प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

तत्त्ववैशारद्यां कैवल्यपादः

तत्त्ववैशारदी


तत्र चतुर्थः कैवल्यपादः।

जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः॥4.1॥

तद् एवं प्रथमद्वितीयतृतीयपादैः समाधितत्साधनतद्विभूतयः प्राधान्येन व्युत्पादिताः। इतरत् तु प्रासङ्गिकम् अउपोद्घातिकं चोक्तम् इहेदानीं तद्धेतुकं कैवल्यं व्युत्पादनीयम्। न चैतत् कैवल्यभागीयं चित्तं परलोकं च परलोकिनं विज्ञानातिरिक्तं चित्तकरणकसुखाद्यात्मकशब्दाद्युपभोक्तारम् आत्मानं च प्रसंख्यानपरमकाष्ठां च विना व्युत्पाद्य शक्यं वक्तुम् इति तद् एतत् सर्वम् अत्र पादे व्युत्पादनीयम् इतरच् च प्रसङ्गाद् उपोद्घाताद् वा। तत्र प्रथमं सिद्धचित्तेषु कैवल्यभागीयं चित्तं निर्धारयितुकामः पञ्चतयीं सिद्धिम् आह --- जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः। व्याचष्टे --- देहान्तरितेति। स्वर्गोपभोगभागीयात् कर्मणो मनुष्यजातीयाचरितात् कुतश्चिन् निमित्ताल् लब्धपरिपाकात् क्वचिद् देवनिकाये जातमात्रस्यैव दिव्यदेहान्तरिता सिद्धिर् अणिमाद्या भवतीति। ओषधिसिद्धिम् आह --- असुरभवनेष्व् इति। मनुष्यो हि कुतश्चिन् निमित्ताद् असुरभवनम् उपसंप्राप्तः कमनीयाभिर् असुरकन्याभिर् उपनीतं रसायनम् उपयुज्याजरामरणत्वम् अन्याश् च सिद्धीर् आसादयति। इहैव वा रसायनोपयोगेन यथा माण्डव्यो मुनी रसोपयोगाद् विन्ध्यवासीति। मन्त्रसिद्धिम् आह --- मन्त्रैर् इति। तपःसिद्धिम् आह --- तपसेति। संकल्पसिद्धिम् आह --- कामरूपीति। यद् एव कामयतेऽणिमादि तद् एकपदेऽस्य भवतीति। यत्र कामयते श्रोतुं वा मन्तुं वा तत्र तद् एव शृणोति मनुते वेति। आदिशब्दाद् दर्शनादयः संगृहीता इति॥4.1॥

जात्यन्तरपरिणामः प्रकृत्यापूरात्॥4.2॥

समाधिजाः सिद्धयो व्याख्याता अधस्तने पादे। अथ चतसृषु सिद्धिष्व् अउषधादिसाधनासु तेषाम् एव कायेन्द्रियाणां जात्यन्तरपरिणतिर् इष्यते। सा पुनर् न तावद् उपादानमात्रात्। न हि तावन्मात्रम् उपादानं न्यूनाधिकदिव्यादिव्यभावेऽस्य भवति। नो खल्व् अविलक्षणं कारणं कार्यवैलक्षण्यायालम्। मास्याकस्मिकत्वं भूद् इत्य् आशङ्क्य पूरयित्वा सूत्रं पठति --- तत्र कायेन्द्रियाणाम् अन्यजातीयपरिणतानां --- जात्यन्तपरिणामः प्रकृत्यापूरात्। मनुष्यजातिपरिणतानां कायेन्द्रियाणां यो देवतिर्यग्जातिपरिणामः स खलु प्रकृत्यापूरात्। कायस्य हि प्रकृतिः पृथिव्यादीनि भूतानि। इन्द्रियाणां च प्रकृतिर् अस्मिता, तदवयवानुप्रवेश आपूरस् तस्माद् भवति। तद् इदम् आह --- पूर्वपरिणामेति। ननु यद्य् आपूरेणानुग्रहः कस्मात् पुनर् असौ न सदातन इत्य् अत आह --- धर्मादीति। तद् अनेन तस्यैव शरीरस्य बाल्यकौमारयौवनवार्धकादीनि च न्यग्रोधधानायां न्यग्रोधतरुभावश् च वह्निकणिकायास् तृणराशिनिवेशिताया वा प्रोद्भवज्ज्वालासहस्रसमालिङ्गितगगनमण्डलत्वं च व्याख्यातम्॥4.2॥

निमित्तम् अप्रयोजकं प्रकृतीनां वरणभेदस् तु ततः क्षेत्रिकवत्॥4.3॥

प्रकृत्यापूराद् इत्य् उक्तं तत्रेदं संदिह्यते --- किम् आपूरः प्रकृतीनां स्वाभाविको धर्मादिनिमित्तो वेति। किं प्राप्तं सतीष्व् अपि प्रकृतिषु कदाचिद् आपूराद् धर्मादिनिमित्तश्रवणाच् च तन्निमित्त एवेति प्राप्तम्। एवं प्राप्त आह --- निमित्तम् अप्रयोजकं प्रकृतीनां वरणभेदस् तु ततः क्षेत्रिकवत्। सत्यं धर्मादयो निमित्तं न तु प्रयोजकास् तेषाम् अपि प्रकृतिकार्यत्वात्। न च कार्यं कारणं प्रयोजयति तस्य तदधीनोत्पत्तितया कारणपरतन्त्रत्वात्। स्वतन्त्रस्य च प्रयोजकत्वात्। न खलु कुलालम् अन्तरेण मृद्दण्डचक्रसलिलादय उत्पित्सितेनोत्पन्नेन वा घटेन प्रयुज्यन्ते। किं तु स्वतन्त्रेण कुलालेन। न च पुरुषार्थोऽपि प्रवर्तकः। किं तु तदुद्देशेनेश्वरः। उद्देश्यतामात्रेण पुरुषार्थः प्रवर्तक इत्य् उच्यते। उत्पित्सोस् त्व् अस्य पुरुषार्थस्याव्यक्तस्य स्थितिकारणत्वं युक्तम्। न चैतावता धर्मादीनाम् अनिमित्तता प्रतिबन्धापनयनमात्रेण क्षेत्रिकवद् उपपत्तेर् ईश्वरस्यापि धर्माधिष्ठानार्थं प्रतिबन्धापनय एव व्यापारो वेदितव्यः। तद् एतन् निगदव्याख्यातेन भाष्येणोक्तम्॥4.3॥

निर्माणचित्तान्य् अस्मितामात्रात्॥4.4॥

प्रकृत्यापूरेण सिद्धीः समर्थ्य सिद्धिविनिर्मितनानाकायवर्तिचित्तैकत्वनानात्वे विचारयति --- यदा त्व् इति। तत्र नानामनस्त्वे कायानां प्रतिचित्तम् अभिप्रायभेदाद् एकाभिप्रायानुरोधश् च परस्परप्रतिसंधानं च न स्यातां पुरुषान्तरवत्। तस्माद् एकम् एव चित्तं प्रदीपवद् विसारितया बहून् अपि निर्माणकायान् व्याप्नोतीति प्राप्त आह --- निर्माणचित्तान्य् अस्मितामात्रात्। यद् यावज् जीवच्छरीरं तत् सर्वम् एकैकासाधारणचित्तान्वितं दृष्टम्। तद्यथा चैत्रमैत्रादिशरीरम्। तथा च निर्माणकाया इति सिद्धं तेषाम् अपि प्रातिस्विकं मन इत्य् अभिप्रायेणाह --- अस्मितामात्रम् इति॥4.4॥

प्रवृत्तिभेदे प्रयोजकं चित्तम् एकम् अनेकेषाम्॥4.5॥

यद् उक्तम् अनेकचित्तत्व एकाभिप्रायानुरोधश् च प्रतिसंधानं च न स्याताम् इति तत्रोत्तरं सूत्रम् --- प्रवृत्तिभेदे प्रयोजकं चित्तम् एकम् अनेकेषाम्। अभविष्यद् एष दोषो यदि चित्तम् एकं नानाकायवर्ति मनोनायकं न निरमास्यत्, तन्निर्माणे त्व् अदोषः। न चैकं गृहीत्वा कृतं प्रातिस्विकैर् मनोभिः कृतं वा नायकनिर्माणेन निजस्यैव मनसो नायकत्वाद् इति वाच्यम्। प्रमाणसिद्धस्य नियोगपर्यनुयोगानुपपत्तेर् इति। अत्र पुराणं भवति ---

"एकस् तु प्रभुशक्त्या वै बहुधा भवतीश्वरः। भूत्वा यस्मात् तु बहुधा भवत्य् एकः पुनस् तु सः॥ तस्माच् च मनसो भेदा जायन्ते चैत एव हि। ( 66.143) एकधा स द्विधा चैव त्रिधा च बहुधा पुनः॥ योगीश्वरः शरीराणि करोति विकरोति च। प्राप्नुयाद् विषयान् कैश्चित् कैश्चिद् उग्रं तपश् चरेत्॥ संहरेच् च पुनस् तानि सूर्यो रश्मिगणान् इव" ( 66.152) इति॥

तद् एतेनाभिप्रायेणाह --- बहूनां चित्तानाम् इति॥4.5॥

तत्र ध्यानजम् अनाशयम्॥4.6॥

तद् एवम् उदितेषु पञ्चसु सिद्धचित्तेष्व् अपवर्गभागीयं चित्तं निर्धारयति --- तत्र ध्यानजम् अनाशयम्। आशेरत इत्य् आशयाः कर्मवासनाः क्लेशवासनाश् च। त एते न विद्यन्ते यस्मिंस् तद् अनाशयं चित्तम् अपवर्गभागीयं भवतीत्य् अर्थः। यतो रागादिनिबन्धना प्रवृत्तिर् नास्त्य् अतो नास्ति पुण्यपापाभिसंबन्धः। कस्मात् पुना रागादिजनिता प्रवृत्तिर् नास्तीत्य् अत आह --- क्षीणक्लेशत्वाद् इति। ध्यानजस्यानाशयस्य मनोऽन्तरेभ्यो विशेषं दर्शयितुम् इतरेषाम् आशयवत्ताम् आह --- इतरेषां त्व् इति॥4.6॥

