्त एवेत्यादिनिरुपाधिसहचारात् व्यााप्तिग्रहे सकलानुमानोच्छेदः।
वयन्तु ब्रूमः  । पक्षधर्मताबलान्नित्यं ज्ञानं सिद्ध्यत् बुद्धिरनित्यैरेवेति व्याप्तिप्रत्यक्षेण न प्रतिबध्यते। अस्मदापि बुद्धिविषयकत्वेन भिन्नविषयकत्वात् एकविषयविरोधिज्ञानस्यैव
प्रतिबन्धकत्वात् नित्यत्वानित्यत्वयोरेकजातीये द्रव्येऽविरोधात्। बुद्धिमात्रेऽनित्यत्वावगमात् कथं तद्विशेषे नित्यत्वबुद्धिरिति चेत्, न। बुद्धिमात्रस्येश्वरानीश्वरबुद्धिपरत्वे
विरोधात् व्यभिचाराच्च। अस्मदादिबुद्धिपरत्वे च भिन्नविषयत्वेनाप्रतिबन्धकत्वात् । बुद्धित्वं नित्यावृत्त्येवेत्यवगतमतः कथं तत्र नित्यवृत्तित्वावगम इति चेत् , न।
उभयसिद्धनित्यावृत्तित्वावगमेऽप्यतिरिक्तनित्यवृत्तित्वावगतौ विरोधाभावात्। बुुद्धित्वमनित्यत्वव्याप्यमवगतं नानित्यत्वाभाववति ज्ञातव्यमिति चेत् , न ।
अनित्यत्वव्याप्यत्वमनित्यमात्रवृत्तित्वं तत्र चोक्तमेव । एतेन कर्ता शरीर्र्येेवेत्याद्यपि ज्ञानं प्रतिबन्धकमिति निरस्तम् ।
ननु कर्तृजन्यत्वे जन्यत्वं नावच्छेदकम्, किन्तु घटत्वादिकमेव, तेनैव रूपेणान्वयव्यतिरेकग्रहादावश्यकत्वाच्च । अननुगतमपि जन्यतावच्छेदकम्, वह्निजन्यतायां
धूमत्वादिवत् ।

अथघटत्वादिवज्जन्यत्वमवच्छेदकम् । न हि विशेषोऽस्तीति सामान्यमप्रयोजकम् । तथाच वह्निजन्यत्वे धूमविशेषः प्रयोज्योऽस्तीति न धूमसामान्यमग्निं
गमयेत् । तस्माद्यद्विशेषयोः कार्य कारणभावस्तत्सामान्ययोरपि बाधकं विना तथात्वनियम इति चेत् , न ।

93

तत्र बाधकाभावात् । अत्र च ज्ञानमनित्यमेवेत्यादिप्राथमिकबहुव्याप्तौ बाधात् । तुल्यत्वे वा व्याप्तिसंशयाधायकत्वात् । न च कार्यकारणभावमूलकत्वेन
कार्यत्वसकृर्तृकत्वव्याप्तिर्र्बलीयसीति वाच्यम् । विरोधिप्रत्यक्षेण कार्यकारणभावस्यैवासिद्धेः ।

एतेनधूमादौ वह्निजन्यतावच्छेदकमनुगतं न सम्भवति। इह तु जन्यत्वमनुगतमस्ति। अतो बाधकं विना न मुच्यते इति निरस्तम् । ज्ञानमनित्यमेवेत्यादिसहचारावसायस्य
बाधकं विना पक्षधर्मव्याप्तिपर्यवसायित्वेन बाधकत्वादिति ।

मैवम्  । निरुपाधित्वेन सहचारावसायस्य साधकं बाधकञ्च विना साधारण्येन व्याप्तिसंशयाधायकत्वात् । अन्यथा साध्यं पक्षातिरिक्ते एव सुखं
दुःखसम्भिन्नमेवेत्यादिव्याप्तिग्रहस्य कार्यकारणभावग्राहकबाधकत्वे तत्संशयाधायकत्वे वा कार्र्यात्कारणानुमानोच्छेदे निरीहं जगज्जायेत । तस्माद् यद्विशेषयोः
कार्यकारणभावस्तत्सामान्ययोः कार्यकारणभावो बलवता बाधकेनापनीयते। न चात्र तदस्ति । विरोधिव्याप्तिसाधकस्य विपक्षबाधकस्याभावात्।
नव्यास्तु कार्यं कर्तृजन्यमिति व्याप्तितोऽशरीरनित्यज्ञानकर्तकर्त्रुपस्थितौ ज्ञानमनित्यमेवेत्यनेन विरोधप्रतिसन्धानं न तु तां विना, प्रतियोग्यनुपस्थितौ विरोधानिरूपणात्।
तथाचोपजीव्यबाधात् ज्ञानमनित्यमेवेति व्याप्तिज्ञानमकिञ्चित्करमेव । अत एव पक्षधर्मताविनाकृतं विरोधिव्याप्तिज्ञानं न हेत्वाभासतयोक्तं विरोधप्रतियोगिसिद्ध्यसिद्धिपराहतत्वादिति।
स्यादेतत्। अस्तु शरीरजन्यत्वमुपाधिः । न च पक्षेतरत्ववत् पक्षमात्रव्यावर्त्तकविशेषणवत्त्वात् साधनविशेषितत्वात् साधनतुल्ययोगक्षेमत्वेन साध्यव्यापकत्वानिश्चयाच्च
नोपाधित्वमिति वाच्यम् । चेष्टेतरकार्येषु शरीरव्यापारद्वारैव कर्तुः कारणत्वात् शरीरसहकृतस्यैव स्वकार्ये कारणत्वाच्च । न हि शरीरविनाकृतः कर्ता शरीरक्रियां  चेष्टां
घटादिकं वा जनयति। न च यत्सहकृतं यज्जनकं तेन विना तज्जनकम्। अतोऽर्थाच्छरीरजन्यमेव कर्त्तृजन्यमिति साध्यव्यापकत्वनिश्चयात् । पक्षेतरत्वादौ च
विपक्षबाधकाभावान्न साध्यव्यापकतानिश्चय इति तेषामनुपाधित्वे बीजम् । अत एव बाधोन्नीतं वह्नीतरत्वं वह्निमत्त्वेन धूमवत्त्वे साध्ये आर्द्रेन्धनप्रभववह्निमत्त्वम्,
रसवत्त्वेन गन्धवत्त्वे साध्ये पृथिवीत्वमुपाधिः । विपक्षबाधकैस्तेषां साध्यव्यापकत्वनिश्चयात् ।

न च साधनविशेषितत्वमपि। जन्यत्वं हि प्रागभावप्रतियोगित्वम्। शरीरजन्यत्वञ्च शरीरकारणवत्वम्। अन्यानिरक्तेः इतरपदसमभिव्याहारेण जन्यपदादितरकारणकस्यैव
प्रतीतेः तदर्थकत्वकल्पनादिति विधौ वक्ष्यते ।

अत एव शरीरकर्तृकत्वमुपाधिःशरीरसहकृतस्यैव कर्तुः कारणत्वात् । व्याप्यं व्यापककोटावनिवेश्यत एव प्रमाणस्य व्याप्तिग्राहकत्वात्। शरीरकर्त्तृकत्व
सकर्तृकत्वयोर्न व्याप्तिग्रहः इति चेत् , न। विशिष्टाविशष्टभेदेन व्याप्यव्यापकभावाविरोधात् । अत एव जन्यत्वेन कारणजन्यत्वमनुमीयते इति ।
मैवम्। कर्तुर्हि शरीरसहकारिता किं घटादौ कर्तव्ये कार्यमात्रे वा स्वकार्ये वा। आद्ये कर्र्ता शरीरं विना घटादिकं न करोतीति किमायातं कर्तुः कार्यमात्रकरणे।
द्वितीये च कार्यमात्रं कर्तृजन्यमिति न त्वया स्वीक्रियते। स्वीकारे वा शरीराजन्यमपि कार्यं कर्तृजन्यमिति साध्याव्यापकत्वम् । तृतीये तु स्वजन्यत्वं न स्वजन्यतावच्छेदकम्,
आत्माश्रयात् । तथापि यच सकर्तृकत्वमस्ति तत्र शरीरजन्यत्वमावश्यकमिति तस्य साध्यव्यापकत्वम् , तुल्ययोगक्षेमत्वेन हेतुव्याप्यतासंशयाधायकत्वेन सन्दिग्धोपाधित्वं
वेति चेत् , न ।

लाघवेन बाधकं विना कर्तृजन्यत्वे सति जन्यत्वमवच्छेदकम्, न तु शरीरजन्यत्वं गौरवात्। तथाच शरीरजन्यत्वं न सकर्तृकत्वव्यापकम्। घटादौ त्वार्थः समाजः।
घटत्वेन शरीरजन्यत्वनियमात् । न तु व्याप्कत्वप्रयुक्तः। मानाभावात् शरीरजन्यत्वं न सकर्तृकत्वव्यापकं तद्व्याप्यजलत्वाव्यापकत्वात् नित्यत्ववदिति बाधकात्
हस्तादिना पि कर्तृत्वनिर्वाहेणशरीरस्याप्रयोजकत्वात्। साक्षात्प्रयत्नाधिष्टेयजन्यत्वस्य साधनव्यापकत्वाच्च। शरीरकर्तृकत्वमपि नोपाधिः । जन्यमात्रे कर्तुः शरीरसहकारिताविरहात्।
अथ यद्विशेषयोः कार्यकारणभावस्तत्सामान्ययोरपि बाधकं विना तथा नियम इति त्वया निरटङ्कि । तथाच कर्तृविशेषशरीरजन्यविशेषयोः कार्यकारणभावनियमात्
कर्तृमात्रशरीरजन्यमात्रयोरपि तथाभावः। तथाच शरीरजन्यत्वं कर्तृजन्यतावच्छेजकमिति भवत्युपाधिः ।

न चैवं घटत्ववच्छरीरजन्यत्वं सकर्तृकत्वव्याप्यं न तु व्यापकमपीति वाच्यम् । उभयसिद्धसकल सकर्तृकवृत्तित्वेन साध्यव्यापकतानिर्णयात् । जन्यत्वेऽपि
सकर्तृकत्वव्याप्यत्वग्राहकमस्तीति चेत्, तर्हि उभयत्र व्याप्तिग्राहकसाम्ये विनिगमकाभावात् व्याप्तिसंशयाधायकत्वेन सन्दिग्धोपाधिर्व्याप्यत्वासिद्धिर्वा । हेतुव्याप्यतासंशयाधायक
एव हि सन्दिग्धोपाधिः। स च साध्यव्यापकत्वे साधनाव्याप्कत्वे वोभयत्र वा संशयात् ।

न च वाच्यम् शरीरजन्यत्वसकर्त्तृकत्वयोरन्वयव्यतिरेकज्ञाने जन्यत्वसकर्तृकत्वयोस्तद्ग्रह आवश्यक इति लाघवात्तयोरेव व्याप्तिग्रहो न तूपाधिसाध्ययोः।
हेतुसाध्ययोरन्वयव्यतिरेकज्ञानञ्च शरीरजन्यत्वानवगमेऽपि भवतीति विनिगमकमिति। यतो न कर्तृमात्रजन्यमाचयोरन्वयव्यतिरेकाभ्यां व्याप्तिग्रहः, कर्तृमात्रस्य व्यतिरेकाभावात्।
किन्तु विशेषयोः अन्वयव्यतिरेकेण कार्य कारणभावेन वा सामान्ययोस्तथात्वग्रहः , तौ च तुल्यावेवेति चेत्,

उच्यते। अस्तु तावद्घटत्ववज्जन्यत्वशरीरजन्यत्वयोरपि कर्तृजन्यतावच्छेदकत्वेन सकर्तृकत्वव्याप्यत्वम्, ग्राहकतौल्यात् विनिगमनाभावात् विरोधाभावाच्च।
सकर्तृकत्वव्यापकत्वन्तु शरीरजन्यत्वस्य कुतः? घटत्ववदव्यापकस्यापि जन्यतावच्छेदकत्वात् । उभयसिद्धसकर्तृकेऽन्वयव्यतिरेकाभ्यां शरीरजन्यत्वस्यव्यापकत्वग्रह इति
चेत्, न। शरीरजन्यत्वविनिवेद्यत्वेनतुल्यन्यायेन च प्रथमं कर्तृजन्यत्वे जन्यत्वमवच्छेदकं क्लृप्तमिति तद्विरोधेन शरीरजन्यत्वस्य सकृर्तृकत्वव्यापकत्वानवगमात् । अत
एव न सन्दिग्धोपाधित्वम् ।

94

ननु घटादौ शरीरजन्यत्वे कर्तृजन्यत्वमनुगतमवच्छेदकम् बाधकाभावात् । न च लाघवात् घटत्वादिकमेव तथा, कर्तृजन्यत्वेऽपि जन्यत्वस्यातथात्वापत्तेः। एवं
शरीरजन्यत्वस्य व्याप्यं सकृर्तकत्वं वह्नेेर्धूमइवेति भवत्युपाधिः ।

किञ्च कर्तृजन्यत्वे जन्यत्वं शरीरजन्यत्वे वा सकर्तृकत्वमवच्छेदकमिति संशयेऽपि न हेतोः साध्यव्याप्यत्वनिश्चय इति चेत्, तर्हि घटादौ कर्तृजन्यत्वे गृहीते
तस्य शरीरजन्यत्वावच्छेदकत्वं ग्रहीतव्यम्। घटे च घटत्ववज्जन्यत्वमपि बाधकं विना कर्तृजन्यतावच्छेदकं गृहीतम्। अतो जन्यमात्रे कर्तृजन्यत्वात् न शरीरजन्यत्वे
तदवच्छेदकत्वम्। प्रथमगृहीतोपजीव्यविरोधात् । अत एव न तस्य हेतौ व्याप्तिसंशयाधायकत्वमपि ।

एतेनानणुत्व क्षित्यवयववृत्त्यन्यत्वादय उपाधित्वेन निरस्ताः, जन्यत्वस्य साध्यव्याप्यत्वेन तेषां साध्याव्यापकत्वात् । तथापि क्षित्यादिकं न कर्तृजन्यं शरीराजन्यत्वात्
गगनवदिति सत्प्रतिपक्षोऽस्त्विति चेत् , न । अस्य प्रसिद्धकर्तृजन्यत्वाभावविषयकत्वात् अप्रतीतप्रतियोगिकस्याभावस्य निरूपयितुमशक्यत्वात्। स्थापनानुमानञ्च
पक्षधर्मताबलात् प्रसिद्धकर्तृभिन्नकर्तृकत्वसाधकमतो भिन्नविषयकत्वान्न प्रतिबध्यप्रतिबन्धकभावः । अत एव तद्व्यापकरहितत्वादिकमभावसाधकं बाधकमपास्तम् । तस्य
प्रसिद्धाभावविषयकत्वेनाप्रसिद्धाभावविषयकत्वात्। व्यक्तिसाधकस्य च विशेषतोऽप्रसिद्धव्यक्तिसाधकत्वनियमात् , अन्यथानुमानवैयर्थ्यात्।
कर्तृजन्यत्वमनुगतं घटादौ प्रसिद्धं यत्साध्यं तदभावो मया साध्यत इति चेत्, कर्तृजन्यत्वमनुगतमपि पक्षधर्मताबलेनाप्रसिद्धं कर्तारमदाय पर्यवस्यति। तदभावस्तु
प्रसिद्धस्य कर्तुरभावमादाय सिद्ध्यति नाप्रसिद्धस्य । अनुगतस्यापि कर्तृजन्यत्वस्य तदभावस्य च कर्तृव्यक्तिघटितत्वात् । अन्यथा व्यक्तितदभावासिद्धिप्रसङ्गात् । न चैवं
सत्प्रतिपक्षोच्छेदप्रसड्गः । तस्य गोत्वाद्येकभावाभावसाधकविषयत्वात् ।

एतेन "ज्ञानत्वं न नित्यवृत्ति ज्ञानमात्रवृत्तिजातित्वात् स्मृतित्ववत्" , "ज्ञानं न नित्यगुणवृत्तिगुणत्वव्याप्यजातियोगि चेतनविशेषगुणत्वात् सुखवत्", "आत्मा न
नित्यविशेषगुणाधारवृत्तिद्रव्यत्वापरजातिमान् विभुत्वात् गगनवत्" इत्याद्यपास्तम् । प्रसिद्धे नित्ये व्योमादौ प्रसिद्धायाश्च रूपत्वजलत्वादिजातेर्व्यतिरेकविषयत्वादप्रयोजकत्वाच्च।
किञ्च क्षित्यादौ शरीराजन्यत्वमसिद्धम् । अदृष्टद्वारा तज्जन्यत्वात् । न चादृष्टाद्वारकजन्यज्ञानाजन्यत्वं हेतुः। ज्ञाने जन्यत्वविशेषणस्याव्यावर्र्तकत्वेन व्यर्थत्वात्।
न च स्थापनायां पक्षविशेषणेऽप्ययं दोषः। प्रमेयो घट इतिवत्तदुपरक्तबुद्धेरुद्देश्यत्वात् । अपि च शरीराजन्यत्वे व्यर्थविशेषणत्वम्, लाघवेनाजन्यत्वस्यैव व्याप्तत्वात् ।न च
निष्प्रयोजनविशेषणवत्त्वमसिद्धम् , व्याप्तिग्रहोपयुक्तविशेषणवत् पक्षधर्मतौेपयिकविशेषणस्यापि सप्रयोजनत्वात्। व्यभिचारवारकस्यापि सार्थकत्वे अनुमितिप्रयोजकत्वस्यैव
बीजत्वात् । व्यभिचारवारकविशेषणवत्येव व्याप्तिग्रह इति चेत् , न। निर्विशेषणेऽपि गोत्वादौ व्याप्तिग्रहात् । तत्रापि व्यक्तिविशिष्टे व्याप्तिग्रह इति चेत् , न । स्वतो
व्यावृत्तगोत्वस्य व्यभिचारात्। अन्यथान्योन्याश्रयात् । अपिच व्यभिचारवारकविशेषणवत्येव व्याप्तिग्रह इत्यप्रयोजकम्, सहचारदर्शनादिसत्त्वे तदभावेन व्याप्तिग्रहाविलम्बात्।
व्यभिचारावारकविशेषणशून्य एव व्याप्तिग्रह इति चेत् , न । प्रमेयत्वेन ज्ञायमाने धूमे व्याप्तिग्रहात् ।

अथ तत्रोपात्तव्यभिचारावारकविशेषणशून्यत्वं विवक्षितम् , न च तत्र प्रमेयत्वं विशेषणमुपात्तमिति चेत् , न । विरोधात् , न हि तत्रोपात्तं तेन शून्यञ्चेति
सम्भवति। यद्विषयकत्वेन परामर्शः कारणमनुमितौ तल्लिड्गम्, प्रकृते च व्यभिचारादन्यथासिद्धेश्च न विशेषणविषयकत्वेन तत्त्वमिति चेत् , न । धूमस्याव्याप्यत्वापत्तेः,
व्यभिचारात् तद्विषयत्वेनानुमित्यकारणत्वात् । अथैकमवच्छेदकम् , अपरत्र व्याप्तिः। यद्वा लाघवेन व्यासज्यवृत्तिरेकैव व्याप्तिरिति विशिष्टव्याप्त्यर्थः। तत्र विशेष्यतावच्छेदकस्य
व्याप्त्यनवच्छेदकत्वेन विशेषणस्य तदवच्छेदकत्वमिति नियमात्। एकवृत्तित्वबाधे सत्येव व्यासज्यवृत्तित्वमिति व्याप्तेश्च न शरीरजन्यत्वाभावे नीलधूमादौ च व्याप्तिरिति
विशेषमात्रे सा। तथाच स्वरूपासिद्धिस्तद्वारणार्थं विशेषणाभिधाने व्याप्यत्वासिद्धिरिति चेत् , न। अव्यभिचारस्यानौपाधिकत्वस्य वा विशिष्टे नीलधूमादौ सत्त्वेन
तद्व्यतिरेकसाधने बाधात् । न च विशेष्यत्वमुपाधिः, साधनव्यापकत्वात्।

