तत्त्वटीका
[[लेखकः :|]]

तत्त्वटीका

श्रीमते रामानुजाय नमः ।

श्रीमन्निगमान्तमहादेशिकविरचिता श्रिभाष्यव्याख्या तत्त्वटीका ।

श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी ।

वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।।

स जयति यतिहाजमुनिः करुणाजलधिः क्षमापरिष्कारः ।

करिशैलकृष्णमेघः काङिक्षतर्षी यदप्रितैस्तोयैः ।। 1 ।।

स्वतः सिद्धं शुद्धस्फटिकमणिभूभृत्प्रतिभटं

सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनम् ।

अनन्तैस्रय्यन्तैरनुविहितहेषाहलहलं

हताशेषावद्यं हयवदनमीडीमहि महः ।। 2 ।।

प्रणम्य वरदाचार्यवादिहंसाम्बुदावपि ।

त्रय्यन्तसूत्रभाष्यार्थतत्त्वटीका विधीयते ।। 3 ।।

असावनतिसंक्षेपादतिविस्तरवर्जनात् ।

सर्वन्यायानुकूलत्वाद्गृह्यतां सारवेदिभिः ।। 4 ।।

शातितः शतदूषण्यां शंकरादिमुधाग्रहः ।

शारीरकशरीरं तु व्यक्तमत्र प्रदर्श्यते ।। 5 ।।

विश्वामित्रकुलीनेन वेदान्ताचार्यसूरिणा ।

शश्वद्विधीयते विश्ववैतण्डिकविधूननम् ।। 6 ।।

निखिलनिगमश्रेणीचूडापरिष्कृतिरूपिणी

निपुणमनसामाशासौधस्थलीषु निबध्यते ।

यतिपतिभुवो भाष्यस्यासौ यथाश्रुतचिन्तित-

प्रवचनविधावष्टाविंशे जयध्वजपट्टिका ।। 7 ।।

तत्र तावत् -

अखिलेत्यादिभाष्यस्य दशार्थानभिदध्महे ।

विषयादित्रिकस्योक्तिः प्रथमं प्रतिपाद्यते ।। 8 ।।

तस्यार्थस्य च सौत्रत्वात्तद्विस्तारात्मकं पुनः ।

अनवद्यमिदं पद्यं भाष्यलक्षणलक्षितम् ।। 9 ।।

यद्यपि अथोतो ब्रह्मजिज्ञासा इति सूत्रं ब्रह्म जिज्ञासोस्तद्विचारस्य कर्तव्यत्वे प्रवृत्तम्, तथापि शारीरकविषयादिष्वप्यर्थतो वर्तते ; यथा धर्मजिज्ञासासूत्रम् ।

आसूश्च -

अथोतो धर्मजिज्ञासासूत्रमाद्यमिदं कृतम् ।

धर्माख्यं विषयं वक्तुं मीमांसायाः प्रयोजनम् ।। इति ।

एवमत्रापि -

ब्रह्मेति तावद्विषयं प्राप्यत्वेन प्रयोजनम् ।

जिज्ञासाकर्मभावेन संबन्धमपि चाब्रवीत् ।। 10 ।।

निरतिशयबृहत्त्वं हि ब्रह्मशब्दार्थः ; बृहतिधातोः बृहेरम् च इति मनिन्प्रत्यये अमागमे च ब्रह्मेति व्युत्पत्तेः ब्रह्मपरिबृढं सर्वतः इति यास्कोक्तेश्च । यत्तु आथर्वणिकी निरूक्तिः बृंहणत्वमप्याह - बृहति बृंहयति तस्मादुच्यते परं ब्रह्म इति, पौराणिकी च प्रसिद्धिः, बृहणत्वस्य बृहणत्वाञ्च तद्ब्रह्मेत्यभिधीयते इति ; तद्गोबलीवर्दन्यायादिति न विरोधः ; बृंहणत्वस्य बृहत्त्वविशेषत्वाञ्च । तदयमर्थः - स्वतो बृहत् बृंहणत्वेनापि बृहदिति प्रयुक्तपदान्तरपौनरुक्त्यपरिहाराय

सामान्यशब्दसङ्कोचो गोबलीवर्दन्याय इति लक्षणानुसारेण बृहच्छब्दो बृंहणत्वात्मकबृहत्त्वादन्यत्र वर्तते ; यथा विष्णुनामा स वेदेषु वेदान्तेषु च गीयते इति । तेनानवधिकातिशयबृहत्त्वमेव ब्रह्मशब्दार्थ इत्येके । अपरे तु बृहत्त्ववत् बृंहणत्वमप्यनवधिकतिशयं ब्रह्रशब्दार्थः, बृहति बृंहयति बृहत्त्वाद्बृंहणत्वाञ्च इति पृथगभिधानस्वारस्यात् समुञ्चयोपादानस्वारस्योञ्चेत्याचक्षेते । वयं तु ब्रूमः - उभयत्रापि विरोधाभावादुभयथाप्याचक्ष्मह इति । अयमत्र संग्रहः --

बृहत्त्वं ब्रह्मशब्दार्थो बृंहणत्वं तु तद्भिदा ।

यद्वार्थो ब्रह्मशब्दस्य बृंहणत्वं बृहत्त्ववत् ।। 11 ।।

अथवा बृहत्त्वबृंहणत्वसमुञ्चयो वा । एतत्सर्वमभिप्रेत्योक्तं जन्माद्यधिकरणभाष्ये उपलक्ष्यं ह्यनवधिकातिशयबृहत् बृंहणं च, बृहतेर्धातोस्तदर्थत्वात् इति । अनयोश्च सर्वातिशायित्वमपरिच्छेदात् यास्कनिरुक्तिसामर्थ्याञ्च सिध्यति ।

अनुपाधिकनिर्देशे ह्यसङ्कोचो मनीषिभिः ।

सिद्धे शब्दार्थसंबन्ध इति न्यायेन कथ्यते ।। 12 ।।

ईदृशं ब्रह्म अस्य शास्रस्य प्रधानविषयः ; प्राप्यतया परमं च प्रयोजनम् ; निरुक्तिद्वयार्थस्य द्विकाभ्यां विवरणात् ।

प्राप्यत्वं ब्रह्मणः सिध्येद्बृंहणत्वस्य कीर्तनात् ।

स्वप्राप्तेः साधनत्वं हि बृंहणत्वमिहोच्यते ।। 13 ।।

न च बृहतिधातौ बृंहयतीत्यभिधानस्य विरोध इति वाच्यम्, बृह बृहि वृद्धौ इति धातुद्वयसिद्धत्वान्निरुक्तिद्वयवाक्यस्य ।

अर्थमात्रे च तात्पर्यादन्यधातोश्च सेग्रहः ।

तस्य धातोरिदित्त्वाञ्च नुमागमसमन्वयः ।। 14 ।।

प्रयोजनं चात्रावश्यं वक्तव्यम् । तदप्याहुः -

सर्वस्यैव हि शास्रस्य कर्मणो वापि कस्यचित् ।

यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते ।। इति ।

मीमांसाख्या तु विद्येयं बहुविद्यान्तराश्रया ।

न शुश्रूषयितुं शक्या प्रागनुक्तवा प्रयोजनम् ।। इति च ।

संबन्धस्तु विषयभूतेन ब्रह्मणा निर्णायकत्वादिः, प्रयोजनभूतेन प्रापकत्वादिः, जीज्ञासापदविवक्षितविचारसाध्यवितीप्तितन्मूलविनतितत्साध्यरक्षारूपैस्तु प्रयोजनैः यथार्हं साक्षात्परम्परया वा हेतुत्वबोधकत्वे ।

शास्रारम्भेषु सर्वत्र संबन्धः कथ्यते बुधैः ।

असंबद्धप्रलापत्वे न प्रवर्तेत बुद्धिमान् ।। 15 ।।

तदेवं सौत्रमेव विषयादित्रिकं श्रोतृबुद्धिसमाधानार्थमुपादित्सार्थं च विशेषतः ख्यापयन् प्रारिप्सितप्रबन्धस्याविघ्नेन परिपूर्त्यर्थं प्रचयार्थं च शङ्कितप्रत्यूहशान्त्यै शिष्टाचारादिसिद्धमिष्टदेवभक्त्याशीरूपं मङ्गलं स्वात्मनानुष्ठितमपि शिष्यशिक्षार्थं स्वकृतानुकीर्तनेन तेषां महिष्ठमङ्गलार्थं चादौ निबध्नाति भगवान् भाष्यकारः - अखिलेति ।

गुरोराचारमाश्रित्य वर्तन्ते मङ्गलार्थिनः ।

यान्यस्माकमिति श्रुत्या तदेतदभिधीयते ।। 16 ।।

नमस्क्रियावस्तुनिर्देशावप्यर्थसिद्धौ, सर्वोत्तुङ्गमङ्गलतमतत्त्वोक्तेः । उक्तं च

नीचोञ्चयोः स्वभावोऽयं नन्तृनन्तव्यतात्मकः इति । अत्र सप्तम्यन्तैः सिद्धविषयप्रयोजनोक्तिः । श्रुतिशिरसि इति अवान्तरविषयसंग्रहः ।

यथा हि वेदवाक्यस्य विषयो ब्रह्म कथ्यते ।

तथैव सूत्रवाक्यस्य त्रय्यन्तः परिकीर्त्यते ।। 17 ।।

विदीप्तिविनतरक्षाशब्दैः साध्यप्रयोजनत्रयकीर्तनम् । विशिष्टा अत्र दीप्तिः विदीप्तिः ; विर्णयः । स तु विचारतः । यथाहुः -

धर्मे प्रमीयमाणे तु वेदेन करणात्मना ।

इतिकर्तव्यताभागं मीमांसा पूरयिष्यति ।। इति ।

उक्तं च न्यायसुदर्शने -

ज्ञायमाने तु वेदान्तैः करणैः परमात्मनि ।

इमामुत्तरमीमांसामितिकर्तव्यतां विदुः ।। इति ।

वेदस्य निरपेक्षत्वलक्षणप्रामाण्ये सत्यपि प्रतिपत्तृमतिमान्द्यपराधनिमित्तसंशयविपर्ययापलोदनमनया क्रियते इति च ।

प्रयोजनोक्तिराप्तत्वनिश्चये निश्चयं दिशेत् ।

तत्सन्देहेऽप्युपादित्सां सिद्धां संधुक्षयेदसौ ।। 18 ।।

तत्र सामान्यतः प्रयोजनवत्त्वनिश्चयेऽपि स्वापेक्षितप्रयोजनकथनमवश्यकर्तव्यमेव । तदिह संबन्धोऽपि सूचित एव, संबन्धाश्रयभूतशास्रप्रयोजनादीनामुपादाननान्तरीयकत्वात्संबन्धावगमस्य ।

विचारत्वं विचार्यत्वं निर्धार्यत्वं तथेतरत् ।

प्राप्यत्वं प्रापकत्वं च संबन्ध इति कथ्यते ।। 19 ।।

तत्र तत्त्वत्रयमर्थपञ्चकमित्यादिकमध्यात्मविद्भिरत्यादरेण परिगृहीतमर्थजातं स्वयमेव सूरिभिः संप्रत्याय्यमिति न विविच्य लिख्यते ।

विषयादिप्रधानत्वमाद्यपद्ये समीरितम् ।

अधुना मङ्गलाचारप्राधान्यमनुवर्ण्यते ।। 20 ।।

स च मङ्गलाचारः केषुचित् ग्रन्थेष्वदृष्टोऽपि निमित्तफलाभ्यामुन्नेयः। आहुश्च -

प्रारिप्सितं निमित्तं स्यादविघ्नेन समापनम् ।

प्रचयश्च फलं तस्मान्मङ्गलाचार इष्यते ।। इति ।

अविघ्नसमाप्त्यादिसंवलितस्य प्रबन्धारम्भस्य तत्राधिकारिविशेषणत्वमित्यर्थः । उक्तं च विवरणकारैः - संवलितमत्र विशेषणम्, जातेष्टिवत् ; यथा जातेष्टौ पुत्रजन्मनो निमित्त

त्वेऽप्यार्थवादिकानां पुत्रगतपूतत्वादीनां फलत्वकल्पनम् । न च गौरवम्, फलस्य विशेषणत्वे प्रवृत्तिसौकर्यात् । फलमात्रे तु गर्हानुपपत्तिः । न हि काम्याकरणे गर्हा इति । अथवा शबरशंकरग्रन्थयोरनीश्चरप्रतिपादकत्वात् ईश्वरनमस्कारादिमङ्गलं न कृतमिति व्याचक्षते । न च पक्षिलादयः परमास्तिका निमित्ते सत्यपि मङ्गलं नाचरन्तीति व्याकुर्वते । केचितु ईश्वरवाचकस्य प्रमाणशब्दस्य प्रथमोपादानात् कृतमङ्गलाचार एव पक्षिलमुनिरिति व्याचख्युः । अननुष्ठितमङ्गलत्वे वा कथं फलसिद्धिः ? अनुष्ठितमङ्गलानां तु फलव्यभिचारः कर्मकर्तृसाधनवैगुण्यमवलम्बते । नन्वारब्धसमाप्तिकामो मङ्गलमाचरेदिति विध्यभावादकर्तव्यत्वं मङ्गलाचारस्य । अयं खल्वनधिगतवेदानामश्रुतमीमांसानामालापः, अविगीतशिष्टाचारस्यैव मूलप्रमाणकल्पकत्वात् । तत एव चोदनालक्षणत्वसिद्धिः । न च मङ्गलाचाराभावेऽपि फलं दृष्टमिति वाच्यम्, संसारस्यानिदंप्रथमतया तस्यापि भवान्तरीयसुकृतविशेषनिबन्धनत्वात् । न च किमनेन मङ्गलाचारेण ? तदेव फलं प्रददातीति वाच्यम् ; तत्सद्भावे निश्चयाभावात् निमित्तानुबन्धिनो नैमित्तिकस्य शिष्टाटचारप्राप्तत्वेनावश्यकत्वाञ्च ।

किंचिदारभमाणस्य बुद्धिस्थं पूरणादिकम् ।

त्यक्त्वान्यफलक्लृप्तिस्तु नीतिमद्भ्यो न रोचते ।। 21 ।।

भक्तिराशास्यमानापि पूरणप्रचयाचिह ।

नोपरुध्य प्रवर्ते#ेत सा च तौ च तदाशिषा ।। 22 ।।

भक्तिर्हि मङ्गलतमा दद्बोधादेश्च कारणम् ।

तस्मात्सर्वप्रधानत्वाद्भक्तेराशासनं वरम् ।। 13 ।।

अथवा भक्तिभेदत्वान्नमस्कारार्चनादिकम् ।

सर्वमेव हि मङ्गल्यमाशास्यमिह मन्महे ।। 14 ।।

स्यादेतत् । अस्तु तावन्मङ्गलाचारः ; मङ्गलनिबन्धस्तु तत्तद्भाष्येष्वदर्शनादयुक्त इति चेन्न, उपयोगात् अनिषेधात् ।

शिष्याणां शिक्षणं तावत्तेषां स्वकृतकीर्तनात् ।

महिष्ठमङ्गलावाप्तिस्तत्फलं प्रागुदीरितम् ।। 15 ।।

द्रमिडभाष्यादिषु नमः प्रवरगुणैकास्पदाय स्थिरत्रसकुलबीजकुम्भभूताय भुवनकोशस्य गोप्त्रे ब्रह्रणे, नमो जैमिनये वेदरहस्यसंपुटनिगूढविष्फारयित्रे न्यायप्रज्वलितचेतसे,

नमोऽस्त्वाचार्येभ्यः इत्यादिभ्यस्तद्दृष्टेश्चावश्यकर्तव्य एवायमाचारः । ईश्वरापह्नेतॄणामाचारो नास्थेय इति प्रागेवोक्तम् । स्मृत्याचारविरोधे तु स्मृतिरेव बलीयसी इति न्यायाञ्च सिद्धमेतत् । स्मर्यते च तत्र मङ्गलाचारः -

मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् ।

जपतां जुह्नतां चैव विनिपातो न विद्यते ।। इत्यादिभिः ।।

करणत्रयसारूप्यात्कथ्यते मङ्गलक्रिया ।

तस्माद्ग्रन्थनिवेशोऽपि मङ्गलस्य प्रमाणवान् ।। 26 ।।

पूर्वे पुलस्त्यमुख्याश्च क्रियासमभिहारतः ।

कार्यरम्भेषु सर्वेषु मङ्गलाशासनं विदुः ।। 27 ।।

मङ्गलाचारः पुराणासम्भे दृष्टश्च प्रणिपत्याभिवाद्य च इति गुरुप्रणिपातादिरूपः । अत एव युष्मदस्मत् इत्यादौ कुग्रन्थत्वमाशङ्क्य प्रत्यक्तत्त्वानुसंधानेन मङ्गलत्वमाचख्युर्व्याख्यातारः । तञ्च मन्दम्, युष्मदर्थानुसंधानस्यैव तत्रापि प्रथम्यात्, मध्यलघुत्वेन वह्निदेवत्यस्य रगणस्य निवेशाञ्च ।

शन्नोमित्रादयो मन्त्राः शतं ते सूरिभिः स्मृताः ।

कर्मानुष्ठानकालेषु पठितव्या मनीषिभिः ।। 28 ।।

एवमिह पद्यनिबन्धनचोद्यमपष्ठु । दृष्टं च केषुचित् प्रणम्य हेतुमीश्वरम् इत्यादि ।

अकारोपक्रमश्चास्मिन्मङ्गलत्वाभिसंधितः ।

निःशेषत्वं तु सुगमं निखिलेत्यपि भाषिते ।। 29 ।।

अन्यार्थोऽप्यत्र वर्णोऽयं विष्णुनामस्वभावतः ।

यदृच्छाशङ्खशब्दादिन्यायाद्भवति मङ्गलम् ।। 30 ।।

आदौ च पाणिनीयादेस्तथान्यैनुवर्णितः ।

सूत्रे चाथादिरन्यार्थस्तदर्थोऽप्यन्वमन्यत ।। 31 ।।

नञोऽप्यत्र शुभत्वं स्याद्वैकल्यप्रतिषेधतः ।

निषेध्यभेदतो ह्यस्य शुभाशुभविकल्पना ।। 32 ।।

अपहन्तव्यदुःखोक्तिमप्यारम्भे शुफां विदुः ।

अपौष्कल्यनिषेधेऽस्मिन्नतः कैमुत्यमक्षतम् ।। 33 ।।

आदावखिलशब्देऽस्मिन्नगणत्वनिवेशनम् ।

आयुःपूर्तिनिदानत्वादविघ्नायैव कल्पते ।। 34 ।।

सर्वस्यापि गमस्यात्र नगणो हि विशिष्यते ।

तत्रादिमचतुष्पद्यामष्टार्थानपरान् विदुः ।। 35 ।।

विशिष्टमङ्गलाचारप्रक्रियानान्तरीयकान् ।

व्याख्यानमाद्यसूत्रस्य ब्रह्मलक्षणसंग्रहः ।। 36 ।।

चतुरध्याय्यनुक्रान्तिर्ध्येयसंशोधनं द्विधा ।

परपक्षप्रतिक्षेपः परारम्भनिवारणम् ।। 37 ।।

स्वेष्टारम्भविरुद्धानां निःशेषोद्धार इत्यपि ।

प्रकृतानुगुणानेकविवक्षा ह्याश्रिता बुधैः ।। 38 ।।

प्राहुः किल वार्त्तिककाराः लोके इत्यादिभाष्यार्थविवरणे -

लोक इत्यादिभाष्यस्य षडर्थान् संप्रचक्षते ।

सर्वव्याख्यामुपालम्भं प्रत्याख्यानं तथा परे ।।

परिसंख्यास्तुती केचिदथशब्दस्य दूषणम् । इति ।

लोके येष्वर्थेषु प्रसिद्धानि पदानि तानि सति संभवे तदर्थान्येव सूत्रेष्ववगन्तव्यानि ; नाध्याहारादिभिरेषां परिकल्पनीयोऽर्थः परिभाषितव्यो वा इति भाष्यम् । आपादचूडं सम्यग्व्यानप्रक्रियायाः संग्रहेणोपवर्णनात् सर्वव्याख्या ; भवदासादिव्याख्यायामुक्तप्रकारवैपरीत्यख्यापनादुपालम्भः । सूत्रस्य स्वरसार्थप्रतिपादनस्वाभाव्येन व्याख्यानानपेक्षत्वकथनेन सूत्रं न व्याख्यायते, सूत्रैः श्रुतिरेव व्याख्यायति इति सूत्रव्याख्यानप्रतिक्षेपात्प्रत्याख्यानम् । श्रुतिसूत्रविसंवादे सूत्रस्य स्वारसिकार्थप्रहाणेनाध्याहारादिभिः कथंचिन्नेयत्वेन यथा श्रुतपरिग्रहस्यापास्तत्वात्परिसंख्या । जैमिनिसूत्राणां स्वरसार्थप्रतिपादकत्वस्वाभाव्येनोपवर्णनात्सूत्रकारस्तुतिः । अतशब्दस्य प्रसिद्धार्थप्रतिपादकत्वावश्यंभावित्वेऽपि वृत्तादर्शनादिभिरानन्तर्यार्थत्वं न विद्यत इति पूर्वपक्षिणाक्षिप्यत इत्यथशब्ददूषणम् । इति भाष्यार्थविभागः ।

एकस्मिन्नेव भाष्ये तैः षडर्था यद्वदीरिताः ।

तद्वदेव दशाप्यर्थानत्राप्याचक्ष्महे वयम् ।। 39 ।।

सर्वव्याख्यादिकं तावदर्थषट्कं निदर्शनम् ।

तथा पक्षिलभाष्यादौ तत्तदर्थाः प्रदर्शिताः ।। 40 ।।

संजिघृक्षितनानार्थैः सूत्रकारादिभिस्तथा ।

तन्त्रावृत्त्यनुनिष्पाद्याः कल्पितास्तद्वदेव नः ।। 41 ।।

दृश्यते हि दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् इत्येकस्मिन्नेव सूत्रे प्रत्यभिज्ञाप्रामाण्यमात्मनित्यत्वमिन्द्रियनानात्वं विषयस्थैर्यं गुणगुणिभेद इत्याद्यर्थजातम् ।

तदिह सूत्रार्थोक्तौ ब्रह्मशब्देन व्याख्येयसंग्रहः । तन्निरुक्ती पादाभ्यां दर्शिते।श्रीनिसत्वं तदुपपादकं लिङ्गम् । अथेत्युक्तमानन्तर्यं श्रुतिशिरसीति व्याख्येयक्रमान्मुख्यक्रमतः स्थाप्यते । अतःशब्दोक्तो विशिष्टारम्भहेतुर्विदीप्त इत्यनेनोद्गृहीतः । ममेत्यर्थसिद्धजिज्ञासाधिकार्युदाहृतिः । शिष्टेन सर्वोत्कृष्टवस्तुगोचरतया स्वयं च स्वादुतया आशीर्विषयोपायविशेषेक्त्या तद्विषयब्रह्मविचारस्य सन्प्रत्ययसूचितरागप्राप्त्युत्तम्भनादर्धादनारभ्यत्वभ्रमापोहः ।

सूत्रार्थयोर्द्वयोरार्थः फलतः प्रतिपादितः ।

अत्र शाब्दस्तु सूत्रार्थस्तस्मान्न पुनरुक्तता ।। 42 ।।

द्वितीयसूत्रभावस्थकृत्स्नलक्षणसंग्रहे ।

ब्रह्मेति लक्ष्यं शिष्टैस्तु तल्लक्षमसमाहृतिः ।। 43 ।।

नोद्देशमात्रात्प्रमितिः परीक्षा लक्षणाश्रया ।

प्रधान्याल्लक्षणस्यात्र प्रतिपत्तिर्हि युज्यते ।। 44 ।।

अत्र हि सर्वकार्यस्रष्टृत्वादीनि मुमुक्षूपास्यत्वमोक्षप्रदत्वत्रय्यन्तप्रधानवेद्यत्वश्रीनिवाससत्वपरमप्राप्यत्वानि च गृह्यन्ते, यैर्योगायोगाभ्यामपवर्गपरिपन्थ्यभक्त्युन्मूलनपारावर्यविवेकः ।

असाधारणधर्मो हि लक्षणत्वेन लक्ष्यते ।

बहुत्वं तस्य धर्मस्य बुद्धेरुन्मेषकारणम् ।। 45 ।।

न लक्षणानां भिन्नत्वे लक्ष्यभेदः प्रसज्यते ।

विरुद्धलक्षणानां हि भेदकत्वं विदुर्बुधाः ।। 46 ।।

चतुरध्याय्यर्थसंग्रहस्तु - परस्मिन् ब्रह्मणि इति काण्डान्तरवेद्यव्यावृत्तप्रधानार्थोक्तिः । पादाभ्यां सिद्धविषयरूपः साध्यविषयरूपश्च द्विकद्वयार्थः संगृह्यते । श्रुतिशिरसि विदीप्ते इत्यनेन प्रमाणविशेषायोगतदन्ययोगव्यवच्छेदेनोपोद्धातरूपचतुःसूत्र्यर्थोद्ग्रहः, श्रुतिशिरस्येव विदीप्त इति सावधारणनिर्देशस्य विवक्षितत्वात् ।

अयोगः श्रुतिभिर्योगोऽप्यन्यमानेन वार्यते ।

सूत्रैश्चतुर्भिः किं नोऽत्र वक्तव्यमवधारणम् ।। 47 ।।

एकदेशिनस्तु आद्यसूत्रार्थोक्तिरिति व्याचख्युः ।

ननु कथमन्यप्रमाणव्यवच्छेदः ? स्मृत्यादिभिरपि तत्सिद्धेः ; मैवम् - तेषां तन्मूलतयैव प्रामाण्यस्य न्यायसिद्धत्वात् । एतेन स्मृतिविरोधात् श्रुतिबाधशङ्का निरस्ता । श्रुतेः स्मृतिद्वारत्वमपि साधनवद्बाधनेऽपि समानम् । तत्र श्रुतिमूलत्वे वा स्मृतिरेव शरणम् । तदुक्तम् - विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम् ; वक्ष्यति च स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्न, अन्यस्मृत्यनवकाशदोषप्रसङ्गात् इति । श्रीनिवासभक्तिरूपपदाभ्यां प्राप्यप्रापकयाथार्थ्यनिष्कर्षः । परत्वं चोक्तप्रकारेण चदुर्धा चतुर्लक्षणीवेद्यम् । मम इत्युपायाधिकार्युदाहृतिरिति ।

अत्र भुवनमात्रोक्तौ सकलेति विशेषणोपादानेऽपि वा प्रायिकत्वं शङ्क्येत । अतोऽत्र अखिलेति निःशेषत्वोक्तेश्चतुर्मुखादिभ्यो व्यावृत्तिरिति ।

व्यतिरेकमुखेणोक्तावर्थदार्ढ्यं प्रतीयते ।

तस्मादिष्टर्थसिद्धिः स्यादनिष्टविनिवारणम् ।। 48 ।।

न हि चतुर्मुखादीनामखिलकारणत्वम् । न हि ते स्वेषां स्वपूर्वोत्तरेषामण्डान्तरस्थानां शुद्धसृष्ट्यादेर्वा हेतवः ; व्यष्टिसृष्ट्यादौ च नियताधिकाराः परप्रयोज्याश्च । कार्यसमुदायविशेषरूढोऽप्यत्र भुवनशब्द उपलक्षमात् भवतीति वा कार्यमात्रपरः, प्रकरणानुक्रान्तयोगस्य रूढितो बलीयस्त्वात् । जन्मादिषु बहुब्रीहिः तद्गुणसंविज्ञानः, सर्वोदीनि सर्वनामानि इतिवत् ।

द्रव्यस्य नित्यसिद्धस्य यथादृष्ट्यवधारणे ।

जन्मस्थित्याद्यवस्थाः स्युः सामग्रीभेदशक्तितः ।। 49 ।।

आकाशत्वादिधर्माणामागन्तुत्वविवक्षया ।

तत्तद्द्रव्यस्य नित्यत्वे.प्युत्पत्त्यादिरपि श्रुतः ।। 50 ।।

यथा पाकेन रूपाद्याः परेषां नित्यवस्तुषु ।

तथा नस्रिगुणद्रव्ये परसंकल्पतो दशाः ।। 51 ।।

जन्माद्यवस्थाश्च नित्यनैमित्तिकादिभेदात् बहुधोक्ताः । प्रगसिद्धस्यात्मलाभ उत्पत्तिः जन्म । उत्पत्तिलब्धाकृतेरर्थस्याप्रणाशसामग्र्याः स्थितिः स्थेमा । ननु कथं स्थेमशब्दः ? कथं च स्थित्यर्थः ? न ह्यसौ स्थानादिवत्तिष्ठतेर्निष्पन्नः ; न च पृथ्वादिभ्य इमनिज्वा इत्यस्य विषयः । यद्यपि प्रियस्थिर इत्यादिना स्थिरशब्दस्य स्थादेशः, तत्र च तुरिष्ठेमेयस्सु इति प्रत्ययत्रयं प्रकृतम् ; तथाप्यत्र प्रियोरुगुरुबहुलदीर्घाणामेवादेशेष्विमनिच्

भवति, नान्येषाम्, पृथ्वादिष्वपाठात् . न चासौ आकृतिगणः । अतः कथमयं प्रयोगः ? अत्र ब्रूमः -

प्रयोगतः स्थितिः स्थेमा प्रत्ययाद्यूहशासनात् ।

अखण्डितो वा शब्दोऽयमधातूद्भवपक्षतः ।। 52 ।।

अस्ति हि न्यायतात्पर्यटीकायां तत्प्रयोगः -
स्थेमा च भावानामुपपादयिष्यते इत्यादि । तात्पर्यपरिशुद्धौ च संशयपरीक्षायां बौद्धादेर्निश्रितक्षणिकत्वादेरपि झटिति विघटितसाधनस्य प्रतिवादिसाधनात् परितो निरस्तविभ्रमाशङ्कात् संशयं विनैव स्थेमादिनिर्णचोत्पत्तः इति । निस्स्थेमानो दशाननकीर्तयः इत्यादयश्च महाकविप्रयोगाः । तदत्र प्रसिद्धबहुविद्वत्प्रयोगभूयस्तया साधुत्वं सिद्धम् । शक्या च व्युत्पत्तिः ; यथाक्तम् -

नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम् ।

यन्न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् ।।

मा भूद्वा प्रकृत्यादिविभागः, मतभेदेन अखण्डितप्रातिपदिकभाषणात् । नाम च इत्यादिना तत्सूच्यते ।

ईदृशानां प्रयोगाणामबहिष्कारसिद्धये ।

बहुधा बहुलादीनामष्टाध्याय्यामुपक्रमः ।। 53 ।।

नानाव्याकरणाभिज्ञबहुविद्वत्परिग्रहे ।

शब्दासाधुत्वमाहुर्ये शाब्दिकांस्तान्न मन्महे ।। 54 ।।

विशिष्टोक्त्यनुसारेण व्युत्पत्तिः स्मर्यते बुधैः ।

अविगीतप्रयोगेषु विगानं नैव सांप्रतम् ।। 55 ।।

भङ्गशब्दो नात्यन्तिकलयग्राही, रक्षाशब्देन तदुक्तेः, प्रयोजनस्यापि विष्यवत्पृथग्वक्तव्यत्वाञ्च । अतः

जगज्जन्मस्थितिध्वंसमहानन्दैकहेतवे इत्यादिष्विव ब्राह्मणपरिव्राण्नीत्यात्र पृथगुक्तिः । विनतेत्यादौ इन्द्रादिशरीरकतया वन्धरूपकाम्यफलप्रदत्वमात्रं वदतामपि स्थेमशब्दे च संकोचः स्यादेव । अत एव अत्रादिशब्दसमानाधिकरणजन्माद्यन्यपदार्थविशेषतयापि न मोक्षसंग्रह उचित इत्याहुराचार्याः, विशेषस्फौट्याभावात् । अत्रैव पुराणार्थोक्तौ जगदुत्पत्तिस्थितिसंहारान्तःप्रवेशनियमनीदिलीलम् इति स्वोक्ते सति परोक्तस्य विप्रकृष्टस्वोक्तस्य स्वप्रबन्धान्तरोक्तस्य वानुरोधायोगात् जन्मादित्रयोपयुक्ततमतत्सहार्मातानुप्रवेशादीनामपि तैः संग्रहणोचित्यात् तेषामार्थत्वादति शाब्दत्वस्य परत्वाञ्च । अस्वाधीनसह

कारिनैरपेक्ष्यं चोनेन भगवतः सिध्यति ।

स्वकार्यस्थस्य जन्मादेः स्वलीलात्वोक्तिसक्तितः ।

स्यामित्याद्युक्तरीत्यैवोपादानत्वं च सूचितम् ।। 56 ।।

नृत्यन्तं पश्यतां नृत्तं न लीला किंतु दद्दृशिः ।

देहद्वारात्र तन्निष्ठं लीला जन्मादिकं भवेत् ।। 57 ।।

अवस्थान्तरयोगित्वमुपादानत्वमूचिरे ।

आगन्तुकापृथक्सिद्धधर्मोऽवस्थेति कीर्त्यते ।। 58 ।।

अचिज्जीवस्वधीद्वारा स्वरूपेण च सर्वगे ।

अवस्थाः सन्त्यदोषास्ते निर्विकारोक्तिरन्यतः ।। 59 ।।

एतदर्थं चात्रान्तःप्रवेशाद्युक्तिः । ततोऽन्यस्य तच्छरीरत्वन्यक्तेः प्रधानाधिक्षेत्रज्ञशरीरकः स एव जन्मादिलील इत्युक्तं भवति ।

सर्गादिकं ततोऽस्यैव भूतस्थमुपकारकम् ।

इति चैतदभिप्रायमाहुस्रय्यन्तपारगाः ।। 60 ।।

न चात्र विवक्षितनिष्कर्षभुवनशब्दवृत्तिविरोधः, स्वतन्त्रभूतचेष्टालीलः इत्यादिवदुपपत्तेः । भुवनानि विष्णुः इत्यादिवदनिष्कर्षेण विशेष्यपर्यन्तत्वेऽप्यविरोधः । तथा च विवरणम् - भुवनशब्दः सजीवात्मकाचिदभिप्रायः, कारणवाक्येषु तथैव कारणत्वप्रतीतेः । ब्रह्म तु पृथङ् निर्दिश्यते । यद्वा विशिष्टं ब्रह्मशब्दार्थस्तत एव इति । ये चान्येऽप्यर्थाः तात्पर्यतूलिकोक्ताः - कार्यत्वाज्जन्मादिषु लीलाशब्दोपचारः । जन्मादिकार्यत्वाज्जन्मादिभूता लीला यस्येति वा, भुवनजन्मादिषु लीला यस्येति व्यधिकरणबहुव्रीहिर्वा । जन्मस्थेमङ्गानामादिभूता लीला यस्येति तत्पुरुषगर्भबहुव्रीहिर्वा इति, ते तु प्रधानार्थे प्रोक्तेऽप्यविरुद्धतया वैभवादुक्ताः ।

एवं जन्मादिशब्देन तद्धेतुरुलक्ष्यते ।

यद्वा जन्मादिका लीला यस्येत्यर्थद्वयं मतम् ।। 31 ।।

किंचिदिष्टमनुद्दिश्य न प्रवर्तेत चेतनः ।

तञ्चाप्तार्थस्य नेत्येतल्लीलोक्त्यात्र निवार्यते ।। 32 ।।

यद्यदिष्टं तदा तस्य सिद्धिरस्याप्तकामता ।

नातः क्षेप्यो यथालोकं साध्यलीलान्वितः श्रुतः : ।। 33 ।।

यत्पूर्णमद इत्यादि तदप्युक्तं न बाधते ।

प्रत्युतानुगुणं तस्य स्वतोऽन्येन च पूरितितः ।। 34 ।।

अस्यापि प्रयोजनान्तरनिरपेक्षस्वच्छन्दव्यापारव्यक्त्यै बालः क्रीडनकैरिव इति दृष्टान्तः । तदभिप्रायं सूत्रम् - लोकवत्तु लीला इत्यादि । हेतुत्वोक्त्यापि समन्वयलक्षणार्थः सिध्येत् । लीलाशब्दस्तु स्थालीपुलाकन्यायादविरोधलक्षणार्थोपलक्षणः । अनेन स्वबुद्धिपूर्वकस्वप्रीत्यर्थव्यापारवाचिना कर्तृत्वं चोपादानत्वाविरुद्धं व्यञ्जितम् । सूक्ष्मप्रकृतिविशिष्टतयोपादानं संकल्पतः कर्ता च स्यात् . एवं सहकारिकलापान्तर्यामितया सहकारित्वमपीति निर्वाह्यम् । विकाराश्रयत्वव्यतिरिक्ताकारेण कार्योपयुक्तं हि निमित्तम् ; न तूपादानादन्यदेव । उभयाभिप्रायेण हि कारणवाक्येष्वेकाद्वितीयशब्दौ । सोऽभिध्याय इत्यादिभिश्चैतदुपबृंहितम् । विनदादि व्रातान्तं साधनलक्षणार्थपरम् । ततोऽत्र नतिर्मानसी यथाविधि प्रह्वता गुणोपसंहारपादोक्ततत्तद्विद्यारूपा । विशब्दस्तु नानार्थः । तद्वन्तो विनताः । पूर्वपादद्वयसिद्धवैराग्यादिवैशिष्ट्यपरो वा विशब्दः । विनतानां वैविध्यं विद्याङ्गपादोक्ताश्रमादिभेदात् । तदुपर्यपि

इत्याद्युक्तदेवादिभेदोऽप्यत्र द्रष्टव्यः । भूतशब्दस्तापत्रहतेः तन्निवृत्त्युपायपाटवस्य च हेतुना देहविशेषेण योगमभिप्रयन्नर्थित्वादिकं व्यनक्ति । धात्वंशश्च सन्तमेनं ततो विदुः इत्याद्युक्तां शुद्धधीवैशिष्ट्यरूपां सत्तामाचष्टे ; अत्र ब्रह्म समश्नुते इत्यधीतां ब्रह्मनिर्वेशात्मिकां वा । भूतसंबन्धी व्रातोऽत्र तानि तदीयानि च, षष्ठ्या संबन्धसामान्योक्ते; ; अन्यथा व्रातशब्दनैरपेक्ष्यात् ; न ह्यत्र सत्रवत्संहतानामेव प्रवृत्तिः फलावाप्तिर्वा । साकेतनिवासिवत्फललाभस्तु न सार्वत्रिकः । तदत्र नास्यावरपुरुषाः क्षीयन्ते नास्याब्रह्मवित्कुले भवति पशुर्मनुष्यः पक्षी वा इत्यादि विरव्याप्यम् । राजपरिषदित्यादौ हि राजा चान्ये च विवक्ष्यन्ते । विविधशब्देन पशुपुत्रान्नाद्यस्वर्गस्वाराज्यादितत्तत्फलकामकर्तृवैविध्यं, व्रातोक्त्या तत्तदुपायनिष्ठव्यक्तिभूयस्त्वं विवक्षितमिति केचिते । अयं च वैभववाद इत्यनुमन्यामहे । आहुश्च -

सर्वव्याख्याविकल्पानां द्वयमिष्टं प्रयोजनम् ।

पूर्वत्रापरितोषो वा विषयव्याप्तिरेव वा ।। इति ।

फलाध्यायक्रमेणात्र परप्राप्तिविरोधिनाम् ।

शमनं निग्रहादीनां रक्षाशब्देन गृह्यते ।। 65 ।।

प्रत्यूहात्यन्तभङ्गे तु स्वतः प्राप्तं सुखादिकम् ।

यावत्स्वरूपं तत्प्राप्तं तत्संसिद्धिरिहार्थतः ।। 66 ।।

यद्वाभीष्टार्थदानं च रक्षेति परिगृह्यते ।

तदलाभनिमित्ताद्धि विषादात्त्त्रायते यतः ।। 67 ।।

प्रयासानतिरेकेण फलाधिकृतिनीतितः ।

चतुर्विधानां भक्तानां रक्षोक्तिश्च न दुष्यति ।। 68 ।।

आनन्दयितृत्वश्रुतिसूत्रे चात्र भाव्ये । एकशब्द इह प्रधानार्थः ; अप्यहं जीवितं जह्याम् इत्यादिषु तद्विरोधे तद्विपरीताभीष्टतमकृत्स्नत्यागोक्तेः । अनन्येषु प्रमाद्यत्स्वपि निरयादिप्रापकनिग्रहनिवृत्त्यर्थो वा, तेषां यमविषयगमनिदिषेधात् ; दृश्यते हि - न खलु भागवता यमविषयं गच्छन्ति इति ; इहैवैषां केचिदुपप्लवा भवन्ति इति शिक्षामात्राम्नानाञ्च । दीक्षा दृढसंकल्पः ; न त्यजेतम् एतद्व्रतं मम इत्याद्युक्तेः । दीक्षोक्त्या स्वार्थत्वं सूचितम् ; राजार्थं खलु रथतुरगगजादिसंरक्षणम् । रक्षायामेका दीक्षा यस्येति व्यधिकरणबहुर्वीहिः ; रक्षायां वा दीक्षाकार्यत्वात्तदुपचारः ; रक्षायामेकदीक्ष इति वा योज्यम् ।

दृष्टमन्यपराधे हि दण्डनं खण्डनादिकम् ।

राजपुत्रापरधे हि दण्डनं लघु दृश्यते ।। 69 ।।

फलसाधनतया चोदितस्याप्यार्थं फलप्रदप्राधायिनाम् ।

राजानः फलदा राजपरिचर्याविधायिनाम् ।

फलप्रदस्य प्राधान्यं फलात्तदवगम्यते ।। 70 ।।

विनतरक्षोक्त्या तत्सहगीतदुष्कृन्निग्रहव्यञ्जनान्निवर्त्यो बन्धहेतुः कर्मादिः रव्यापितः ; अत एव वैषम्यनैर्घृण्यपरिहारश्च । श्रुतिशब्दो निरपेक्षसंप्रतिपत्तिन्यायान्नित्यं श्रूयमाणे वेदे रूढः ; सिद्धे शब्दार्थसंबन्धे इत्यादौ चैवं प्राहुरित्युक्तम् । तेन वक्तृदोषाभावसिद्धिः । साधितं च सर्वाद्यपादे वेदानां प्रामाण्यं कारणदोषबाधकप्रत्यययोरभावेन ; कर्तृश्च तेषामनुमातुमशक्यत्वात्, कल्पादिष्वपि यथापूर्वं प्रादुष्करणात्। काठकादिसमाख्यानां कर्तृविशेषोपस्थापकत्वाभावाञ्च । शिरः ब्रह्मप्रधानतयोत्तमो भागः । दीप्तिः स्फूर्तिः ; सा पुनराद्याधिकरणोक्तसिद्धार्थव्युत्पत्तेः । विशब्दोक्तं वैसिष्ट्यं त्वन्यदेवतोक्तिराहित्यम् । तदेवाग्निः इत्यादिनाग्न्यादिशब्दानां शरीरिणि पर्यवसानम्, जन्मादिसमन्वयसूत्रोक्तकारणत्वस्वतःपुरुषार्थत्वाभ्यां व्यावृत्तिश्चात्र विवक्ष्यते । मानविशेषोक्त्या शेषनिषेधन्यायेन तृतीयसूत्रार्थः

सिध्यति । एवमिह न्यायसुदर्शनं संग्रहः -

व्युत्पत्त्यभावः प्रतिपत्तिदौस्थ्यमन्येन सिद्धत्वमथाफलत्वम् ।

एतानि वै सूत्रचतुष्टयेनानारम्भमूलानि निराकृतानि ।। इति ।

न्यायसंग्रहे च तथैव सेनश्वराचार्याः -

व्युत्पत्त्यभावात्प्रतिपत्तिदौस्थ्यादन्येन सिद्धेरफलत्वतश्च ।

अमात्वमाशङ्क्य निराचकार न्यायैश्चतुर्भिः प्रतिपाद्य तत्तत् ।। इति ।

एतेन को धर्मः इत्यादिवत् किं ब्रह्म इत्यादिविचारपर्यन्तफलरूपप्रमितिवैशिष्ट्यमुक्तम् ।

ननु यदि ब्रह्मशब्दोऽत्र समान्यवाची तदा श्रीनिवासशब्देन विशेष्येत । नैवमसौ, तस्मादन्यत्र औपचारिकः इत्यत्रैव स्थापनात् ; जन्मादिसूत्रे निरतिशयबृहद्बृंहणं च ब्रह्म इति निर्वचनोक्तेः ;कारणत्वाधिकरणे च - ब्रह्मशब्दस्य परमात्मासाधारणत्वेऽपि प्रत्यगात्मन्यपि कदाचिदुपचरितप्रयोगदर्शनात् इत्यादि ; वियदधिकरणे च सूत्रम् - स्याञ्चैकस्य ब्रह्मशब्दवत् इति ; तत्र च भाष्यम् - यथा ब्रह्मशब्दः तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते इत्यत्र प्रधाने गौणतया प्रयुक्तस्तस्मिन्नेव प्रकरणे तपसा चीयते ब्रह्म ततोऽन्नमभिजायते इत्यत्र चैवं भाष्यम् - ब्रह्मशब्दस्य परस्मिन्नेव ब्रह्मणि मुख्यत्वात् इति . नापि परशब्दवदौपचारिकप्रयोगव्यवच्छेदार्थोऽत्र विशेषकः श्रीनिवासशब्दः, परस्मिन्नित्यनेनैव पर्याप्तेः . नाप्येकत्र रूढत्वेऽप्यप्रसिद्धतया पर्यायेण बोधनम्, तदयोगात् ; न ह्यत्र कोकिलः पिकः इतिवदन्वयः, असामर्थ्यात् वाक्यभेदाञ्च ; न च तद्युक्तम्, संभवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यते इति न्यायात् । श्रीनिवास इति नाम, अन्यस्तु त्यक्तरूढिर्योगतो विशेषक इति चायुक्तम् ; अ#िलेत्यादिना गतार्थत्वात् । अथ च सामान्यवाची ब्रह्मशब्दः क्वचिद्भाति - समन्वयसूत्रे तावत्सद्ब्रह्मादिशब्दानामुत्तरोत्तरविशेषकत्वाभिप्रायेण समभिव्याहारः । आकाशाधिकरणेऽपि - सदादिशब्दाः साधारणाकाराः इत्युक्तम् । आरम्भणाधिकरणेऽपि - सद्ब्रह्मादिशब्दास्तुल्यप्रकरणस्थास्तत्तुल्यप्रकरणस्तेन नारायणशब्देन विशेषितास्तमेव गमयन्ति इति । पाशुपताधिकरणेऽपि - सृष्टिवाक्योदितं स्रष्टारं नारायणमेव समानप्रकरणस्थाः सदेव सोम्येदमग्र आसीत् इत्यादिसद्ब्रह्मादिशब्दाः प्रतिपादयन्ति इति । अतः कथमेतत् ? इत्थम् - प्रत्ययितग्रन्थस्थे परस्परविरोधे तात्पर्यतस्तावद्विरोधो निवार्यः । या ब्रह्मशब्दस्य परमात्मन्येव रूढिरादावेव स्थापिता सैव सर्वत्रेष्टा । साधार

ण्यानूक्तिस्तु बहुश्रुत्यादिप्रयोगदृष्ट्या कुदृष्टिवादिविप्रतिपत्त्या चात्मादिशब्दवज्जातिशब्दत्वं योगमात्रनेकरूढिं वा पश्यतामाभिमानिकं साधारण्यमन्वारुह्य तदिष्टान्यार्थत्वशङ्कानिरासाय स्यात् । तथाच - ब्रह्मणि इति सामान्यशब्दः श्रिनिवासे इति विशेषशब्दः इति व्याख्यानेष्वप्येवं गतिः । तथात्र साधारण्यान्वारोहेण श्रीनिवास इति विशेषनिष्कर्षः स्यात् । यद्वा - ब्रह्मशब्दस्यैकरूढिमनुरुध्यैव तदेव श्रीनिवासशब्देन विशेष्यते ; या सर्वैराश्रीयते सा च तदाश्रयेति । अत एवात्र छागपशुन्यायोऽभिप्रेतः । अन्यथा चतुर्मुखादित्वमप्याशङ्क्येत । अत एव ह्नीश्च ते लक्ष्मीश्च पत्न्यौ इति परतत्त्वासाधारणपुरुषशब्दार्थोऽपि श्रियः पतित्वेन विशेष्यते । तेन कारणत्वादिभिरिव परस्मिन् ब्रह्मशब्दरूढिः स्थापिता स्यात् । प्रसिद्धतमनामान्तरवाच्यत्वलक्षान्वयः श्रीनिवा सशब्दार्थे ब्रह्मणि इति । श्रीनिवासस्य वा परत्वसिद्ध्यै प्रकृताकारबृहत्त्वनिमित्तब्रह्मशब्दवाच्यत्वं विशेषणीकार्यमिति । सत्यत्वादिस्वरूपनिरूपकधर्मपञ्चकनिरूपितमपि परं ब्रह्म श्रीनिवासत्वेन विशेषितमेव ब्रह्मविद्यावेद्यमित्युक्तं भवति । श्रीसंश्रयणं नित्यं स्वरूपवन्मूर्त्याऽपि श्रीवत्सवक्षा नित्यश्रीः इत्यभिधानात् । अत्र शान्तानन्त इत्यादिकमनुसंधेयम् । एतेन पर्यङ्गविद्यादिप्रसिद्धविभूत्यन्तरवत्त्वं च भवत्वित्याशिषा प्राप्यान्तरेभ्यः स्वादुतमोऽयमुपाय इति व्यज्यते । तथोक्तम् -

क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् ।

क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ।। इति ।

मम ; सोऽहं भगवः शोचामि इत्याद्युक्तावस्थस्येति भावः । परस्मिन् ; सर्वनियन्तृत्वनिरुपाधिकानन्दयितृत्वाभ्यां सा काष्ठा सा परा गतिः इत्याम्नातवशी कार्यत्वप्राप्यत्वकाष्ठाभूते । प्राप्यत्वोक्त्या रसूँह्येवायम् इत्यादिसिद्धमुक्तावस्थाशोधनं च । सृष्ट्याद्युपयुक्तसार्वज्ञ्यादिकृत्स्नोत्कर्षपरमसीमत्वं वा परत्वम् । एवं परत्वसौलभ्याभ्यामभिगम्यं सिद्धप्राप्यादिरूपं भजनीयं विशोधितम् ।

परत्वं मुलभत्वेन रहितं नोपकारकम् ।

सुलभत्वं तथा तेन रहितं नोपकारकम् ।। 71 ।।

साध्योपायशोधने तु,

भक्तेः पूजादिमात्रत्वं धियश्चिन्तादिरूपताम् ।

व्यवच्छेत्तुमिह न्यस्तं शेमुष्यादि पदद्वयम् ।। 72 ।।

वेदनादिशब्दानां पश्वादिनीत्या वक्ष्यमाणाया विशेषविश्रान्तेः संग्रहोऽयम् - शैमु

षीतिः ; शमाद्यङ्गिकां बुदिं्ध दर्शयति । महनीयविषयप्रीतिर्भक्तिः । प्रीतिश्च धीविशेषः यादृश्या धिया सा साध्या परेष्टा,

तादृश्या एव तत्त्वं युक्तम् ; तदुक्तं भक्तिमेवाधिकृत्य वेदार्थसंग्रहे - येन च विषयविशेषेण विशेषितं ज्ञानं सुखस्य जनकमित्यभिमतं तद्विषयं ज्ञानमेव सुखम् ; तदतिरेकि पदार्थान्तरं नोपलभ्यते ; तेनैव सुखित्वव्यवहारोपपत्तेश्च इति । स्नेहपूर्वमनुध्यानं भक्तिरित्यभिधीयते इति च ।

आपादचूडं शास्त्रार्थ इत्थमत्रानुवर्णितः ।

प्रसिद्धिरवधित्साया यथास्थानं भविष्यति ।। 73 ।।

एवं शास्त्रार्थोऽनुक्रान्तः । विशेषतश्वोभयलिङ्गपादगत्या ध्येयं शोध्यते - पूर्वद्विकसिद्धेऽपि ब्रह्मतत्त्वे पुनस्तत्प्रभावविशेषस्थापनातिशयात्पादो विद्यानानात्वोक्तेश्च ; तदिहाखिलेत्यादिना स्वाप्नप्रपञ्चादेरपि जन्मादिहेतुत्वेन परत्वादिशयोक्त्या संध्याद्यधिकरणचतुष्टयाभिप्रेतं क्षेत्रिणां स्वप्नसुषुप्त्यादेः कारणं परस्याकुण्ठितविचित्रशक्तित्वं व्यञ्जितम् । विदीप्ते श्रीनिवासे इति पदाभ्यां मिथोऽनुपमर्दिव्यावृत्तिविधिरूपविशेषणवर्गोपलक्षणात् न स्थानतोऽपि परस्य इत्युक्तपरशब्दौपादानाञ्चोभयलिङ्गधिक्रियार्थं उदाहृतः । चिदचिदनुप्रवेसादिसंग्रहात् लीलशब्दसामर्थ्याञ्चांशतोऽपि स्वस्य स्वयमेवाज्ञत्वापादनशङ्काप्रतिक्षेपादहिकुण्डलाधिकरणोक्तं स्मारितम् । परिस्मिन्निति कारणस्यैवात्र परत्वोक्त्या परमतः इत्यधिकरणार्थोऽपि रव्यापितः । विनतेत्यादिना फलमतः इत्युक्तं दर्शितम् । शेषेषार्थसिद्धोपासिसिषासूचनमिति ।