कर्माशुक्लाकृष्णं योगिनस् त्रिविधम् इतरेषाम्॥4.7॥

तत्रैव च हेतुपरं सूत्रम् अवतारयति --- यत इति। कर्माशुक्लाकृष्णं योगिनस् त्रिविधम् इतरेषाम्। पदं स्थानम्। चर्तुषु समवेता चतुष्पदी। यद् यावद् बहिःसाधनसाध्यं तत्र सर्वत्रास्ति कस्यचित् पीडा। न हि व्रीह्यादिसाधनेऽपि कर्मणि परपीडा नास्त्य् अवघातादिसमये ऽपि पिपीलिकादिवधसंभवात्। अन्ततो बीजादिवधेन स्तम्बादिभेदोत्पत्तिप्रतिबन्धात्। अनुग्रहश् च दक्षिणादिना ब्राह्मणादेर् इति। शुक्ला तपःस्वाध्यायध्यानवताम् असंन्यासिनाम्। शुक्लत्वम् उपपादयति --- सा हीति। अशुक्लाकृष्णा संन्यासिनाम्। संन्यासिनो दर्शयति --- क्षीणेति। कर्मासंभवात्। कर्मसंन्यासिनो हि न क्वचिद् बहिःसाधनसाध्ये कर्मणि प्रवृत्ता इति न चैषाम् अस्ति कृष्णः कर्माशयः। योगानुष्ठानसाध्यस्य कर्माशयफलस्येश्वरे समर्पणान् न शुक्लः कर्माशयः। निरत्ययफलो हि शुक्ल उच्यते। यस्य फलम् एव नास्ति कुतस् तस्य निरत्ययफलत्वम् इत्य् अर्थः। तद् एवं चतुष्टयीं कर्मजातिम् उक्त्वा कतमा कस्येत्य् अवधारयति --- तत्राशुक्लम् इति॥4.7॥

ततस् तद्विपाकानुगुणानाम् एवाभिव्यक्तिर् वासन्आनाम्॥4.8॥

कर्माशयं विविच्य क्लेशाशयगतिम् आह --- ततस् तद्विपाकानुगुणानाम् एवाभिव्यक्तिर् वासनानाम्। यज्जातीयस्य पुण्यजातीयस्यापुण्यजातीयस्य वा कर्मणो यो विपाको दिव्यो वा नारको वा जात्यायुर्भोगस् तस्य विपाकस्यानुगुणाः। ता एवाह --- या वासनाः कर्मविपाकम् अनुशेरतेऽनुकुर्वन्ति। दिव्यभोगजनिता हि दिव्यकर्मविपाकानुगुणा वासनाः। न हि मनुष्यभोगवासनाभिव्यक्तौ दिव्यकर्मफलोपभोगसंभवः। तस्मात् स्वविपाकानुगुणा एव वासनाः कर्माभिव्यञ्जनीया इति भाष्यार्थः॥4.8॥

जातिदेशकालव्यवहितानाम् अप्य् आनन्तर्यं स्मृतिसंस्कारयोर् एकरूपत्वात्॥4.9॥

स्याद् एतत्। मनुष्यस्य प्रायणानन्तरम् अधिगतमार्जारभावस्यानन्तरतया मनुष्यवासनाया एवाभिव्यक्त्वा भवितव्यम्। न खल्व् अस्ति संभवो यद् अनन्तरदिवसानुभूतं न स्मर्यते व्यवहितदिवसानुभूतं च स्मर्यत इत्य् अत आह --- जातिदेशकालव्यवहितानाम् अप्य् आनन्तर्यं स्मृतिसंस्कारयोर् एकरूपत्वात्। भवतु वृषदंशवासनाया जात्यादिव्यवधिस् तथापि तस्याः फलत आनन्तर्यं वृषदंशविपाकेन कर्मणा तस्या एव स्वविपाकानुगुणाया अभिव्यक्तौ तत्स्मरणसमुत्पादाद् इत्य् आह --- वृषदंशविपाकोदय इति। उदेत्य् अस्माद् इत्य् उदयः कर्माशयः। पुनश् च स्वव्यञ्जकाञ्जन एवोदियात्, अभिव्यज्येत विपाकारम्भाभिमुखः क्रियेतेत्य् अर्थः। अभिसंस्कारक्रिया उपादाय गृहीत्वा व्यज्येत। यदि व्यज्येत स्वविपाकानुगुणा एव वासना गृहीत्वा व्यज्येतेत्य् अर्थः। आनन्तर्यम् एव फलतः कारणद्वारकम् उपपाद्य कार्यद्वारकम् उपपादयति --- कुतश् च स्मृतीति। एकरूपता सादृश्यम्। तद् एवाह --- यथेति। नन्व् अनुभवसरूपाश् चेत् संस्कारास् तथा सत्य् अनुभवा विशरारव इत्य् एतेऽपि विशरारवः कथं चिरभाविनेऽनुभवाय कल्पेरन्न् इत्य् अत आह --- ते च कर्मवासनानुरूपाः। यथापूर्वं स्थायि क्षणिककर्मनिमित्तम् अप्य् एवं क्षणिकानुभवनिमित्तोऽपि संस्कारः स्थायी किंचिद् भेदाधिष्ठानं च सारूप्यम् अन्यथाभेदे तत्त्वेन सादृश्यानुपपत्तेर् इत्य् अर्थः। सुगमम् अन्यत्॥4.9॥

तासाम् अनादित्वं चाशिषो नित्यत्वात्॥4.10॥

स्यात् एतद् व्यज्येरन् पूर्वपूर्वतरजन्माभिसंस्कृता वासनाः। यदि पूर्वपूर्वतरजन्मसद्भावे प्रमाणं स्यात् तद् एव तु नास्ति। न च जातमात्रस्य जन्तोर् हर्षशोकदर्शनमात्रं प्रमाणं भवितुम् अर्हति, पद्मादिसंकोचविकासवत् स्वाभाविकत्वेन तदुपपत्तेर् इत्य् अत आह --- तासाम् अनादित्वं चाशिषो नित्यत्वात्। तासां वासनानाम् अनादित्वं च न केवलम् आनन्तर्यम् इति चार्थः। आशिषो नित्यत्वात्। आत्माशिषो वासनानाम् अनादित्वे नित्यत्वाव्यभिचाराद् इति। ननु स्वाभाविकत्वेनाप्य् उपपत्तेर् असिद्धम् आशिषो नित्यत्वम् इत्य् अत आह --- येयम् इति। नास्तिकः पृच्छति --- कस्मात्। उत्तरं --- जातमात्रस्य जन्तोर् इति। अत एवैतस्मिञ् जन्मन्य् अननुभूतमरणधर्मकस्य मरणम् एव धर्मः सोऽननुभूतो येन स तथोक्तस् तस्य मातुर् अङ्कात् प्रस्खलतः कम्पमानस्य माङ्गल्यचक्रादिलाञ्छितं तदुरःसूत्रम् अतिगाढं पाणिग्राहम् अवलम्बमानस्य बालकस्य कम्पभेदानुमिता द्वेषानुषक्ते दुःखे या स्मृतिस् तन्निमित्तो मरणत्रासः कथं भवेद् इति। ननूक्तं स्वभावाद् इत्य् अत आह --- न च स्वाभाविकं वस्तु निमित्तम् उपादत्ते गृह्णाति स्वोत्पत्तौ। एतद् उक्तं भवति --- बालकस्येदृशो दृश्यमानः कम्पो भयनिबन्धन ईदृशकम्पत्वाद् अस्मदादिकम्पवत्। बालकस्य भयं द्वेषदुःखस्मृतिनिमित्तं भयत्वाद् अस्मदादिभयवत्। आगामिप्रत्यवायोत्प्रेक्षालक्षणं च भयं न दुःखस्मृतिमात्राद् भवति, अपि तु यतो बिभेति तस्य प्रत्यवायहेतुभावम् अनुमाय संप्रत्य् अपि प्रत्यवायं भयं च विदध्याद् इति शङ्कते। तस्माद् यज्जातीयाद् अनुभूतचराद् द्वेषानुषक्तं दुःखम् उपपादितं तस्य स्मरणात् तज्जातीयस्यानुभूयमानस्य तद्दुःखहेतुत्वम् अनुमाय ततो बिभेति। न च बालकेनास्मिञ् जन्मनि स्खलनस्यान्यत्र दुःखहेतुत्वम् अवगतम्। न च तादृशं दुःखम् उपलब्धम्। तस्मात् प्राग्भवीयो ऽनुभवः परिशिष्यते। तच् चैतद् एवं प्रयोगम् आरोहति --- जातमात्रस्य बालस्य स्मृतिः पूर्वानुभवनिबन्धना स्मृतित्वाद् अस्मदादिस्मृतिवद् इति। न च पद्मसंकोचविकासाव् अपि स्वाभाविकौ। न हि स्वाभाविकं कारणान्तरम् अपेक्षते, वह्नेर् अउष्ण्यं प्रत्य् अपि कारणान्तरापेक्षाप्रसङ्गात्। तस्माद् आगन्तुकम् अरुणकरसंपर्कमात्रम् एव कमलिनीविकासकारणम्। संकोचकारणं च संस्कारः स्थितिस्थापक इति। एवं स्मिताद्यनुमितहर्षादयोऽपि प्राचि भवे हेतवो वेदितव्याः। तद् आस्तां तावत् प्रकृतम् उपसंहरति --- तस्माद् इति। निमित्तं लब्धविपाककालं कर्म। प्रतिलम्भोऽभिव्यक्तिः। प्रसङ्गतश् चित्तपरिमाणविप्रतिपत्तिं निराचिकीर्षुर् विप्रतिपत्तिम् आह --- घटप्रासादेति। देहप्रदेशवर्तिकार्यदर्शनाद् देहाद् बहिः सद्भावे चित्तस्य न प्रमाणम् अस्ति। न चैतद् अणुपरिमाणं दीर्घशष्कुलीभक्षणादाव् अपर्यायेण ज्ञानपञ्चकानुत्पादप्रसङ्गात्। न चाननुभूयमानक्रमकल्पनायां प्रमाणम् अस्ति। न चैकम् अणु मनो नानादेशैर् इन्द्रियैर् अपर्यायेण संबन्धुम् अर्हति। तत् पारिशेष्यात् कायपरिमाणं चित्तं घटप्रासादवर्तिप्रदीपवत्। संकोचविकाशौ पुत्तिकाहस्तिदेहयोर् अस्योत्पत्स्येते। शरीरपरिमाणम् एवाकारः परिमाणं यस्येत्य् अपरे प्रतिपन्नाः। नन्व् एवं कथम् अस्य क्षेत्रबीजसंयोगः। न खल्व् एतद् अनाश्रयं मृतशरीरान् मातृपितृदेहवर्तिनी लोहितरेतसी प्राप्नोति परतन्त्रत्वात्। न हि स्थाण्वादिष्व् अगच्छत्सु तच्छाया गच्छति। न चागच्छति पटे तदाश्रयं चित्रं गच्छति। तथा च न संसारः स्याद् इत्य् अत आह --- तथा चान्तराभावः संसारश् च युक्त इति। तथा च शरीरपरिमाणत्वे देहान्तरप्राप्तये पूर्वदेहत्यागो देहान्तरप्राप्तिश् चान्तरास्यातिवाहिकशरीरसंयोगाद् भवतस् तेन खल्व् अयं देहान्तरे संचरेत्। तथा च पुराणम् ---

"अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्" ( 3.297.17) इति।

सोऽयम् अन्तराभावः। अत एव संसारश् च युक्त इति। तद् एतद् अमृष्यमाणः स्वमतम् आह --- वृत्तिर् एवास्य विभुनश् चित्तस्य संकोचविकासिनीत्य् आचार्यः स्वयंभूः प्रतिपेदे। इदम् अत्राकूतं --- यद्य् अनाश्रयं चित्तं न देहान्तरसंचारि कथम् एतद् आतिवाहिकम् आश्रयते, तत्रापि देहान्तरकल्पनायाम् अनवस्था। न चास्य देहान् निष्कर्षः सातिवाहिकस्य संभव्अति। निष्कृष्टस्य चेतसस् तत्संबन्धात्। अस्तु तर्हि सूक्ष्मशरीरम् एवा सर्गाद् आ च महाप्रलयान् नियतं चित्तानाम् अधिष्ठानं षाट्कौशिकशरीरम् अध्यवर्ति। तेन हि चित्तम् आ सत्यलोकाद् आ चावीचेस् तत्र तत्र शरीरे संचरति। निष्कर्षश् चास्योपपन्नः षाट्कौशिकात् कायात्। तत्र हि तदन्तराभावस् तस्य नियतत्वात्। न चास्यापि सद्भावे प्रमाणम् अस्ति। न खल्व् एतद् अध्यक्षगोचरः। न च संसारोऽस्यानुमानम्। आचार्यमतेनाप्य् उपपत्तेः। आगमस् तु पुरुषस्य निष्कर्षम् आह। न च चित्तं वा सूक्ष्मशरीरं वा पुरुषः किं तु चितिशक्तिर् अप्रतिसंक्रमा। न चास्या निष्कर्षः संभवतीत्य् अउपचारिको व्याख्येयः। तथा च चितेश् चित्तस्य च तत्र तत्र वृत्त्यभाव एव निष्कर्षार्थः। यच् च स्मृतीतिहासपुराणेषु मरणानन्तरं प्रेतशरीरप्राप्तिस् तद्विमोकश् च सपिण्डीकरणादिभिर् इत्य् उक्तं तद् अनुजानीमः। आतिवाहिकत्वं तस्य न मृष्यामहे। न चात्रास्ति कश्चिद् आगमः। लब्धशरीर एव च यमपुरुषैर् अपि पाशबद्धो नीयते। न त्व् आतिवाहिकशरीरः। तस्माद् आहंकारिकत्वाच् चेतसो ऽहंकारस्य च गगनमण्डलवत् त्रैलोक्यव्यापित्वाद् विभुत्वं मनसः। एवं चेद् अस्य वृत्तिर् अपि विभ्वीति सर्वज्ञतापत्तिर् इत्य् अत उक्तं वृत्तिर् एवास्येति। स्याद् एतत्। चित्तमात्राधीनाया वृत्तेः संकोचविकासौ कुतः कादाचित्काव् इत्य् अत आह --- तच् च चित्तं धर्मादिनिमित्तापेक्षम्। वृत्तौ निमित्तं विभजते --- निमित्तं चेति। आदिग्रहणेनेन्द्रियधनादयो गृह्यन्ते। श्रद्धादीत्य् अत्रापि वीर्यस्मृत्यादयो गृह्यन्ते। आन्तरत्वे संमतिम् आचार्याणाम् आह --- तथा चोक्तम्। विहारो व्यापारः। प्रकृष्टं शुक्लं, तयोर् बाह्याभ्यन्तरयोर् मध्ये। ज्ञानवैराग्ये तज्जनितो धर्मः (तज्जनितौ धर्मौ) केन बाह्यसाध्येन धर्मेणातिशय्येते अभिभूयेते। ज्ञानवैराग्यजाव् एव धर्मौ तम् अभिभवतः, बीजभावाद् अपनयत इत्य् अर्थः। अत्रैव सुप्रसिद्धम् उदाहरणम् आह --- दण्डकारण्यम् इति॥4.10॥

हेतुफलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तदभावः॥4.11॥

अथैताश् चित्तवृत्तयो वासनाश् चानादयश् चेत् कथम् आसाम् उच्छेदः। न खलु चितिशक्तिर् अनादिर् उच्छिद्यत इत्य् अत आह --- हेतुफलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तदभावः। अनादेर् अपि समुच्छेदो दृष्टः। तद्यथानागतत्वस्येति सव्यभिचारत्वाद् असाधनम्। चितिशक्तिस् तु विनाशकारणाभावान् न विनश्यति, न त्व् अनादित्वात्। उक्तं च वासनानाम् अनादीनाम् अपि समुच्छेदे कारणं सूत्रेणेति। अनुग्रहोपघाताव् अपि धर्माधर्मादिनिमित्तम् उपलक्षयतः। तेन सुरापानादयोऽपि संगृहीता भवन्ति। नेत्री नायिका। अत्रैव हेतुम् आह --- मूलम् इति। प्रत्युत्पन्नता वर्तमानता न तु धर्मस्वरूपोत्पादः। अत्रैव हेतुम् आह --- न हीति। यद् अभिमुखीभूतं वस्तु कामिनीसंपर्कादि। व्यापकाभावे व्याप्यस्याभाव इति सूत्रार्थः॥4.11॥

अतीतानागतं स्वरूपतोऽस्त्य् अध्वभेदाद् धर्माणाम्॥4.12॥

उत्तरसूत्रम् अवतारयितुं शङ्कते --- नास्तीति। असत इति तु संपातायातं निदर्शनाय वा। अतीतानागतं स्वरूपतो ऽस्त्य् अध्वभेदाद् धर्माणाम्। नासताम् उत्पादो न सतां विनाशः किं तु सताम् एव धर्माणाम् अध्वभेदपरिणाम एवोदयव्ययाव् इति सूत्रार्थः। अनुभूता प्राप्ता येन व्यक्तिस् तत् तथा। संप्रति व्यक्तिर् नास्तीति यावत्। इतश् च त्रैकाल्ये ऽपि धर्मः सन्न् इत्य् आह --- यदि चेति। न ह्य् असञ्ज्ञानविषयः संभवतीति निरुपाख्यत्वाद् विषयावभासं हि विज्ञानं नासति विषये भवति। त्रैकाल्यविषयं च विज्ञानं योगिनाम् अस्मदादीनां च विज्ञानम् असति विषये नोत्पन्नं स्यात्। उत्पद्यते च। तस्माद् अतीतानागते सामान्यरूपेण समनुगते स्त इति। एवम् अनुभवतो ज्ञानं विषयसत्त्वे हेतुर् उक्तम्। उद्देश्यत्वाद् अप्य् अनागतस्य विषयत्वेन सत्त्वम् एवेत्य् आह --- किं च भोगभागीयस्येति। कुशलो निपुणः। अनुष्ठेयेऽपि च यद् यन् निमित्तं तत् सर्वं नैमित्तिके सत्य् एव विशेषम् आधत्ते। यथा काण्डलाववेदाध्यायादयः। न खल्व् एते काण्डलावादयो ऽसन्तम् उत्पादयन्ति। सत एव तु तत्प्राप्तिविकारौ कुर्वन्ति। एवं कुलालादयोऽपि सत एव घटस्य वर्तमानीभावहेतव इत्य् आह --- सतश् चेति। यदि तु वर्तमानत्वाभावाद् अतीतानागतयोर् असत्त्वं हन्त भो वर्तमानस्याप्य् अभावोऽतीतानागतत्वाभावात्। अध्वविशिष्टतया तु सत्त्वं त्रयाणाम् अप्य् अविशिष्टम् इत्य् अभिप्रायेणाह --- धर्मी चेति। प्रत्येकम् अवस्थानं प्रत्यवस्थितिर् इति। द्रव्यत इति द्रव्ये धर्मिणि सार्वविभक्तिकस् तसिः। यद्य् अतीतानागताव् अतीतानागतत्वे न स्तस् तर्हि वर्तमानसमये तत्त्वाभावान् न स्याताम् इत्य् अत आह --- एकस्य चेति। प्रकृतम् उपसंहरति --- इति नाभूत्वा भाव इति॥4.12॥