कञ्च सौरभविशेषवद्धूमरहितमिदं चन्दनप्रभववह्निरहितत्वात् , निर्धूमोऽयमार्द्रेन्धनप्रभववह्निरहितत्वात् इत्यादावपि कारणविशेषाभावेन कार्यविशेषाभावानुमानं
न स्यात् । वह्निरहितत्वादिकञ्चोपाधिर्भवेत् । व्यतिरेकिण्यष्टद्रव्यातिरिक्तद्रव्यानाश्रितत्वञ्च हेत्वभावव्याप्यं न स्यात्। द्रव्यानाश्रितत्वस्यैव व्याप्यत्वात्। रूपादिषु मध्ये
गन्धस्यैव व्यञ्चकत्वादित्यादौ त्वयाप्यसिद्धिवारकविशेषणस्वीकाराच्च। अपि च गौरवेण विशिष्टस्य व्यापकतापि न स्यात् । तथाच स्थापनानुमाने
उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमज्जन्यता, धूमेनार्द्रेन्धनप्रभववह्निः घटत्वेन शरीरजन्यत्वादिकं नानुमीयेत ।

यत्तु जन्यान्योऽन्याभावापेक्षया शरीरजन्यान्योन्याभावस्याल्पत्वात् । तेषामेव व्याप्यत्वमिति विपरीतमेव लाघवमिति। तन्न। विरोधाभावेन बहूनामल्पस्य च
व्याप्यत्वात् स्नेहे शीतस्पर्शवत्वजलत्वयोर्गन्धाभावेऽपृथिवीत्वपृथिवीत्वाभावयोरिव। अन्यथा नीलधूमस्यैव व्याप्यत्वे धूममात्रस्याव्याप्यत्वप्रसड्गः । किञ्च त्वन्नये
वह्न्यन्योन्याभावापेक्षया जन्यत्वात्यन्ताभावस्यैव व्याप्यता स्यादेकत्वात्। प्रमेयत्वाद्यनन्तधर्मविशिष्टस्य व्याप्तावपि प्रयोजनाभावान्नानुमाने तदुपन्यासः ।
अथ लाघवेन जन्यत्वस्य शीघ्रोपस्थितिकतया जन्यताभावत्वेन शीघ्रंं व्याप्तिग्रहो न तु शरीरजन्याभावत्वेन , विलम्बितप्रतीतिकत्वात् । यत्र विशेषणविशेष्यान्यतराभाववति
साध्यं तत्र विशिष्टाभावस्यापि व्याप्तिरिति चेत् , न । एवं सति उत्पत्तिमत्त्वे सति सत्त्वादिकमनित्यत्व सकर्तृकत्वव्याप्यतया न गृह्येत, शीघ्रोपस्थितिकतया घटत्वादेरेव
तथात्वात् । यदि च सामान्यविशेषाभावाद्विरोधाभावेनोभयस्यापि व्याप्यता, तदा शरीराजन्यत्वजन्यत्वाभावयोरपि तुल्यम्। किञ्च शरीरजन्यत्वं विशिष्टतदभावमपि
विशिनष्टि, न तु साक्षात् । तथाच शरीरजन्यत्वाभावोऽखण्ड एव हेतुरतो न व्यर्थविशेषणता । न चात्र विशिष्टाभावो विशेष्याभाव एव, क्षित्यादावजन्यतापत्तेः। अत एव
स्थापनायां शरीरजन्यत्वमुपाधिः, साध्याभावव्याप्याभावप्रतियोगित्वेन साध्यव्यापकत्वनियमात् । व्यर्थविशेषणेऽधिकं निग्रहस्थानमिति चेत् , न । हेतुद्वयोपन्यासे
ह्यधिकम्। इह तु विशिष्टमेकमेव हेतुरिति विरुद्धस्थले उक्तमिति ।

उच्यते। नीलधूमादौ व्याप्तिरस्त्येव। अन्यथा विशेषाणामव्याप्यत्वे निराश्रया व्याप्तिः स्यात् । नीलत्वमपि न व्याप्यतावच्छेदकम्। गौरवात् । किन्तु धूमत्वमेव,
दण्डत्वेन कारणत्वे रूपमिव। धूमत्वञ्च न नीलिम्नि, किन्तु तदाश्रये धूम इति न नीलधूमस्य हेतुत्वम् । नीलधूमे नीलस्य विशेषणत्वे तद्विशिष्टे न धूमत्वम् ।

95

उपलक्षणत्वे च धूमादेवानुमितिः । किञ्च व्याप्यतावच्छेदकस्यैव हेतुतावच्छेदकत्वमिति न नीलधूमत्वं तथा । न चैवं धूमत्वस्यावच्छेदकत्वेऽपि सामग्रीसत्त्वान्नीलधूमादनुमित्युत्पत्तौ
हेत्वाभासत्वं न स्यात् , अनुमितिप्रतिबन्धकस्य तत्त्वादिति वाच्यम्। तदभावेऽपि नीलधूमप्रयुक्तसाध्यवत्प्रत्ययस्य भ्रमत्वेन तत्कारणत्वस्याभासत्वसम्भवादिति दिक् । एवं
शरीरजन्यत्वेऽपि न शरीरमवच्छेदकम् , गौरवात् । येन विशेषणेन विना व्याप्तिर्न गृह्यते तस्यैव व्याप्यतावच्छेदकत्वनियमात् ।

अत एव गन्धस्यैव व्यञ्जकत्वादित्यत्राप्रसिद्धत्वेन रूपादिषु मध्य इति विशेषणं विना व्याप्तिर्ग्रहीतुं न शक्यते इत्यसिद्धिवारकमपि विशेषणं सार्थकमेव।
सुरभिधूमविशेषादौ च चन्दनप्रभवाग्न्यादेः कारणत्वात् कारणाभावस्य कार्याभावप्रयोजकतया व्याप्यत्वनिश्चयः । व्यापके च न व्यर्थविशेषणता, विशिष्टस्य कारणत्वेन
व्यापकत्वात् । परिशेषव्यतिरेकिणि विपक्षबाधकेनानन्यगतिकतया विशिष्टस्य व्यापकत्वात् विशिष्टाभावस्य हेत्वभावव्याप्यत्वम् । यत्र च विपक्षबाधकं नास्ति तत्र
विशिष्टस्य व्यापकतापि न। यथा कार्यस्यद्विकर्तृकत्वेनापि शरीरजन्यत्वाभावोऽखण्डो हेतुः।

यदि हि शरीरजन्यत्वं सकृर्तृकत्वप्रयोजकं स्यात्तदा तदभावप्रयुक्तः सकर्तृकत्वाभाव इति तस्य साध्यव्याप्यता स्यात् , न चैवम् । किन्तु जन्यत्वं लाघवात्तथा।
तथाचाजन्यत्वमेवोपाधिः, साध्यव्याप्याभावः साध्याभावव्यापक इति नियमेन तस्य साध्यव्यापकतानिश्चयात् । सकर्तृकत्वशरीरजन्यत्वयोर्व्याप्त्यभावेन तदभावयोरपि
व्याप्त्यभाव इति व्याप्यत्वासिद्धत्वाच्च । अत एव शरीरजन्यत्वाभावस्याकर्तृकत्वव्याप्यत्वात्तदभावयोरपि व्याप्यव्यापकभाव इति निरस्तम्। शरीरजन्यत्वस्य सकर्तृकत्वाप्रयोजकत्वात्।
न चाकर्तृकत्वं पूर्वसाधनव्यतिरेकत्वेन नोपाधिः, सत्प्रतिपक्षोच्छेदप्रसङ्गादिति वाच्यम् । स्थापनायाः यत्राभासत्वं तत्र विशेषादर्शनदशायां सत्प्रतिपक्षे पूर्वसाधनव्यतिरेकस्य
साध्याव्यापकत्वेनानुपाधिकत्वात् । यथा शब्दोऽनित्यो गुणत्वादित्यत्र शब्दोनित्यो व्योमैकगुणत्वादित्यनेन सत्प्रतिपक्षे गुणत्वाभावो नोपाधिः , जलपरमाणुरूपे साध्याव्यापकत्वात्।
न चैवमनैकान्तिकत्वमेव तत्रोद्भाव्यम् । सत्प्रतिपक्षमुपेक्ष्य तस्योद्भावनानर्हत्वात् । किञ्च प्रागभावप्रतियोगित्वे सति समवेतत्वस्य तत्प्रतियोगित्वे सति सत्त्वस्य,  सत्त्वे
सत्युत्पत्तिमत्त्वस्य वा हेतुत्वे एषामन्यतमव्यतिरेक उपाधिरिति न पूर्वसाधनव्यतिरेकः। अत एवाजन्यत्वस्य नोपाधित्वम् , ध्वंसे साध्याव्यापकत्वादिति न दोषः ।
अन्ये तु यन्निष्ठा यन्निरूपिता च व्याप्तिर्येन विशेषणेन विना न गृह्यते तत्र विशिष्टं व्याप्यतावच्छेदकम्। अकर्तृकत्वनिरूपिताभावनिष्ठव्याप्तौ च शरीरं विनैव
प्रतियोगितया जन्यत्वमवच्छेदकं क्लृप्तमिति न शरीर जन्यत्वमवच्छेदकम् , धूमे नीलधूमत्वमिव। अतिगौरवेण शरीरजन्यत्वमप्रतियोगितया च जन्यत्वं नावच्छेदकमिति
व्याप्यतावच्छेदकाभावान्न शरीरजन्यत्वाभावोऽकर्तृकत्वव्याप्यः । व्यभिचाराभावात् तथेति चेत् , न । क्षित्यादावेव व्यभिचारात्। अन्यथा क्षित्यादिकं नादृष्टहेतुकं
शरीरजन्यत्वाभावादित्याद्यपि स्यात् ।

नन्वस्तु तावदशरीरनित्यज्ञानादिकर्त्रनुमितिः, तथापि सानुमितिरयथार्था , अशरीरे कर्तृत्वज्ञानत्वात्, ज्ञानेच्छाप्रयत्नेषु नित्यज्ञानत्वात् शरीराजन्ये सकर्तृकत्वज्ञानत्वात्।
घटः कर्त्ता घटज्ञानादिकं नित्यं व्योम सकर्तृकमिति ज्ञानवदिति साध्यम्। न चोपजीव्यबाधः, अनुमितिर्हि उपजीव्या ।

नन्वस्तु तद्यथार्थत्वमपीति चेत् , न । कर्तृकार्ययोर्निरुपाधिकार्यकारणाभावेन एतस्याप्रयोजकत्वात्। अन्यथा पर्वते वह्न्यनुमितिरयथार्था उभयसिद्धवह्निमद्भिन्ने
वह्निज्ञानत्वादित्यादिना सकलान्वयव्यतिरेक्युच्छेदः ।

किञ्चानुमितेरयाथार्थ्यमनेन ज्ञाप्यम् , न तु कार्यम् । तथाच दोषादुत्पन्नस्यानेन ज्ञापने तत्रायमेव दोषो दोषान्तरं वा । नाद्यः , अन्योन्याश्रयात् , उत्पन्ने तस्मिन्
ज्ञापनं ज्ञापकादेव च तस्माद्दोषात्तदुत्पत्तिरिति। नान्त्यः, असिद्धेः । तर्कापरिशुद्धिस्तु न दूषणम् । यदि ईश्वरः कर्त्ता स्यात् शरीरि स्यात् , इष्टसाधनताज्ञानवान् स्यात्,
प्रयोजनवान् स्यात् , अनित्यज्ञानवान् स्यात् , क्षित्यादि यदि सकर्तृकं स्यात् शरीरिकर्तृकं स्याद् इत्यादितर्काणां विपर्यये आश्रयासिद्धिव्यर्थविशेषणत्वादिना
विपर्ययापर्यवसानेनाभासत्वात्।

ननु क्षित्यादावेककर्तृसिद्धिः कुतः ? एककर्तृकत्वेन व्याप्त्यभावात् । न च लाघवात्, तस्याप्रमाणत्वात् । सकर्तृकत्वप्रमाणादेव लाघवसहकृतात् तत्सिद्धिरिति
चेत् ,न। तावदनुमितिमात्रे लाघवं सहकारि, व्यभिचारात् मानाभावाच्च । न हि लिड्गपरामर्शे सति तद्विलम्बेनानुमितिबिलम्बो येन तत्सहकारि स्यात् । नापि
लघ्वनुमितौ , अन्योऽन्याश्रयात् । नापि व्यक्त्यनुमितौ, धूमेन वह्न्यानुमितौ एकद्विहस्तादिसंशयाभावापत्तेः । साधकाभावेन नानात्वासिद्धौ कर्तृसिद्धेरेवैककर्तृसिद्धिरिति
चेत् , न। एकत्वसाधकाभावेनैकत्वासिद्धौ कर्तृसिद्धिरेव नानात्वसिद्धिरित्यस्यापि सुवचनत्वात्।

अथयमर्थमनालम्बमानानुमितिः पक्षे न साध्यसंसर्र्गं विषयीकरोति स पक्षधर्मताबलात्सिध्यति, न त्वधिकमपि। तथाच द्वितीयं कर्त्तारमविषयीकुर्वत्यपि कर्त्तारं
विषयीकरोत्येवेति न द्वितीयमवगाहते । एकस्तु कर्त्ता सिध्यति तदविषयत्वे कर्तृविषयतैव  न स्यात्, एकविषयत्वाभावे नानाविषयत्वस्याप्यभावात्। तद्घटितत्वात्तस्येति
चेदेवं तर्हि कर्त्रेकत्वमपि न विषयः स्यात्। एकत्वविषयत्वं विनापि कर्तृविषयत्वसम्भवात्। वस्तुगत्यैकः सिध्यति न त्वकेत्वेनेति चेत्, न। एकत्वासिद्ध्या वस्तुगत्यैक
इति ज्ञातुमशक्यत्वात्। तथाचेश्वरे एकत्वानेकत्वयोर्नित्यसंशय इति।

उच्यते । यत्र प्रमाणे लघु-गुरुविषयता सम्भवति तत्र लाधवसहकारिता। कारणताकार्यताव्याप्यतादिग्राहके प्रत्यक्षे , प्रवृत्तिनिमित्तग्राहके उपमाने, शब्दशक्तिग्राहकानुमाने,
तथाविधप्रमाणमात्रे च सकलतान्त्रिकैः सहकारित्वकल्पनात् । एवं लाघवमेव गौरवमिति ज्ञानानन्तरं बाधकम् विना लघूनामेव

कारणत्वकार्यत्वव्याप्यत्वप्रवृत्तिनिमित्तत्वशब्दशक्यत्वानां ज्ञानदर्शनात् । तत्रापि लाघवानादरे शब्दशक्यत्वादिसंशये तन्मूलकव्यवहारोच्छेदो विनिगमकाभावात् सोऽयं
विचारमारभते , लाघवञ्च तदङ्गं नाङ्गीकुरुते इति महत्साहसम् ।

नन्वेवं वस्तुगत्या नानाकर्तृकेषु घटेषु घटत्वेन कुलालकर्तृकत्वानुमानेऽपि बाधकानवतारदशायां लाघवादेककर्तृसिद्धिः स्यात् । नचेष्टापत्तिः , अनुमित्यनन्तरं
नानात्वैकत्वे संशयादिति चेत् , न। तत्रापि लाघवेन कर्त्रैक्यमेव सिद्ध्यति । तत्सन्देहस्तु ज्ञानप्रामाण्यसंशयादिति पश्चान्नानाकर्तृकत्वसाधकप्रमाणादेव एककर्तृकतानुमानं

96

तत्र बाध्यते । न चैवं क्षित्यादिकर्तर्यपि प्रामाण्यसंशयादेकत्वानेकत्वसंशयो दुरुच्छेदः। एकत्वे बाधकस्याभावेन प्रामाण्यनिश्चयात् । न चैकत्वसाधकाभाव एव बाधकः ।
अनुमितेरेव लाघवसहकारेण एकत्वसाधकत्वात् ।

अन्ये तु  क्षितिकर्त्ता अङ्कुरकर्त्रभिन्नः अशरीरकर्तृत्वात् अङ्कुरकर्तृवदित्यभेदानुमानादेककर्र्तृृसिद्धिः । न च क्षितिकर्त्ता अङ्कुरकर्र्तृभिन्नः अड्कुराकर्त्तृत्वात्
कुलालवदिति सत्प्रतिपक्षः। अनित्यज्ञानानामाश्रयत्वस्योपाधिकत्वादित्याहुः । अत्राप्यप्रयोजकत्वे भेदाभेदयोर्गौरवलाघवे एव शरणम् । तथापि कथं नित्यसर्वविषयज्ञानसिद्धिः।
पक्षधर्मताबलादिति चेत्, व्यापकतयावगतस्य पक्षसम्बन्धमात्रं पक्षधर्माद्धेतोः सिध्यति। तथाच पक्षे तदुपादानगोचरज्ञानमात्रं सिध्येत्। न तु नित्यसर्वविषयज्ञानम् ,  तेन
रूपेण व्यापकत्वाग्रहात् । न च येन विनानुपपत्तिः सोऽपि विषयः, व्यतिरेकिविलयापत्तेः ।

तत्र प्राञ्चः।यमर्थमनालम्बमानानुमितिः पक्षे साध्यसम्बन्धं न विषयीकरोति स पक्षधर्मताबलात्सिध्यतीत्यनुपपत्तिमूलकोऽन्वयी , प्रतीतानुपपत्त्या च व्यतिरेकी।
तदिहानादिद्व्यणुकादिकार्यप्रवाहस्य पक्षत्वे तदुपादानस्यानादिज्ञानगोचरत्वं विना नोपादानगोचरज्ञानजन्यत्वमनादिकार्यप्रवाहस्यानुमितिरालम्बते। अनादितैव च  नित्यता।
सर्वमुक्तावपि तत्सत्त्वम् , अनादिभावत्वात् । पक्षतदुपादानविषयतैव च सर्वविषयता। लाघवात्तु तावद्विषयकमनाद्येकमेव ज्ञानं सिध्यति, न तु नित्यानित्यज्ञानानीति।
नव्यास्तु  अनित्यज्ञानाजन्यत्वेन पक्षविशेषणात् ज्ञानं सिध्यन्नित्यमेव सिध्यति , अनित्ये बाधादिति ।

वाचस्पतिमिश्रास्तुलाघवादेकज्ञानसिद्धौै उत्पत्तिमतोऽनादिकार्यप्रवाहं प्रत्यजनकत्वात् परिशेषण नित्यज्ञानादिसिद्धिः । नियतविषयता च ज्ञानस्य कारणाधीना।
कारणञ्च नित्यज्ञानान्निवर्तमानं नियतविषयतामादाय निवर्तत इति सर्वविषयत्वसिद्धिरिति ।

षट्पदार्थीप्रतिपादकवेदकर्तृत्वेनेश्वरस्य षट्पदार्र्थीगोचरसाक्षात्कारत्वेन वा सार्वज्ञ्यम् । घटाकाशसंयोगादिकं प्रति ईश्वरस्य कर्तृत्वात् घटादिगोचरमपि ज्ञानं
सिद्धमिति  केचित्  ।

ननु घटादीनां कथमीश्वरकर्तृकत्वं भवति । घटईश्वरकर्तृकः कार्यत्वात् क्षितिवदित्यनुमानादिति चेत् , न । घटस्य द्विकर्तृकतया तद्दृष्टान्तेन क्षित्यादेरपि
द्विकर्तृकतापत्तेः। तथाच घटवत् क्षितिः क्षितिवद् घट इतीश्वरानन्त्यम् । कार्ये कर्तृत्वेन कारणता न तु द्विकर्तृकत्वेनेति चेत्, तर्हि नेश्वरकर्तृकत्वेन कारणता किन्तु
कर्तृत्वेनेति ।  मैवम्  । ज्ञानादीनां नित्यत्वेन सर्वविषयता घटाद्युपादानविषयत्वमपीति कथं न तेषां घटादिकारणता, कुलालादिज्ञानतुल्यत्वात्।
तदाहुराचार्याः  । " "परमाण्वदृष्टाधिष्ठातृसिद्धौ ज्ञानादीनां नित्यत्वेन सर्वविषयत्वे वेमाद्यधिष्ठानस्यापि न्यायप्राप्तत्वात् , न तु तदधिष्ठानार्थमेवेश्वरसिद्धिः" " इति।
" "अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते" " इत्याद्यागमाच्चायमर्थोऽध्यवसेयः।

अथेश्वरस्य सर्वज्ञत्वे सर्वविषयभ्रान्तेर्ज्ञाने ईश्वरोऽपि भ्रान्तः स्यात् । भ्रमस्येव तस्यापि भ्रमविषयविषयकत्वादिति चेत्, न । रजतत्वप्रकारकज्ञानवानयमिति
ज्ञानं न भ्रमः , अभ्रान्तस्य तथात्वात् । इदं रजतमिति ज्ञाने रजतत्वं प्रकारः, तेन स भ्रमः । ईश्वरज्ञाने च रजतत्वप्रकारकत्वं प्रकार इति स न भ्रमः । अत एवास्मदादिरपि
भ्रान्तिज्ञो न भ्रान्त इति ।