प्रकारान्तरेणापि ध्येयमिह शोध्यते -

पूर्वं द्विलिङगपादस्य प्रक्रिया परिशोधिता ।

नारायणानुवाकादिनिर्णीतार्थस्त्विहोच्यते ।। 74 ।।

अत्र ह्यखिलेत्यादिना सर्वकारणत्वं, विनतेत्यादिना मोक्षार्थसर्वविद्यावेद्यत्वं, श्रुतिशिरसि विदीप्त इत्यनेन सर्वोपनिषदेकप्रतिपाद्यत्वं च परस्य ब्रह्मण उक्त्वा तस्य श्रीनिवासत्वं च वदतोऽयं भावः - कारणं तु ध्येयः इत्यादिषु सर्वकारणमेव मुमुक्षोर्ध्येयं श्रुतम् । तदेव सद्वब्रह्मादिशब्दैरुक्तम् । ते च न भिन्नविषयाः, सर्वत्र जगत्कारणस्यैकत्वोत्तया विकत्पसमुञ्चयायोगात्, कृत्स्नवेदप्रामाण्ये विश्चिते सर्वेषामन्यमस्य त्यागायोगाञ्च ; अन्यथा विवधघटन्यायेनेतरप्रहायोगाञ्च । अत एखविषयत्वे सिद्धे ब्रह्मेशानादिनिषेधयुक्तभूयिष्ठाबाधितार्थसात्त्विकबहूपबृंहणानुगुणमहोपनिषत्पठितानन्यसाधारणरूढ्यास्पदनारायण

शब्दोक्तः श्रीपतिरेव सदादिशब्दार्थः । कारणविषयपरविद्योपास्यनिर्धारणं च नारायणानुवाकविषयलिङ्गभूयस्त्वाधिकरणसिद्धम् । सर्वेषां च कारणवाक्यानां सर्ववेदपठितपुंसूक्तैकार्थ्यं युक्तम् । तत्प्रतिपाद्यञ्च श्रीपतिरित्युत्तरानुवाकसिद्धम् । कारणविषयहिरण्यगर्भशब्दस्य
अद्भ्यः संभूतो हिरण्यगर्भ हत्यष्टौ इति श्रुत्यैव श्रीपतिविषयत्वं दर्शितम् । एवं पुसूक्तशब्दार्थप्रत्यभिज्ञया श्वेताश्वतरोपनिषदादयोऽपि व्याख्याताः । अतः सर्वे वेदा यत्रैकं भवन्ति वेदैश्च सर्वैरहमेव वैद्यः इत्यादिसिद्धमिह स्थापितम् । अत एव पुरुषनारायणोत्तरनारायणानुवाकानामैककण्ठ्येन श्रीनिवासे ब्रह्मणि इति श्रनिवास एव ब्रह्मशब्दार्थः ।

परपक्षनिरासश्च कृतः शास्रैकदेशतः ।

व्यज्यतेऽस्मिन्पदैस्तैस्तैः पद्ये शास्रार्थसंग्रहे ।। 75 ।।

व्यनक्त्यखिलशब्दोऽत्र चिदचिद्भेदसत्यताम् ।

एकस्मिन्नपि तद्व्यक्तिर्भागभेदव्यपेक्षया ।। 76 ।।

अर्थेन्द्रियगतैस्तद्वदुभयानुभयाश्रितैः ।

विना दोषैरिहाध्यक्षं बाध्यमिच्छन्स्वधीहः ।। 77 ।।

भेदसत्यत्वपक्षस्य भेदमिथ्यात्वपक्षतः ।

विभागो यिदि मिथ्या स्याद्व्याहतिः सर्वतोमुखी ।। 78 ।।

अनन्यपरवाक्योक्तविभूतिगुणविग्रहानि ।

अबाधित्वैन नेतव्या नेति नेत्यादयः प्रभौ ।। 79 ।।

श्रुतिस्तु नित्यनिर्दोषा स्वतःप्रामाण्यशालिनी ।

अलौकिकेऽर्थे न क्षेप्या स्वेष्टदूराद्भुतोक्तिवत् ।। 80 ।।

मिथोंऽशानां सशेषैश्च शेषस्यैक्यं निगृह्णती ।

अखिलोक्तिरनेकान्तवादानपि विलुम्पति ।। 81 ।।

विश्वमेतदनेकान्तं वदतो विहतित्यजः ।

न साध्यदूष्यसिद्धान्तरागद्वेषादिसंभवः ।। 82 ।।

नञ्प्रयोगश्च सार्थोऽसौ यथाव्युत्पत्ति बोधकः ।

अभावस्यानुपाख्यत्वं हन्ति निर्बाधबोधतः ।। 83 ।।

भानान्तरमभावोऽसौ पदार्थान्तरमेव वा ।

द्विधापि निःस्वभावत्वं तत्स्वभावे कथं भवेत् ।। 84 ।।

चतुर्विधाणुमनसामाकाशादेश्च नित्यताम् ।

अस्यत्यखिलजन्मोक्त्या नित्यमन्युत्तु शास्रतः ।। 85 ।।

सज्जायेतेति कण्ठोक्तकार्यसत्त्वापलापिनः ।

सत्तार्थधातुनिष्पन्नभुवलोक्त्या निराकृताः ।। 86 ।।

सदसक्तोटिनिर्मुक्तकल्पना हि निरर्थिका ।

सदसद्रूपपक्षोक्तविरोधस्याविशेषतः ।। 87 ।।

भावाभावविकल्पे तु कोठ्यन्तरमसंभवि ।

व्यक्त्यध्यासविसृष्ट्यादि विकारेषु विवक्षताम् ।। 88 ।।

जन्मव्याहरणाद्बाधः कृतः श्रुत्यादिदर्शितात् ।

अभिव्यक्तेरनादित्वे कारकाणामनर्थता ।। 89 ।।

तदागन्तुकतामिच्छन् किं नान्यत्रैवमिच्छति ।

विसृष्टिः क्वचिदिष्टैव विकासोऽपि दशान्तरम् ।। 90 ।।

विकासतद्वतोरैक्ये व्याघातः सांख्यपक्षवत् ।

एक एव निमित्तं चोपादानं चेति सूचनात् ।। 91 ।।

योगवैशेषिकाद्युक्तं युक्याभासमभाषत ।

कर्ता स्वपरसंयोगे समवायी च विश्वकृत् ।। 92 ।।

न च कम्प्रेषु संयोगं नित्यं भौतेषु भावयेत् ।

जनयन्स्वसुखादीनि दृष्टो जीवोऽपि तत्र च ।। 93 ।।

कर्तृत्वसमवायित्वे काणादैरपि दुस्त्यजे ।

बहु स्यामिति मन्तुश्च विकारः परिकल्पितः ।

शरीरद्वारतः सृष्टेः सूचनात्प्रत्यरुथ्यत ।। 94 ।।

क्रमाज्जन्मादि सर्वेषामेकतस्तदितीरणात् ।

क्षणभङ्ग प्रवाहेशपक्षश्चात्र पराकृतः ।। 95 ।।

स्थिरापेक्षा ह्यनुमितिः स्थिराभावं न साधयेत् ।

न च प्रत्यक्षमक्षोभ्यप्रत्यक्षान्तरबाधतः ।। 96 ।।

सर्गप्रलयवादानामान्यपर्यान्मृषार्थता ।

अर्धलोकायतारूढैरुक्ताप्यत्र बहिष्कृता ।। 97 ।।

अनुप्रवेशादि वदन्निराचक्रे यथाश्रुति ।

सामानाधिकरण्यस्य बाधैक्यादिप्रयुक्तताम् ।। 98 ।।

विशिष्टविषयानेकसामानाधिकरण्यतः ।

विर्भेदैकार्थतां तस्य वदन्त इह वारिताः ।। 99 ।।

चार्वाकादिमतं चात्र हेत्वाद्युक्त्या निवर्तितम् ।

निरानन्दोक्तिपक्षश्च सलीलत्वेन खण्डितः ।। 100 ।।

बहुश्रुत्यादिसिद्धत्वाद्बाधलेशविमुक्त्या ।

लीलोक्त्यैवैक्यपक्षेषु स्रष्टृत्वायोग उच्यते ।। 101 ।।

संपल्पाध्यसनं तापन्न विकल्पं सहेदिह ।

अचेतनतया नित्यमविद्यावृत्तिमात्रयोः ।। 102 ।।

संकल्पाध्यसनं तावन्न विकल्पं सहेदिह ।

अचेतनतया नित्यमविद्यावृत्तिमात्रयोः ।। 103 ।।

त्र्यंशसद्ब्रह्मवादे च सुषुप्तस्येशितुस्तदा ।

अचिज्जीवसमानस्य न लीलोद्यमसंभवः ।। 104 ।।

नित्यसर्वज्ञताश्रुत्या सुषुप्तिश्चास्य बाधिता ।

कालाधीनप्रबोधादेरनैश्वस्यं च दुस्त्यजम् ।। 105 ।।

सुषुप्तिश्च प्रबोधश्च प्राक्संकल्पादिति त्वसत् ।

अनन्तानुभवानन्दजिहासामुपपत्तितः ।। 106 ।।

नाचित्संकल्पयेन्नापि जीवोऽसिद्धेन्द्रियादिकः ।

ईश्वरः शान्तनिर्दोऽपि कुर्यान्नानर्थमात्मनः ।। 107 ।।

नित्यप्रबुद्ध ईशांशोऽप्यतो नेदृग्विहारवान् ।

भोक्तॄणां स्वात्मतादात्म्यं न वेत्ति न हि सर्ववित् ।। 108 ।।

विनतादिपदैसत्र जीवानामितरेतरम् ।

इशित्रा च स्वरूपैक्यं तत्तन्मानैः परास्यते ।। 109 ।।

असर्वज्ञोऽहमित्यात्मा येनाध्यक्षेण गृह्यते ।

सर्वज्ञैक्यमतिस्तस्य न तच्छक्त्यापि संभवेत् ।। 110 ।।

नानात्मनो व्यवस्थात इत्यन्यैरपि सूत्रितम् ।

विरुद्धधर्मसंसर्गं व्यनक्ति विविधोक्तितः ।। 111 ।।

वर्णाद्यैर्नन्तुवैविध्यादलेपकमतं हतम् ।

यावज्जीवं मुमुक्षोश्च तद्धर्मो निश्चलीकृतः ।। 112 ।।

अत्याश्रमिभ्य इत्येतत्प्रशस्ताश्रमयोगतः ।

अलेपश्च श्रुतः पापैः प्रमादात्तैरिति स्थितिः ।। 113 ।।

तदुपर्यादिसूत्रोक्ता सर्वदेवैकसेव्यता ।

व्यञ्जिता विविधोक्त्यैव तत्तत्पारम्यमुत्तये ।। 114 ।।

व्रातशब्दैन जीवानामानन्त्यमपि सूचयन् ।

इतः प्राक्सर्वमुक्तिः स्यादिति चोद्यमवारयत् ।। 115 ।।

आत्मानन्त्यादमुक्तानां मुक्तानामप्यनन्तता ।

आनन्त्यतारतम्येन सद्द्रव्यादिनयाद्भवेत् ।। 116 ।।

एको जीव इतः पूर्वममुक्तो हेत्वनागमात् ।

इति पश्यन्ननेकेषु तथात्वं किं न पश्यति ।। 117 ।।

मुक्तेर्नतिभवत्वोक्त्या नित्यमुक्तिर्निराकृता ।

स्वरूपस्य न मुक्तित्वं सिद्धसाध्यविरोधतः ।। 118 ।।

क्रियातच्छक्त्यपूर्वाद्यैः स्वर्गादीति परोदितम् ।

नन्तृरक्षणदीक्षोक्त्या निरस्तं निगमाप्तया ।। 119 ।।

विध्यपेक्षे तु वैधार्थद्वारे श्रुत्यैव दर्शिते ।

श्रुतहानादिरन्याय्यो रात्रिसत्रादिनीतितः ।। 120 ।।

नतिरक्षादिजीवेशव्यापारप्रतिपादनात् ।

साक्षिमात्रत्वमनयोस्तत्तदुक्तमपास्यत ।। 121 ।।

वेदानित्यत्ववादश्च वेदोज्झितपथस्तथा ।

अनुमेयेसपक्षश्च श्रुत्याद्युक्त्या निरारितः ।। 122 ।।

ईशितुः सगुणत्वेन भङ्गुरत्वादि साधयन् ।

धर्मिग्राहकवेदान्तविदीप्तिध्वस्तदृषिटिकः ।। 123 ।।

अवेद्यत्वमवाच्यत्वमपि प्रोक्तं कुदृष्टिभिः ।

निगमान्तविदीप्तत्वनिर्देशेन निवर्तितम् ।। 124 ।।

उपासनाद्यनर्हं यत्तद्ब्रह्म श्रुतमित्युशन् ।

परस्य विद्युपास्यादिविषयत्वोक्तितो हतः ।। 125 ।।

न विभ्वस्तीति वदतां तत्तन्मानैः प्रणुत्तये ।

बृहत्त्वमपरिच्छेद्यं ब्रह्मशब्देन दर्शितम् ।। 126 ।।

भागभेदाद्ययोगेन विभुतत्त्वस्य निह्नवे ।

अणुष्वपि स दुर्वारः सर्वासत्त्वे स्ववाग्घतिः ।। 127 ।।

व्यतिरेकग्रहायोगाद्विभु कारणमुञ्झतः ।

अबाध्यश्रुतिसिद्ध्यैव तत्सिदिं्ध समदर्शयत् ।। 128 ।।

कारणत्वादिधर्माणां प्रतियोगिमतामपि ।

अकाल्पनिकतां प्राह तथा तन्मानबोधनात् ।। 129 ।।

स्वेष्टस्वपरनिर्वाहन्यायात्संबन्ध आश्रितः ।

नानवस्थितये नातिप्रसक्त्यै चेति भाव्यताम् ।। 130 ।।

श्रीनिवासपदेनात्र निर्विशङ्कार्थवाचिना ।

त्रिमूर्तिसाम्यतादात्म्यव्यक्त्यन्तरजुषः क्षताः ।। 132 ।।

अन्योक्तिः परविद्यासु निरुक्त्यादेः पराश्रया ।

तल्लिङ्गानन्यथासिद्धौ तद्विशिष्टावलम्बिनी ।। 132 ।।

बाह्यैः कुदृष्टिभिश्चोक्तास्त्रिमूर्त्युत्तीर्णक्लृप्तयः ।

ब्रह्मणः श्रीनिवासस्य परत्वोक्त्या पराहताः ।। 133 ।।

आप्नोति परमित्येतत्सूचयन् परशब्दतः ।

स्वात्मप्राप्त्यादिमात्रस्य निराचक्रेऽपरर्गताम् ।। 134 ।।

परानुभूतेर्नाभावो न च ह्रासो निरंहसः ।

अनिःशेषितकर्मा तु मुक्त इत्युपचर्यताम् ।। 135 ।।

परत्वमनवच्छिन्नं मुक्तादिभ्योऽपि हि श्रुतम् ।

ततः सर्वगुणात्यन्तसाम्यवादोऽप्यपोदितः ।। 136 ।।

एकीभावश्रुतिश्चत्र प्रकारैक्यविवक्षया ।

शुद्धाशुद्धाम्बुयोगे हि तादृक्त्वं श्रुतिदर्शितम् ।। 137 ।।

त्रय्यन्तदीप्ततामुक्त्वा भक्तेराशासनात्पुनः ।

शब्दतोऽध्यक्षसंवित्तेरसंभव उदाहृतः ।। 138 ।।

आत्मनोऽनहमर्थत्वं वदतामपनुत्तये ।

ममेतीरितमात्मानमहमर्थं न्यदर्शयत् ।। 139 ।।

शेमुष्यादिपदाभ्यां तु कर्मधीतद्विकल्पयोः ।

वाक्यार्थैक्यमतेश्चात्रानुपायत्वं प्रदर्शितम् ।। 140 ।।

बोद्धृबुद्धिभिदामत्र ममकारेण दर्शयन् ।

विषयग्राहिणी बुद्धिरात्मेति मतमच्छिनत् ।। 141 ।।

मम स्वरूपमितिवद्भेदोक्तिरुपचारतः ।

इत्यसद् ब्धविरहादन्यथातिप्रसङ्गतः ।। 142 ।।

बाधः स्वारसिको नास्ति संविदां बोद्धृबोध्ययोः ।

कुतर्कैर्यदि शेमुष्या प्रतिबन्दीमसूचयत् ।। 143 ।।

विषयेणाश्रयेणापि स्वधर्मेणापि शेमुषीम् ।

विशिंषंस्तन्निराकतर्ॄन्निरास्थदिति मन्महे ।। 144 ।।

एवं तु जीवपरयोः स्वरूपैक्याभिमानिनाम् ।

अत्र शारीरकारम्भस्त्रयाणामुपरुध्यते ।। 145 ।।

मिथ्याभूतस्य बन्धस्य तत्त्वबुद्ध्यैव बाधनात् ।

तत्प्रधानमिदं शास्त्रमारभ्यमिति दुर्भणम् ।। 146 ।।

प्रमितस्यास्य सत्यस्य परभक्त्या विनाशनम् ।

प्रतिपादयतानेन परारम्भो निवारितः ।। 147 ।।

न जीज्ञासेत धीरत्र ज्ञातृत्वादिप्रहाणतः ।

ज्ञातृभूतोऽहमर्थश्चेन्नारभेत स्वनाशनम् ।। 148 ।।

स्वदुःखशान्तये कश्चित्स्वनाशं मूढ इच्छति ।

न तथात्र गतक्लेशस्वात्मस्थितिसमर्थनात् ।। 149 ।।

इत्थं ब्रह्मप्रतिच्छन्दजीवपक्षेऽपि दूषणम् ।

ईश्वरोऽपि न जिज्ञासुः सार्वज्ञ्याध्याससंमतेः ।। 150 ।।

भावाभावात्मकाशेषविशेषोज्झितवर्ष्मणः ।

जिज्ञासाकर्मताप्यत्र विशिष्टोक्त्यैव बाधिता ।। 151 ।।

विषयत्वप्रहाणाञ्च जिज्ञास्यत्वं विहन्यते ।

न ह्यत्रोपहिते चिन्ता न च सा भ्रान्तिशान्तिकृत् ।। 152 ।।

अवेद्ये हि न जिज्ञासा सा चेत्कथमवेद्यता ।

न च कोटिद्वयोन्मुक्तं किंचित्स्याद्व्याहतत्वतः ।। 153 ।।

ज्ञेयत्वे चात्मता न स्याद्धटादिवदिति त्वसत् ।

सह दृष्टेर्द्वयोर्वह्नेर्वस्तुत्वोष्णत्वयोरिव ।। 154 ।।

कर्मकर्तृविरोधश्च स्वदृष्टौ भङ्गगुम्भितः ।

न हि दृष्टे विरुद्धत्वं च दृष्टिः शक्यनिह्न वा ।। 155 ।।

अवेद्यमिति वेद्यत्वे वेद्यत्वं स्वीकृतं भवेत् ।

अवेद्यमित्यवेद्यत्वे वेद्यत्वमनपोदितम् ।। 156 ।।

अवेद्यमित्यवाच्यत्वे वाच्यत्वेऽपि च वस्तुनः ।

वाच्यतैव भवेत्तस्य वाच्यावाच्यवचोऽन्वयात् ।। 157 ।।

प्रोवाचावचनेत्याद्या उक्त्याश्च परात्मनः ।

अपरिच्छेद्यतार्थाः स्युर्न चेत्स्वोक्त्यादिभिः क्षतिः ।। 158 ।।

ज्ञानत्वाज्ज्ञेयता नास्ति ज्ञातृताप्यात्मनस्त्विति ।

दृष्टश्रुतिविनिर्घूतं ज्ञानत्वं तु स्वभासनात् ।। 159 ।।

किंच श्रुतिशिरस्येव विदीप्तिं वदता विभोः ।

परेषां व्यज्यतेऽर्थेषु त्रय्यन्तनिरपेक्षता ।। 160 ।।

स्वप्रकाशा मतिर्धीत्वाद्दृश्यत्वाद्विमतं मृषा ।

इत्याद्यैरेव सिद्धेऽर्थे कृतं त्रय्यन्तचिन्तया ।। 161 ।।

सगुणोपासनादीनां सिद्ध्यै तञ्चिन्तनं यदि ।

तञ्चेदद्वैतधीसिद्ध्यै तद्दृथा तद्विरोधतः ।। 162 ।।

फलान्तरार्थं तञ्चिन्ता यदीष्यते तथा सति ।

मोक्षप्रधानशास्त्रत्वं गतं शारीरकस्य ते ।। 163 ।।

श्रुतिवाक्यप्रसूता धीर्बाधिका नानुमानिकी ।

इति वक्तुं न ते शक्यमदृष्टस्यानपेक्षणात् ।। 164 ।।

अनुमानाञ्च वाक्याञ्च रज्जुसर्पादिविभ्रमे ।

अविशेषेण बाधो हि दृष्टस्तद्वदिहास्तु ते ।। 165 ।।

प्रत्यक्षं शब्दजन्यं च दुःसाधं निष्फलं च ते ।

परोक्षादपि शब्दार्थात् क्वचिद् बाधस्य संमतेः ।। 166 ।।

न चानुमानाशक्तस्य वाक्यमित्यपि युज्यते ।

सर्वमानान्तरानर्हे शास्त्रमानत्वसाधनात् ।। 167 ।।

अनेकनियमोपेतवाक्यचिन्ताविधेर्वरम् ।

लोकदृष्ट्यनुसारेण श्रुतादेश्च क्षमानुमा ।। 168 ।।

ज्ञातेदृशानुमानानां भ्रान्तिर्न भ्रश्यतीति चेत् ।

ज्ञाततादृशवाक्यानां समं तत्संभ्रमादृते ।। 169 ।।

द्वैताद्वैतमतेऽप्येवमारम्भोऽनुपपत्तिमान् ।

न हि सर्वविदश्चिन्त्यं जीवस्य न तदैक्यतः ।। 170 ।।

उपाधितः स्वतो वात्र भेदे सत्यपि किं भवेत् ।

रामादिभेदाद्वैषम्यं सर्वज्ञैक्यसमत्वतः ।। 171 ।।

सर्वेषु चावतारेषु नित्यं सर्वार्थवेदिनः ।

सुषुप्तिभ्रमदुःखाद्यं प्राहुः शैलूषनीतितः ।। 172 ।।

इच्छया संसृतिश्चापि न शक्यमिति भाषितुम् ।

परेच्छा तव जीवेच्छा तन्मूलश्च भवो यतः ।। 173 ।।

ज्ञातस्वजीवतादात्म्यः शक्तश्चेत्प्रसहेद्भवम् ।

अशक्तो यदि मोक्षार्थं जिज्ञासेत कथं परम् ।। 174 ।।

अतो जीवेशयोर्भेदमभेदस्पर्शवर्जितम् ।

बभाषे नन्तृनन्तव्यरक्ष्यरक्षकतादिभिः ।। 175 ।।

इत्थं निवारितो भेदाभेदवादविधायिनोः ।

द्वयोरपि च शास्त्रस्य प्रारम्भः प्रातिकूल्यतः ।। 176 ।।

स्वमते तु स्वरक्षार्थविशिष्टविषयोत्थितेः ।

निःशेषमिह निर्धूताः शास्त्रानीरम्भहेतवः ।। 177 ।।

ज्ञातमज्ञातमपि वा न जिज्ञास्यमिति त्वसत् ।

विदिताविदिताकारभेदेनैवोपवर्णनात् ।। 178 ।।

सिद्धं धर्मिणमुद्दिश्य साध्यधर्मविधानतः ।

इत्थमेवानुमानेऽपि वादिनोऽप्यनुमेनिरे ।। 179 ।।

व्युत्पत्तिद्वारसिद्धेऽपि तद्विशेषेऽपि शास्त्रतः ।

अलौकिकेऽर्थे समभिव्याहारात्सा हि संमता ।। 180 ।।

नेदं शास्त्रं निर्विषयम्, श्रोतव्यो मन्तव्यः इति श्रुत्युनूदितविषयोक्तेः । नाप्यसौ भ्रान्त्या मानान्तरेण वा सिद्धः, विर्बाधे श्रुतिशिरस्येव विदीप्तत्वात् । न च निरूपितः, पूर्वकाण्डयोरान्यपर्यात् ; शास्त्रान्तरे तु प्रसङ्गाभावाद्विरुद्धोक्तेश्च । न च ध्वाङ्क्षदन्तसंख्यावदनिरूप्यः, स्वगृहविनिक्षिप्तबृहन्निधिसाम्यात् तदधीनबृंहणत्वरूपरक्षोक्तेश्च । न च मुक्तिः सिद्धा, प्रत्यक्षादिविरोधात् । नाप्यन्येन साध्या, देहादिसृष्ट्या बन्धकस्यैव पुरुषस्य स्वनन्तृमुक्तिहेतुत्वात् । नाप्यन्येन निरोध्या, एतस्य स्वायत्ताखिलसत्ताकतया निःसमाभ्यधिकत्वात् । न ततोऽपि सा दुष्प्रापा, तस्य तदेकदीक्षितत्वात् । न स्वर्गादिवत्पुनरावृत्त्यादिभिर्दुरन्ता, निग्रहादेर्निःशेषनिवृत्तत्वात् । न च समव्यत्ययफला, सुखोपायेन निरवधिकसुखलब्धेः । नाप्यत्राधिकार्यभावः, यथाश्रुति विनतविविधभूत इति सामान्यतः मम इति विशेषतश्च व्यञ्जनादिति ।

प्रतितन्त्रविहीनत्वादनारभ्यत्वमित्यपि ।

असाधारणरूपेण भाषणेन निराकृतम् ।। 181 ।।

श्रूयते हि सर्वशरीरत्वं सर्वान्त्यामित्वमित्याद्यर्थजातमत्रैव । अथवा,

सर्वानिष्टमिहानुक्तं तावतापि किमागतम् ।

तस्मात्प्रामाणिकं चिन्त्यं परेष्टमथवान्यथा ।। 182 ।।

आभिमानिकमानैश्च सिद्धान्ताः स्थापिताः परैः ।

साधारण्यं क्व वा न स्याद्वैपुल्याद्देशकालयोः ।। 183 ।।

प्रतिपदमिह युकिं्त भाष्यकाराशयस्थां

कथयितुमुत मन्तुं कः प्रभुस्तां प्रभूताम् ।

तदपि कतिचिदस्मद्दर्शितं किंचिदेत-

च्छØतफलमवयन्तः स्वादयिष्यन्ति सन्तः ।। 184 ।।

अत्रैवं परगुरुस्तुत्यादिविशिष्टमङ्गलान्तर्णीतपरमविषयाद्युक्त्यास्य शास्त्रस्यानीरभ्यत्वमप्यपास्तम् ।

पाराशर्यवचस्सुधामुपनिषद्दुग्धाब्धिमध्योद्धृतां

संसारग्निविदीपनव्यपगतप्राणात्मसञ्जीवनीम् ।

पूर्वाचार्यसुरक्षितां बहुमतिव्याघातदूरस्थिता

मानीतां तु निजाक्षरैः सुमनसो भौमाः पिबन्त्वन्वहम् ।।

अथ नमस्कृत्य हृषीकेशम् नमो भगवते तस्मै व्यासाय इत्याद्याचारक्रमेणावरगुरुकीर्तनादिरूपमङ्गलगर्भावान्तरविषयाद्युक्त्या विधित्सितस्य स्वप्रबन्धस्यानारयभ्तां निरस्यति - पाराशर्य इत्यादिना व्याख्यास्यन्ते इत्यन्तेन ।

कुहकोक्तं भ्रमोक्तं वा निष्फलं निष्परिग्रहम् ।

स्पष्टं दुर्निर्वहं बोद्धृहीनमन्योज्ज्वलं न हि ।। 185 ।।

यद्येतच्छास्त्रं लोकायतादिवत्प्रतारकप्रोक्तं भ्रान्तिमूलं निष्प्रयोजनमपरिगृहीतं स्पष्टार्थं विवक्षिते नेतुमशक्यमनधिकारिकमन्यतश्चरितार्थं वा स्यात्, न तर्हि व्याख्येयमिति शङ्कात्र क्षिप्यते । परान् बाह्यकुदृष्टीन् प्रमाणतर्कशरैराश्रृणातीति पराशरः ; तस्यापत्यं पराशर्यः ; न तादृशापत्यमतादृक्स्यादिति व्यक्त्यै पाराशर्योक्तिः । श्रुतिश्च - स होवाच व्यासः पाराशर्यः इति । अत्र स्वगुणः पितृगुणेन रव्याप्यते । नात्र सूत्रकृद्बादरायणनामान्य इति मन्तव्यम् ;

द्वीपे बदरिकामिश्रे बादरायणमच्युतम् ।

पराशरात्सत्यवती पुत्रं लेभे परंतपम् ।।

इत्यादिप्रसिद्धेः । तस्य च ब्रह्मसूत्रकृत्त्वं च स्कान्दोक्तम् -

अवतीर्णो महायोगी सत्यवत्यां पराशरात् ।

उत्सन्नान्भगवान्वेदानुज्जहार हरिः स्वयम् ।।

चतुर्धा व्यभजत्तांश्च चतुर्विंशतिधा पुनः ।

शतधा चैकधा चैव तथैव च सहस्रधा ।।

कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये ।

चकार ब्रह्मसूत्राणि येणां सूत्रत्वमञ्जसा ।। इति ।

ब्रह्मसूत्रपदैश्चैव इति भाविदर्शिभगवद्वाक्यं सूत्रपश्चाद्भावि वा स्वयमेव भारते न्यबध्नात् । सूत्रविषयतया च तद्वाक्यरूपा प्रक्तनी भाविनी वा कृतिरुदह्नियत इति न पौर्वापर्यविरोथः ।

अथ वानादिसिद्धत्वात्स्मृतिसूत्रप्रवाहयोः ।

परस्परगृहीतिस्तु न विरोधाय कल्पते ।। 186 ।।

आह च परभाष्यव्याख्याता -

ब्रह्मसूत्रकृते वेदव्यासायापरवेधसे ।

ज्ञानशक्त्यवताराय नमो भगवतो हरेः ।। इति ।

सुधाशब्देनास्यार्थस्य भोग्यत्वं दर्शयतीति विवरणम् । अत्र च - वचसः सुधेति विग्रहे सुधाशब्दस्य गौणी वृत्तिः । रूपकप्रकरणानुरूप्येण वा वचःशब्दलक्षितस्तदर्थः सुधात्वेन रूप्यते । यद्वा - सूत्रमेव वा सुधेति रूपितम् । उपनिषद्विमर्शोत्थन्यायरूपार्थद्वारा तूद्धृतत्वाद्युक्तिः । ननु श्लेषोपस्कृतनिजाक्षरानीतत्वादिसामान्यप्रयोगे कथमिह उपमितम् इत्यादिना समासः ? इत्थम् - समाससूच्यं स्वादुत्वसामान्यमिहाप्रयुक्तम् ; तदन्यस्य प्रयोगेऽपि न दोषः ; भाष्याब्धिः क्वातिगम्भीरः इत्यादिवत् । वैधर्म्यरूपत्वं वा विशेषणेष्विह सर्वेषु योज्यम् । सुधा हि अमृताक्षरोपचरितैरन्यस्य छन्दसोऽक्षरैरानीता ; इयं तु स्वाक्षैररेव । सुधा किल केवलदुग्घाब्धिमध्योद्धृता, इयं तु उपनिपद्दुग्वाब्धिमध्योद्धृता । इत्थं शेषमपि योज्यम् ।

साधर्म्यात्स्वादुतासिद्धिस्तथा स्वादुतमत्वधीः ।

वैधर्म्यादिति वैषम्यं भाव्यमत्र मनीषिभिः ।। 187 ।।

यद् विवक्षितसामान्यं तत्प्रयोगो निषिध्यते ।

उक्तिस्तदन्यसामान्यविषया न विरुध्यते ।। 188 ।।

विवक्षितं तु सामान्यं स्वादुत्वादिकमिष्यते ।

तत्पुनर्नोच्यते साक्षात्समासस्तेन सिध्यति ।। 189 ।।

अविवक्षितसामान्यप्रयोगः काव्यशास्त्रयोः ।

दृश्यते बहुशस्तस्मान्न समासोऽत्र दुष्यति ।। 190 ।।

ओषधीभ्यो चथामृतम् इतिवच्छिरःशब्दाभिप्रायव्यक्त्यर्थ उपनिषच्छब्दः । उप निषीदति अव्यवधानेन नित्यं समन्वेतीत्यनन्यपरांशोक्तिः ; तथा च वाक्यम् - उपनिषण्णत्वाद्वा उपनिषत् इति । तत्र द्रमिडभाष्यम् - गहने हीयं विद्या संनिविष्टा इति । तस्य च वामनटीका - गहने ब्रह्मणि उपनिषण्णा इति । भाष्यस्य सूत्राणि, तेषामुपनिषदः, तासां ब्रह्येति विषयक्रमः । प्रयोजनानि च यथार्हाणि । आरण्यकं च वेदेभ्यः इति श्रुति

धेनुसारभूतस्वादुतमरसतया आनन्त्यगाम्भीर्यादिभिश्च दुग्धाब्धित्वोक्तिः । मध्यस्याशेषपर्यन्तासत्तिसाम्यात्तदक्त्या सर्वश्रुत्यानुगुण्यव्यक्तिः । उद्धृतत्वोक्त्यार्थस्याकल्पितत्वमामूलं ग्रहणं च रव्याप्यम् । संसारेत्यादिकमपेक्षिततमावान्तरप्रयोजनकथनम्, अस्ति ब्रह्येति चेद्वेद इत्यादिश्रुतेः ; वाक्यार्थनिर्धारणे च सूत्राणां विश्रमात् । अचिद्भिरेकीकृत्य जन्मादिप्रवाहप्राप्तुः ससारः । यद्वा संसरत्यनेनेति संसारः कर्म ; स तु स्वर्गादेरपि तापत्रयमयत्वादग्नितयोक्तः । दीपनं क्लेशकर्मादिज्वालोद्गतिः ; सा चापवर्गप्रतिकूलतया स्वसंसृष्टनाशकावस्था । तद्वैविध्यमविद्यादिभेदात्प्चधा त्रिधा द्विधेत्यादि तत्र तत्र कथ्यते । अत्र शारीरादिविविधदुःखावहतया च वैशिष्ट्यं विशब्दार्थः । अत्र प्राणः प्राणिनां प्राणनहेतुः परमात्मा,

न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।

इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ।।

प्राणस्य प्राणम्, प्राणमेवाभिसंविशन्ति इत्यादिश्रुतेः । प्राणस्तु प्रणवे जीवे जीविते परमात्मनि इति च पठ्यते । अपगतः अतिदूरस्थः शास्रेषु दर्शयत्स्वपि गूटयुक्त्यादिभिरद्य यावत् असद्ब्रह्म इति वेद्यतां प्राप्तः । विशब्दः श्रवणाद्यन्यतमेनाप्यनाघ्रातत्वपरः । विशेषतो वापगतः, स्वयमवतीर्य स्वात्मानं दर्शयत्यपि व्यावृत्ततया दुर्दर्शः । अत्र प्राणो ज्ञानम् इति न्यायसुदर्शनम् । आत्मनां तद्गुणसारतया तदंशोक्तिः । तदा व्यपगतिरतिसंकोचः । व्यपगतप्राणानां संजीवनं

नाम बाह्यकुदृष्ट्यनपहार्यप्राणस्थापनम् ; तन्मुखेन रक्षोक्तिसंक्षिप्तपरमप्रयोजनविवरणं वैतत् । तदा तूपसर्गेण स्वात्मप्रापणादिमात्रव्युदासः । पूर्वाचार्याः बौद्धजैनगन्धिभ्योऽन्ये । औपदेशिकी रक्षा तदैव तत्रैव ; ग्रान्थिकी तु कालन्तराद्यनुच्छेदात् सुरक्षोक्ता ।

रक्षितत्वं तु रामार्यैस्त्रय्यन्तार्थे हि सूचितम् ।

आत्मसिद्ध्यादिभिः प्रोक्तं यामुनार्यनिबन्धनैः ।। 191 ।।

सुधासुरक्षितशब्दोभ्यां वक्तृस्तुतिरार्थी । सुधा तु सुरगुरुचक्रयन्त्रादिभिर्दृढगुप्ता । सुरक्षितत्वेऽपि त्यक्तसंप्रदायैः कुदृग्भिः क्षोभितत्वमाह - बहु इति । बह्व्यः मिथो विरुद्धाः बहूनां वा मतयः, ताभिर्व्याघातः विविधा अभिव्याप्ता पीडा ; स्वारसिकधीविरोध इत्यर्थः । तेन दूरस्थितां बोद्धॄणां रजस्तमस्तारतम्यादबोधासमग्रबोधान्यथाबोधार्हामित्यर्थः ।

अबोधश्चायथाबोधस्तत्त्वबोधविरोधिनौ ।

अनिश्यितावबोधेऽपि तथाबोधकता स्थिता ।। 192 ।।

सद्भिर्यदि विगीयेत न संगृह्ये पश्चिमैः ।

न तन्मतानुसारश्च सत्यः स्याद्व्याजिहीर्षतः ।। 193 ।।

कुदृष्टिभिश्च बाह्यैश्च यदि वाभ्युपगम्यते ।

कः स्वपक्षतया रक्ष्यः परपक्षश्च को भवेत् ।। 194 ।।

तदत्र चतुरध्याय्यां साधनाक्षेपभागयोः ।

निदानमभिसंधाय निर्दिष्टं भेदतो द्वयम् ।। 195 ।।

सुधा तु विरुद्धमतिदैत्यादिव्याघातभयात् दूरस्थिता । यद्वा कद्रूविजितायाः सुपर्ण्यास्तथा बहुमतिव्याघातदशायामात्मनिष्क्रयणार्थमाहर्तव्यतया दूरे तृतीयस्यां दिवि स्थिता । स्वव्याख्यानस्याप्यन्यैर्व्याघातादसासर्थ्यपरिहार इत्यत्राह - आनीताम् बुद्ध्यासन्ने स्वार्थे स्थापिताम् । एतेन व्याख्यातद्वतोः संबन्धः शोधितः । परेष्टव्यावहारिकसाधकव्यावृत्त्यै तद्व्यनक्ति - निजाक्षरैरिति । वचःप्रस्तावात्तदक्षराणि निजाक्षराणि, सूत्राक्षराणीति वक्ष्यमाणत्वात् । यथा विवरणम् - सूत्राक्षराणि यमर्थं स्वरसतो बोधयन्ति स एव सांप्रदायिकः ; वक्तुः स्वसमीहितार्थवाचकशब्दप्रयोगव्युत्पत्तेः स्वरसतः परप्रत्यायनार्थत्वाच्छब्दप्रयोगस्य इति । बहूनां व्याख्यानानां मिथो व्याघाते व्याख्येयस्वारस्यं संप्रदायव्यवस्थापकमिति भावः । सुधा तु सोसाख्या सौपर्णाख्यानप्रसिद्धैर्गायत्र्यवयवैरमृताक्षरैः सहानीति । मदुक्तिभिरिति वार्थः । तन्त्रतः सुधासमाधिसिद्ध्यै तथानुक्तिः । सुधायाः सुमनसो देवा भोक्तारः । यद्वा गायत्त्त्र्यभिमानिसुपर्णानीतायाः सोमलतारूपेण परिणताया एकाहाद्युपयुक्ताया भौमाः सुमनसः प्रतिसमयं भोक्तारः । वचोरूपायास्तु ब्राह्मणा विविदिषन्ति इतिवत् चोदनानर्हव्यावृत्ताः सारासारविवेकज्ञाः इत्यादिना स्वेनैवान्यत्रोक्ताः । एतेन ब्रह्मविद्यासंप्रदानमपि शिक्ष्यते । श्रुतं ह्येतच्छान्दोग्ये - इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात्प्रणाय्याय वान्तेवासिने नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णो दद्यादेतदेव ततो भूयः इति । प्रणाय्यः प्रश्रितत्वानसूयुत्वऋजुत्वादिभिर्योग्यः । न हि भौमाः सुमनस इति भूसुरमात्रोक्तिर्युक्ता, अधीतवेदवर्णत्रयार्हत्वान्मीमांसायाः । स्वतो विदुषां स्वर्गादिभुवां प्रायो न सूत्रव्याख्यानापेक्षा ; सत्यमपि तस्यां विशालधीयोग्यैर्वृत्त्यदिभिस्ते चरितार्थाः ; अतो न वृथात्र भौमत्वोक्तिः । पिबन्तु ; अयत्नं सुखमनुभवन्तु । यत्नो हि सुधाया मन्थनतस्तदानयनतश्च । अन्वहम् ; अतिगम्भीरत्वादत्यन्तहृद्यत्वाञ्च ।

सुधेयं सूत्रकारेण हरिणेव समुद्धृता ।

आनीता भाष्यकारेण द्विजेन्द्रेणेति चाशयः ।। 196 ।।

भावद्बोधायनकृतां विस्तीर्णां ब्रह्मसूत्रवृतिं्त पूर्वाचार्याः संचिक्षिपुः ; तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते ।

तथापि किमहर्दीपवदनुपकारकृतकरनिर्माणगौरवेण, अनुच्छिन्नाः शुद्धाः प्राजीनव्याख्याः प्रवर्त्यन्तां तत्राह - भगवद् इति । उत्पतिं प्रलयं चैव इत्याद्युक्ताध्यात्मबोधातिशयपरोऽत्र भावच्छब्दः ; तेन शबरशङ्करादिव्यावृत्तिः । विस्तीर्णत्वोक्तिरद्यतनैः दुस्तरत्वमभिप्रैति । अत्र पूर्वाचार्या ब्रह्मनन्द्यादयः । तन्निबन्धनानामतिसंक्षेपाद्गहनत्वं सूचयति - संचिक्षिपुः इति । सूत्रस्थापितार्थपरैः ग्रन्थैरित्याशयः । परोक्तेरनाप्तसंप्रदायत्वं व्यञ्जयितुमाह - तन्मतानुसारेण इति ।

अल्पाक्षरमनल्पार्थम् , लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च । इति सूत्राणां बह्वर्थसूचकाल्पाक्षरतया व्याख्यापेक्षत्वायाह - सूत्राक्षराणी ति । प्रकृतिप्रत्ययोरक्लेशमभिप्रेत्याक्षरशब्दः । तेन सूत्राणि यथासंभवं द्रष्ट्व्यानीति परोक्तिरनास्थेया । उक्तं च भास्करैः - सूत्राभिप्रायसंवृत्या स्वाभिप्रायनिवेशनात् । व्याख्यातं यैरिदं सूत्रं व्याख्येयं तन्निवृत्तये ।। इति । अक्षरार्थमात्रं ब्रूमः, सूच्यं तु विश्शेषदुर्वचम् । अक्षरशख्त्यतिरिक्तः स्फोटो न कल्प्यः इत्यपि व्यङ्ग्यम् । व्याख्यास्यन्त इत्यत्रोपसर्गाभ्यां धातुना चाद्यतनबुद्ध्यनुगुणमनतिसंकोचविस्तरत्वं स्पष्टोक्तिश्च व्यज्यते । यद्वा वैशिष्ट्यं प्राबल्यं च निपातद्वयार्थः । पदच्छेदः पदार्थोक्तिः इत्यादि च भाव्यम् । अखिलेत्यादेरेतदन्तस्य सूत्रार्थो वर्ण्यते यत्र इत्याद्युक्तं भाष्यलक्षणं तदर्थसंग्रहात्तादर्थ्याञ्च सिद्धम् ।

अथातो ब्रह्मजिज्ञासा ।

अत्रायमथशब्द आनन्तर्ये भवति । अतश्शब्दो वृत्तस्य हेतुभावे ।

व्याख्यापेक्षत्वव्यक्त्यै सूत्रमुद्गृह्णाति -
अथ इति । नन्वत्र अथातः इति पिण्डितं रूपमत्युत्पत्तेः पृथगर्थसंभवादंशान्तरनैरर्थक्याञ्च न युक्तम् / क्लिष्टगतिस्तु न गतिसद्भावे । अथशब्दस्यानन्तर्ये प्रसिद्धिः प्रकृष्टापि सोपयोगासाधारणवृत्तविशेषादृष्ट्यापोदिता । अत एव न प्रकृतादर्थान्तपरत्वं, कल्पद्वयादृष्टेश्च । प्रश्नस्त्वनर्थकोऽनुत्तरश्च । कार्त्स्न्यमनपेक्षितवचनम् ; एकदेशचिन्ता हि न शङ्कारूढा । तस्मादारम्भार्थकत्वं स्यात् । आरभते ह्यत्र सूत्रकारः । मङ्गलार्थकत्वं वा स्मर्यते हि - ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्प्राङ्गलिकावपभौ ।। इति ।

तत्राह - अत्र इति । भवतिना अथशब्दस्य स्वारस्यानूक्तिः । अत्रायंपदाभ्यामपवादापोहः । अत्र वेदोत्तरांशविचार्यत्वार्थे सूत्रे । तेन यतः कुतश्चिद्वा भागान्तरसाधारणाद्वा कुतश्चिदानन्तर्योक्तेरानर्थक्यात् कर्मविचाररूपं वृत्तं विविनक्ति । अयम् - अथातो धर्मजिज्ञासा अथातः क्रत्वर्थपुरुषार्थजिज्ञासा इत्यादिष्विवातश्शब्दोपेतः । एतच्छब्दो हि प्रस्तुते स्वरसः ; विभक्तिश्चासौ हेतुत्वे । एवं सामान्यतः अत इत्यभिहिते ब्रह्मजिज्ञासया विशेषत आक्षिप्ते वृत्ते सत्यानन्तर्यस्वारस्यं नापोद्यते । अथातः इति समुदितप्रयोगनिरपेक्षसामर्थ्यव्यक्त्यर्थः अत्रायंशब्द इति केचित् । अत्रेत्यादिनैवार्थान्तराणामिहानन्वयः सूच्यते । तथाहि - मङ्गलार्थत्वं तावत्प्रतिक्षिपामः । तत् किमस्याविवक्षितार्थस्य सन्निधिमात्रेण, तद्वाचकतया वा ? नाद्यः - अबोधकस्य वाक्ये निबन्धायोगात् श्रुतिप्रयोजनमात्रस्य मङ्गलस्य पदान्तरार्थेऽनन्वयाश्च, विवक्षितार्थान्तरस्यापि सन्निध्युपजीवनोपपत्तेश्च । न द्वितीयः - द्योतकमात्रत्वात् अथ शब्दानुशासनम् इत्यादावर्थं वदद्भिरप्यधिकृतमित्यादिपदमध्याहारेणोक्तम् ; न त्वथशब्दवाच्यत्वमभिसन्धाय ; वाच्यत्वऽप्यत्र मङ्गलस्य वक्तव्या सङ्गतिः । मङ्गलाक्तेः प्रकृतौपयिकमङ्गलत्वेऽप्यनुनिष्पत्त्यैव तत्सिद्धिर्युक्तम् ।

मृदङ्गध्वनिनीतिं तु वक्ति माङ्गलिकस्मृतिः ।

प्रयोक्तुश्श्रोतुरप्येतौ मङ्गलप्रापकाविति ।। 197 ।।

अन्यथा ब्रह्मशब्देनान्यपरत्वं, भिन्नत्वं वाक्यस्य, भवत्वित्यध्याहारश्च स्युः । अकृतकसर्वोत्तुङ्गमङ्गलतमतत्त्ववाचकत्वाद्ब्रह्मशब्दस्य । न चात्र हेतोस्साध्यस्य वा मङ्गलत्वमनूद्यते, विधीयते वा, नैरर्थक्यात् ; न ह्यत्र तद्विरुद्धत्वाशङ्का, अनिषेधात् । न्यायसूत्राणि संशयनिरासार्थानि ।

ननु मङ्गलत्वं विचारस्य ख्याप्यताम्, अत एव तद्विधिरिति तत्मार्थता । तदापि मन्दम्, अत इति हेतुनैव नैराकाङ्क्ष्यात्, अधिकोक्तेरनुपयोगाञ्च । आरम्भार्थत्वमप्ययुक्तम्, नीरभ्यत इति शङ्कानुत्थानात् साध्यतया बुद्धस्यारम्भस्य कथनानर्थक्याञ्च ; न च जिज्ञासाया आरम्भयोग्यत्वमथशब्दो वक्ति, द्योतयति वा, अव्युत्पत्तेः आरब्धुमिति क्रियान्तरार्थक्रियानुपस्थानात् । अन्यथा समुञ्चयादिद्योतकेष्वपि समुच्चेतुमित्यादिविवक्षया योग्यपदान्वयप्रसङ्गात् । आरब्धव्येत्येव च पदमध्याहार्यम् ; तदा किं तदर्थेनाथशब्देन ? न चात्राध्याहारार्थद्योतनम्, साक्ङ्क्ष्तयैव तत्सिद्धेः प्रसिद्धप्रहाणेन क्लिष्टग्रहणायोगाञ्च । योगशब्दानुशासनयोरानन्तर्यमगत्या त्यक्तम् । अत्र तु न शास्त्ररम्भार्थतापि । अन्यो हि

विचारः, अन्यदनुशासनम् । न च तस्यात्रोपादानम् । ननु ज्ञाप्यतया ब्रह्माधिक्रियताम् ; मैवम् - उपसर्जनश्रवणविलम्बात् व्याख्यानानुशासनशब्दाभावादेव जिज्ञासाशब्दस्य मीमांसापर्यायत्वाभावेन ज्ञाप्यतानुपस्थापनाञ्च । अत एव विचारः कर्तव्यत्वेन बोध्यतयाधिक्रियत इत्यपि न वाच्यम्, विचारारम्भणीयत्वस्थापनेनैव सिद्धे पदान्तरवैयर्थ्यात् अपेक्षिते

सत्यनपेक्षितायोगात् उभयोक्त्या गौरवाञ्च । तस्मात्स्वारसिकमनपोदितमानन्तर्यमेवात्र स्थापितम् । अतश्शब्दस्य प्रकृतिर्धीस्थे वर्तिष्यमाणेऽपि स्यात् ; प्रत्ययश्च सार्वविभक्तिकः । अतोऽथ मौनम् इत्यादिष्वन्यार्थः । पञ्चम्यर्थोऽप्यनेकः । अतो नार्थविशेषसिद्धिरित्याह - अतश्शब्द इति । इहाप्यत्रायंभवतीनामनुषङ्गः, स्वारस्यात्, उत्तरपदसमभिव्याहारश्च प्राग्वत् । विचारितकर्मणां ब्रह्मविचारहेतुतया वक्ष्यमाणहेतुरनुपलम्भनिरस्तः । ब्रह्मविचारापेक्षया वर्तिष्यमाणस्य तु न तद्धेतुत्वम् । प्रयोजनमपि न स्वरूपेण हेतुः, मिथस्संश्रयात् । तदिच्छा तु वृत्तैव । प्रत्ययस्य च विभक्त्यन्तरार्थकत्वमपादानत्वादि च प्रकृतानुपयुक्तम् । अयमिति पदस्य स्वरूपमात्रमनुषज्यते । तेनाथशब्दयुक्तत्वमिह विवक्षितम् । न चैवं मिथस्संश्रयः ; शब्दस्वारस्ययोः स्वतस्सिद्धतया स्वरूपसिद्धो मिथोऽनपेक्षणात्, सहकारित्वमात्रस्यैव मिथोऽपेक्ष्यत्वाञ्च । अयमिति पदं वा नामुषञ्जनीयम् ।

नन्वथातःपदयोरन्यतरेणालम् ; सूत्रं ह्येतत् ; मैवम् - प्रयोजनाधिक्यात् ; कर्मविचारव्यवधायकशास्त्रान्तरनैरपेक्ष्यद्योतनार्थत्वादथशब्दस्य । ब्रह्मविचार्यत्वहेतोरनन्यलभ्यप्रयोजनवत्त्वेनापातधीस्थस्य विशेषणविशेष्यांशासिद्धिव्युदासार्थत्वादतश्शब्दस्य । ब्रह्मविचार्यत्वहेतोरनन्यलभ्यप्रयोजनवत्त्वेनापादधीस्थस्य विशेषणविशेष्यांशासिद्धिव्युदासार्थत्वादतश्शब्दस्य ।

आनन्तर्येऽप्यहेतुत्वं हेतुत्वेऽपि विलम्बनम् ।

दृष्टिमिष्टं च तत्सार्थं द्वयं काण्डान्तरे यथा ।। 198 ।।

एकं जिहासतस्त्वत्र द्वितीयं हेयमापतेत् ।

स्वाधिकारं स्वहेतुं च विचारः स्वयमाक्षिपेत् ।। 199 ।।

तस्मादारम्भसूत्रेऽस्मिन् धर्मचिन्तादिसूत्रवत् ।

प्रायुङ्क्त प्रातिलोभ्येन प्रतिज्ञादित्रिकं पृथक् ।। 200 ।।

अधीतसाङ्गसशिरस्कवेदस्य अधिगताल्पास्थिफलकेवलकर्मज्ञानतया संजातमोक्षाभिलाषस्य अनन्तस्थिरफलब्रह्मजिज्ञासा ह्यनन्तरभाविनी ।

अत्र कीदृघ्वृत्तम्, यन्नियमेनापेक्ष्यम् ; कीदृक्च वर्तिष्यमाणम्, येन वृत्तविशेषाक्षेपः ; तयोश्च पौर्वापर्येऽपि कथं कार्यकारणमावः, तत्सिद्धौ च तृणारणिमणिन्यायः स्यात् । तयोरल्पास्थिरफलानन्तस्थिरफलशब्दाभ्यां संजातेत्यादिना च हेतुहेतुमद्भावव्यञ्जनम् । स्थितास्थिरशब्दाविह नाशराहित्यद्वत्त्वपरौ । कर्मज्ञानमीह निर्णयरूपम् । तस्याधिगतिः प्राप्तिः ; परीक्ष्य लोकानित्यादिभिरल्पास्थिरफलतयावगमो वा । अनुष्ठानद्वारा कर्मज्ञानस्य फलसम्बन्धः । अल्पास्थिरफलत्वं कर्मविशेषणं वा । मोक्षविश्रान्तविद्याङ्गकर्मव्यावृत्त्यै केवलशब्दः । अनन्तस्थिरफलशब्दः कर्मधारयवृत्त्या ब्रह्मविशेषणम् । बहुर्वीहितया वा परंपरया मोक्षहेतुभूतां जिज्ञासां विशिनष्टि । समित्युपसर्गेण हेतुनिरपेक्षमानन्तर्यं च सूच्यते । सांख्यादिशीलनजन्या दुःखदृष्टिमात्रजन्या वा मुमुक्षा हि समीजीं ब्रह्मचिन्तां न सूते । कर्ममात्रेऽनन्तफलदुराशायां निरस्तायां निवृत्ततत्प्रतिबन्धतया व्युत्पत्तिभूयस्त्वोपनिपतितधीवृद्ध्या च तीत्रतमे मोक्षाभिलाषे सामग्रीदशापन्ने ब्रह्मविचारविलम्बो च स्यादित्याशयः ।