ते व्यक्तसूक्ष्मा गुणात्मानः॥4.13॥

स्याद् एतत्। अयं तु नानाप्रकारो धर्मिधर्मावस्थापरिणामरूपो विश्वभेदप्रपञ्चो न प्रधानाद् एकस्माद् भवितुम् अर्हति। न ह्य् अविलक्षणात् कारणात् कार्यभेदसंभव इत्य् अत आह --- ते व्यक्तसूक्ष्मा गुणात्मानः। ते त्र्यध्वानो धर्मा व्यक्ताश् च सूक्ष्माश् च गुणात्मानो न त्रैगुण्यातिरिक्तम् एषाम् अस्ति कारणम्। वैचित्र्यं तु तदाहितानादिक्लेशवासनानुगताद् वैचित्र्यात्। यथोक्तं वायुपुराणे ---

"वैश्वरूप्यात् प्रधानस्य परिणामोऽयम् अद्भुतः" [वायुपुराणम् 53.120] इति।

व्यक्तानां पृथिव्यादीनाम् एकादशेन्द्रियाणां च वर्तमानानाम् अतीतानागतत्वं षडविशेषा यथायोगं भवन्ति। संप्रति विश्वस्य नित्यानित्यरूपे विभजन् नित्यरूपम् आह --- सर्वम् इदम् इति। दृश्यमानं संनिवेशः संस्थानभेदवान् परिणाम इत्य् अर्थः। अत्रैव षष्टितन्त्रशास्त्रस्यानुशिष्टिः। मायेव न तु माया। सुतुच्छकं विनाशि। यथा हि मायाह्नायैवान्यथा भवति एवं विकारा अप्य् आविर्भावतिरोभावधर्माणः प्रतिक्षणम् अन्यथा। प्रकृतिर् नित्यतया मायाविधर्मिणी परमार्थेति॥4.13॥

परिणामैकत्वाद् वस्तुतत्त्वम्॥4.14॥

भवतु त्रैगुण्यस्येत्थं परिणामवैचित्र्यम् एकस् तु परिणामः पृथिवीति वा तोयम् इति वा कुत आत्मन एकत्वविरोधाद् इत्य् आशङ्क्य सूत्रम् अवतारयति --- यदा तु सर्वे गुणा इति। परिणामैकत्वाद् वस्तुतत्त्वम्। बहूनाम् अप्य् एकः परिणामो दृष्टः। तद्यथा गवाश्वमहिषमातङ्गानां रुमान्इक्षिप्तानाम् एको लवणत्वजातीयलक्षणः परिणामो वर्तितैलानलानां च प्रदीप इति। एवं बहुत्वेऽपि गुणानां परिणामैकत्वं, ततस् तन्मात्रभूतभौतिकानां प्रत्येकं तत्त्वम् एकत्वम्। ग्रहणात्मकानां सत्त्वप्रधानतया प्रकाशात्मनाम् अहंकारावान्तरकार्याणां करणभावेनैकः परिणामः श्रोत्रम् इन्द्रियम्। तेषाम् एव गुणानां तमःप्रधानतया जडत्वेन ग्राह्यात्मकानां शब्दतन्मात्रभावेनैकः परिणामः शब्दो विषयः। शब्द इति शब्दतन्मात्रम्। विषय इति जडत्वम् आह न तु तन्मात्रस्य श्रोत्रविषयत्वसंभव इति। शेषं सुगमम्। अथ विज्ञानवादिनं वैनाशिकम् उत्थापयति --- नास्त्य् अर्थो विज्ञानविसहचर इति। यदि हि भूतभौतिकानि विज्ञानमात्राद् भिन्नानि भवेयुस् ततस् तदुत्पत्तिकारणम् ईदृशं प्रधानं कल्प्येत, न तु तानि विज्ञानातिरिक्तानि सन्ति परमार्थतः। तत् कथं प्रधानकल्पनं कथं च ग्रहणानाम् इन्द्रियाणाम् अहंकारविकाराणां कल्पनेति। तथा हि --- जडस्यार्थस्य स्वयम् अप्रकाशत्वान् नास्त्य् अर्थो विज्ञानविसहचरः। साहचर्यं संबन्धः। तदभावो विसहचरत्वम्। विर् अभावार्थः। विज्ञानासंबन्धो नास्ति व्यवहारयोग्य इत्य् अर्थः। अस्ति तु ज्ञानम् अर्थविसहचरं तस्य स्वयंप्रकाशत्वेन स्वगोचरास्तिताव्यवहारे कर्तव्ये जडम् अर्थं प्रत्यपेक्षाभावात्। तद् अनेन वेद्यत्वसहोपलम्भनियमौ सूचितौ विज्ञानवादिना। तौ चैवं प्रयोगम् आरोहतः --- यद् वेद्यते येन वेदनेन तत् ततो न भिद्यते। यथा ज्ञानस्यात्मा। वेद्यन्ते च भूतभौतिकानीति विरुद्धव्याप्तोपलब्धिर् निषेध्यभेदविरुद्धेनाभेदेन व्याप्तं वेद्यत्वं दृश्यमानं स्वव्यापकम् अभेदम् उपस्थापयत् तद्विरुद्धं भेदं प्रतिक्षिपतीति। तथा यद् येन नियतसहोपलम्भं तत् ततो न भिद्यते। यथैकस्माच् चन्द्राद् द्वितीयश् चन्द्रः। नियतसहोपलम्भश् चार्थो ज्ञानेनेति व्यापकविरुद्धोपलब्धिः। निषेध्यभेदव्यापकानियमविरुद्धो नियमोऽनियमं निवर्तयंस् तद्व्याप्तं भेदं प्रतिक्षिपतीति। स्याद् एतत्। अर्थश् चेन् न भिन्नो ज्ञानात् कथं भिन्नवत् प्रतिभासत इत्य् अत आह --- कल्पितम् इति। यथाहुर् वैनाशिकाः ---

"सहोपलम्भनियमाद् अभेदो नीलतद्धियोः। भेदश् च भ्रान्तिविज्ञानैर् दृश्य इन्दाव् इवाद्वये" इति॥

कल्पितत्वं विशदयति --- ज्ञानपरिकल्पनेति। निराकरोति --- त इति। ते कथं श्रद्धेयवचनाः स्युर् इति संबन्धः। प्रतिज्ञानम् उपस्थितं प्रत्युपस्थितम्। कथम् --- तथेति। यथा यथावभासत इदंकारास्पदत्वेन तथा तथा स्वयम् उपस्थितं न तु कल्पनोपकल्पितं विज्ञानविषयतापन्नम्। स्वमाहात्म्येनेति विज्ञानकारणत्वम् अर्थस्य दर्शयति। यस्माद् अर्थेन स्वकीयया ग्राह्यशक्त्या विज्ञानम् अजनि तस्माद् अर्थस्य ग्राहकं तद् एवंभूतं वस्तु कथम् अप्रमाणात्मकेन विकल्पविज्ञानबलेन विकल्पस्याप्रामाणिकत्वात् तद्बलस्यापि तदात्मनोऽप्रमाणात्मकत्वं, तेन वस्तुस्वरूपम् उत्सृज्योपप्लुतं कृत्वा। उपगृह्येति क्वचिद् पाठः। तत्रापि स एवार्थः। तद् एवापलपन्तः श्रद्धातव्यवचनाः स्युर् इति। इदम् अत्राकूतम् --- सहोपलम्भनियमश् च वेद्यत्वं च हेतू संदिग्धव्यतिरेकतया नैकान्तिकौ। तथा हि --- ज्ञानाकारस्य भूतभौतिकादेर् यद् एतद् बाह्यत्वं स्थूलत्वं च भासेते न ते ज्ञाने संभवतः। तथा हि नानादेशव्यापिता स्थौल्यं विच्छिन्नदेशता च बाह्यत्वम्। न चैकविज्ञानस्य नानादेशव्यापिता विच्छिन्नदेशता चोपपद्यते। तद्देशत्वातद्देशत्वलक्षणविरुद्धधर्मसंसर्गस्यैकत्रासंभवात् संभवे वा त्रैलोक्यस्यैकत्वप्रसङ्गात्। अत एवास्तु विज्ञानभेद इति चेत्। हन्त भोः परमसूक्ष्मगोचराणां प्रत्ययानां परस्परवार्तानभिज्ञानां स्वगोचरमात्रजागरूकाणां कुतस्त्योऽयं स्थूलावभासः। न च विकल्पगोचरोऽभिलापः संसर्गाभावाद् विशदप्रतिभासत्वाच् च। न च स्थूलम् आलोचितं यतस् तदुपाधिकस्य विशदता भवेत् तत्पृष्ठभाविनः। न चाविकल्पवद् विकल्पोऽपि स्वाकारमात्रगोचरस् तस्य चास्थूलत्वान् न स्थूलगोचरो भवितुम् अर्हति। तस्माद् बाह्ये च प्रत्यये स्थूलस्य बाह्यस्य चासंभवाद् अलीकम् एतद् आस्थातव्यम्। न चालीकं विज्ञानाद् अभिन्नं विज्ञानस्य तद्वत् तुच्छत्वप्रसङ्गात्। तथा च वेद्यत्वस्याभेदव्याप्यत्वाभावात् कुतो भेदप्रतिपक्षत्वम्। सहोपलम्भनियमश् च सदसतोर् इव विज्ञानस्थौल्ययोः सतोर् अपि स्वभावाद् वा कुतश्चित् प्रतिबन्धाद् वोपपत्स्यते। तस्माद् अनैकान्तिकत्वाद् एतौ हेत्वाभासौ विकल्पमात्रम् एव बाह्याभावे प्रसुवाते। न च प्रत्यक्षमाहात्म्यं विकल्पमात्रेणापोद्यते। तस्मात् साधूक्तं कथम् अप्रमाणात्मकेन विकल्पज्ञानबलेनेति। एतेन प्रत्ययत्वम् अपि स्वप्नादिप्रत्ययदृष्टान्तेन निरालम्बनत्वसाधनम् अपास्तम्। प्रमेयविकल्पस् त्व् अवयविव्यवस्थापनेन प्रत्युक्तः। विस्तरस् तु न्यायकणिकायाम् अनुसरणीय इति तद् इह कृतं विस्तरेणेति॥4.14॥