स्यादेतत्  । प्रयोजनं विना कथमीश्वरः प्रवर्तते ? सुखस्याभावात् , अधर्माभावेन निर्दुःखत्वात् । करुणया प्रवर्तत इति चेत् तर्हि परसुखदुःखप्रहाणे प्रयोजने ।
तथाच स्वर्गिणमेव सृजेन्न नारकिणम् । धर्माधर्मपरतन्त्रत्वात्तदनुरूपं फलं प्रापयतीति चेत्, तर्हि आवश्यकत्वात् कर्मनिमित्तमेव जगद्वैचित्र्यमस्तु किमीश्वरेणानपेक्षितकीटादिज्ञानवता।
कर्मनिरपेक्षत्वे चैकदैव सदा च सर्ग प्रलयौ स्याताम् , ज्ञानादीनां नित्यत्वात्। किञ्च तत्प्रयत्नस्य करुणाजन्यत्वेन शरीरादिजन्यत्वापत्तौ संसारितापत्तिरिति।
न  । ईश्वरानभ्युपगमे विचारस्याश्रयासिद्धत्वात् । तमभ्युपगम्य पृच्छसि चेत् , तदाकर्णय जगत एव तदिच्छाविषयत्वेन स्वेष्टसाधनताज्ञानसत्त्वात्। वस्तुतस्तु
क्षित्यादितत्तदसाधारणक्रमिकादृष्टादिसामग्रीसमवहिता ईश्वरज्ञानादयो यदा भवन्ति तदा क्षित्यादिकं करोतीति व्यवहारः। सर्गप्रलयासाधारणक्रमिकादृष्टादिसामग्रीसमवहितत्वमेव
तदिच्छायाः चिकीषासञ्जिहीर्षात्वे । न चैवं किं तज्ज्ञानादिनेति वाच्यम्। क्षित्यादीनां कार्यत्वेन ज्ञानजन्यतया नित्यज्ञानादीनामपि जनकत्वात् , सुखादिशब्दयोरात्माकाशादिवत्।
नन्वशरीरात्कथं वेदघटादिशब्दव्यवहारसम्प्रदायः।उच्यते,सर्गादावदृष्टोपगृहीतभूतभेदान्मीनशरीरोत्पत्तौ अदृष्टवदात्मसंयोगाददृष्टसहकृतप्रयत्नवदीश्वरसंयोगाद्वा
सकलवेदार्थगोचरज्ञानाद्विवक्षासहितान्मीनकलेवरकण्ठताल्वादिक्रिया तज्जन्यसंयोगाद्वेदोत्पत्तिः। एवं कुलालादिशरीरावच्छेदेनादृष्टसहकृतप्रयत्नवदीश्वरसंयोगात्तद्बुद्धीच्छासहितात्
चेष्टोेत्पत्तौ सकलघटानुकूलव्यापाराद्घटोत्पत्तिः। एवं प्रयोज्यप्रयोजकज्ञानाय व्यापाराभिमतशरीरावच्छेदेनाऽपि अदृष्टसहकृतेश्वरज्ञानेच्छाप्रयत्नादेव वाग्व्यवहारः।  ततः
तद्दर्शी बालो व्युत्पद्यते। सोऽयं भूतावेशन्यायः ।

यत्तुयथा लिप्यादिना मौनिश्लोकोऽनुमाय पठ्यते तथा सर्गान्तरोत्पन्नतत्वज्ञानवता भोगार्थं सर्गादावुत्पन्नेन मन्वादिना सर्वज्ञेश्वराभिप्रायस्थो वेदः साक्षात्कृत्यानूद्यते।
ततोऽग्रिमसम्प्रदायः। स एव च कायव्यूहं कृत्वा घटादिवाग्व्यवहारं प्रवर्त्तयतीति मतम् ।  तन्न । प्रतिसर्गाद्यनन्तसर्वज्ञकल्पनायां गौरवात् । तेषामेव
क्षित्यादिकर्तृत्वसम्भवेनेश्वराननुमानाच्च ।

एतेन सर्गादौ सर्गान्तरसिद्धयोगिन एव क्षितिकर्त्तारः सन्त्विति परास्तम् । सर्गादावनन्तसर्वज्ञसिद्धिश्च किं प्रमाणान्तरात् क्षित्यादिकर्तृग्राहकाद्वा । नाद्यः ,
तदसम्भवात् । नान्त्यः अनादिद्व्यणुकादिकार्यप्रवाहस्य सकर्तृकत्वानुमानाल्लाघवसहकृतादेकस्यैव सर्वज्ञस्य सिद्धेः ।

97

अथेश्वरज्ञानमूलकशब्दशाक्तिग्रहे प्रयोज्यव्यापारानुमितघटज्ञाने घटशब्दस्य कारणत्वग्रहो भ्रमः स्यात्, तदीयज्ञानस्य नित्यत्वात् । तथाच तज्जन्यघटशब्दशक्तिग्रहस्य
भ्रमत्वे सकलशाब्दज्ञानं भ्रमः स्यात् । भ्रमपरम्परामूलकत्वात्। अनित्यसर्वज्ञमूलकशाब्दग्रहे च नायं दोष इति चेत् , न । व्यापारानुमितमिदं घटज्ञानं घटपदजन्यमिति
ज्ञानस्य शब्दशक्तिग्रहकारणस्य भ्रमत्वेऽपि घटपदं घटशक्तं इति ज्ञानस्य यथार्थत्वात् , विषयाबाधात् । न च भ्रममूलत्वेनास्य भ्रमत्वमनुमेयम् । तदंशे व्यधिकरणप्रकाराभावेन
बाधात् । बाधितविषयत्वस्योपाधित्वाच्च । अत एव घटमानयेति शब्दानन्तरं सूत्रसञ्चाराधिष्ठितदारुपुत्रकस्य घटानयनव्यवहारदर्शनात् बालो घटपदे व्युत्पद्यते ।
तन्मूलकशाब्दज्ञानमपि न भ्रमः, तस्यापि भ्रमत्वे प्रयोज्यव्यवहारादिदानीं व्युत्पत्तिर्न स्यात् । किमयं प्रयोज्यश्चेतनव्यवहारात् व्युत्पन्नोऽचेतनव्यवहाराद्वेति संशयस्य
वज्रलेपायमानत्वादिति।

" "विश्वतश्चक्षुरुत विश्वतोमुखो
विश्वतो हस्त उत विश्वतस्पात् ।

सं बाहुभ्यां धमति सं पतत्रै
र्द्यावा भूमी जनयन्देव एकः" " ॥

इत्यादि श्रुतयः
" "उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।

यो लोकत्रयमाविश्य विभत्र्त्यव्यय ईश्वरः" " ॥
इत्यादि स्मृतयश्च बह्व्यः मानत्वेनानुसन्धेयाः ।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानाख्यद्वितीयखण्डे ईश्वरवादः॥
अथ शक्तिवादः

स्यादेतत्  । ईश्वरवत् कार्येणैव शक्तिरप्यनुमीयते। तथाहि यादृशादेव करतलानलसंयोगाद्दाहो दृष्टस्तादृशादेव प्रतिबन्धके सति न जायते। अतो यदभावात्कार्याभावस्तदभ्युपेयं
वह्न्यादौ, तेन विना तदभावायत्तदाहाभावानुपपत्तेरिति व्यतिरेकमुखेन शक्तिसिद्धिः । न चादृष्टवैगुण्यम् , दृष्टसाद्गुण्ये तदभावात् , तस्य तदर्थत्वात्। अन्यथा
दृढदण्डनुन्नमपि चक्रं न भ्राम्येत् ।

अथादृष्टविलम्बादपि विलम्बो यथा वन्ध्यास्त्रीसम्प्रयोगे, परमाणुकर्मणि , अध्ययनतुल्यत्वेऽपि एकत्र फलाभावे चेति चेत् , न। अदृष्टविलम्बो हि न
तन्नाशानुत्पादौ , मण्यपसारणानन्तरं दाहाभावप्रसड्गात् । किञ्च नियमतो मणिसद्भावे कार्याभावस्तदभावे कार्यमिति दृष्टत्वात् मण्याद्यभाव एव कारणम् । अन्यथा
कदाचिम्नण्याद्यभावेऽपि तदभावात् कार्यं न स्यात् । वन्ध्यासम्प्रयोगे तु दृष्टव्यभिचाराददृष्टविलम्बादेव विलम्बः । अदृष्टञ्च क्वचित् साक्षाज्जनकम् । अन्यथा परम्परया
हेतुरपि न स्यात् । न च समप्रज्ञयोः समञ्च निरन्तरमभ्यस्तयोेरेकः प्रगल्भो नापर इति दृश्यते । न च सर्वोत्पत्तिमतामदृष्टं निमित्तकारणम् । अगम्यागमनादिसाध्ये सुखे
व्यभिचारात् । तद्धि नाधर्मात्सुखवत् । नापि धर्मात् । तेन हि अगम्यागमनमुत्पाद्य, सुखमुत्पादनीयम्। तथाचागम्यागमनकारणत्वेन न स धर्मः ।
श्येनापूर्ववन्निषिद्धफलकत्वेनानर्थकत्वात् । दाहप्रतिकूलादृष्टादेव दाहाभाव इति चेत् , न । तस्योत्तेजकाभावसहकृतमण्यजन्यत्वे तत्रादाहार्थिनोऽप्रवृत्तिप्रसङ्गात्।
तज्जन्यत्वेऽपि तदुत्पादकादेव दाहाभाव इति किमदृष्टेना, प्रथमोपस्थितत्वात् उपजीव्यत्वाच्च । प्रतिबन्धकाभावहेतुत्वस्य तेनाभ्युपगमात्। अदृष्टोत्पत्तौ शौचाचमनादेः
साधारणस्यात्राप्यन्वयः स्यात् । अशुचेरेव तदुत्पत्तौ शौचे सति तदभावापत्तेः। प्रतिपक्षसन्निधापकादृष्टस्यैव प्रतिबन्धकत्वे सति मण्यप्रयोगेऽपि दाहानापत्तिः, अग्रिमकाले
एव सन्निधिदर्शनेन तदसिद्ध्यभावात्।

अस्तु तर्हि उत्तेजकाभावसहकृतप्रतिबन्धकाभावस्यान्वयव्यतिरेकाभ्यां हेतुत्वम् । एवं केवलोत्तेजकसद्भावे उभयसत्त्वे उभयाभावे च विशिष्टाभावोऽनुगतो
हेतुः। तच्च मण्याद्यभावत्वेन, न तु प्रतिबन्धकाभावत्वेन इति नान्योन्याश्रयः । अत एव प्रतिबन्धकत्वाभिमतमण्यादीनाम् अभावकूट एव कारणम् । तेन मणिसद्भावे
मन्त्राद्यभावे च न कार्यम् । अनतिरिक्ताभाववादिमते च व्यवहारार्थं तत्स्थानाभिषिक्तस्य हेतुत्वम् । न चाभावो न कारणम्, भाववत्तद्ग्राहकतौल्यात् । दृष्टञ्च
कुड्यसंयोगाभावस्य गतौ, अनुपलम्भस्याभावविज्ञाने, विहिताकरणस्य प्रत्यवाये, निर्दोषत्वस्य वेदप्रामाण्ये जनकत्वमिति प्राञ्चः ।
मैवम्  । विशिष्टं हि नार्थान्तरम् , येन तदभावोऽनुगतः स्यात्। किन्तु विशेषणविशेष्यसम्बन्धा इति तेषां प्रत्येकाभावस्य हेतुत्वे क्वचिद्विशेष्यमण्यभावः
क्वचिदुत्तेजकाभावरूपविशेषणाभावः क्वचिदुभयः कारणमिति व्यभिचारेण नैकमपि हेतुः स्यात् ।

स्यादेतत्  । प्रतियोगिभेदादिवत्प्रतियोगितावच्छेदकविशेषणभेदादप्यभावो भिद्यते। अन्यथा पृथिव्यादित्रयप्रत्येकरूपाभावेऽवगतेऽपि वायौ रूपसंशयो न स्यात् ।
एवञ्च यथा केवलदण्डसद्भावे दण्डपुरुषसद्भावे द्वयाभावे च विशेषणविशेष्योभयविरहप्रयुक्तः केवलपुरुषाभावोऽबाधितानुगतव्यवहारबलात् प्रतीतिसिद्धः, तथा विशेष्यस्य
प्रतिबन्धकस्याभावे विशेषणस्योत्तेजकाभावस्याभावे उभयाभावे च केवलप्रतिबन्धकाभावो विशेष्यविशेषणोभयाभावव्यापकोऽनुगत एव दाहाकारणमस्तु ।
अथ विशेषणाद्यभावैरेव केवलपुरुषाद्यभावव्यवहारः एकशक्तिमत्त्वादिति चेत् , न । अनुगतव्यवहारस्यानुगतज्ञानसाध्यत्वात् । शक्तेश्चातीन्द्रियत्वात्।

98

अथोत्तेजकप्रयोगकाले मणेः कोऽभावः ? न तावत्प्राक्प्रध्वंसाभावौ , तयोः प्रतियोग्यसमानकालत्वात् । न च श्यामोऽयमासीदित्यत्र यथा श्यामध्वंसप्रयुक्तः
श्यामघटत्वेन पक्वघटस्य ध्वंस एव न तु घटत्वेन तथोत्तेजकाभावध्वंसप्रयुक्त उत्तेजकाभाववत्त्वेन मणेः ध्वंस एवेति वाच्यम् । ध्वंसस्यानन्तत्वेन उत्तेजकापनयेऽपि
दाहप्रसङ्गात्। नाप्यत्यन्ताभावः , तस्य कादाचित्कत्वाभावादिति चेत् , न । यथा दण्डोपनयापनयदशायां केवलपुरुषाभाव उत्पादविनाशवान् , अन्यथा
अबाधितकेवलपुरुषाभावतदभावव्यवहारयोरुपपादयितुमशक्यत्वात् । तथोत्तेजकोपनयापनयश्रृड्खलायां प्रतिबन्धकाभावोऽपि तथैव स्वीकरणीयः तुल्यन्यायत्वात् ।
यदि च संसर्गाभावत्रयवैधर्म्यात्तत्र नान्तर्भवति, तदा तुरीय एव संसर्गाभावोस्तु। न हि क्लृप्तविशेषबाधे सामान्यबाधः , विशेषान्तरमादायापि तस्य सम्भवात् ।
अन्यथा क्लृप्तानादिसंसर्गाभावादिवैधर्म्येण ध्वंसोऽपि न सिध्येत्। व्यवहारान्यथानुपपत्तिश्च तुल्यैव। सोऽयमस्माकं सगोत्रकलहो न तु शक्तिवादः । अस्तु वा ध्वंस
एवासौ, संसर्गाभावविभागे जन्याभावत्वेन ध्वंसस्य विभजनात् । न चैवं विनाशित्वेन प्रागभाव एव सः। परिभाषाया अपर्यनुयोज्यत्वात् । यद्वा अत्यन्ताभाव एवासौ।
तस्य नित्यत्वेऽपि कादाचित्काप्रतीतिकार्यानुदयौ प्रत्यासत्तिकादाचित्कत्वात् । प्रत्यासत्तिश्च विशेषणाभावो विशेष्याभावश्च , तदैव विशिष्टात्यन्ताभावसत्वादिति।
तन्न । यदि ह्यतीतविशेषणावच्छेदेन विद्यमानस्यैव विशेष्यस्य ध्वंसः स्यात् तदा क्षणरूपातीतविशेषणावच्छिन्नत्वेन प्रतिक्षणं घटस्य विनाशः स्यादिति क्षणभङ्गापत्तिः।
किञ्च विद्यमानस्य विनष्टत्वेनाप्रतीतेः शिखा विनष्टा पुरुषो न विनष्ट इति विपरीताबाधितप्रत्ययाच्च न विशेषणाभावेऽपि विशेष्यध्वंसः। श्यामोऽयमासीत् ,
केवलोऽयमासीत्पुरुष इत्यादौ सविशेषणे हीति न्यायेन विशेष्यवति श्यामकैवल्यादिध्वंस एव प्रतीयते । ध्वंसस्य ध्वंसानुपपत्तेश्च न विद्यमानस्य ध्वंसः ।
एतेनउत्तेजकसद्भावे सत्युत्तेजकाभावविशिष्टमणेरुत्पन्नध्वंसस्योत्तेजकापनयसमये ध्वंसो जातोऽध्वस्तश्च ध्वंसः कारणमिति न विफल उत्तेजकापनय इत्यपास्तम्।
विद्यमानध्वंसस्य च ध्वंसाभावात् । न च ध्वंसान्यः संसर्गाभावोविशिष्टाभाव इति वाच्यम् । उत्पन्नाभावस्य विनष्टप्रतीतिहेतुतया ततोऽपि विद्यमानस्य विनष्टत्वप्रत्ययापत्तेः।
नापि विशिष्टाभावोऽत्यन्ताभावः । तथा हि स एव क्वचिद्विशेषणाभावसहितः क्वचिद्विशेष्याभावसहितो दाहकारणमित्यननुगमस्तदवस्थ एव । विशेषणविशेष्याभावयोः
प्रत्यासत्तित्वावच्छेदकानुगतधर्माभावात् ।

अथविशिष्टविरोधित्वं विशेषणविशेष्याभावयोरनुगतं तदवच्छेदकमस्ति, तयोः सत्त्व एव विशिष्टात्यन्ताभावसत्त्वादिति चेत्, तर्हि विशिष्टविरोधित्वेनानुगतेन
तयोरेव हि विशिष्टाभावत्वेन दाहव्यवहारादौ जनकत्वमस्तु, कृतं तदुपजीविनातिरिक्तविशिष्टाभावेन ।

अथोत्तेजककाले विद्यमानात्यन्ताभावानुवृत्तावप्युत्तेजकापनयने उत्तेजकाभावव्यक्तिर्या जाता तदवच्छिन्नमणेरभावो न तत्रेति तदा न कार्यौदयः। तत्तदुत्तेजकाभावानां
अननुगतत्वेनानुगतविशिष्टाभावव्यवहारानुपपत्तेः । उत्तेजकाभावत्वेनानुगमेऽतिप्रसड्ग एव ।

अथ विशेषणविशेष्याभावयोर्विशिष्टविरेधित्वमनुगतकारणतावच्छेदकं यत्र तदन्यतराभावस्तत्र न विशिष्टम् , यत्र विशिष्टं तत्र न तयोरभाव इति सहानवस्थाननियमस्य
विरोधस्यानुभवसिद्धत्वादिति चेत् , न ।

सहानवस्थाननियमो न परस्परविरहरूपतया विशेषणविशेष्याभावस्य प्रत्येकं विशिष्टाभावतया तत्प्रत्येकाभावाभावस्य विशिष्टत्वापत्तेः। तथाच विशेष्यविशेषणयोः
प्रत्येकं विशिष्टत्वापत्तिः, तदभावस्य तत्त्वात् । न चोभयाभावाभाव उभयं विशिष्टम्। एवं ह्यभावद्वयं विशिष्टाभावो न तु प्रत्येकाभावरूप इति प्रत्येकाभावात्
विशिष्टाभावव्यवहारो न स्यात्। नाऽपि परस्परविरहव्याप्यत्वं तदाक्षेपकत्वं वा। विशेषणविशेष्याभावस्य विशिष्टाभावत्वेन तदव्याप्यत्वात्तदनाक्षेपकत्वाच्च, अभेदे
तयोरभावात् ।