विघ्नान्तरविहीने तु स्यादानन्तर्यमत्र नः ।

अतो नातिप्रसक्तिः स्यात्तथान्यैरपि सम्मतेः ।। 201 ।।

अधीतेत्यादिना मुमुक्षोत्तम्भकमतान्तरशीलनानवसरज्ञापनम् । जिज्ञासोत्पादकफलापातधीवृद्ध्यै वेदमात्रनियतव्युत्पत्तिविशेषसिद्ध्यै वा निष्कारणः षडङ्गो वेदोऽध्येयः इत्यादिसिद्धसाङ्गत्वोक्तिः । अङ्गग्रहणं विचारप्रयोजकस्य प्रयोजनालोचनस्य सिद्ध्यर्थम् इति तूलिका । फलाधिक्याद्विशेषं गृह्णता सशिरस्कशब्देनाध्ययनविधौ स्वाध्यायशब्दस्य नियतक्रमभागद्वयविषयत्म्, तद्विचारार्थायास्त्रिकाण्ड्या ऐकशास्त्र्यम्, क्रमश्च सूच्यते । न ह्यध्ययनविध्यनालीढंशिरः, येन न विचार्यं स्यादिति भावः । वेदशब्द इह पुरुषार्थतदुपायादिबोधनार्हत्वं व्यनक्ति । तत एव विचारेच्छाजनकापातधीसिद्धिः । षष्ट्यन्तपदाभ्यामधिकरिनिष्कर्षः ।

यदुक्तं कैश्चित् कर्मसूत्रव्याख्यारम्भे - ।प्रसिद्धोऽप्यथशब्दादेः किं पदार्थोऽत्र वर्णितः । प्रदर्शनार्थमित्येके केचिन्नानार्थवादिनः ।। समुदायादवच्छिद्य भवदासेन कल्पितात् । शक्तितोऽवयवस्यैव वर्णयन्त्यष्टमादिवत् इति । तदीह नातीव पेशलम् ; प्रसिद्ध्यपवादशङ्कायां पदद्वयव्याख्यानस्यावतारितत्वात् ।।

ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा । ब्रह्मण इति कर्मणि षष्ठी, कर्तृकर्मणोः

कृतीति विशेषविधानात् । यद्यपि संबन्धसामान्यपरिग्रहेऽपि जिज्ञासायाः कर्मापेक्षत्वेन कर्मार्थत्वसिद्धिः ; तथाप्याक्षेपतः प्राप्तादाभिधानिकस्यैव ग्राह्यत्वात्कर्मणि षष्ठी गृह्यते ।।

तृतीयपदेऽपि वृत्तेरनेकधा सम्भवे विशेषव्यक्त्यै विगृह्णाति - ब्रह्मणो जिज्ञासा इति । अत्र हि व्यासस्तावत् न घटते, जिज्ञासानन्वयात् ; अत एव न कर्मधारयः, सामानाधिकरण्यार्हत्वेऽपि विशेषणविशेष्यव्यत्यासा, विवक्षितानुपयोगाञ्च । द्वितीया तु कृद्योगापोदिता । ब्रह्मणस्सर्वहेतुतया तृतीयासमाससंभवेऽपि विषयाद्युक्तिर्वृत्तविशेणाक्षेपश्च न स्यात् । तादर्थ्ये चदुर्थ्यास्त्विह समासः प्रतिषिद्धः, तादर्थ्यसमासे प्रकृतिविकृतिग्रहणं कर्तव्यम् इति काल्यायनोक्तेः । आहुश्च - प्रकृत्या विकृतिर्यस्माञ्चतुर्थ्यन्ता समस्यते । तदार्थ्ये यूपदार्वादौ तेनास्मिन्न समासता ।। इति । तथा न संप्रदानत्वमपि, ब्रह्मणः संप्रदानत्वाभावात् । सप्तमीसमासेऽपि विषयत्वमात्रं सिध्येदिति भावः । तदिह समासग्राह्यभावतः । विभक्त्यर्थस्य सान्निध्याद्व्याख्यातुमिह युज्यते ।। इति ।

अपादानादिः पञ्चम्यर्थो वाक्यानन्बितः, अध्याहारसापेक्षश्च । प्राधान्येन कर्तृत्वानुपपत्तिः तद्विजिज्ञासस्व इत्यादिकमनुसरता ब्रह्मण इत्यनेनैव सूचिता । न हि मुख्यं ब्रह्म स्वमन्वद्वा जिज्ञासेत, स्वतस्सर्वदर्शित्वात् । उक्तं च न्यायतत्त्वे - यो वेत्ति युगपत् सर्वं प्रत्यक्षेण सदा स्वतः । इति । किंचिञ्ज्ञस्तु कर्ता न वक्तव्यः, अधीतवेदस्य तदर्थं निर्णिनीषोरादितः प्रभृत्यनुवृत्तेः । कर्मत्वोक्तावीप्सिततमतया प्राधान्येन विषयत्वं प्रयोजनत्वं च सिध्येत् । अतः सदपि स्वस्वामिभावादि अत्र न वक्तव्यमिति भावः । तथाऽप्यस्तु सामान्यतः प्राप्ता शौषिकी षष्ठी ; विशेषस्त्वौचित्यलब्धेरवाच्य इत्यत्राह - कर्तृकर्मणोः इति । संबन्धविशेषेऽपि षष्ठीविधौ सिद्धे, साकाङ्क्षसूत्रोक्तात् निराकाङ्क्षासूत्रोक्तं युक्तम् । तत्र विशेषयोर्विधिसाम्येऽपि कर्तुः सकर्मकाकर्मकसाधारण्यात्, इह च कर्त्रर्थत्वायोगात् असाधारणाकाङ्क्षिततमकर्मोपस्थापनमुचितमिति भावः ।

ननु किम् अर्थलभ्ये शब्दव्यापारेण ? न चैवं प्रतिपदानुशासनवैयर्थ्यम्, तस्य कर्मादिविवक्षायामपि द्वितीयानिषेधेन षष्ठीसाधुत्वे तात्पस्यात् । अतो विशेषविधिर्न शैषिकषष्ठीमपवदेत्, तद्ग्रहे च व्यवहितसंबन्धस्यापि तदन्तःस्थितेर्ब्रह्मानुबन्धिनामुपायादीनामपि जिज्ञासासंबन्धात् तत्कर्मत्वस्य चार्थसिद्धेः कृत्स्नशारीरकार्थविचार्यत्वसूचनमधिकं प्रयोजनमित्यत्राह - यद्यपी ति । परिग्रहः - परितो ग्रहः, सानुबन्धग्रहणम् । उत्तरग्रन्थे तु

गृह्यते इत्युक्त्या अनुबन्धिसंबन्धस्याशाब्दत्वमात्रमभिप्रेतम् । कर्मापेक्षत्वेन - सकर्मकतया प्रथमं कर्माकाङ्क्षाजननस्वाभाव्यात् । कर्मार्थत्वसिद्धिर्नाम कर्तृत्वव्युदासेन षष्ठ्याः कर्मारव्यविशेषेऽर्थतः पर्यवसानम् । परप्रत्यायनार्थे प्रयोगे विलम्बितधीहेतुर्न ग्राह्य इत्यभिप्रायेणाह - तथापीति । न ह्यत्र अर्थलभ्ये शक्तिक्लृप्तिः, किं तु आक्षेप्याद्वरं क्लृप्तशक्तिकशब्दोक्तमित्युच्यते । ननु आक्षेपतः - इत्युक्तमयुक्तम् ; आकृत्यधिकरणनीत्या सामान्यशक्तेः विशेषपर्यन्तत्वस्य वक्ष्यमाणत्वात् । मैवम् - सा हि विशेषमात्रमुपादत्ते, न कर्मत्वादिकम् ; न हि गोशब्दशक्तिर्विशेषतः खण्डत्वादि गृह्णति । न चात्र आभिधानिकग्रहे (ऽपि) अनुबन्धित्याग इति भ्रमितव्यम् ; सामान्यतो धीस्थानुबन्धिविषय्वात् सर्वत्र जिज्ञासायाः । एवमपि आक्षेपः स्वीकृत इति चेत्, सत्यम् - अन्यतरकर्भत्वस्यापि शाब्दत्वमुभयकर्मत्वाक्षेपात् वरम्, किमुत प्रधानांशकर्मत्वस्याक्षेपात् । एवकारः शीघ्रधीहेतोर्बलीयस्त्वं व्यनक्ति । कथं ब्रह्मणः कर्मत्वं शाब्दम्, धातोः कर्मणः समानकर्तृकादिच्छायां वा इति ज्ञानस्यैव कर्मत्वात् ; मैवम् - सन्नन्तत्वेऽपि प्रकृत्यनुसारेण सकर्मकत्वाकर्मकत्वविभागः । अत एव हि प्रकृत्यर्थकर्मापेक्षया कर्तृकर्मणोः इत्यनुशिष्टिः ; धर्मो जिज्ञासितव्यः इत्यादौ च धर्मादेरभिहितकर्मत्वम् ।

ननु तथापि नाभिधानिकत्वम्, उपपदविभक्तेरर्थाभावात् ; प्रयोगमात्रात् तस्याः सार्थत्वे गाव्यादावपि प्रसक्तेः । न च तत्र शक्तिरस्ति ।

न शब्दशक्तिर्गाव्यादौ गोपदं स्मार्यते ततः ।

बुद्धिस्थेनैव तेनाथ गोजातिः प्रतिबुध्यते ।। 202 ।।

आप्तप्रयोगस्तु अनर्थकत्वेऽपि साधुत्वात् स्यात्, अन्यत्रापि तथादृष्टेः, सम्मतेश्च । अनुशिष्टिश्च तावद्विशेषव्यकत्यर्था । तत्तदर्थधियस्त्वन्यथा सिद्धेः, अन्यलभ्ये शक्तेरकल्प्यत्वात्, गत्यन्तराञ्च बहुशक्तिकल्पनायोगात्, न शक्तिरौपयिकी ; तन्न - यथा कर्तृकरणयोः इत्यादिवशात् कारकविभक्तिः सार्था अनेकार्था च, तथा कर्तृकर्मणोः कृति इत्यादिबलात् । तथाऽपि न शक्तिभङ्गः । पदान्तरसंनिधिरत्र शकिं्त व्यनक्ति, न त्वाधत्ते ; यथा नानार्थगवादिशब्देषु । यद्वा

अत्र अनाभिधानिकत्वेऽपि विशेषानुशासनानुमतवृत्तिविशेषवद्विभक्तिसिद्धस्य शाब्दसमत्वं व्यञ्जयितुम् आभिधानिकत्वोक्तिः । कर्मत्वस्य सूत्राभिधानसिद्धत्वमाभिधानिकशब्देन प्रतीयते ; उपपदस्वरूपविमर्शस्य पदबोध्यविमर्शात् अविलम्बितत्वाञ्च ।

ननु न विग्रहवदिह समस्ते विभक्तिरस्ति, येनाभिदध्याल्लक्षयेद्वा । न चाप्रयुक्तापि स्मुताभिधत्ताम्, प्रयोगस्यापि तद्धीमात्रार्थत्वादिति वाच्यम् ; समासतोऽर्थबुद्धौ विभक्तिस्मरणनियमे मानाभावात्, सर्वत्र च लक्षणाद्युच्छेदप्रसङ्गात् । षष्ठ्या चाभिधानमिति तद्भिदा । तदेवमभिधायकाभावे कर्मत्वस्य कथमाभिधानिकत्वं तत्समत्वं वा ?

मैवं संबन्धसामान्ये कर्मत्वे वा समीहिते ।

विभक्तिलोपात्सोढव्या प्रकृत्यैव हि लक्षणा ।। 203 ।।

अथासुशासनाधीससिरूढलक्षणाया अभिधानसमत्वाच्छाब्दत्वमिति मतम्, कर्मार्थत्वेऽपि समम् । एवं तु केचित् - व्यासे समासे च सविभक्तिकाविभक्तिकशब्दयोः दधिदध्य्शब्दन्यायेन सैव शक्तिः ; अतो लुप्तविभक्तिकयापि प्रकृत्या संबन्धो न लक्ष्यः, वाच्यसंबन्धिनि वस्त्वन्तरे वृत्तिर्हि लक्षणा, न च संबन्धस्संबन्धी । कर्मत्वादिश्च संबन्धरूपः । एवं स्वपरनिर्वाहकतया संबन्धफलसिद्धावपि तथा विवेकरहितानामप्यत्र प्रकृत्या विभक्त्यर्थधीर्दृष्टा ; सन्नपि चाजानतः संबन्धो न लक्षणाहेतुः, अतिप्रसङ्गात् । अतः प्रयोगस्यानन्यथासिद्धेरन्यथासिद्धिशङ्कायाश्चानुशासनेनोपरोधाद्विभक्त्यर्थः समासेऽप्यभिधेयः । एवं विभक्तिव्यतिरिक्तलोपेष्वपि नीतिः । ननु निषादस्थपतिशब्दे विभक्त्यर्थलक्षणादोषापनुत्त्यै षष्ठीसमासस्त्यज्यते ; तत्कथमाभिधानिकत्वम् । तन्मुख्यत्वे तु क्लृप्तकल्प्यविरोधे क्लृप्तस्यैव ग्राह्यत्वान्नान्यत्राधिकारक्लृप्तिः ; मैवम् - सामानाधिकरण्यस्य प्राग्वैयधिकरण्यतः । अविलम्बितधीयोगात् प्राबल्यं प्रतिपादितम् ।। इति न्यायेन शैघ्र्याच्छाब्दव्यवहारः । अथानुशासनस्वारस्यादर्थः ; तर्हि यथानिर्णये तु नादरः, अर्थाविरोधादिति । उपपदविभक्तावुक्तमिदं समासेऽपि भाव्यम् ।

सोऽयं वैभववादो वा परमार्थोक्तिरेव वा ।

आभिधानिकतोक्तिस्तु युक्ता धीशैघ्र्यबोधनात् ।। 204 ।।

न च प्रतिपदविधाना च षष्ठी न समस्यते इति कर्मणि षष्ठ्याः समासनिषेधः शङ्कनीयः, कृदयोगा च षष्ठी समस्यते इति प्रतिप्रसवसद्भावात् ।

एवं कर्मणि षष्ठ्यामनौचित्यं निरस्तम् । तत्र समासनिषेधशङ्कामपि निरस्यति - न च इति । कर्मणि षष्ठ्या इत्यनेन साधारणः प्रतिपदविधानीशब्दस्सङ्कोचार्ह इति सूच्यते । ज्ञोऽविदर्थस्य करणे इत्यनुशिष्टायामेव समासापवादः ; अवेदनार्थस्य जानातेः जागतेः कृद्येगः क्वचित्सन्नपि तत्र करणषष्ठ्या अनपेक्ष्यः ; सर्पिषो जानीते इत्युदाहरणात् । निषे

धस्य सङ्कोचमाह - कृद्योगा
इति प्रतिप्रसवोऽपवादनिरासः, तस्य सद्भावात् । न केवलं प्रयोगदृष्ट्येति भावः । एवमैकपद्यहेतुस्समासः प्रथमं व्याख्यातः ।

ब्रह्मशब्देन च स्वभावतो निरस्तनिषिलदोषोऽनवाधिकातिशयासंख्येयकल्याणगुणगणः पुरुषोत्तमोऽभिधीयते ।

तत्राद्यप्रकृत्यंशस्य यौगिकार्थनिमित्तत्वश्रुतेः अन्यत्रापि यथादृष्टि मुख्यत्वशङ्काम्, निर्विशेषचिन्मात्रभोक्तृभोग्यनियन्तृसमष्टितदंशिसन्मात्रादिपरेष्टार्थम्, स्वेष्टे चोपचारवृतिं्त क्षिपन् सर्वतः परिबृढत्वाय बृहत्त्वबृंहणत्वे चानवच्छिन्ने विवृणोति - ब्रह्मशब्देन च इति । चस्त्वर्थः शङ्कानिरासे । स्वभावतः इत्यादिना परकल्पितैः सदोषत्वनिर्गुणत्वावाच्यत्वावैद्यत्वैरजिज्ञास्यत्वप्रसङ्गोऽपास्तः । निरस्तनिषिलदोषत्वं च बृंहणत्वोपयुक्तो बृहत्त्वविशेषः । गुणादिविधिनिषेधयोरुत्सर्गापवादादिनीतिविषयत्वं विशेषणद्वयेन व्यञ्जितम् ।

विशेषविधिबाधेन तदन्यार्थत्वकल्पनात् ।

सामान्यवृत्तिसङ्कोचं वरं नीतिविदो विदुः ।। 205 ।।

परपक्षे तु मिथ्यात्वसत्यत्वविवादेऽपि निरस्यत्वेनाभिमतानां दोषाणामारोपतः उपाध्यवच्छेदतः स्वाभाविकांशतो वा परब्रह्माश्रयत्वात् तत एव सार्वज्ञ्यादिभङ्गाञ्च जिज्ञास्यत्वायोगः श्रुत्यादिकोपश्च स्यादिति भावः । स्वरूपतो नामान्तरभजनार्हावस्थावन्तोऽचित्पदार्थाः ; तदभावेऽपि क्लेशादिमन्तो बद्धाः ; कतिपयक्लेशादिरहिता मुमुक्षवः ; तदत्यन्तोच्छेदवन्तो मुक्ताः ; तदत्यन्ताभाववत्त्वेऽपि पराधीनतथात्वा नित्याश्च बुद्ध्यवतारक्रमेण निरस्तनिखिलदोष इत्यादिमुखेन प्रथमे विशेषणे व्यवच्छेद्याः । तत्र स्वभावत इति पदेनानादित्वविवक्षायां मुक्ताः, अनन्याधीनत्वविवक्षायां

नित्याश्च व्यावर्त्यन्ते । द्वितीयेऽपि ते सर्वे । अन्यासंभाव्यगुणविधेः नित्या एव वा । तेषां ज्ञानादेर्ब्रह्मसाम्येऽपि हि पराधीनत्वं सिद्धम्, शक्तिस्तु ततो न्यूना । वक्ष्यति च सत्यादिवाक्ये अनन्तपदव्याख्याने - सातिशयस्वरूपगुणा नित्या व्यावृत्ताः इति । न हि ते विश्वव्यापिनः ; नापि सर्वशरीरिणः । अतिशयशब्देन धातूक्ता बृद्धिरतिशायनमिति व्यञ्जितम् । अनवधिकविशेषणेन शतगुणितोत्तरक्रमप्रदर्शितनिरतिशयदशाशिरस्कत्वोक्तिः, ईश्वरस्य ज्ञानानन्दादिगुणयोगः कादाचित्कः, तच्छक्तिस्तु नित्या इति पक्षः स्वभावत इति पदानुषङ्गात् प्रतिक्षिप्तः । ज्ञानाद्येकैकगुणविततिरूपावान्तरगुणवर्गख्यापनाय गणशब्दः । उक्तं च षाङ्गुण्यविवेके - तवानन्तगुणस्यापि षडेव प्रथमे गुणाः । यैस्त्वयेव जगत्कुक्षावन्येऽप्यन्तर्निवेशिताः ।।

इति ।

अनवधिकातिशयशब्दोऽत्र गणं विशिंषन् प्रत्येकमतिशयपरश्रुत्या विदुषी परिषद् इति न्यायाञ्चार्थतो गुणान् विशिनष्टि । अन्यथान्यपदार्थासिद्धिः । सत्यां गतौ व्यधिकरणबहुव्रीह्ययोगः । शैलजन्मा इत्यादिषु आगत्यातत्स्वीकारः । एतत्सूत्रसंवादिनाया परीक्ष्य इथ्यादिश्रुत्या ब्रह्मपुरुषशब्दोक्तजिज्ञास्यनिष्कर्षम् सर्वोपनिषदां पुंसूक्तैकार्थ्यम्, ईश्वरस्याध्यस्तब्रह्मांशत्वासम्भवम्, ईदृशस्य गीतानिरूक्त्या प्रकृत्यादेर्देवतान्तरेभ्योऽपि विशेषव्यकिं्त चाभिप्रेत्याह - पुरुषोत्तम इति । अवधारणमिह ग्राह्यम् ।

यद्यप्यत्र समानाधिकरणसमासे पौर्वापर्यव्यत्ययः ; निर्धारणे तु षष्ठ्या न समासः । तथापि द्वाविमौ पुरुषौ इत्यारभ्य उत्तमः पुरुषस्त्वन्यः इत्यधमप्रतियोगित्वोक्त्या संबन्धिशब्दतया समासः स्यात् । अक्षरादपि चोत्तमः इत्यनेन पञ्चमीसमासो वा सूच्यते । योगविभागस्तु यथाप्रयोगमिष्टः । अत एव सप्तमी निर्धारणेऽपि समस्यते । नकोत्तमादिशब्दाश्चैवं शाब्दैः निर्व्यूढाः । रूढ्या तु कामं पुरुषोत्तमोऽस्तु इति वदन् श्रुत्यादिबाध्यः, अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः इति सर्वविदुक्तेः । अभिधीयते - मुख्यवृत्त्या विषयीक्रियते । एतेन तदेकानाम्नो ब्रह्मशब्दस्य तत्रैव लक्षणामिच्छन्तो निरस्ताः, रूढिविषये क्वचिल्लक्षणां वदन्तश्च निरस्ताः ।

सर्वत्र बृहत्त्वगुणयोगेन हि ब्रह्मशब्दः । बृहत्त्वं च स्वरुपेण गुणैश्च यत्रानवधिकातिशयं सोऽस्य मुख्योऽर्थः । स च सर्वेश्वर एव । अतो ब्रह्मशब्दस्तत्रैव मुख्यवृत्तः । तस्मादन्यत्र तद्गुणलेशयोगादौपचारिकः, अनेकार्थकल्पनायोगात् भावच्छब्दवत् ।

ननु गवादिशब्दवज्जातिद्वारा, पाचकादिवत् क्रियाद्वारा, डित्थादिवद्यदृच्छया वान्यत्रापि मुख्यता स्यादित्यत्राह - सर्वत्र इति । प्रकृत्यादिष्विव ब्रह्मशब्दस्थलेष्वित्यर्थः । तेषु मिथो विषमेषु तदन्यव्यावृत्ता जातिः क्रिया वा न दृष्टा । बृंहणत्वं तु बृहत्त्वापेक्षम् ; अतस्तन्निमित्तत्वे गौरवम् । बृहत्त्वं च किञ्चितत्र तत्र प्रकृतं विवक्षितं च । ब्रह्मशब्दवृत्तिद्वारा तन्निरुपाधिकवृद्धिरूपधात्वर्थप्रसिद्धिश्च नोपेक्ष्या ; अतस्सम्भवद्गत्यन्तरे न यदृच्छापीति भावः । हिः प्रसिद्धौ हेतौ वा । तर्हि बृहच्छब्दवदसौ बृहत्त्वमात्रनिमित्तः स्यात्, नेत्याह - बृहत्त्वम् इति । सर्वतः बृहत्त्वमसङ्कोचात् स्वरूपतो गुणतश्चेत्युच्यते । तेन परिच्छिन्नस्वरुपाणां गुणबृहत्त्वरहितस्य गुणादेश्च व्यवच्छेदः । अस्येत्यनेन

बृहच्छब्दाद्व्यावृत्तिर्दर्शिता । न ह्यसौ इत इदं ब्रह्म इत्यवधिनिर्देशं तरप्तमप्प्रयोगं सहते । सर्वं खल्विदं ब्रह्म सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् । त्रयं यदा विन्दते ब्रह्ममेतत् इत्यादिष्वन्येषां तच्छरीरतया देवोऽहमित्यादिवत् सामानाधिकरण्यम् ; न तु तत्तद्वस्तुषु ब्रह्मशब्दप्रयोगः । त्रैविध्योक्तिश्च प्रेरितृत्ववैशिष्ट्यं भोक्तृभोग्यवैशिष्ट्यं चापेक्ष्य । नारायण परं ब्रह्मेत्यत्र परमिति विशेषणं त्वौपचारिकव्यावृत्त्यर्थम् ; अतो बृहत्त्वमात्रं नास्य निमित्तमिति भावः । प्रयोगनियत्या तत्र तत्र काष्ठाप्राप्तबृहत्त्वं स्यादित्यत्राह - स च इति । अपरिच्छिन्नबृहतत्वाश्रय इति यावत् । सर्वेश्वर इति समाधिकदरिद्रत्वादि8#ुत्व्यञजनी समाख्या, अजस्सर्वेश्वर इति तन्नामपाठात् । एकस्यैव सर्वनियमनादिरूपं निरतिशयबृहत्त्वं शास्त्रोक्तम् ; तदन्येषां तु तादधीन्यात्तत्त्वं तादक्त्वमपि नास्तीत्यवधारणाभिप्रायः । अन्यत्र निमित्तासम्भवान्नैमित्तिकासम्भवस्य फलितत्वमाह - अत इत । अतं तत्तद्वाचकत्वाभावे सम्बन्धगुणयोगयोश्च सर्वत्र सम्भवे क्वचित्प्रकृत्यादिषु नियतप्रयोग इत्याह - तस्मात् इति । अयं भावः - न ह्यत्र सम्बन्धमात्राल्लक्षणा ; न च किञ्चित्साम्याद्गौणी वृत्तिः ; किं तु तद्गुणोनिरतिशयबृहत्त्वम्, तल्लेशोऽपि लोकोत्तरबृहत्त्वम्, तन्निबन्धनोपचारनियमान्नातिप्रसङ्गः । प्रयुञ्जते च यथेष्टं स्तुतिनिन्दाभिप्रायेण मुख्यासन्ने तद्गुणप्रकर्षयोगिनि च चच्छब्दं नामतयेति । ननु मुख्ये लभ्ये नोपचारः । न चावयशक्तित्वाद्ब्रह्मशब्दस्यैकत्राप्यन्या शक्तिर्न कल्प्या, किमुतानेकत्रेति वाच्यम् ; तादृशस्यापि प्रयोगनियत्यै रूढेः कल्प्यत्वात् । पङ्कचादिषु पद्मत्वादिवच्चैकं नियामकं

न दृष्टम् । अतो यावत्प्रयोगं शक्तिर्भेद्येत्यत्राह - अनेक इति । क्लृप्तशक्तेश्शब्दस्य प्रयोगविमर्शे हि प्रथमं मुख्यानुसारः । शक्तिपरीक्षायां त्वेकविषये शक्त्या प्रयोगान्तरान्यथासिद्धौ न शक्त्यन्तरं कल्प्यम्, गौरवात् । अन्यथोपचार एव लुप्येत । अस्ति चासाविति गौणमुष्याधिकरणे स्थापितम् । क्वचित्तु अगत्या अनेकशक्तिक्लृप्तिरित्याशयः ।

नैघण्टुकैस्त्वनादृत्य शब्दनिष्कर्षणं गिराम् ।

प्रयोगप्रौढिशिक्षार्थं पठ्यतेऽनेकनामता ।। 203 ।।

यदत्र नियामकतयोक्तं लोकोत्तरबृहत्त्वं, तेनैवैतेन निमित्तेनान्येष्वपि मुख्यत्वं स्यात्, अन्यथा विपरिवर्तः किं न स्यादित्यत्र दत्तोतरत्वमभिप्रयम्, प्रत्यक्षेऽपि विसंवादो येषां कस्स्वयमुत्तरम् । तेभ्यो दद्यादिति ज्ञात्वा वृद्धानां मतमब्रवीत् । इति न्यायात् पुराणोक्तीः निदर्शयति - भगवच्छब्दवत् इति । तत्र शुद्धे महाविभूत्याख्ये इत्यादिना, अन्यत्र

ह्युपचारतः इत्यन्तेन भगवच्छब्दस्य यौगिकार्थपौष्कल्यवत्येव मुख्यत्वमुक्तम् ।

पुराणान्तरेऽपि - भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी च वर्तेते वामुदेवे सनातने ।। इति ।।

दार्ष्टान्तिकमपि गारुडे स्थापितम् - वेदे भूरिप्रयोगाच्च गुणयोगाच्च शाÐङ्गणि । तस्मिन्नेव ब्रह्मशब्दो मुख्यवृत्तो महामुने इत्यारभ्य, यस्मिन्प्रयुज्यमानं तु गुणयोगस्सुपुष्कलः । तत्रैव मुख्यवृत्तोऽयमन्यत्र ह्युपचारतः ।। इ#िति ।।

तापत्रयातुरैरमृतत्वाय स एव जिज्ञास्यः । अतस्सर्वेश्वर एव जिज्ञासाकर्मभूत ब्रह्म । ज्ञातुमिच्छा जिज्ञासा । इच्छाया इष्यमाणप्रधानत्वादिष्यमाणं ज्ञानमिह विधीयते ।

अस्त्वेकत्रैवास्य शक्तिः ; अस्मिन् सूत्रे भेदकाभावादमुख्यत्वं किं न स्यादित्यत्र, नास्ति भेषजमन्यत्र नारायणरसायनात्, वासुदेवं परित्यज्य योऽन्यं देवमुपासते । तृषितो जाह्नवीतीरे कृपं रवनति दुर्मतिः ।। इत्यादिप्रमाणगत्या प्रत्याह - ताप इति । न ह्यत्र मुख्यस्य बाधः, भगवतः स्वतन्त्रस्वामित्वात् । अस्वतन्त्रस्यान्यस्य चायम् अर्थः सिद्धः, जुष्टं यदा पश्यत्यन्यमीशमित्यादिभिस्सोपंबृहणैः परोपास्तेरेव तापत्रयनिवर्तकत्वोक्तेः । स एव मन्तव्योऽन्वेष्टव्य इति विचार्यत्वेन श्रुत इति भावः । अनेकार्थत्वेऽपि ब्रह्मशब्दस्यास्मिन् प्रयोगे असावेवार्थ इत्याह इति विवरणं त्वन्वारोहेऽपि विशेषदाढर्यपरम् । जातिगुणादिनिमित्तत्वबहुरूढत्वपक्षेष्वपि हि समभिव्याहृतपदान्तरोदेरर्थविशेषस्सिध्येत् । यद्वा मुख्यामुख्ययोस्तन्त्रेणानेकार्थत्वानूक्तिः । अमृतशब्देनैवकारेण च तमेवं विद्वानमृत इति, तमेवं विदित्वा इति च वाक्यद्वयसूचनात् द्वयोरविरोधः रव्यापितः । ननु प्रत्यगात्मन्यपि सोऽन्वेष्टव्य इत्यादिदर्शनात्, नात्मा श्रुतेः इत्यादौ तस्यापि निरूपयिष्यमाणत्वाच्च स एवेत्यवधारणमिहाशक्यम् । तदिदं निगमनमुखेन व्युदस्यति - अत इति । शब्दशक्त्या प्रस्तुतार्थस्वाभाव्याञ्चेत्यर्थः ।। तदुभयं सर्वेश्वर इत्यादिपदद्वया भिप्रेतम् । जिज्ञासाकर्मभूतं जिज्ञासया प्राप्तुमिष्टतममित्यर्थः । प्रधानतया ह्यत्र जिज्ञास्यः परः । तद्भक्त्यारोहायाहंग्रहोपास्तौ विशेषणतया बोद्धुं च स्वात्मापि चिन्त्यः । प्रजापतिवाक्यादिषु च प्रत्यगात्मज्ञानं प्रकृतपरविद्यार्थतयैवोच्यत इति वक्ष्यते ।

सन् इहानिच्छार्थः इच्छार्थो वा ? नाद्यः - गुप्तिजिकिद्भ्यस्सन् इत्यादावपाठात् । न द्वितीयः - विचारे विवक्षिते तदिच्छाभिधानविरोधात् सूत्रलक्षणविरोधात्

उपचारायोगाच्च इत्यत्राद्यमनभ्युपगत्यान्त्यं समर्थयितुं विगृह्णति - ज्ञातुमि ति । ननु प्रत्ययार्थप्रधाने जिज्ञासापदे ज्ञानस्य निमग्नत्वान्न विधेयत्वम्, इच्छा तु न पुरुषतन्त्रा, न च सा स्वज्ञानजन्या, विषयानुकूल्यधीनिघ्नतया तदभावे तदनुपपत्तेरप्रतीयमाणत्वाच्चेत्यत्राह - इच्छाया इति । स्वविषयसिद्ध्यर्थतया इच्छारूपक्रिमायाः प्रोक्षणादेरिव स्वकर्मप्रधानत्वं सिद्धम् । धातोः कर्मणः इत्यत्र च धात्वर्थस्य प्राधान्यमार्थं ग्राह्यम् । अप्राप्तमेव विधेयम् । अत इच्छावाचिना तत्संबन्धिविवक्षात्र न युक्तेति भावः । तर्हि ज्ञानमात्रं वाच्यम्, किमजागलस्तनकल्पेन प्रत्ययेनेत्यत्र अधिकमधिकमर्थं सूचयतीति नीत्या प्रत्युक्तिः - इष्यमाणमिति । सन्दिग्धसप्रयोजनविषयतया रागप्राप्तं विचाररूपं ज्ञानं नोपासनादिवद्वैधमिति सूचनात्सार्थकः सन् इत्याशयः । ज्ञान शब्दश्चात्रौचित्यात् उक्तविशेषपरः । रागविषयफलरूपज्ञानमुखेन विचाराक्षेपक्लृप्तिस्तु न युक्ता, धीविलम्बात्, विवक्षितस्य च साक्षाद्वक्तुं शक्यत्वात् ।

इह मीमांसाख्यशास्त्रोत्तरभागारम्भे । एवमेव हि अथातो धर्मजिज्ञासा इत्यादिष्वपीति भावः । ननु रागप्राप्ते विचारे कथं विधीयते इत्युक्तिः, नाप्यत्र गुर्वभिगमनादिनियमांशापेक्षया विध्युक्तिः ; न्यायायुपयोगात्, तादृशनियमनिषेधेन पूर्वपक्षानुत्थानाञ्च । मैवम् - रागप्राप्तस्याप्यनारभ्यत्वभ्रमे तन्निषेधपरत्वादत्र विधिशब्दस्य,

जातापि हि विचारेच्छा पूर्वपक्षोक्तयुक्तितः ।

सीदन्त्युत्तभ्यते युक्त्या सिद्धे व्युत्पत्तिपूर्वया ।। 207 ।।

ग़्ड्ढन्द्य घ्द्धड्ढध्त्दृद्वद्म मीमांसापूर्वभागज्ञातस्य कर्मणः अल्पास्थिरफलत्वात्, उपरितनभागावसेयस्य ब्रह्मज्ञानस्यानन्ताक्षयफलत्वाञ्च पूर्ववृत्तात्कर्मज्ञानादनन्तरं तत एव हेतोर्ब्रह्म ज्ञातव्य मित्युक्तं भवति । तदाह वृत्तिकारः - वृत्तात् कर्माधिगमादनन्तरं ब्रह्मविविदिषा इति । वक्ष्यति च कर्मब्रह्ममीमांसयो रैकशास्त्र्यम् - संहितमेतच्छारीरकं जैमिनीयेन षोडशलक्षणेनेति शास्त्रैकत्वसिद्धिः इति ।

अत्र तापत्रय इहि ग्रन्थे यादवप्रकाशोक्तं पूर्ववृत्तान्तरं साङ्ख्यादिविचारस्यानारभ्यतास्थापनं च विवक्षितमिव प्रतिभाति ; तद्व्युदस्यन् वाक्यार्थमाह - मीमांसा इति । माङ् माने इत्यत्र नातत्वं निपात्य वा, मानपूजायाम् इत्यत्र वा मान्बध इत्यादिना अनिच्छासन्नन्तोऽयं शब्दः । मानेर्जिज्ञासायाम् इहि वैयाकरणोक्तिस्त्वदूरविप्रकर्षात् ; जिज्ञासाविशेषोत्थाप्ये हि पूजितविचारे तदनुबन्धिनि प्रशस्तन्याये वा वृद्धप्रयोगादस्य शक्तिनिष्कर्षः । आहुश्च - मीमांसासंज्ञितस्तर्कस्सर्वो वेदसमुद्भवः इत्यादि । तादृशन्यायनिबन्धात्मनि तु शास्त्रे भाक्तो मीमांसा शब्दः ।

अतः पूर्वापरभागविभागेन ज्ञातत्वावसेयत्वोक्तिरविरुद्धा । अत्र पूर्ववृत्तादित्यादिना वाक्ययोजना । शिष्टं तत्रत्यहेत्वंशसमर्थनम् ।

विचारक्रमनिर्देशः सौत्रस्तद्व्यक्तये त्विह ।

शास्त्रैक्यतत्क्रमौ प्रोक्तौ सूत्रकाराभिसंहितौ ।। 208 ।।

पूर्वभागोपरितनभागशब्दाभ्यां नियतक्रमव्याख्यानरूपप्रबन्धैक्यं व्यज्यते । तन्निदानं व्याख्येयस्य वेदस्य क्रमवत्त्वं पदयोजनायां सशिरस्कशब्देन दर्शितम् । पदवाक्यनिर्वाहयोस्तात्पर्यभेदादपुनरुक्तिः । ज्ञातस्य निर्णीतस्य । अवसेयस्य अबाधितापातधीस्थतया निर्णेतव्यस्य । ब्रह्मज्ञानस्य ब्रह्मोपासनस्य । ब्रह्मस्वरूपमात्रविवक्षायामत्र ज्ञान शब्दाधिक्यात्, ज्ञातस्य कर्मणः इत्येतत्समशीर्षतया साध्यविशेषग्रहणौचित्यात्, विचाररूपस्य निर्णयरूपस्य वा ज्ञानस्य अवसेयत्वोक्त्ययो गात्, निर्दिश्यमानफलं प्रत्यचोदितत्वाञ्च । तदिह समन्वयनीत्या स्वयमनन्ताक्षप फलत्वेन प्रधानतया ज्ञातव्यमपि ब्रह्म स्वोपासनस्यानन्ताक्षयफलसाधनत्वेन तद्विषयतयापि ज्ञातव्यमिति तदुपसर्जनतयोक्तिरपि सुसङ्गता । ब्रह्म ज्ञातव्यमित्यनेन तु तत्प्राधान्यं व्यज्यते । अत्र प्रयोजनवत्तयापातधीस्थत्वं विचार्यत्वे हेतुः । कर्मविचारात् पश्चाद्भावितस्य तु प्रतिबन्धशान्तौ तत्सापेक्षत्वमानन्तर्यस्य च तादृशापेक्षणीयान्तराभावः । अतः श्रुत्युक्तनिर्वेदपूर्तिपर्यन्तविचारविशेषाभिप्रायेण तत एव

इत्युक्तम् । अवधारणमिह हेतुवैकल्प्यनिवृत्त्यर्थम्, सावधारणहेतुनिषेधायोगात् । केचित्तु हेत्वन्तराद्ब्रह्मविचारेऽनावश्यकत्वशूद्राधिकारत्वयोः प्रसङ्गात् कर्मधीव्यतिरिक्तहेत्वनादरोपदेशोऽयम् इत्याहुः । अत्र प्रधानप्रतिज्ञा तद्धेतुः प्रतिज्ञान्तरहेतुश्च नोक्तः स्यादिति बह्वनौचित्यम् । आकाङ्क्षितहेतुपूर्वकसाध्यविशेषायोगव्यवच्छित्त्यैवार्थतः हेत्वन्तरादिनिरासस्तु युक्तः । ज्ञातव्यम् विचार्यमित्यर्थः । विचारः कर्तव्यः इति भाषिष्यते । अत्रार्हार्थे कृत्यप्रत्ययः । कर्मज्ञानादित्यत्रापि ज्ञानं विचारः ।

ब्रह्म ज्ञातव्यमित्युक्तं भवतीत्यनेन स्वारस्यं युकिं्त च सूचयता ब्रह्मैव ज्ञातव्यमिति वाक्यार्थं वदन्तः प्रत्युक्ताः । इदं हि सूत्रमविचार्यत्वनिरासार्थम् । ब्रह्मणो ज्ञातव्यत्वस्य इतः पूर्वमसिद्धतया तदेव ज्ञातव्यमिति नियमो नोदेति । कथं च शब्दानां सिद्धपरत्वसम्भवमसाधयित्वा सिद्धविशेषस्य विचार्यत्वोक्तिः ; समन्वयसूत्रात् तत्साधनम्, साकाङ्क्षयोजना च न युक्ता । अत्र चोदनासूत्रवच्छब्दतोऽर्थतश्चायोगान्ययोगव्यवच्छेदौ वाक्यभेदाभावश्चेत्यप्ययुक्तम्, अनुपयुक्तप्रतिज्ञामात्रानुपपत्तेः । ब्रह्मश्रद्धावर्धकता अन्यनिषधः प्रस्तुतोपयोगी इति च मन्दम् ; तत्प्रतिज्ञानेऽपि हेतुश्चात्रोह्यः ; तदूहे तु ईक्षित्यधिकरणाद्यैस्तर्कपादान्तैस्साधनप्राप्तैः कृत करत्वं च स्यात् । किं च शारीरकेऽनुक्तांशस्य साङ्ख्ययोगावगम्यत्वं वदद्भिः कथमिह तन्निषेधः प्रतिज्ञायते ? वेदविरुद्धांशानादरणीयत्वं तु विरोधाधिकरणतः प्रागेव स्वोक्तौ पदार्थवाक्यार्थौ वृत्त्यापि द्रढयन् तन्मतानुसारे तत्कृतिसंवादं दर्शयति - तदाह इति । अनन्यथासिद्धपूर्वत्वविवक्षया कर्मविचारस्य हेतुत्वमपि वृत्त्यभिप्रेतम्। अधिगम्यतेऽनेनेति अधिगमोऽत्र विचारः । विविदिषोक्तिः जिज्ञासोक्तिवन्नेया ।

स्वोक्तसूत्रार्थसिद्ध्यै सूचितं शास्त्रैक्यमपि संवादयति - वक्ष्यति इति । व्याख्यास्यमानप्रदेशान्तरविषयतया भविष्यन्निर्देशः । ऐकशास्त्र्यमिह न केवलमेकविद्यास्थानत्वम् ; किं तु ऐकप्रबन्ध्यमपीत्यभिप्रायेण संहितत्वोक्तिः । अधीतकृत्स्नवेदार्थरूपविचार्यैक्यसिद्धौ कर्मब्रह्मकाण्डयोः प्रत्येकमपूर्णार्थत्वेन परस्परसाकाङ्क्षत्वात् नष्टाश्वदग्धरथन्यायेन सङ्घटितमित्यर्थः । इयं च वृत्तिः शास्त्रभेदभ्रमहेतून् तत्परिहारांश्च सूचयति - सर्वशरीरिगोचरत्वं दर्शयता शारीरकशब्देन विषयभेदज्ञापनात्, एतत् इति प्रयोजनाधिकारिभेदयोरर्थविरोधसफुरणस्य चाङ्गुल्यैव निर्देशात्। जैमिनीयेन इति

भेदशङ्काद्योतनम् । परिहारस्तु षोडशलक्षणेन इति, द्वादशाध्यायीरूपकाण्डद्वयेन । अत्र कर्मदेवताब्रह्मगोचरा सा त्रिधोद्भभौ सूत्रकारतः । जैमिनेर्मुनेः काशकृत्स्नतो बादरायणादित्यतः क्रमात् ।। इति तत्त्वर

त्नाकरोक्तेश्च वृत्तेश्च क्वचिदुपचारेणाविरोधो ग्राह्यः । षोडशलक्षणेनेति प्रतिबन्दीमभिप्रयतावान्तरविषयादिभेदानां न प्रबन्धैक्यविरोधित्वमिति दर्शितम् । जैमिनीयेन इत्यनेनैवार्थविरोधशङ्का सूत्रतात्पर्यानभिज्ञतयेति सूच्यते । सूत्रयिष्यति हि शारीरकार्थेषु बहुषु जैमिनेस्संवादम् । व्यामोहशान्त्यै धर्मं जैमिनिरत एव इत्यादिषु क्वचिद्विसंवादोक्तितन्निरासौ । परासर्शं जैमिनिः इत्यादौ नैष्ठिकाद्याश्रमाभावो जैमिन्यसूत्रितोऽपि नूनं सकामानां गृहस्थधर्मवैमुख्यनिवारणार्थं कदाचिदुक्तोऽनूद्यापास्तः । अन्यथा तद्भूतस्य तु नातद्भावो जैमिनेरपि इत्यादौ नैष्ठिकाद्याश्रमप्रच्युतिनिषेधस्य जैमिनिसंवादोक्त्ययोगात् । मध्वादिष्वसंभवादनधिकारं जैमिनिः, भावं जैमिनिर्विकल्पामनादित्यादिष्वपि न शास्त्रैक्यविरुद्धानुक्तिः, स्वोक्तव्यारव्याभेदवत्स्वल्पान्यथोक्तेस्तदवि रोधात् । संहितत्वोक्त्या तु कर्तृभेदाभेदयोः यथादृष्टि प्रबन्धभेदाभेदानापादकत्वं रव्यापितम् । अर्थसङ्गतौ सत्यां ह्यन्यतराभिसन्धेरुभयाभिसन्धेर्वा सन्धायकत्वं युक्तम् ।

ब्रह्मसंवाददार्ढ्येन प्रधानार्थाविरोधतः ।

अप्रधानविरोधस्तु तात्पर्यादपनोद्यते ।। 209 ।।

परकल्पितसौधार्धविरुद्धांशव्यपोहतः ।

शेषपूरणवद्वात्र संहितत्वोक्तिसंभवः ।। 210 ।।

अतः प्रतिपिपादयिषितार्थभेदेन षट्कभेदवदध्यायभेदवञ्च पूर्वोत्तरमीमांसयोर्भेदः । मीमांसाशास्त्रम् अथातो धर्मजिज्ञासेत्यारभ्य अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् इत्येवमन्तं सङ्गतिविशेषेण विशिष्टक्रमम् ।

कुतस्तर्हि तद्भेदप्रथा, सति वा भेदे कथं च प्रबन्धैक्यम् इत्यनवहितानुयोगे द्वितीयवृत्त्यभिप्रेतं व्यनक्ति - अत इति । सयुक्तिकसंप्रदायादित्यर्थः । प्रतिपिपादयिषितत्वोक्त्या कर्मकाण्डदेवताधिकरणादेर्देवतातत्त्वनिश्चयरहितानामपि कर्मप्राशस्त्यादिप्रतिपादनपरत्वेन विग्रहादिनिराकरणादौ तात्पर्याभावस्सूच्यते । उक्तं ह्यागमप्रामाण्ये - यथैव हि भगवतो जैमिनेः कर्मणः फलोपन्यासः कर्मश्रद्धासंवर्धनायेति । विवृतं चैतद्वेदार्थसङ्ग्रहे - अश्रुतवेदान्तानां कर्मण्यश्रद्धा मा भूदिति देवताधिकरणेऽतिवादाः कृता इति । अतिवादा अन्यपरोक्तयः । तावताऽपि बाह्योक्तानित्यसंयोगादिनिमित्तश्रुत्यप्रामाण्यशङ्कानिरासात् तत एव स्वाभीष्टसिद्धे- इत्याशयः ।

अपि चैवं नवमाद्यपादे - फलदेवतयोश्च, न चोदनातो हि ताद्गुण्यमिति प्रसक्तयोः फलदेवतयोर्मध्ये देवताविषयाणि देवता वा प्रयोजयेदित्यादीनि सूत्राणि यानि, तानि व्याकुर्मः - देवतोद्देशेन देयं द्रव्यं देवता न प्रयोजयेत् ; कुतः, कृष्यादिवत् फलसाधनभूतक्रियाया एव प्रयोजकत्वोपपत्तेः । तत्राह - देवता वा प्रयोजयेदतिथिवद्भोजनस्य तदर्थत्वादिति । वाशब्दश्शङ्कानिवर्तकः ; हविरुद्देश्या देवता फलार्थिनं स्वाराधने प्रयोजयेत् । कुतः, भोजनस्य तदर्थत्वात् ; भोजनस्य हविषः तत्समर्पणस्य च तदर्थत्वात् तच्छेषत्वात् । सम्प्रदानभूता हि देवता प्रधानतया स्वार्थे द्रव्यतत्समर्पणे प्रयुङ्क्ते ।

क्रियाप्रधानवाक्येषु न्यग्भूतापि हि देवता ।

तत्तन्मन्त्रादिसामर्थ्यादार्थप्राधान्यशालिनी ।। 211 ।।

न च वाच्यं विग्रहादिपञ्चकायोगात् न प्रयोक्ती देवतेति ; स्मृत्युपचारान्यार्थदर्शनैरबाधितैस्तत्सिद्धेः । अतो यथा विग्रहादिमानतिथिराराध्यः स्वार्थे स्वाभीष्टमुपचरणं प्रयुङ्क्ते ; तथा देवतापीति । आर्थपत्याञ्च - अर्यते प्राप्यत इत्यर्थः विभूतिः, अर्थ्यत इति वा । अतस्तदभावादनाराध्या अनीप्सितप्रदत्वादप्रयोजिकेति न शङ्कनीयम् ; परा खलु देवता सर्वस्येष्टे ; तन्नियुक्ता चापरा यथाधिकारं तत्तद्विभूतीनाम् । तथाऽपि निरपेक्षा देवता न कुतश्चित् प्रीयेत, न कञ्चन प्रीणाति ; अतः कथं प्रयोजिकेत्यत्राह - ततश्च तेन सम्बन्धः । ततः नैरपेक्ष्येऽपि नरदेवनीत्या दयौदार्यशालिन्याः परिचर्यमाणायाः प्रसेदुष्या देवताया एव हेतोः परिचरताः स्वाभीष्टफलेन सम्बन्धः स्मृत्युपचारादिभिरेवं सिद्ध इति पूर्वः पक्षः । राद्धान्तस्तु- अपि वा शरब्दपूर्वत्वाद्यज्ञकर्म प्रधानं स्यात् । अत्र अपि वा इति सार्धाङ्गीकारं पक्षव्यावर्तनम् । यद्यपि देवताया विग्रहदिपञ्चकं दुर्निषेधम्, द्रव्याद्यपेक्षया संप्रदानस्य प्रधान्यम्, यजेञ्च देवताराधनवाचितया यागस्य तादर्थ्यं, सिद्धपरवाक्येषु च परावरदेवतयोः स्वरुपादिकमनन्यार्थमामनामः ; तथाऽपि कर्तव्योपदेशेषु यज्ञादिरूपं कर्म स्वर्गादिफलसाधनतया चोदितत्वात् प्रधानं सत् साध्यतया बुद्ध्यारोहेण पुरुणं प्रवर्तयति, कृत्स्नं च देवतादि क्रियाशेषभूतम् ।

ननु फलप्रदाया देवताया आराध्यत्वेन प्राधान्यमनुशोश्रूयामहे, अत्राह - गुणत्वे देवता श्रुतिः । हविष्प्रदानं प्रति

गुणीभूतां हि देवतामनुश्रृणुमः ; मन्त्रार्थवादोपस्थापितं देवताप्रीतिरुपमपूर्वं चोदितस्य कर्मणः क्षणिकस्य कालान्तरभावि फलद्वारतया उपादीयेत ; अतो वास्तवप्राधान्यशालिन्यपि देवता फलकामप्रवर्तक शाब्दप्राधान्यवत्क्रियागुणीभूता

न प्राधान्येन प्रयोजिकेति । अतिर्थेस्तर्हि कथं प्रयोजकत्वम् इत्थमित्याह - अतिथौ तत्प्रधानत्वमभावः कर्मणि स्यात् । आतिथ्यं प्रत्यतिथेः प्रधानत्वं प्राप्तम् ; अन्यथा हि तदर्थे कर्मणि प्रयोजकाभावात् तदभावः स्यात् । तत्सपर्याविधिरेव तत्प्रयोजक इति चेत् तत्र प्रत्याह - तस्य प्रतिविधा नत्वात् । आतिथ्यकर्मणो हि अतिथ्यागमनप्रतिविधानतयैव चोदना ।

क्रीयाप्रयुक्तपुरुषसमाहूता तु देवता ।

संनिधत्ते तदिष्टर्थं न ततस्तत्प्रयुक्तता ।। 212 ।।

अतिथिस्तु स्वयं प्राप्तः स्वाभीष्टं च प्रयोजयेत् ।

तदिष्टानुविधानेन तत्सपर्यार्थचोदना ।। 213 ।।

अतः प्राप्ताप्राप्तविवेकादतिथिप्राधान्योक्तिरिति । यथा चातिथेर्विग्रहादिमत्त्वे तदुपचरणानुष्ठानस्य न कदाचित् क्षतिः, प्रत्युत स्वरूपलाभ एव ; एवं देवतायास्तद्वत्त्वेऽपि न चात्र तत्प्रतिक्षेपसाफल्यं पश्यामः । गुणीभावसाधनेऽपि किं फलमिति चेत्, अनिर्धारितवास्तवप्राधान्यानामपि कर्मश्रद्धासंवर्धनमिति ।