वस्तुसाम्ये चित्तभेदात् तयोर् विभक्तः पन्थाः॥4.15॥

तद् एवम् उत्सूत्रं भाष्यकृद् विज्ञानातिरिक्तस्थापने युक्तिम् उक्त्वा सौत्रीं युक्तिम् अवतारयति --- कुतश् चैतद् इति। वस्तुसाम्ये चित्तभेदात् तयोर् विभक्तः पन्थाः। यन्नानात्वे यस्यैकत्वं तत् ततोऽत्यन्तं भिद्यते। यथा चैत्रस्य ज्ञानम् एकं भिन्नेभ्यो देवदत्तविष्णुमित्रमैत्रप्रत्ययेभ्यो भिद्यते। ज्ञाननानात्वे ऽपि चार्थो न भिद्यत इति भवति विज्ञानेभ्योऽन्यः। अभेदश् चार्थस्य ज्ञानभेदेऽपि प्रमात्Qणां परस्परप्रतिसंधानाद् अवसीयते। अस्ति हि रक्तद्विष्टविमूढमध्यस्थानाम् एकस्यां योषिति प्रतीयमानायां प्रतिसंधानं या त्वया दृश्यते सैव मयापीति। तस्माद् वस्तुसाम्ये चित्तभेदाज् ज्ञानभेदात् तयोर् अर्थज्ञानयोर् विभक्तः पन्थाः स्वरूपभेदोपायः। सुखज्ञानं कान्तायां कान्तस्य, सपत्नीनां दुःखज्ञानम्। चैत्रस्य तु ताम् अविन्दतो मूढज्ञानं विषादः। स्याद् एतत्। य एकस्य चित्तेन परिकल्पितः कामिनीलक्षणोऽर्थस् तेनैवान्येषाम् अपि चित्तम् उपरज्यत इति साधारणम् उपपद्यत इत्य् अत आह --- न चान्येति। तथा सत्य् एकस्मिन् नीलज्ञानवति सर्व एव नीलज्ञानवन्तः स्युर् इति। नन्व् अर्थवादिनाम् अप्य् एकोऽर्थः कथं सुखादिभेदभिन्नविज्ञानहेतुः। न ह्य् अविलक्षणात् कारणात् कार्यभेदो युक्त इत्य् अत आह --- सांख्यपक्ष इति। एकस्यैव बाह्यस्य वस्तुनस् त्रैगुण्यपरिणामस्य त्रैरूप्यम् उपपन्नम्। एवम् अपि सर्वेषाम् अविशेषेण सुखदुःखमोहात्मकं विज्ञानं स्याद् इत्य् अत आह --- धर्मादिनिमित्तापेक्षं रजःसहितं सत्त्वं धर्मापेक्षं सुखज्ञानं जनयति। सत्त्वम् एव तु विगलितरजस्कं विद्यापेक्षं माध्यस्थ्यज्ञानम् इति। ते च धर्मादयो न सर्वे सर्वत्र पुरुषे सन्ति किं तु कश्चित् क्वचिद् इत्य् उपपन्ना व्यवस्थेति। अत्र केचिद् आहुः प्रावादुका ज्ञानसहभूर् एवार्थो भोग्यत्वात् सुखादिवद् इति। एतद् उक्तं भवति --- भवत्व् अर्थो ज्ञानाद् व्यतिरिक्तस् तथाप्य् असौ जडत्वान् न ज्ञानम् अन्तरेण शक्यः प्रतिपत्तुम्। ज्ञानेन तु भासनीयः। तथा च ज्ञानसमय एवास्ति नान्यदा प्रमाणाभावाद् इति। तद् एतद् उत्सूत्रं तावद् दूषयति भाष्यकारः --- त एतया द्वारेति। वस्तु खलु सर्वचित्तसाधारणम् अनेकक्षणपरम्परोह्यमानं परिणामात्मकम् अनुभूयते लौकिकपरीक्षकैः। तच् चेद् विज्ञानेन सह भवेन् नूनम् एवंविधम् एवं चेद् इदमंशस्योपरि कोऽयम् अनुरोधो येन सो ऽपि नापह्नूयेतेत्य् अर्थः॥4.15॥

न चैकचित्ततन्त्रं वस्तु तद् अप्रमाणकं तदा किं स्यात्॥4.16॥

मा वा भूद् इदंअंशस्यापह्नवो ज्ञानसहभूर् एवास्त्व् अर्थस् तत्राप्य् आह --- न चैकचित्ततन्त्रं वस्तु तद् अप्रमाणकं तदा किं स्यात्। यद् धि घटग्राहि चित्तं तद् यदा पटद्रव्यव्यग्रतया न घटे वर्तते। यद् वा विवेकविषयम् आसीत् तद् एव च निरोधं समापद्यते तदा घटज्ञानस्य वा विवेकज्ञानस्य वाभावाद् विवेको वा घटो वा ज्ञानभेदमात्रजीवनस् तन्नाशान् नष्ट एव स्याद् इत्य् आह --- एकचित्तेति। किं तत् स्यान् न स्याद् इत्य् अर्थः। संबध्यमानं च चित्तेन तद्वस्तु विवेको वा घटो वा कुत उत्पद्येत। नियतकारणान्वयव्यतिरेकानुविधायिभावानि हि कार्याणि न स्वकारणम् अतिवर्त्य कारणान्तराद् भवितुम् ईशते। मा भूद् अकारणत्वे तेषां कादाचित्कत्वव्याघातः। न च तज्ज्ञानकारणत्वम् एव तत्कारणत्वम् इति युक्तम्। आशामोदकस्य मोदकस्य चोपयुज्यमानस्य रसवीर्यविपाकादिसाम्यप्रसङ्गात्। तस्मात् साधूक्तं संबध्यमानं वा (च) पुनश् चित्तेनेति। अपि च यो योऽर्वाग्भागः स सर्वो मध्यपरभागव्याप्तः। ज्ञानाधीने सद्भावे त्व् अस्याननुभूयमानत्वान् मध्यपरभागौ न स्त इति व्यापकाभावाद् अर्वाग्भागोऽपि न स्याद् इत्य् अर्थाभावात् कुतो ज्ञानसहभूर् अर्थ इत्य् आह --- ये चास्येति। अनुपस्थिता अज्ञाताः। उपसंहरति --- तस्माद् इति। सुगमं शेषम्॥4.16॥

तदुपरागापेक्षित्वाच् चित्तस्य वस्तु ज्ञाताज्ञातम्॥4.17॥

स्याद् एतद् अर्थश् चेत् स्वतन्त्रः, स च जडस्वभाव इति न कदाचित् प्रकाशेत। प्रकाशने वा जडत्वम् अप्य् अस्यापगतम् इति भावो ऽप्य् अपगच्छेत्। न जातु स्वभावम् अपहाय भावो वर्तितुम् अर्हति। न चेन्द्रियाद्याधेयो जडस्वभावस्यार्थस्य धर्मः प्रकाशत इति सांप्रतम्। अर्थधर्मत्वे नीलत्वादिवत् सर्वपुरुषसाधारण इत्य् एकः शास्त्रार्थ इति सर्व एव विद्वांसः प्रसज्येरन् न जाल्मः कश्चिद् अस्ति। न चातीतानागतयोर् धर्मः प्रत्युत्पन्नो युक्तः। तस्मात् स्वतन्त्रोऽर्थ उपलम्भविषय इति मनोरथमात्रम् एतद् इत्य् अत आह --- तदुपरागापेक्षित्वाच् चित्तस्य वस्तु ज्ञाताज्ञातम्। जडस्वभावोऽप्य् अर्थ इन्द्रियप्रणाडिकया चित्तम् उपरञ्जयति। तद् एवंभूतं चित्तदर्पणम् उपसंक्रान्तप्रतिबिम्बा चितिशक्तिश् चित्तम् अर्थोपरक्तं चेतयमानार्थम् अनुभवति, न त्व् अर्थे किंचित् प्राकट्यादिकम् आधत्ते। नाप्य् असंबद्धा चित्तेन तत्प्रतिबिम्बसंक्रान्तेर् उक्तत्वाद् इति। यद्य् अपि च सर्वगतत्वाच् चित्तस्य चेन्द्रियस्य चाहंकारिकस्य विषये नास्ति संबन्धस् तथापि यत्र शरीरे वृत्तिमच् चित्तं तेन सह संबन्धो विषयाणाम् इत्य् अयस्कान्तमणिकल्पा इत्य् उक्तम्। अयःसधर्मकं चित्तम् इति। इन्द्रियप्रणाडिकयाभिसंबन्ध्योपरञ्जयन्ति। अत एव चित्तं परिणामीत्य् आह --- वस्तुन इति॥4.17॥

सदा ज्ञाताश् चित्तवृत्तयस् तत्प्रभोः पुरुषस्यापरिणामित्वात्॥4.18॥

तद् एवं चित्तव्यतिरेकिणम् अर्थम् अवस्थाप्य तेभ्यः परिणतिधर्मकेभ्यो व्यतिरिक्तम् आत्मानम् आदर्शयितुं तद्वैधर्म्यम् अपरिणामित्वम् अस्य वक्तुं पूरयित्वा सूत्रं पठति --- यस्य तु तद् एव चित्तं विषयस् तस्य --- सदा ज्ञाताश् चित्तवृत्तयस् तत्प्रभोः पुरुषस्यापरिणामित्वात्। क्षिप्तमूढविक्षिप्तैकाग्रतावस्थितं चित्तम् आ निरोधात् सर्वदा पुरुषेणानुभूयते वृत्तिमत् तत् कस्य हेतोर् यतः पुरुषोऽपरिणामी परिणामित्वे चित्तवत् पुरुषोऽपि ज्ञाताज्ञातविषयो भवेत्। ज्ञातविषय एव त्व् अयम्। तस्माद् अपरिणामी। ततश् च परिणामिभ्योऽतिरिच्यत इति। तद् एतद् आह --- यदि चित्तवद् इति। सदा ज्ञातत्वं तु मनसः सवृत्तिकस्य तस्य यः प्रभुः स्वामी भोक्तेति यावत्। तस्य प्रभोः पुरुषस्यापरिणामित्वम् अनुमापयति। तथा चापरिणामिनस् तस्य पुरुषस्य परिणामिनश् चित्ताद् भेद इति भावः॥4.18॥