एतेनअन्यदपि विशिष्टव्यवहारविरोधित्वादिनानुगतत्वमपास्तम् । केनाप्यनुगतेन रूपेण विशेषणविशेष्याभावस्य विशिष्टाभावत्वे प्रत्येकाभावाभावस्य
विशेषणविशेष्यान्यतरमात्रस्य विशिष्टत्वापत्तेः । तदभावाभावस्य तत्त्वादित्युक्तत्वात्। तस्माद्विशेषणविशेष्याभावो विशेषणावच्छिन्नविशेष्याभावो न विशिष्टाभाव इति ।
अत्रोच्यते।विशेषणविशेष्ययोः सम्बन्धाद्विशिष्टव्यवहार इति तयोः सम्बन्धाभावाद्विशिष्टाभावव्यवहारः इति, घटतदभावव्यवहाराविव घटसत्त्वासत्त्वाभ्याम्। न हि
तयोरसम्बन्धे विशिष्टव्यवहारः, न वा तदभावे सति न विशिष्टाभावव्यवहारः । यस्य यत्र यः सम्बन्धः स एव तत्र तस्य वैशिष्ट्यम्। स च सम्बन्धाभावो विशेषणाभावात्
विशेष्याभावादुभयाभावात् सर्वत्राविशिष्ट एकः तेषां व्यापकोऽनुगतविशिष्टाभावव्यहारादिकारणम् । इह दण्डीपुरुषो नास्तीत्यत्र तथा दर्शनात्। अत एव दण्डमात्रसद्भावे
दण्डपुरुषसद्भावे उभयाभावे च कैवल्यपुरुषयोः सम्बन्धाभावः सर्वत्रास्तीत्यनुगतः केवलपुरुषाभावव्यवहारः । एवञ्च प्रतिबन्धकोत्तेजकाभावयोः सम्बन्धाभावो
दाहकारणम्। स च प्रतिबन्धकाभावे प्रतिबन्धकोत्तेजकसद्भावे उभयाभावे चास्ति। सर्वत्र प्रतिबन्धकोत्तेजकाभावयोः सम्बन्धो नास्तीति प्रतीतेः ।
नन्वेवं यत्र प्रतिबन्धकोत्तेजकाभावौ तत्रापि दाहः स्यात् अधिकरणभावयोरतिरिक्तसम्बन्धाभावादिति चेत् , न । तदभावोेऽपि स्वरूपसम्बन्धस्याभावात् सर्वत्र
स्वरूपसम्बन्धादेवाधिकरणाभावयोर्वैशिष्ट्यप्रतीतेः । तथापि प्रतिबन्धकोत्तेजकाभावावेव स्वरूपसम्बन्धः तयोरभावश्च प्रतिबन्धकाभाव उत्तेजकञ्च दाहकारणम्। तथाचोभयाभावे
उत्तेजकासत्वेे परं दाहः स्यात्, उत्तेजकवति प्रतिबन्धके दाहो न स्यादिति चेत् , न । अधिकरणाभावावेव स्वरूपसम्बन्धः, तयोर्र्घटवद्भूतलचत्त्वरीयतदभावयोरपि
स्वरूपसत्त्वे घटवति घटाभावव्यवहारापत्तेः। किन्तूपश्लिष्टस्वभावत्वम् । तच्च सम्बन्धान्तरं विना विशिष्टप्रत्ययजननयोग्यत्वम् । न च
घटवद्भूतलचत्वरीयतदभावयोर्विशिष्टप्रत्ययजननयोग्यत्वमस्ति, घटवति कदापि घटाभावप्रत्ययानुदयात्। तदिहापि प्रतिबन्धकोत्तेजकाभावयोर्विशिष्टप्रत्ययजननयोग्यत्वं
स्वरूपसम्बन्धः। अन्यथोत्तेजकवति प्रतिबन्धके चत्वरीयोत्तेजकाभावविशिष्टप्रत्ययापत्तेः । तादृशस्वरूपसम्बन्धाभावश्च प्रतिबन्धकाभावे प्रतिबन्धकोत्तेजकसद्भावे उभयाभावे
चाविशिष्ट एव । यद्वा अदण्डपुरुषस्याभावे दण्डी पुरुषो न प्रतियोगी, तस्यादण्डत्वाभावात् । किन्तु तदन्यः। तस्याभावो दण्डिसद्भावेऽपि दण्डमात्रसत्त्वे उभयासत्त्वे
चाविशिष्ट इति तस्मात् केवलपुरुषाभावव्यवहारोऽनुगतः ।

99

तदुक्तं "न हि दण्डिनि सत्यदण्डानामन्येषां नाभावः, किन्तु दण्डाभावस्यैवेति युक्तम्"।

अन्यथा तत्रान्येषामिति पदस्य व्यर्थतापत्तेः। तथा केवलप्रतिबन्धकाभावे उत्तेजकसहकृतः प्रतिबन्धको न प्रतियोगी तस्य केवलत्वाभावात् । किन्तु तदन्यः।
तदन्यस्य च केवलप्रतिबन्धकस्याभावे उत्तेजकसहितप्रतिबन्धकसत्त्वे उत्तेजकमात्रसत्त्वे उभयासत्त्वे वा विशिष्ट एवेति नाननुगमः । उत्तेजकापनये च केवलप्रतिबन्धकोऽस्तीति
न तदभाव इति दाहो न भवतीति ।

ननु न प्रतिबन्धकाभावः कारणम् । एकदण्डान्वये घटोत्पत्तिवत्प्रतिबन्धकसत्त्वेऽपि प्रतिबन्धकान्तराभावेऽपि कार्यानुदयात् । न हि यावत्कारणतावच्छेदकावच्छिन्नं
तावदन्वयेऽपि कार्यमिति चेत् , न । प्रतिबन्धकाभावत्वेन न कारणत्वमन्योऽन्याश्रयात् किन्तु मण्याद्यभावत्वेनेत्युक्तत्वात् । तत्त्वेऽपि वा घटे दण्डसलिलादिवत्प्रतिबन्धकाभावकूटस्य
दाहहेतुत्वात्। यद्वा प्रतिबन्धकत्वावच्छिन्नप्रतियोगिक एवाभावः कारणम् । स च यावद्विशेषाभावनियत इति न प्रतिबन्धकसत्त्वेऽपरप्रतिबन्धकाभावेऽपि कार्योदयः ।
प्रतिबन्धकस्य च संसर्गाभावो हेतुः। तेन तत्सत्त्वे तदन्योऽन्याभावेऽपि न कार्यम् । अन्वयव्यतिरेकाभ्यां व्याप्तिकारणत्वयोर्ग्रहे संसर्गाभावस्य त्वयापि हेतुत्वाङ्गीकारात्।
अन्यथा सामग्रीव्यापकयोः सत्त्वे तदन्योन्याभावे कार्यव्याप्याभावापत्तौ कार्यकारणव्याप्यव्यापकभावे व्याघातात्।

किञ्च तवापि प्रतिबन्धकाभावे शक्तिरस्तीति तत्सत्त्वे तदन्योऽन्याभावमादाय शक्तिसत्त्वप्रसड्गः । न च स दुर्वचः, न वा प्रागभावादित्वेनाननुगमव्यभिचारौ,
प्रतियोग्यधिकरणयोः संसर्गमारोप्य यो निषेधः स संसर्गाभावः । भूतलं घटसंसर्गो नेत्यत्र भूतले घटसंसर्गस्य संसर्गो नारोप्यते, किन्तु तादात्म्यम् ।
वयन्तु ब्रूमः।  यत्र प्रतियोगिनमधिकरणे समारोप्य निषेधावगमः स संर्गाभावः। यत्र चाधिकरणे प्रतियोगितावच्छेदकमारोप्य निषेधावगमः सोऽन्योन्याभावः ।
भूतलं न घट इत्यत्र भूतलस्य घटत्वावगमात् । घटत्वमेव च घटतादात्म्यम् । आरोपस्य हेतुत्वे किं मानमिति चेत्, मा भूत्तावदन्यत्, नेदमिह नेदमिदं इत्यबाधितविलक्षणव्यवहारस्यैव
तत्र मानत्वादिति।

ननु प्रतिबन्धकात्यन्ताभावो न हेतुः, तस्मिन् सत्यपि कार्याभावात् । न हि करादौ मण्यत्यन्ताभावः तत्संयोगात्यन्ताभावो वा। मणेः स्वावयववृत्तित्वात्
संयोगस्य चाव्याप्यवृत्तित्वात्। अत एव न तत्प्रागभावप्रध्वंसौ हेतू , तयोः करादौ अवृत्तेः गुणकर्मादेश्च प्रतिबध्यत्वानापत्तेश्च। तस्य जन्यधर्मानाश्रयत्वेन तत्र
तयोरभावात्। न चान्यः संसर्गाभावोऽस्तीति चेत् , न । संसर्गावच्छिन्नप्रतियोगिकस्याभावविशेषस्य सति प्रतिबन्धकेऽभावात् । स च समयविशेषावच्छेदेन संसर्गितया
अत्यन्ताभाव एव, तथैवान्वयव्यतिरेकावधारणात् ।

अथैवं प्रध्वंसप्रागभावस्थले समयविशेषावच्छिन्नात्यन्ताभावेनैवोपपत्तौ न तयोः सिद्धिः। अत्यन्ताभावो ह्यव्याप्यवृत्तिः । तस्य चैकत्र भावाभावे क्वचिद्देशोऽवच्छेदकः
क्वचित्काल इति चेत् , न । तत्र विद्यमानताविरोधित्वेनैव कपाले न घट इतिप्रतीतिवैलक्षण्यात् । न त्वेवं भूतले घटाभावप्रतीतिः ।
अन्ये तु  भविष्यति घटो घटो नष्ट इति विलक्षणप्रतीत्योरत्यन्ताभावेनैकेन समर्थयितुमशक्यत्वात् अन्यएवायं संसर्गाभाव इत्यप्याहुः ।
एतेन विशेषणाभावविशेष्याभावतदुभयाभावघटितं सामग्रीत्रयमेवास्तु हेतुः, दाहे च जातित्रयकल्पनमिति प्रत्युक्तम् । अनुगतहेतुसत्त्वात् दाहवैजात्यस्य
योग्यानुपलम्भबाधितत्वाच्च। व्यक्तियोग्यतयैव जातियोग्यत्वेन योग्ये अयोग्यजात्यभावात् ।

ननु प्रहरं मा दहेत्यादौ सावधिमन्त्रपाठे मन्त्रविनाशे दाहः स्यात् । न च सङ्कल्पविषयकालविशेष एव तत्र प्रतिबन्धकः, सङ्कल्पनाशे समयस्य स्वतोऽविशेषात्।
न च उद्देश्यत्वमेव तत्र विशेषः, तस्य विनाशात् । न चोद्देश्यध्वंसोऽपि हेतुः, तस्य यामादूर्ध्वमपि सत्त्वात् । न च मन्त्रपाठजनितमदृष्टमेव तत्र प्रतिबन्धकम् ,
तत्कालदाहाप्राप्तिकपालनाश्यत्वेन नाग्रे दाहाप्रतिबन्ध इति वाच्यम् । प्रतिबन्धकमन्त्रपाठस्यानिषिद्धत्वेनाविहितत्वेन चादृष्टाजनकत्वात् , तदाचारस्य विगीतत्वेन
श्रुत्याद्यननुमापकत्वादिति चेत्।

मैवम्  । उद्देश्यत्वज्ञानाहितसंस्कारविषयकालस्य प्रतिबन्धकत्वात्। ननु प्रतिबन्धमकुर्वताप्रतिबन्धकत्वेन शक्तिमनपकपकुर्वतां मन्त्रादीनां न प्रतिबन्धकत्वम् ,
अतः शक्तिसिद्धिः । न च कार्यानुत्पाद एव प्रतिबन्धः, तज्जनकत्वमेव प्रतिबन्धकत्वमिति वाच्यम् । कार्यानुत्पादो हि तत्र न तत्प्रागभावो न वा तदुत्तरकालसम्बन्धः ,
तस्य मन्त्राद्यजन्यत्वादिति चेत् , न । मन्त्रादीनामप्रतिबन्धकत्वात् । तत्प्रयोक्तारस्तु प्रतिबन्धकाः। ते च किञ्चित्करा । एव मन्त्रादौ च कार्ये कारणोपचारात्
स्वार्थिककन्प्रत्ययाद्वा तथा व्यपदेशः । प्रतिबन्धश्च सामग्रीविरहः। मन्त्राद्यभावघटितसामग्रीविरहश्च मन्त्रादिरेव, तदभावाभावस्य तत्त्वात् ।
नव्यास्तु  न प्रतिबन्धकाभावः कारणम्, न वा शक्तिः। किन्तु तत्तत्कालीनदाहविशेषं प्रति तत्तत्कालप्रतिबन्धेतरवह्नेः कारणत्वमिति प्रतिबन्धकाभावः
कारणतावच्छेदको न तु कारणम् दण्डत्ववत्, आकाशादौ त्वेकव्यक्तिके न यथा कारणत्वम्, क्वचित्प्रतिबन्धेऽप्यन्यत्र शब्दोत्पत्तेः। किन्तु भेर्यादेः तथा कारणत्वमिति
तत्प्रतिबन्धे न शब्दोत्पत्तिरित्याहुः।

तन्न। वह्निप्रतिबन्धकाभावयोरन्वयव्यतिरेकतौल्येनोभयस्यापि कारणत्वात्, न त्वेकमेवावच्छेदकम् , विनिगमकाभावात् । किञ्च यस्मिन् सत्यपि यदभावात्कार्याभावः
तस्य कारणत्वमायाति न तु तदवच्छेदकत्वम् । न हि कार्यायोगव्यवच्छेदः कारणत्वम्, किन्तु नियतपूर्वसत्त्वम्। तच्च सहकारिविरहप्रयुक्तकार्याभावेऽप्यक्षतम् । अन्यथा
चक्रसहितदण्डत्वेन कारणत्वे सहकार्युच्छेदः । यस्य यद्धर्ममवगम्यैव नियतपूर्वसत्त्वमगम्यते तस्य तदवच्छेदकं दण्डत्वमिव । सहकारी तु न तथा ।

100

ननु मा भूदर्थापत्तिः शक्तौ मानम्। अनुमानन्तु स्यात्। तथा हि स्थिरोऽवयवी जनकदशाविशिष्टो वह्निरजनकदशाव्यावृत्तभावभूतधर्मवान् जनकत्वात्
कुण्ठकुठारात्तीक्ष्णकुठारवत् दाह्यासंयुक्तवह्नेः दाह्यासंयुक्तवह्निवच्च प्रतिबन्धकसत्त्वे संयोगादेरजनकदशावर्तित्वेन तदतिरिक्तातीन्द्रियभावभूतधर्मसिद्धिः । यद्यपि शक्तेर्भावहेतुजन्यत्वेन
नाजनकदशाव्यावृत्तत्वम्, तथाप्युक्तविशिष्टायास्तथात्वम् ।

यद्वा धर्मेऽतीन्द्रियत्वं विशेषणम् । न च दृष्टान्तसिद्धिः, तुल्याधारत्वेऽपि लोहविशेषघटितकुठारे विलक्षणच्छिदाक्रियारूपकार्यबलादतीन्द्रियतीक्षणत्वसिद्धिः ।
अथवा तथाभूत एव वह्निः कार्यानुकूलातीन्द्रियाद्विष्ठधर्मसमवायी जनकत्वात् आत्मवत् । अतीन्द्रियत्वञ्च यद्यपि न साक्षात्काराविषयत्वम् ,
अनित्यसाक्षात्काराविषयत्वम्, योगजधर्माद्यजन्यसाक्षात्काराविषयत्वं वा , परं स्वं वा प्रत्यसिद्धेः। संयोगादिपञ्चकजन्यज्ञानाविषयत्वमैन्द्रियकाणामपि। तथापि
संयोगाद्यन्यतरप्रत्यासतिजन्यसाक्षात्काराविषत्वमुभयवादिसिद्धम्। अन्यतरत्वञ्च तदन्यान्यत्वम् । न चाभावातीन्द्रियत्वम् , तस्यासिद्धेः। न च वह्नौ स्थितिस्थापके
नार्थान्तरम् । तत्र तदभावात् क्रियाया वेगेनादृष्टवदात्मसंयोगेन वेगोत्पत्तेः। न चात्मत्वं नित्यत्वं वोपाधिः। स्पर्शैकत्वादिमति द्व्यणुके साध्याव्यापकत्वात् ।
यद्वा पिण्डीभूतो वह्निः दाहानुकूलाद्विष्ठातीन्द्रियभावभूतधर्मवान् दाहजनकत्वादात्मवत् । न चात्मत्वमुपाधिः, अदृष्टत्वस्य दाहानुकूलत्वेनादृष्टे साध्याव्यापकत्वात्।
अथवा करवह्निसंयोगः कार्यानुकूलातीन्द्रियधर्मसमवायी जनकत्वादात्मवत् द्व्यणुकवच्च । न चात्मत्वं द्रव्यत्वं वोपाधिः, द्व्यणुकैकत्वस्पर्शादौ साध्याव्यापकत्वात्।  यद्वा
प्रतिबन्धकदशायां प्रत्यक्षसकलदाहहेतुसमवहितो दाहाजनको वह्निः जनकदशावृत्तिकार्यानुकूलभावभूतधर्मशून्योऽजनकत्वात् कुण्ठकुठारवत् ।
यद्वा तथाभूतो वह्निर्दाहजनकदशावृत्तिदाहानुकूलभावभूतधर्मशून्यः दाहाजनकत्वात् दाह्यासंयुक्तवह्निवत् । अनुकूलत्वञ्च कार्याभावप्रयोजकाभावप्रतियोगित्वं
कारणतदवच्छेदकसाधारणं, दृढदण्डत्वेन कारणत्वे दृढत्वाभावादपि कार्याभावदर्शनादिति ।

उच्यते।साध्यं विनापि उभयसिद्धप्रतिबन्धकाभावादेव जनकत्वादिहेतुसम्भवात् विपक्षबाधकाभावेनानुमानानामप्रयोजकत्वम् । यदिच सहचारदर्शन
व्यभिचारादर्शनोपाध्यनुपलम्भमात्रादेव व्याप्तिग्रहः तदा शक्तिसिद्ध्यनन्तरं तेनैव हेतुना साध्ये शक्त्यतिरिक्तत्वप्रक्षेपेण श। द्वितीयादितादृशधर्मं विनापि प्रथमानुमितशक्त्यैव
जनकत्वाद्युपपत्तेर्न तादृशानन्तधर्मसिद्धिरिति चेत्, हन्तैवं शकिं्त विनापि तदर्थसिद्धेः किं शक्त्या । यद्धीश्वरानन्त्यवत् न शक्त्यानन्त्यमित्युक्तम् , तदबोधात् । कार्यमात्रे हि
कर्तृत्वेन कारणत्वं न त्वीश्वरत्वेन द्विकर्तृकत्वादिना वा,गैरवात् , घटे त्वार्थः समाजः ।

एवमजनकदशाव्यावृतत्वेनैव प्रयोजकत्वम् , न तु भावभूतत्वेनेति, गौरवात् । अपि च भावकार्यमात्रस्य समवायिकारणजन्यत्वेन शक्तेरपि तथात्वात्
शक्त्यनुकूला शक्तिरपरा समवायिकारणे मन्तव्या । एवं सापि समवायिकारणजन्येति तदनुकूलशक्तिस्वीकारे शक्त्यनवस्था । किञ्च प्रथमानुमानेऽजनकत्वं न
स्वरूपायोेग्यत्वम् । वह्नौ कुठारे च तदभावात् , किन्तु कार्यानुपधानम् ।

तथा च तदनुपधानदशायमपि वह्नौ शक्तिः कुठारे तैक्ष्ण्यमिति बाधो दृष्टान्तासिद्धिश्च । लोहविशेषाणामेव सातिशयाच्छिदाजनकत्वमिति नातीन्द्रियतैक्ष्ण्यसिद्धिः।
अग्रिमचतुर्षु बहिरिन्द्रियाप्रत्यक्षत्वमुपाधिः , तुल्ययोगक्षेमत्वेऽपि सन्दिग्धोपाधित्वेन दूषकत्वात् । अपि च जनकत्वस्य केवलान्वयित्वेन व्यतिरेकाप्रसिद्ध्या नान्वयव्यतिरेकी।
न च जनकत्वाभावस्य शक्तावेव प्रसिद्धिः । अन्योन्याश्रयात् । न च गुरुवचनपरम्परात एव वाक्यार्थतया तत्सिद्धिः, त्वन्नये सिद्धार्थस्याप्रमाणत्वात् । न च
परार्र्धसङ्ख्यायां साध्यजनकत्वव्यतिरेकयोः प्रसिद्धिः। अप्रत्यक्षायाः शब्दैकवेद्यायाः तस्याः प्रत्यक्षेण साध्य हेतुव्यतिरेकयोर्ग्रहीतुमशक्यत्वात्।
एतेन  पण्डापूर्वेऽपि तत्सिद्धिरपास्ता ।