सूत्रेषु तावदेतेषु पूर्वपश्चिमपक्षयोः ।

देवताविग्राहदेर्न प्रतिक्षेप्यत्वसूचनम् ।। 214 ।।

शाबरे पूर्वपक्षोक्तदेक्ताविग्रहादिषु ।

स्वतः प्रामाण्यवेदिभ्यः स्वदते न निराकृतिः ।। 215 ।।

स्मुत्योपचारादन्यार्थदर्शनैश्च स्वभाषितम् ।

न वाङ्मात्रेण निह्नोतुं शक्यते नास्तिकेतरैः ।। 216 ।।

अदर्शनकुतर्काभ्यां श्रुतार्थानामपह्नवे ।

चार्वाकादिमतापत्त्या सर्वोपल्पवसम्भवः ।। 217 ।।

श्रुतानां विग्रहादीनां रल्प्यतोक्तिश्च मोहजा ।

श्रुतशक्त्याद्यभावस्य कल्पने गौरवं तु वः ।। 218 ।।

क्षणिकस्य फलद्वारं किं भवेदिति चिन्तने ।

द्वारक्लृप्तेर्वरं ह्यत्र श्रुतद्वारपरविग्रहः ।। 219 ।।

देवतानां क्रियार्थत्वं कर्मणां च तदर्थता ।

मुखभेदेन सिद्धत्वान्न मिथो बाधमर्हतः ।। 220 ।।

आदित्यादिमतीरङ्गे स्थापयन्बादरायणः ।

देवतानां प्रधानत्वमर्थसिद्धमसूत्रयत् ।। 221 ।।

नासिद्धदेवतारूपदृष्टिश्चान्यत्र युज्यते ।

न च सर्वत्र निर्बाधे कल्प्यो दृष्टिविधिक्रमः ।। 222 ।।

देवतानां तपश्चर्याद्युक्तिश्च न विरुध्यते ।

स्वाधिकेश्वरतोषार्थप्रवृत्तेरुपपत्तितः ।। 223 ।।

प्रशासितुश्च घुणया धर्मसंस्थापनार्थिनः ।

तत्तद्धर्मप्रवृत्तिस्स्यात्कर्मवश्यानुसारिणः ।। 224 ।।

तिर्यक्स्थावरनिर्जीवतत्प्रतीकगुणक्रियाः ।

अभिमत्यनुबन्धेन देवतास्तदपि श्रुतम् ।। 225 ।।

हविर्भेदानुसारेण फलभेदप्रदायिता ।

प्रतिषिद्धैः प्रकोपश्च राजादिन्यायतो भवेत् ।। 226 ।।

यदि श्रुत्यनुसारेण स्वभावो हविरादिषु ।

तेनैव तत्तदाराध्यस्वभावस्वीक्रियोचिता ।। 227 ।।

मन्त्रार्थवादसिद्धेऽपि यत्र बाधा न दृश्यते ।

तन्मूला स्मुतिरप्यत्र न बाधार्हा स्वमूलवत् ।। 228 ।।

पर्याये च विशिष्टे च देवताभेदकल्पनम् ।

तत्तच्छब्दोपधानेन तदुद्देश्यत्वसिद्धये ।। 229 ।।

अविदित्वा स्वमन्दत्वं नास्तिकैरास्तिकेष्विह ।

यैरजल्प्यत मन्दत्वं शोच्यास्ते सूक्ष्मदर्शिभिः ।। 230 ।।

द्रव्यदैवतसामान्ये बलीयो द्रव्यमित्यपि ।

प्रत्यक्षे च परोक्षे च प्रमाणप्रस्थितेर्वशात् ।। 231 ।।

द्रव्यस्याध्यक्षसिद्धस्य हविष्ट्वं शास्त्रगोचरः ।

देवतायास्स्वरुपं च धर्मत्वं चेति भेदतः ।। 232 ।।

प्रत्यक्षाद्युपजीवित्वाच्छास्त्रतो धीर्विलम्बिता ।

ततो हि परदौर्बल्यं श्रुतिलिङ्गादिकेष्वपि ।। 233 ।।

द्रव्यदैवतवैषम्यं न सत्यासत्यभावतः ।

दैवतं यदि मिथ्या स्यात्कथं भेदादिधर्मभाक् ।। 234 ।।

अर्थोपश्लिष्टशब्दात्मा शब्दमात्रात्मिकापि वा ।

यथा श्रुतगृहीता वा सत्यैव खलु देवता ।। 235 ।।

मणिमन्त्रोषधाद्यैश्च सिद्धिरुक्ताभ्युपेयते ।

जन्मसिद्धापि साधीता किं न देवेषु गृह्यते ।। 236 ।।

न वस्तुदेशान्तरयोर्देवदृष्टिविधानवत् ।

इह कल्पयितुं युक्तं र्वरुपविधिसौस्थ्यतः ।। 237 ।।

रात्रिसत्रादिनीत्या च विध्यपेक्षानुसारतः ।

फलदाः फलभूतत्वादपि सिध्यन्ति देवताः ।। 238 ।।

इत्थं प्राचीनया गत्या क्षिप्तं निर्दैवतं मतम् ।

शेषं तदुपरीत्यादिसूत्रभाष्ये भविष्यति ।। 239 ।।

द्रमिडभाष्यकारैरप्युक्तम् - अञ्जसैव विश्वसृजो रूपमित्यारभ्य, न ह्यरूपाया देवताया रूपमुपदिश्यते, यथाभूतवादि हि शास्त्रमिति । नन्वर्थवादानां विधिशेषत्वं पूर्वत्रोक्तम् ; समन्वयाधिकरणे त्वन्यथा ; तत्कथमविरोधः ? इत्थम्- उत्सर्गापवादतः प्रवृत्तेः । दृष्टं चैतच्छास्त्रान्तरे काण्डान्तरे च । एवमन्यत्रापि कुदृष्टिकल्पितो विरोधः शमयितव्यः । षट्कभेदवत् इति कर्मकाण्डे प्रतिबन्दी, अध्यायभेदवत् इति तु काण्डत्रयेऽपि ; चकारोऽत्रानुक्तपादादिसमुञ्चये । देवताकाण्डाच्छरीरकस्य पृथक्करणं च तत्पृथक्करणप्रतिबन्द्या निरूढम् । अथ विन्नक्रमत्वभिन्नप्रबन्धत्वव्युदासं वृत्तिसिद्धं व्यनक्ति - मीमांशाशास्त्रम् इति । सङ्गतिविशेषेण हेतुहेतुमद्भावादिना सम्बन्धेनेत्यर्थः । स च विंशतिलक्षण्यामेकप्रयोजन साधनत्वेनैकप्रयत्नसाध्यत्वमिति विवरणम् । इदं च ऐकप्रबन्ध्यव्यक्त्यर्थम् । विशिष्टक्रमम् उ नियतक्रमम् ; न हि शास्त्रान्तरवदवसरमात्रादिह क्वापि क्रम इत्याशयः । तत्र विशेषः --

विचारात्पूर्वमेवात्र प्राप्तमध्ययनं विधेः ।

अतोऽनधीतवेदस्य विचारश्श्रुतिवारितः ।। 240 ।।

क्रमो विंशतिलक्षण्या न वैधः किंतु यौक्तिकः ।

अतो व्युत्क्रमचिन्तायामनौचित्यं प्रकाश्यते ।। 241 ।।

आरभ्य इत्यनेन धर्मजिज्ञासासूत्रे कृत्स्नवेदार्थविचारप्रतिज्ञा सूच्यते, धर्मशब्देन

सिद्धसाध्यपरावरकृत्स्नधृतिहेतुसंग्रहात् । कर्मभागमात्रप्रतिज्ञापि तत्रैव तन्त्रतः आवृत्त्या वा सिध्येत् । तावतैव सारे कर्मविचारार्थत्वोक्तिः । भागद्वयप्रतिज्ञाभ्यां सामान्यप्रतिज्ञा गम्या ; न्यायसूत्रे साधर्म्यवैधर्म्यसमोक्त्या प्रतिधर्मसमोन्नीतिवत् । तदेतत्सव सङ्गतिमालायामुक्तम् । न च वाच्यम् आद्यप्रतिज्ञयैव कृत्स्नसिद्धौ किं भूतो विशेषप्रतिज्ञयेति ;

शङ्काविशेषोद्धारादिप्रयोजनवशात् प्राचीनाध्यायेष्ववात्रापि तदुपपत्तेः । न चायम् अथातो धर्मजिज्ञासा इत्यादिरप्रस्तुतार्थः ; यथान्यत्र सङ्गत्या क्रमनियतिस्तथात्रेति तात्पर्यात् । अत्र ह्यमानकस्यानिरूप्यतया प्रमाणलक्षणेन प्रथमेनाभावि । कार्त्स्न्येन वेदस्य प्रामाण्ये सिद्धे तदर्थेषु भेदाभावेऽङ्गत्वादेस्सर्वस्यायोगात् मानचिन्तानन्तरं शास्त्रार्थभेदचिन्ता प्रावर्तिष्ट ; शास्त्रभेदचिन्तेत्येके । तत्र शब्दान्तराभ्याससंक्यागुणप्रक्रियानामधेयैः सिद्धे भेदे श्रुतिलिङ्गवाक्यप्रकरणस्थानसमारव्याभिः शेषलक्षणं प्रवृत्तम् । शेषाणामेव शेषिभिः प्रयोज्यत्वाय चतुर्थे क्रत्वर्थपुरुषार्थजिज्ञासा, विध्यपेक्षारूपोपादानचिन्तेति केचित् । प्रयुक्तेषु श्रुत्यर्थपाठप्रवृत्तिमुख्यकाण्डैः पञ्चमे क्रमोऽनुक्रान्तः । सक्रमे शास्त्रार्थे स्थापिते तत्प्रयोक्ता षष्ठे प्रोक्तः । एवमुपदिष्टप्रकृतिनिश्चये विकृतावतिदेशस्सामान्यतः सप्तमे स्थापितः । अष्टमेऽपि तदनुबन्धिविशेषः । अतिदिष्टमन्त्रादीनां नवमे बहुविध ऊहः । अतिदेशप्राप्तेषु क्वचित्प्रयोजनाभावादन्यतो वा तल्लाभात्प्रतिषेधतो वा दशमे बाधः । उक्तेषु पृथक्प्रयुक्तिशक्तिमदुभयगोचरत्वे देशकालाद्यैक्ये चैकादशे तन्त्रम् । द्वादशेऽपि कस्मिंश्चित्प्रयोगमध्यपातिन्यन्यस्मिंस्तत्प्रयोगोपजीविनि प्रसङ्ग इति । तदिदं सञ्जगृहुः - धर्मधीमानभेदाङ्गप्रयुक्तिक्रमकर्तृभिः । सादिदेशविशेषोहबाधतन्त्रप्रसक्तिभिः ।। इति । एवं तर्किते कर्मणि सङ्कर्षकाण्डे चतुर्लक्षण्या तत्तत्कर्माराध्यदेवतैव स्वरूपमेदगुणप्रकर्षैः निरकृष्यत । तत्समाप्तौ च अन्ते हरौ तद्दर्शनात् स विष्णुराह हि तं ब्रह्मेत्याचक्षते तं ब्रह्मेत्याचक्षते इति विचारयिष्यमाणमुपचिक्षिपे इति तत्त्ववृद्धाः । ततोऽन्तिमे काण्डे सद्वारकमद्वारकं च यथार्हं द्वादशलक्षण्युक्तसर्वधर्मसमाराध्यमनन्तरचतुर्लक्षण्यवधारितसर्वदैवतशरीरकं परं दैवतं परीचिक्षिषितम् । तत्र सर्वेषां कारणवाक्यानामयोगान्ययोगव्यवच्छेदेन ब्रह्मणि समन्वयः प्रथमेऽध्याये प्रतिपाद्यते । तदुक्तं न्यायसुदर्शने - व्युदस्याविषयत्वान्यविषयत्वे समन्वयः । वाक्यानां ब्रह्मणि प्राच्याध्यायेनेह प्रदर्श्यते ।। इति । तत्र शङ्कितविरोधोद्धूननं द्वितीयेऽध्याये । ताभ्यां स्थापिति ब्रह्मण्युत्पत्तिक्रमात्तृतीयचतुर्थाभ्यां साधनफलशोमनमिति विंशत्यध्याय्या विशिष्टक्रमत्वं दिङ्मात्रम् । हन्तैवमत्र कथं षोडसचतुष्कपौर्वायर्यम् ? व्युत्क्रमेऽपि हि न

विरोधः, वेदप्रामाण्यादिकं तूपजीव्यमपि यथास्थानं शारीरके निबन्धुं शक्यम्, तावन्मात्रं वा संश्रुत्य ब्रह्मचिन्ता स्यात् ; मैवम् - अस्ति ह्यनाद्यभ्यस्ते त्रिवर्गे कर्मकृत् प्रथममा दोषदर्शनादभिनिविशत इत्यर्थक्रमः । उभयत्र परिमितापरिमितफलापातप्रतीत्यविशेषेऽपि अत्के चेन्मधु विन्देत इति न्यायात् कर्मसापेक्षविद्याप्रयासतो वरं तन्नैरपेक्ष्यनिर्धूतविकल्पतत्समफलकर्मचिन्ता प्रथममिति च । यज्ञादिपदार्थसापेक्षश्च तदङ्गकवाक्यार्थधीबोधः । विद्याभेदेषु तत्र तत्र यज्ञतदवयवदृष्टिविधिविमर्शश्च दृष्टिविशेषणनिर्धारणापेक्षः । इष्टकचितादिदृष्टान्तधियश्च दार्ष्टान्तिकोपजीव्याः । कर्मब्रह्मप्रचुरस्वाध्यायभागस्या नादिसम्प्रदायनियताध्ययनसंस्कारक्रमेण तद्विचारक्रमोऽपि युक्तः । स चात्र मुख्यक्रम एव, कर्मोपासनारूपाङ्गाङ्ग्युत्पत्तिक्रमाञ्च । तथा चोक्तं न्यायसुदर्शने - कर्मविज्ञानयोर्हेतुहेतुमद्भावसम्मतेः । प्राग्भावः कर्मणः सिध्येत् पश्चाद्भावोऽपरस्य च ।। तयोश्च क्रमवत्त्वेन तद्विचारौ च तादृशौ । मुख्यक्रमनयादेव स्यातां सारस्वताङ्गवत् ।। यथा सारस्वतौ भवत एतद्वै दैव्यं मिथुनम् इत्यत्र युगलोत्पन्ने यागद्वये कस्याङ्गानां प्राथम्यमित्यनिर्णये सरस्वतीयागस्य याज्यानुवाक्याभ्यां प्राथम्ये सिद्धे तत्क्रमेण तदङ्गानामेव प्राथम्यमुक्तम् - मुख्यक्रमेण वाङ्गानां तदर्थत्वादिति ।

पूर्वकाण्डप्रसिद्धानां न्यायानामीह संग्रहात् ।

ब्रह्मकाण्डो वृथेत्येतत्प्राच्याध्यायेष्वपि स्मर ।। 242 ।।

व्युत्पादनमपूर्वाणामाक्षिप्य स्थापनं तथा ।

अपवादः क्वचिच्चेति सार्थत्वमिह च स्थितम् ।। 243 ।।

ननु यदि अनावृत्तिश्शब्दात् अनावृत्तिश्शब्दात् इत्यन्ता मीमांसा ; तदा शारीरकस्य विरक्ताधिकारत्वस्वीकारात्, तत्र निर्दोषानन्तफलनिश्चयाञ्च न स्वर्गादिफलसाधनानुष्ठाता कश्चित्सिध्येत्, ततश्च काम्यविधीनामननुष्ठालक्षणमप्रामाण्यं स्यात् ; मैवम् - मोहाद्विघ्नाद्वा यः कर्ममात्रं विचार्य विश्रान्तः, यश्च ख्यातिलाभपूजाप्रवचनादिमात्रकामस्त्रय्यन्तार्थं चिन्तयेत्, यो वा पश्चान्नियतिवशान्निवृत्तवैराग्यः, ते श्रुतशारीरका अपि प्रवृत्तिधर्मं च जह्युः ।।

पण्डितोऽप्यातुरः कश्चिदपथ्येषु प्रवर्तते ।

निषिद्धेष्वपि किं नैवं काम्यं प्राज्ञेऽपि सम्भवेत् ।। 244 ।।

कथ्यन्ते च महान्तो।पि कामादुभयभावनाः ।

क्रममुक्तिश्च केषांचित् तत् एवाभिधीयते ।। 245 ।।

तथाहि - प्रथमं तावत् स्वाध्यायोऽध्येतव्यः इत्यध्ययनेनैव स्वाध्यायशब्दवाच्यवेदाख्याक्षरराशेर्ग्रहणे विधीयते ।

प्रकृतस्यैकशास्त्र्यस्य ब्रह्मचिन्तोद्यमस्य च ।

क्रमादेश्चोपपत्त्यर्थं तथाहीत्यादि भाष्यते ।। 146 ।।

अत्र कर्मविचारात्प्रागपि ब्रह्मविचारस्स्यादिति पश्यन्किमध्ययनादपि तस्य पूर्वत्वमिच्छति, उताधीतवेदस्य कर्मनिरूपणात् प्राच्यत्वमिति विकल्पं हृदि निधाय आद्यं निषेधति - प्रथमम् इति । तावच्छब्दोऽध्ययनानन्तर्यस्य सर्वसम्मतिं दर्शयति इति विवरणम् । एतेन विचारस्याध्ययनानन्तरभावित्ववद्वत्याख्येयस्यैकविधिसिद्धाघ्ययनसंस्कारगोचरनियतक्रमैकप्रबन्धत्वम्, अध्ययनस्य विधिबलात्कृत्स्नस्वाध्यायविषयत्वम्, तत एव तद्विचारस्य तथात्वं च यथावत्कर्मब्रह्मचिन्तकैस्सर्वैः दुस्त्यजमिति व्यज्यते । अवधारणार्थो वा तावच्छब्दः । तेन चाष्टवर्षाद्युपनीनस्यानन्तरं शौचाचारशिक्षणपूर्वकेण नियतेनाध्ययनेन शास्त्रान्तरावसरनिरोधात् तन्मूलत्वेन सम्भावनीयसाधनचतुष्टयादिपूर्ववृत्तान्तरनिरासः । स्वाध्यायोऽध्येतव्यः इति स्वविधिं गृह्णता तत्प्रयुक्तिरभिप्रेता । अध्ययनेनाक्षरराशिग्रहणम् इत्येनेन संस्कारलाभस्सूचितः । एवकार इह नियमस्य फलितत्वं द्योतयति । यद्यप्यकरणे प्रत्यवायान्निमित्तादृष्टेश्च नित्योऽयमध्ययनविधिः, तथापि दृष्टस्य फलस्यापरित्याज्यतया तत्स्वीकारार्थदध्ययनादक्षरराशिग्रहणे सत्यन्यस्य ग्रहणहेतोर्नात्रावकाशः । अध्ययनस्य नियोगार्थत्वं वदतापि ह्यर्थात्पुस्तकपाठादि प्रतिषेध्यम् ; अत एव हि लिखितपाठकनिन्दापि । स्वाध्यायशब्दवाच्य इत्यादिभिस्त्रिभिः स्वशारवैकदेशमात्रं वा विचार्यो वेदार्थो वा न स्वाध्यायशब्दवाच्य इति व्यज्यते ; यथाक्रमाध्ययनं परम्पराप्राप्तं विध्यनुमतमिति च भावः । ग्रहणं विधीयते फलत्वेन बोध्यते, सम्भवदुपायान्तरं फलमिदमुपायविशेषतो नियम्यत इत्यर्थः ; यत एवकारस्ततोऽन्यत्र हि नियमः । यद्यप्यक्षरग्रहणस्यान्यतोऽपि शक्यत्वान्न स्वरूपतो नियमः, तथापि जापाद्युपयोगोऽध्ययनगृहीतेनैवेति नियमोपपत्तिः । अर्थज्ञाने नियमं वदतामप्येवमेव निस्तारः ।

तञ्वाध्ययनं किंरूपम् ? कथं च कर्तव्यमित्यपेक्षायाम् अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयेत् इत्यनेन, श्रावण्यां प्रौष्ठपद्यां वा उपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान् विप्रोऽर्धपञ्चमान् ।। इत्यादिव्रतनियमविशेषोपदेशैश्चापेक्षि

तानि विधीयन्ते ।

नन्वध्ययनविधिना स्वाध्यायस्याध्येतव्यत्वमात्रं प्रतीयते । न तावता साधनचतुष्टयसंपत्त्यादिहेतुभूतशास्त्रान्तरावसरनिरोधः ; ततः पश्चादप्यध्ययनोपपत्तेः । निरङ्गं वा सकृदधीत्य वा शास्त्रान्तरमभ्यस्यतामित्यत्राध्ययनस्वरूपकालाधिकार्यादिकं व्यनक्ति - तदिति ; सर्वसंमतनित्यविधिसिद्धमाद्याध्ययनमित्यर्थः । किंरूपं - किं जपादिवत्स्वतन्त्रोञ्चारणम्, उतानूञ्चारणम्, किं वापन्यायमूलं गौडाध्ययनवत्, पारायणवञ्चानावृत्तम्, उतावघातवञ्चावृतत्तमित्यर्थः । रूपशब्देन फलग्रहमम् इति तूलिकाया अपि यावद्ग्रहणमावृत्तरूपत्वे तात्पर्यम् । कथम् इति इतिकर्तव्यतापरम् । अध्यापनार्थशङ्कार्हस्योपबृंहणीयस्य अध्ययनार्थतया सम्प्रतिपन्नानामुपबृंहणानां च विशेषमैकरस्यावश्यंभावं चाभिप्रेत्य अनेन उपदेशैश्च इति विभज्य निर्देशः । उपाकृत्याधीयीत इत्येतत्, उपनीतोऽधीयीत इति श्रुतितात्पर्यक्लृप्तेः स्थापकम् । उपनीतस्य ह्यध्ययनार्थतयोपाकर्मादि निर्दिश्यते । युक्तः - अवहितः, व्रतादियुक्तो वा। अर्धं पञ्चमं येषां ते अर्धपञ्चमाः । आदिशब्देन अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ।। इत्यादीनि प्रागुक्तसाङ्गाध्ययनानुगुणवचनानि गृह्यन्ते । व्रतविशेषाः सोपाकृतयः प्राजापत्यसौम्यादयः । नियमविशेषाः शुक्लकृष्मपक्षार्धपञ्चममासादिविभक्ताङ्गाझ्र्ङ्ग्यटध्ययन कालभेदविषयाः, शूद्रसमीपे नाध्येतव्यमित्याद्युक्तदेशादिविषयाश्च ।

एवं सत्सत्नानप्रसूतसदाचारनिष्ठात्मगुणोपेतवेदविदाचार्योपनीतस्य व्रतनियमविशेषयुक्तस्य आचार्योञ्चारणानू ञ्चारणरूपमक्षरराशिग्रहणफलमध्ययनमित्यवगम्यते ।।

ननु उपनयीत तमध्यापयेत् इति श्रुत्या आचार्यकर्तव्यताश्रुतौ कथमध्ययनापेक्षितविधिः, कथं चात्रोपत्तश्रुत्यादेरपि शास्त्रान्तरावसरनिरोधादिसिद्धिरित्यत्राह - एवम् इति । प्रदर्शितश्रुतिस्मुतिसहकृतस्वविधिसिद्धसाङ्गाध्ययनविधानप्रकारेणेत्यर्थः । अभिजनविद्यासमुदेतमित्यादिभिराचार्य

गुणग्रहणान्नाध्यापनविधिपरत्वं शङ्क्यम्, ऋत्विग्गुणोक्तिन्यायादित्यभिप्रायेण सत्सन्ताने त्याद्युक्तिः । अत्र आचारात्मगुणौ समाहितशब्दाभिप्रेतौ । वेदवित् इति विद्यासमुदेतत्वविशदीकरणम् । निषिध्यते च अयोग्यादध्य यनम् ; तद्गुणहानौ प्रतिसमाधीयते च । तथा च तमसो वा एष तमः प्रविशतीत्यादिभिः शिष्यस्य हानिरुक्ता । संस्कर्तारमीप्सेत्, तस्मिंश्चैव विद्याकर्मान्तमित्यादिना च तद्गुणानां माणवकार्थत्वं व्यक्तम् । यथा अध्यापनविधि

वादिनामष्टवर्षत्वादिमाणवकविशेषणमाचार्यार्थम्, तद्वत् आचार्यविशेषणं माणवकार्थमिति प्रतिबन्दीसूचनाय व्रतनियमविशेषयुक्तस्य इत्याद्युदाहृतम् ; षष्ठ्यन्तपदाभ्यामधिकारिस्यापि नियमविशेषत्वादष्टवर्षाद्युपनीतस्याध्ययनविध्यवरुद्धत्वाञ्च । आचार्योञ्चरणानूञ्चारणम् इत्यनेन स्वतन्त्रोञ्चारणं विचारस्याध्ययनशास्त्रार्थानुप्रवेशशङ्का चापास्यते । उपनयनस्य यथा अध्यापनानुगुणशिष्यासत्तिर्दृष्टफलतयोपकारिका मतान्तरे, तथा अनूञ्चारणानुगुणप्रत्यासत्तिरस्मिन्मते । स्यादिति च भावः । अस्मिन्प्रथमाध्ययने अवघातन्यायात्सकृदसकृद्द्विस्त्रिरित्यादिविशेषानादरेण यावत्फलमावृत्तेरर्थसिद्धिमभिप्रेत्याह - अक्षरराशिंग्रहणफलम् इति । अनेन अक्षरग्रहणकामत्वमधिकारिविशेषणमित्यपि व्यञ्जितम् ।

फलत्वेनाश्रितस्यापि तथात्वं वितुषत्ववत् ।

उपयोगश्च यागादौ ग्रहणस्यापि दुस्त्यजः ।। 247 ।।

विधितोऽनुज्ञया वार्थज्ञानं फलमिहेच्छता ।

फलानुबन्धान्नित्यत्वं प्रहीयेतेति दुर्वचम् ।। 248 ।।

ये तु पूर्वपक्षे नित्याध्ययनविधौ विश्वजिन्न्यायात्सर्वाविशिष्टं स्वर्गं फलमिति कल्पयन्ति, सिद्धान्ते चार्थज्ञानम् ; तेऽप्यनेन प्रतिचिक्षिपिरे । अक्षरग्रहणस्य हि दृष्टस्य सुखादन्यस्याप्यर्थज्ञानादेरिव सुखादिपर्यवसानात्फलत्वं युक्तम् । तदेवम् अनूञ्#ारणम्, अक्षरराशिग्रहणफलम् इत्युभाभ्यां किंरूपमिति बुभुत्सितमाद्याध्ययनभावार्थस्वरूपं प्रदर्शितम् । तथा च विवरणम् - एकफलावच्छिन्नक्रियाक्षणनिचये हि धातोर्वृत्तिः, यथा ओदनं पचदीति ; इतरथा वर्तमाननिर्देशभङ्गप्रसङ्गात् । प्रारब्धोऽपरिसमाप्तो हि वर्तमानशब्दार्थः । क्षणभङिगिन्यास्तु क्रियाया धात्वर्थत्वे शब्दप्रयोगात्पूर्वमेव झ्र्जाटज्ञातस्य क्रियाक्षणस्य नष्टत्वादुत्तरस्य च भविष्यत्त्वात्समकालस्याजाझ्र्ज्ञाटततया शब्दाविषयत्वाञ्चाक्षुषत्वेऽपि क्षणध्वंसादादिमध्यान्तानिरूपणाञ्च न प्रारम्भापरिसमाप्त्योः सिद्धिरित्यतो ग्रहणफलावच्छिन्नक्रियाक्षणनिचयेऽध्ययनशब्दस्य वृत्तिरित्याहेति । अध्ययनस्याचार्योपनीतकर्तृकानूञ्चारणत्वोक्तिः उपनयीत, तमध्याययेदित्युभाभ्यामाचार्यकर्तृकोपनयनादिपूर्वकत्वं विधीयत इति व्यनक्ति ।

ननु अध्यापयेदिति वृत्त्युपायनियमार्थत्वं स्यात् । मैवम् - अनुपनेतुरपि तदर्थाध्यापनदृष्टेरुपनयनविधाननैरर्थक्यात् । नाप्युपनीतमेवाध्यापयेदिति क्रमनियमोऽपि, तथाऽह्यष्टवर्षं ब्राह्मणमित्यादेरनपेक्षितवचनत्वप्रसङ्गात् । अन्यार्थमिह तदुपदेशस्त्व सङ्गत एव । न चात्र उपनीतौ नियमः शङ्क्यः, तत्प्रापकान्तरादष्टेः । स्मुतिर्दृश्यत इति चेन्न, अष्टवर्षाद्युक्तेरनुपयोगा

देव । न चात्र वृत्त्युपायद्वयोक्तिः ; उपनयनस्य तदुपायत्वेनापरिसंख्यानात् । तथात्वेऽपि प्रापकाभावेन नियमानुपपत्तिरुक्तैव ; दत्तोत्तरत्वाञ्च । अतोऽध्ययनापेक्षितविधिरेवायम् । प्रयोजके चात्र विधिः याजयेत् इतिवत्स्यात् । अध्यापनमपि हि याजनवद्वृत्त्यर्थतया प्राप्तत्वान्न विधेयम् । तदत्र अष्टवर्षो ब्राह्मणः स्वाध्यायग्रहणकाम उक्तप्रकाराचार्योपनीतस्तदुपगत्या यथोक्तव्रतनियमवानधीयीत इति सोपबृंहणाद्याध्ययनशास्त्रार्थस्थापना । अत एव अध्ययनविधौ नियोज्याश्रवणादन्यप्रयुक्तानुष्ठानत्वक्लृप्तिरयुक्ता ; अध्यापनविधावप्यश्रवणाञ्च क्लृप्तेश्चोभयत्राविशेषात् । न चेह तत्क्लृप्तिः ; ब्राह्मणमित्यादेः प्रजाकामादिमद्विभक्तिविपरिणाममात्रेण तत्सिद्धेः विप्रोधीयीतेति स्मृत्यनुग्रहाञ्च । बालस्य स्वाधिकाराज्ञानान्न स्वविधिप्रयुक्तिरिति चेन्न, निषादस्थपतिन्यायादन्यैस्तदभिज्ञैरनुष्ठानोपपत्तेः । हितैषिण एव हि बालादीनामविदितस्वाधिकाराणां जातकर्मादिसंस्कारानपि स्वयंविदितोपयोगाः कुर्वन्ति । अध्ययने तु बालस्याप्याप्तप्रेरणादिभिः साफल्यानुमानात्प्रवृत्तिर्युक्ता ।

नित्यमध्ययनं काम्यप्रयुक्तमितिवादिनाम् ।

कथं तत्र नियोगस्य कृत्युद्देश्यत्वलक्षणम् ।। 249 ।।

प्रबुद्धानां स्वविधिनाऽबुद्धानामन्यतस्त्विति ।

प्रयुक्तिभेदक्लृप्तौ च स्यादर्धजरतीयता ।। 250 ।।

यञ्च निस्तीर्णाध्ययनदुःखे माणवके विचारात्पूर्वमध्ययनविधेरधिकारपर्यवसानाय दृष्टमर्थज्ञानं विषयसाध्यप्रयोजनतया स्वीक्रियते इति ; तदपि मन्दम्, अध्ययनस्यान्यतः निद्धौ तदप्रयोजकेन सिध्यता कार्येण तस्य प्रयोजनान्तरक्लृप्तेरयोगात् ; नित्यान्तरवदस्यापि ते नियोगमात्रप्रयोजनत्वोपपत्तेः । दृष्टव्तादन्यदप्यनुज्ञातमिति चेन्न, आनुषङिकस्य लाभपूजादेरप्यत्र विध्यनुज्ञातत्वेन स्वीकारप्रसङ्गात् । न च धर्मानुष्ठानोपयुक्ततयाऽर्थज्ञानमेव विधिरनुजानाति, नान्यदिति वाच्यम् ; धनादेरपि तदुपयुक्तत्वेन तस्याप्यनुमतिप्राप्तेः ।

सर्वविध्युपकारित्वमर्थज्ञानस्य संभवेत् ।

नैतावता विशेषेण दृष्टमन्यदुपेक्ष्यते ।। 251 ।।

धनादेरुपकर्तृत्वं स्वशक्त्यैवेति चेन्मदम् ।

अर्थज्ञानं च तद्वत्स्यान्न विधिभ्रूवशंवदम् ।। 152 ।।

अर्थतस्तदनुज्ञातं शब्दशक्त्यैव भावितम् ।

सापेक्षैर्यागदानादिनियोगैरुपजीव्यताम् ।। 253 ।।

अपि चैकस्य वैरूप्यं विध्यनुज्ञात्मकत्वतः ।

प्रधानगुणकर्मत्वविषये च प्रसज्यते ।। 254 ।।

तस्मादध्ययनारम्भवेलायामेव माणवकस्य हितमाचार्यादयोऽभिसन्धाय परबुद्धैरुपदिश्य वा तत्र प्रवर्तका इति युष्मद्ग्रामेष्वपि वृत्तान्तः । न पुनरन्यस्याचार्यकं मया भावनीयमिति बुद्ध्या कश्चित्प्रवर्तमानो दृश्यते । शिक्षयन्तश्च हितैषिणो बालस्यैवागामि फलं व्यपदिशन्ति । छान्दोग्ये च - ब्रह्मचर्यं भगवति वत्स्याम्युपेयां भगवन्तम् इति जाबालो गौतममाह ; तेन च प्रत्युक्तम् - समिधं सोम्याहर, उप त्वा नेप्ये इत्यादि । अतः शिष्यार्थमेवाचार्थः प्रवर्तते ; ततस्तु वरादिकं तेन प्राप्यमिति सिद्धम्। अत एव द्रव्यार्जनादिलुबधाचार्यरागप्रयुक्तमध्यनमिति यत्कैशिचिदुक्तम् ; तत्स्वविधिप्रयुक्त्यसंभवेऽप्यध्यापनविधिप्रयुक्तिस्तावदयुक्तेति स्थापयितुम् । न हि माणवकस्य प्रयोजनमबोधयित्वा तत्प्रवर्तनन्मबलद्रव्यार्जनादिसंभवः ; अन्यथा हठात्प्रवृत्तिराचार्यस्य स्यात् । अतः साङ्गाध्ययनविधौ कण्ठोक्तो विप्रादिः स्वहितामिसन्धिरधिकर्तेति नान्यतः प्रयुक्तिः । एतेन आचार्यकरणविधिप्रयुक्त्यनङ्गीकारे क्रतुविधिप्रयुक्तेः अवश्याश्रयणीयतया तत्तत्फलकाशूद्रादेरप्यध्ययनाधिकारः स्यादिति कैश्चिदुक्तं निरस्तम् ; आधानवन्नियतकर्तृकेण स्वविधिनैव अध्ययनस्य प्रयुक्तेः । अध्ययनविधावधिकाराश्चवणचोद्यमपि वैतुप्यवद्दृष्टस्याक्षरग्रहणस्य फलत्वोक्त्या प्रयुक्तम् । उपनीयेत्यादिस्मुतिरपि नाध्यापनं विधत्ते, नाप्याचार्यकं तत्फलत्वेनोपादत्ते ; अन्यतः प्राप्तविशिष्टाध्यापनानुवादेनाचार्यशब्दव्युत्पादनपरत्वात् उपाध्यायादिशब्दव्युत्पादनवत् ; न ह्यत्र तदतिरिक्ततात्पर्यक्लृप्तिहेतुः । न च आचार्यकमेकमन्यादृशम्, मानाभावात् । निमित्तान्तरादृष्ट्या तत्क्लृप्तिरिति चेन्न ; सनियमकोपनयनाध्यापनात्यन्तायोगव्यवच्छेदमेलकस्य निमितस्य दृष्टेः । अत एव उपनयनादेरुत्तरकालेऽप्युपाध्यायादिनयादाचार्यशब्दप्रयोगोपपत्तिः । पूर्वं त्वनागतावेक्षणस्य दुश्शकतया निमित्तझ्र्आटज्ञानसन्देहाभ्यामप्रयोगः । अपि च स्मृतेरत्र शब्दव्युत्पादनमात्रपरत्वे वृद्धव्यवहार एव मूलं दृष्टम् ; आचार्यकरणविध्यर्थत्वे तु अलौकिकार्थश्रुतिमूलत्वं कल्प्यम् ; क्लृप्तकल्प्ययोश्च विरोधे क्लृप्तमेव ग्राह्यम् । क्त्वादिश्रुतिश्चात्र दर्शपूर्णमासाभ्यामिष्ट्वेत्यादिवदनङ्गत्वेऽपि सूत्रोक्तसमानकर्तृकत्वादिसाधर्म्यमात्रेणघटते ।

ननु समासकर्तृकत्वस्वारस्याद्बाधकाभावाच्चैकप्रयोगतयाऽङ्गाङ्गित्वसिद्धिः स्यात्; तन्न ;

क्त्वाश्रुतेः स्मृतिसंस्थत्वादनुवादतयाऽपि च ।

श्रुतिस्थं लिङ्गमेवात्र बलीयो ह्यविलम्बतः ।। 255 ।।

ब्राह्मणमिति माणवकैकसंस्कारतया श्रुतमुपनयनं प्रयोज्यप्रयोजकव्यापारतयाऽध्ययनाध्यापनयोर्द्वयोः फलवतोः सन्निधावपि कर्मस्थतया अन्तरङ्गलिङ्गादुपनीतगताध्ययनाङ्गमेव ; अन्यार्थत्वे तु प्रणाङ्या स्यात् । एवं श्रौतलिङ्गतोऽध्ययने विनियुक्तस्याध्यापनाङ्गत्वक्लृप्तौ विनियुक्तविनियोगविरोधः । न हि स्मृतिस्था कत्वाश्रुतिः श्रौतं लिङ्गं बाधितुं क्षमा ; स्मृतिः स्वमूलम्, अनूक्तिः पुरोक्तिमपेक्षत इति विलम्बद्वयेन प्रतिरोधात् ।

ननु स्वरितेत्यादिविहितादात्मनेपदादुपनयनमुपनेतृगताध्यापनाङ्गं स्यात् । न स्यात्, सम्माननादिसूत्रविहितत्वात् ।

अकर्त्रभिप्रायार्थोऽयमारम्भ इति शाब्दा । कर्तर्येव फलान्वयः कर्त्रभिप्रायत्वम्, अकर्त्रभिप्रायत्वं तु नियमाभाव इति चेन्न ; आदधीतेत्यत्र स्वरितेत्यादिसूत्रोक्तात्मनेपदेऽपि फलस्योभयान्वयात् । न च क्रियाफलस्य चेतनद्वयेऽनन्वयस्तत् ; जायापती अग्निमादधीयातामित्यत्रापि तद्दृष्टेः । कर्तृव्यतिरिक्तचेतनेऽनन्वयस्तदित्यपि निरस्तम् । प्रामाणिकदृष्ट्या सर्वेषु शास्त्रार्थषु अकर्तर्याराध्ये प्रीतिरूपफलश्रुतेराधानाधिष्वात्मनेपदलोपप्रसङ्गात्, अभिचरन्यजेतेत्यादौ भ्रातृव्येऽपि तदुचितफलसंमतेश्च । ऋत्विजो वृणीत इत्यत्र च वरणीयेष्वपि फलं सिद्धम् । अव्यवहितफलस्य क्रियाफलशब्देन विवक्षितत्वात्तस्य कर्त्रन्वयः कर्त्रभिप्रायत्वम् । सम्माननादिसूत्रं तु व्यवहितफलस्य कर्त्रन्वयार्थं स्यादित्येतदपि दत्तोत्तरम्, आदधीत इत्यादावेव व्यभिचारात् । अस्ति हि अत्राग्निसंस्कारव्यवहितमाधातर्याहिताग्नित्वं फलम् । ननु आगामिनित्यकाम्यादियागोपजीव्यसंस्कृतग्निसिद्धिरेवाधातुः फलमिति न व्यवहित फलान्वयः । मैवम् ; अत्राप्युपनयनसंस्कृताध्येतृसिद्धिरेवोपनेतुः फलमिति सम्माननादिसूत्रवैयर्थ्यप्रसङ्गात् । अव्यवहितफलस्य कर्त्रभिमतत्वानभिमतत्वाभ्यां सूत्रद्वयसाफल्यमिति चेन्न ; आचार्यकार्थिनोऽप्युपनेतुरुपनेयसंस्कारानभिमत्ययोगात् । अतः कर्त्रन्वयसिझ्र्द्ध्यर्थटद्धमेवात्रात्मनेपदम् । एवमध्यापयेदित्यनेनापि न फलस्य कर्तृगामित्वम् । तदेवं न विध्यन्तरप्रयुक्तमध्ययनम् ।

विचारश्च किमध्ययनविधिना प्रयुज्यते, उत अध्यापनविधिना ? न प्रथमः, विषयफलानुज्ञाया निरस्तत्वात् । न द्वितीयः, यावच्छØतानतिक्रमणात् ।

स्वाध्यायं ग्राहयित्वा हि गुरुणाऽपि विरम्यताम् ।

दयादिप्रेरितत्वे तु प्रागप्येवमिति स्थितः ।। 256 ।।

अतो गुरुमते कृत्स्नमीमांसैव न सिध्यति ।

इति मत्वा विधूतं तत्प्रकृतस्थापनार्थिभिः ।। 257 ।।

अध्ययनं च स्वाध्यायसंस्कारः ; स्वाध्यायोऽध्यतव्यः इति स्वाध्यायस्य कर्मत्वावगमात् ।

यद्यप्येवमक्षरग्रहणावधि शास्त्रान्तरावसरो निरुद्धः, तथाऽपि गृहीताक्षरस्यासौ स्यादिति शङ्कायामुत्तरत्रापि तन्निरोधार्थमध्ययनस्य नियोगविषयत्वपक्षप्रतिक्षेपेण प्राक्सूचितं स्वाध्यायसंस्कारत्वं व्यनक्ति - अध्ययनम् इति । चः शङ्कानिवृत्त्यर्थः ; यद्वा भिन्नक्रमः, असकृदनूञ्चरणत्वादिना सह संस्काररूपत्वस्य समुञ्चयार्थः ।

संस्कारः पुंस एवेष्टो मन्त्रणप्रोक्षणादिभिरिति वदद्भिरध्ययनसंस्कारोऽपि कर्तुरेवेति स्वीकृतः । तेन विवक्षितासिद्धिरिति शङ्कां निवर्तयितुमाह - स्वाध्याय इति । उक्तं च बृहट्टीकायाम् - संस्कारगणनायां च युक्तैवाक्षरसंस्क्रिया । स्वाध्यायो हि स्फुटं कर्म साक्षात्संस्क्रियते हि सः ।। इति ।

पुरुषातिशयाधानं प्रोक्षमाद्यैश्च ये विदुः ।

तेऽपि संस्कारकर्मत्वं तत्र तत्र न तत्युजुः ।। 258 ।।

तत्तत्कर्मक्रियाजन्यः संस्कारः पुरुषाश्रयः ।

तत्तत्सहकृतं कार्यं करोतीत्यवधारणात् ।। 259 ।।

अत्राध्ययनस्य स्वाध्यायसंस्कारत्वे कर्मत्वं हेतुरिति न वैयधिकरण्यम् । अयं भावः - अत्र हि तव्यप्रत्ययस्यार्थान्तरं न घटते ; ततश्च द्वितीयाश्रुतेस्तव्यादेर्वा कर्मार्थत्वे विशेषाभावात्कारकाणां क्रियार्थेत्वेऽपि द्रव्यनिष्ठस्य भावर्थस्य द्रव्यार्थत्वादव हन्त्यादिनयोऽत्र युक्त इति । सिद्धं चावहन्त्यादेः तत्तद्द्वव्यझ्र्स्यटसंस्कारत्वं भेदलक्षणे तानि द्वैधं गुणप्रधानभूतानि इति । स्वाध्यायस्य इत्यनेन निर्वर्त्यत्वाद्यनुपपत्तिः सूचिता; न खल्वसौ निर्वर्त्यः, अनादिसिद्धक्रमत्वात् ; यथापूर्वोञ्चारणे वाक्यनिर्माणव्यवहाराभावाञ्च । नापि विकार्यः, दुग्धदध्यादिवदन्यथाभावादृष्टेः । नापि प्राप्यत्व मात्ररूपः, उपयोगान्तरवत्त्वे तदयोगात् । अतः परिशेषसहकृतकर्मत्वावगतिः संस्कार्यत्वे हेतुरिति।

संस्कारो हि नाम कार्यन्तरयोग्यताकरणम् । संस्कार्यत्वं च स्वाध्यायस्य युक्तम्, धर्मार्थकाममोक्षरूपपुरुषार्थचतुष्टयतत्साधनावबोधित्वात्, जपादिना स्वरूपेणापि तत्साधनत्वाञ्च ।।

ननु कर्मत्वावगमेऽपि श्रुत्यादिभिरविनियुक्तस्याद्रव्यस्य स्वाध्यायस्य कथं संस्कार्यत्वमित्यत्राह - संस्कार इति हिः प्रसिद्धौ । नाम शब्दः परसंमतिपर्यन्ते तत्प्रकर्षे । स्वाध्यायसं

भावितभाव्युपयोगिसंस्काराभिप्रायेणात्र कार्यान्तरयोग्यताकरणोक्तिः। यद्वा कस्यचित्सतोऽतिशयाधानं संस्कार इति लक्षणमत्र

विवभितम् । ततश्च भूतोपयोगिन्यपि तदनुगुणोपयोगविवक्षयाझ्र्अत्रटकार्यान्तरयोग्यताशब्दः कथंचिद्योज्यः । प्रहृता अपि परिधयः तेनैव रूपेण भूतोपकाररूपकार्यान्तरयोग्याः श्रूयन्ते । अयं भावः - न तावदविनियुक्तत्वादसंस्कार्यत्वम् ; विनियोगाभावेऽप्युपयोगदृष्ट्यैव संस्कार्यत्वसं भवात् । अस्ति च ऋग्वेदेन होता करोतीत्यादिभिः सामान्यतो विशेषतश्च विनियोगः। नाप्यद्रव्यत्वादसंस्कार्यत्वम् ; यथोक्ताध्ययनगृहीतत्वे विरोधाभावात् । ग्रहणविषयत्वादेश्च गुणादावपि सर्वसम्मतेः । चोदितक्रियासाध्यस्येश्वरानुग्रहरूपस्यातिशयस्य स्वाध्यायाधारत्वाभावेऽप्यध्ययनप्राप्ततया आराध्यबुद्धिसंगृहीतेन तेनैव यथार्होत्तर क्रियाया- शास्त्रतो नियमान्नातिप्रसङ्गः । व्रीह्यदिष्वपि प्रोक्षणादिभिरतीन्द्रियातिशयो भवतु वा मा वा ; उक्तन्यायः सार्वत्रिक इति । ननु सक्तूञ्जुहोति, सुवर्णं भार्यमित्यादिषु निर्वर्त्यत्वादिरहितकर्मत्वावगमेऽपि भावार्थस्य न द्रव्यार्थता । तथा स्वाध्यायोऽध्येतव्यः, स्वाध्यायमधीयीतेत्यादिजपविधावपि कर्मत्वावगतिरविशिष्टा । अतस्तत्रानैकान्त्यम् ; तत्रापि वा झ्र्अटसंस्कार्यत्वप्रसङ्ग इत्यत्राह - संस्कार्यत्वम् इति । अयं भावः - सक्त्वादीनां भूतभाव्युपयोगासंभवात्, जपादेश्च गृहीताक्षरविषयत्वावश्यं भावात्, अनेकसंस्कारक्लृप्रतौ गौरवात्, जपादिसंस्कारसाध्योपयोगान्तरादर्शनात्, फलश्रवणाञ्च तत्र संस्कारपरित्यागः ; न त्विह तथा स्यात्, तथाऽपि अवगतकर्मत्वस्य निर्बाधत्वादिति। अत्रैव न्यायसुदर्शनम् - आद्याध्ययनमिच्छामः संस्कारं कर्मता मितेः। स्वाध्यायस्योपयोगित्वात् फलाश्रवणतोऽपि च ।। जपादेरपि संस्कारकर्मतेष्येत चेत्तदा । आद्यन्तु सर्वस्वाध्यायानुपयोगादसंस्कृतिः ।। सर्वत्र कर्मताबाधः स्वाध्यायस्य प्रसज्यते । तेन संस्कार आद्यं स्यादपरे त्वर्थकर्मणि ।। आर्थवादिकमेवात्र फलं स्याद्रात्रिसत्रवत् ।। अत्रानीप्सितकर्मत्वं स्वाध्यायस्येष्यते बुधैः । आद्ये त्वीप्सितकर्मत्वं तदर्था च क्रिया मता ।। जपादेरपि संस्कारकर्मत्वे सर्वसंस्कारसंस्कार्यस्य स्वाध्यायस्यार्थावबोध एव भाव्युपयोगः स्यात् । तस्य च अनधिकृतकर्मभागे हुमादिषु च वैयर्थ्यात्सर्वाण्यध्ययनान्यर्थकर्माणि स्युः ; तदा स्वाध्यायस्य कर्मताभङ्गः स्यात्, तस्मादाद्याध्ययनमेकमेव संस्कारः इति ।

ननु अत्राप्युपयोगादर्शनादयुक्तिः सिद्धा ; संस्कार्यत्वादेवोपयोगक्लृप्तावन्योन्याश्रयणात् । आहुश्च - संस्कारविधिश्च न संस्कार्यं विनियुङ्क्ते ; प्रमाणान्तरावसितोपयोगस्य संस्कारपर्यवसायी तु संस्कारविधिर्न संस्कार्यस्य कार्यं कल्पयतीति ; तत्राह - धर्मार्थ इति । उपयोगादर्शनाद्धि सक्त्वादौ कर्मश्रुतिबाधः ; स्वाध्यायस्य तु भाविदृष्टादृष्टविविधप्रयोजनदर्शनात्सक्त्वा

दिवन्नासंस्कार्यत्वं युक्तमिति भावः । अत्र पुरुषार्थचतुष्टयस्य वेदवेद्यत्ववचनं सर्वभागानुवृत्तप्रयोजनसामान्यदर्शनेन कृत्स्नस्य मीमांसितव्यत्वरव्यापनार्थम् ; बाह्यगमोक्तानां तेषामश्रद्धेयत्वार्थे च । अर्थकामतदुपायानां केषाञ्चिल्लोकसिद्धत्वेऽपि त्रैलोक्यविभवादिरूपयोरर्थकामयोस्तत्साधनानां च वेदवेद्यत्वं युक्तम् । लौकिकार्थकामयोरपि कारीर्यादिषूपायेषु शास्त्रव्यापारः सिद्धः । धर्मस्तु द्रव्याद्यात्मना प्रत्यक्षोऽपि धृतिसाधनत्वेन शास्त्रग्राह्यः । यथाहुः - श्रेयस्साधनता ह्येषां नित्यं वेदात्प्रतीयते । ताद्रूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः ।। इति ।

मोक्षश्च नास्मदादिप्रत्यक्षः । आत्मा कदाचित्समस्तविशेषगुणशून्यः, अनित्यविशेषगुणवत्त्वाद्धटवदित्यादीनां तु विपक्षे बाधकाभावान्नानुमानत्वम् ; मुक्तिपरशास्त्रोपजीवनेन विपक्षे बाधकोक्तौ च अनुमाननैष्फल्यम् । निरतिशयानन्दब्रह्मानुभवात्मनि तु मोक्षे हेतुप्रवृत्तेर्न प्रसङ्गः ; तद्विपरीतसाधने त्वागमबाधः । अपि च, जीवः कदाचित्समस्तविशेषगुणशून्यो न भवति ; आत्मत्वादीश्वरवदित्यपि वक्तुं शक्यम् । अत्र अर्थस्येव धर्मस्यापि समीहितसाधनतया पुमर्थस्य सतो धर्मविशेषः साधनम् ; अतः सोऽपि तत्साधनशब्दोक्तः । मन्त्रार्थवादयोरपि यथार्हं चतुर्वर्गबोधकत्वं तद्बोधकोपकारकत्वं च ग्राह्यम् ।

श्येनेषु वज्रप्रभृतिष्वपि नानर्थचोदना ।

इष्टस्यारातिभङ्गादेरुपायांशोपदेशतः ।। 260 ।।

घोरोपायान्तरेभ्यश्च लभ्येतात्र निवारणम् ।

लघुनिष्कृतिनिस्तार्यं ह्यभिचारं प्रचक्षते ।। 261 ।।

किं चानभिचरन्षट्सु पतेदित्यपि शिष्यते ।

तेन धर्मोपयुक्तत्वमाततायिवधे विदुः ।। 262 ।।

ननु अलौकिकपुरुषार्थादिबोधक्त्वं स्मृत्यादावप्यस्ति, अतोऽन्यसाध्ये प्रयोजने किं वेदस्य संस्कारेण । अर्तबोधश्च हुमादौ नास्ति । पुरुषभेदेनानधिगताचिकीर्षितभागयोश्य सन्नप्यसावनुष्ठानपर्यन्तत्वाभावान्नोपयोगी स्यात् । तदिह

स्वाध्यायस्यान्य लभ्योपयोगत्वादध्ययनस्य कृत्स्नस्वाध्यायसंस्कारत्वायोगादेकदेशसंस्कारस्याशाब्दत्वाञ्च । अध्येतव्यः इत्यस्य संस्कारविधित्वाभावे नियोगार्थत्वपक्ष एव प्राप्त इत्यत आह - जपादिना इति । आदिशब्देन धारणं गृह्यते । स्वरूपेणापि - न केवलमर्थज्ञानद्वारेणेत्यर्थः । यद्वा अध्यापनमादिशब्दग्राह्यम् । तदा स्वरूपेणापि - धुतस्वरूपमात्रेण चेति यावत्, ऋग्वेदं धारयन्विप्रः इत्यादिस्मृतेः । अयं भावः - अध्ययनगृहीतस्वाध्यायसाध्यमेव ज्ञानं

विधिभिसुपजीव्यम् ; उपबृंहणानां तु न स्वातन्त्र्येण धर्मादिसाधनत्वम् ; अस्ति च श्रुतिः । वेदाभ्यासेन सततं सत्येन तपसैव च । अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ।। इत्यादिप्रसिद्धम नन्यसाध्यं जपादिप्रयोजनम् । तेनैवानर्थकानधिकृताचिकीर्षीतभागेष्वपि संस्कार्यत्वोपपत्तिः । जपविधिश्च निरर्थकोञ्चारणविषयोऽपि स्वाध्यायस्यार्थपरतां न बाधते, सर्वविधिबाधेन स्वव्याघातप्रसक्तेरिति । न च उभयार्थत्वे विनिक्तविनियोगविरोधः, एकेनैव रूपेणानेकार्थत्वाभावात् । तथा च न्यायसुदर्शनम् - स्वरूपेण जपाद्यर्थः स्वशक्त्याऽर्थावबोधकः । रूपभेदाद्विरोधो न यथाग्नेर्दाहभासयोः ।। इति । तदिहाध्ययनसंस्कृताद्वेदादनन्तप्रयोजनसंभवं तद्विचारमन्तरेणान्यत्र शास्त्राभ्याझ्र्भाटसे कः प्रयस्येदिति तात्पर्यम् ।