न तत् स्वाभासं दृश्यत्वात्॥4.19॥

अत्र वैनाशिकम् उत्थापयति --- स्याद् आशङ्केति। अयम् अर्थः --- स्याद् एतद् एवं यदि चित्तम् आत्मनो विषयः स्यात्, अपि तु स्वप्रकाशम् एतद् विषयाभासं पूर्वचित्तं प्रतीत्य समुत्पन्नं तत् कुतः पुरुषस्य सदाज्ञातविषयत्वं कुतस्तरां वापरिणामितया परिणामिनश् चित्ताद् भेद इति। न तत् स्वाभासं दृश्यत्वात्। भवेद् एतद् एवं यदि स्वसंवेदनं चित्तं स्यान् न त्व् एतद् अस्ति। तद् धि परिणामितया नीलादिवद् अनुभवव्याप्यं यच् चानुभवव्याप्यं न तत् स्वाभासं भवितुम् अर्हति स्वात्मनि वृत्तिविरोधात्। न हि तद् एव क्रिया च कर्मकारकं च। न हि पाकः पच्यते छिदा वा छिद्यते। पुरुषस् त्व् अपरिणामी नानुभवकर्मेति नास्मिन् स्वयंप्रकाशता न युज्यते। अपराधीनप्रकाशता ह्य् अस्य स्वयंप्रकाशता नानुभवकर्मता। तस्माद् दृश्यत्वाद् दर्शनकर्म चित्तं न स्वाभासम्। आत्मप्रकाशप्रतिबिम्बतयैव चित्तस्य तद्वृत्तिविषयाः प्रकाशन्त इति भावः। ननु दृश्योऽग्निः स्वयंप्रकाशश् च। न हि यथा घटादयोऽग्निना व्यज्यन्त एवम् अग्निर् अग्न्यन्तरेणेत्य् अत आह --- न चाग्निर् अत्रेति। कस्मात्। न हीति। मा नामाग्निर् अग्न्यन्तरात् प्रकाशिष्ट विज्ञानात् तु प्रकाशत इति न स्वयं प्रकाशत इति न व्यभिचार इत्य् अर्थः। प्रकाशश् चायम् इति। अयम् इति पुरुषस्वभावात् प्रकाशाद् व्यवच्छिनत्ति, क्रियारूपः प्रकाश इति यावत्। एतद् उक्तं भवति --- या या क्रिया सा सा सर्वा कर्तृकरणकर्मसंबन्धेन दृष्टा। यथा पाको दृष्टश् चैत्राग्नितण्डुलसंबन्धेन यथा वा प्रकाशनम्। तथा च प्रकाशोऽपि क्रियेति तयापि तथा भवितव्यम्। संबन्धश् च भेदाश्रयो नाभेदे संभवतीत्य् अर्थः। किं च स्वाभासं चित्तम् इत्य् अग्राह्यम् एव कस्यचिद् इति शब्दार्थः। स्याद् एतत्। मा भूद् ग्राह्यं चित्तम्। न हि ग्रहणस्याकारणस्याव्यापकस्य च निवृत्तौ चित्तनिवृत्तिर् इत्य् अत आह --- स्वबुद्धीति। बुद्धिश् चित्तं, प्रचारा व्यापाराः, सत्त्वाः प्राणिनः, चित्तस्य वृत्तिभेदाः क्रोधलोभादयः स्वाश्रयेण चित्तेन स्वविषयेण च सह प्रत्यात्मम् अनुभूयमानाश् चित्तस्याग्राह्यतां विघटयन्तीत्य् अर्थः। स्वबुद्धिप्रचारप्रतिसंवेदनम् एव विशदयति --- क्रुद्धो ऽहम् इति॥4.19॥

एकसमये चोभयानवधारणम्॥4.20॥

एकसमये चोभयानवधारणम्। स्वाभासं विषयाभासं चित्तम् इति ब्रुवाणो न तावद् येनैव व्यापारेणात्मानम् अवधारयति तेनैव विषयम् अपीति वक्तुम् अर्हति। न ह्य् अविलक्षणो व्यापारः कार्यभेदाय पर्याप्तस् तस्माद् व्यापारभेदोऽङ्गीकर्तव्यः। न च वैनाशिकानाम् उत्पत्तिभेदातिरिक्तोऽस्ति व्यापारः। न चैकस्या एवोत्पत्तेर् अविलक्षणायाः कार्यवैलक्षण्यसंभवः। तस्याकस्मिकत्वप्रसङ्गात्। न चैकस्योत्पत्तिद्वयसंभवः। तस्माद् अर्थस्य च ज्ञानरूपस्य चावधारणं नैकस्मिन् समय इति। तद् एतद् भाष्येणोच्यते --- न चैकस्मिन् क्षण इति। तथा चोक्तं वैनाशिकैः ---

"भूतिर् येषां क्रिया सैव कारकं सैव चोच्यते" इति।

तस्माद् दृश्यत्वम् एतच् चित्तस्य सदातनं स्वाभासत्वम् अपनयद् द्रष्टारं च द्रष्टुर् अपरिणामित्वं च दर्शयतीति सिद्धम्॥4.20॥

चित्तान्तरदृश्ये बुद्धिबुद्धेर् अतिप्रसङ्गः स्मृतिसंकरश् च॥4.21॥

पुनर् वैनाअशिकम् उत्थापयति --- स्यान् मतिः। मा भूद् दृश्यत्वेन स्वसंवेदनम्। एवम् अप्य् आत्मा न सिध्यति। स्वसंतानवर्तिना चरमचित्तक्षणेन स्वरसनिरुद्धस्वजनकचित्तक्षणग्रहणाद् इत्य् अर्थः। समं च तज्ज्ञानत्वेनानन्तरं चाव्यवहितत्वेन समनन्तरं तेन। चित्तान्तरदृश्ये बुद्धिबुद्धेर् अतिप्रसङ्गः स्मृतिसंकरश् च। बुद्धिर् इति चित्तम् इत्य् अर्थः। नागृहीता चरमा बुद्धिः पूर्वबुद्धिग्रहणसमर्था। न हि बुद्ध्यासंबद्धा पूर्वबुद्धिर् बुद्धा भवितुम् अर्हति। न ह्य् अगृहीतदण्डो दण्डिनम् अवगन्तुम् अर्हति। तस्माद् अनवस्थेति। विज्ञानवेदनासंज्ञारूपसंस्काराः स्कन्धाः। सांख्ययोगादयः प्रवादाः सांख्याश् च योगाश् च त एवादयो येषां वैशेषिकादिप्रवादानां ते सांख्ययोगादयः प्रवादाः। सुगमम् अन्यत्॥4.21॥

चितेर् अप्रतिसंक्रमायास् तदाकारापत्तौ स्वबुद्धिसंवेदनम्॥4.22॥

स्याद् एतत्। यदि चित्तं न स्वाभासं नापि चित्तान्तरवेद्यम् आत्मनापि कथं भोक्ष्यते चित्तम्। न खल्व् आत्मनः स्वयंप्रकाशस्याप्य् अस्ति काचित् क्रिया। न च ताम् अन्तरेण कर्ता न चासंबद्धश् चित्तेन कर्मणा तस्य भोक्तातिप्रसङ्गाद् इत्य् आशयवान् पृच्छति --- कथम् इति। सूत्रेणोत्तरम् आह --- चितेर् अप्रतिसंक्रमायास् तदाकारापत्तौ स्वबुद्धिसंवेदनम्। यत् तद् अवोचद् वृत्तिसारूप्यम् इतरत्र [योगसूत्रम् 1.4] इति तद् इतः समुत्थितम्। चितेः स्वबुद्धिसंवेदनं बुद्धेस् तदाकारापत्तौ चितिप्रतिबिम्बाधारतया तद्रूपतापत्तौ सत्याम्। यथा हि चन्द्रमसः क्रियाम् अन्तरेणापि संक्रान्तचन्द्रप्रतिबिम्बम् अमलं जलम् अचलं चलम् इवालवालम् अरालम् इव चन्द्रमसम् अवभासयति एवं विनापि चितिव्यापारम् उपसंक्रान्तचितिप्रतिबिम्बं चित्तं स्वगतया क्रियया क्रियावतीम् असंगताम् अपि संगतां चितिशक्तिम् अवभासयद् भोग्यभावम् आसादयद् भोक्तृभावम् आपादयति तस्या इति सूत्रार्थः। भाष्यम् अप्य् एतद् अर्थम् असकृत् तत्र तत्र व्याख्यातम् इति न व्याख्यातम् अत्र। बुद्धिवृत्त्यविशिष्टत्वे ज्ञानवृत्तेर् आगमम् उदाहरति --- तथा चोक्तं --- न पातालम् इति। शाश्वतस्य शिवस्य ब्रह्मणो विशुद्धस्वभावस्य चितिच्छायापन्नां मनोवृत्तिम् एव चितिच्छायापन्नत्वाच् चितेर् अप्य् अविशिष्टां गुहां वेदयन्ते। तस्याम् एव गुहायां तद् गुह्यं ब्रह्म तदपनये तु स्वयंप्रकाशम् अनावरणम् अनुपसर्गं प्रद्योतते चरमदेहस्य भगवत इति॥4.22॥