स्यादेतत्। तृणारणिमणीनां वह्नौ कारणत्वादेकशक्तिमत्वमुपेयम् , एकजातीयकार्ये एकजातीयकारणत्वनियमात् । वह्न्यवान्तरजातीये तेषां प्रत्येकं कारणत्वमिति
चेत् , न । वह्निजातीयस्याकस्मिकतापत्तेः। कारणगतैकरूपमपहाय कार्यगतबहुतररूपकल्पने गौरवात् । तृणारणिमणिप्रभववह्निषु अवान्तरजातेरनुपलम्भबाधित्वाच्च।
यत्र च तत्तदिन्धनप्रयोज्यं प्रदीपदारुदहनादौ वैजात्यमनुभूयते तत्र कारणेष्वेकशक्तिमत्त्वमपि नास्ति । किञ्च गोमयवृश्चिकप्रभववृश्चिकादिषु वैजात्यकल्पने तत्प्रभववृश्चिकेष्वपि
वैजात्यं कल्प्यमेवं तत्प्रभवतत्प्रभवेष्वपीति वैजात्यानन्त्यम् , विजातीयकारणानां विजातीयकार्यजनकत्वनियमात्। न च तयोर्नैको वृश्चिकः । बुद्धिव्यपदेशयोरविशेषात्।
यदि विजातीयेष्वेककार्यशक्तिसमवायान्न कार्यविशेषात्कारणविशेषः तदभावात्तदभावः क्वाप्यनुमीयेत, तदभावेऽपि तज्जातीयशक्तिमतोऽन्यस्मादपि तदुत्पत्तिसम्भवादिति
चेत्, वह्निवृश्चिकादावेवमेतत् निरूपितनियतवह्न्यादिकारणकधूमादौ कुतो न तदनुमानम् । अन्यथा कार्यवैजात्येऽपि तृणस्य वह्निविशेष इव वह्नित्वेन धूमविशेष एव
कारणत्वं न तु धूममात्रे । तृणादिप्रभवत्वग्रहानन्तरं वह्न्यवान्तरजातिग्रहवत् वह्नितदजन्यजन्यत्वज्ञानानन्तरं धूमावान्तरजातिग्रहो भविष्यतीत्यप्याशङूक्येत। बाधकं
विना धूमत्वेन वह्निकार्यतेति चेत् , तर्हि बाधकं विना धूमं प्रति बह्नित्वेन कारणतेत्यपि तुल्यम्।

यत्तु  तृणत्वेन कारणत्वग्रहस्योपजीव्यत्वात्तद्रक्षार्थं वह्नौ जातिविशेष एव कल्प्यते इति, तन्न। वह्नित्वेनकार्यत्वग्रहात्तद्रक्षार्थं तृणादौ शक्तिकल्पनौचित्यात् । यथा
चान्वयव्यतिरेकाभ्यां तृणफूत्कारयोः परस्परसहकारित्वं तथैव तच्छक्त्योरपि परस्परसहकारित्वेन वह्न्यनुकूलत्वम् , तथैव कार्यदर्शनात् । एवं
तृणारणिमणिफूत्कारनिर्मन्थनतरणिकिरणानां वह्न्यनुकूलशक्तिमत्वेन कारणत्वेऽपि फूत्कारेण तृणादेव निर्मन्थनेनारणेरेव प्रतिफलिततरणिकिरणैर्मणेरेवाग्न्युत्पत्तिः, न तु
मणिफूत्कारादिभ्यः, मणिफूत्कारशक्त्योः परस्परसहकारित्वविरहात् ।

यत्तुतृणफूत्कारादिस्तोमत्रये विशिष्टे शक्तिरिति। तन्न। तृणत्वेन गृहीतकारणताभङ्गप्रसङ्गादिति ।

101

उच्यते। तृणरणिमणिफूत्कारादिव्यक्तीनामानन्त्येन प्रतिव्यक्तिभावहेतुजनितानन्तशक्तिस्वीकारे गौरवम् । तावदनन्तव्यक्तिजन्यानन्तवह्निव्यक्तिषु जातिकल्पने
लाघवमिति तदेव कल्प्यते । न च जातौ योग्यानुपलब्धिबाधः, गोमय वृश्चिकप्रभववृश्चिकयोरीषन्नीलत्वकपिलत्वव्यङ्ग्यवैजात्यस्य प्रत्यक्षसिद्धत्वात् । तृणजन्यनानावह्निव्यक्तिषु
तृणजन्यत्वज्ञानानन्तरं मणिजन्यव्यावृत्तानुगतबुद्धिरस्ति जातिविषया । तृणजन्यत्वेनोपाधिना सेति चेत् , न । बाधकं विनानुगतबुद्धेस्तद्व्यङ्ग्य जातिविषयत्वनियमात्।
न च गोमयवृश्चिकप्रभववृश्चिकपरम्परायामननुगतजात्यापत्तिः, गोमयजन्यवृश्चिकप्रभववृश्चिकेषु वृश्चिकप्रभवत्वजातेः सत्त्वात् । वह्निमात्रे च दाहस्पर्शवानवयवस्तत्संयोगः
पवनादिश्च कारणानि। न च तृणादिकं विनापि तदुत्पत्तिप्रसड्गः, विशेषसामग्रीमादायैव सामान्यसामग्र्याः जनकत्वात् ।

ननुतृणारणिमणीनां वह्नौ कारणत्वग्रहे शक्तिवैजात्ययोरन्यतरकल्पनम्। तद्ग्रहश्च नान्वयव्यतिरेकाभ्याम् , व्यभिचारात् । अथारणिमण्यभाववति स्तोमविशेषे
तृणं विना वह्निव्यतिरेकः तृणान्वये वह्निरित्यन्वयव्यतिरेकाभ्यां तत्रैव स्तोमे तदितरसकलहेतुसमवधाने तृणान्वयेऽवश्यं वह्निरिति नियतान्वयेन रासभादिव्यावृत्तेन
तृणादिकारणताग्रह इति चेत् , न । तृणं विनापि वह्निरिति ज्ञाने सति वह्निनियतपूर्ववर्त्तित्वस्य कारणत्वस्य ग्रहीतुमशक्यत्वात् । तृणाजन्ये वह्नौ मणेः कारणत्वग्रह
इति चेत् , न । व्यभिचारेण वह्नौ तृणजन्यत्वाग्रहे तदजन्यत्वस्याप्यग्रहात् , वह्निमात्रस्यैव तदजन्यत्वाच्च । न च मण्यजन्यत्वेन तृणजन्यत्वग्रहः, अन्योऽन्याश्रयात् ।
यत्तु  यत्र कारणताग्राहकं नास्ति तत्र व्यभिचारस्तद्ग्रहपरिपन्थीति ।  तन्न। अबाधितनियतपूर्ववर्त्तित्वाभावग्रहे तद्ग्रहस्यासम्भवात् , अभावप्रमायां भावज्ञानानुदयादिति।
उच्यते  । उक्तग्राहकैर्वह्निनिष्ठकार्यतानिरूपितकारणतावच्छेदकरूपवत्त्वं तृणस्य , तृणनिष्ठकारणतानिरूपितकार्यतावच्छेदकरूपवत्त्वं वह्नेर्वा अकार्याकारणव्यावृत्तं
रूपं परिच्छिद्यते। न तु तृणत्वेन कारणत्वं वह्नित्वेन कार्यत्वं वा। तच्चोभयथापि सम्भवति। वह्नित्वेन कार्यतया तदनुकूलशक्तिमत्वेन च तृणादीनां कारणतया
वह्नित्वावान्तरजातिविशेषेण कार्यतया वा । तत्र विनिगमकमुक्तमेव ।

अथ तृणारणिमणीनामभावत्रये न कार्यम् , अभावत्रयाभावे कार्यमिति अन्वयव्यतिरेकाभ्यामभावत्रयाभावत्वेन तृणादीनां कारणत्वमिति न व्यभिचारः। अभावाभावस्य
भावपर्यवसन्नत्वादिति चेत्, अभावत्रयाभावः किं तृणादिप्रत्येकव्यापकोऽन्य एव उत तृणादिप्रत्येकमेव। आद्ये अभावस्य कारणत्वमिति किमायातं तृणादिकारणत्वे । द्वितीये
तृणस्य नारणिमण्यभावाभावत्वं तदुभयत्वापत्तेः ।

एतेनाभावत्रयेन कार्यं तदभावे कार्यमित्यन्वयव्यतिरेकाभ्यां तृणादिप्रत्येकस्य कारणत्वग्रह इति परास्तम् ।
इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानाख्यद्वितीयखण्डे सहजशक्तिवादः॥

अथ आधेयशक्तिवादः
स्यादेतत्,मा भूत्सहजशक्तिराधेयशक्तिस्तु स्यादेव। तथाहि " "व्रीहीन् प्रोक्षती" "त्यत्र कालान्तरकार्यानुकूलोऽतीन्द्रियोऽतिशयः प्रोक्षणजन्योऽस्तीत्युभयवादिसिद्धम् ।
स व्रीहिसमवेतो न वेति संशये व्रीहिनिष्ठ एव वाच्यः । कथमन्यथा प्रोक्षितानामेव तेषां कालान्तरेऽवघातादौ विनियोगः, न च मन्त्रादिसहकृतत्वमेव व्रीहिषुविशेषः,तेषां
चिरध्वस्तत्वात् ।

ननुकथं प्रोक्षितस्यैवावघातादावन्यः, " "व्रीहीनवहन्ति" " इति श्रुतेस्तन्मात्रान्वयेऽप्युपपत्तेः । अथ " "व्रीहिभिर्यजेत" " " "व्रीहीन् प्रोक्षति" " " "व्रीहीनवहन्ति" " " "पुरोडाशैर्यजेते" "त्यत्र
यथा पुरोडाशे प्रकृत्यपेक्षायामवहतव्रीहीणामवयवानुवृत्तिद्वारान्वयः । प्रोक्षणे च यागार्थमुपात्तव्रीहिणां तथावघाते व्रीह्याकाङ्क्षायां प्रोक्षितानामेवान्वयः, बाधकं विना शब्दानां
सन्निहितविशेषपरत्वनियमात्। व्यक्तिवचनानां सन्निहितविशेषपरत्वमिति न्यायात्। अन्यथा प्रकरणादिसन्निहितत्यागे तदन्यसन्निधिकल्पने गौरवमिति चेत् ,
न । तर्ह्येकस्य द्वयं यत्र प्रोक्षणं तत्रावघातो न तु प्रोक्षणविशिष्टे । यत्र रूपं तत्र रस इतिवत्। तथाच प्रोक्षणस्य शब्देन कालान्तरकार्यजनकत्वाबोधात् , कथं
तन्निर्वाहार्थमतिशयकल्पनम् । प्रोक्षिता व्रीहयोऽवघाताय कल्पन्ते इति वाक्यशेषात् प्रोक्षणविशिष्टस्य अवघाते कारणावबोधः इति चेत् , अस्तु तावदेवम् , तथापि प्रोक्षिता
इत्यत्र भूते क्तानुशासनादतीतप्रोक्षणे व्रीहाववघातान्वयः। तथाचावघाते प्रोक्षणध्वंसः कारणं न तु प्रोक्षणमिति चेत्।

मैवम्  । प्रोक्षणमवघातजनकम् प्रमाणतस्तदर्थमुपादीयमानत्वात् , अवघाते व्रीहिवत्। न चासिद्धिः, अप्रोक्षितेऽवघाताभावदवश्यमवघातार्थं प्रोक्षणोपादानात् । न
च व्यापारं विना तथा सम्भवति। न च प्रोक्षणध्वंस एव व्यापारः । प्रतियोगिनोऽहेतुत्वापातात् । अन्यथा यागादावपि तथा स्यात् । फलस्य च नियतसमयोत्पत्तिकत्वमपूर्ववत्
स्वभावादेव भविष्यति । न च प्रोक्षिता व्रीहयस्तथा, निरन्वयध्वस्तत्वेनोपलक्षणस्याहेतुत्वात्। कुरूणां क्षेत्रमित्यत्र तु कुरुज्ञानस्येतरव्यावृत्तक्षेत्रज्ञव्यवहारजनकत्वं न तु
कुरोः । अन्यथा यागोपलक्षितो यज्वैव स्वर्गं फलिष्यति, किमपूर्वेण । न च देवदत्ताद्यशरीरं देवदत्तविशेषणगुणजन्यं जन्यत्वे सति तद्भोगसाधनत्वात् तन्निÐमतस्रग्वदिति
तत्सिद्धिः। जन्मान्तरीयैरदृष्टजनकत्वाभिमतैर्ज्ञानेच्छाप्रयत्नैः सिद्धसाधनात्।

तस्मात्प्रोक्षणादयो भावभूतमतिशयं जनयन्त एव कालान्तरभाविकार्यजनकाः प्रमाणतस्तदर्थमुपादीयमानत्वात् रोगचिकित्सावत्। स चातिशयो लाघवात्
फलसमानाधिकरण इति व्रीहिनिष्ठ एव। तेन तत्समवहितत्वं व्रीहेः साक्षात्सम्बन्धात् पुरुषनिष्ठत्वेन च व्रीहीणां साक्षात्सम्बन्धाभावात् परम्परासम्बन्धे गौरवात् न
साक्षाद्व्रीहिसमवहितत्वं स्यात् । किञ्च यो यद्गतफलार्थितया क्रियते स बाधकं विना तद्गतमेव तदनुकूलमतिशयं जनयति रोगचिकित्सावत् । अथ प्रोक्षणं
पुरुषसमवेतातिशयजनकं कालान्तरभाविकार्यजनकत्वे सति विहितत्वात् यागवत् , अन्यथा विधिविरोधादिति चेत्, न । कृषिचिकित्सादिना व्यभिचारात् , अप्रयोजकत्वाच्च।
तेन विनापि विधिसम्भवात् । स च प्रतिव्रीहि नानैव । न चैवमेकव्रीहिनाशे फलानुदयस्तावत्संस्कारणामभावादिति वाच्यम् । संस्कारत्वेन प्रयोजकत्वे किञ्चित्समवधानेऽपि
दण्डादिवत्कार्यसम्भवात् ।

102

अस्तु वा सकलव्रीहिनिष्ठ एक एव । न चैकव्रीहिनाशे तन्नाशापत्तिः, किञ्चिदाश्रयनाशस्य वृक्षादाविवकार्यनाशकत्वादिति ।

उच्यते। अतिशयग्राहकमानाल्लाघवसहकृतात् स एक एव सिध्यति न नाना, पुरुषनिष्ठश्च। तथा हि प्रोक्षणमपूर्वजनकं दृष्टद्वाराभावे सति कालान्तरभाविकार्यजनकतया
विहितत्वात् यागतदङ्गवत्। कृष्यादौ दृष्टद्वारसम्भवात् न व्यभिचारो न वा अप्रयोजकत्वम्। यागदानहोमादितदङ्गानामपूर्वजनकत्वे दृष्टद्वाराभावेसति कालान्तरभाविकार्य
जनकतया विहितत्वस्यैव प्रयोजकत्वादन्यस्याननुगमात् । न च यो यद्गतफलार्थितया क्रियते स बाधकं विना तद्गतमेव तदनुकूलं फलं जनयतीति नियमः,
शत्रुवधमुद्दिश्य प्रवर्तिते श्येनयागादौ व्यभिचारात् , विपक्षे बाधकाभावाच्च । न च यदुद्देशेन यत् क्रियते न तत् तत्र भाविकार्यानुकूलातिशयजनकमिति व्याप्तिः।
हविस्त्यागादिभिर्व्यभिचारात् ।

ननु प्रोक्षितव्रीहिणा अदृष्टस्य जनितत्वात् बर्हिष इव न तस्य पुनरुपयोगान्तरं स्यात् , विनियुक्तविनियोगविरोधात् । उपयोगे वा तज्जातीयान्तरमप्युपादीयेताविशेषात्।
न । " "व्रीहीनवहन्ती" "त्यत्रोक्तन्यायेन प्रोक्षितस्यैव व्रीहेरन्वयात् । विधेर्दुर्लङ्घ्यत्वात् यथा " "बर्हिस्तृणाति" " " "बर्हिषि हविरासादयति" " इत्यत्र। यद्वा विचित्राः संस्काराः।
केचिदुद्देश्यसहकारिण एवाग्रिमकार्यकारिणः । यथाभिचारसंस्कारो यं देहमुद्दिश्य प्रयुक्तः तदपेक्ष एव तत्सम्बद्धस्यैव दुःखं जनयति, तथा प्रोक्षणसंस्कारा अपि उद्देश्यव्रीहिसहकृता
एवाग्रिमकार्यकर्त्तारः। यथा कारीरिजनितसंस्काराधारपुरुषसंयोगाज्जलमुचामदृष्टसमवधानं तथा प्रोक्षणजन्यादृष्टवदात्मसंयोगात् व्रीहीणामुत्तरक्रियाविशेषाः। कर्तृकर्मसाधनवैगुण्यात्
फलाभावस्तुल्य एव। आगामिकत्वात् चाण्डालादिस्पर्शस्याहवनीयादिसंस्कारनाशकत्वश्रुतेर्व्यधिकरणस्याप्यपूर्वनाशकत्वम्। धर्मनाशे कर्मनाशापारगमनवत् निषिद्धकीर्त्तनवच्च।
किञ्च प्रोक्षणजन्यातिशयो व्रीहिनिष्ठोे न नाना। आत्मवृत्तेरेकस्मादप्युक्तन्यायेन कार्र्योपपत्तेः । नाप्येकः, एकद्वित्राश्रयनाशानां प्रत्येकमननुगमेन कार्यनाशे
आश्रयमात्रनाशस्य जनकत्वादेव व्रीहिनाशेन तन्नाशादपरप्रोक्षितव्रीहीणामनन्वयापत्तेः । अथ ""व्रीहिन् प्रोक्षती" "तीप्सिततमद्वितीयाश्रुतेः क्रियाजन्येष्टफलभागित्वं व्रीहेरेवावगम्यते।
न चापूर्वस्य व्रीहिवृत्तित्वम् , साक्षात्सम्बन्धस्यैवौत्सर्गिकत्वादिति चेत् , न । धात्वर्थतावच्छेदकसंयोगेन व्रीहिकर्मतोपपत्तेः । न च संयोगावच्छिन्न एव व्यापारविशेषः
प्रोक्षणार्थः। तथाच कथं प्रोक्षणैकदेशस्य प्रोक्षणसाध्यतयान्वय इति वाच्यम् । संयोगस्योपलक्षणत्वेनापदार्थत्वात् । अन्यथा ग्रामं गच्छतीत्यादौ का गतिः? का वा सक्तून्
प्रोक्षतीत्यादौ । तत्राधेयशक्त्यभावात्।

किञ्च घटं साक्षात्करोतीत्यादौ क्रियाजन्यसंस्कारादीनां घटवृत्तित्वात् संस्कारस्य स्वरूपसम्बन्धेन घटवृत्तित्वम् । वह्निमनुमिनोतीत्यादिवत् प्रयोगसाधुरेव वा
द्वितीयेति यदि तदा प्रकृतेऽपि तथास्तु । अथ प्रतिमादौ प्रतिष्ठाजन्यं न यजमानादृष्टं पूज्यत्वे प्रयोजकम् । भोगादिना तन्नाशेऽपि पूज्यत्वात् , तत्सत्त्वेऽपि चाण्डालादिस्पर्शेनापूज्यत्वात्।
अन्यधर्मं प्रत्यन्यधर्मस्यानुपयोगाच्च । न च प्रतिष्ठाध्वंसस्तथा, तत एव उपजीव्यप्रतिष्ठाप्रयोजकत्वभङ्गापत्तेश्च । तस्मात्प्रतिष्ठाजन्या अस्पृश्यस्पर्शादिनाश्या प्रतिमादिनिष्ठा
शक्तिरभ्युपेया इति चेत्, प्रतिष्ठाविधिना प्रतिमादौ देवतासन्निधिरहङ्कारममकाररूपः क्रियते, स्वसादृश्यदर्शिनश्चित्रादौ इव ज्ञानस्य नाशेऽपि संस्कारसत्त्वात् । अस्पृश्यस्पर्शादिना
च तन्नाशः । अचेतनदेवतापक्षे च यथार्थप्रतिष्ठितप्रत्यभिज्ञानस्यास्पृश्यस्पर्शादिविरहसहकृतस्य तथात्वम् " "प्रतिष्ठितं यूजये" "दिति विधिबलात्तत्तत्प्रतिसन्धानस्यावश्यकत्वादिति
प्राञ्चः।

