तत्त्वरत्नावलोकः
[[लेखकः :|]]



तत्त्वरत्नावलोकः

ओं नमः श्रीसद्गुरुपादेभ्यः ।

अनुपमसुखरूपी श्रीनिवासोऽनिवासो निरुपमदशदेवीरूपविद्यः सविद्यः ।
त्रिभुवनहितसौख्यप्राप्तिकारोऽविकारो जयति कमलपाणिर्यावदाशाविकासाः ॥ १ ॥
श्रीमन्त्रनीतिगतचारुचतुर्थसेकरूपं विदन्ति नहि ये स्फुटशब्दशून्यम् ।
नानोपदेशगणसंकुलसप्तभेदैस्तेषां स्फुटावगतये क्रियते प्रयत्नः ॥ २ ॥
संभ्रान्तबोधा निखिला हि तीर्थ्यास्तत्त्वस्य साध्यस्य च रूपवित्तौ ।
तेभ्यः प्रकृष्टः किल तत्त्ववेत्ता वेदान्तवादीति[जन] प्रवादः ॥ ३ ॥
आनन्दरूपं स्वविदप्रकम्प्यं वेदान्तिनः साध्यमुषन्ति सान्तम् ।
सश्रावकाखड्गजिनाश्च साध्यमिच्छन्ति रूपाद्युपधेर्विरामम् ॥ ४ ॥
आकारशून्यं गगनेन्दुरूपं प्रत्यात्मवेद्यं करुणारसं च ।
सल्लक्षणैर्भूषितमर्थकारि दानादिनिष्यन्दमपेतसौख्यम् ॥ ५ ॥
सानन्दसल्लक्षणमण्डिताङ्गं संभुज्यमानं दशभूमिसंस्थैः ।
सत्त्वार्थकारि प्रवदन्ति साध्यं दानदिषट्पारमितानयस्था ॥ ६ ॥
संपूर्य दानादिगुणानशेषान् संबुद्ध्य कृत्यं सकलं च कृत्वा ।
यभ्दूतकोटेः करणं च साक्षात्साध्यं तदप्यस्ति निरोधरूपम् ॥ ७ ॥
स्वाभाङ्गणा(ना)श्लेषि तदर्थकारि दुःखैः सुखैश्चैव विमुक्तिरूपम् ।
अशीत्यनुव्यञ्जनभूषिताङ्गमपेतकल्पं प्रवदन्ति साध्यम् ॥ ८ ॥
स्वदेवताकारविशेषशून्यं प्रागेव संभाव्य सुखं स्फुटं सत् ।
महासुखाख्यं जगदर्थकारि चिन्तामणिप्रख्यमुवाच कश्चित् ॥ ९ ॥
कृत्वा साक्षात्स्वाधिपं सातरूपं पश्चात्त्यक्त्वा सातमात्रं फलं स्यात् ।
शुद्धं साक्षाच्छक्यते नैव कर्तुं तेनाकारो भावितः स्वाधिपस्य ॥ १० ॥
गगणसमशरीरं लक्षणैर्भूषिताङ्गं निरुपमसुखपूर्णं स्वाभया संगतं च ।
स्फुरदमितमुनीन्द्रः सर्वसत्त्वार्थकारि प्रवदति पुनरन्यः साध्यमुच्छेदशून्यम् ॥ ११ ॥
कृत्वा साक्षात्स्वाधिपं सातरूपं भावोपेक्षाज्ञानमात्रं फलं स्यात् ।
आसंसारस्थायि सत्त्वार्थकारि चिन्तारत्नप्रख्यमेकान्तशान्तम् ॥ १२ ॥
कृत्वा साक्षान्मण्डलं सातरूपं पश्चात्तस्य स्वेच्छया निर्वृतिं च ।
सत्त्वार्थस्याप्यस्त्यभावो न वास्मिन् प्रादुर्भावो निर्वृतादस्ति यस्मात् ॥ १३ ॥
कृत्वा स्फुटं रूपमभीष्टमेषां पश्चान्निरोधं फलमाह कश्चित् ।
अभिन्नरूपश्च यतो निरोधो न पक्षभेदेऽपि ततोऽस्ति भेदः ॥ १४ ॥
प्रज्ञाज्ञानादुत्तरं बोधिचित्तास्वादस्तुर्यं सेष(क)माहावरं तत् ।
यस्मात्सर्वो भावनासु प्रयासो व्यर्थः प्राप्तस्तत्फलस्य प्रसिद्धेः ॥ १५ ॥
प्रज्ञाज्ञानादुत्तरं प्राप्तरामास्वादस्तुर्यं सेकमाहाधमं तत् ।
यस्मात्सर्वो भावनादौ प्रयत्नो बुद्धोद्दिष्टो निष्फलः संप्रसक्तः ॥ १६ ॥
दम्भोलिबीजश्रुतिधौतशुद्धपाथोज्ञ(ज)भूताङ्कुरभूतपुष्टि ।
तुरीयशस्यं परिपाकमेत(ति) स्फुटं चतुर्थं विदुषोऽपि गूढम् ॥ १७ ॥
पञ्चप्रदीपामृतबिन्दुचन्द्रभ्रूमध्यबिन्दुद्भवमण्डलानि ।
वायोः स्वरूपं गलशुण्डिकाद्यमतत्त्वरूपं स्वयमूहनीयम् ॥ १८ ॥
स्वप्नेन्द्रजालप्रतिबिम्बमायामरीचिगन्धर्वपुराम्बुचन्द्रैः ।
अन्यैश्च सर्वैरुपमाभिधेयैर्नैवास्ति साध्यं कथितादिहान्यत् ॥ १९ ॥
गम्भीरशून्यप्रतिभासमात्रशान्तातिसूक्ष्मानभिलाप्यशब्दैः ।
निर्लेपनी[रू]पनिरञ्जनाद्यैर्भ्रान्तिर्न कार्यापरसाध्यसत्त्वे ॥ २० ॥

॥ तत्त्वरत्नावलोकः समाप्तः ॥

कृतिरियं पण्डितवागीश्वरकीर्तिपादानाम् ॥�

"https://sa.wikisource.org/w/index.php?title=तत्त्वरत्नावलोकः&oldid=395603" इत्यस्माद् प्रतिप्राप्तम्