द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम्॥4.23॥

तद् एवं दृश्यत्वेन चित्तस्य परिणामिनस् तदतिरिक्तः पुमान् अपरिणतिधर्मोपपादितः संप्रति लोकप्रत्यक्षम् अप्य् अत्र प्रमाणयति --- अतश् चैतद् इति। अवश्यं चैतद् इत्य् अर्थः। द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम्। यथा हि नीलाद्यनुरक्तं चित्तं नीलाद्यर्थं प्रत्यक्षेणैवावस्थापयति एवं द्रष्टृच्छायापत्त्या तदनुरक्तं चित्तं द्रष्टारम् अपि प्रत्यक्षेणावस्थापयति। अस्ति हि त्र्याकारं ज्ञानं नीलम् अहं संप्रत्येमीति। तस्माज् ज्ञेयवत् तज्ज्ञातापि प्रत्यक्षसिद्धोऽपि न विविच्यावस्थापितो यथा जले चन्द्रमसो बिम्बम्। न त्व् एतावता तद् अप्रत्यक्षम्। न चास्य जलगतत्वे तद् अप्रमाणम् इति चन्द्ररूपेऽप्य् अप्रमाणं भवितुम् अर्हति। तस्माच् चित्तप्रतिबिम्बतया चैतन्यगोचरापि चित्तवृत्तिर् न चैतन्यागोचरेति। तद् इदं सर्वार्थत्वं चित्तस्येति। तद् एतद् आह --- मनो हीति। न केवलं तदाकारापत्त्या मन्तव्येनार्थेनोपरक्तं मनोऽपि तु स्वयं चेति। चकारो भिन्नक्रमः पुरुषेणेत्य् अस्यानन्तरं द्रष्टव्यः। तच्छायापत्तिः पुरुषस्य वृत्तिः। इयं च चैतन्यच्छायापत्तिश् चित्तस्य वैनाशिकैर् अभ्युपेतव्या। कथम् अन्यथा चित्ते चैतन्यम् एत आरोपयां बभूवुर् इत्य् आह --- तद् अनेनेति। केचिद् वैनाशिका बाह्यार्थवादिनः। अपरे विज्ञानमात्रवादिनः। ननु यदि चित्तम् एव द्रष्ट्राकारं दृश्याकारं चानुभूयते हन्त चित्ताद् अभिन्नाव् एवास्तां द्रष्टृदृश्यौ। यथाहुः ---

"अभिन्नोऽपि हि बुद्ध्यात्मा विपर्यासितदर्शनैः। ग्राह्यग्राहकसंवित्तिभेदवान् इव लक्ष्यते" इति॥ (च्f. 3.353)

तत् कथम् एतेऽनुकम्पनीया इत्य् अत आह --- समाधिप्रज्ञायाम् इति। ते खलूक्ताभिर् उपपत्तिभिश् चित्तातिरिक्तं पुरुषम् अभ्युपगम्याप्य् अष्टाङ्गयोगोपदेशेन समाधिप्रज्ञायाम् आत्मगोचरायाम् अवतार्य बोधयितव्याः। तद्यथा --- समाधिप्रज्ञायां प्रज्ञेयोऽर्थ आत्मा प्रतिबिम्बीभूतोऽन्यः कस्मात् तस्यात्मन आलम्बनीभूतत्वात्। अथ चित्ताद् अभिन्नम् एव कस्मान् नालम्बनं भवतीति यदि युक्तिबोधितोऽपि वैयात्याद् वदेत् तत्र हेतुम् आह --- स चेद् आत्मरूपोऽर्थश् चित्तमात्रं स्यान् न तु ततो व्यतिरिक्तस् ततः कथं प्रज्ञयैव प्रज्ञारूपम् अवधार्येत स्वात्मनि वृत्तिविरोधात्। उपसंहरति --- तस्माद् इति। समीचीनोपदेशेनानुकम्पिता भवन्तीत्य् आह --- एवम् इति। जातितः स्वभावत इत्य् अर्थः॥4.23॥

तद् असंख्येयवासनाभिश् चित्रम् अपि परार्थं संहत्यकारित्वात्॥4.24॥

चित्तातिरिक्तात्मसद्भावे हेत्वन्तरम् अवतारयति --- कुतश् चेति। तद् असंख्येयवासनाभिश् चित्रम् अपि परार्थं संहत्यकारित्वात्। यद्य् अप्य् असंख्येयाः कर्मवासनाः क्लेशवासनाश् च चित्तम् एवाधिशेरते न तु पुरुषम्। तथा च वासनाधीना विपाकाश् चित्ताश्रयतया चित्तस्य भोक्तृताम् आवहन्ति, भोक्तुर् अर्थे च भोग्यम् इति सर्वं चित्तार्थं प्राप्तं, तथापि तच् चित्तम् असंख्येयवासनाविचित्रम् अपि परार्थम्। कस्मात्। संहत्यकारित्वाद् इति सूत्रार्थः। व्याचष्टे --- तद् एतद् इति। स्याद् एतच् चित्तं संहत्यापि करिष्यति स्वार्थं च भविष्यति कः खलु विरोध इति यदि कश्चिद् ब्रूयात् तं प्रत्याह --- संहत्यकारिणेति। सुखचित्तम् इति भोगम् उपलक्षयति। तेन दुःखचित्तम् अपि द्रष्टव्यम्। ज्ञानम् इत्य् अपवर्ग उक्तः। एतद् उक्तं भवति --- सुखदुःखे चित्ते प्रतिकूलानुकूलात्मके नात्मनि संभवतः। स्वात्मनि वृत्तिविरोधात्। न चान्योऽपि संहत्यकारी साक्षात् परम्परया वा सुखदुःखे विदधानस् ताभ्याम् अनुकूलनीयः प्रतिकूलनीयो वा। तस्माद् यः साक्षात् परम्परया वा न सुखदुःखयोर् व्याप्रियते स एवाभ्याम् अनुकूलनीयः प्रतिकूलनीयो वा। स च नित्योदासीनः पुरुष एवम् अपवृज्यते येन ज्ञानेन तस्यापि ज्ञेयतन्त्रत्वात् स्वात्मनि च वृत्तिविरोधान् न ज्ञानार्थत्वम्। न बाह्यविषयाद् अस्माद् अपवर्गसंभवो विदेहप्रकृतिलयानाम् अपवर्गासंभवात्। तस्मात् तज्ज्ञानम् अपि पुरुषार्थम् एव न तत् स्वार्थं नापि परमात्रार्थम्। संहतपरार्थत्वे चानवस्थाप्रसङ्गाद् असंहतपरार्थसिद्धिर् इति॥4.24॥

विशेषदर्शिन आत्मभावभावनानिवृत्तिः॥4.25॥

तद् एवं कैवल्यमूलबीजं युक्तिमयम् आत्मदर्शनम् उक्त्वा तदुपदेशाधिकृतं पुरुषम् अनधिकृतपुरुषान्तराद् व्यावृत्तम् आह --- विशेषदर्शिन आत्मभावभावनानिवृत्तिः। यस्यात्मभावे भावनास्ति तस्याष्टाङ्गयोगोपदेशाद् अनुतिष्ठतो युञ्जानस्य तत्परिपाकाच् चित्तसत्त्वपुरुषयोर् विशेषदर्शनाद् आत्मभावभावना निवर्तते। यस्यात्मभावभावनैव नास्ति नास्तिकस्य तस्योपदेशानधिकृतस्यापरिनिश्चितात्मतत्परलोकभावस्य नोपदेशो न विशेषदर्शनं नात्मभावभावनानिवृत्तिर् इति सूत्रार्थः। नन्व् आत्मभावभावनायाश् चित्तवर्तिन्याः कुतोऽवगम इत्य् अत आह --- यथा प्रावृषीति। प्राग्भवीयं तत्त्वदर्शनबीजम् अपवर्गभागीयं यत् कर्माष्टाङ्गयोगानुष्ठानं तद् एकदेशानुष्ठानं वा तदभिनिर्वर्तितम् अस्तीत्य् अनुमीयते। तस्य चात्मभावभावनावश्यम् एव स्वाभाविकी वस्त्वभ्यासं विनापि प्रवर्तते। अनधिकारिणम् आगमिनां वचनेन दर्शयति --- यस्याभावाद् इदम् इति। पूर्वपक्षो नास्ति कर्मफलं परलोकिनो ऽभावात् परलोकाभाव इति, तत्र रुचिर् अरुचिश् च निर्णये पञ्चविंशतितत्त्वविषये। आत्मभावभावना प्राग् व्याख्याता। विशेषदर्शिनः परामर्शम् आह --- चित्तस्यैवेति। तस्य (अस्य) विशेषदर्शनकुशलस्यात्मभावभावना निवर्तत इति॥4.25॥

तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम्॥4.26॥

अथ विशेषदर्शिनः कीदृशं चित्तम् इत्य् अत आह --- तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम्। निगदव्याख्यातम्॥4.26॥

तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः॥4.27॥

स्याद् एतद् विशेषदर्शनं चेद् विवेकनिष्ठं, न जातु चित्तं व्युत्थितं स्यात्। दृश्यते चास्य भिक्षाम् अटतो व्युत्थितम् इत्य् अत आह --- तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः। प्रत्ययेति। प्रतीयते येन स प्रत्ययश् चित्तसत्त्वं तस्माद् विवेकश् चितेः। तेन निम्नस्य जानामीति साक्षान्मोक्षो विविच्य दर्शितो न जानामीति मोहस् तन्मूलाव् अहंकारममकाराव् अहम् अस्मीति वा ममेति वा दर्शितौ। क्षीयमाणानि च तानि बीजानि चेति समासः। पूर्वसंस्कारेभ्यो व्युत्थानसंस्कारेभ्यः॥4.27॥