नव्यास्तु  प्रतिष्ठाविधिनैव तवाधेयशक्तिवदपूर्वान्तरं जन्यते , तददृष्टवदात्मसंयोगाश्रस्य पूज्यत्वम् अस्पृश्यस्पर्शेन तन्नाशे चापूज्यत्वमित्याहुः।
वयन्तु ब्रूमः।" "प्रतिष्ठितं पूजये" "दिति विधिवाक्येन प्रतिष्ठायाः कारणत्वं न बोध्यते। किन्तु भूतार्थे क्तानुशासनादतीतप्रतिष्ठायां पूज्यत्वं बोध्यते। तथाच
प्रतिष्ठाध्वंसः प्रतिष्ठाकालीनयावदस्पृश्यस्पर्शादिप्रतियोगिकानादिकालसंसर्गाभावसहितः पूज्यत्वप्रयोजकः । स च प्रागभावोऽत्यन्ताभावश्च क्वचित्।
कामिनीचरणाभिघातदोहदादिभिरशोकपुष्पोत्कर्षदर्शनादपि नाधेयशक्तिसिद्धिः । समयविशेषावच्छिन्नचरणदोहदादिसंयोगध्वंसस्यैव कारणत्वात् चरणाभिघाताद्याकृष्टभागान्तरजनितवृक्षादेव
वा तदुपपत्तेः। कालान्तरे पुष्पाद्युत्कर्षाद् वृक्षावयवोपचयावश्यम्भावेन वृक्षभेदावश्यकत्वात्। नापि ताम्रकांस्यादौ अस्तु भस्मसंयोगादिजन्यशुद्धिरूपा आधेयशक्तिः, तत्संयोगध्वंसस्य
संयोगसमानकालीनास्पृश्यस्पर्शादिप्रतियोगिकयावदनादिसंसर्गाभावसहितस्य शुद्धिपदार्थत्वात् ।

भस्मादिसंयोगजनितः कांस्याद्युपभोगकर्तृनिष्ठः संस्कार एव  शुद्धिरित्यन्ये।
अभिमन्त्रितपयःपल्लवादावपि समयविशेषावच्छिन्नाभिमन्त्रणध्वंस एव व्यथाद्यपनायकः तत्तन्मन्त्रदेवतासन्निधिरेव वा । कलमबीजादीनामापरमाण्वन्तभङ्गे तत्र
चावान्तरजातेरभावे नियतकलमजातीयादिसिद्धिरपि परमाणुपाकजविशेषादेव । कार्यवृत्तिरूपादिसजातीयस्य पूर्वरूपविजातीयस्य परमाणौ पाकजरूपादेरुभयसिद्धत्वात् ।
यथा हि कलमबीजं यवादेर्जात्या व्यावर्त्तते तथा तत्परमाणवोऽपि पाकजैरेव । एवं माघकर्षणादिजनितात्परमाणुपाकपरम्पराविशेषादेवहैमन्तिकसस्योत्पत्तिः ।
एतेनलाक्षारसावसेकादयोः व्याख्याताः । निमित्तविशेषजनितपाकजात्तत्तत्फलविशेषः, यथा हारीतमांसं हरिन्द्रानलसाधितमुपयोगात्सद्यो व्यापादयति नान्यथा
साधितमित्यादि। यत्र च तोयतेजोवायुषु न पाकजो विशेषः तत्रोद्भवानुद्भव-द्रवत्वकठिनत्वादयो विशेषास्तदुपनायकादृष्टविशेषादेव । तुलादौ चाधिवासादिपूर्वकतुलारोहणसामग्री
तुल्यस्य सत्यासत्यप्रतिज्ञत्वसहिता प्राचीनधर्माधर्मफले तज्जयभङ्गौ जनयति । यद्वा अहं निष्पापः पापवान्वेति तुलाधिरूढाभिशस्तज्ञानविशेषसहिता सा तथा।
तदाहुः-  " "तांस्तु देवाः प्रपश्यन्ति स्वश्चैवान्तरपूरुषः" " इति ।

अथ वा प्रतिज्ञाशुद्ध्यशुद्धी अपेक्ष्यतया धर्माधर्मौ जन्येते, ताभ्याञ्च जयपराजयौ। सत्यासत्यप्रतिज्ञाभिशस्ततुलारोहणस्येष्टानिष्टफलत्वेनार्थतो विधिनिषेधात् ।
" "अभिशस्तः सत्यप्रतिज्ञो विजयकामस्तुलामारोहेदसत्यप्रतिज्ञो न तुलामरोहेत् " " इति श्रुतेरुन्नयनात् । यद्वा तया देवतासन्निधिः क्रियते, ताश्च कर्मानुरूपं लिङ्गमभिव्यञ्चयन्ति॥
॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानाख्यद्वितीयखण्डे आधेयशक्तिवादः॥

103

कारणतावादः

कस्तर्हिशक्तिपदार्थः, कारणत्वम् । तच्च स्वस्वव्याप्येतरसकलसम्पत्तौ कार्याभावव्यापकाभावप्रतियोगित्वम् । अथ वा यत्र कार्याभावव्याप्यता इतराभावावच्छिन्ना
तत्कारणम्। बीजेऽङ्कुराभावव्याप्यता न बीजत्वेनावच्छिद्यते, इतरसमवधाने सति बीजादङ्कुरसम्भवात् । कि

यद्वा अन्यासमवधानावच्छिन्नकार्यानुत्पत्तिव्याप्यत्वं कारणत्वम् । रासभादेः स्वत एव कार्याभावव्याप्यता , अन्यासमवधानस्य वैयर्थ्येनानवच्छेदकत्वात् ।
अनन्यथासिद्धनियतपूर्ववर्तिजातीयत्वं वा तत्त्वम् ।

अन्यथासिद्धत्वञ्च त्रिधा, येन सहैव यस्य यं प्रति पूर्ववर्त्तित्वमवगम्यते , यथा घटं प्रति दण्डरूपस्य । अन्यं प्रति पूर्ववर्त्तित्वे ज्ञात एव यं प्रति यस्य
पूर्ववर्त्तित्वमवगम्यते , यथा शब्दं प्रति पूर्ववर्त्तित्वे ज्ञात एव ज्ञानं प्रत्याकाशस्य । अन्यत्र क्लृप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तत्सहभूतत्वम्। यथा गन्धवति
गन्धानुत्पादात् गन्धं प्रति तत्प्रागभावस्य नियतपूर्ववर्त्तित्वकल्पनात् पाकजस्थले गन्धं प्रति , न त्ववगम्यमाने । यत्र जन्यस्य पूर्ववर्तित्वे अवगते जनकस्य पूर्वभावोऽवगम्यते
तत्र जन्येन जनकस्यान्यथासिद्धिः।

यत्र च जनकस्य तथात्वेऽवगते जन्यस्य पूर्वभावावगमः तत्र तद्द्वारा तस्य जनकत्वमेव, सति तु जायते, तज्जातीयं प्रति तदनन्यथासिद्धम् ।
अनन्यथासिद्धनियतपूर्ववर्त्तित्वं कारणत्वमित्यन्ये ।तन्न । ईश्वरतद्बुद्ध्यादीनामसंग्रहात् । तद्व्यतिरेकस्य तत्समवधानव्यतिरेकस्य वा अभावात् ।
कार्यस्यान्यथानुपपद्यमानताव्यवस्थाप्यत्वं वा अनन्यथासिद्धत्वम् ।

नन्वेवमतिरिक्तशक्तौ साधकबाधकप्रमाणाभावान्नित्यं संशयः । न च साधकाभावस्य बाधकत्वम् , बाधकाभावस्यापि साधकत्वादिति चेत् , न। साधकाभावेन
वह्नावन्यत्र सिद्ध॥

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानाख्यद्वितीयखण्डे शक्तिवादः॥
मुक्तिवादः

परमप्रयोजनमनुमानस्यापवर्गः । " "आत्मा वा अरे श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात्कर्त्तव्यः" " इति श्रुतेः। स च समानाधिकरणदुःखप्रागभावासहवृत्तिदुःखध्वंसः।
ननु नासौ पुरुषार्थः अतीतदुःखघ्वंसस्य सिद्धत्वात् , अनागतदुःखस्य ध्वंसयितुमशक्यत्वात् , वर्त्तमानस्य पुरुषप्रयत्नं विनैव विरोधिगुणनाश्यत्वात् ।
अतीतदुःखवत् हेतूच्छेदे पुरुषव्यापारः प्रायश्चित्तवदिति चेत् , न । तत्किं हेतूच्छेदस्य सुखदुःखाभावेतरत्वेन स्वतोऽपुरुषार्थत्वादनागतानुत्पादमुद्दिश्य क्रियमाणत्वाच्च। यथा
तत्र दुःखानुत्पादः पुरुषार्थः तथा इहापि इति विवक्षितम् , अथानुत्पादस्य प्रागभावत्वेनासाध्यत्वात् फलान्तरस्याभावच्चानन्यगतिकतया कण्टकनाशवत् दुःखसाधननाश
एव स्वतः पुरुषार्थस्तथेहापीति वा। उभयथापि दुःखध्वंसस्यापुरुषार्थत्वमेव। न च तयोरपि पुरुषार्थत्वमिति वक्ष्यते ।

मैवम्  । दुःखान्तरध्वंसस्यायत्नसाध्यत्वेऽपि तादृशदुःखध्वंसस्य मिथ्याज्ञानोच्छेदद्वारा पुरुषप्रयत्नाधीनतत्त्वज्ञानसाध्यत्वात्। तथाहि तत्त्वज्ञानात्सवासनमिथ्याज्ञानाभावे
दोषानुत्पत्तौ प्रवृत्यभावेऽदृष्टानुत्पत्तौ जन्माभावे तादृशदुःखध्वंसो भवति।

अथ चरमदुःखे उत्पन्ने तद्ध्वंसस्तज्ज्ञानादेव भविष्यति तदनुत्पादे च तत्त्वज्ञानादपि न स्यादिति चेत् , न । प्रतियोगिवत्तत्त्वज्ञानस्यापि तद्धेतुत्वात्तुल्यवदुभयोरपि
कारणत्वात्, तेन विना तद्नुत्पत्तेः । अत एव शुकस्य तत्त्वज्ञानमुत्पन्नमिति तस्य तद्ध्वंस उत्पन्नो नास्मदादीनाम् इति चेत्। अनादौ संसारे तत्कुतो नोत्पन्नम् ,
स्वकारणाभावादिति चेत् , न । अन्वयव्यतिरेकानुविधायिनस्तत्त्वज्ञानादन्यस्यान्विष्यमाणस्याभावात् । मुक्तौ स ध्वंसोऽस्त्येव, तस्मिन् सति मुक्तिरस्त्येवेति स
मुक्त्युत्पादकोत्पाद्य इति सर्ववाद्युपगतम् । मुक्तिः सा अन्या वा ।

नन्वेवं ध्वंसार्थं दुःखमुपादेयं तदनुत्पाद्यध्वंसानुत्पादादिति चेत्, सत्यम्। पुरुषार्थहेतत्वेन लोके दुःखतत्साधनयोरपि उपादानदर्शनात् अनागतकुम्भनाशार्थं मुद्गरादौ
प्रवृत्तिदर्शनादनागतदुःखध्वंसार्थमपि प्रवृत्तिः । चरमदुःखध्वंसो न दुःखध्वंसत्वेनोद्देश्यः अयत्नसिद्धदुःखान्तरध्वंसवदपुरुषार्थत्वादिति चेत् , न ।
समानाधिकरणदुःखप्रागभावासहवृत्तिदुःखध्वंसत्वेन तस्योद्देश्यत्वात् दुःखासम्भिन्नसुखवत् तस्य च पुरुषप्रयत्नसाध्यत्वमेवेत्युक्तम् ।
एतेनदुःखध्वंसत्वमेव मोक्षत्वम् , तत्तदात्मयावद्दुःखध्वंससम्वलनदशायन्तु तथा व्यपदेशः । प्रतिपुरुषं दुःखध्वंसस्तोमस्य व्यक्तिस्थानीयत्वात् तेजोभावे सम्वलिते
अन्धतमसपदप्रयोगवत्। यथा सम्वलित एव द्वाविति बुद्धिव्यपदेशौ । प्रवृत्तिरपि सम्वलनार्थमित्यपास्तम् । मिलितानामसाध्यत्वात् , मेलकस्यानतिरिक्तत्वेऽतिप्रसङ्गात्,
अतिरिक्तत्वे जन्यस्य ध्वंसावृत्तेः अजन्यस्य पुरुषार्थत्वाभावात् साध्यतया संवलने भोगावश्यं भावात्। अन्धतमसादौ तथा सम्वल एव प्रयोगात् ।
एतेन  संस्काराजनकभोगविषयदुःखध्वंसः संस्काराजनकानुभवध्वंसो वा मुक्तिः, न चातिव्याप्तिः। जनकत्वस्याजनयत्यपि भावादिति निरस्तम् । अपुरुषार्थत्वात्।

104

अन्ये तुदुःखप्रागभावासहवृत्तिदुःखसाधनध्वंसो मोक्षः। लोकेऽहि कण्टकादिनाशस्य वैदिके प्रायश्चित्तादौ पापनाशस्यानन्यगतिकतया दुःखसाधनध्वंसत्वेन
पुरुषार्थत्वात् । अथाहिकण्टकादि पापं वा नाश्यताम् तेन तज्जन्यं दुःखं न भवतीति दुःखानुत्पादमुद्दिश्य प्रवृत्तेर्दुःखानुत्पाद एव प्रयोजनम्, न तु दुःखसाधनाभावः
सुखदुःखभावेतरत्वादिति चेत् , न । दुःखानुत्पादस्य प्रागभावत्वेनानादितया असाध्यत्वात् । न च तत्पालनं साध्यम् । पालनं हि न तत्स्वरूपम् , तस्यासाध्यत्वात् ।
नोत्तरसमयसम्बन्धः, अभावे सम्बन्धिद्वयातिरिक्तस्य तस्य अप्रामाणिकत्वात् अनभ्युपरमाच्च । नापि सम्बन्धिद्वयस्वरूपं साध्यम् , प्रागभावस्यापि असाध्यत्वात् ।
समयतदुपाध्योश्च प्रयत्नं विनैव सिद्धेः ।

अथ दुःखे द्वेषाद्यथा तद्भावे इच्छा तथा दुःखसाधने द्वेषात् तदभावेऽपि इच्छा तया तत्साधने प्रवृत्तिरिति चेत् , न । यदिच्छया यत्साधने यस्य प्रवृत्तिस्तस्यैव
तत्प्रयोजनत्वमिति दुःखसाधनाभावस्यैव प्रयोजनत्वात् । अथ चिकिर्षायोेनिप्रयत्ने प्रयोजनज्ञानापेक्षा , तेन विनोपाये चिकीर्षाविरहात् न तु द्वेषयोनियत्ने ।
अनिष्टसाधनताज्ञानादहिकण्टकादौ द्वेषो, द्वेषात् तन्नाशानुकूलो यत्न उत्पद्यते। अयमेव हि द्वेषस्वभावो यत्प्रतिबन्धकं विना स्वविषयनाशानुकूलं यत्नमुत्पादयति , अन्यथा
प्रयत्नद्वैविध्यानुपपत्तेः। अत एव फलं विनैवोत्कटक्रोधान्धानां आत्मघाते प्रवृत्तिरिति चेत् , न । प्रयोजनमनुद्दिश्य द्वेषमात्रात् दुःखैकफलके प्रेक्षावतां प्रयत्नानुत्पादात्
क्रोधान्धनामपि तात्कालिकः फलाभिमानोऽस्त्येव। उत्कटरागान्धानामिव परदारादावपि प्रवृत्तेरिति ।

तन्न। दुःखं मे मा भूदित्युद्दिश्य प्रायश्चित्तादौ प्रवृत्तेर्दुःखानुत्पादस्यैव प्रयोजनत्वात् । न च प्रागभावस्यासाध्यत्वम्, दुःखसाधनविघटनद्वारा तस्यापि कृतिसाध्यत्वात्।
दुःखसाधनसमवधानदशायां कृतौ सत्यां दुःखसाधननाशे सत्यग्रिमसमये प्रागभावस्वरूपमस्ति तेन विना नास्तीत्यन्वयव्यतिरेकयोस्तत्र सत्त्वात् । घटेऽपि कृतौ सत्यामग्रिमक्षणे
तत्सत्त्वम् , तया विना नेत्येव कृतिसाध्यत्वम् , न तु प्रागसतोऽग्रिमक्षणे सत्त्वमुत्पत्तिः गौरवात् । कृतिं विना न यत्स्वरूपं तत्कृतिसाध्यम् , तत्प्रागभावस्वरूपन्तु न
तथेति चेत् , न । कृतिध्वंसेऽपि घटसत्त्वेनाग्रिमक्षणे इत्यावश्यकत्वात्। अत एव योगवत्क्षेमस्याप्यनागतानिष्टानुत्पादजनकस्य परीक्षकप्रवृत्तिविषयत्वमिति वक्ष्यते
निषेधापूर्वप्रस्तावे ।

ननु प्रायश्चित्तनाश्यपापजन्यदुःखस्य प्रागभावो यद्यस्ति तदा दुःखमावश्यकम् तस्य प्रतियोगिजनकत्वनियमात् । नास्ति चेत् तर्हि तदभावादेव दुःखानुत्पाद
इत्युभयथापि प्रायश्चित्तमफलम्। तस्माद् दुःखसाधनध्वंसमुखेन प्रागभावस्य साध्यतेति तत्रैव कृतिसाध्यत्वपर्यवसानाद् दुःखसाधनध्वंस एव पुरुषार्थो न तु दुःखानुत्पादार्थितयेति
तत्र प्रागभावसत्त्वासत्त्वविचारो वायसदर्शनविचारवत् ।

अथ तदापि प्रागभावस्यासत्त्वे तदभावात् पापं न दुःखसाधनमिति न तन्नाशार्थं प्रवर्तते । तस्य सत्त्वे च पापमादायैव तस्य दुःखोत्पादकत्वनियमात् प्रायश्चित्ते
सत्यपि गले पादिकया पापावस्थानमिति न ततः पापनाश इति चेत् , न । प्रागभावस्यासत्त्वेऽपि दुःखसाधनजातीयनाशस्य पुरुषार्थत्वात् सत्त्वेऽपि पापान्तरमादायापि तस्य
दुःखजनकत्वसम्भवात् प्रायश्चित्तात्पापनाशः स्यादेवेति प्रागभावसत्त्वासत्त्वसन्देहेऽपि प्रायश्चित्तादौ प्रवृत्तिरप्रत्यूहैवेति।
उच्यते। तत्र दुःखप्रागभावोऽस्त्येव, तस्यैव दुःखानुत्पादरूपत्वेन पुरुषार्थत्वात् । स च पापनाशद्वारा प्रायश्चित्तसाध्य इति प्रागभावसत्वेपि न निष्फलं
प्रायश्चित्तम्। तेन प्रागभावेन दुःखमवश्यं जननीयमिति चेत् सत्यम् किन्तु पापान्तरमासाद्य । न चैवं प्रायश्चित्तमफलम्। दुःखानुत्पादेन तस्य सफलत्वात् । न च
दुःखानुत्पादस्यापि दुःखानुत्पादान्तरमेव फलम् , तच्च तत्र नास्तीत्यफलत्वम्। स्वरूपसत एव तस्य पुरुषार्थत्वात् अनवस्थानाच्च । अतोऽनेन पापेन दुःखं मे मा भूदिति
विद्यमानपापनाशार्थं प्रायश्चित्तेे प्रवृत्तिः।