एवमध्ययनविधिर्मन्त्रवन्नियमवदक्षरराशिग्रहणमात्रे पर्यवस्यति ।

ननु एवं विदितोपयोगेनाध्येत्रा अर्थज्ञानमपि विधिफलतया स्वीकार्यम् ; अविदितोपयोगेन तु अक्षरग्रहणमपि न फलत्वेन प्रतिपत्तुं शक्यम् ; अतोऽनुष्ठानं प्रत्यव्यवहितोपयुक्तमर्थज्ञानमपि ग्रहणवदध्ययनविधेर्दृष्टं फलमस्त्विति शङ्का प्रस्तुतोपसंहारव्याजेन प्रतिक्षिपति - एवम् इति । विधेयस्वरूपफलादिनिरूपणप्रका रेणेत्यर्थः । मन्त्रवत्त्वं नियमवत्त्वं च अनूञ्चारणस्थं तत्फले गृहीतावुपचरितम् । मन्त्राः - काण्डव्रताद्यङ्गभूताः, अध्ययनदशाजप्याश्च शं नो मित्रः इत्याद्याः । नियमाः - प्रागुक्ताः । मन्त्रवदित्येतत् दृष्टान्तोक्तिरित्येके - यथा मन्त्रे चोद्यमानमध्ययनमक्षरग्रहणमात्रपर्यवसायीति स्वीक्रियते, तथेहापीति । अपरे तु - यथोपनयनदशोञ्चरणीयेषूपनीतमात्रस्य समिदाधानादिमन्त्रेषु च, तथेहापीति वेदितव्यमिति । हुमादिवदित्यन्ये, विषहरणादिमन्त्रविशेषवदिति च । मात्रचा पर्यवसानशब्देन चाक्षरग्रहणात्पश्चात्पूर्वं च विधिविश्रान्तिर्निषिध्यते । अयं भावः - अध्ययनशब्दस्य न तावदर्थज्ञानवाचकत्वम्, अव्युत्पत्तेः, किञ्चिदधीत्य ब्राह्मण इत्यादौ च तस्यार्थपरत्वासंभवाञ्च । विधिविषयमध्ययनं प्रत्यव्यवहितसाध्यमभिव्याप्तमवर्जनीयं च फलं दृश्यते । तदन्यस्यापि तत्फलत्वक्लृप्तौ गौरवं स्यात्, व्यवहितसाध्यस्यापि फलत्वक्लृप्तौ ज्ञानवत्तत्साध्यस्यानुष्ठानस्यापि तत्क्लृप्तिप्रसङ्गः । उत्तरविध्यव्यवहितापेक्षितत्वमपि ग्रहणज्ञानयोः समम् । यदि चार्थज्ञानं कर्मविषयतयाम्नातं, तदा तु अव्यापिनि व्यवहितेऽपि तस्मिन्संप्रत्ययः स्यात्, न त्वेतदस्ति । अतोऽर्थधिय उपयोगितयैव स्वीकार्या इति ।

ननु समन्वयाधिकरणन्यायादर्थज्ञानस्यैव स्वतः प्रयोजनतया फलत्वक्लृप्तिर्युक्ता ;

मेवम् ; निरतिशयानन्दब्रह्मप्रतिपादकभागमात्रे तदुक्तेः अत्र तु कृत्स्नाध्ययनफलविमर्शात् विरूपक्लृप्त्ययोगाञ्च । ननु बृद्धवाक्यानि श्रुणु इत्यादौ वाक्यश्रवणविघेरर्थधीपर्यन्तत्वं लोकदृष्टमिति चेन्न, वृक्षादिवन्मार्गलक्षणभूतस्य कस्यचिद्वाक्यस्य श्रोतव्यत्वोपदेशे तात्पर्यात्तदभावस्यापि दृष्टेः । किं च क्वचिद्वाक्यश्रवणोपदेशस्यार्थपरत्वमगत्या ; इह तु न तथा, लोके दृष्टा । ननु यो ह वा अविदितार्षेयच्छन्दोदैवतेन मन्त्रेण इत्यादिश्रुतिभिः, अविदित्वा ऋषिं छन्दः यदधीतमविज्ञात मित्यादिभिः स्मृतिभिश्च विपर्यये दोषोक्त्याऽर्थज्ञानमवश्यसम्पाद्यत्वेन स्थापितम् ; तदभावेऽध्ययनस्य नैष्फल्यं तत्सद्भावे सर्वपुरुषार्थावाप्तिश्चोच्यते - स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । योऽर्थज्ञ इत्सकलं भद्रमश्नुते झ्र्सटनाकमेति ज्ञानविधूतपाप्मा ।। इति ; तस्माद्वैधो वेदार्थविचारः । मैवम् ; यथा रागप्राप्तस्य ऋतुगमनादेरकरणे दोषः, विधिवत्करणे सन्तत्यादिलाभश्च फलत्वेन स्मर्यते, एवमिहापि स्यात् । तस्मात् एतानि मन्त्रे मन्त्रे विद्यात् इत्येततु प्रयोगकाले प्रतिमन्त्रं प्रज्ञातऋष्याद्यनुस्मरणपरम् । अत एव अविदितार्षेयत्वादिनिषेधश्च तावन्मात्रविषयः । अतः यदधीतम् स्थाणुरयम् यश्च मीमांसतेऽध्वरम् इत्यादिभिरर्थज्ञानप्रशंसया स्वतः प्रवृत्तिसुतभ्यते । एतैश्च अर्थज्ञानस्यावश्यापेक्षितत्वेन विधावपि नाध्ययनविधेस्तत्पर्यन्तत्वं कल्प्यम् ; नैरपेक्ष्यात्, अन्यतः प्राप्ते विधेरौदासीन्याश्च, तावत्पर्यन्तधावनेऽपि स्वतः पुरुषार्थापर्यवसानाञ्च । यत्तु कैश्चित् प्रत्यवस्थीयते - अध्ययनविधेरर्थज्ञानपर्यन्तत्वात्, आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्त्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयनो धार्मिकान्विदधत् इत्यादिभिः श्रुतिभिः, अधीत्य स्नायात् इत्यादिभिः स्मृतिमिश्च आत्मरूपार्थज्ञानस्यापि कर्मार्थतया तत्कर्तृसंस्कारत्वेन विनियोगात् द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः, सोऽन्वेष्टव्यः स विजिज्ञासितव्यः इति

जिज्ञास्यतयोक्तस्यात्मनोऽवहन्तव्यव्रीहिवत्स्वरसावगतसंस्कार्यत्वाबाधेन कर्मशेषत्वसिद्ध्या तत्त्वमसि अयमात्मा ब्रह्म इत्यादिभिः कर्मवश्यस्यैव ब्रह्मत्वोक्तेः विश्वकर्तृत्वस्य च कर्मद्वारोपपत्तेः क्लृप्रकल्प्यविरोधे क्लृप्तगृहीतेर्न्याय्यत्वाज्जीवस्य कर्मसु कर्तृतया प्राप्तस्य तदर्थं संस्कारार्हत्वाच्च जीवपरे वेदान्ते सति तदतिरिक्तेश्वरविषयशास्त्रा सम्भवात् कस्यैकशास्त्रयं क्रमश्च कल्प्यत इति । तदपि अक्षरग्रहणमात्रपर्यवसानभाषणात्प्रत्युक्तम् । सूत्रकारोऽपि अधीत्य, अभिसमावृत्य इत्यादिभिर्नार्थज्ञानस्य कर्मशेषत्वेन विनियोगः ; क्त्वाश्रुतेः समानकर्तृत्वादिमात्रे विश्रमात् । तथा विनियोगेऽपि कर्मानुष्ठानोपयुक्तार्थज्ञानादन्यदेवोपासना

त्मकं ज्ञानं वेदान्तवाक्यैविधित्सितम् । उपास्यश्चात्मा जीवातिरिक्तः श्रुत्यैव सिद्धः, न तु कल्प्यः । जीव ब्रह्मसामानाधिकरण्यं च अचिद्ब्रह्मसामानाधिकरण्यवदैक्यविरोधादन्यार्थम् । तिष्ठतु च तथाविधिज्ञानविधानम्, तथापि न विरोधः ; कर्तुरिवाराध्यस्यापि कर्मार्थत्वेन विचार्यत्वातस्य च कर्मवश्यादन्यत्वेन श्रुतिसिद्धत्वात्तद्विचारार्थकाण्डान्तरादिसिद्धेः । यद्यपि अत्राप्यर्थज्ञानस्यानुष्ठानशेषत्वेऽपि यथांशं परब्रह्मोपासनशेषत्वमपि स्यादित्युत्तरं प्राप्तम् । तथापि अर्थज्ञानप्रयन्ततामूले चोद्ये प्रथमपर्वस्थोद्भटापराधोपेक्षायोगादन्वारुह्यवादमनादृत्य मूलच्छेद एवात्र कर्तव्य इत्यभिप्रायेण सूत्रभाष्ययोर्मात्रशब्दः ।

अध्ययनगृहीतस्य स्वाध्यायस्य स्वभावत एव प्रयोजनवदर्थावबोधित्वदर्शनात्, गृहीतात्स्वाध्यायादवगम्यमानाम् प्रयोजनवतोऽर्थानापाततो दृष्ट्वा तत्स्वरूपप्रकारविशेषनिर्णयफलवेदवाक्यविचाररूपमीमांसाश्रवणेऽधीतवेदः पुरुषः स्वयमेव प्रवर्तते । तत्र कर्मविधिर्वरूपे निरूपिते कर्मणामल्पास्थिरफलत्वं दृष्ट्वा अध्ययनगृहीतस्वाध्यायैकदेशोपनिषद्वाक्येषु चामृतत्वरूपानन्तास्थिरफलापातप्रतीतेस्तन्निर्णयफलवेदान्तवाक्यविचाररूपशारीरकमीमांसायामधिकरोति ।

ननु अध्ययनविधावक्षरग्रहणपर्यवसितेऽन्यार्थतयैवाधीतस्य स्वाध्यायस्य प्रतीतोऽप्यर्थस्तात्पर्यविषयत्वायोगादविचार्यः ; ततो निरर्थको वेदः ; अव्ययनविधिश्च न पुरुषार्थपर्यन्तः, निर्विषयतया अधीत्य स्नायात् इति स्मृतिनिरुद्धावसरतया च मीमांसापि नारभ्येत ; कुतस्तदैक्यादि स्यात् इति शङ्कामपनुदन्नेकविषयतया वेदारव्यैकव्यारव्येयव्याख्यानात्मकशास्त्रैक्यमपि दर्शयन्मीमांसारम्भसूत्रार्थं च सूचयति - अध्ययन इति । अत्र स्वाध्यायनिर्णयविचाररूपाधीतवेदशब्दैः मीमांसाया विषयफलस्वरूपाधिकार्यैक्यव्यञ्जनम् । गृहीतस्य इत्यनेन विधिव्यापारस्य विश्रमोक्तिः । प्रयोजनवदर्थदर्शनोक्तिस्तु पुरुषार्थप्रयवसानज्ञापनार्था । स्वभावत एव - विधीव्यापारमनपेक्ष्येत्यर्थः ; व्युत्पन्नपदपतार्थोदेरिति शेषः । अयं भावः -

ग्रहणार्थमुपात्तोऽपि स्वाध्यायो वह्निवत्स्वयम् ।

प्रकाशयति यत्तत्र स्वतो मानमबाधतः ।। 263 ।।

जपाद झ्र् र्था ट ध्ययनं श्रौततत्तत्फलसमन्विंतम् ।

न रुन्धे शब्दसामर्थ्यं ग्रहणार्थं तु किं पुनः ।। 264 ।।

विनियोगविशेषेण वेदेऽर्थपरतां क्षिपन् ।

विनियोगार्थधीबाधात् स्वव्याघातेन बाधितः ।। 265 ।।

विवक्षितार्थैव न वा स्यादध्ययनचोदना ।

आद्ये व्याहरिरन्त्ये तु पूर्वपक्षस्य नोत्थितिः ।। 266 ।।

अर्थज्ञानफलत्वेन मानत्वं चात्र दुर्भणम् ।

तत्फलत्वे हि तन्मानं तन्मानत्वे च तत्त्विति ।। 267 ।।

स्वीकरोत्यर्थपरतां नियोगार्थोऽपि चेद्विधिः ।

संस्कारार्थोऽपि तद्वत्स्यात् स्वसिद्ध्यौत्सुक्यसामवत् ।। 268 ।।

वेदः निरपेक्षवेदकः ; न तु पुंवाक्यवत् मूझ्र्लटलीभूतमानान्तरमपेक्ष्येत्यर्थः। अत एव न मूलदोषविचारशङ्क्या विचारस्तम्भनभिति भावः । प्रयोजनमत्र चतुर्वर्गः । तद्वन्तोऽर्थास्तदुपायाः कर्मोपासनारूपाः । अवबोधित्वम् इह निर्णयजननानुगुणत्वं दृष्टं दुरपह्नवम् । न च दृष्टे अनुपपन्नं नामेत्यभिप्रायेण दर्शनात् इत्युक्तम् ।

स्वत एव बोधक्तवेऽपि साध्याभावान्न मीमांस्यमित्यत्राह - गृहीतात् इति । अर्थानापाततोऽवगम्यमानान् दृष्ट्वा इति

तत्कालविशेषणतयाऽन्वयः । आपातधीरेव दृष्टा ; अतः संशयादिनिरासः साध्य इत्याशयः । पूर्वः प्रयोजनवदर्थशब्दः काकदन्तोक्तिव्यावृत्त्या श्रुतिप्रामाण्यार्थः । उत्तरस्त्वापातधियः स्वविषयविचाररागजननेन प्रेरकत्वज्ञापकः ।

प्रतीतमप्रतीतं वा न मीमांस्येत किञ्चन ।

इति चोद्यमपि क्षिप्तमापातज्ञाततोक्तितः ।। 269 ।।

ननु यजि शब्दस्वभावादापातधीः, तर्हि अव्युत्पन्नानामपि स्यात् ; न चात्र व्युत्पत्तिपतामेव तद्विधिरस्ति, झ्र्अतःटअङ्गेष्वप्यङ्गिवदक्षरग्रहणान्ते विधौ तदसंभवात् विध्यैक्यरूप्ये चाङ्गाध्ययनस्यार्थज्ञानपर्यन्तत्वे विशेषहेत्वभावात् । अत्र ब्रूमः

स्य संस्कृतभाषैव बाल्यात्प्रभृति शीलिता ।

तदा तु तस्य सा तत्र स्यादापातमतिस्स्वम् ।। 270 ।।

निरङ्गाध्ययनेऽप्येवं साङ्गाधीतौ तु किं पुनः ।

वैदार्थापातधीवृद्धिमङ्गार्थापातधीर्दिशेत् ।। 271 ।।

हितैषिवाक्यजातां च केचिदापातसंविदम् ।

प्रापनुबन्तो विचारे हि प्रवर्तन्ते मनीषिणः ।। 272 ।।

केचित्त्वङ्ग्युपकारार्हरूपेणाङ्गाक्षरग्रहे ।

सार्थज्ञानत्वमाचरव्युर्दृष्टार्थत्वं तु लघ्विति ।। 273 ।।

अस्त्वेवमापातधीः ; तदरिक्तपि ज्ञानं विद्यास्थानान्तरैरेव साध्यतामित्यत्रोत्तरम् - तत्स्वरूपे त्यादि । सूप्वपक्षोक्तात् व्यावृत्तरूपावधारणमिहान्यैरसाध्यं फलमिति भावः । वेदवाक्यविचाररूपे त्यनेन विद्यास्थानान्तरव्यावृत्तमीमांसाशरीरव्यञ्जनम् । मीमांसाया विचाररूपत्वोक्तिस्तदभेदोपचारात्, विचारशब्दस्य करणव्युत्पत्त्या वा । विधिविषये कृत्यशेषं नास्तीत्यभिप्रायेणाधीतवेदत्वोक्तिः आपातधीमत्त्वादिति हेत्वभिप्राया च । पुरुष इति हेतुगर्भे प्रयोजनार्थित्वादिति । स्वयमेव - विधिनिरपेक्षस्वेच्छयेत्यर्थः ।

आपातस्वोपयुक्तार्थे भाते तन्निर्णयार्थिनः ।

तदुपाये प्रवृत्तस्य विधानं ह्यनपेक्षितम् ।। 274 ।।

स्वेष्टनिश्चयहेतुत्वमन्वयव्यतिरेकतः ।

सिद्धमेव विचारस्य तत्रापि ह्यफलो विधिः ।। 275 ।।

संप्रेक्ष्य निधिरत्नादींस्तद्यथार्थनिरूपणे ।

अपरप्रेरिता एव प्रवर्तन्ते तदर्थिनः ।। 276 ।।

अतो न विधिसिद्धोऽत्र विचारस्तत्क्रमोऽपि वा ।

अन्यथा दोषदृष्ट्यैव द्वितीयस्योपपत्तितः ।। 277 ।।

स्वयं प्रवृत्तावप्याचार्यनैरपेक्ष्यव्युदासाय श्रवणतदाश्रयणे प्रवृत्तिः । अकरणे तर्ह्यदोषस्स्यात् ; तन्न - तदधीननिश्चयतत्सापेक्षहितप्रवृत्त्यादीनामभावस्यैव दोषत्वात् । तदभिप्रायेण ह्येतदप्युच्यते -

अधीत्य वेदान्साङ्गांस्तु यो विचारमुपेक्षते । स्वप्रयासं च विस्मृत्य प्रभ्रष्टस्स्यात्प्रयोजनात् ।। इति ।

नन्वेवं विचारस्य अवैधत्वे अधीत्य स्नायादित्यादिविधिनिरुद्धावसरः कथं मीमांसताम् ; दुःखात्मकगुरुकुलवासान्निवृत्तेः स्वतः प्राप्तत्वात् आनन्तर्यमेव ह्यत्र विधेयम् । मैवम्, सनियमकसमावृत्तियुक्तस्नानरूपसंस्कार एव ह्यत्र विथीयते, अन्यथा निवृत्त्यानन्तर्यस्यापि स्वतः प्राप्तत्वादविधेयत्वं स्यात् । किञ्च विचारस्य वैधत्वेऽपि कथमवसरः । श्रुत्या स्मृतेर्बाधादिति चेन्न ; श्रुतावपि अधीत्य, अभिसमावृत्य इत्युक्तेः । तत्र समानकर्तृकत्वपूर्वकालत्वमात्रपरतयाऽऽनन्तर्ये तात्पर्यं नास्तीति चेत्, स्मृतावपि किं न तथा स्यात् । न च श्रुतावध्ययनशब्दोऽर्थज्ञानपर्यन्तः, एव स्मृतावक्षरग्रहणपर्यन्त इति नियन्तुं शक्यम्

। यदधीतमित्यादिवत्स्यादिति चेन्न, विरोधाविरोधाभ्यां विशेषात् । अस्तु तर्हि श्रुतिस्मृत्योर्द्वयोरप्यर्थज्ञानप्रयन्ताध्ययनानुवातः, तथा सति स्नानविधिः वैधस्य विचारस्यावसरं न विरुन्ध्यादिति चेत् ; तर्हि रागप्राप्तस्यापि स्वोपयुक्तद्रव्यार्जनादेरिव श्रवणस्यावसरं न विरुन्ध्यादेव ।

ज्ञात्वाऽनुष्ठानमिच्छन्तः स्नानादिविधयः स्वतः ।

प्राचीमेव स्वविषयां मीमांसां परिगृह्णते ।। 278 ।।

किं चात्र मानभेदाङ्गक्रमकर्त्राद्यवेदिनः ।

न स्नानविधिमष्येकं यथावद्धेदितुं क्षमाः ।। 279 ।।

अगत्याऽध्ययनादौ प्रागविचार्य प्रवर्तते ।

स्नाने तु गतिसद्भावात् न स्यादगतिका गतिः ।। 280 ।।

अनुज्ञातं च सर्वत्र न स्वाङ्गं व्यवधायकम् ।

अतो मीमांसया नात्र व्यवधानं विरोधकृत् ।। 281 ।।

यद्वा अध्ययनस्नाननैरन्तर्येऽपि न विरोधः । अविचारितधर्माणामुत्तरानुष्ठानासिद्धिप्रसङ्गाद्विरोध इति चेन्न ; स्नातस्यापि यावद्विचारं हितकामैर्ब्रह्मचारिण इवानुष्ठापलोपपत्तेः । न च हितैषिवाक्यादनुष्ठानेऽपशूद्रनयविरोधः, तत्तदुचितधर्मेषु हितैषिभिः प्रवर्तनात् न चास्योपदिशेद्धर्ममित्यादिनिषेधदृष्टेश्च । अन्यथाऽप्यनुष्ठानसिद्धौ मीमांसाश्रवणं निरर्थकं स्यादिति चेत्, तन्न - वैपरीत्यशङ्कायां मूलजिज्ञासया परनैपरेक्ष्यप्रवचनख्यात्यादिश्रद्धया च तदुपपत्तेः । एवमेव पूर्वेषामुत्तरेषामपीत्यविच्छेदसिद्धिः । कश्चिदालस्यात्पत्रादीनेव सर्वथा प्रमाणयेदिति चेत्, ततः किम् ; अनलसैरन्यैश्शास्त्रश्रवणोपपत्तेः । स्नातस्य श्रृण्वतो गुर्वर्थव्यापारैः स्वधर्मोपरोधः स्यादिति चेत्, न ; अध्ययनविधिप्रयुक्तानां तेषां निवृत्तेऋ । यथोक्तं न्यायसुदर्शने

अक्षरग्रहणोपायनियमार्थो ह्ययं विधिः । तद्ग्रहावधिका धर्मस्थितिरित्यब्रवीत् स्मृतिः ।।

अधीताद्वेदतः पश्चादर्थज्ञानं स्वतो भवेत् । तत्तु नाध्ययनं नापि धर्माणां च प्रयोजकम् ।। इति ।

किमर्थं तर्हि मीमांसामाचार्यः श्रावयेत् ? लाभाद्यर्थं धर्मार्थं वा । गृहस्थधर्मोपरुद्धस्य कः श्रोतुमवसरः ? को वाचार्यस्य प्रवक्तुम् ? तस्य वृत्त्यर्थिनोऽस्ति द्रव्यार्जनकाल

इति चेत्, तर्हि विध्यनुज्ञातदृष्टर्थप्रवृत्त्यन्तरवच्छ्रवणस्यापि स्यात् । इतिहासाद्यर्थतया च गृहिणोऽप्यस्ति कश्चिद्विचारकालः । तदा च वेदोपबृंहणैस्तैः स्वसाध्यानुगुणत्वेन मीमांसाऽप्युपादीयेत । वेदाभ्यासं चैवं विभजन्ते -

वेदस्वीकरणं पूर्वं विचारोऽभ्यसनं जपः । तद्दानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ।। इति ।

कुलक्रमागतधनादेर्दैवादागतधनादेः कस्यचित् तदार्जनकालोऽप्यपेक्षित श्रवणस्य कालः । गृहस्थादयश्चाविचारितवर्णादिधर्मास्तत्तद्धर्मश्रोतारः श्रुतिस्मृतिषु दृश्यन्ते । गृहस्थस्याप्यतिशयितविद्यार्थं प्रत्यब्दं द्वौ द्वौ मासौ गुरुगुलवासश्च केनचिदनुज्ञातः । यथानूद्यते - निवेशे वृत्ते संवत्सरे संवत्सरे द्वौ द्वौ मासौ समाहित आचार्यकुले वसेद्भूयश्श्रुति ; मिच्छन्निति श्वेतकेतुः एतेन ह्यहं योगेन भूयः पूर्वस्मात् कालाच्छØतमकुर्वि इति । नन्वत्र तच्छास्त्रैर्विप्रतिषिद्धम्निवेशे हि वृत्ते नैयमिकानि श्रूयन्ते अग्निहोत्रमतिथयः इत्यादिनाऽऽपस्तम्बः स्वमतमाह ; सत्यम् ; तेनापि तदा मासद्वयं निरन्तरगुरुकुलवासमात्रं निषिध्यते ; न तु प्रवक्तृवच्छ्रोतुस्सिध्यन् विचारावसरः क्षिप्यते ।

अस्त्वध्ययनानन्तरं विचारः, स च रागतः कृत्स्नविषयश्च ; तथाऽपि

अवैधत्वे विचारस्य क्रमस्य च यथारुचि ।

अप्रवृत्तेः प्रवृत्तेश्च प्राप्तौ तत्रैति भाष्यते ।। 282 ।।

दुस्त्यजत्वाद्विचारस्य यौगपद्यविरोधतः ।

व्युत्क्रमे दोषदृष्ट्या च क्रमस्सौत्रो ह्यसाविति ।। 283 ।।

तत्र वेदे मीमांसायां वा ; स्वेच्छातः प्रवृत्तौ सत्यामिति वाऽर्थः । कर्म विधिरिह काम्यकर्मचोदना काम्यानुष्ठानं वा ; अविशेषाद्वा नित्यादेरपि संग्रहः । स्वरुपशब्देन त्यक्तफलस्य परविद्याङ्गविनियोगो न चिन्तित इति सूच्यते । स हि साधनलक्षणे शोध्यः ; तन्निरूपणे हि अनन्तस्थिरफलपर्यन्तत्वं बुध्येत । यद्वा केवलकर्मणामल्पास्थिरफलत्वस्य कचिदमीमांसितत्वेऽपीति भावः । निरूपिते इत्यनेन कर्मनिरूपणस्य वृत्तत्वावश्यंभावोऽभिप्रेतः । प्रपञ्चितं चैत त्तात्पर्यतूलिकायाम् -

तत्रेदं नियतं कर्म नैव शक्यमुपेक्षितुम् ।

तद्धिसर्वास्ववस्थासु पुमांसमनुवर्तते ।।

बुभुक्षुर्वा मुमुक्षुर्वा यो यो गृह्येत पुरुषः ।

तस्य सर्वस्य बहुना कर्मणामुगमोऽस्ति हि ।।

नित्यं नैमित्तिकं कर्म प्रतिषिद्धं च सर्वदा ।

सर्वैरपि परीक्ष्यं हि प्रत्यवायजिहासया ।।

न ये बिभ्यति दुःखेभ्यस्ते मा कार्षुर्विचारणाम् ।

इतरेषामियत्कर्म विचार्यमिति तु स्फुटम् ।।

काम्यं तु कर्म भोगाय विनापि ब्रह्मणा क्षमम् ।

न कर्मणा विना ब्रह्म मोक्षसामर्थ्यमश्नुते ।।

सर्वापेक्षा च यज्ञादिश्रुतेरिति हि वक्ष्यते ।

वेदैकदेशचिन्तापि प्रोक्ता कृत्स्नप्रयोजिका ।।

तस्मादवश्यचिन्त्यत्वे कर्मैवाग्रे विचार्यते ।। इति ।

कर्मणामल्पास्थिरफलत्वं दृष्ट्वा - तत्तद्वाक्यैरेवार्थतो विशदं निश्चित्येत्यर्थः। ज्योतिष्टोमग्निहोत्रादिस्वरूपनिरूपणे हि यथोपायं गुरुलधुस्वर्गभेदक्लृप्तिस्स्यात् । ज्योतिष्टोमोऽग्निष्टोम इत्यनेन ज्योतिष्टोमस्याग्निष्टोमरूपत्वे निश्चिते च तत्साध्यस्य स्वर्गस्य यावदग्निष्टोमेनोपाप्नोतीत्यादिना देशकालादिपरिच्छेदनिश्चयः । तत्रावृत्तिविधिरप्यनावृत्तस्य फलाल्पत्वे लिङ्गम् । नित्यकर्मणामपि कस्मिंश्चिदधिकारिणि प्राजापत्यं ब्राह्मणानामित्यादिभिर्वर्णाश्रमभेदेन फलतारतम्यं स्मर्यते । वैश्वदेववरुणप्रघासादीनां चातुर्मास्यानां स्वरूपेऽवगते हि एषा वै वैश्वदेवस्य मात्रा, एतद्वा एतेषामवमम्, अतोऽतो वा उत्तराणि श्रेयांसि भवन्तीति वैश्वदेवादेर्मितफलत्व दर्शनात् , अक्षय्यं ह वै चातुर्मास्ययाजिनस्सुकृतमित्यत्र चिरोपभोग्यत्वमात्रे तात्पर्यग्रहः । यद्यप्यक्षयफलत्वमिदं विद्याङ्गत्वेन परंपरया नेतुं शक्यम् , तथाऽप्यत्र तद्विवक्षाविरहान्न तथा नीयते । एवं परिमितफलसोमहविष्कर्मस्वरूपनिश्चये सत्येव अपाम सोममित्यादावमृतत्वस्य आभूतसंप्लवं स्थानममृतत्वमित्यादिस्मृत्या नियमः । स्वर्गस्वाराज्यादिफलभेदसाधककर्मस्वरूपभेदसिद्धौ च तत्र स्वर्गशब्दोक्तस्याल्पत्वसिद्धिः । यं यं क्रतुमधीत इत्यादिषु च फलतारतम्यक्लृप्तिः गुरुलघुकर्मस्वरूपनिश्चयादेव । उत्पत्तिनाशवदाराध्यप्रीणनकर्मस्वरूपनिश्चयाञ्च तत्साध्यस्य तत्सायुज्या देरस्थिरत्वदृष्टिरिति ।

तदेवं निरस्तप्रतिबन्धब्रह्मविचारार्थस्य शारीरकस्य विद्यास्थानान्तरव्यावृत्तस्वरूपफलाभ्यां मीमांसैकदेशत्वव्यक्त्यर्थं निर्णेतव्यविशेषसिद्ध्यर्थं च पुनः

अध्ययने त्यादिकमुक्तम् । अत्रामृतत्वशब्देन त्रय्यन्तप्रधानवेद्यफलोक्तिः ; तेनार्वाचीनानामानुषङ्गिकान्नवत्त्वादीनां सङ्गत्यन्तरघटितदृष्टिविध्यादिफलानां च व्यवच्छेदः । कर्मभागोक्तममृतत्वमापेक्षिकं साधितम् । इदं तु बाधादर्शनात् निर्णीतांससंवादिवेदान्तैकदेशोपष्टम्भाञ्च न प्राच्यवदिति प्रत्यायितप्रायमित्यभिप्रायेण अनन्तस्थिरफलापातप्रतीतेरित्युक्तम् । न ह्यत्र फलत्वाद्यनुमानैः अल्पास्थिरत्वादिक्लृप्तिः शक्या, अतिप्रसङ्गादिति । अनवच्छेदादिह सर्वशरीरः शारीरः, तमधिकृत्य प्रवृत्तं शास्त्रं शारीरकम् । वक्ष्यति हि आनन्दमयाधिकरणे - स एव निरुपाधिकः शारीर आत्मा । अत एवेदं परं ब्रह्माधिकृत्य प्रवृत्तं शास्त्रं शारीरकमित्यभियुक्तैरभिधीयत इति । सैव मीमांसेति शारीकमीमांसा ; तस्याम् । अधिकरोति स्वार्थबुद्ध्या तत्रोद्युक्तो भवति, न तु पूर्ववृत्तान्तरादधिकरोतीत्यर्थः । ब्रह्मविचारानन्तर्ये युक्तिसिद्धे तद्विषयशास्त्रानन्तर्यमपि सिध्येदिति भावः ।

ग्रहणं च फलत्वं च सार्थता च स्वतः श्रुतेः ।

रागात्कृत्स्नविचारश्चेत्यपूर्वमिह भाषितम् ।। 284 ।।

तथा च वेदान्तवाक्यानि केवलकर्मफलस्य क्षयित्वं ब्रह्मज्ञानस्य चाक्षयफलत्वं दर्शयन्ति । तद्यथेह कर्माचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते । अन्तवदेवास्य तद्भवति । न ह्यध्रुवैः प्राप्यते । प्लवा ह्येते अदृढा यज्ञरूपाः परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिश्श्रोत्रियं ब्रह्मनिष्ठम् । तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् । ब्रह्मविदाप्नोति परम् , न पुनर्मृत्यवे तदेकं पश्यति न पश्यो मृत्युं पश्यति, स स्वराङ् भवति, तमेवं विद्वानमृत इह भवति, नान्यः पन्था अयनाय विद्यते, पृथगात्मानं

प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति इत्यादीनि ।

ननु कर्मफलाल्पत्वादौ लिङ्गमात्रं दृष्टम् ; यथाश्रुतविरुद्धप्रत्ययदार्ढ्याय प्राप्तिरपि वक्तव्या, कर्मस्वरुपनिरूपणं चात्र स्वयंप्रवृत्तेः प्रतिबन्धशान्तर्थम् ; हेतुस्त्वनन्तस्थिरफलापातप्रतीतिरेव, सा कुतस्त्येत्राह - तथा इति । उक्तप्रकारेणास्य सूत्रस्याप्यैदमर्थ्यं यथा स्यात्तथेत्यर्थः । चः अवधारणे । अत्र क्षतित्वोक्तिरक्षयित्वोक्तिश्चाल्पत्वादेरुपलक्षिका । निश्चितसंवादेनानिश्चितेऽर्थान्तरेऽपि श्रद्धासंवृद्ध्यै पूर्वं तद्यथेत्यादिवाक्योदाहृतिः । लोको लोक्यः, भोग्यः । देशपरत्वे त्विहामुत्रेत्याभ्यामनन्वयः । कर्मचितः लौकिककर्मलब्धः ।

पुण्यचित इत्यविशेषोक्त्या निवृत्तिधर्मसाध्यस्यापि क्षयित्वभ्रमं निवारयितुमाह - अन्तवत् इति । उपात्तवाक्यै कार्थ्यात् क्रियास्वरूपान्तवत्त्वस्यानपेक्षितवचनत्वाञ्च फलद्वाराऽत्रान्तत्त्वोक्तिः । यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणीति पूर्ववाक्यात् यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्प्रैति स कृपण इत्युत्तरवाक्याञ्च ; अन्तवदित्यस्य ब्रह्मवेदनरहितकर्मविषयत्वसिद्धौ पुण्यचितः इत्यत्रोत्तरेषु च तद्विषयत्वं सुगमम् । ज्ञानरहितकर्मसु स्वर्गस्वाराज्यादिफलभेदवत् केषुचिन्नित्यफलभेदसंभवात् सर्वेभ्यः कामेभ्यो ज्योतिष्टोम इति श्रवणाञ्चत्रोपात्तं वाक्यं प्रायिकविषयं स्यादित्यात्राह - न हीति । अध्रुवैः अध्रुवफलसाधनतया चोदितैरित्यर्थः । ध्रुवं तदिति वाक्यखण्डान्वयात् नित्यफलार्थत्वाभावः रव्याप्यते । पुनरावृत्तिनियमवतः सर्वकर्मनिर्मूलनत्वायोगेन ध्रुवफलसाधनत्वाभावं द्रढति - प्लवा इति । अदृढाः तमसः पारं गमयितुमक्षमाः । अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढाः जरामृत्यू ते पुनरेवापि यन्ति । इति ह्यत्र वाक्यदेषः ।

अथ सूत्रार्थानुगुणं कर्मणां नित्यफलसाधनत्वाभावनिश्चयस्य निर्वेदहेतुत्वं ब्रह्मज्ञानस्यानन्तफलत्वं च समुञ्चित्य वदद्वाक्यमाह - परी क्ष्येति । इयं श्रुतिः सारे व्यारव्याता - ब्राह्मणः - वेदाभ्यासरतः, कर्मचितान् - कर्मणा संपादितान् , लोकान् आराध्यक्षयित्वेन क्षयस्वभावान् , कर्ममीमांसया परीक्ष्य, अकृतः - नित्यः परमपुरुषः, कृतेन - कर्मणा नास्ति न संपद्यत इति यो निर्वेदमायात् , स तद्विज्ञानार्थं गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं - वेदान्तवेदिनम्, ब्रह्मनिष्ठं साक्षात्कृतपरमपुरुषस्वरूपम् । स च गुरुः सम्यगुपसन्नाय तस्मै, येन विद्यावि शेषेण तम क्षरं सत्यं परमपुरुषं विद्यात् , तां ब्रह्मविद्याम् प्रोवाच प्रब्रूयादित्यर्थः । स गुरुमेवाभिगच्छेत् तस्मै स विद्वान् प्रोवाचेत्यनन्वयात् , अप्राप्तत्वाञ्च । विधावपि लिटो विधानात् ; छन्दसि लुङ्लङ्लिट इति, इति । अत्र न्यायसिद्धानुवादांशे जातिवाचिनोऽपि ब्राह्मणशब्दस्य प्रकृतकर्मपरीक्षणौपयिकसाङ्गाध्येतृसमर्पणेनाजहल्लक्षणया त्रैवर्णिकविषयत्वार्थं वेदाभ्यासरतः इत्युक्तम् । ब्रह्म अणतीत्यपि ब्राह्मणशब्दं निर्ब्रुवन्ति । आराध्यक्षयित्वेनेति सुकृतविनासोपलक्षणम् । कर्ममीमांसयेत्यर्थलभ्योक्तिः । अकृतशब्दस्य पुंलिङ्गतानुरोधात् वाक्यशेषशक्त्या च परमपुरुषो विशेष्यो दर्शितः । अत्र नास्तिशब्देनाकृतस्य स्वरूपनिषेधायोगात् कर्मणा इत्यनेन चानन्वयात् उत्पत्तिनिषेधस्यानपेक्षितत्वात् तस्य विशदबोधायेत्यर्थः । समित्पाणित्वमिह ब्रह्म

विद्याश्रवणार्थोपनयनान्तरव्यञ्जनार्थमिति केचित् । उक्तं हि छान्दोग्ये जाबालं प्रति गौतमेन - नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहरोप त्वानेष्य इति । अन्येत्वाहुः - अनुपनीते जाबाले युक्तमुपनयनम् ; अन्यत्र तु समित्पाणित्वोक्तिररिक्तपाणित्वोपलक्षणार्था ; दृश्यते हि वैश्वानरविद्यायाम् - ते ह समित्पाणयः पूर्वाह्णे च प्रतिचक्रमिरे तान् हानुपनीयैवैतदुवाच इति । प्रजापतिवाक्ये च एकस्यैवेन्द्रस्य बहुषु प्रश्नेषु समित्पाणिः पुनरेयायेत्यावर्त्यते । न हि तत्र बहुवारमुपनयनं दृष्टमिष्टं वा । सूत्रकारश्च संस्कारपरामर्शादित्येतावन्मात्रं वक्ष्यतीति । एकां शाखामधीत्य श्रोत्रिय इत्युक्तस्याधीतस्वाध्यायमात्रस्य प्रकृतानुपकारकतया वेदान्तवेदिनमिति श्रोत्रियशब्दस्यात्राकामहतश्रोत्रियपरत्वं दर्शितम् । स्फुटप्रवचनक्षमत्वमदृष्टत उपकारकतमत्वं च ब्रह्मनिष्ठशब्दाभिप्रेतमित्याह - साक्षात्कृतपरमपुरुषस्वरूपमिति । प्रशान्तचित्तायेत्युक्तत्वाच्छमोऽत्र बाह्यकरणव्यापारान्तरनिवृत्तिः । शमदमाविह श्रवणौपयिकावधानार्थौ । तस्मादेवंविच्छान्तो दान्त इत्यादौ तु श्रवणतो विदितार्थस्य विद्यार्थौ । येनेत्यत्र लिङ्गव्यत्ययस्य क्लिष्टत्वात्सामान्योपक्रमत्वं द्योतयति - विद्याविशेषणेति । तथा च प्रयुञ्जते तत्र बाधकमभवत् क्षणभङ्गो वा बाह्यार्थभङ्गो वा इत्यादि । स्वरूपतः स्वभावतश्च विकारं निवर्तयद्भ्यामक्षरसत्यपदाभ्यां प्रधानक्षेत्रज्ञव्यवच्छेद इत्यभिप्रायेणाह - परमपुरुषमिति । संशयविपर्ययार्हवचनम् , अपूर्णवचनं च क्षेप्तुं तत्त्वतः इति विशेषणम् ; आचार्योऽप्यनाचार्यो भवति श्रुतात्परिहरमाण इति स्मरन्ति । वृत्तार्थकथनभ्रभनिरासायाह - प्रब्रूयादिति । अभिगच्छेदित्युपक्रमप्रतीतविधिबाधेन व्यत्ययानुसरणं क्लिष्टम् ; अतः प्रोवाचेत्यस्य भूतपरत्वेनानन्वय इत्यभिप्रायेणाह - स गुरुमेवेति । नियमविधित्वमवधारणेन व्यञ्जितम् । प्रोवाचेत्यस्य

विधिपरत्वे हेत्वन्तरमाह - अप्राप्तत्वादिति । यद्यपि लाभाद्यपेक्षया कस्यचिद्रागतः प्रवृत्तिः ; तथाऽपि तन्निरपेक्षस्य गुरोः सच्छिष्यविषये धर्मार्थमिदं विधीयत इति न विरोधः । लिटो लिङर्थत्वस्य विशेषतोऽनुशिष्टत्व मप्याह - विधावपीति ।

ब्रह्मज्ञानस्य परशब्दनिर्दिष्टब्रह्मप्रापकतया प्राकरणिकनित्यनिरतिशयानन्दप्रापकत्वमभिप्रेत्याह - ब्रह्मविदि ति । ब्रह्म प्राप्तस्यापि स्वर्गादिन्यायात् इमान् लोकानित्यादिभिश्च पुनरावृत्त्यादिशङ्कां परिहर्तुमाह - न पुन रिति । मृत्युरिह मरणम् , मोहो मृत्युस्संमतो यः कवीनामित्याद्युक्तं वा । पाप्मनां निश्शेषक्षये मृत्यूपलक्षितं सर्वमनिष्टं न स्यात् , लोकानुसरणं चैच्छमिति भावः । तदेकदर्शनमिहोपायः, फलं वा । न प्रेत्य संज्ञास्तीति यिद्याप्रकरण

स्थवाक्येन मुक्तस्य ज्ञानलोपशङ्कां निवर्तयन् मृत्युतत्कार्यनिवृतिं्त च व्यनक्ति - न पश्य इति । मुक्तस्य तदातनपरदुःखप्राक्तनस्वदुःखदर्शनेऽपि तयोः स्वाश्रितत्ववर्तमानत्वाभावान्न तं प्रति प्रतिकूलत्वम् । एवं हि बन्धदशायामपि दृष्टम् । तत्र तु परदुःखदुःखित्वं, गतानुशोचनं च कर्मोपाधिकमेव ; न रोगं नोत दुःखतां सर्वं ह पश्यः पश्यतीत्यादिना विशेषेण दृश्यमानेष्वपि स्वप्रातिकूल्यदर्शनं नास्तीति हि स्थाप्यते । पश्योऽत्र तदेकं पश्यतीति समानप्रकरणात् ब्रह्मदर्शी जीवः । पश्यतीति व्युत्पत्त्या परमात्मन्यपि, पश्यः पश्यति पश्यन्तमित्यादिप्रयोगदृष्टेः । ब्रह्मात्मकतया सर्वस्य दर्शनात्तदेकदर्शनसर्वदर्शनयोः न विरोधः । न केवलं निर्व्यापारसार्वज्ञ्यमात्रम् , अन्यराजानस्ते क्षय्यलोका भवन्तीत्याम्नातकर्ममूलानीश्वरपारतन्त्र्यनिवृत्त्या स्वच्छन्दवृत्तिश्च स्यादित्यभिप्रेत्याह - स स्वराडि ति । अत एवेश्वरपारतन्त्र्यस्थितावपि स्वराट् स्वतन्त्र इति नैघण्टुकोक्तिर्न विरुध्यते । अमृतत्वम्योपायान्तरनिषेधश्रुत्या कर्मसाध्यामृतत्वोक्तेरन्यपरत्वं द्रढयति - तमेवमि ति । अत्र च गुणविभूतिविशिष्टमहापुरुषपरामर्शाज्जीवस्यैव निर्विशेषस्वरूपधिया पुरुषान्तरधिया वा मुक्तिः स्यादिति परेष्टं निरस्तम् । ऐक्यभेदाभेदबुद्ध्योरमृतत्वहेतुत्वं श्रुत्यैव क्षिप्तमित्याह - पृथगि ति ।
ततः उपासनरूपात् पृथक्त्वमननादित्यर्थः । तेन जुष्टः - प्रेरकेण प्रीतिविषयीकृतः । अनेन स्थिरस्य परानुग्रहस्यैव फलद्वारतोक्तिः । धातुः प्रसादादिति च श्रूयते । नन्वत्रात्मानं प्रेरितारं चेति समुच्चित्यमननमुक्तम् ; अतोऽन्यज्ञानस्यापि मोक्षहेतुत्वं भाति ; सत्यम् , न तावता प्रेरकप्राधान्यमपह्नियते । कश्चिद्धीरः प्रत्यगात्मानमैक्षत् आवृत्तचक्षुरमृतत्वमिच्छन्नित्यादावपि परविद्याङ्गजीवदर्शनपरम् । आदिशब्दः भूयसां स्याद्बलीयस्त्वमिति न्यायेन वाक्यान्तरैरप्युक्तदृढीकरणार्थः ।

ननु च साङ्गवेदाध्ययनादेव कर्मणां स्वर्गादिफलत्वं स्वर्गादीनां च क्षयित्वं ब्रह्मोपासनस्यामृतत्वफलत्वं च ज्ञायत एव । अनन्तरं मुमुक्षुः ब्रह्मजिज्ञासायामेव प्रवर्तताम् । किमर्था धर्मविचारापेक्षा । एवं तर्हि शारीरकमीमांसायामपि न प्रवर्तताम् , साङ्गाध्ययनादेव कृत्स्नस्य ज्ञातत्वात् । सत्यम् ; आपातप्रतीतिर्विद्यत एव, तथाऽपि न्यायानुगृहीतस्य वाक्यस्यार्थनिश्चायकत्वादापातप्रतीतोऽप्यर्थः संशयविपर्ययौ नातिवर्तते ; अतस्तन्निर्णयाय वेदान्तवाक्यविचारः कर्तव्य इति चेत् , तथैव धर्मविचारोऽपि कर्तव्य इति पश्यतु भवान् ।

ग़्ड्ढन्द्य घ्द्धड्ढध्त्दृद्वद्म नन्वज्ञानादिप्रत्यनीकस्वमात्रप्रकाशे निर्विशेषे नित्यमुक्ते ब्रह्मणि कथमविद्यातिरोधानभेददर्शनबन्धतन्निवृत्तिनिवर्तकादीनां संभवः ? कर्मकृतस्य बन्धस्य निष्कृतिनयात् कर्मविशेष एव निवर्तकः स्यात् । निवर्तकज्ञानं च ततो ज्ञानं प्रवर्तत इति स्मरणात् कर्मसाध्यम् । कथं च बन्धकस्वभावस्य कर्मणः क्वचिन्मुमुक्षोपयोगः ? अन्तःकरणस्य कुतः कीदृङ्मालिन्यम् ? कुतश्च कीदृङ्नैर्मल्यम् ? कर्मणश्च प्रमाणतन्त्रं ज्ञानं प्रतीव विषयानुकूल्यधीनिघ्नां विविदिषां प्रत्यपि कारणत्वं न दृष्टम् । निवृत्तिधर्मस्य मोक्षहेतुत्वाभावे तद्वाक्यवैयर्थ्यप्रसङ्गः, इत्यादिशङ्काशङ्कूनुद्धरन् कण्ठोक्तमाभिप्रायिकं च संकलय्य दर्शयति - एतदि ति ।

प्रपञ्चितस्य संक्षेपः संक्षिप्तस्य प्रपञ्चनम् ।

एतदुक्तंभवतिना समाधिर्व्याकुलस्य च ।। 294 ।।

आच्छादकत्वोक्त्या भावरूपत्वं सूच्यते । तत एव तदुपहितस्योपादानत्वसंभवः । अविद्यया मनागिव छन्नत्वाद्ब्रह्मण्यध्यासाद्युपपत्तिः । स्वप्नदृष्टपुरुषान्तरादिभेददर्शनसाम्यसूचनाय अपारमार्थिक शब्दः । भेददर्शनमेवे त्यत्र देहात्मैक्यबुद्धावपि कर्तृत्वभोक्तृत्वदेवत्वमनुष्यत्वादिभेददर्शनमन्तर्णीयते । तेन देहातिरिक्तत्वज्ञानमेवालं, किमकर्तृत्वादिविशेषितब्रह्मज्ञानेनेति च शङ्का निरस्ता । कर्मणोऽपि न स्वयं बन्धकत्वम् , दृष्टोपनायकसाधारणनिमित्तत्वात् । अतो भेदभ्रमसिद्धस्य कर्मणोऽप्यपारमार्थिकत्वात् भेदभ्रमद्वारेणैव बन्धकत्वाच्चात्र ज्ञानेतरनिवर्त्यं सत्यं किमपि न बन्धकमस्तीत्यवधारणाभिप्रायः । नन्वसत्यात्सत्यसिद्धिस्त्वन्मतेऽस्तीत्यत्राह - बन्धश्चे ति । बन्धस्य अबाधितत्वे हि सत्यत्वासत्यत्वशङ्का, ब्रह्मणो नित्यमुक्तत्वविरोधश्चेति भावः । निष्कृतिन्यायपरिहारायाह - स चे ति । सत्कर्मणा पापनिवृत्तिश्च भ्रान्तिसिद्धा । अतो मूलभूताविद्याप्रभृतिबन्धपर्यन्तं कृत्स्नं मन्त्रनिरपेक्षरज्जुसर्पनयात् कर्मनिरपेक्षाद्वैतबुद्ध्यैव बाध्यमित्यभिप्रायेण ज्ञानेनैवे त्युक्तम् । मोक्षसाधनस्य कर्मसमुच्च याभावेऽपि स्मृतिवशात्तदुत्पादकस्य स्यादित्यत्राह - निवर्तकमि ति । अयं भावः - विगीतं प्रमाणजन्यं निवर्तकज्ञानत्वात् अविगीतवत् ; न कर्मजन्यमिति वा साध्यम् । स्मृतिस्त्वन्यपरा । परिशेषाद्वाक्यहेतुकत्वं स्वोक्तयुक्तिबलादिति । परोक्तः कर्मोपयोगः प्रमाणशून्य इत्यभिप्रायेणाह - तस्यैतस्ये ति । तस्य - अद्वैतगोचरस्य कर्मव्यतिरिक्तकरणतदनुग्राहकवतः । एतस्य - स्वविषयविरुद्धबाधे स्वयमेव समर्थस्य । अन्वयव्यतिरेकवतः कारणान्तरव्यपोहाय वाक्यजन्यत्वोक्तिः । यज्ञेन विविदि ष न्तीति श्रुतेर्यज्ञादीनां विनियोगपृथक्त्वेन पृथक्फलत्वोपपत्तिरिति रव्यापयति - विविदिषायामि ति । यथाश्रुतायामित्यवधारणाभिप्रायः ।

तत्राप्यव्यवहितहेतुत्वं तुशब्देन व्यावर्त्यते । असिना जिघांसतीत्यादिवत् क्लिष्टगतिर्बाधसिद्धौ । अथ मनोमालिन्यादिकं विवृणोति - स चे ति । धर्मस्य पापनिवृत्त्यादि साध्यान्तरं विहितम् । श्रद्धायाः सत्त्वरूपसाध्यान्तरं च शास्त्रसिद्धम् । सत्त्वस्य ज्ञानसाधनत्वोक्तिश्च परंपरया स्यात् । पापमूलरजस्तमोविवृद्धिर्मनोमालिन्यम्। धर्मेण तदपनुत्त्या सत्त्वशुद्धिर्नैर्मल्यम् ।

कर्मभिः शुद्धचित्तस्य तत्त्वे स्यादनुकूलधीः ।

निर्णिनीषा ततस्तस्मिन् कर्मजैवं भवेदिति ।। 295 ।।

अथ प्रथम इतिर्हेतौ ; सोपबृंहणश्रुतिस्वारस्यानुगुणनिर्वाहादित्यर्थः । इमम् विविदिषोत्पत्तावपि त्रिचतुरकक्ष्याव्यवहितमिति यावत् । अभिप्रेत्य - शाब्दत्वाभावेऽपि श्रुत्यन्तरेण स्मृत्या च स्वीकृत्य । ईदृशोपयोगान्निवृत्तिधर्मविधेश्च साफल्यमिति भावः । अत्रोपायशोधने वक्तव्यशेषं न किञ्चिदित्यभिप्रायेण निगमयति - अत इति । उपादातुं हातुं वा ज्ञानतद्विचाराभ्यां कर्मतद्विचारयोरनपेक्षणादित्यर्थः । अत्रायं संग्रहस्तू लिकास्थः -

विरोधादप्रमाणत्वाच्चित्तशुद्ध्युपयोजनात् ।

ज्ञानमात्रस्य हेतु झ्र् त्वे ट त्वश्रुतेः सामर्थ्यतोऽपि च ।।

शमाद्यङ्गकताम्नानान्न धीकर्मसमुच्चयः ।

श्रवणादिक्रमोन्निद्रवाक्यजा धीर्विमोचिका ।। इति ।

विरोधात् - स्वरूपतः फलतश्चेति शेषः । अप्रमाणत्वात् - कर्मणां ज्ञानतत्फलयोः साधनत्वे प्रमाणशून्यत्वात् । यद्वा प्रमाणत्वाभावात् । सामर्थ्यतः - मिथ्याभूतबाधे ज्ञानस्यैव पर्याप्तत्वात् । धीकर्मसमुच्चयः - मतत्रयोक्तप्रकारः । उन्निद्रत्वं प्रतिबन्धनिवृत्त्या पुष्कलत्वम् ।

लघुसिद्धान्तः ।

अत्रोच्यते - यदुक्तम् अविद्यानिवृत्तिरेव मोक्षः ; सा च ब्रह्मविज्ञानादेव भवतीति । तदभ्युपगम्यते । अविद्यानिवृत्तये वेदान्तवाक्यैर्विधित्सितं ज्ञानं किंरूपमिति विवेचनीयम् ; किं वाक्याद्वाक्यार्थज्ञानमात्रम् , उत तन्मूलमुपासनात्मकं ज्ञानमिति । न तावत् वाक्यजन्यं ज्ञानम् , तस्य विधानमन्तरेणापि वाक्यादेव सिद्धेः, तावन्मात्रेणाविद्यानिवृत्त्यनुपलब्धेश्च ।