एतेनचीर्णप्रायश्चित्ते दुःखप्रागभावो नास्त्येव। अन्यथा तस्य प्रतियोगिनाश्यत्वेनानिर्मोक्षप्रसङ्गात्। न च प्रायश्चित्तवैफल्यम् , न वा भगवतो
दुःखमयकर्मोपदेशकत्वेनानाप्तत्वम्। तस्य पापध्वंसेनैव सफलत्वात् , प्रागभावानिश्चयेऽपि नरकसाधनपापनिश्चयात् तन्नाशार्थं प्रवृत्तिरित्यपास्तम् । दुःखसाधनध्वंसस्य
स्वतोऽपुरुषार्थत्वात् । पापान्तरेण तत्प्रतियोगिजनने तन्नाशात्। तस्माद्दुःखं मे मा भूदित्युद्दिश्य तत्साधनध्वंसार्थं प्रवृत्तिरिति दुःखानुत्पाद एव पुरुषार्थो न तु दुःखसाधनध्वंस
इति स्थितम् । अपि च न तावद् दुःखमयसंसारबीजमिथ्याज्ञानस्य ध्वंसो मुक्तिः। तत्त्वज्ञानात् तन्नाशेऽपि शरीरधर्मादिसत्त्वदशायां मुक्तिप्रसङ्गात् । नापि
शरीरेन्द्रियबुद्ध्यादितन्निदानधर्माधर्मध्वंसः। अचीर्णप्रायश्चित्तकर्मणां भोगैकनाश्यत्वेन तत्त्वज्ञानानाश्यत्वात्, भोगद्वारा तन्नाशस्य चापुरुषार्थत्वादिति ।
अपरे तु  दुःखात्यन्ताभावो मुक्तिः। यद्यपि परदुःखात्यन्ताभावः स्वतः सिद्ध एव। स्वदुःखात्यन्ताभावः स्वात्मन्यसम्भवी , घटादावतिप्रसक्तोऽसाध्यश्च । तथापि
दुःखसाधनध्वंस एव स्ववृत्तिदुःखात्यन्ताभावसम्बन्धः, स च साध्य एव । न चैवमावश्यकत्वेन स एव मुक्तिः। तस्य स्वतोऽपुरुषार्थत्वेन दुःखाभावमुद्दिश्य तत्र प्रवृत्तेः।
" "दुःखेनात्यन्तं विमुक्तश्चरती" "त्यत्रात्यन्ताभावत्वेन मुक्तिश्रवणाच्च । यद्यपि दुःखसाधनध्वंसो न पुरुषार्थः, अत्यन्ताभावश्च न साध्यस्तथापि विशिष्टस्य पुरुषार्थत्वं
विशेषणसाध्यत्वेन विशिष्टसाध्यत्वञ्च। अहिकण्टकादिनाशस्यापि तत्तद्व्यक्तिसाध्यदुःखात्यन्ताभावमुद्दिश्य तत्सम्बन्धत्वेनैव साध्यतेति ।
तन्न  । अधर्मादिदुःखसाधनध्वंसस्य न मुक्तिनिर्वाहकत्वं इत्युक्तत्वात् । किञ्च नानागतस्ववृत्तिदुःखस्यात्यन्ताभावसम्बन्धः साध्यः , मुक्तस्यानागतस्ववृत्तिदुःखस्यानभ्युपगमात्।
अभ्युपगमे वा अमुक्तत्वापातात् , अत्यन्ताभावसम्बन्धविरोधाच्च । नाप्युत्पन्नस्य स्ववृत्तिदुःखस्य, तद्वृत्तेस्तत्रात्यन्ताभावसम्बन्धविरोधात् । तदभावस्य स्वतः सिद्धत्वात्
अतीतदुःखाभावस्यानुद्देश्यत्वाच्च। नापि परकीयदुःखात्यन्ताभावसम्बन्धः, तस्य स्वतःसिद्धत्वात्। अपि च दुःखसाधनध्वंसस्य नात्यन्ताभावसम्बन्धत्वे मानमस्ति ।
दुःखसाधनध्वंसादावस्य दुःखस्यात्यन्ताभाव इति बुद्धिव्यपदेशौ स्त इति चेत् , न । तस्य समानाधिकरणदुःखासमानकालदुःखाभावविषयत्वेनाप्युपपत्तौ अतिरिक्तसम्बन्धाविषयत्वात्।
एतेनसर्वदुःखप्रागभावसंसर्गाभावो मुक्तिः। घटादेश्च न मुक्तत्वम् । दुःखसाधनध्वंसविशेषितैतद्योगिनो मुक्तपदार्थत्वात् , तथैव व्यवहारात् , योगरूढिभ्यां
पङ्कजादिपदवाच्यत्ववदिति निरस्तम् । प्रागभावसंसर्गाभावस्य स्वतोऽनुद्देश्यत्वात् प्रत्युतात्यन्ताभावस्यासाध्यत्वेन ध्वंसरूपत्वेन तस्य दुःखरूपतया हेयत्वात् ।

105

प्राभाकरास्तु  आत्यन्तिकदुःखप्रागभावो मुक्तिः । न च तस्यानादित्वेन अपुरुषार्थत्वम्। कदाचित् कृत्यनपेक्षत्वेऽपि प्रतियोगिजनकाधर्मनाशमुखेन तस्य कृतिसाध्यत्वात्।
कृत्यधीनतत्त्वज्ञानादधर्मनाशे सत्यग्रिमसमये दुःखप्रागभावस्वरूपन्नास्ति। तया विना अधर्मेण दुःखाजननान्न तत्प्रागभावस्वरूपमस्तीति। घटवत् कृतिसाध्यत्वात् ।
व्यवस्थापितञ्च त्वया प्रागभावस्य कृतिसाध्यत्वमहिकण्टकादिनाशप्रायश्चित्तक्षेमार्थिप्रवृत्तिस्थले। न चैवं युगपदधर्मध्वंस एव मुक्तिः , प्रागभावस्यानादितया विवक्षितविवेकेन
तत्रैव कृतिसाध्यत्वपर्यवसानादिति वाच्यम् । अधर्मध्वंसस्य स्वतोऽपुरुषार्थत्वात् । दुःखानुत्पादहेतुत्वेनैव तस्य प्रयोजनता वाच्या । सा च कथमसाध्यत्वे प्रागभावस्य
स्यादिति । अत एव " "दुःखजन्मे" "त्यादिसूत्रमपि संगच्छते । अन्यथा मिथ्याज्ञानाद्यनुत्पादानां दुःखानुत्पादाहेतुत्वेनासङ्गतं स्यादित्यास्थिषतेति ।
तदतिस्थवीयः।तथा ह्यस्तु प्रागभावस्य साध्यत्वं तथापि तस्य प्रतियोगिजनकत्वनियमान्मुक्तस्यापि दुःखोत्पादप्रसड्गः। अधर्मशरीरादिसहकारिविरहान्न दुःखोत्पादप्रसङ्ग
इति चेत्, तर्हि उत्तरावधिविधुरत्वेनानादेरत्यन्ताभावत्वापत्तौ प्रागभावत्वव्याकोपः प्रतियोगिजनकनाश्यजातीयत्वेन तत्र प्रागभावत्वव्यपदेशो वस्तुतो नित्य एव स इतिचेत्,
न । नित्यत्वेनात्यन्ताभावरूपतया प्रतियोगिजनकनाशमुखेन तस्यासाध्यत्वाच्च ।

अपि च मुक्तेः प्रागभावस्य समानाधिकरणं भावि दुःखं न प्रतियोगि, तस्याभावात् । भावे वा अमुक्तत्वापातात् । नापि समानाधिकरणमतीतं वर्त्तमानञ्च,
तत्प्रागभावस्य विनष्टत्वात् । नापि व्यधिकरणम् , अन्यवृत्तिदुःखस्यान्यत्रात्यन्ताभावेन प्रागभावात् , तस्य प्रतियोगिसमानदेशत्वात्। न च दुःखमात्रं प्रतियोगि,
स्वपरावृत्तेर्दुःखमात्रस्याप्रामणिकत्वात् । तस्यात्यन्तासतो नित्यनिवृत्तत्वेन तन्निवृत्तये प्रेक्षावत्प्रवृत्त्यनुपपत्तेः । अहिकण्टकादिनाशप्रायश्चित्तादिसाध्यदुःखप्रागभावस्य
कलञ्जभक्षणप्रागभावस्य च समानाधिकरणमेव भावि दुःखं भक्षणञ्च प्रतियोगि।

ननु दुःखाभावो न पुरुषार्थः, सुखस्यापि हानेः तुल्यायव्ययत्वात् । न च बहुतरदुःखानुविद्धतया सुखस्यापि प्रेक्षावद्धेयत्वम्। आवश्यकत्वेन दुःखस्यैव हेयत्वात्
सुखस्य निरुपधीच्छाविषयत्वात् । अन्यथा दुःखाननुविद्धतया तथात्वेन पुरुषार्थत्वविरोधादिति चेत् , न । सुखमनुद्दिश्यापि दुःखभीरूणां दुःखहानार्थं प्रवृत्तिदर्शनात्
दुःखाभावस्य स्वत एव पुरुषार्थत्वात् । न हि दुःखाभावदशायां सुखमस्तीत्युद्दिश्य दुःखहानार्थं प्रवर्तते । वैपरीत्यस्यापि सम्भवे सुखस्याप्यपुरुषार्थत्वापत्तेः । अतो
दुःखाभावदशायां सुखं नास्तीति ज्ञानं न दुःखाभावार्थिप्रवृत्तिप्रतिबन्धकम् । तस्मादविवेकिनः सुखमात्रलिप्सवो बहुतरदुःखानुविद्धमपि सुखमुद्दिश्य " "शिरो मदीयं यदि याति
यातु" " कृत्वा परदारादिषु प्रवर्तमाना " "वरं वृन्दावने रम्ये" " इत्यादि वदन्तो नात्राधिकरिणः।

ये च विवेकिनोऽस्मिन् संसारकान्तारे कियन्ति दुःखदुर्द्दिनानि, कियती सुखखद्योतिकेती कुपितफणिफणामण्डलच्छायाप्रतिममिदमिति मन्यमानाः सुखमपि
हातुमिच्छन्ति तेऽत्राधिकारिणः । न च भोगार्थिनामप्रवृत्तौ पुरुषार्थता हीयते, कस्यचिदप्रवृत्तावपि चिकित्सादेः पुरुषार्थत्वात् ।
अथ ""दुःखाभावोऽपि नावेद्यः पुरुषार्थतयेष्यते।

न हि मूर्छाद्यवस्थार्थं प्रवृत्तो द्दश्यते सुधीः" " ॥
पुरुषार्थत्वे सुखवत् ज्ञायमानत्वनियमात् । न च मुक्तौ ज्ञानं सम्भवतीति चेत् , न हि दुःखाभावं जानीयामित्युद्दिश्य प्रवृत्तिः, किन्तु दुःखं मे मा भूदित्युद्दिश्येत्यतो
दुःखस्याभाव एव पुरुषार्थः, तस्य ज्ञानञ्च स्वकारणाधीनम् , न तु पुरुषार्थतोपयोगि। सुखी स्यामित्युद्दिश्य प्रवर्र्तते न तु सुखं जानीयमिति सुखमेव तथास्तु, न तु
तदवगमः, तस्यावश्यकत्वेनान्यथासिद्धत्वात् गौरवाच्च ।

किञ्च बहुतरदुःखजर्जरकलेवरा दुःखाभावमुद्दिश्य मरणेऽपि प्रवर्र्तमाना दृश्यन्ते । न च मरणे तस्य ज्ञानमस्ति। न ते विवेकिन इति चेत् , न । पुरुषार्थत्वे
विवेकानुपयोगात् । किञ्च चरमदुःखानुभवेऽनागतदुःखध्वंसोऽपि विषयः। तथाचाग्रिमक्षणे तदुपरमः। तद्विषयकत्वञ्च विनश्यदवस्थं ज्ञानमस्तीति वर्त्तमानमप्यचिरमनुभूयते।
ज्ञानसमये मुक्तिलक्षणस्य सत्त्वात् न ज्ञानं मुक्तिविरोधि । प्रमाणन्तु, दुःखत्वं देवदत्तदुःखत्वं वा स्वाश्रयासमानकालीनध्वंसप्रतियोगिवृत्ति कार्यमात्रवृत्तिधर्मत्वात् सन्ततित्वाद्वा
एतत्प्रदीपवत्। सन्ततित्वञ्च नानाकालीनकार्यमात्रवृत्तिधर्मत्वम्। एवं सुखत्वादावपि साध्यम्। तेन सकलोच्छेदे मोक्षेः । न चाप्रयोजकत्वम्, सन्तत्युच्छेदे मूलोच्छेदस्य
प्रयोजकत्वात् । प्रकृते च मिथ्याज्ञानस्य संसारमूलस्य श्रवणादिक्रमेणोेत्पन्नतत्त्वज्ञानात् निवृत्तिः सम्भवत्येव। " "आत्मा ज्ञातव्यो न स पुनरावर्त्तते" " इति श्रुतिश्च प्रमाणम्।
रात्रिसत्रन्योनार्थवादोपनीतपुनरावृत्तेः अधिकारिविशेषणत्वात् । सः आत्मज्ञः, न पुनरावर्त्तते - -न पुनः शरीरी भवतीत्यर्थः । " "आत्मा वा अरे श्रोतव्यो मन्तव्यो
निदिध्यासितव्यः साक्षात्कर्तव्यः" " इत्युपक्रम्य " "दुःखेनात्यन्तं विमुक्तश्चरति" " इति श्रुतिश्च मानम् ।

आचार्यास्तु।" "अशरीरं वावसन्तं प्रियाप्रिये न स्पृशतः" " इति श्रुतिस्तत्र प्रमाणम् । वावसन्तमिति यङ्लुकि । तेन संसारितादशायां क्षणमात्रमशरीरत्वेन
नान्यथासिद्धिः । ननु द्वन्द्वस्वरसेन मिलितसुखदुःखोभयनिषेधः प्रतीयते। स तु नित्यवत्प्राप्त एव। एकैकनिषेधे च वाक्यभेदापत्तिः । न च मुक्तौ प्रमाणमिति चेत् , न ।
द्वित्वेनैकेन रूपेणोपस्थितयोः प्रत्येकं निषेधान्वयेऽपि वाक्यभेदाभावात्। धवखदिरौ छिन्धीत्यत्र प्रत्येकं छिदान्वय इव । न हि तत्र मिलितच्छिदा। अपि च न प्रियाप्रियरूपं
किञ्चितस्तीति मिलितनिषेधो अप्येकैकान्वये प्रत्येकाभावे वा भवेत्। तत्रैकान्वयस्याशरीरे अयोग्यत्वात् प्रत्येकाभाव एव पर्यवस्यति। अत एव सर्वमुक्तिरपि।
सर्वदुःखसन्ततिपक्षीकरणे तत्सिद्धेः। अन्यथा मुक्तिरपि न स्यात् । तत्रैव व्यभिचारात् ।

यदि चोभयात्मान एव केचित् , तदा तच्छङ्कया मोक्षार्थं न कश्चित् प्रवर्तेत । शमदमभोगानभिष्वङ्गादिमुक्तिचिह्नेेन श्रुतिसिद्धेन सन्देहनिवृत्तिरिति चेत् , न।
संसारित्वेन मुक्तियोग्यत्वात् न तु तद्विशेषणशमादिमत्त्वेन । सामान्ये बाधके सत्येव योग्यतायाः विशेषनिष्ठत्वात् । किञ्च शमादयः श्रुतौ सहकारितया बोधिताः न  तु
योग्यतया। तत्त्वेऽपि संसारित्वेन तेऽपि साधनीयाः। शमादिकमपि हि कार्यम् , तत्रापि संसारित्वेनैव योग्यता, सामान्ये बाधकाभावात् ।

106

न च नित्यसुखाभिव्यक्तिर्मुक्तिः। सा हि न नित्या, मुक्तसंसारिणोेरविशेषप्रसङ्गात् । नोत्पाद्या, तद्धेतुशरीराद्यभावात्, ज्ञानमात्रे सुखमात्रे वा तद्धेतुत्वावधारणात्।
न च संसारिदशायां तद्धेतुः, सामान्ये बाधकाभावात् । अत एव स्वर्गादौ शरीरकल्पना । किञ्च तज्जनकं न तावदात्ममनोयोगः, तस्यादृष्टादिनिरपेक्षस्याजनकत्वात्।
विषयमात्रपेक्षणे तु संसारिदशायामपि तदभिव्यक्तिप्रसड्गः । नापि योगजो धर्मः सहकारी, तस्योत्पन्नभावत्वेन विनाशित्वेऽपवर्गनिवृत्त्यापत्तेः । न च तज्जन्याभिव्यक्तिरनन्ता,
तस्या अप्यत एव नाशात् ।

अथ तत्त्वज्ञानात्सवासनमिथ्याज्ञाननाशे दोषाभावेन प्रवृत्त्याद्यभावाद्धर्माधर्मयोरनुत्पादे प्राचीनधर्माधर्मक्षयाद्दुःखसाधनशरीरादिनाश एव तत्र हेतुः । अत एव
तस्यानन्त्येनाभिव्यक्तिप्रवाहोऽप्यनन्त इति चेत् , न । शरीरं विना तदनुत्पत्तेः। तस्य तद्धेतुत्वे मानाभावाच्च । न च मोक्षार्थिप्रवृत्तिरेव तत्र मानम्, दुःखहानार्थितयापि
तदुत्पत्तेः । न च नित्ये सुखे मानमस्ति । " "नित्यं विज्ञानमानन्दं ब्रह्मा" " आनन्दं ब्रह्मणोे रूपं तच्च मोक्षे प्रतिष्ठितं" " इत्यादिश्रुतिर्मान
िअथ सुखस्य ब्रह्माभेदबोधनादेवायोग्यता अनित्यं सुखं विहाय वाक्यार्थत्वेन नित्यसुखसिद्धिः स्वर्गवत् । न तु नित्ये सुखे सिद्धे तदभेदबोधनम् , येनान्योन्याश्रयः।
यद्वा नित्यं सुखं बोधयित्वा तदभिन्नं ब्रह्म बोध्यते । न च वाक्यभेदः, वाक्यैकवाक्यत्वादिति चेत् , न । आत्मनोऽनुभूयमानत्वेन तदभिन्नस्य नित्यसुखस्याप्यनुभवप्रसङ्गात्।
सुखमात्रस्य स्वगोचरसाक्षात्कारजनकत्वनियमात् तदननुभवे वा आत्मनोऽपि अनुभवो न स्यात् । अथात्माभिन्नं नित्यसुखमनुभूयत एव। सुखत्वं तु तत्र नानुभूयत इति
चेत्, न। सुखानुभवसामग्रा एव सुखत्वानुभावकत्वात् । तस्मादानन्दं ब्रह्मेति मत्वर्थीयाच्प्रत्ययान्तत्वेनान्दवत्त्वं बोेध्यम् , तेनाभेदः। अन्यथा नपुंसकलिङ्गत्वानुपपत्तेः ।
एतेनब्रह्माद्वैैतसाक्षात्कारादविद्यानिवृत्तौ विज्ञानसुखात्मकः केवल आत्मा अपवर्गे वर्तत इति  वेदान्तिमतमपास्तम्  । स्वप्रकाशसुखात्मकब्रह्मणो नित्यत्वेन
मुक्तसंसारिणोरविशेषप्रसङ्गात् , पुरुषप्रयत्नं विना तस्य सत्त्वादपुरुषार्थत्वाच्च । अ

त्रिदण्डिनस्तु  आनन्दमयपरमात्मनि जीवात्मलयो मोक्षः, लयश्च लिङ्गशरीरापगमः। लिङ्गशरीरञ्च एकादशेन्द्रियाणि पञ्चमहाभूतानि सूक्ष्ममात्रया सम्भूयावस्थितानि
जीवात्मनि सुखदुःखावच्छेदकानीत्याहुः । तन्न । लिङ्गशरीरध्वंसस्य स्वतो दुःखसाधनाभावतया अपुरुषार्थत्वात् । न चोपाधिशरीरनाशे औपाधिकजीवनाशो लयः,
स्वनाशस्यापुरुषार्थत्वात्। ब्रह्मणो नित्यत्वेन तदभिन्नस्य नाशानुपपत्तेः, भेदाभेदस्य च विरोधेनाभावात् ।

नाप्यनुपप्लवाचित्सन्ततिरपवर्गः। आवश्यकत्वेनानुपप्लवस्य दुःखाभावस्य पुरुषार्थत्वेन चित्सन्ततेरपरुषार्थत्वात् । शरीरादिकारणं विना चित्सन्ततेरनुत्पादाच्च।
न हि चित्तमात्रं तत्सामग्री, शरीरादिवैयर्थ्यापत्तेः। नापि दुःखहेतुत्वेनात्मनो हानमेव मुक्तिः , सुखदुःखाभावेतरत्वेनापुरुषार्थत्वात् । ज्ञानरूपात्महानस्यायत्नसिद्धेः
अतिरिक्तहानस्याशक्यत्वात्।

यत्तुयोगर्द्धिसाध्यनिरतिशयानन्दमयीं जीवन्मुक्तिमुद्दिश्य प्रवृत्तेः , कारणवशादात्यन्तिकदुःखाभावरूपां मुक्तिमासादयतीति मतम् । तन्न । परममुक्तेरपुरुषार्थत्वापत्तेः,
विरक्तस्य मोक्षेऽधिकारात् सुखोद्देशेनाप्रवृत्तेश्च । मोक्षे च सर्वाश्रमिणामधिकारः। आश्रमचतुष्टयमुपक्रम्य " "सः ब्रह्मसंस्थोऽमृतत्वमेति" " इति श्रुतेः, सङ्कोचे कारणाभावात्।
आकाङक्षाया अविशेषेणानन्तर्यस्याप्रयोजकत्वात् । कथं तर्हि ""मोक्षश्रमश्चतुर्र्थो वै यो भिक्षोः परिकीर्तितः" " इति प्रवज्यां मोक्षाश्रममाहुः। गृहस्थस्य च पुत्र दारादिसङ्गो
दुर्वार इत्यसाधारण्येन तथोपदेशात् , " "तत्त्वज्ञाननिष्ठोेे गृहस्थोऽपि मुच्यते" " इत्यागमाच्च ।

एवं स्थिते मोक्षमुपक्रम्य " "आत्मावा अरे श्रोतव्यो मन्तव्यो निदिध्यासितव्यः साक्षात्कर्त्तव्यः" " इति श्रुतिः, श्रुतिभ्यः च शरीरादिभिन्नं आत्मानमवधार्य शास्त्रेण
पदार्थान् विविच्य तद्बोधितोपपत्तिभिस्तस्य स्थिरीकरणरूपं मननं विदधाति । न च शब्दोपपत्तिजन्यतत्त्वज्ञानात् साक्षात्कारिसंसारबीजसवासनमिध्याज्ञाननिवृत्तिः।
दिङ्मोहादौ तथानुपलब्धेः। अतः श्रुति स्मृत्युपदिष्टयोगविधिना चिरनिरन्तरादारसेवितनिदिध्यासनजन्ययोगजधर्मादात्मतत्त्वसाक्षात्कारं संसारबीजसवासनमिथ्याज्ञाननिहननसमर्थमासाद्य
दोषाभावत्प्रवृत्त्यादेरभावे अनागतधर्मानुत्पादेऽनादिभवसञ्चितकर्मणां भोगेन क्षयादपवृज्यते । उपदेशमात्राच्छरीरभिन्नात्मावगमेऽप्यन्यपरत्वशङ्कया सङ्कासूकस्य
नाश्रद्धामलक्षालनमिति मननमावश्यकम् । तथाच " "मन्तव्यश्चोपपत्तिभिरिति" श्रुतिरेवोपपत्तिबोधकस्य शास्त्रस्यापवर्गहेतुत्वं बोधयति। मननस्य तदेकसाध्यत्वात् । एवञ्च
शमदमब्रह्मचर्याद्युपबंृहितयावन्नित्यनैमित्तिकसन्ध्योपासनादिकर्मसहितात् तत्त्वज्ञानान्मुक्तिः।

स्यादेतत् ज्ञानकर्मणोर्न समप्राधान्येन समुच्चयः । कर्मणां स्वाक्यात् फलान्तरार्थत्वेन श्रुतत्वान्मोक्षार्थकल्पनाविरोधात् तत्त्वज्ञानस्य कर्मनैरपेक्ष्येण मुक्तिहेतुत्वप्रतीतेश्च।
नाप्यङ्गाङ्गिभावेन। तथा हि न कर्म सन्निपत्योपकारकम्, तत्त्वज्ञानशरीरानिर्वाहकत्वात्। नापि प्रयाजादिवदारादुपकारकम्, स्ववाक्यत एव कर्मणां प्रयोजनलाभेन
फलवत्सन्निधावफलत्वाभावात् । उपपत्तिविरुद्धश्च ज्ञानकर्मसमुच्चयः । काम्यनिषिद्धयोस्त्यागात्। नाप्यसङ्कल्पितफलवत्काम्यकर्मसमुच्चयः। चतुर्थाश्रमविरोधात्् ।
अत एव न यावन्नित्यनैमिक्तकसमुच्चयोऽपि। नापि यत्याश्रमविहितेन कर्मणा, तत्त्वज्ञाने सति गृहस्थस्यापि मुक्तेः ।

" "ज्ञानं प्रधानं न तु कर्महीनं
कर्मप्रधानं न तु बुद्धिहीनम्।

तस्मात्तयोरेव भवेत्प्रसिद्धिः
नत्वेकपक्षो विहगः प्रयाति॥" "

" "न्यायगतधनस्तत्त्वज्ञाननिष्ठोेऽतिथिप्रियः ।
श्राद्धकृत्सत्यवादी च गृहस्थोऽपि विमुच्यते" " ॥ इति स्मृतेः ।

107

न चाननुगतमपि साधनम् , स्वर्गवदपवर्गे प्रकारभेदाभावात् । न चापवर्गार्थिकर्र्तव्यतया कर्माणि विहितानि, येन तत्समुच्चयः स्यात्। तस्मात् " "सन्न्यस्य
सर्वकर्माणि" " इति स्मृतेः सर्वकर्मसन्न्यासः, ज्ञानमात्राच्च मोक्ष इति ।

मैवम् । स्वस्वाश्रमविहितेन कर्मणा ज्ञानस्य समप्राधान्येन समुच्चयात् ज्ञानकर्मणोस्तुल्यत्वेन मुक्त्यर्थत्वाभिधानात् ।
तथाच श्रीमद्भगवद्गीता- - " "स्वे स्वे कर्मण्यभिरतः संसिदिं्ध लभते नरः ।

स्वकर्मण तमभ्यर्च्य सिदिं्ध विदन्ति मानवः" " ॥
श्रीविष्णुपुराणे- - " "तस्मात्तत्प्राप्तये यत्नः कर्र्तव्यः पण्डितैर्नरैः ।

तत्प्राप्तिहेतुर्विज्ञानं कर्म चोक्तं महामते॥" "
हारीतः- - " "उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः ।

तथैव ज्ञानकर्मभ्यां प्राप्यते ब्रह्म शाश्वतम् " "॥
श्रुतिश्च- --" "सत्येन लभ्यस्तपसा ह्यष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण च" " इति ।

एतन्मुलकमेव- -- " "परिज्ञानाद्भवेन्मुक्तिरेतदालस्यलक्षणम् ।
कायक्लेशभयाच्चैव कर्म नेच्छन्ति पण्डिताः" "॥

न च फलान्तरार्थत्वेन श्रुतस्य कर्मणः फलान्तरार्थत्वमनुपपन्नम् , तथा वाक्यस्वरसात् ज्ञानतुल्यताप्रतीतेः । तत्तत्फलजनकत्वेऽपि हि कर्मणं शब्द एव मानम्,
एवमन्यत्रापि । भवतु वा आरादुपकारितया अङ्गाङ्गिभावेन समुच्चयः। स प्रयाजादिवदपूर्वद्वारैव ।

यत्तु जडभरतोपाख्याने- - " "न पपाठ गुरुप्रोक्तां कृतोपनयनः श्रुतिम् ।
न ददर्श च कर्माणि शास्त्राणि जगृहे न च" "॥ इति

तद्योगिधर्मसङ्गत्यागार्थं जातिस्मरत्वेन न शिक्षितानीत्येवंपरं वा ।
तदुक्तम् - - " "..............ज्ञेज जातिस्मरो द्विजः।

सर्वविज्ञानसम्पन्नः सर्वशास्त्रार्थतत्त्ववित् " "॥ इति ।
अत्र केचित्।अनुत्पन्नतत्त्वज्ञानस्य ज्ञानार्थिनस्तत्प्रतिबन्धकाधर्मनिवृत्तिद्वारा प्रायश्चित्तवदारादुपकारकं कर्म , सन्निपत्योपकारकन्तु तत्त्वज्ञानम् । उत्पन्नतत्त्वज्ञानस्य
तु अन्तरा लब्धवृष्टेः कारीरिसमाप्तिवदारब्धाश्रमपरिपालनं लोकसंग्रहार्थम् । यद्यपि लोकसंग्रहो न प्रयोजनम् , सुखदुःखाभावतत्साधनेतरत्वात्। तथाप्यकरणे लोकानां न
च विगानान्निन्त्यत्वेन यज्ज्ञानं तत्परिहारार्थं तत्कर्मसाध्यदुःखोत्पादनेनाधर्मक्षयार्थञ्चेति ।

तन्न। तत्त्वज्ञानं प्रत्यङ्गत्वपक्षे कर्मणां ह्यपूर्वद्वारा जनकत्वम् , दुरितध्वंसकल्पनातो लघुत्वात् । तस्मात् यानि कर्माणि उपनीतमात्रकर्तव्यत्वेन विहितानि
सन्ध्योपासनादीनि तानि मोक्षार्थिभिरप्यवश्यं कर्तव्यानि । तत्परित्यागस्य प्रत्यवायहेतुत्वेनाशास्त्रीयत्वात् , सङ्कोचे मानाभावात् । निषिद्धानि काम्यानि च
बन्धहेतुत्वान्मुक्तिपरिपन्थीनीति त्यज्यन्ते । धनमूलानि च धनत्यागादेव त्यज्यन्ते । सोऽयं " "संन्यस्य सर्वकर्माणी" "त्यस्यार्थः। अयमेव हि सन्न्यासपदार्थः।
तथा च गीता- " "काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदः ।

नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते।
मोहात्तस्य परित्यागस्तामसः परिकीर्त्तितः" " ॥ इति

तत्त्वज्ञानं धर्मद्वारा मुक्तिसाधनम् , विहितत्वेन धर्मजनकत्वादिति धर्मस्यैव प्राधान्यम् । स च धर्मो मुक्त्यैव फलेन नाश्यत इतिकेचित्  । तन्न ।
मिथ्याज्ञाननिवृत्त्या दृष्टद्वारेणैवोपपत्तावदृष्टकल्पनानवकाशात् । अन्यथा भेषजादिष्वपि तथा स्यात् । एवञ्च तत्रैव विहितत्वस्य व्यभिचारः ।
अत्र वदन्ति। संसारकारणोच्छेदक्रमेण कार्योच्छेदान्मोक्षः, एवञ्च तत्त्वज्ञानमात्रादेव मिथ्याज्ञानोच्छेदादपवर्गः । तत्र न तस्य कर्मसहकारित्वम् । मिथ्याज्ञानोन्मूलने
कर्मविनाकृतस्यैव तस्य दिङ्मोेहादौ हेतुत्वावधारणात् कर्मणामपवर्गहेतुताश्रुतिश्च तत्त्वज्ञानद्वाराप्युपपद्यते, साक्षात्तस्याश्रुतेः । तत्त्वज्ञानवतश्चाधिकारे नित्याकरणेऽपि
दोषाभावेन प्रत्यवायाभावोपपत्तेः। अन्यथा भोगार्थं विहितनिषिद्धाचरणेन धर्माधर्मोत्पत्तौ मोक्षाभावप्रसङ्गः। ननु तत्तत्तीर्थदानमहास्नानकाशीमरणादिकर्मणां तत्त्वज्ञाननैरपेक्ष्येण
मुक्तिहेतुत्वं श्रूयते , तत्कथं तत्त्वज्ञानमेव तद्धेतुः । न च तेषां तत्त्वज्ञानमेव व्यापारः, अनुपदं तत्त्वज्ञानानुत्पादाददृष्टद्वारा तद्धेतुत्वं वाच्यम् । तथाचापवर्गकारणमेवदृष्टं
कल्प्यतां लाघवात् । न च तत्त्वज्ञानप्रतिबन्धकाधर्मनाश एव तेषां व्यापारः, प्रतिबन्धकदुरितध्वंसतोऽपूर्वस्य लघुत्वात् ।

108

अथ तत्तत्कर्मणामननुगमात् कथं मुक्तिरनुगता, दुःखध्वंसे प्रकाराभावादिति चेत् . न । गुणनाशे समवाय्यसमवायिनाश विरोधिगुणानां नाशकत्वनियमात् ।
तत्तन्नाशविशेषे तु तत्तद्धेतुरिति चेत्, तर्हि तत्तद्दुःखध्वंसे तत्तत्कर्मणामपि तथात्वमस्तु, तवापि तत्त्वज्ञाने तत्त्प्रतिबन्धकदुरितध्वंसे चाननुगतानामेव तत्तत्कर्मणां जनकत्वम्,
मुमुक्षुमुद्दिश्य विहितत्वं वानुगतमस्तीति चेत् , न । ज्ञानकर्मणोर्निरपेक्षकारणताश्रवणत् व्रीहियववद्विकल्प एव । निरपेक्षैकसाधनावरुद्धेेपरसाधनान्वयो न विकल्पमन्तरेण
सम्भवति। आकाङ्क्षाविरहादिति न्यायात् । साहित्यबोधकं विनैकं प्रत्यनेकस्य हेतुता यत्र शब्देन बोध्यते तत्र विकल्पेनान्वयो यथा व्रीहियवयोेरिति व्युत्पत्तेर्वा ।
वस्तुतस्तु दृढभूमिसवासनमिथ्याज्ञानोन्मूलनं विना न मोक्ष इत्युभयसिद्धम्, तादृशमिथ्याज्ञाननाशे चान्वयव्यतिरेकाभ्यां तत्त्वज्ञानकारणत्वमवधारितमतो न तेन
विना स इति तत्रापि तत्त्वज्ञानमावश्यकम् । यद्यपि मिथ्याज्ञाननाशे विरोधिगुणस्यैव हेतुत्वम्, तथापि मिथ्याज्ञानप्रागभावासहवृत्तिमिथ्याज्ञानध्वंसस्य तदेकसाध्यत्वम् ।
" "आत्मा ज्ञातव्यो न स पुनरावर्त्तते" " इति श्रुतेर्र्मोक्षं प्रति तत्त्वज्ञानस्य हेतुत्वावधारणात्। " "तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" " इति श्रुत्या तत्त्वज्ञानं
विना न मोक्षः। किन्तु तस्मिन्सत्येवेति प्रतिपादनाच्च । अन्यथा स्वर्गादौ न शरीरादयः कल्प्येरन् । कर्मणां तत्त्वज्ञानद्वारापि मुक्तिजनकत्वसम्भवात् । प्रमाणवतो गौरवञ्च
न दोषाय। कर्मणां तत्त्वज्ञानविशेष एव जनकत्वम्। अतो न तत्राननुगमो दोषाय । वाराणसीमरणस्य तत्त्वज्ञानफलजनकत्वमागमादेवावगम्यते। तत्त्वज्ञानाददत्तफलान्येव
कर्माणि प्रायश्चित्तादिव विनश्यन्ति अनन्यथासिद्धशब्दबलात् । न च प्रायश्चित्तस्य दुरितोत्पत्तिनिमित्तकत्वम् , पापनाशफलश्रवणात् ।
अत एव न ब्रह्महत्यादीनां प्रायश्चित्तदुःखमेव फलम् , नरकफलश्रुतिविरोधात् प्रायश्चित्तविधिवैयर्थ्याच्च, दुःखैकफलत्वेन तत्राप्रवृत्तेः । नापि कर्मान्तराधिकार
एव फलम् , महापातकातिरिक्तेऽनधिकाराभावात्। अन्यथा यत्किञ्चित्पापवतोऽकृत प्रायश्चित्तत्वेनानधिकारापत्तेः। प्राणान्तिके तदभावाच्च।
श्रूयते हि  - - " "भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परात्मनि" " ॥ इति
स्मृतिरपि- - " "ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन" " इति ।

" "नाभुक्तं क्षीयते कर्मे" "त्यत्र च प्रायश्चित्तादिस्मृतितः सङ्कोचस्यावश्यकत्वेन शब्दबोेधितनाशकानाश्यकर्मपरत्वम्, लाघवात्। न तु तत्तदन्यकर्मपरत्वम् ,
गौरवात्। पापपुण्यक्षयहेतूनां बहुतरत्वात् । ज्ञानस्य नाशकत्वं शब्दबोध्यमित्युक्तम् । अथ भस्मसात्पदस्य लाक्षणिकत्वेन यथा वह्नेेः परम्परया भस्म तथा ज्ञानात्कर्मक्षय
इत्यर्थः । तथाच नाभुक्तं क्षीयते कर्मेति स्मृतिरुत्सर्गतो भोगेनैव क्षयमाह, अनन्यथासिद्धप्रायश्चित्तविधिना सा बाध्यते। ज्ञाननाश्यत्वञ्च भोगद्वारापि सम्भवतीत्यबाधे
सम्भवति बाधकल्पना नेति चेत् , न । कमणोे भोगनाश्यत्वे ज्ञानस्यानाशकत्वात् । न हि भोगस्तत्त्वज्ञानव्यापारः, तथाऽश्रवणात् , तेन विनापि कर्मण एव तदुपपत्तेश्च।
कर्मणो भोगनाश्यत्वे तत्त्वज्ञानानुपयोगात् ।

यत्तुनाभुक्तमिति स्मृतिविरोधेन क्षीयन्ते इत्यादि श्रुतेरन्यथा वर्णनम्। तन्न । स्मृतेः प्रत्यक्षवेदबाधितत्वेन विरुद्धार्थकवेदाननुमापकत्वात् । वामदेवसौभरिप्रभृतीनां
कायव्यूहश्रवणात्तत्त्वज्ञानेन कायव्यूहमुत्पाद्य भोगद्वारा कर्मक्षय इति चेत् , न। तपः प्रभावादेव तत्त्वज्ञानानुत्पादेपि कायव्यूहसम्भवात् । भोगजननार्थञ्च कर्मभिरवश्यं
तत्तत्कायनिष्पादनमिति न तत्र तत्त्वज्ञानोपयोगः। यौगपद्यञ्च कायानां तज्जनककर्मस्वभावात् तपः प्रभावाद्वा । न च ज्ञानं भोगद्वारा कर्मनाशकं इत्युक्तम् ।
एतेनागमयोःपरस्परविरोधात् अनिर्णये विमतिपदं कर्म भोगनाश्यं प्रायश्चित्ताद्यनाश्यत्वे सति कर्मत्वात् भुक्तभुज्यमान कर्मवदित्यनुमानान्निर्णय इत्यपास्तम् ।
ज्ञानस्य प्रायश्चित्ततुल्यत्वेनाप्रयोजकत्वात् श्रुतिबाधितत्वाच्च । शब्दबोधितनाशकानाश्यत्वस्योपाधित्वाच्च। अकृतप्रधानेन कृतप्रधानेन चाङ्गापूर्वेण व्यभिचाराच्च ।
तस्य प्रधानयागादिनाश्यत्वात् । न च तस्यापि यागस्येव स्वर्गफलकत्वमिति तन्नाश्यत्वमेव अधिकृताधिकारेऽपि स्वर्गकामस्याधिकारात् , अन्यथा निष्फलेऽप्रवृत्तेरिति
वाच्यम् । स्वर्गफलत्वेऽङ्गत्वविरोधात् । प्रवृत्तिश्च फलवद्यागार्थितया । तदुक्तम् " "प्रधाने रागादङ्गे वैधी" "ति ।

ननु" "तावदेवास्य चिरं यावन्न विमोक्षः अथ सम्पत्स्यते कैवल्येन" " इति श्रुतेः तावदेवास्योत्पन्नतत्त्वज्ञानस्य चिरं विलम्बः यावन्नोत्पन्नकर्मणोविमोक्षः। अथ
सम्पत्स्यते कैवल्येनेत्यत्र भोगेन क्षययित्वा इति शेषः । न च शेषे मानाभावः। सत्यपि विज्ञाने कर्मावस्थाने क्लृप्तसामर्थ्यस्य भोगस्यैव नाशकत्वेनाक्षेपकत्वादिति चेत्,
न । तत्त्वज्ञाने सति तत्त्वज्ञानदशायां न मोक्षः, किन्तु तदग्रिमक्षण इत्यार्थत्वेनाप्युपपत्तेः ।

यत्तुअकृतप्रधानङ्गापूर्वाभिप्रायमेतत् ""ज्ञानाग्रिः सर्र्वकर्माणी" "त्यादि, तेषां कार्याणां नाशकान्तराभावादिति । तन्न । प्रधानार्थितया क्लृप्तानां तदभावे तत्सामग्र्यसिद्धेः,
तत्सत्त्वेऽपि सर्वकर्मपदस्य कर्मान्तरपरिग्राहकस्य सङ्कोचे मानाभावात्। यदपि भस्मसात्करणादिना फलाजनकत्वमुच्ते, तत्वज्ञानात् कृतमपि विहितं कर्म न फलायेति।
तथाच श्रुतिः, " "तद्यथा पुष्करपलाशेनापः श्व्लिष्यन्ते " " इत्यादि । तदपि न । न हि भस्मसात्करणं क्षयश्चानुत्पत्तिरुच्यते । न च लक्षणा । मुख्ये बाधकाभावात् ।
उच्यते। कर्मणो भोगनाश्यत्वेऽपि ज्ञानस्य कर्मनाशकत्वम् , भोगस्य तत्त्वज्ञानव्यापारत्वात् । न च भोगमात्रस्यैव कर्मनाशे सामर्थ्यात्तत्त्वज्ञानव्यभिचारः,
कर्मप्रागभावासहवृत्तिकर्मनाशे युगपत्कर्मभोगे वाऽव्यभिचारात् । अत एवानुमानेनागमबाधाप्रयोजकत्वेन च श्रुतिवाक्यशेषे मानाभावः। उत्पन्नतत्त्वज्ञानस्यापवर्गविलम्बोपपादनार्थं
उक्तरीत्या भोगस्यैवाक्षेपादिति, तदस्यापवर्गस्य परमपुरुषार्थस्य श्रुतिसिद्धं कारणमनुमानमिति विविक्तम् इति॥

इति श्रीमहामहोपाध्यायश्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ अनुमानाख्यद्वितीयखण्डे ईश्वरानुमानम्॥

समाप्तञ्च द्वितीयमनुमानखण्डम् ॥

109