अविरोधविहीनत्वात् ख्यातत्वादुपपन्नवत् ।

पक्षेऽस्मिन् दूषणं वाच्यमत्रोच्यत इतीर्यते ।। 296 ।।

साध्यसाधनद्वित्वनिरासः ।

इह तावत् साध्यसाधनद्वित्वनिरासं विरुद्धांशभङ्गाय यदुक्तमित्यादिना सामान्यतोऽनुमन्यते । अविद्यातन्निवृत्तिब्रह्मतद्विज्ञानेषु तत्तत्प्रकारविशेषतो विमतिर स्त्येव। स्वमते ह्यविद्यानिवृत्तिर्नाम स्वाभाविकधीप्रसरप्रतिबन्धकस्य कर्मणोऽत्यन्तोच्छेदः ; स च भावान्तररूपः ।

प्रतिबन्धनिवृत्त्यंशोऽनिष्टभङ्ग इहोदितः ।

धीविकासः स्वतः सिध्यन्निष्टप्राप्तिर्विवेचकैः ।। 297 ।।

अतो नावधारणविरोधः । ब्रह्मतद्विज्ञाने च परमार्थबह्वाकारे । न वयं तद्विज्ञानस्य कारणत्वाभावं, कर्मसमुच्चितत्वं, फले तत्सहकृतत्वं वाऽभ्युपगच्छाम इत्यभिप्रायेण ब्रह्मविज्ञानादेवे त्युक्तम् । अभ्युपगम्यते चेत् किं दूष्यमित्यत्र निवर्तकज्ञानप्रकारे तावद्विगानमाह - अविद्ये ति । विधित्सितम् - स्वमते साधनतया चोदयितुमिष्टं, परमते तूत्पिपादयिषितम् । एवं तन्त्रोक्तं विभजते - किंरूपमि ति । किं कर्मनिरपेक्षतया त्वदुक्तम् , उत कर्माङ्गतया अस्मदुक्तमित्यर्थः । विवेचनीयम् अन्यतरकोटिनिरासेन कोट्यन्तरतया परिशेषणीयमिति यावत् । सङ्कलितं विविङ्क्ते - किमि ति । वाक्यार्थगोचरस्मृतिरूपविधेयव्यावृत्त्यै वाक्यादि त्युक्तिः । इन्द्रियसंबन्धाद्वाक्यतः तत्स्वरूपधीः स्यात् , पुत्राद्यनुमा च ; तद्व्यवच्छित्त्यै वाक्यार्थग्रहणम् । ध्यानादिद्वारनैरपेक्ष्यं मात्रचोक्तम् । परस्य वाक्यार्थज्ञानं जीवपरयोरैक्यधीः स्वस्य तु प्रकारप्रकारित्वबुद्धिः ; अतः तन्मूलत्वोक्तिरविरुद्धा । मननादिव्यावृत्त्यर्थम् उपासनात्मकत्वोक्तिः । परेष्टं दूषयति - न तावदि ति । तिष्ठतु पक्षान्तरम् ; इदं तु नैवेत्यर्थः । परकल्पितपश्चिमवाक्यार्थज्ञानस्यासंभवं वक्ष्यन् सर्वसंमतप्रथमवाक्यार्थज्ञानस्य उपायत्वे द्रष्टव्य इत्यादिविधिवैयर्थ्यप्रसङ्गं विधित्सितपदसूचितमुद्घाटयति - तस्ये ति । विधेः शब्दजन्यज्ञाने निर्व्यापारत्वं परैरेवोक्तम् ; प्रमाणझ्र्जटज्ञानं वस्तुतन्त्रं न पुरुषतन्त्रं कर्तुमकर्तुमन्यथाकर्तुं चाशक्यत्वादित्युक्तेरित्याशयः । वाक्यात् ; स्वरूपपरवाक्यादिति यावत् । एवकारो विधिनैरपेक्ष्यं बाध्यवासनायाः प्रतिबन्धकत्वायोगं च व्यनक्ति । सिद्धेः उत्पत्तेः । न तावदिह वाक्यजन्यं ज्ञानं तत एव वाक्यात् बोध्यम् , संसर्गतया संसृष्टतया वा प्रवेशाभावात् । नापि प्रज्ञां कुर्वीते त्यादिवाक्यान्तरैः, सिद्धस्याविधेयत्वात् । साधनत्वेन बोधनं चानपेक्षितम् , अदृष्टार्थत्वानभ्युपगमात् कल्पितबाधे च सामर्थ्यतः साधनत्वावगतेः । अतो विधिवैयर्थ्यमित्याशयः । ननु विध्यनुसारित्वान्न झ्र्वैयर्थ्यटविधित्वमिति चेत् ;

तथापि तादृशाम्नानवैयर्थ्यं दुरतिक्रमम् । विधिवैयर्थ्योक्तिः आझ्र्प्रायटप्रयाणानुष्ठेय विधेयाकारवर्गवादिनां ब्रह्मनाडीनिष्क्रमणदेवयानगत्यादिवादिनां च शास्त्राणां वैयर्थ्यमप्युपलक्षयति ।

वाक्यजन्यज्ञानस्य मोक्षोपायत्वनिरासः ।

अत्र प्रत्यक्षविरोधमप्याह - तावन्मात्रेणे ति । न ह्युत्पन्नं ज्ञानमविद्यानिवर्तने अन्यदपेक्ष्य विलम्बेत, यतोऽनुपलब्धिरबाधिका स्यात् । सा च स्वपरयोः प्रत्यक्षानुमानसिद्धा । प्रत्यक्षविरुद्धं च न शास्त्रवेद्यम् ; न च तादृशविज्ञानमात्रादविद्यानिवृत्तिः, अन्वयव्यतिरेकासिद्धेरिति भावः । अत्रैवमापस्तम्बेन शास्त्रविरोध उक्तः - बुद्धे क्षेमप्रापणम् , तच्छास्त्रैर्विप्रतिषिद्ध मिति । विशेषेण प्रतिषिद्धमित्यर्थः ; न हि तुल्यबलविरोधोऽत्र घटते । प्रत्यक्षविरोधश्चोक्तः - बुद्धे चेत् क्षेमप्रापणमिहैव न दुःखमुपलभेत, एतेन परं व्याख्यातमिति ।

न च वाच्यं भेदवासनायामनिरस्तायां वाक्यम् अविद्याया निवर्तकं ज्ञानं न जनयति ; जातेऽपि सर्वस्य सहसैव भेदज्ञानानिवृत्तिर्न दोषाय, चन्द्रैकत्वे ज्ञातेऽपि द्विचन्द्रज्ञानानिवृत्तिवत् ; अनिवृत्तमपि छिन्नमूलत्वेन न बन्धाय भवतीति ; सत्यां सामग्र्यां ज्ञानानुत्पत्त्यनुपपत्तेः, सत्यामपि विपरीतवासनायामाप्तोपदेशलिङ्गादिभिर्बाधकज्ञानोत्पत्तिदर्शनात् ।

श्रुतिप्रत्यक्षविरोधयोर्द्विधोत्तरमनूद्य निषेधति - न चे ति । न्यायोपेतश्रुवणे पश्चादिव प्रागपि कथं ज्ञानानुत्पत्तिः इत्यत्रोक्तम् - भेदवासनायमि ति । प्रतिबन्धकवासनानिरासे विधीनामुपयोगः । दिग्भ्रमादयो हि उपदेशलिङ्गाभ्यामनिवृत्ताः कदाचित् कुतश्चिद्वासनाविच्छेदे निवझ्र्र्तटर्त्यन्ते ; तद्वदिहेति भावः । दृश्यमानपरोक्षज्ञानव्यावृत्त्यर्थम् अविद्याया निवर्तकमि त्युक्तम् । न जनयती त्यनेनाविद्यानिवृत्त्यनु पलब्धिविरोधोऽपि परिहृतः ।

अत्रैवमद्वैतसंप्रदायरहस्यम् - आपातिकं तु ज्ञानमविद्यां न निवर्तयति, अनिश्चयात्मकत्वात् । विचारजन्या तु धीः परोक्षाध्यवसायरूपभेदसत्यत्वभ्रमजनकमविद्यांशं निवर्तयति । तथाऽप्यपरोक्षानादिभेदभ्रमोपचिता तद्वासना तादृशं भ्रममाधत्ते । तदवष्टंभोऽविद्यांशस्तु अद्वैतसाक्षात्कारेण निवर्तते । निवृत्तेऽपि तस्मिन् प्रारब्धकार्यकर्मावष्टंभः कश्चिदविद्यांशोऽनुवर्तते ; तां दशां जीवन्मुक्तिमाहुः । सोऽप्यंशोऽन्तिमाद्भोगसंवेदनादात्मसंवेदनाद्वा निवर्तते । ईदृशाविद्यांशभेदाभिप्रायेण इन्द्रो मायाभिः पुरुरूप ईयत इत्युच्यते । उक्तक्रमेण मायांशानां निवृत्तिमभिप्रेत्य भूयश्चान्ते विश्वमायानिवृत्तिः विमुक्तश्च विमुच्यते इति श्रुतिराहेति । तत्र

द्वितीयांश इहाविद्याया इत्युक्तः । अथ परोक्षरूपस्यैव ज्ञानस्य निवर्तकत्वमन्वारुह्यापि प्रत्यक्षविरोधं परिहरति - जातेऽपीति । यद्वा सर्वविदां सनकादीनामनुत्पन्नसाक्षात्कारत्वमविद्यावत्त्वं च न युक्तम् ; उत्पन्नसाक्षात्काराणां तु शिष्यादिप्रतिभासायोगादुपदेष्टृत्वादिकं न स्यात् । न हि परोक्षज्ञानमात्रवान् झ्र्अटतत्रोपदेष्टा, उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिन इति विशेषणात् । अत उभयतस्स्पाशा रज्जुरित्यत्र तृतीयाविद्यां

शस्थिति दशानुसारेण प्रतिवक्ति - जातेऽपीति । यस्यैकैव ब्रह्माविद्या, एक एव च जीवः ; तस्यैकाविद्यानिवृत्तौ क्वापि जीवपदास्पदभेदभ्रमानुवृत्तिर्बन्धमुक्तिव्यवस्था च स्यादिति चोद्यानुवादसूचनायान्तःकरणभेदोपाधिकाभिव्यक्तिविकल्पानुसारेण सर्वस्येत्युक्तम् । सहसैवेत्येतन्निवृत्त्या योज्यम् । अविद्यांशान्तरावष्टब्धप्रवृत्तफलकर्मावसाने हि सर्वभेदझ्र्धीटभ्रमनिवृत्तिरिति भावः । न दोषाय - अविद्यानिवृत्तौ भ्रमोऽपि निवर्तेत, अकारणकार्यायोगात् । अतो रागादिदृष्ट्या भ्रमानुवृत्तेरविद्याऽपि न निवृत्तेति ज्ञानस्य निवर्तकत्वाभावप्रसक्त्यै न स्यात् , बाधितस्याप्यनुवृत्तिसंभवादित्यभिप्रायः स्वेष्टं लोकदृष्ट्या प्रत्याययति - चन्द्रेति । अङ्गुल्युपष्टंभादिमतः चन्द्रैकत्वे वाक्यतो ज्ञातेऽपीति भाव्यम् । इदं निदर्शनमन्वारुह्यवादे सुगमम् ।अन्यत्र तु निवर्तकज्ञानस्य प्रत्यक्षत्वं निगुझ्र्गृटह्य नेतव्यम् ; प्रत्यक्षतश्चन्द्रद्वित्वभ्रमे बाधिते पुनस्तदनुवृत्त्ययोगात् यद्वा प्राच्यादुपष्टंभाद्भ्रमे प्रत्यक्षबाधिते ।

पनरङ्गुल्युपष्टंभाद्भ्रमावृत्तिर्न दृश्यते ।। 298 ।।

अविद्याजनिता भ्रान्तिर्वाक्यजाध्यक्षबाधिता ।

युक्ता तदनुवृत्तिर्हि भूयस्संस्कारशेषतः ।। 299 ।।

ननु तत्त्वदर्शनात्प्रागपि भेदज्ञानमेव बन्धमूलम् ; पश्चादपि तदनुवृत्तौ रागाद्यनुवृत्त्या बन्धानिवृत्त्या बन्धनिवृत्तिः स्यात् ; न हि कारणनिवृत्त्या कार्यं स्वकार्याय घटते ; मन्यसे चाविद्याशेषानुवृत्तिमित्यत्राह - अनिवृत्तमि ति । अपिर्विरोधद्योतकः । मूलच्छेदात् खण्डितलतान्यायेन क्रमाद्विनश्येत् , न पुनः प्ररोहेत् । स्वविषयसत्यत्ववासनारूषितं हि भेदज्ञानं रागादिहेतुः, प्रतिमायोषिदादिषु तथाभावादित्यभिप्रायेण छिन्नमूलत्वोक्तिः । दग्धपटचक्रभ्रमादिन्यायोत्राभिप्रेतः । अत्र ज्ञानं न जनयतीत्युक्तं तावन्निरस्यति - सत्यामि ति । व्युत्पन्नपदमाकाङ्क्षादिविमर्शोपेतं वाक्यमपेक्षणीयान्तररहितमित्यभिप्रायेण सामग्रीशब्दः ; अन्यथाऽतिप्रसङ्ग इति भावः । नन्वप्रतिबन्धोऽपि सामग्रीति न्यायाद्भेदवासनैव स्वनिवृत्तिरूपकारणाभावात्मा सामग्रीवैकल्यं स्यात् । यद्वा पुष्कलाया अपि सामग्र्याः शक्त्यपहारेण प्रतिवन्धिकेत्य

त्राह सत्यामपी ति । अयं भावः - यदि विपरीतवासनैव प्रतिबन्धः प्रतिबन्धिका वा स्यात् , तदा अनिरस्तसंस्कारे रज्जुसर्पादिभ्रमे कदाचिदपि बाधकधीर्नोदियात् ; उदेति चासाविति प्रसङ्गतद्विपर्ययाभ्यां व्यतिरेकव्यभिचारदृष्टेः न विरुद्धवासनानिवृत्तिरत्र हेतुः । रज्जुसर्पवासनानुवृत्तावपि हि नायं सर्पः इत्याप्तवाक्येन दण्डसङ्घट्टनादिनिरूपितेन निश्चेष्टत्वादिलिङ्गेन च परोक्षं बाधकज्ञानं जायते । चन्द्रभेदवासनानुस्यूतावपि अङ्गुल्युपष्टंभादिदोषापगमे चन्द्रैक्यप्रत्यक्षधीरपि भवति । न च वाक्यादपरोक्षबुद्ध्युत्पत्तौ विरुद्धवासनानिवृत्तिरपेक्षितेति वाच्यम् ; अविशिष्टशक्तेर्वाक्यस्य परोक्षधीजननेऽपि तदपेक्षाप्रसङ्गात् । अभेदवासनया भेदवासनानिवृतिं्त वदतः चक्रकं च स्यात् अभेदाध्यवसाये तद्भावना, तया भेदवासनानिवृत्तिः, तत एवाभेदाध्यवसाय इति । अध्यवसाये वासनानिवृत्तिरनपेक्षितेति

चेत् साक्षात्कारेऽपि नापेक्ष्येत, अविशेषात् । दशमान्वेषिणश्च दशमाभाववासनास्थितावपि दशमस्त्वमसीत्युपदेशेन प्रत्यक्षधीजननं च त्वयैवोक्तम् । तत्त्वमसि दशमस्त्वमसीत्यनयोर्वाक्ययोः अपरोक्षात्मविषयत्वं च समानं त्वमेवात्थेति ।

सत्यपि वाक्यार्थज्ञाने अनादिवासनया मात्रया भेदज्ञानमनुवर्तत इति भवता न शक्यते वक्तुम् ; भेदज्ञानसामग्र्या अपि वासनाया मिथ्यारूपत्वेन ज्ञानोत्पत्त्यैव निवृत्तत्वात् । ज्ञानोत्पत्तावपि मिथ्यारूपायास्तस्या अनिवृत्तौ निवर्तकान्तराभावात्कदाचिदपि नास्या वासनाया निवृत्तिः । वासनाकार्यं भेदज्ञानं छिन्नमूलम् , अथ चानुवर्तत इति बालिशभाषितम् । द्विचन्द्रज्ञानादौ तु बाधकसन्निधावपि मिथ्याज्ञानहेतोः परमार्थतिमिरादिदोषस्य ज्ञानबाध्यत्वाभावेनाविनष्टत्वान्मिथ्याज्ञानानिवृत्तिरविरुद्धा प्रबलप्रमाणबाधितत्वेन भयादिकार्यं तु निवर्तते ।

बाधितानुवृत्तिदूषणम् ।

अथ प्रत्यक्षविरोधं परिजिहीर्षतो बाधितानुवृत्तेरसंभवमभिप्रेत्याह - सत्यपी ति । मात्रया - न तु कार्त्स्न्येन ; आत्मभेदसत्यत्वाध्यवसायादेर्निवृत्तत्वात् , बाह्येषु भेदधियः किंचिदिव स्थितत्वादिति भावः । भवते त्यशक्यताहेतुगर्भम् ; न हि ब्रह्मव्यतिरिक्तं किंचित्सत्यमिच्छसीति भावः । हेतुं विवृणोति - भेदे ति । सामग्री शब्द इह प्रारब्धकर्मावष्टंभपौष्कल्यसूचकः । अविद्याविनाशे कर्मवासना च कथं तिष्ठेत् ; न हि मृगतृष्णिकानिवृत्तौ तदीयतरङ्गाद्यनुवृत्तिः ; अत उपदेष्टृत्वाद्यनुपपत्तिश्च स्यादिति भावः । ननु मिथ्यात्वाविशेषेऽपि एकाधिष्ठानेषु भिन्नाधिष्ठानेषु च भ्रमेषु किंचिदेव केनचित् बाध्यते, तद्वत्स्यादित्यत्रोक्तम् - ज्ञानोत्पत्त्यैवे ति

। सद्व्यतिरिक्तं सर्वं मिथ्येति बाधकधीः ; ईदृशज्ञानोत्पत्तौ वासनास्थितिस्ते विरुद्धा । न च वासना वान्तरभेदाद्गतिः ; मिथ्यात्वानपायात् । न हि रज्जुरित्यवगते सर्पाद्यन्यतमधीः अनुवर्तेत । किं च निरस्तायामेव भेदवासनायां बाधकज्ञानोत्पतिं्त वदतस्ते तदुत्पत्तौ कथं सा तिष्ठेत् ? स्थिता काचित् केन निवर्त्येत ? यदि ज्ञानान्तरेण ; तन्न, अविशेषात् ; अथ भोगक्षयात् , तर्हि ज्ञानबाध्यत्वाभावात् सत्या स्यात् ; एवं कर्मापि । अद्वैतसाक्षात्कारेऽपि वासनानुवृत्तावनिर्मोक्षप्रसङ्गमभिप्रेत्याह - ज्ञानोत्पत्तावि ति । ज्ञानैकनिवर्त्यत्वाय मिथ्यारूपत्वो क्तिः ; निवर्तकान्तराभावात् सत्यत्वप्रसङ्गभीतैः ज्ञानेतरबाध्यत्वस्यानभ्युपगमात् स्वकल्पितान्तिमभोगसंवेदनादिज्ञानशतागमेऽपि तेषां पूर्वज्ञानवन्निवर्तकत्वायोगादिति भावः । अस्याः मूलाविद्याबाधकप्रबलज्ञानेनापि दुर्बाधाया इत्यर्थः । अहेतुकविनाशस्तु न क्वापि नैगमिकैरिष्यते । तदभ्युपगमेऽपि तेषां पूर्वज्ञानवासनाविनाशादेः भ्रान्तिसिद्धत्वेन नित्यं भ्रमानुवृत्त्या पुनरपि वासनासन्ततेरनिवार्यत्वमभिप्रेत्य कदाचिदपी त्युक्तम् । न हि वासनानिवृत्तिः सतः स्वरूपम् , साध्यत्वात् । अतिरिक्ता च न सत्या, अद्वैतभङ्गात् । अभावसत्यत्वेऽपि सदद्वैतं सिद्धमिति चेन्न ; क्वचिद्भेदसत्यत्वे अन्यत्राप्यविशेषात् भावान्तरसत्यत्वेऽपि तद्वदेव ब्रह्माद्वैतानपायाच्चेति । अनिवृत्तमपीत्यादिनोक्तं स्वव्याघातेनोपालभते - वासने ति । स्वोक्तिविरोधानभिज्ञः किमन्यद्वेत्स्यतीत्यभिप्रायेण बालिशत्वो क्तिः । अयं भावः - छिन्नमूलमित्यत्र किं मूलशब्देनाविद्या विवक्षिता ? उत भेदवासना ? आद्ये मूलभूताविद्याच्छेदे तत्समानबाधकस्य संस्कारस्यापि बाधाद्भेदभ्रमो दुर्वच इत्युक्तम् । द्वितीये कथं वासनोच्छेदे तत्कार्यं सन्तन्येत । यदि हेत्वभावेऽपि क्वचित्कार्यं स्यात् , तदा स्वपरमतसाधारणैः स्वाभिमतैश्चाविद्यादिभिर्विनापि तानि तानि कार्याणि स्युः । अतो नेदं यौक्तिकवाक्यमिति । बाधितानुवृत्तौ परोक्तो दृष्टान्तः छिन्नमूलत्वाभावादसमञ्जस इत्याह - द्विचन्द्र इति । तिमिरादिदोषस्य सत्यतया बाधकधीशतैरप्यबाध्यत्वात्त्वया तस्य व्यावहारिकसत्यत्वेनाभ्युपगमात् असत्यत्वेऽपि चन्द्रैकत्वज्ञानस्य तदधिष्ठानगोचरत्वाभावेन तद्बाधकत्वायोगाच्चेति भावः । यथा तत्र दृष्टान्ते भयादिनिवृत्त्या बाधकसाफल्यं, न तथा त्वदिष्टे स्यादिति सूचयन् न बन्धायेत्युक्तं निरस्यति प्रब लेति । प्रमितप्रामाण्यप्रमाणबाधितत्वादित्यर्थः । अत एवात्र कुहकोत्पादितभयादिव्यावृत्तिः । त्वत्पक्षे तु बाध्यबाधकधियोर्द्वयोरपि दोषोत्थत्वेन ज्ञातत्वान्न बाधफलसिद्धिः । लोके बाधितानुवृत्तेरन्यतरविस्रंभफलहीनस्य यथावन्निरूपणार्थप्रवृत्तिहेतुत्वं च बाधकस्य फलमित्याशयः । सर्पादिभ्रमापेक्षया भयादिकार्योक्तिः । आदि शब्देन विस्मयादि

ग्रहणम् । एवं भयाद्यनुत्पादकत्वमभिप्रेत्य न्यायतत्त्वे बाधितानुवृत्तिदशाज्ञानमकिंचित्करत्वादुदासीनमित्युक्तम् । तुशब्देन परोक्ताद्वैषम्यं द्योत्यते - न ह्यत्र नाशकसामग्र्यां सत्यां नाश्यसद्भावः ; न च हेत्वभावे कार्योदय इति । ननु भयाद्यपि क्षणिकत्वाद्भ्रमवन्न बाधकविनाश्यम् ; उत्तरभयानुत्पत्तिश्च भ्रमान्तरानुत्पत्तिवत् प्राक् सिद्धैव ; तर्हि बाधतः कथं भयादिनिवृत्तिर्भाष्यते ? उच्यते - बाधके सति सामग्रीवैकल्याद्भयान्तरानुत्पत्त्यनुवृत्तिमपेक्ष्य भयादिनिवृत्तिभाषणमिति ।

अपि च, भेदवासनानिरसनद्वारेण ज्ञानोत्पत्तिमभ्युपगच्छतां कदाचिदपि ज्ञानोत्पत्तिर्न सेत्स्यति, भेदवासनाया

अनादिकालोपचितत्वेनापरिमितत्वात् , तद्विरोधिभावनायाश्चाल्पत्वादनया तन्निरसनानुपपत्तेः । अतो वाक्यार्थज्ञानादन्यदेव ध्यानोपासनादिशब्दवाच्यं ज्ञानं वेदान्तवाक्यैर्विधित्सितम् । तथा च श्रुतयः - विज्ञाय प्रज्ञां कुर्वीत अनुविद्य विजानाति ओमित्येवात्मानं ध्यायथ, निचाय्य तं मृत्युमुखात्प्रमुच्यते आत्मानमेव लोकमुपासीत आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः इत्येवमाद्याः ।

जातेऽपीति पक्षस्य मन्दत्वव्यक्त्यै सिंहावलोकितेन बहुव्याख्यातृसंमतायां ज्ञानानुत्पत्तौ दूषणान्तरमाह -
अपि चे ति । कदाचिदपि - ध्यानात्प्रागिव पश्चादपीत्यर्थः ; कल्पकोटिसहस्रध्यानेऽपीति भावः । ननु यज्ञादिभिः परिमितैरेवानाद्युपचितापरिमितकल्मषनिबर्हणेन ज्ञानोत्पत्तिमिच्छतामिव श्रवणादिभिर्वासनानिरासेन ज्ञानोत्पत्तिस्स्यादित्यत्राह - भेदवासनाया इति । न ह्यत्र सकृत्स्मृतोऽपीत्यादिन्यायः, अदृष्टद्वारा निवर्तकत्वे निवर्त्यसत्यत्वप्रसङ्गात् । न च मन्त्रनिवर्त्यवत् व्यावहारिकसत्यत्वाददृष्टनिवर्त्यत्वोपपत्तिः, तद्वदेव प्रपञ्चस्यापि तदुपपत्तौ बाधकधीगवेषणवैयर्थ्यात् । स्वरूपत एव निवर्तकत्वे तु तादृशशक्तिवैचित्र्ये प्रमाणाभावेन भूयस्त्वादेर्बलाबलप्रयोजकत्वात् । न च भावना स्वरूपत एव वाक्यस्य सहकारिणी, परोक्षानुभव इवापरोक्षानुभवेऽपि तदन्वयव्यतिरेकादृष्टेः अदृष्टद्वारा सहकारित्वस्यानभ्युपगमात् । अभ्युपगमे तु वाक्यमनपेक्ष्य तस्यैव मनस्सहकारिणः साक्षात्कारजनकत्वोपपत्तेः । अतः कथंचिदपि न वाक्याद्बाधकप्रत्यक्षोदय इत्याशयः ।

विधेयज्ञानस्य मोक्षोपायत्वम् ।

किमित्यादिना प्राग्विकल्पिते मतद्वये दूषितस्य दूषणान्तराण्यवधारणेन सूचयन्स्वमतपरिशेषं तावदाह - अत इति । वाक्यजन्यज्ञानस्य विधेयत्वनिवर्तकत्वादेः युक्तिप्रत्यक्षा

दिविरुद्धत्वादित्यर्थः । वाक्यार्थज्ञानादन्यदेवे ति । अयं भावः - वाक्यार्थबोधमात्रस्योपायत्वविधाने स्वतस्तत्प्रवृत्तौ दुस्तरं चक्रकम् - न हि ब्रह्मस्वरूपं तज्ज्ञानं चाविदित्वा तज्ज्ञानकामना स्यात् । तद्रहितस्य च न तदर्थोपायविधिप्रवृत्ती स्तः । न चोपायानुष्ठानमन्तरेण ब्रह्मधीसिद्धिरिति । ननु स्वाध्यायाध्ययनवद्धितैषिप्रेरणया प्रवृत्तिरस्तु ; मैवम् ; हितैषिभिरपि निर्विशेषचिन्मात्रब्रह्मज्ञानं संपादयेत्युपदेष्टव्यम् ; तदा ह्येवंविधब्रह्मधीसदसद्भावयोस्तदुपायानुष्ठानं न स्यात् । अस्मत्पक्षे तु बह्वाकारविशिष्टे ब्रह्मण्यावृत्तिनैरन्तर्यादिविशिष्टकालान्तरभाव्यतिशयितज्ञानार्थप्रवृत्तौ यथालोकं न विरोधः । लोकसिद्धप्रक्रियानभ्युपगमे स्वप्रवृत्त्यादिविरोधः स्यात् । न च नित्यप्रत्यक्षनिर्विशेषवस्तुवादिनः तव वाक्यतोऽन्यतो वा तद्विषयातिशयितधीः शक्येति ।

ननु मोक्षोपाये विधित्सितत्वोक्तिरयुक्ता, विधिशब्दानामिह पुरुषार्थभूतवाक्यजन्यज्ञानानुवादनिष्ठत्वात् ध्यानादेस्तु तदर्थतया चोदनात् । न चान्यानुपपत्तिमात्रात्तदन्यत्सर्वमुपपद्यते । विविधानि च ज्ञानानि स्मृतिदर्शनादिशब्दैर्व्यपदिश्यन्त इत्यत्राह तथा चे ति । यथा वाक्यजन्यज्ञानादन्यो मोक्षोपायः द्रष्टव्य इत्यादिभिर्विधत्सितः, स च ध्यानाद्यनेकशब्दोपात्तोऽपि एकतया सिध्येत्तथैवेत्यर्थः । चः पारिशेष्येण सह समुच्चयार्थो वा । अत्र वेदनादिशब्दानां ध्यानादिशब्दोक्तविशेषपरताम् , उपसर्गभेदसन्विधिप्रत्ययसदसद्भावैरर्थभेदाभावं च व्यङ्क्तुमीदृशबहुवाक्योपादानम् । उपात्तवाक्यप्रकारवैचित्र्यपर इति शब्दः । तेषां विधिपरत्वसाम्यार्थ एवं शब्दः । अनुपात्तेष्वपि न्यायसंचारार्थम् आद्यो क्तिः ।

अत्र निदिध्यासितव्य इत्यादिनैकार्थ्यात् अनुविद्य विजानाति विज्ञाय प्रज्ञां कुर्वीतेत्येवमादिभिर्वाक्यार्थज्ञानस्य ध्यानोपकारकत्वात् अनुविद्य, विज्ञायेत्यनूद्य प्रज्ञां कुर्वीत, विजानाति इति ध्यानं विधीयते । श्रोतव्यः इति चानुवादः ; स्वाध्यायस्यार्थपरत्वेनाधीतवेदः पुरुषः प्रयोजनवदर्थावबोधित्वदर्शनात् तन्निर्णयाय स्वयमेव श्रवणे प्रवर्तत इति श्रवणस्य प्राप्तत्वात् । श्रवणप्रतिष्ठार्थत्वान्मननस्य मन्तव्यः इति चानुवादः तस्मात् ध्यानमेव विधीयते । वक्ष्यति च - आवृत्तिरसकृदुपदेशादिति ।

प्रज्ञां कुर्वीत, विजानातीत्यादौ न वाक्यार्थज्ञानादन्यत्वं भातीत्यत्र छागो वा मन्त्रवर्णादिति न्यायमभिप्रेत्याह - अत्रे ति । श्रुतेषु तेषु वाक्येष्वित्यर्थः ; निर्धारणे सप्तमी । ऐकार्थ्यमिहैकप्रयोजनत्वम् , एकविषयत्वं वा । तच्चात्र शाखान्तरनयपुरस्कारेण सामान्यविशेष

न्यायसिद्धम् । प्रथमेन आदिशब्देन ध्यायथेत्यादेः, द्वितीयेन विजिज्ञासितव्य इत्यादेश्च ग्रहणम् । अनुवादे तात्पर्यसिद्ध्यर्थमनुवाद्यस्य विधेयान्वयार्थं च ध्यानोपकारकत्वोक्तिः । तच्च ध्येयोपस्थापकत्वम् । नन्वत्र अनुविद्येत्यादौ दध्नेत्यादिवद्गुणविधिरस्तु ; सगुणकर्मश्रवणे हि वाक्यं गुणपरमिति नीतिविदः, विशिष्टविधौ गौरवात् कर्ममात्रविधौ

गुणश्रुतिवैयर्थ्यात् ; कर्मपदं तु विधेयस्य गुणस्याश्रझ्र्यार्पणेनटयणार्पणे सार्थकं स्यादिति ;मैवम् - होमवदिह ज्ञानार्थस्य प्राप्तत्वे ह्यनूद्य गुणो विधीयेत ; तर्ह्यगत्या विशिष्टविधिरस्त्विति शङ्कानिरासार्थम् अनूद्ये त्युक्तम् । अयं भावः - क्त्वान्तस्याख्यातान्तस्य चैकार्थ्ये पौर्वापर्यविरोधः । कस्य च केन वैशिष्ट्यम् ? सजातीयाभ्यासे तु ज्ञानमभ्यस्येदित्येवालम् । उपसर्गभेदश्च विफलस्स्यात् । भिन्नार्थत्वे विजानातीत्यादेरप्राप्तविषयस्य ध्यानवत्पश्चात्पठितस्य पश्चाद्भाविनि विधेये ध्याने विश्रान्तिर्न्याय्या । वाक्यार्थधीस्तु प्राप्तत्वान्न विधेयो गुणः । तत एव न तदर्थं श्रवणादि, तत्प्रधानध्यानविधानस्य युक्ततमत्वाच्च । न चान्यत्किमपि ज्ञानमिह गुणत्वेन विधेयतया शङ्कनीयम् । यदि तु विजानातीत्यादेर्वाक्यार्थज्ञाने विश्रमः, तदा अनुविद्येत्यादेर्न विधेयमनुवाद्यं वा ज्ञानान्तरं दृश्यते । न च ध्यानं तद्गुणतया विधेयम् । परोक्षं प्रत्यक्षं वा वाक्यार्थज्ञानं प्रति तत्साधनत्वासंभवस्य दर्शितत्वादिति । स्थानैक्याद्विधिप्रत्ययरहितेऽपि विधिपरत्वव्यक्त्यै बुद्धिस्थक्रमेण प्रज्ञां कुर्वीतेत्यस्य पूर्वं पाठः । ध्यानस्य निचाय्येत्याद्युक्तवैशद्यविशिष्टत्वादुपास्युक्तप्रकर्षविशिष्टत्वाच्चोपसर्गद्वयसाफल्यम् । अनुवादयोरप्युपसर्गद्वयमनुवाद्यस्याभ्यासं स्पाष्ट्यं च व्यनक्ति । अविज्ञातं, विज्ञातमिति विज्ञानशब्दस्य निदिध्यासितव्य इत्यस्य स्थाने पाठाच्छ्रवणानन्तरभाविमननविषयान्वेषणशब्दानन्तरपाठाच्च विजिज्ञासितव्यः इत्येतन्निदिध्यासनस्थानापन्नम् । उपायविषयविज्ञानवेदनादिसामान्यशब्दानां तव्यप्रत्ययान्तोक्तश्रवणरूपज्ञानविशेषे विश्रमः किं न स्यादित्यत्राह श्रोतव्य इति । कथमत्राहेतुकस्तव्यप्रत्ययबाध इत्यत्राह - स्वाध्यायस्ये ति । अयं भावः - श्रुतेरर्थपरत्वाभावाद्वा, विचारस्य प्रवर्तकाभावाद्वा, तदवसराभावाद्वा मीमांसानारभ्येति शङ्का निरस्ता । श्रोतव्य इत्यस्य च गुर्वभिगमनादौ शब्दशक्तिर्नास्ति । अतो निर्णयार्थव्यापारपरत्वे प्राप्तार्थत्वमिति । नन्वस्ति विधेयमारंभणसंशीलनरूपं मननम् । तच्च मन्तव्यः इति विवक्षितुं युक्तम् ; तत्र वेदनादीनां विश्रान्तिस्स्यादित्यत्राह - श्रवणे ति । अप्रतिष्ठितस्य श्रवणस्य ध्यानानुपकारित्वात्तत्प्रतिष्ठापकतयाकाङ्क्षितं तदनन्तरपठितं यौक्तिकं मननम् । अतस्तदपि रागाद्यनुवृत्त्या प्राप्तत्वादनुवाद्यमेवेति भावः । एतेन श्रवणादित्रिकं दर्शनसाधनतया विधीयत इति कैश्चिदुक्तस्य युक्तिविरोधः झ्र्स्थाटख्यापितः ।

ननु श्रोतव्यो मन्तव्यः इत्येताभ्यामुपदेशकगम्यार्थश्रवणमात्रं विधेयमस्तु ; आहुश्च केचित् - सांख्ययोगोपदेशश्रवणादिकमिति । अत्राह - तस्मादि ति प्राप्ताप्राप्तविवेकात्तत्सिद्धाद्वा । परिशेषादित्यर्थः । एवकारः श्रवणमननयोः ज्ञानमात्रस्य सन्प्रत्ययवाच्येच्छायाश्च व्यवच्छेदार्थः । द्रष्टव्य इत्यस्यापि ध्यानविशेषणवादितया पृथग्विधितात्पर्यव्युदासार्थो वा । अयं भावः - श्रोतव्यो मन्तव्य इत्यनयोरवैधप्रसिद्धोपकारकत्वसंभवे तद्विपरीतक्लृप्तेरयुक्तत्वात् श्रोतव्यः इत्यादेश्श्रवणादिचतुष्टयविधिपरत्वे वाक्यभेदापत्तेः, अत्र विकल्पस्याष्टदोषदुष्टतया गुरुलघुविषयतया चात्यन्तासंभवात्क्रमभाव्युपकारस्य श्रवणादेस्समाधिरूपाङ्गिना समुच्चयासंभवाद्विशिष्टविधेर्गत्यन्तराभावनियतत्वात् , ध्यानस्य दर्शनरूपतायाश्श्रुत्यन्तरानुसारेण साधयिष्यमाणत्वात् , अत एव निपूर्वस्यापि ध्यायतेरिह पदान्तरस्फुटोपात्तदर्शनरूपावैशिष्ट्योक्तावुदासीनत्वात् , द्रष्टव्य इत्यस्यानुवादसमभिव्याहारेऽपि स्वरसावगतविधिपरत्वप्रहाणेन फलानुवादपरत्वकल्पनानुपपत्तेः, श्रोतव्यः श्रुतिवाक्येभ्य इत्यादिश्लोकेऽपि श्रवणादित्रिकस्य क्रमाद्दर्शनहेतुत्वमात्रोक्तौ साध्यस्यापि विधेयत्वे विरोधाभावाच्च रागप्राप्तश्रवणादिपूर्वकं विधिपदान्तरोपात्तदर्शनाकारविशेषितध्यानमेवात्र विधेयमिति । एवं वेदनादिशब्दानां स्वोक्तविशेषविधिविश्रमानभ्युपगमे सूत्रविरोधमपि सूचयति - वक्ष्यति चे ति । चिन्तनार्थो हि ध्यायतिरेकविषयमसकृदावृत्तं ज्ञानं वक्ति । अतो ध्यानविषये उपदिष्टं वेदनं ध्यानमेवेति प्रकृतसिद्धिः । तथोपास्तिरपि तस्मिन्यदन्तस्तदुपासितव्यमित्या दिभिरुपात्तः । अतो यज्ञादिसापेक्षत्वानुगुणम् उपदेशादि त्यनेनैव संगृहीतम् ।

तदिदमपवर्गोपायतया विधित्सितं वेदनमुपासनमित्यवगम्यते, विद्युपास्योर्व्यतिकरेणोपक्रमोपसंहारदर्शनात् - मनो ब्रह्मेत्युपासीतेत्यत्र भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद । न स वेद, अकृत्स्नो ह्येष आत्मेत्येवोपासीत । यस्तद्वेद यत्स वेद स मयैतदुक्तः इत्यत्र अनु म एतां भगवो देवतां शाधि यां देवतामुपास्स इति । ध्यानं च तैलधारावदविच्छिन्नस्मृतिसन्तानरूपम् , ध्रुवा स्मृतिः । स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्ष इति ध्रुवायाः स्मृतेरपवर्गोपायत्वश्रवणात् ।

वेदनादिसामान्यशब्दानां ध्रुवानुस्मृतिरूपोपासने विश्रान्तिः ।

प्राक् प्रतिज्ञातमुपासनाख्यविशेषे वेदनादिसामान्यशब्दानां विश्रममाह - तदि ति । तत् - तदुक्तावनिर्धारितविशेषम् ।

इदम् - गुरुतरध्यानादिसाध्यसाधनतया विधानाद्विशेष

दृष्टौ तदेकतापत्त्यर्हम् । तद्धेतुं व्यनक्ति - अपवर्गोपायतया विधित्सितमि ति । उपासनमित्यवगम्यत इति । तुल्यप्रकरणस्थोपासिसमानविषयवेदनादिशब्दनिर्दिष्टत्वादिति भावः । उपदेशादिति सूत्रितमेकप्रकरणस्थविशेषमन्यमपि हेतुमाह - विद्युपास्योरि ति । मन इत्यादावुपासिरादौ, विदिरन्ते । यस्तदित्यत्र तु तद्विपरीतम् ; न स वेदेत्यत्र तूभयत उपास्तिः, अथ योऽन्यां देवतामुपास्ते स योऽत एकैकमुपास्त इत्युपक्रमात् । एवं मिथस्स्थानाक्रान्तिरिह व्यतिकरः । नन्वत्र मनो ब्रह्मेति दृष्टिविधिः ; अन्यच्च वाक्यद्वयं विद्याविशेषस्थम् ।

एकत्र शब्दवृत्तिर्या स्थिता साऽन्यत्र संचरेत् ।

तत्तुल्येऽपीत्यभिप्रेत्य दर्शनादिति भाष्यते ।। 300 ।।

य एवं वेदेति न शास्त्रार्थवेदनामात्रोक्तिः ; विहितस्य आकाङ्क्षितं फलमनिर्दिश्याविहितान्यानुवादेन तत्फलोक्तेरयुक्तेः । ननु भूमविद्योपक्रमे स यो मनो ब्रह्मेत्युपास्ते यावन्मनसो गतं तत्रास्य यथाकामचारो भवती ति फलविशेष उक्तः । तेनैव नैराकाङ्क्ष्यं स्यात् ; मैवम् - तृतीयप्रपाठकस्थस्यास्य उपासनप्रकरणभेदात् , पुनश्श्रुतिवैयर्थ्याच्च, विधेयान्तरत्वे सिद्धे सन्निहितफलेनैव समन्वयोपपत्तेः । अतोऽस्मिन्नर्थवादे विदिनोपासनमनूद्य तत्फलविधिर्युक्तः । रात्रिसत्रन्यायश्चात्राभिप्रेतः । दानादिजन्या प्रथा कीर्तिः । पराक्रमादिजन्या तु यशः । कीर्त्या यशसा च भाति ; ब्रह्मवर्चसेन तपतीति योज्यम् । मध्यमवाक्येऽत्रेत्यनुक्तिरासन्नत्वात् । यस्तदित्यादौ यस्तत् ब्रह्म वेद, यच्च ब्रह्म स वेद स वेदिता रैक्वः तद्वेद्यमेतत् ब्रह्म चेति द्वितयं तवोक्तमित्यर्थः । गामश्वं पुरुषं जगदि त्यादिष्विव चकारानुक्तिः । नपुंसकसमभिव्याहारादुक्तमिति विपरिणमनीयम् । वेद्यं प्रति स वेदितृत्वेनोक्त इति वा नेयम् । अथ वा यत् स रैक्वो वेद, तदेवान्यो यो वेद, एनं सर्वं तदभिसमेति यत्किंचित्प्रजास्साधु कुर्वन्तीति पूर्वत्रान्वयः । स मयैतदुक्तः इत्यत्र एतदिति क्रियाविशेषणम् ; स मयैवमुक्त इत्यर्थः । अस्यां व्याख्यायां प्रकरणानुगुण्यात् रैक्वशिष्येण भवितव्यमिति जानश्रुतेः सूच्यते । अनुशाधि - विविच्य ज्ञापयेति यावत् । एवं वेदनस्य प्रस्तुतध्यानोपासनशब्दवाच्यत्वमित्युक्तम् , न तु ध्यानस्योपासनत्वमिहोच्यते ; वेदनमुपासनमित्यवगम्यते विद्युपास्योः इत्यादिभाषणात् वेदनमुपासनं स्यात् इति प्रदर्शयिष्यमाणवाक्यसंवादाच्च । ध्यानोपासनशब्दयोरेकविषयत्वं ध्यानस्य प्रतिकूलध्यानाद्व्यावृत्तिश्चेह अर्थादेव सिध्यतः । यदि ध्यानमिहोपासनत्वेन शब्दतो विशेष्यते ; तदा ध्यानस्य पुनराकारान्तरोक्तौ श्रृङ्खला भज्येत ।

ननु ध्यानशब्दः चिन्तामात्रवाची व्यवहितस्मृतिसन्तानेऽपि स्यात् , स्मृतिमात्रे च क्वचित्प्रयुज्यते ; सूत्रे च ध्यानोपासनशब्दाभ्यामसकृदावृत्तिमात्रमुक्तमित्यत्र तदभिप्रेतं श्रौतं नैरन्तर्यरूपविशेषमाह - ध्यानं चे ति । यावज्जीवाग्निहोत्रनयाद्वा स्वरूपेण चिरकालस्थायितया वा ध्रुवत्वं स्यादिति शङ्कानिरासाय सदृष्टान्तः सन्तानशब्दः । एवं विच्छिन्नाविच्छिन्नवेदनसाधारणस्य ध्यानस्य विशेषे विश्रम उक्तः ; अविच्छिन्नासाधारण्यं वा स्थापितम् । स्वस्थाने चैतत् सूत्रयिष्यति - ध्यानाच्च, अचलत्वं चापेक्ष्येति । उपासनशब्दस्याविच्छिन्नविषयत्ववत् ध्यानशब्दस्याप्यविच्छिन्नविषयत्वमिह स्थाप्यत इति तूलिका । उक्तं श्रुत्योपपादयति - ध्रुवेति । स्मृतेर्ध्रुवत्वं विसदृशबुद्धिव्यवधानरहितप्रवाहत्वम् , तद्रूपप्रत्यये चैका सन्ततिश्चान्यनिस्पृहा इत्यादिना तथोक्तेः । यद्यपि नाना शब्दादिभेदादित्यत्र फलसंयोगैक्यमात्रान्न विद्यैक्यमिति वक्ष्यते ; ध्यानत्वोपासनत्वध्रुवत्वादयश्च विशेषा विद्यान्तरपठिताः ; तथाऽपि साधारणानां वेदनादिशब्दानां विशेषविषयत्वाभावे फले च तारतम्यरहिते गुरुलघूपायभेदविधिदौस्थ्यम् । गुरुलघुविकल्पायोगलक्षणं च वस्तुसामर्थ्यं प्रकरणाद्बलीयः, अतस्स्मृतेर्ध्रुवत्वम् । इदमेकत्र श्रुतमपि सर्वासु विद्यासु योज्यमित्यभिप्रायेण अपवर्गोपायत्वश्रवणादि
त्युक्तम् । स्मृतिलम्भे - आहारशुद्ध्यादिक्रमेण प्रस्तुतध्रुवानुस्मृतिसिद्धौ इत्यर्थः । ग्रथ्यत एभिः क्षेत्रीति ग्रन्थयः - धर्माधर्मरागद्वेषमोहादयः कर्मोपनीताश्च त्रिगुणविकारभेदाः । ते च मायापाशग्रन्थितया आप्तागमोक्ताः । विप्रमोक्षः - विभज्यात्यन्तिकमोचनम् । ननु भ्रान्त्या बन्धः सर्वेष्टः, तस्य कथमप्रमा स्मृतिर्बाधिका ; भ्रान्त्यधीनकर्मजन्यस्य स्वयं भ्रान्तिविषयत्वासिद्धेः । भ्रमोत्थस्यापि भयशङ्काविषजन्यज्वरादेरिव बन्धस्य सत्यतया युक्तोऽयमीदृशः प्रतीकारविधिः मिथ्यात्वपक्षेऽपि प्रायश्चित्तादिन्यायो दुस्त्यजः । अतो निवर्त्यस्य सत्यमिथ्यात्वे, निवर्तकस्य मानामानत्वे अनादृत्य चोदितत्वात् स्वफलसाधनत्वं ग्राह्यम् । भेदवासनायाश्च ध्यानरूपा स्मृतिर्नाशिनी त्वयैवोक्ता । तदत्र शुक्तिरजतवन्न बन्धस्य बाधः नाशस्तु यथाविधि स्मृत्या प्रमित्या वा स्यात् । न चेयं स्मृतिरप्रमाऽप्ययथार्था, स्वहेतुप्रमित्यनन्यविषयत्वात् । उक्तं च सामान्यतः श्रीमद्गीताभाष्ये - स्मृतिर्नाम पूर्वानुभूतविषयमनुभवसंस्कारमात्रजं ज्ञानमिति । पूर्वानुभूतविषयत्वं न

लक्षणप्रविष्टम् ; किं तु विषयसत्यत्वासत्यत्वयोः स्वहेतुधीसामान्यज्ञप्त्यर्थम् ।

निवृत्ततदवस्थस्य तदवस्थतया स्मृतौ ।

याथार्थ्यं न प्रतिक्षेप्यं भूतभाविप्रमाक्रमात् ।। 301 ।।

स्मृतिप्रमोषे चार्थस्य तादवस्थ्यं न भासते ।

अयाथार्थ्यं कथं तत्र तत्तेदन्ताविवर्जिते ।। 302 ।।

अतो मूलानुसारेण यथादर्शनमिष्यताम् ।

यथार्था चायथार्था च स्मृतिरप्यनुभूतिवत् ।। 303 ।।

अन्यदृष्टिस्तथाऽन्यत्र क्ष्वेलध्वंसादिकृन्मता ।

परविद्यास्वपि ह्येषा क्वचिदंशेषु गृह्यते ।। 304 ।।

अतः श्रुतिस्मृतिशतैश्चोदिता स्मृतिरूपिणी ।

भाष्यते परविद्येयं भवारंभस्य निष्कृतिः ।। 305 ।।

सा च स्मृतिर्दर्शनसमानाकारा ;

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ।।

इत्यनेनैकार्थ्यात् । एवं च सति आत्मा वा अरे द्रष्टव्य इत्यनेन निदिध्यासनस्य दर्शनसमानाकारता विधीयते । भवति च स्मृतेर्भावनाप्रकर्षात् दर्शनरूपता ।

स्मृतेर्दर्शनसमानाकारत्वम् ।

ननु ध्यानमेवेत्याद्ययुक्तम् ; तदपि धारणावत्समाध्यर्थतयोक्तम् । समाधिरेव तु दर्शनात्मकः आत्मानं पश्येदि त्यादिभिर्मुक्तिहेतुरुक्तः । न च योगिप्रत्यक्षमनभ्युपगतम् , तस्य बहुषु प्रदेशेषु भाषिष्यमाणत्वादित्यत्राह - सा चे ति । ध्रुवत्वविशेषितेत्यर्थः । आकारान्तरेणापि सूत्रसूचितगत्या विशेष्यत इति व्यक्त्यै चकारः, एवार्थो वा । सैव हि स्मृतिर्वैशद्यातिशयात्समाध्याख्या ; न तु ध्यानफलमन्यद्दर्शनं पश्येदि त्यादिषु च विधेयमित्यर्थः । स्मृतेर्दर्शनत्वव्याघातशमनाय समानत्वोक्तिः ; परोक्षेऽप्यपरोक्षत्वोपचार इति भावः ।

परोक्षा चापरोक्षा च स्मृतिर्द्वेधा स्वमूलवत् ।

कृत्स्ना वा स्यात्परोक्षैव द्विधाऽप्यत्रापरोक्षता ।। 306 ।।

विधौ च परशब्दार्थो गत्यभावेऽनुमन्यते ।

लक्षणेष्टा हि दर्शादौ गौणी श्येनादिनामसु ।। 307 ।।

अर्धमन्तर्बहिर्वेदि मिनुयादिति च श्रुतौ ।

मध्यदेशस्य लक्ष्यत्वं सर्वत्रैवं यथायथम् ।। 308 ।।

नन्वत्र स्ववाक्ये ध्रवत्वं न दर्शनरूपत्वं विशेषणतयोपात्तम् ; यतः समाधेः पार्थक्यं

परिह्रियेतेत्यत्राह - भिद्यत इति । अत्र ग्रन्थि शब्द उपात्तकर्मादिव्यतिरिक्तविषयः ;हृदयस्य मनसः सम्यक् प्रवृत्तिप्रतिबन्धकतया ग्रन्थयो रागाद्याः । यद्वा हृच्छब्दोक्तं स्थानमयतीति हृदयो जीवः ; तात्स्थ्याद्वा असौ तच्छब्देन लक्ष्यते ; तस्य ग्रन्थिः पूर्वोक्तस्त्रिगुणविकारवर्गः । हृदयं वा ग्रन्थिः ; उपलक्षणमिदम् । यत्तु निरुच्यते छान्दोग्ये - स वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयमहरहर्वा एवंवित्स्वर्गं लोकमे तीति ; तदुपास्यब्रह्मपरम् । न च तदेवात्र हृदयशब्दवाच्यमिति भ्रमितव्यम् ; ग्रन्थिसंशयादिविरुद्धधर्माध्यासात् । सर्वविषयास्संशयाः, सर्वे वा संशयाः ; संशयशब्दोऽत्र विपर्ययस्याप्युपलक्षकः । ते छिद्यन्ते हेतूच्छेदान्न संतन्यन्तः इत्यर्थः । कर्माणि - बन्धकसुकृतानि दुष्कृतानि च । प्राप्तिविरोधिक्षयस्यात्र विवक्षितत्वान्न विद्योत्पत्तिकर्मनिवृत्त्योरन्योन्याश्रयः । परावरे - परत्वं सर्वातिशायिता ; अवरत्वम् - सौलभ्यार्थेन्द्रानुजत्वाद्यैः । यद्वा सद्ब्रह्म ब्रह्म दाशा इत्याद्युक्तपरावरजन्तुशरीरके । अपरावरे वा निम्नोन्नतविश्वविलक्षणे । अथ वा परा एवावरा भूत्या यस्य स परावरः ।

इदमत्राकूतम् - दृष्ट इत्यत्र दर्शनशब्दो न तावन्मुक्त्यवस्थाभाविदर्शनपरः, ध्रुवस्मृतिशब्दवत् ग्रन्थिमोक्षसाधनविषयत्वात् । न च साधनविषयत्वेऽपि स्मृतिदृष्ट्योरपवर्गं प्रति समुच्चयः, दर्शपूर्णमासादिवत् द्वन्द्वस्य

चकारस्य वाऽनुपलब्धेः । न चात्र समुच्चयश्शक्यः, प्रक्रान्तयोगेन ब्रह्मणस्साक्षात्कर्तुमशक्यत्वात् , शक्यत्वेऽपि यौगपद्यस्यासंभवात् , क्रमस्य च व्यवस्थापकाभावात् । न च प्राचीनं ध्रुवस्मरणं पश्चिमं च योगिप्रत्यक्षं करणतया समुच्चीयेत, धारणावत्तादर्थ्योपपत्तौ समुच्चयक्लृप्त्ययोगात् ; अन्यथाऽतिप्रसङ्गात् , ध्रुवस्मृतेर्व्यवहितसाधनत्वक्लृप्तौ श्रुतहानादिप्रसङ्गाच्च । प्रमाणफलं च दर्शनं न स्वरूपेणोपादातुं शक्यम् ; येन समुच्चित्य विधीयेत । ननु संस्कारोद्बोधफले स्मरणेऽपि समानमेतत् ; अत आज्यावेक्षणन्यायात्तदुपायभूतशक्यव्यापारार्थो दर्शनविधिरिहास्त्विति चेत् , न, तथा सत्येकस्मिन्वाक्ये द्रष्टव्यनिदिध्यासितव्यपदयोः पुनरुक्तिप्रसङ्गात् , अन्ततो निदिध्यासनार्थचित्तप्रेरणस्यैव पुरुषतन्त्रस्य दर्शनोपायतया विधातव्यत्वात् , अन्यस्य चादृष्टेः । नन्वेक एव दर्शनोपायस्सामान्यतो विशेषतश्च पदद्वयोक्त इत्यपुनरुक्तिः स्यात् , हन्तैवं सति समुच्चयं त्यक्त्वा अस्मत्पदवीमीसीदसि ; द्रष्टव्यो निदिध्यासितव्य इत्युभाभ्यामेकस्यैव विधेयत्वात् । अस्मदुक्ते तु ध्यानं वैशद्यतो विशेष्यत इति वैषम्यम् । न च दर्शनसमानाकारध्यानान्तरेण ध्रुवस्मृतेस्समुच्चयः ; तादृशस्यान्यस्यादृष्टेः, तत्क्लृप्तौ च गौरवात् , ध्रुवस्मृतेर्निरपेक्षसाधनत्वश्रुतिभङ्गप्रसङ्गाच्च । न

च मोक्षे साध्ये साक्षात्कारस्मृत्योरनेकदोषदुष्टो विकल्पस्स्वीकार्यः ।

विकल्पस्य द्वेधा अष्टदोषत्वनिर्वचनम् ।

विकल्पबुद्ध्यनुष्ठानापूर्वतत्फलबाधतः ।

कोटिभ्यामष्टदोषत्वं प्रयोगद्वितयेऽब्रुवन् ।। 309 ।।

प्रामाण्यत्यागतोऽन्यस्य स्वीकृतेस्त्यक्तसंग्रहात् ।

स्वीकृतत्यागतश्चान्ये प्रयोगद्वितये विदुः ।। 310 ।।

गुरुलघुवैषम्याच्चत्र न तत्संभवः ; अन्यथाऽतिप्रसङ्गात् , विषमफलेष्वेव तद्धेतुत्वदृष्टेः । न चात्र द्वारद्वारिता, मानाभावात् । न हि श्रवणमननयोर्ध्यानोपकारकत्ववत् ध्यानस्य दर्शनोपकारकत्वं दृष्टम् । परोक्तं भावनाबलजप्रत्यक्षं तु शास्त्रयोन्यधिकरणे निरसिष्यते । न चात्र श्रुतम् , एवं क्रमाद्यनुक्तेः । ततस्तु तं पश्यते निष्कलं ध्यायमानः ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवदित्यादिकमस्तीति चेत् , सत्यम् , ध्यानफलं ह्येतद्दर्शनमणिमादिवत्सिद्ध्यन्तरमस्तु, न साधनम् ; तथाऽनुक्तेः । परविद्याप्रकरणे क्वचित्तदुक्तिस्तु तत्तत्प्रभावप्रदर्शानार्था तमक्रतुं पश्यति वीतशोकः पुरिशयं पुरुषमीक्षत इतिवत् ध्यानसाध्यतयोक्तं दर्शनं मुक्तस्यास्तु ; ध्यानसाध्यतयोक्तं दर्शनं मुमुक्षोश्चेत् विशदध्यानरूपं स्यात् ; तथा हि - दर्शनशब्दस्य श्रावणज्ञानादिष्वप्रयुज्यमानस्य चाक्षुषज्ञानमेव हि मुख्यम् ; तत्तु न चक्षुषा गृह्यते नापि वाचा, मनसा तु विशुद्धे नेत्यादिभिरिह प्रतिक्षिप्तम् ; अतो मनोजन्यज्ञानविशेषे दर्शनत्वोपचार इति वाच्यम् ; तथासति वरं मोक्षसाधनतया कण्ठोक्तस्यैव ध्रुवानुस्मरणस्य तादृशवैशद्यविवक्षया तदुपचार इति ।

ननु दर्शनशब्दः स्मृतिं साक्षात्काररूपत्वेन विशिनष्टु ; मैवम् , तस्य स्मृतावसंभवात् , मूलभेदानुसारेण संभवाभिमानिनामपि परोक्षानुभवसाध्यस्मृतौ तदसिद्धेः । मनसा ध्याननिष्पाद्यं समाधिस्सोऽभिधीयत इति समाधेर्ध्याननिष्पाद्यत्वोक्तिश्च विशदाविशदवैषम्यात् । उक्तं च समाधाववस्थाद्वयं तस्यैव योगाङ्गत्वमङ्गित्वं च निर्वहद्भिः । अस्त्वेवमिह स्मृतिदर्शनवाक्ययोरैकार्थ्यम् ; तथाऽपि स्मृतिशब्देन दर्शनमुपचर्यताम् ; तन्न - मुख्यार्थबाधाबाधाभ्यां विपरिवर्तस्यैव स्थापितत्वात् । किं च स्मृतिर्हि वैशद्योक्त्या स्तूयेत, दृष्टिस्तु स्मृतित्वोक्त्या निन्दिता स्यात् । परोक्षज्ञाने च वैशद्यविवक्षया तमसः पारं दर्शयती त्युच्यते । लोके च पारदर्शी, दूरदर्शी इत्यादि । नन्वपरोक्षस्य संसारस्य दर्शनसमानयाऽपि परोक्षया स्मृत्या कथं बाधः ; न कथंचित् , मिथ्यात्वासिद्धेः । अपरोक्षस्यापि

ज्वालैक्यदेहात्मत्वचन्द्रद्वित्वादेरनुमानादिना बाधो दृष्टः, सर्वैश्चाभ्युपगतः । अतः तस्मिन् दृष्ट इत्यनेनापवर्गोपायविषयेण स्मृतेर्वैशद्यलाभात्तादृशी सैव समाधिरिति नाष्टमलोपप्रसङ्गश्चेति । तथाऽपि द्रष्टव्य इत्यादौ ध्यानसामर्थ्याक्षिप्तश्रवणमननयोः ध्यानार्थत्ववत् अग्र्यप्रायन्यायेन ध्यानस्यापि दर्शनार्थबुद्ध्यन्तरत्वोपपत्तेर्न दर्शनशब्दस्तद्विषयः स्यादिति शङ्कायां ध्यानमेवेत्यत्राभिप्रेतं विवृणोति - एवं च सती ति । ध्रुवस्मृतित्वेनेव दर्शनसाम्येनापि निदिध्यासनस्य विशेषितत्वे श्रुत्यन्तरसिद्धे सतीत्यर्थः । चः शङ्कानिवृत्त्यै, स्वतः प्राप्तविधिपरत्वयुक्त्या सह स्फुटार्थश्रुत्यन्तरानुगुण्यसमुच्चयार्थो वा । अयं भावः - ध्यानस्यापि श्रवणादिवदविधेयत्वे यज्ञादिभिरेवादृष्टद्वारेण दर्शनसिद्धिः कल्प्येत ; तथा च मध्ये ध्यानं विफलं स्यात् , भावनाबलजप्रत्यक्षानुपपत्त्या तादृशदृष्टोपकारकाभावात् । विधेयत्वे त्वेकत्र निर्णीतश्शास्त्रार्थः सर्वत्र स्वतःप्राप्त इति न्यायात् ध्रुवानुस्मृतिवाक्यवदिहापि निदिध्यासनं दर्शनसमानतया

विशेष्टव्यम् । द्रष्टव्य इत्यत्र परोक्ते फलपरत्वे तु प्रत्ययवैघट्यम् । पूर्वापरवाक्येषु च
येनाहं नामृता स्याम् , अमृतत्वस्य तु नाशास्ति वित्तेन एतावदेव खल्वरे अमृतत्वमि ति फलस्योक्तत्वात्तदुक्तिरत्रानपेक्षिता ; वैशद्यं त्वन्यत्रोक्तमत्राप्याकाङ्क्षाबलायत्तम् । अत उपायपरतया तस्मिन् दृष्ट इतिवद्विधेयविशेषकत्वे संभवति । विकल्पसमुच्चयश्रुतहानादेरयोगादेकफलसिद्ध्यर्थवि शिष्टैकसाधनविधितात्पर्यसंभवे पृथक् फलविधिभेदस्याग्राह्यत्वात् दध्नेतिवदनूद्य विधाने विशिष्टविधेयैक्यसंभवाच्च वैशद्यविशेषितध्यानविधिपरमिदं द्रष्टव्यः इत्यादिवाक्यमिति । अत एवास्य युगपदेकस्य विध्यनुवादशङ्काऽप्यपास्ता । स्वानन्दसाक्षात्काररूपस्यात्मदर्शनस्य स्वयमेवेप्सितस्य कथं विधेयत्वमिति चोद्यं विशदस्मृतिविधानोक्त्या प्रत्युक्तम् । एतेन निचाय्य तं मृत्युमुखात्प्रमुच्यते, यदा पश्यः पश्यते रुक्मवर्णम् , तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाती त्याद्यपि यथार्हं निरूढम् ।

नन्वेवं योगिप्रत्यक्षमेव लुप्येत, तत्तद्वाक्येषु दर्शनादिशब्दानां योगिप्रत्यक्षसद्भाववचनानामपि प्रत्यक्षसमानाकारविषयतया नेतुं शक्यत्वात् । न च धर्मादयः कस्यचित्प्रत्यक्षाः प्रमेयत्वादित्यादिभिस्तत्सिद्धिः, ईश्वरप्रत्यक्षेणार्थान्तरापत्तेः । इन्द्रियग्राह्या इति साध्यप्रयोगेऽपि शास्त्रवेद्यस्यापि मनोविषयत्वेन सिद्धसाधनात् , इन्द्रियसाक्षात्कर्तव्या इत्यत्राप्यतीन्द्रियाणामपि अनुव्यवसायवेद्यत्ववादिनामार्थान्तरत्वेन दत्तोत्तरत्वात् , सुखादिवदाहत्य साक्षात्कार्यत्वविवक्षायां विपक्षे बाधकासंभवेन प्रतिबन्धासिद्धेः ; अन्यथा बौद्धवद्धर्मादीनां चाक्षुषत्वस्यापि साधनप्रसङ्गात् । शक्यं हि विगीतं कस्यचित् चाक्षुषं प्रमेयत्वादित्यादि प्रयोक्तुम्

। किं च योगीन्द्रियं न धर्मादिप्रत्यक्षजनकम् , इन्द्रियत्वात् ; अस्मदादीन्द्रियवदिति प्रतिप्रयोगस्सुलभ इति ; मैवम् मुक्त्युपाये हि कथिता दर्शनोक्तेरमुख्यता ।

अन्यत्र बाधकाभावाद्यथाश्रुतपरिग्रहः ।। 311 ।।

संयमिनां ह्यतीतानागतातीन्द्रियादिझवेदनं कण्ठोक्तम् । न च स्मरणमेतत् , अननुभूतविषयत्वात् । अत एव न तत्र वैशद्यमात्रेण प्रत्यक्षत्वोपचारसम्भवः । न च तत्रानुमानाद्यवकाशः, तत्सर्वं धर्मवीर्येण यथावत्संप्रपश्यती त्यादिभिस्तत्प्रतिक्षेपात् ; पाणावामलकं यथे त्यादि च निर्दिश्यते ; धर्मोपचयभेदैरनधीतसूक्तकाण्डमन्त्र, साक्षात्कारश्च कीर्त्यते ; दिव्यं ददापि ते चक्षु रित्यादि च प्रसिद्धम् ; अतो नासिद्धिः ; योगिप्रत्यक्षस्य बाह्येन्द्रियाणां मनसश्च सुकृतविशेषैर्यथार्हं लोकोत्तरातिशयाधानात् । न चातिप्रसङ्गः ; यथाश्रुतातिलङ्घने हेत्वभावात् , अनुमानस्य विपक्षे बाधकाभावाच्च । न चानुमानतः श्रुतभङ्गः, तस्यागमेनैव बाधात् ; अन्यथाऽतिप्रसङ्गात् । ननु शास्त्रं शक्ये शक्तं विनियुङ्क्ते ; स्मृतेस्तु दर्शनसाम्यं न पुरुषतन्त्रम् ; न च तदपि तस्याः संभवि ; दर्शनत्ववदेवासंभावितं च न विधिराघ्रातुमर्हति । न दृष्टाधिकारो विधिरसंभावितदृष्टफले सति भवतीत्यत्राह - भवती ति । भावना - अनुभवजन्यस्संस्कारश्चिन्तैव वा । सा च सादरं निरन्तरं च कर्तुं शक्या । ततः स्मृतिवैशद्यसिद्धिः । दर्शनस्य रूपमिव रूपं यस्यास्सा इत्युपमानबहुब्रीहिरत्र ग्राह्यः । भीतकामुकादिप्रतिभाश्च अत्र निदर्शयितव्याः । परैरप्युच्यते - दृष्टं परोक्षमपि ध्यायमानं साक्षाद्भावमापन्नं कामाद्युपप्लव इति । वृक्षे वृक्षे च पश्यामी त्यादिषु भ्रान्तिमिश्रत्वं दोषायत्तम् ; इह तु यथाश्रुतचिन्तनान्न दौषबाधाविति भावः ।

यदि स्याद्भावनाभूम्ना स्मृतेर्दर्शनतुल्यता ।

किमत्र कर्मणा मैवं मानसिद्धोभयग्रहात् ।। 312 ।।

वाक्यकारेणैतत्सर्वं प्रपञ्चितम् - वेदनमुपासनं स्यात्तद्विषये श्रवणादिति । सर्वासूपनिषत्सु मोक्षसाधनतया विहितं वेदनमुपासनमित्युक्तम् । सकृत्प्रत्ययं कुर्याच्छब्दार्थस्य कृतत्वात्प्रयाजादिवदिति पूर्वपक्षं कृत्वा सिद्धं तूपासनशब्दादिति वेदनमसकृदावृत्तं मोक्षसाधनमिति निर्णीतम् । उपासनं स्यात् ध्रुवानुस्मृतिर्दर्शनान्निर्वचनाच्चेति तस्यैव वेदनस्योपासनरूपस्यासकृदावृत्तस्य ध्रुवानुस्मृतित्वमुपवर्णितम् । सेयं स्मृतिर्दर्शनरूपा प्रतिपादिता । दर्शनरूपता च प्रत्यक्षतापत्तिः ।

स्मृतेर्दर्शनरूपतायां वाक्यकारानुमतिः ।

उक्तस्य न्यायवर्गस्य दार्ढ्याय सूत्रे शाब्दमार्थं च सर्वं मुख्यभेदेन तदभिप्रायविद्भिर्विमृश्य निर्धारितमित्याह - वाक्यकारेणे ति । तद्विषये श्रवणात् ; उपासनशब्दस्थाने वेदनशब्दस्य एकत्र अन्यत्र च प्रकरणे प्रयोगादित्यर्थः । अत्रोक्तस्य प्रायिकत्वशङ्काव्युदासाय वाक्यं व्याचष्टे - सर्वास्वि ति । मनो ब्रह्मेत्युपासी तेति दृष्टिविधावुक्तमपि

न्यायसाम्यात्परविद्यास्वपि योज्यम् , किं पुनस्तास्वेवैकत्र दृष्टमिति व्यक्त्यै मोक्षसाधनतया विहितमि त्युक्तम् । एतेनापातधीश्रवणमनननिर्णयादेर्व्यवच्छेदः । वेदनमुपासनमित्युक्तस्य उत्तरवाक्यासत्त्या मन्दानां पूर्वपक्षत्वशङ्कां स्पष्टोक्त्या निवर्तयितुमाह - सकृदि ति । विधिर्हि स्वतः प्रवृत्त्युन्मुखं पुरुषं प्रेरयन् स्वसिद्ध्यै प्रयाजादिशास्त्रेष्विवात्रापि सकृत् प्रवर्तयेत् ; विशेषवचने सति खलु आवृत्तिभारस्सोढव्य इत्यभिप्रायेणोक्तम् - शब्दार्थस्य कृतत्वादि ति । विधिविषयस्य घात्वर्थस्य तावतैव पूर्णोनुष्ठितत्वादित्यर्थः । उत्तरवाक्यस्थेन तुशब्देन सूचितमाह - पूर्वपक्षं कृत्वे ति । तत्प्रतिक्षेपोकिं्त दर्शयति - सिद्धमि ति । न्यायत उपासनं सिद्धमित्यर्थः । सिद्धम् - सिद्धान्त इति वा । उपासनशब्दात् । न हि सकृद्बुद्धावुपासनशब्दस्य प्रख्यातिरिति भावः । एतद्वाक्यं व्याचष्टे - वेदनमि त्यादिना । उपासनशब्दादि त्यनेन वेदनमुपासनमि ति वाक्यस्यापि शब्दप्रत्यभिज्ञया सिद्धान्तपरत्वं दर्शितं भवति । ध्यानस्य ध्रुवत्वं सूत्रानुक्तमपि न्यायसाम्यात्सूचितं प्राक् स्वेन विवृतम् । वाक्ये तु ध्यानादभिन्नस्य उपासनस्यापि तदुक्तमुपादत्ते - उपासनमि ति । दर्शनम् - स्वारसिकी लोकदृष्टिः । निर्वचनम् - निर्णायकतया प्रागुक्तं श्रुतिवाक्यम् । यद्वा दर्शनम् - प्रत्यक्षश्रुतिः । निर्वचनम् - निष्कृष्य वचनमुपबृंहणम् । तस्यैव - मुक्तिसाधनतया विहितस्यैव, न तु परेष्टस्य मुक्तिसाधनहेतोरित्यर्थः । सकृदावृत्तावुपासेः प्रयोगाभावात् उपासनरूपस्यासकृदावृत्तस्ये ति वाक्यस्थोपासनशब्दविवक्षितत्वोक्तिः ।

ननु एतत्सर्वं प्रपञ्चितमि ति पूर्वोक्तम् ; तत्र दर्शनरूपत्वं न दृष्टमित्यत्र तस्यानुक्तस्यापि तदुक्ताभ्यामावृत्तिरूपत्वध्रुवत्वाभ्यां तुल्यन्यायत्वव्यक्त्यर्थम् अन्यविधानार्थं चानुभाषते - सेयमि ति । ध्यानत्वोपासनत्वाभ्यामसकृदावृत्ता वाक्यान्तरेणोक्तध्रुवत्वविशिष्टा चेत्यर्थः । प्रतिपादिता - दर्शनरूपत्वमपि वाक्यकारेणार्थादुक्तमिति भावः । यद्वा - न्यायसाम्यादभिप्रेतमिदमस्माभिः प्रागुक्तमिति । ननु यद्यप्यन्यस्यान्यत्वं न विधातुं शक्यम् ; स्मृतिदर्शनयोश्च सामग्रीनियमात् विरुद्धजातीययोरन्यत्रैक्यमसंभवि, तथाऽपि संस्कारमात्रजन्ये स्वप्नज्ञाने अदृष्टविशेषसहकारात्साक्षात्काररूपत्वमिवात्रापि चक्षुर्जन्यत्वासंभवेऽपि

तदविनाभूतप्रत्यक्षत्वेऽपि ध्रुवानुस्मृतेर्धीत्वमात्रसाम्यात् दर्शनशब्दोपचारः कथं न स्यादित्यत्राह - दर्शनरूपते ति । प्रत्यक्षतापत्तिः ; न तु साक्षात्प्रत्यक्षत्वम् , असंभवात् । अयं भावः - स्वप्नधीरपि न तावन्मुख्यदर्शनम् , चक्षुर्व्यापाराभावात् । किं तु तत्र बाह्यकरणवृत्तिनिरोधे सति अनन्यसंचारिणा मनसा संस्कारपटिम्ना प्रागनुभूतेषु विशदस्मृतिराधीयते, तदतिरिक्तधीकल्पने अनन्यथासिद्धहेत्वभावात् । तत्र चक्षुराद्यजन्येऽपि तज्जन्यत्वधीः असंसृष्टे संसृष्टधीश्च दोषवशान्मानसभ्रान्तिः । सन्ध्याधिकरणानुरोधे तु संस्कारमात्रजन्यत्वाभावादसङ्कीर्णं दर्शनत्वम् , अतो न स्वप्ननिदर्शनेन प्रस्तुते प्रत्यक्षत्वक्लृप्तिश्शक्या । धीत्वमात्रेण दर्शनसाम्यादुपचारश्च वाच्यासन्नतमस्तुत्यनुगुणविशेषसिद्धौ न युक्त इति ।

एवं प्रत्यक्षतापन्नामपवर्गसाधनभूतां स्मृतिं विशिनष्टि - नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वामिति । अनेन केवलश्रवणमनननिदिध्यासनानामात्मप्राप्त्यनुपायत्वमुक्त्वा यमेवैष आत्मा वृणुते, तेनैव लभ्य इत्युक्तम् । प्रियतम एव हि वरणीयो भवति ; यस्यायं निरतिशयप्रियः स एवास्य प्रियतमो भवति ; यथाऽयं प्रियतम आत्मानं प्राप्नोति, तथा स्वयमेव भगवान् प्रयतत इति भगवतैवोक्तम् -

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।

ददामि बुद्धियोगं तं येन मामुपयान्ति ते ।।

इति, प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः इति च । अतः साक्षात्काररूपा स्मृतिः स्मर्यमाणात्यर्थप्रियत्वेन स्वयमप्यत्यर्थप्रिया यस्य, स एव परेणात्मना वरणीयो भवतीति तेनैव लभ्यते पर आत्मेत्युक्तं भवति ।

ध्रुवानुस्मृतिरूपोपासनस्यैव भक्तिरूपत्वम् ।

ननु नायमात्मेत्या दौ श्रवणादित्रिकं प्रतिषिध्य अपर्यनुयोज्यस्वतन्त्रवरणमात्रेण तल्लाभ इत्युक्तम् । तस्मात् दैवमेव वरं मन्ये पौरुषं तु निरर्थक मिति न्यायादुक्तं सर्वं वितथमित्यत्र सूत्रवाक्ययोर्ध्रुवत्वादिविशेषितायाः स्मृतेरुपासनशब्दार्थतयाऽभिप्रेतं भक्तिरूपत्वविशेषणमेव तत्र विवक्षितमित्याह - एवमि ति । सामान्यशब्दानां सूत्राद्युक्तेन विशेषविश्रमप्रकारेणेत्यर्थः । प्रत्यक्षतापन्नामि त्येतत् वक्ष्यमाणस्य भक्त्यात्मकत्वस्य न्यायसाम्यसूचनार्थम् । अहेतुकवरणमयुक्तम् , तस्यादिमत्त्वे निर्हेतुकत्वायोगात् । अनादित्वे मुक्तेरप्यनादित्वापातात्

, मुक्त्युपायविधेश्च वैयर्थ्यप्रसङ्गात् , जीवव्यापाररूपभेदविशेषनिषेधपरस्य वैषम्यनैर्घृण्यनिषेधकसूत्रादेः विरोधापत्तेश्चेत्यभिप्रायेण अपवर्गसाधनभूता मित्युक्तम् । फलान्तरार्थोपास्तिपरत्वशङ्का चानेन निरस्ता । परो ह्यात्माऽत्र लभ्य इष्यते । विशिनष्टि -न तु प्रमाणप्राप्तं निवर्तयतीत्यर्थः । अन्यथा उपायान्तरविधानवैयर्थ्यम् ,
मत्वा धीरो न शोचति, प्रज्ञानेनैनमाप्नुयादि ति पूर्वापरविरोधश्च स्यात् । नायमात्मे त्यादौ श्रुतशब्देन श्रवणमुपात्तम् । मेधाशब्दश्च ध्यानार्थः स्यात् ; मेधामनीषे मा विशतां समीची भूतस्य भव्यस्यावरुद्ध्यै इति श्रुत्यनुसारात् । धीर्धारणावती मेधेति च निघण्टुः । पारिशेष्यात्प्रवचनशब्दः श्रवणध्यानसहोक्तमननपरः ; प्रोच्यतेऽनेनेति करणव्युत्पत्तेः । शिष्यमननार्थगुरुप्रवचनेन वा मननलक्षणा ; प्रवचनहेतौ वा तत्कार्योपचारः । ननु स्वरूपनिषेधकस्य कथं तद्विधायकत्वम् ; अत्र च क्वचिदङ्गाङ्गिप्रतिषेधाद्वैयर्थ्यम् , क्वचित्तु विहितप्रतिषेधाद्विरोध इति शङ्कायां श्रवणादिवैयर्थ्यप्रसङ्गं च परिहरन्वाक्यस्य ध्रुवानुस्मृतिविशेषकत्वं व्यनक्ति - अनेने ति । यथा न पृथिव्यामग्निश्चेतव्यः इत्यत्र निषेधस्य हिरण्यवैकल्यपरिहारार्थतया हिरण्योपहितत्वविधौ तात्पर्यम् , तथाऽत्रापि पृथिव्या इव श्रवणादेर्यथार्हं प्रणाड्या साक्षाच्चावश्यंभावित्वात्प्रीतिवैकल्यनिषेधमुखेन त्रिष्वपि प्रीतिविशेषविधौ तात्पर्यमित्यभिप्रायवान् केवल शब्दः यद्वा नान्तरिक्षे न दिवीत्य भागिप्रतिषेधेन सह पठितः न पृथिव्यामिति प्राप्तप्रतिषेधः यथा केवलपृथिव्या अन्तरिक्षादिवदधिकरणत्वव्युदासेन हिरण्योपधानत्ववैशिष्ट्यविधौ विश्राम्यति ; तथाऽनुपायभूतश्रवणमननाभ्यां सहोपायभूतनिदिध्यासनस्य प्रतिषेधः केवलनिदिध्यासनस्य श्रवणादिवदनुपायत्वोक्तिमुखेन भक्त्यात्मकत्वविधौ पर्यवस्यतीति । अनियमेन यथेष्टं स्वतन्त्रवरणशङ्काव्युदासाय यद्वृत्तानूक्तिबलेन नियतविषयवरणव्यक्त्यर्थं यमेवे त्युपादानम् ; वैषम्यादिदोषानाघ्रातसर्वसुहृद्वरणस्य नियतविषयत्वायोगात् । यदाग्नेयः इति वाक्यस्थभवतिवत् , वृणुत इत्यस्य प्रयोजकव्यापारविधौ तात्पर्यं लप्स्यमानवरणप्रयोजकव्यापारवता भवितव्यमिति । ननु हिरण्योपधानस्य पृथिवीस्थत्वावश्यंभाववदेतद्वाक्यस्थयद्वृत्तव्यङ्ग्यवरणीयताहेतुगुणविशेषस्य ध्रुवानुस्मृतिसंबन्धनियमादृष्टेर्न तस्यास्तेन वैशिष्ट्यलाभ इत्यत्राह - प्रियतम इति । फलान्तरार्थभक्त्याभासव्यवच्छेदार्थं तमप्प्रयोगः हिः शास्त्रतो लोकतश्च परावरपुरुषस्वभावप्रसिद्धौ । नन्वेतावताऽपि वरणीयस्य प्रियतमत्वापादकः कश्चिदन्यो व्यापारस्सिध्यतु ; ध्रुवानुस्मृतेर्विशेषितत्वं तु न लब्धमित्यत्राह - यस्ये ति । स एव - न सुकृतान्तरवान् , न च केवलध्रुवानुस्मृतिमान् , नापि निर्व्याजप्रियः कश्चिदिति भावः । अस्य समोऽहं

सर्वभूतेष्वित्या दिना स्वेनैवोक्तस्वभावस्येति यावत् । अयं भावः - अन्येषां स्वप्रीतिहेतुव्यापाराणां स्वलाभार्थवरणहेतुत्वाभावात् स्वविषयनियतात्यन्तिकप्रीतिमानेव परस्य प्रियतमो भवन् स्वप्रापणाय वरणीयस्स्यात् । इयं च निरतिशयप्रीतिरूपा बुद्ध्यवस्था मुक्तिसमुत्पादने विकल्पसमुच्चयविद्वेषिणी अनन्यगतिकप्रमाणवशान्मुक्तिसाधनतया स्थापितध्रुवानुस्मृतिमाश्रयन्ती तां विशिनष्टीति । ननु स्वशेषतया नित्योपात्तस्य किमद्य वरणम् ; सर्वव्यापितया नित्यप्राप्तस्य किं वेदानीं लभ्यत्वम् ; प्रियतम एवास्य वरणीय इति च कुतस्त्यमित्यत्र तत्सर्वमुपबृंहणेन स्पष्टयति - यथे ति । अयम् - भगवति निरुपाधिकभोग्यताविर्भावेन निरतिशयप्रीतिमान् । अत एव प्रियतम आत्मानं प्राप्नोति - रमते स्वात्मनि । प्रसेदुषस्तस्यापवर्गाव्यवहितहेतुभूतबुद्धियोगादिप्रदानेऽन्येषामिव परसापेक्षत्वं नास्तीति व्यक्त्यै स्वयमेवेत्यु क्तम् । उपासितुरचिन्त्यमेव हितमाचरतीति वा सूच्यम् । भगवतैव - यमेवैष वृणुत इति वरणकर्तृतया श्रुतेनैव । एतेन स्वतस्सर्वज्ञतया परमाप्तत्वमपि व्यज्यते । सततयुक्तानाम् - सततयोगमाशंसमानानाम् ; आशंसायां भूतवच्चेति क्तः । सततयुक्तानां भजतामित्यनेनैवोपासकबुद्धेः प्रीतिरूपत्वस्य सिद्धत्वात् प्रीतिपूर्वकं ददामित्यन्वयः ।

उपचारापचाराभ्यां प्रीतिद्वेषौ परस्य न ।

निमित्तशक्त्या तु फलं तयोरिति नयोज्झितः ।। 313 ।।

वरणं चोन्निनीषा चाधोनिनीषा च शासितुः ।

श्रुतत्वादनिषिद्धानि तत्तत्कर्मफलार्पणात् ।। 314 ।।

कस्यचिद्वरणीयतानिदाने प्रियतमत्वे श्रुत्यभिप्रेतः सततयुक्तशब्दोक्तश्च हेतुस्तत्रैव विवृत इत्याह - प्रियो ही ति । अत्यर्थम् - अत्यभिधेयम् ; मयाऽपि दुर्वचमिति भावः । अत्र वरणं मामयं प्राप्नुयादिति अमोघस्सङ्कल्पः । अत्र लभ्यत्वं चास्य विवृणुते इत्यनेनाभिप्रेतम् ; निवृत्तप्रतिबन्धनिरुपाधिकानुभवविषयत्वमित्यर्थादुक्तं भवति । अत्र सोपबृंहणयाऽपि श्रुत्या ध्रुवानुस्मृतेः प्रीत्यात्मकतया विशेषितत्वमनभिव्यक्तं व्यनक्ति - अत इति । लोकानुसारात् , उपात्तश्रुतिस्मृतितात्पर्यवृत्त्या

चेत्यर्थः । अत्यर्थप्रिया - अतिमात्रानुकूल्यस्वभावतया स्वयमेव भासमाना अयुक्तदशायामपि या प्रीतिरविवेकानामिति न्यायेन प्रीतिरूपज्ञानान्तरेण विषयीकृता । विषयविशेषायत्तं हि सर्वत्र विषयिणो ज्ञानस्य प्रीतिरूपत्वं प्रीतिविषयत्वं चेत्यभिप्रायेण स्मर्यमाणात्यर्थप्रियत्वोक्तिः । वरणविवरणयोः कर्तुः तत्कर्मणो वरणीयात् आर्थी प्राकरणिकी व्यावृत्तिः परेणे ति दर्शिता ।

एवंरूपा ध्रुवानुस्मृतिरेव भक्तिशब्देनाभिधीयते, उपासनपर्यायत्वाद्भक्तिशब्दस्य । अत एव श्रुतिस्मृतिभिरेवमभिधीयते - तमेव विदित्वाति मृत्युमेति तमेवं विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते । नाहं वेदैर्न तपसा न दानेन न चेज्यया ।

शक्य एवंविधो द्रष्ट्टुं दृष्टवानसि मां यथा ।।

भक्त्या त्वनन्यया शक्यः अहमेवंविधोऽर्जुन ! ।

ज्ञातु द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ।।

पुरुषः स परः पार्थ ! भक्त्या लभ्यस्त्वनन्यया । इति ।

ननु शेमुषी भक्तिरूपेति पुराणादिप्रसिद्धं भक्तेरुपायत्वं प्रक्रान्तम् । ध्यानोपासनादिशब्दवाच्यमि त्यत्र आदिशब्देन भक्तिशब्दोऽपि विवक्षितः, उपात्तासु श्रुतिषु तु न तद्धीरस्ति ; अतः कथमविरोधस्तत्राह - एवंरूपे ति । उक्तशृङ्खलाक्रमेण विशेषितेत्यर्थः । प्रतिज्ञामात्रमेतदित्यत्राह - उपासने ति । ध्रुवानुस्मृतेः प्रीतिरूपत्वेन उपासनशब्दवाच्यतया च विशेषणात् , स्नेहपूर्वमनुध्यानं भक्तिरित्यभिधीयत इति तल्लक्षणानुरोधात् , सेवा भक्तिरुपास्तिरिति पर्यायपाठात् शब्दभेदेऽप्यैकार्थ्यसिद्धौ विधेयभेदाभावान्न विरोधप्रसङ्ग इति भावः । वेदनादिशब्दानां भक्तिपर्यवसायित्वमुपवृंहणोपबृंहणीययोः मिथः प्रतिक्षेपकत्वप्रसङ्गरूपयुक्त्यन्तरेण दृढीकृतमित्याह - अत इति । इदं फलरूपहेतुपरम् ; वेदनोपासनादिशब्दैर्भक्तेरेवोक्तत्वादित्यर्थः । अन्यथा श्रुतीनामिव श्रुतिस्मृत्योरपि मिथो विरोधस्स्यादित्यभिप्रायवानेवकारः । एवम् - श्रुतौ वेदनव्यतिरिक्तः, स्मृतौ तु भक्तिव्यतिरिक्तश्चरमोपायो नास्तीत्युक्तप्रकारेणेति यावत् ।

श्वेताश्वतरोपनिषदः परमपुरुषविषयत्वम् ।

ननु तमेव विदित्वाति मृत्युमेतीति श्वेताश्वतरवाक्यं शिवादिशब्दसमभिव्याहाराद्रुद्रविषयम् ; तमेवं विद्वानिति तु महापुरुषविषयम् ; तत्र चात्र च नान्यः पन्था अयनायेत्या म्नातम् ; अतो मिथो व्याघात इति मन्दशङ्कापनुत्त्यै तदुभयवाक्योपादानम् । अयं भावः - वेदाहमेतं पुरुषं महान्तमि त्याद्यैः पूर्ववाक्यैः महान् प्रभुर्वै पुरुषस्सत्त्वस्यैष प्रवर्तकः, सहस्रशीर्षा पुरुषः इत्याद्यैरुत्तरवाक्यैश्च सत्त्वप्रवर्तकस्यानन्यपरपुरुषसूक्तोदितस्य महापुरुषस्य शब्दतोऽर्थतश्च प्रत्यभिज्ञया शिवमहेश्वरादिशब्दानां तत्परत्वावश्यंभावेन ऐन्द्रीन्यायेन रूढिपरित्यागस्य न्याय्यत्वात् , सर्वश्शर्वश्शिवः स्थाणुरिति भगवन्नामपाठात् , शिवशब्दस्य च

मङ्गल्यादौ रूढत्वात् , प्रसिद्धिप्रकर्षस्यात्रोक्तरीत्या नैष्फल्यात् , अनन्यथासिद्धनारायणानुवाकसौबालमहोपनिषदादिप्राबल्यात् शाश्वतं शिवमच्युतमितिवन्महापुरुषविषयत्वावश्यंभावात् , तस्मात्सर्वगतश्शिवः इत्यस्यारम्भे सर्वाननशिरोग्रीवस्सर्वभूतगुहाशयः इति सहस्रशीर्षत्वादिप्रत्यभिज्ञानात् , सर्वव्यापी च भगवानिति भगवच्छब्दस्य महापुरुषरूढत्वस्थापनात् , निगमनस्य प्रस्तुतशेषतया तदविरोधेन नेयत्वाच्च विगीतं पुरुषसूक्तोक्तविषयमेवेति । अत्र
नाहमि त्यादेः वेदतपःप्रभृतीनां साक्षादुपायत्वाभावे तात्पर्यमिति न तद्विरोधः । भक्त्या त्वनन्यया इत्यादेश्च पर्वभेदवतैव भक्तिरूपज्ञानेन ज्ञानान्तरादेः साध्यत्वे तात्पर्यान्नत्माश्रयादिप्रसङ्गः । पुरुषः स परः इत्याद्युपादानस्य न पूर्वेण कृतकरत्वम् ; तदप्रतिपन्नख्यापनात् । अयं खल्विहाभिप्रायः तमेवं विद्वानि त्यत्र आदित्यवर्णं तमसः परस्तादिति यत्पूर्ववाक्ये श्रुतं तदेव अणोरणीयांसमनुस्मरेद्यः इत्यारभ्य अचिन्त्यरूपत्वादित्यवर्णत्वोक्त्या प्रत्यभिज्ञापितम् । धाता पुरस्तादि त्युक्तं च सर्वस्य धातारमिति दर्शितम् । तत्र श्रुतौ विदिनोक्तमिहानुस्मरतिना विवृतम् । भक्त्या युक्त इति चानन्तरं विशेष्यते । अतो भक्तिरूपा ध्रुवानुस्मृतिः श्रुतौ विदिना विधीयत इति गम्यते । यद्यप्यत्र यद्वृत्तावृत्तिवशात् पुरुषार्थान्तरसाधनविषयत्वमेव युक्तम् ; तथाऽपि समानन्यायतया मोक्षार्थविदेरपि भक्तिविश्रमसिद्धिस्स्वीकार्या । तत्रैव च पुरुषस्स परः इत्यादिना मोक्षार्थश्रौतविदेरपि तद्विशेषपरत्वं व्यञ्जयति । यमेवैष वृणुते तेन लभ्य इति श्रुतिसम्पुटनिगूढं चात्रोद्घाटितम् । अत्र हि ज्ञानिनां प्राप्यान्तरवत्प्रापकान्तरमपि सविशेषणोक्त्या व्युदस्तम्। श्रुत्युक्तप्रत्यभिज्ञया प्राप्यैक्यवत् उपायैक्यमपि हि युक्तम् । अतो विदिस्थाने ध्यायत्युपासिवद्भजतिरप्यत्र विशेषकतया प्रयुक्तः ।

पुंसूक्तभगवद्गीते प्रमाणतमसंमते ।

न मिथो बाधमर्हेतां नैकार्थ्ये स्मृत्यनादरः ।। 315 ।। इति ।

ननु भक्त्या मामभिजानाती त्यादौ भक्तिसाध्येन ज्ञानेन परप्राप्तिर्गीता ; मैवम् , तत्रापि ततो मां विशते इति भक्तेरेव प्राप्तिहेतुत्वेन परामर्शात् ; अन्यथा ततः इत्यस्य नैरर्थ्यात् । अतो भक्त्या प्रवेष्टुमि त्युक्त्यैकार्थ्यम् ।।

एवंरूपाया ध्रुवानुस्मृतेः साधनानि यज्ञादिकर्माणीति यज्ञादिश्रुतेरश्ववदित्यभिधास्यते । यद्यपि विविदिषन्तीति यज्ञादयो विविदिषोत्पत्तौ विनियुज्यन्ते ; तथाऽपि तस्यैव वेदनस्य ध्यानरूपस्याहरहरनुष्ठीयमानस्याभ्यासाधेयातिशयस्य आप्रयाणादनुवर्तमानस्य

ब्रह्मप्राप्तिसाधनत्वात्तदुत्पत्तये सर्वाण्याश्रमकर्माणि यावज्जीवमनुष्ठेयानि । वक्ष्यति च आप्रयाणात्तत्रापि हि दृष्टम् , अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् , सहकारित्वेन चेत्यादिषु ।

कर्मणां विविदिषासाधनत्वेनोपयोग इति पक्षस्य निरासः ।

ननु उपात्तश्रुतिस्मृतिस्वारस्यात् वेदानुवचनयज्ञादिनिरपेक्षा भक्तिरेव मुक्तिसाधनमस्तु ; ततश्च न कर्मविचारवृत्तत्वं सिध्येदित्यत्राह - एवंरूपाया इति । सुकृतसापेक्षध्यानादिभक्त्यन्तपर्वविशेषवत्तया श्रुतिस्मृतिसूत्रवाक्यसिद्धाया इत्यर्थः । श्रुतिसूत्रयोः विविदिषाविषयत्वं प्रकरणतोऽर्थतश्च प्रत्यूढमित्यभिप्रायेण ध्रुवानुस्मृतेः इत्युक्तम् । अभिधास्यते - सूत्रकृता ; अस्माभिश्च समर्थयिष्यत इति भावः । विविदिषन्ती त्यस्य सन्निधौ मनसैवानुद्रष्टव्यमिति विशदवेदनं विहितम् ; एतमेव विदित्वा मुनिर्भवती ति स्तुतम् । अतो विधिस्तुतिविषयस्यैव वेदनस्यात्र विध्यन्तराकाङ्क्षा ; न तु तदुभयरहिताया विविदिषायाः । विविदिषासाधनत्वेन विधानं च दुर्वचम् । न हि यागेन स्वर्गं जिगमिषतीत्यु क्ते यागस्य जिगमिषासाधनत्वं स्यात् ; इह च वेदनेच्छाविरहे विविदिषाकामत्वस्यासिद्धेः, तत्संभवे तदुपायानपेक्षणं, वेदनेच्छया च विविदिषाकामना, तया यज्ञाद्यनुष्ठानं, तेन विविदिषोत्पत्तिरिति चक्रकं स्यात् । अत्र पर्वसङ्कोचेन आत्माश्रयम् , अन्योन्याश्रयं च केचिदूचुः । न चात्राज्ञातसुकृतनीतिः ; सावधानकृच्छ्रसाध्यत्वाद्यज्ञादेः । अतः असिना जिघांसती त्यादिष्विवानुपपत्त्या नेच्छासाधनत्वेनान्वयः ।

साध्येच्छया विना क्वापि साधनेच्छा न सिध्यति ।

अतो विविदिषार्थत्वायोगाद्विद्यर्थता त्विह ।। 316 ।।

अपवर्गाभिलाषात्तत्साधनेच्छाऽपि सिध्यति ।

अतो वेदनकामस्य युक्तं तत्साधने विधिः ।। 317 ।।

भक्तिरत्र फलत्वेन प्रकृत्या परिमृश्यते ।

अधिकारतया ख्याप्या तदिच्छा प्रत्ययेन तु ।। 318 ।।

ननु अदृष्टस्य सांसारिकसर्वकार्यहेतुत्वमेवैष्टव्यम् ; अन्यथा विषमसुखदुःखादिहेतुभूतविचित्रेच्छोत्पत्तेः कदाचित्तदनुत्पत्तेश्चायोगात् । अत इच्छामात्रस्य साध्यत्वे वेदनेच्छाया अपि तथात्वां तत्खण्डनं सर्वतन्त्रविरुद्धं स्यात् । अत्रैवं प्रत्युक्तं श्रुतप्रकाशिकायाम् - भोगादृष्टोद्बोधितपूर्ववासनासचिवात् विषयवैलक्षण्यज्ञानादिच्छोत्पत्त्युपपत्ते रिति।

भोगार्थेन ह्यदृष्टेन पुंभिरप्रार्थितान्यपि ।

अन्तरस्थानि कार्याणि स्युः फलप्रदबुद्धितः ।। 319 ।।

तदिह भक्तिरूपब्रह्मवेदनकामः शान्त्यादिसहितैः यज्ञादिभिः तद्भावयेदिति प्रयोगविधिः । ननु भक्त्यर्थोपायविधावपि त्वदुक्तचक्रकादिप्रसङ्गस्स्यात् । न स्यात् - भक्तेरुपचयम् अनुवृतिं्त चापेक्ष्य तद्विधानात् ; एवं वेदनसाधनविधावपि न विरोधः ; सामान्यतो विदितेऽपि विशेषतो बुभुत्सया प्रवृत्तेः । न च विशेषेऽपि विदिताविदितविकल्पानुपपत्तिरिति वाच्यम् ; तवापि बुभुत्साप्रश्नादिघटिते वादादौ प्रवृत्तेः; अन्यथा पामरपरीक्षकविरोधात् । अथैवमुत्पन्नविविदिषस्य तदनुवृत्तिकामनया तदुपायविधिरित्युच्येत ; तत्रापि फलवैषम्याभावात् तदन्वारोहात् परोक्तवेदनस्य प्रागेव निरस्तत्वात् । स्वोक्तबह्वाकारविशिष्टवेदनेच्छानुवृत्त्यै यावज्जीवं कर्मणोऽनुष्ठेयत्वमाह - यद्यपी ति । परोक्तविविदिषामात्रसाधनत्वे त्वन्वारोह इति पक्षे तु विविदिषानुवृत्त्या प्रत्युत्तरं कथंचिन्नेयम् । तस्यैव - विविदिषागोचरस्यैव । न ह्येतद्वेदनं यागादिवत् अपूर्वादिवद्वा सकृदुत्पन्नं सान्तरं वा साधनमित्यभिप्रायेण ध्यानरूपत्वो क्तिः । अहरहरि त्यादिकं निरन्तरस्याप्येकाहसाध्यत्वं दर्शपूर्णमासादिवद्दिवसान्तरितसाध्यत्वं च व्यवच्छिनत्ति । आप्रयाणादनुवृत्तिवचनं

संवत्सराद्यवधिकप्रतिदिनकर्तव्यत्वव्युदासार्थम् । अभ्यासाधेयातिशयस्ये त्यनेन दृष्टोपकारश्चास्तीति व्यज्यते । तदुत्पत्तये - अनुवृत्ते रिष्टतया यज्ञादिसाध्यत्वेनाभिमतविविदिषोत्पत्तय इत्यर्थः । सर्वाणी त्येतद्यथार्हं विभाज्यम् । यावज्जीवमि त्यनेन जन्मान्तरशतेत्यादेः प्रागुक्तस्योपालम्भः । विविदिषायां जातायामपि मध्ये कर्मणां त्यागो न युक्तः ; विविदिषाविच्छेदे वेदनविच्छेदप्रसङ्गात् । न हि सकृदुत्पन्नया विविदिषया वेदनानुवृत्तिः सिध्येत् ; सकृद्बुभुक्षयेव भोजनानुवृत्तिः । प्राचीनसुकृतभूम्नाऽनुवृत्तिसंभवेऽपि पाक्षिकविघ्नशान्त्यै प्रवर्तितव्यमिति भावः । पूर्वं वेदनस्य ध्यानोपासनादिरूपत्वे सूत्रं दर्शितम् ; अथ अहरहराप्रयाणादनुवर्तनीयत्वे तद्वदेव तदङ्गकर्मानुवृत्तौ च सूत्राणि सन्तीत्याह - वक्ष्यति चे ति । सूत्रैरेव तत्तद्विषयवाक्यान्यपि सूच्यन्ते । एतेन स्वोक्तानभ्युपगमे सूत्रादिविरोधो दृढीकृतः । आप्रयाणात्तत्रापि हि दृष्ट मित्यनेनैव कर्मणो यावदायुरनुष्ठेयत्वं सिद्धम् ; स खल्वेवं वर्तयन् यावदायुष मिति वाक्यस्य दृष्टमित्यनेन विवक्षितत्वात् तत्र च कुटुम्बे शुचौ देशे इत्याद्युक्तधर्मानुवृत्तेः एवं वर्तयन्नि त्यत्रानूदितत्वात् । यावज्जीवमग्निहोत्रं जुहोती ति नियतस्यापि विद्याङ्गत्वज्ञापनाय अग्निहोत्रादि सूत्रोपादानम् । विहितत्वाच्चश्रमकर्मापी त्याश्रमाङ्गतयोक्तस्य कथं विद्यार्थत्वमित्यत्र विनियोगपृथक्त्वव्यञ्जनाय सहकारित्वेन चे ति सूत्रग्रहणम् । आदिशब्देन सर्वथाऽपि त एवोभयलिङ्गादि ति कर्मणां विद्याश्र

माङ्गत्वे तन्त्रानुष्ठानसूचकसूत्रसंग्रहः ।

वाक्यकारश्च ध्रुवानुस्मृतेर्विवेकादिभ्य एव निष्पत्तिमाह - तल्लब्धिर्विवेकविमोकाभ्यासक्रियाकल्याणानवसादानुद्धर्षेभ्यः संभवान्निर्वचनाच्चेति । विवेकादीनां स्वरूपं चाह - जात्याश्रयनिमित्तादुष्टादन्नात् कायशुद्धिर्विवेक इति । अत्र निर्वचनम् - आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुदौ ध्रुवा स्मृतिरिति । विमोकः कामानभिष्वङ्ग इति । शान्त उपासीतेति निर्वचनम् । आरंभणसंशीलनं पुनः पुनरभ्यास इति । निर्वचनं च स्मार्तमुदाहृतं भाष्यकारेण - सदा तद्भावभावितः इति । पञ्चमहायज्ञाद्यनुष्ठानं शक्तितः क्रियेति ; निर्वचनम् - क्रियावानेष ब्रह्मविदां वरिष्ठः, तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनेति च । सत्यार्जवदयादानाहिंसानभिध्याः कल्याणा नीति। निर्वचनम् - सत्येन लभ्यः, तेषामेवैष विरजो ब्रह्मलोक इत्यादि । देशकालवैगुण्यात् शोकवस्त्वाद्यनुस्मृतेश्च तज्जं दैन्यमभास्वरत्वं मनसोऽवसाद इति । तद्विपर्ययोऽनवसादः । निर्वचनम् - नायमात्मा बलहीनेन लभ्य इति । तद्विपर्ययजा तुष्टिरुद्धर्ष इति । तद्विपर्ययोऽनुद्धर्षः ; अतिसन्तोषश्च विरोधीत्यर्थः । निर्वचनमपि शान्तो दान्त इति । एवं नियमयुक्तस्याश्रमविहितकर्मानुष्ठानेनैव विद्यानिष्पत्तिरित्युक्तं भवति ।

वाक्यकारोक्तविवेकादि साधनसप्तकम् ।

अथ विरोधादप्रमाणत्वात् इत्यादिपूर्वपक्षहेतून् सूत्रकाराभिप्रायविदां वचसाऽपि परिहरति - वाक्ये ति । एवकारेण शमादेः यज्ञादेश्च विरोधाभावः स्वोक्तसंवादश्च ख्याप्यते । अथवा न साधनचतुष्टयेन, न च विवेकादिष्वन्यतमेन, कर्ममात्रेण, शमादिमात्रेण चेत्यर्थः ।

निषिद्धकाम्यव्यर्थेभ्यो निवृत्तस्य शमादिभिः ।

स्वाश्रमोचितविद्याङ्गप्रवृत्तिर्न विरुध्यते ।। 320 ।।

अविरोधेन संभूय साधनत्वव्यक्त्यै वाक्यमुपादत्ते - तल्लब्धिरि ति । अत्र तच्छब्दार्थो ध्रुवानुस्मृतेः इत्यनेन दर्शितः । उपासनं स्यात् ध्रुवानुस्मृति रिति तत्र प्रकृतं हि परामृश्यते । विवेकादीनां सप्तानामेकस्मिन् कार्येऽन्योन्यसापेक्षत्वरूपेणेतरेतरयोगेन समप्रवृत्तिनिवृत्तिरूपाणामाश्रमभेदेन व्यवस्था शक्येत्यपि कतिपयशङ्का च व्युदस्ता । संभवात् - एकत्र योग्यतया विरोधप्रसङ्गाभावात् । निर्वचनात् - अतीन्द्रियेऽर्थे निश्चायकमानतया निष्कृष्टाद्वचनात् , युक्तिसहितादागमादिति यावत् । इह विद्यायाः कर्मजन्यत्वसिद्ध्यर्थतयो

पात्ताः के विवेकादयः कथं च तेषामविरोध इत्यत्र वाक्यकारेणैव व्याख्यातत्वममाह - विवेकादीनामि ति । स्वरूपं च उद्दिष्टानां मिथो व्यावर्तकरूपं चेत्यर्थः । जातिदुष्टम् - लशुनादि । आश्रयदुष्टम् - शूद्रान्नादि । निमित्तदुष्टम् - केशाद्युपहतम् । तादृशदोषराहित्येनाशुद्धेभ्यो विभक्तादन्नात् सेन्द्रियस्य देहस्य रजस्तमोऽभिभवरहितसत्त्वोन्मेषापादनेन शुद्धितः पृथक्करणं विवेक इति । प्रदर्शकं वाक्यमाह - जातीति । अत्र निर्वचनमि ति भाष्योक्तिः । आहारशुद्धौ सत्त्वशुद्धिरि ति निर्वचने सत्त्वमन्तःकरणं सत्त्वगुणो वा । तस्य शोधनीयसर्वोपलक्षणतया वाक्ये कायोक्तिः ; साऽपि करणवर्गोपलक्षिका । आयुस्सत्त्व इत्यादिभिः शुद्धाशुद्धाहारश्च गीतः । विमोकशब्दस्यात्र कामः क्रोधस्तथा लोभ

इत्याद्युक्तत्याज्यवर्गानुपश्लेषपरतया कामानभिष्वङ्ग इति मूलघातोक्तिरित्यभिप्रायः । कामोत्र तीव्रतमसङ्गजन्यः ; सङ्गात् संजायते काम इत्युक्तेः । तेनाभिष्वङ्गोऽनुवृत्तदृढग्रहणम् ; तदभावे कामात् क्रोधोऽभिजायत इत्याद्युक्तपरंपरानिवृत्तिः । शान्त उपासीते त्यत्र शान्तशब्दः करणव्यापारनिवृत्तिमुखेन कामादिराहित्यपरः । आरंभणम् योगमारुरुक्षोः चित्तालम्बनं शुभाश्रयरूपम् । विवरणे तु ज्ञानालंबनमुपास्य मित्युक्तम् । तस्य संशीलनम् अनुकूलतया शीलनम् । पुनः पुनरित्येतदङ्गप्रकरणात् व्यापृतेनापि मनसे त्यादिस्मृत्या चोत्थानकाले योज्यम् । अत एव नात्माश्रयशङ्का । इदं च योगानुगुणवासनाप्रचयार्थं कषायापाकरणार्थं च । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः इति श्रौतनिर्वचनस्यास्पष्टार्थतया तदुपबृंहणं दर्शितमित्यभिप्रायेण स्मार्तोक्तिः । अत्र भाष्यकारो ब्रह्मनन्दीवाक्यव्याख्याता द्रमिडाचार्यः । तेनान्येषु श्रुतिरुदाहृता, अत्र तु स्मृतिः । अथ वाऽन्यत्र वाक्यकारेणैव श्रुतिरुदाहृता, अत्र तु भाष्यकारेणैव स्मृतिरिति । यद्यपि यं यं वाऽपि स्मरन्नि ति प्रक्रमात् सदेत्यादिकं सामान्यम् ; तथाऽपि तस्मात्सर्वेषु कालेषु मामनुस्मर इत्युत्तरवाक्यानुसारेण प्रकृतार्थत्वात्तद्ग्रहः । पञ्चमहायज्ञोपादानं गृहस्थोऽपि विमुच्यत इति स्मृतिसूचनार्थम् । आदिशब्देनाश्रमान्तरधर्माणामपि संग्रहः । यद्यपि काम्ये सकलाङ्गोपसंहारः प्राप्तः ; तथाऽपि अत्र वचनाद्यथाशक्त्यनुष्ठानं पर्याप्तमित्यभिप्रायेण शक्तित इत्युक्तम् । तद्धि कुर्वन् यथाशक्ति प्राप्नोति परमां गति मिति हि स्मर्यते । क्रियावानेष ब्रह्मविदां वरिष्ठ इत्यत्र सन्प्रयोगाभावेन कर्मणां विद्यान्वयस्फौट्यात् विविदिषन्ती त्येतदपि नियमितम् । इदं च वाक्यं क्रियाया अङ्गत्वेन विद्यापौष्कल्यहेतुत्वपरम् ; न तु निष्क्रियब्रह्मवित्सद्भावसूचकम् , यावज्जीवं क्रियानुवृत्तेरुक्तत्वात् । मत्वर्थीयस्य भूमपरतया विधुरादिब्रह्मविद्व्यावृत्तिपरं वा । तेषां हि वर्णधर्ममात्रयोगित्वादवरत्वम् अत

स्त्वितरज्ज्यायो लिङ्गाच्चे ति सूत्रसिद्धम् । अत्र मन्त्रेषु कर्माणी त्यारभ्य तान्याचरत नियतं सत्यकामा इति श्रुतिरप्यनुसन्धेया । क्रिया शब्दस्य चित्तसमाधानादिमात्रव्यावृत्त्यै तमेत मित्याद्युपात्तम् । अनाशकेन - अनशनेन । अत्र गोबलीवर्दनयात्तपश्शब्दसङ्कोचः । यद्वा नाशकादन्येनेति ; यज्ञाद्यपि भोगार्थं चेत् संसारात्मकनाशप्रदमेव श्रुत्यादिसिद्धम् । भूतहितं यथार्थं च वाक्यं सत्यम् । आर्जवम् - करणत्रयस्यैकरूप्यम् । दया - स्वार्थनिरपेक्षा परदुःखनिराचिकीर्षा । दानम् - न्यायसिद्धद्रव्यस्य यथाविधि पात्रसात्करणम् । तेन लोभ निवृत्तिर्व्यज्यते । दैप् शोधने इति धातौ स्वपक्षादिशोधनं वा । दो अवखण्डने इत्यत्र पराहङ्कारखण्डनं वा, निगृह्णीयाद्यथाशक्ति देवतागुरुनिन्दकानि ति स्मृतेः । न विगृह्य कथां कुर्यादि त्यस्य कामकारविषयत्वात् । अशास्त्रीयप्राणिपीडावर्जनमत्राहिंसा ; अहिंसन् सर्वभूतान्यन्यत्र तीर्थेभ्य इति स्थापनात् । अभिध्या - परप्रतिकूलचिन्ता ; अभिचारादौ ह्यभिः प्रातिकूल्यार्थः, परकृतद्रोहे निरन्तरस्मृतिर्वा, वितथाभिनिवेशो वा, परस्वे ग्राह्यत्वधीर्वा ; तन्निवृत्तिरनभिध्या । एवं कतिपयोपादानमार्जवदयादिसहपठितानामन्येषामप्युपलक्षणम् । इत्यादी त्यनेन अमानित्वमदम्भित्वं, दया सर्वेषु भूतेषु, क्षान्तिरनसू या इत्यादेः संग्रहः । अनवसादः अर्थात् सिध्येदिति कृत्वा सहेतुकं तत्प्रतियोगिस्वरूपविषयं वाक्यमुपादत्ते - देश इति । शोकनिमित्तं वस्तु शोकवस्तु ; शोचत्यनेनेति करणव्युत्पत्त्या वा शोकशब्दः । आदिशब्दो भीतिहेतु परः, भूतभाव्यनिष्टगोचरधीरूपे दुःखे शोकभये । वैगुण्यात् अनुस्मृतेश्चे त्यनयोर्मनसोऽभास्वरत्वमित्यनेनान्वयः । अभास्वरत्वम् भास्वरत्वाभावः तद्विरोधि वा । तज्जनितं तदभास्वरत्वम् । तत्स्वरूपाभिव्यक्त्यै तद्विवरणवाक्यस्याकाङ्क्षायां मध्ये तज्जं दैन्यमि ति वाक्यान्तरम् । तस्यां जातं तस्मिन्मनसि वा जातमभास्वरत्वं दैन्यम् , उपयुक्तप्रकाशनाशक्तत्वमित्यर्थः । यद्वा मनसो यदभास्वरत्वं, यच्च तज्जं दैन्यं तदुभयमवसाद इति योज्यम् । तज्जम् - तादृशदयाविशेषाज्जातमित्यर्थः । अस्ति हि पुंसां परदुःखदुःखित्वादि भास्वरत्वविरोधि मनसो दैन्यम् , तज्जं च शोकादिकमिति वा नेयम् । भास्वरत्वमिह प्रकाशकत्वम् ; तदभावः । तज्जं च दैन्यमवसाद इत्यत्र तद्विपर्ययोऽनवसाद इति वाक्यशेषो भाष्योक्तः, वाक्ये तु शिष्याणामूहशक्तिसंपत्त्यै तदनुक्तिः । बलहीनेन - समदुःखसुखं धीर मित्युक्तमनोबलरहितेनेत्यर्थः । तद्विपर्ययजा - देशादिगुणैर्भूतभाविसुखहेतुधिया बन्धुसुखेन च जातेत्यर्थः । उद्धर्षोक्तावपि पूर्ववत्तद्विपर्ययोऽनुद्धर्ष इति ऊह्यत्वाद्वाक्यानुक्तं भाष्ये दर्शितम् । यदृच्छालाभसंतुष्टः, सततं योगी, स्वाध्यायशौचसंतोष इत्यादिविरोधमाशङ्क्याह

-
अतिसन्तोष इति । असंतोषवदतिसंतोषोऽपि विषयान्तरेष्वपि प्रवर्तकतया विरोधीत्यर्थः । इदं चोद्धर्ष इत्युपसर्गेण सूचितम् । ऐश्वर्यमदमत्तो ही त्यादिषु तत्तद्वृत्तान्तेषु चास्य विरोधित्वं प्रसिद्धम् । निर्वचनमपी त्यत्रापिशब्दस्संभवसमुच्चयार्थः पूर्वनिर्वचनेष्वपि भाव्यः । प्रकृतं कर्मणामुपयोगं निवृत्त्यंशेन तेषामविरोधेन निवेशनं च सूत्रवाक्याभिप्रेतन्यायसमाहारसिद्धं निगमयति - एवमि ति । एवकारेण परानिष्टत्वं द्योत्यते । तत्त्वमस्यादिवाक्यानि वा व्यवच्छिद्यन्ते । तदिह कर्मणः

अनुपयोगविरोधप्रमाणाभावा निरस्ताः ।

विद्या च इति ईशावाक्यश्रुत्यर्थः ।

तथा च श्रुत्यन्तरम् - विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुत इति । अत्राविद्याशब्दाभिहितं वर्णाश्रमविहितं कर्म । अविद्यया - कर्मणा, मृत्युं - ज्ञानोत्पत्तिविरोधि प्राचीनं कर्म, तीर्त्वा - अपोह्य, विद्यया - ज्ञानेन, अमृतं - ब्रह्म, अश्नुते - प्राप्नोतीत्यर्थः ।

विद्यां च इति ईशावाक्यश्रुत्यर्थः ।

अथ मृषावादिना समुच्चयवादिभ्यां चान्यथा व्याख्याता श्रुतिरस्मदुक्तप्रकारमेव व्यनक्तीत्याह - तथे ति । चो ऽवधारणे । श्रुत्यन्तरं च तथेति वाऽन्वयः । अन्तर शब्दः सन्प्रत्ययरहितत्वेन स्फुटार्थत्वादङ्गानामङ्गिनिष्पादने द्वारप्रदर्शनात् कर्मणां विध्यन्तानां कण्ठोक्तवेदनकरणकफलभावनानिष्ठतया परमपुरुषार्थविश्रान्तिबोधनाच्च प्रागुक्तवाक्याद्विशेषं व्यनक्ति । विद्यां चे त्यादेः परविद्यां तदङ्गभूतां कर्मरूपाविद्यां चानुष्ठेयत्वेन शास्त्रतो यो वेत्तीत्यर्थः । चकारावत्रोक्तसमुच्चयार्थौ । तयोरनुक्तद्योतकत्वे तु तत्तदितिकर्तव्यताविशेषयोरेव विद्याफलयोर्निवर्त्ययोश्च प्राप्त्युपायविरोधिनोर्ग्रहणम् । उभयं सहे त्यत्राङ्गाङ्गितया तृतीयाध्याये साधयिष्यमाणयोरनुष्ठेययोर्बुद्ध्यारोहणे साहित्यमभिप्रेतम् ; न तु समकालतयोपादेयत्वे । वेद्यत्वे हि सहभाव उच्यते ; न तु सहिततया वेदनम् । न ह्युत्पत्तिदशायां विरोधिनिरासदशायां च विद्याकर्मणोः सहत्वसंभवः । अत्र अन्धं तमः प्रविशन्ती त्यादिना ततो भूय इव ते तमः इत्यादिना च प्रत्येकनिन्दापरत्वम् । चकारः सहशब्दश्च समसमुच्चयस्थापकाविति न भ्रमितव्यम् , तेषामन्यथासिद्धत्वात् । य उ विद्यायाँ रता इति कर्मानादरेण विद्योत्पत्त्यर्थोत्साहवन्त इत्यर्थः । कर्मनिरतानां विद्यानिरपेक्षकर्मस्वरूपं तावन्निष्पद्यत एव ; न तु तावन्मात्रेण मुक्तिः ; विद्यानिरतानां हेत्वभावाद्विद्यैव न संभवति, कुतस्तरां मुक्तिरिति भूयश्शब्दाभिप्रायः । अविद्याशब्दस्यात्र कर्मविषयत्वं प्रकरणेन स्थापयति अत्रे ति । न तु सर्वत्र ;

अविद्यायामन्तरे वर्तमानाः , क्षरं त्वविद्या, अनात्मन्यात्मबुद्धिर्ये त्यादिषु अर्थान्तरे प्रयोगात् । इह तु आत्मन्येवानुपश्यति , कुर्वन्नेवेह कर्माणी त्यादिना विद्या तदङ्गं कर्म च प्रकृतम् ; तदेवात्राविद्याशब्देन विद्योपयोगज्ञापनार्थमनूदितम् । परव्याख्यायां व्याख्यातौ संशयविपर्ययौ छेत्तुं पदार्थवाक्यार्थौ स्पष्टयति - अविद्यये ति । पापस्यानर्थहेतुतया अवयवशक्त्या गौण्या वा मृत्युशब्दबोध्यत्वाय, यज्ञादेर्विविदिषोत्पत्तिविरोधिनिवर्तकत्वव्युदासाय, चोदितज्ञाननिवर्त्यतया श्रुतिस्मृतिशतसिद्धप्राप्तिविरोधिव्यावृत्त्यै च ज्ञानोत्पत्तिविरोधित्वोक्तिः । यादवप्रकाशीयनिर्वाहोऽप्येतेन निरस्तः । यद्यत्र मृत्युतरणं मुक्तिरेव, कथं विद्ययाऽन्यत्साध्यं स्यात् । क्त्वाश्रुतिश्च न घटते ; स्वापेक्षया स्वस्य पूर्वत्वायोगात् ।

धीसङ्कोचनिवृत्तिश्चेदविद्याख्येन कर्मणा ।

धीविकासोऽपि सैवेति न साध्यान्तरसंभवः ।। 321 ।।

प्रतिबन्धनिरासश्च साध्यते चेदविद्यया ।

अमृताप्तिः स्वतस्सिध्येन्नादृष्टान्तरकाङ्क्षिणी ।। 322 ।।

स्वतः स्वानुभवाधानप्रवणः प्राणिनां प्रभुः ।

प्रशान्तप्रतिबन्धानां निरपेक्षं हि कारणम् ।। 323 ।।

मृत्युशब्दस्य साधारण्यसंभवेऽपि तमेव विदित्वाति मृत्युमेती त्यादिस्पष्टार्थबहुश्रुतिस्मृतिबलेन विद्यानिवर्त्यप्राप्तिविरोधिविषयत्वासंभवात् , तत्र च नान्यः पन्था इति साधनान्तरप्रतिषेधेन कर्मणो विमुक्तिसाधनत्वेन समुच्चेतव्यत्वायोगात् , कर्मणः श्रुत्यादिभिरेव विद्यासाधनत्वस्थापनादिहोपायविरोधिनि कर्मण्येव वृत्तिः । विद्याया इव कर्मणः उत्तराघविरोधित्वाभावात् प्राचीनग्रहणम् । तीर्त्वे त्यस्य स्वरसार्थं त्यक्त्वा प्राप्य स्थित इति परोक्तं क्लिष्टत्वादध्याहारत्वाच्चयुक्तम् । यज्ञादिसत्कर्मणां विविदिषाविरोधितया मृत्युशब्दवाच्यं कर्म तीर्त्वेति गमनिकाऽपि विविदिषार्थविनियोगप्रतिषेधात्प्रत्युक्ता । एतं सेतु मित्यादिषु गत्यभावात्तरतेः प्राप्तिवचनत्वमित्यभिप्रायेण अपोह्ये त्युक्तम् । विद्याशब्दस्य शास्त्रादिष्वपि प्रयोगादिह प्रकृतब्रह्मवेदनविषयत्वं व्यनक्ति - ज्ञानेने ति । एतदमृतम् , एतदभयम् , एतद्ब्रह्म , ब्रह्मविदाप्नोति परमि त्यादिश्रुत्यनुसारेणाह - अमृतं ब्रह्मे ति । ननु पूर्वम् अविद्यानिवृत्तिरेव मोक्षः सा च ब्रह्मविज्ञानादेव भवतीति परोक्तमभ्युपगतम् ; इह तु ब्रह्मविदाप्नोती त्युक्त्या अस्यां श्रुतौ साध्यान्तरं स्वीकृतमिति भाति ; मैवम् , अविद्यानिवृत्तिशब्देन ज्ञानसङ्कोचनिवृत्तेः विवक्षितत्वेन भावान्तराभावनयेन सैव ब्रह्मप्राप्तिरिति समानार्थ

त्वात् । मोक्षशब्दस्वारस्यानुरोधात् अविद्या कर्मसंज्ञेत्युक्तबन्धककर्मनिवृत्तिविवक्षायां तु तावन्मात्रमेवोपासनसाध्यम् । धीसङ्कोचहेतुनिवृत्तौ सेतुभङ्गस्रोतःप्रवृत्तिनीत्या तादृशेश्वरसंकल्पेन स्वतः प्राप्तो धीविकासः । अतः विद्ययाऽमृतमश्नुत इत्यनेन प्रतिबन्धनिवृत्तौ विद्यातः सिद्धायां स्वतस्सेत्स्यन्ती ब्रह्मानुभूतिरुच्यत इति न पूर्वापरविरोधः । ब्रह्मप्राप्तेश्च परमपुरुषार्थतया काम्यमानत्वेऽपि तत्प्रतिबन्धकनिवृत्त्युपायस्य काम्यवर्गात्पृथगेव व्यपदेशः ।

प्राप्तितत्साधनानां हि प्रतिबन्धनिवर्तकाः ।

निवृत्तिधर्माः सर्वेऽपि नैमित्तिकपदे स्थिताः ।। 324 ।।

अत्र करणविभक्त्यन्तरूपकर्मज्ञानशब्दाभ्यां कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः , कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तत इति स्पष्टार्थोपबृंहणार्थः सूच्यते । तेन च मृत्युशब्दस्यात्रोपायविरोधिविषयत्वं वेदानुवचनादीनां विविदिषन्तीत्यत्र प्रकृत्यर्थेनान्वयः समुच्चयवादनिरासश्च सिध्येत् । कषायस्य पापस्य तज्जन्यरागादेर्वा पक्तिः, पच्यतेऽनेनेति पाकनिमित्तम् , गम्यतेऽनेनेति गतिः । ततो ज्ञानम् - न तु विवि दिषा, नापि मुक्तिः प्रवर्तते । उचितविषये प्रकृष्टवृत्तिमद्भवतीत्यर्थः ।

पुण्यस्य पापरूपत्वं पुण्यपापयीर्धर्मापनोद्यत्वं च ।

मृत्युतरणोपायतया प्रतीता अविद्या विद्येतरत् विहितं कर्मैव । यथोक्तम् -

इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः ।

ब्रह्मविद्यामधिष्ठाय तर्तुं मृत्युमविद्यया ।। इति ।

आस्तां प्रकरणम् । अस्मिन्नेव वाक्ये कर्मणां विद्याङ्गत्वे साधारणानामविद्यादिशब्दानामस्मदुक्तपदार्थनियमे च निर्बाधः स्वारस्यप्राप्तो वस्तुसामर्थ्यरूपो हेतुर्लक्ष्य इत्यभिप्रायेणाह - मृत्युतरणे ति । प्रतीते ति हेतुगर्भम् । विद्येतरदि त्येतत् अत्रत्याविद्याशब्दनिरुक्तिः । अब्राह्मणादिशब्दनयात्तदन्यवृत्तौ प्रकरणस्थासन्नविषयत्वं युक्तमित्यभिप्रायेण विहितं कर्मे त्युक्तम् । न त्वविहितं कर्म, नापि ब्रह्मज्ञानादिकमिति पदद्वयान्वितावधारणाभिप्रायः । एतेन कुर्वन्नेवेह कर्माणी त्यत्र कर्मशब्दः साधारणोऽपि उचितविषये नियमितः ; न हि काम्यादिकं यावज्जीवमनुष्ठेयम् । उक्तश्रुतेरुपबृंहणेन स्वोक्तौ पदार्थवाक्यार्थौ स्थिरीकृतावित्याह -
यथोक्तमि ति । ज्ञानव्यपाश्रयः आगमोत्थज्ञाने प्रतिष्ठितः । ब्रह्मविद्यामधिष्ठाय - विवेकादिजन्यां परविद्यां भक्तिरूपापन्नां निष्पाद्यत्वेनाभिसंधायेत्यर्थः । आगमोत्थं विवेकाच्चे ति प्रस्तुतं ज्ञानद्वयमेव ह्यत्र स्पष्टीकृतम् । अत एव मृत्युशब्दस्यात्र विविदिषाविरो

धित्वं चायुक्तम् ; तस्याः साध्यत्वेनानुपादानात् । ब्रह्मविद्यामधिष्ठायेत्यनेनैव विविदिषानिष्पत्तेरर्थसिद्धत्वाच्च । तर्तुं मृत्यु मिति प्रयोजनवचनेन तीर्त्वे त्यस्य प्राप्त्यर्थत्वशङ्का च निरस्ता । उपबृंहणीयश्रौतपदसूचकाविद्याशब्दोक्तमेव च यज्ञशब्देन व्यञ्जितम् । यज्ञान् इयाज - चकारेत्यर्थः ।

ज्ञानविरोधि च कर्म पुण्यपापरूपम् । ब्रह्मज्ञानोत्पत्तिविरोधित्वेनानिष्टफलतयोभयोरपि पापशब्दाभिधेयत्वम् । अस्य च ज्ञानविरोधित्वं ज्ञानोत्पत्तिहेतुभूतशुद्धसत्त्वविरोधिरजस्तमोविवृद्धिद्धारेण । पापस्य च ज्ञानोदयविरोधित्वम् एष एवासाधु कर्म कारयति तं यमधो निनीषतीति श्रुत्याऽवगम्यते । रजस्तमसोर्यथार्थज्ञानावरणत्वम् , सत्त्वस्य च यथार्थज्ञानहेतुत्वं भगवतैव प्रतिपादितम् - सत्त्वात्संजायते ज्ञानमित्यादिना । अतश्च ज्ञानोत्पत्तये पापं कर्म निरसनीयम् । तन्निरसनं चानभिसंहितफलेनानुष्ठितेन धर्मेण । तथा च श्रुतिः - धर्मेण पापमपनुदतीति ।

ननु धर्मेण पापस्यैवापनोद्यत्वं श्रुतम् , अत्रतु प्राचीनं कर्मेत्यविशेषेण पुण्यस्यापि तरणं कथं भाषितमित्यत्र वक्ष्यमाणश्रुतावपनोद्यतयोक्तं शोधयति - ज्ञाने ति । पुण्यस्य कथं धर्मापनोद्यत्वं, पापशब्दवाच्यत्वं चेत्यत्राह - ब्रह्मे ति । उभयोरि ति विगीताविगीतसंवलितत्वोक्तिर्निदर्शनपरा । अत्र अभिधेयत्वम् - बोध्यत्वम् । लक्षयेदिति विवरणोक्तिर्वैभवात् । अयं भावः - स एव धर्मस्सोऽधर्मस्तं तं प्रति नरं भवे दित्यादि स्मर्यते । अतः पुण्याभिसन्धिप्रसिद्धमपि मुमुक्षुदशायां पापायते ।

मुमुक्षुत्वामुमुक्षुत्वदशाभेदेन कर्मिणः ।

कर्मैकं पापपुण्यत्वे साध्यैक्येऽपि समश्नुते ।। 325 ।।

श्येनादेश्चोदितस्यैव द्वैरूप्यं द्विविधश्रुतेः ।

एकस्यैवैकदैवास्ति कालभेदे तु किं पुनः ।। 326 ।।

प्रकृष्टसुखरूपस्वर्गैकसाधनं पुण्यमपि ह्यन्तरायनिरयशब्दनिन्दितस्वफलसङ्गार्थसिद्ध्यै निरुपाधिकसुखरूपब्रह्मज्ञानं

प्रतिरुणद्धि ; अतः प्रवृत्तिधर्मस्य निवृत्तिधर्मेणापनोद्यत्वं युज्यते । पापलक्षणं च कर्तुरनिष्टफलसाधनत्वेन शास्त्रवेद्यत्वम् ; नैतँ सेतुमहोरात्रे तरतो न जरा न मृत्यर्न शोको न सुकृतं न दुष्कृतम् । सर्वे पाप्मानोऽतो निवर्तन्त इति श्रुतौ च निगमनस्थस्य पाप्मशब्दस्य शोकादिषु लाक्षणिकत्वेऽपि सुकृतदुष्कृतयोर्निमित्तसंभवान्मुख्यत्वमेव ग्राह्यम् । छत्रिन्यायेन सर्वत्र लक्षणावृत्त्यैक्यपक्षेऽपि तारतम्यमस्ति । न च सुकृतदु

ष्कृतशब्दयोरिव दुष्कृतपाप्मशब्दयोरिह , गोबलीवर्दन्यायात् पाप्मशब्दस्य दुष्कृतविशेषपरत्वं शङ्क्यम् ; उभयोरपि व्यापित्वेन हयतुरङ्गशब्दयोरिव तदयोगात् ; सर्वशब्दविशेषणवैयर्थ्यं च । अपहतपाप्मा ह्येष ब्रह्मलोकः इत्यनन्तरवाक्यं च प्रकृतसर्वहेयनिवृत्तिप्रख्यापने स्वरसम् । तदिह पूर्वापरपाप्मशब्दयोरसङ्कोचेन समानार्थत्वमेव युक्तम् । एवं सति पुण्यविशेषे पापशब्दः प्रवृत्तिनिमित्तैक्यात् घटत इति । ननु रजस्तमसोर्ज्ञानविरोधित्वमिष्टम् ; तत् किं पापेन सह समुच्चयतः, विकल्पतः, कारणान्तरेण वेति नियामकाभावात्पापस्य ज्ञानविरोधित्वं दुरवधारणम् ; अतो दुःखसाधनत्वमेव तस्येत्यत्राह - अस्ये ति । शुद्धसत्त्वमिहाभिभूतरजस्तमस्कमुपयुक्तप्रकाशादिजनकं सत्त्वम् । ज्ञानोत्पत्तिदशायामपि पुंसां त्रैगुण्यानुवृत्त्या तदातनगुणान्तराभ्यां विशेषव्यक्त्यै विवृद्धिशब्दः । कर्मवश्या गुणा इत्यादिभिः गुणानां तद्द्वारत्वसिद्धिः, पापस्य दुःखसाधनत्वं च नान्यव्यवच्छेदेनेति भावः । द्वयोरपि ज्ञानविरोधित्वे मानाभावे कथं द्वारद्वारित्वकल्पनमित्यत्र द्वारिणस्तावद्विरोधित्वे मानमाह - पापस्ये ति । एष एवे त्यादिश्रुतौ न तावत् अधो निनीषती त्येतन्निरयादिनिनीषार्थम् ; अत्रोन्निनीषायाः स्वर्गादिविषयत्वाभावात् । यमेभ्यो लोकेभ्य उन्निनीषती त्यत्र स्वर्गादिसर्वलोकेभ्यो ह्युन्नयनं स्वरसतः प्रतीयते । अतोऽपवर्गप्रापणप्रतिपक्षभूताधोनयनार्थमिहासाधुकर्म तत्साधनविरुद्धमेव स्यात् ; तत्साधनं चात्र मामुपास्स्वे त्यादिविहितम् । तस्य चोपक्रमे यं त्वं मनुष्याय हिततमं मन्यसे इति हिततमत्वमव्यवहितमोक्षोपायत्वं सिद्धम् । तदेवात्र सन्निधिबलात् साधारणेनापि साधुकर्मशब्देन गृह्यते । तत्कारयितृत्वं च ददामि बुद्धियोगं तमि त्यादिभिर्विशेषतोऽप्युक्तम् । तस्य चोत्पत्तिप्रतिबन्धकत्वेन विरुद्धं कर्म भगवद्वैमुख्यापादनं कर्म ; तत्सांमुख्येऽधोगतिप्रसङ्गाभावात् । असाधुकर्मणश्चाधोगतिनिदानत्वम् तानहं द्विषतः क्रूरानि त्यारभ्य ततो यान्त्यधमां गति मित्यन्तेन स्फुटीकृतम् । यद्वा साधुकर्मशब्द इह प्रस्तुतोपायाकाङ्क्षिताङ्गपरः । न चात्र कर्मण उन्नयनशब्दोदितमुक्त्युपायत्वम् अद्वारकम् ; श्रुत्यादिभिस्सद्वारकत्वस्थापनात् । अतो विद्याङ्गकर्मप्रतिकोटिस्थमसाधुकर्मात्र विद्योत्पत्तिविरुद्धमेव । किं च साध्वसाधुकर्मकारयितृत्वमिह न प्राचीनजीवकर्मनिरपेक्षम् ; वैषम्यनैर्घृण्यप्रसङ्गात् । न च वायूदकादिवत् प्रेरकत्वम् ; शास्त्रवैयर्थ्यादिप्रसङ्गात् , बुद्धिप्रदानादिवचनविरोधाच्च । अतः यमधो निनीषती ति यद्वृत्तेन कस्यचिदनुवादोऽधोनिनीषाहेतुभूतपापकारित्वं व्यनक्ति । पूर्वपापे चोत्तरपापारम्भे ज्ञानलोपः तन्मूलविपरीतज्ञानं च द्वारम् । तथा चोपबृंहितम् - यस्मै देवाः प्रयच्छन्ति , पापं प्रज्ञां नाशयती त्यादिभिः । सर्वदेवेषु सर्वपापेषु च सामान्योक्तमपि प्रकृतेऽ

प्यकुण्ठितम् । विशेषतश्च गीयते - क्षिपाम्यजस्रमि त्यादि । अतः पापस्य ज्ञानोदयविरोधित्वं सिद्धम् । ननु श्रुतेन द्विविधेन पापेनैव ज्ञानं निरुद्धताम् , निवृत्तिधर्मेण चोत्पद्यताम् ; अलमुभयत्र प्रकृतिगुणैर्द्वारीकृतैरित्यत्राह - रज इति । सत्त्वस्ये त्युपादानमिह रजस्तमसोर्व्यतिरेकव्याप्त्या च ज्ञानहेतुत्वनिश्चयार्थ साधुकर्मद्वारप्रदर्शनार्थं ज्ञानोत्पत्तिहेतुभूतशुद्धसत्त्वेत्युक्तस्थापनार्थं च । श्रुतिस्मृतिप्रमितान्यतरत्यागस्य सति गत्यन्तरे विकल्पस्य चायोगात् द्वारद्वारित्वमेवात्र युक्तमिति भावः । ननु रजसो लोभ इत्यनेनान्यथाधीहेतुत्वमपि सिद्धम् , अप्राप्तविषयलोभस्य भ्रान्तिहेतुत्वात् ; यया धर्ममधर्मं चे त्यादिना तद्व्यक्तम् । नाभुक्तं क्षीयते कर्मे त्यादिस्मृत्या कर्मफलभोगावसाने ज्ञानं साध्यतां, धर्मस्य च धृतिशब्दार्थसुखसाधनत्वमेव प्राप्तमिति शङ्कापनुत्त्यै निष्कृतिशास्त्रविनियोगपृथक्त्वाभ्यां सिद्धं निरास्यनिरासकस्वभावं निर्धारयन्नुक्तमर्थद्वयं निगमयति - अत इति । निरसनीयम् - अनन्तेषु पापेषु संतन्यमानेषु न कदाचिदपि भोगेन निश्शेषशान्त्यवसरः ; अतश्शास्त्रोक्तनिष्कृत्यैव तन्निरासः कार्य इति भावः । तथाऽप्यपरिमितानां निष्कृतिरप्यशक्येत्यत्राह - तदि ति । स्वल्पमप्यस्य धर्मस्ये त्यादिन्यायेन फलान्तरसङ्गरहितनिवृत्तिधर्ममाहात्म्यात्तन्निवर्तनं शक्यमित्याशयः । य उ चैनमेवं वेदे त्यादिषु शास्त्रार्थवेदने फलश्रुतिः प्रशंसार्था, परंपरया वा स्यात् , अधिकारिभेदेन वा । अतः अनुष्ठानं प्रधानम् ; तत्परित्यागिनां तु कारणाभावात् कार्याभाव इत्यभिप्रायेणोक्तम् - अनुष्ठितेने ति । उपात्तश्रुतिगतानामविद्यादिशब्दानां स्वेष्टार्थत्वं, पापस्य भोगेन विनाऽपि निवर्त्यत्वं च स्पष्टयन्तीं श्रुतिमुदाहरति - तथे ति । तत्र धर्मशब्दः प्रायश्चित्तमात्रविषयोऽप्यविशेषान्निवृत्तिधर्ममपि गृह्णाति । विज्ञानादानन्दो ब्रह्मयोनि रित्यादिना ब्रह्मविद्यासन्निधानात् । सहपठितदानादिषु प्रतीतानि द्विषद्वशीकरणफलान्तराण्यपि ब्रह्मविद्यानिष्पत्त्यनुगुणान्येव । अङ्गिफलं

चात्र भूयो न मृत्युमुपयाहि विद्वा निति प्रस्फुटम् । अतोऽत्र निवृत्तिधर्मेण सांसारिकपुण्यपापयोः द्वयोरपि पापशब्दोक्तयोर्निवर्त्यत्वं सिध्येदिति ।

कर्मविचारस्य पूर्ववृत्तता ।

तदेवं ब्रह्मप्राप्तिसाधनभूतं ज्ञानं सर्वाश्रमकर्मापेक्षम् । अतोऽपेक्षितकर्मस्वरूपज्ञानं केवलकर्मणामल्पास्थिरफलत्वज्ञानं च कर्ममीमांसावसेयमिति सैवापेक्षिता ब्रह्मजिज्ञासायाः पूर्ववृत्ता वक्तव्या ।

एतावता किमायातमित्यत्र तन्मूलमुपासनात्मकं ज्ञानमित्यनेनाभिप्रेतं कर्मसापेक्षत्वं निरूढमित्याह - तदि ति । तत् - उक्तश्रुतिस्मृतिसूत्रोपपत्तिसंप्रदायबलात् । एवम् - निष्का

मकर्मणां ब्रह्मविद्याप्रतिबन्धनिरासकत्वप्रकारेण । अस्त्वेवं विचार्यस्योपासनस्य स्वाङ्गकर्मापेक्षा । तद्विचारस्य कृत्स्नकर्मविचारापेक्षा कथमित्यत्र स्थापितमर्थं निगमनेन स्थिरयति
- अत इति । मुक्तिसाधनविद्याया निवृत्तिधर्मनैरपेक्ष्यायोगात् इत्यर्थः । अपेक्षितकर्मस्वरूपज्ञानामि त्यनेन वृद्धव्यवहारेण व्रीह्यादिवत्कर्ममीमांसया यज्ञादिपदार्थानां सेतिकर्तव्यताकानां विशेषतो वेदितव्यतया विधिविनियोज्यस्वरूपापेक्षिणि विनियोगे नागृहीतविशेषणन्यायतः स्वाङ्गसाध्यस्य फलसाधनतया तत्स्वरूपान्वितस्यैव बुभुत्सितत्वम् , अचिन्तितेऽप्युपासने कर्मणश्चिन्तयितुं शक्यत्वं च सूच्यते । विद्यानङ्गकर्मनिन्दया विद्याप्ररोचनं च तादृशकर्मज्ञानापेक्षमित्यभिप्रायेण केवल इत्यादिकमुक्तम् । अवसेयम् - साध्यमिति यावत् । मीमांसा अत्र विचारः । त्याज्योपादेयसहितोपासनशास्त्रार्थं विचारयतामवश्यंभाविनस्तदुभयस्वरूपनिश्चयस्य कर्ममीमांसासाध्यतया अत्र अपेक्षिता त्वदनिष्टावृत्तत्वेन वक्तुं युक्तेत्यभिप्रायेण सैवे त्युक्तम् । अन्ततः कर्मपरीक्षासापेक्षा तापत्रयवृत्ततोक्तिश्चानेन निरस्ता । साधनचतुष्टयस्य वा व्युदास एवकारेणोपक्षिप्यते ।

साधनचतुष्टयपूर्ववृत्ततानिरासः ।

अपि च नित्यानित्यवस्तुविवेकादयश्च मीमांसाश्रवणमन्तरेण न संपत्स्यन्ते, फलकरणेतिकर्तव्यताधिकारिविशेषनिश्चयादृते कर्मस्वरूपतत्फलतत्स्थिरत्वास्थिरत्वात्मनित्यत्वादीनां दुरवबोधत्वात् । एषां साधनत्वं च विनियोगावसेयम् , विनियोगश्च श्रुतिलिङ्गादिभ्यः, स च तार्तीयः ।

न केवलमस्मदुक्तस्य युक्तत्वमात्रम् ; त्वदुक्तस्य दोषोऽप्यस्तीत्यभिप्रायेणाह अपि चेति । तत्रान्योन्याश्रयमुद्धाटयति - नित्ये ति । चस्त्वर्थो वर्तिष्यमाणस्य वृत्ततावैपरीत्यद्योतकः । मीमांसा शब्दोऽत्र भागद्वयार्थः ; आत्मनित्यताद्युपादानात् । श्रवण शब्दश्च विचारपर्यन्तः । अयं भावः - किमत्र विवेकशब्देन निश्चयो विवक्षितः, आपातधीर्वा ? नाद्यः, कृत्स्नमीमांसासाध्यस्य ब्रह्मविचारापेक्षया पूर्ववृत्तत्वायोगात् ; आत्मनित्यत्वादिकं ब्रह्मकाण्डे हि निरूपयिष्यते । न द्वितीयः, तस्याः कर्मब्रह्मकाण्डसाधारणत्वेन विशेषतोऽत्र वक्तुमयुक्तत्वात् । प्रथमातिक्रमे कारणाभावस्य चोक्तत्वात् । न च सा फलान्तरवैराग्यादेर्हेतुः ; उभयत्रामृतत्वाद्यापातधीसिद्धेः । न च कपिलकणादादितन्त्रैर्विवेकः ; अध्ययनादिक्रमेण तदवसरनिरोधोक्तेः, तेषु च बहुधा निःश्रेयसतत्साधनादौ विवेकवैपरीत्यस्य त्वयाऽपि संमतत्वात् । अत एव हि निरसिष्यन्ते । नित्यं हि नास्ति जगती त्याद्युपबृंहणं तु श्रुतिमनुरुध्यैव विवे

कार्थं स्यात् ।

न तु स्वातन्त्रेण ; अन्यथा किं शारीरकेण ? ततोऽन्यत्र संशयादिसंभवादिति चेत् ; तर्हि तत्र न विवेकसिद्धिः । यत्त्वत्र वाचस्पतिनोक्तम् - नित्यानित्ययोर्वसतीति नित्यानित्यवस्तु तद्धर्माः, नित्यानित्ययोर्धर्मिणोस्तद्धर्माणां च विवेको नित्यानित्यवस्तुविवेक इत्यारभ्य, नित्यत्वं सत्यत्वं तद्यस्यास्ति तन्नित्यं सत्यं, तथा चास्थागोचरः । अनित्यत्वमसत्यत्वं, तद्यस्यास्ति तदनित्यमनृतम् ; तथा चानास्थागोचर इति ; यदृतं तन्नित्यं सुखं व्यवस्थाप्यते, तदास्थागोचरो भविष्यति, यत्त्वनित्यमनृतं भविष्यति, तापत्रयपरीतं तत्त्यक्ष्यत इति सोऽयं नित्यानित्यवस्तुविवेक इति च । एतदपि मन्दम् - अनित्यस्याप्यबाधितत्वेन सत्यत्वस्य स्थापयिष्यमाणत्वात् । न च नित्यं सुखमनुपादेयमिति धिया कर्मिणां कर्मविचारादौ प्रवृत्तिः ; किं तु तस्य कर्मसाध्यत्वभ्रमाद्वा दौर्लभ्यबुद्ध्या वा । किं च नित्यत्वादिमात्रं नास्थागोचरत्वादिनिदानम् । पुरुषार्थतत्साधनत्वाभ्यामेव साऽऽस्था, तद्वैपरीत्याच्चनास्था । ते च नित्यानित्ये च यथार्हे स्याताम् । निरूपकस्यापि ह्यनित्यसुखत्यागः अशक्यानि दुरन्तानि समव्ययफलानि चे ति न्यायात् , अधिकसुखलाभतृप्त्या वा स्यात् । तदभावे अत्यल्पमपि सुखमुपादीयते । नित्यमपि यदि दुःखात्मकमनुभयरूपं वा, कथमास्थार्हम् ? प्रकृतस्य प्रकृष्टसुखत्वेन

प्रतीतत्वादिति चेत् ; तत्प्रतीतिस्तावन्न व्याप्त्या, अदृष्टेः । न च श्रुत्या, तन्मूलापातधियस्साधारण्यादिदौस्थ्यात् , निश्चयस्य तु मिथस्संश्रयग्रस्तत्वात् ; तन्त्रान्तरस्मृत्योश्चासाधकत्वस्य दर्शितत्वात् । नित्यसुखसंभवमूलोपादित्सा च साधारणी । तन्त्रान्तरे तदसंभवश्च सुव्यक्तः । आनन्दो ब्रह्मे त्यादिरमीमांसितकर्मब्रह्मभागैर्दुर्बोधः, प्रमाणाध्याये तर्कपादे च तन्निरासात् । तत एवात्राद्यसूत्रेऽन्यत्र च नित्यफलासंभवः प्रकृतोपयोगात् प्रतिष्ठाप्यत इत्यपि दुर्वचम् , युष्माभिरेवं सूत्रवाक्यार्थानुक्तेश्च । अपि च नित्यसुखस्यात्र संभावनामात्रम् । स्वर्गादिसुखस्यानित्यत्वं च न शास्त्रान्तरेणानुमानेन वा सिध्येत् , ताभ्यामेव वैपरीत्यस्यापि सुवचत्वात् , स्वर्गसुखमनित्यं सुखत्वादित्यादेरमृतत्वादिश्रुतिबाधात् । तदान्यपर्यस्य तन्निरूपणसापेक्षत्वात् ; अन्यथा मुक्तसुखमनित्यं सुखत्वादित्यादेरपि प्रसक्तेः । तदप्रसक्तिश्च त्रय्यन्तर्थनिर्णयात् , स च तयेति मिथस्संश्रयः । अतः कर्मविचार एवात्रापेक्ष्यः । शमदमादीनां साधनत्वविवेकः तत्स्वरूपमात्रं वा वृत्तमित्युच्यते, न पूर्वः, तस्य शमदमाद्युपेतः स्यादि ति साधनलक्षणे निष्पाद्यत्वात् । नोत्तरः, तत्र श्रवणौपयिकावधानादिमात्ररूपाणां सर्वशास्त्रसाधारण्येन विशेषतोऽत्र वक्तुमयुक्तत्वात् । योगौपयिकानां तु बाह्यान्तःकरणनिरोधादिरूपाणां त्रय्यन्तार्थश्रव

णात् पूर्वमयुक्तेः, तस्मादेवंविच्छान्तो दान्त इति ब्रह्मधीपूर्वत्वोक्तेश्च । किं च नित्यानित्यविवेकादयः किं हेतुसाध्यरूपेण स्थिताः, अन्यथा वा ? आद्ये कर्मविचारोऽपि परीक्ष्य लोकानि त्यादिप्रकारेण मुमुक्षायाः परंपरया हेतुहेतुमद्भावात्सह पाठ्यः ; अन्यथा मुमुक्षत्वमेकमेव हि पाठ्यम् ; किं चतुष्कग्रहणेन ? द्वितीयेऽप्यभ्युगमविरोधात् विवेकाद्वैराग्यमि त्यादिक्रमस्य परैर्व्याख्यातत्वादिति । अत्र मीमांसाश्रवणमन्तरेणे त्युक्तं विवृणोति - फले ति । कर्मभागे स्वर्गादिर्यागादिः प्रयाजादिः बुभुक्षुश्च फलादयः ; ब्रह्मभागे तु मुक्त्युपास्तिशमादिमुमुक्षवः । एषां विशेषः पूर्वपक्षोक्ताद्व्यावृत्तं रूपं मिथो भेदश्च । नात्र फलकरणादिनिश्चयेन कर्मस्वरूपादिबोधोक्तौ साध्याविशेषः ; पदार्थवार्क्यार्थनित्या तेषु तेष्वधिकरणेषु तत्तदवान्तरवाक्यार्थ निश्चयेन पश्चान्मिथः संसृष्टविशिष्टमहावाक्यार्थबोधोक्तेः । वैराग्यादिमूलभूतस्य नित्यानित्यविवेकस्य फलकरणादिनिश्चयान्तर्गतबोधनपरत्वाच्च । कर्मग्रहणमिहोपास्तेरप्युपलक्षकम् क्रियत इति वोभयसंग्रहः । उपासनेऽपि कर्मशब्दस्सूत्रेऽप्युक्तः - प्रकाशश्च कर्मण्यभ्यासादि ति । तत्र च भाष्यम् उपासनात्मके कर्मणी ति । अन्यत्र च यागादिकमुपासनात्मकं च कर्मेति । मानसकर्मोक्तिश्च स्मृत्यादिषु दृश्यते । कर्मशब्दस्यात्र ज्योतिष्टोमादिमात्रविषयत्वं मत्वा तत्स्थिरत्वास्थिरत्वेत्येतन्निरूपणप्रकारस्यानुकारः ; न तु निश्चयप्रकारस्येति केचित् । अत्र वैघट्यव्यञ्जकेन व्यतिरेकेण भाष्यमाणस्यायं भावः - किं केन कथमित्याकाङ्क्षितफलाद्यंशत्रयनिश्चयमन्तरेण कथं त्र्यंशभावनात्मककर्मबोधः ; कथं च जीवनादिविशेषिताधिकारान्वितस्वर्गादिपदार्थस्य देहान्तरदेशान्तरभाग्यत्वनिश्चयः ? तदभावे च कथं लोकायतसौगतगतिखण्डनगर्भपूर्वोत्तरदेहानुवृत्तात्माध्यवसायः ? आत्मनि च सुखतयोपलब्धेरन्यथासिद्ध्या वचनमन्तरेण कथं सुखत्वश्रुतिमुख्यत्वम् ? तादृशात्मनिश्चयाभावे देहमेवात्मानं मन्यमानस्य कथमैहिकफलविरक्तिः ? नित्यसुखरूपतया सिद्धस्याप्यधिकर्तुः प्रवृत्तिधर्मफलं कृत्स्नं परिमितविषयभोगरूपमनित्यं, निवृत्तिधर्मफलं परं नित्यमिति निश्चयालाभे कथं स्वर्गाद्यनित्यफलजिहासा, नैगमान्तिकनित्यफलधिया समाकर्षश्च ? अतस्साधनचतुष्कवृत्तवादे विवेकविशेषादेर्मूलतया भागद्वयविचार एष्टव्यः । ततश्च कर्मविचारसापेक्षत्वम् । परमन्योन्याश्रयस्त्वधिकः - इति । आदिशब्देन ज्ञानानन्दरूपत्वसंग्रहः । शमादिसाधनसंपत्तौ विशेषतश्च दोषमाह - एषामि ति । शान्तो दान्त इत्यादिविनियोजकवाक्योक्तानामित्यर्थः । विनियोगोऽङ्गाङ्गित्वबोधनम् । संबन्धः इति तु न्यायसुदर्शनम् । शमादेरङ्गत्वे बोधिते ह्यत्र साधनत्वमनुक्तमप्यर्थात्सिध्येत् । ततः किमित्यत्र शेषलक्षणसिद्धप्रमाणलक्षणसापेक्षत्वमाह विनियोग

इति । एतैर्मानैर्ब्रह्मकाण्ड एव तद्विनियोगश्चिन्त्यतामित्यत्राह - स इति । स च तार्तीयः - प्रागुक्तसंगतिक्रमेण कर्मकाण्डतृतीयाध्यायोक्तः । इह पुनस्तृतीये लावानुसारात्पूर्वं व्युत्पादितैस्तैरेवाक्षेपसमाधानमात्रं करिष्यते । एवमेवाध्यायान्तरन्यायोपजीवनं चात्र द्रष्टव्यमिति भावः ।

उद्गीथाद्युपासनानां साङ्गत्यम् ।

उद्गीथाद्युपासनानि कर्मसमृद्ध्यर्थान्यपि ब्रह्मदृष्टिरूपाणि ब्रह्मज्ञानापेक्षाणीतीहैव चिन्तनीयानि । तान्यपि कर्माण्यनभिसंहितफलानि ब्रह्मविद्योत्पादनसाधनानीति तत्साद्गुण्यापादकान्येतानि सुतरामिहैव संगतानि । तेषां च कर्मस्वरूपाधिगमापेक्षा सर्वसंमता ।।

अथ युक्त्यन्तरं दर्शयन्नुद्गीथाद्युपासनविचारस्य स्थानान्तरानर्हतयाऽत्रैव मुख्यसंगत्या कर्मब्रह्मचिन्ताक्रमं स्थापयति - उद्गीथे ति । कर्मसमृद्ध्यर्थान्यपी त्यनेन पूर्वत्रोपयोगः, इह नेति शङ्कोद्धाट्यते । कर्मसमृद्धिः - तदेव वीर्यवत्तरमि ति

श्रुत्युक्तेः प्रबलकर्मभिरप्रतिबन्धो गुणफलरूपः । ब्रह्मदृष्टिरूपाणी ति हेतुगर्भम् । ब्रह्मज्ञानापेक्षाणि - न ह्यारोप्यस्वरूपमन्यत्राजानतः क्वचिदपि तदारोपः ; अनिर्वचनीयादिदृष्टेर्दूषयिष्यमाणत्वात् । इह च ब्रह्मज्ञानं प्रथमद्विकसाध्यमित्याशयः । दृष्ट्युपासनानां प्रधानानुपयोगं प्रणाड्योपयोगात् परिहरति - तानी ति । उद्गीथाद्युपासनपरिहार्यप्रत्यूह्यानीति यावत् । अपि रत्र परारोपितविरोधद्योतकः । यद्वा पूर्वग्रन्थेऽनुपयोगमन्वारुह्य सजातीयप्रयोगमात्रात्संगतिरनन्यगतिकाकाङ्क्षोक्त्या परिहृता । अत्र तूपयोगश्चास्तीति व्यज्यते । अनभिसंहितफलानि - बन्धकफलसंकल्परहितत्वादित्यर्थः । ब्रह्मविद्याऽत्र स्वाभीष्टा । साद्गुण्यम् - पूर्वोक्तैव समृद्धिः ; न तु वैकल्यनिवृत्तिः । तदापादकानि कर्मसमृद्ध्युत्पादकानि ।

कर्मजात्कर्मसाद्गुण्यं विद्या साद्गुण्यतश्च सा ।

अतो विरोध इत्यल्पं व्यक्तिभेदाद्व्यवस्थितेः ।। 327 ।।

सुतराम् - स्वापेक्षया परविद्यापेक्षया चेति भावः । इहैवे त्ययोगवदन्ययोगोऽपि व्यवच्छिद्यते ।

अब्रह्मदृष्ट्यादिषु तु प्रधानैकार्थता भवेत् ।

विद्यौपयिकदृष्ट्यादि हेतुन्यायादिहेष्यते ।। 328 ।।

नातिप्रसक्तिरेवं स्यादधीत्यासत्त्यनुद्रुतेः ।

कथंचित्संगतिश्चात्र परेष्टा न प्रणुद्यते ।। 329 ।।

अस्तु यथावदनवगतेऽधिष्ठाने मिथ्यादृष्टिः प्रसिद्धेत्यत्राह - तेषामि ति । न ह्येतन्मिथ्यादृष्टिमात्रम् ; अपि तु यथावदवगते वैधमारोपणम् । ततश्चाधिष्ठानभूतं कर्माङ्गं यथावदविजानता तत्रान्यदृष्टिविधिर्न चिन्तयितुं शक्यते ।
सर्वसंमता - विश्वापलापिनोऽपि निरूपकसन्निधौ दुरपह्नवा ; आहत्य सन्मात्रे अवगतिविमतेरिति भावः । ननु काम्यकर्मणोऽप्यनङ्गैरपि स्ववीर्यवत्तरत्वापादकैरेतैरपेक्षाऽस्ति, तेषामपि विचारानुष्ठाने च कर्मज्ञानापेक्षा सिद्धा । अत उभयाकाङ्क्षया कर्मकाण्डे तच्चिन्ताऽस्तु ; मैवम् ; अविदितब्रह्मणस्तदयोगस्योक्तत्वात् । अत एव ह्युपनिषत्स्वेव तदधीतिः । यत्तु अधीतवेदान्तस्ये त्यादिना वेदान्तमात्राध्यायिनस्तावन्मात्रचिन्ता शक्येति पूर्वं चोदितम् ; तदसत् ; अध्ययनविधिर्हि यथाक्रमं कृत्स्नाध्ययनं प्रयुङ्क्ते । न च विध्यतिलङ्घनेन प्रवृत्तमापत्कृतं वा त्रय्यन्तमात्राध्ययनमपेक्ष्येदानीं तद्विचारस्य पूर्ववृत्तं मृग्यते । एतेन प्राचीनसुकृतविशेषनियतवैराग्यातिशयादेकदेशाध्ययनविचारौ स्यातामित्यपि निरस्तम् , तस्याप्यध्ययनविध्यतिलङ्घनायोगात् । अनधिगतकर्मणः कर्माङ्गविद्याधिगतिरशक्यविचार इति चोक्तम् । अविशदनिरूपणेन पश्चाच्छेषपूरणं च क्लिष्टम् । ब्रह्मचिन्तोद्यतस्य विद्याङ्गकर्मणां गुरूपदेशमात्रेण ज्ञप्तिरस्त्विति चेत् , तर्हि तेनैव न्यायेन ब्रह्मविचारोऽपि मा भूत् । तदिह यथाविधि कृत्स्नाध्यायिनः प्रागिव कृतावशिष्टे विचारपर्वणि वृत्तविशेषः स्थाप्यत इति शुद्धः पन्थाः ।।

श्रुतिकिरीटशरीरविकृष्टिकृन्मलिनवृत्तिमलिम्लुचवृत्तिभिः ।

विघटितामिव विंशतिलक्षणीं यतिपतेरिति नीतिरजीघटत् ।। 330 ।।

।। इति लघुसिद्धान्तः ।।

"https://sa.wikisource.org/w/index.php?title=तत्त्वटीका&oldid=402814" इत्यस्माद् प्रतिप्राप्तम्