हानम् एषां क्लेशवद् उक्तम्॥4.28॥

स्याद् एतत् सत्य् अपि विवेकविज्ञाने व्युत्थानसंस्कारा यदि प्रत्ययान्तराणि प्रसुवते कस् तर्हि हानहेतुर् एतेषां यतः प्रत्ययान्तराणि न पुनः प्रसुवीरन्न् इत्य् अत आह --- हानम् एषां क्लेशवद् उक्तम्। अपरिपक्वविवेकज्ञानस्याक्षीयमाणा व्युत्थानसंस्काराः प्रत्ययान्तरं प्रसुवते न तु परिपक्वविवेकज्ञानस्य क्षीणाः प्रत्ययान्तराणि प्रसोतुम् अर्हन्ति। यथा विवेकच्छिद्रसमुत्पन्ना अपि क्लेशा न संस्कारान्तरं प्रसुवते तत् कस्य हेतोस् तद् एते क्लेशा विवेकज्ञानवह्निदग्धबीजभावा इति। एवं व्युत्थानसंस्कारा अपीति। अथ व्युत्थानसंस्कारा विवेकज्ञानसंस्कारैर् निरोद्धव्या विवेकसंस्काराश् च निरोधसंस्कारैर् निरोधसंस्काराणां त्व् अबाह्यविषयत्वं दर्शितं निरोधोपायः प्रायश् चिन्तनीय इत्य् अत आह --- ज्ञानसंस्कारास् त्व् इति। परवैराग्यसंस्कारा इत्य् अर्थः॥4.28॥

प्रसंख्यानेऽप्य् अकुसीदस्य सर्वथा विवेकख्यातेर् धर्ममेघः समाधिः॥4.29॥

तद् एवं सूत्रकारो व्युत्थाननिरोधोपायं प्रसंख्यानम् उक्त्वा प्रसंख्याननिरोधोपायम् आह --- प्रसंख्यानेऽप्य् अकुसीदस्य सर्वथा विवेकख्यातेर् धर्ममेघः समाधिः। ततः प्रसंख्यानान् न किंचित् सर्वभावाधिष्ठातृत्वादि प्रार्थयते। प्रत्युत तत्रापि क्लिश्नाति परिणामित्वदोषदर्शनेन विरक्तः सर्वथा विवेकख्यातिर् एव भवति। एतद् एव विवृणोति --- तत्रापीति। यदा व्युत्थानप्रत्यया भवेयुस् तदा नायं ब्राह्मणः सर्वथा विवेकख्यातिर् यतस् तस्य न प्रत्ययान्तराणि भवन्ति ततः सर्वथा विवेकख्यातिर् इति। तदास्य धर्ममेघः समाधिर् भवति। एतद् उक्तं भवति --- प्रसंख्याने विरक्तस् तन्निरोधम् इच्छन् धर्ममेघं समाधिम् उपासीत। तदुपासने च सर्वथा विवेकख्यातिर् भवति। तथा च तं निरोद्धुं पारयतीति॥4.29॥

ततः क्लेशकर्मनिवृत्तिः॥4.30॥

तस्य च प्रयोजनम् आह --- ततः क्लेशकर्मनिवृत्तिः। कस्मात् पुनर् जीवन्न् एव विद्वान् विमुक्तो भवति। उत्तरं --- यस्माद् इति। क्लेशकर्मवासनेद्धः किल कर्माशयो जात्यादिनिदानम्। न चासति निदाने निदानी भवितुम् अर्हति। यथाहात्र भगवान् अक्षपादः --- "वीतरागजन्मादर्शनात्" [गौतमीयन्यायसूत्रम् 3.1.25] इति॥4.30॥

तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पम्॥4.31॥

अथैवं धर्ममेघे सति कीदृशं चित्तम् इत्य् अत आह --- तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पम्। आव्रियते चित्तसत्त्वम् एभिर् इत्य् आवरणानि मलाः क्लेशकर्माणि सर्वे च त आवरणमलाश् चेति सर्वावरणमलास् तेभ्योऽपेतस्य चित्तसत्त्वस्य ज्ञानस्य ज्ञायतेऽनेनेत्य् अनया व्युत्पत्त्यानन्त्याद् अपरिमेयत्वाज् ज्ञेयम् अल्पम्। यथा हि शरदि घनपटलमुक्तस्य चण्डार्चिषः परितः प्रद्योतमानस्य प्रकाशानन्त्यात् प्रकाश्या घटादयोऽल्पाः प्रकाशन्ते, एवम् अपगतरजस्तमसश् चित्तसत्त्वस्य प्रकाशानन्त्याद् अल्पं प्रकाश्यम् इति। तद् एतद् आह --- सर्वैर् इति। एतद् एव व्यतिरेकमुखेन (व्यतिरेकमुखेण) स्फोरयति --- आवरकेण तमसाभिभूतम् इति। क्रियाशीलेन रजसा प्रवर्तितम् अत एवोद्घाटितं प्रदेशाद् अपनीतं तम इत्य् अर्थः। अत एव सर्वान् धर्माञ् ज्ञेयान् मेहति वर्षति प्रकाशनेनेति धर्ममेघ इत्य् उच्यते। नन्व् अयम् अस्तु धर्ममेघः समाधिः सवासनक्लेशकर्माशयप्रशमहेतुः। अथ सत्य् अप्य् अस्मिन् कस्मान् न जायते पुनर् जन्तुर् इत्य् अत आह --- यत्रेदम् उक्तम् इति। कारणसमुच्छेदाद् अपि चेत् कार्यं क्रियते हन्त भो मणिवेधादयो ऽन्धादिभ्यो भवेयुः प्रत्यक्षाः। तथा चानुपपन्नार्थतायाम् आभाणको लौकिक उपपन्नार्थः स्यात् --- अविध्यद् अन्धो मणिम् इति। आवयद् ग्रथितवान्। प्रत्यमुञ्चत् पिनद्धवान् अभ्यपूजयत् स्तुतवान् इति॥4.31॥

ततः कृतार्थानां परिणामक्रमसमाप्तिर् गुणानाम्॥4.32॥

ननु धर्ममेघस्य परा काष्ठा ज्ञानप्रसादमात्रं परं वैराग्यं समूलघातम् अपहन्तु व्युत्थानसमाधिसंस्कारान् सक्लेशकर्माशयान् गुणास् तु स्वत एव विकारकरणशीलाः कस्मात् तादृशम् अपि पुरुषं प्रति देहेन्द्रियादीन् नारभन्त इत्य् अत आह --- ततः कृतार्थानां परिणामक्रमसमाप्तिर् गुणानाम्। शीलम् इदं गुणानां यद् अमी यं प्रति कृतार्थास् तं प्रति न प्रवर्तन्त इति भावः॥4.32॥

क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः॥4.33॥

अत्रान्तरे परिणामक्रमं पृच्छति --- अथ कोऽयम् इति। क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः। परिणामक्रमः क्षणप्रतियोगी क्षणः प्रतिसंबन्धी यस्य स तथोक्तः। क्षणप्रचयाश्रय इत्य् अर्थः। न जातु क्रमः क्रमवन्तम् अन्तरेण शक्यो निरूपयितुम्। न चैकस्यैव क्षणस्य क्रमः। तस्मात् क्षणप्रचयाश्रयः परिशिष्यते। तद् इदम् आह --- क्षणानन्तर्येति। परिणामक्रमे प्रमाणम् आह --- परिणामस्येति। नवस्य हि वस्त्रस्य प्रयत्नसंरक्षितस्यापि चिरेण पुराणता दृश्यते। सोऽयं परिणामस्यापरान्तः पर्यवसानं, तेन हि परिणामस्य क्रमः। ततः प्राग् अपि पुराणतायाः सूक्ष्मसूक्ष्मतरसूक्ष्मतमस्थूलस्थूलतरस्थूलतमत्वादीनां पौर्वापर्यम् अनुमीयते। एतद् एव व्यतिरेकमुखेन (व्यतिरेकमुखेण) दर्शयति --- न हीति। अननुभूतोऽप्राप्तः क्रमक्षणो यया सा तथोक्ता। नन्व् एष क्रमः प्रधानस्य न संभवति तस्य नित्यत्वाद् इत्य् अत आह --- नित्येषु चेति। बहुवचनेन सर्वनित्यव्यापितां क्रमस्य प्रतिजानीते। तत्र नित्यानां प्रकारभेदं दर्शयित्वा नित्यव्यापितां क्रमस्योपपादयति --- द्वयीति। ननु कूटस्थं स्वभावाद् अप्रच्युतम् अस्तु नित्यं परिणामि सदैव स्वरूपाच् च्यवमानं कथं नित्यम् इत्य् अत आह --- यस्मिन्न् इति। धर्मलक्षणावस्थानाम् उदयव्ययधर्मत्वं धर्मिणस् तु तत्त्वाद् अविघात एवेति। अथ किं परिणामापरान्तनिर्ग्राह्यता सर्वत्र क्रमस्य नेत्य् आह --- तत्र गुणधर्मेषु बुद्ध्यादिष्व् इति। यतो लब्धपर्यवसानो धर्माणां विनाशात् प्रधानस्य तु परिणामक्रमो न लब्धपर्यवसानः। ननु प्रधानस्य धर्मरूपेण परिणामाद् अस्तु परिणामक्रमः। पुरुषस्य त्व् अपरिणामिनः कुतः परिणामक्रम इत्य् अत आह --- कूटस्थेति। तत्र बद्धानां चित्ताव्यतिरेकाभिमानात् तत्परिणामेन परिणामाध्यासः। मुक्तानां चास्तिक्रियाम् उपादायावास्तवोऽपि परिणामो मोहकल्पितः शब्दस्य पुरःसरतया तत्पृष्ठो विकल्पो ऽस्तिक्रियाम् उपादत्त इति। गुणेष्व् अलब्धपर्यवसानः परिणामक्रम इत्य् उक्तम्। तद् असहमानः पृच्छति --- अथेति। स्थित्येति महाप्रलयावस्थायाम्। गत्येति सृष्टौ। एतद् उक्तं भवति --- यद्य् आनन्त्यान् न परिणामसमाप्तिः संसारस्य हन्त भोः कथं महाप्रलयसमये सर्वेषाम् आत्मनां सहसा समुच्छिद्येत कथं च सृष्ट्यादौ सहसोत्पद्येत संसारः। तस्माद् एकैकस्यात्मनो मुक्तिक्रमेण सर्वेषां विमोक्षाद् उच्छेदः सर्वेषां संसारस्य क्रमेणेति प्रधानपरिणामक्रमपरिसमाप्तिः। एवं च प्रधानस्याप्य् अनित्यत्वप्रसङ्गः। न चापूर्वसत्त्वप्रादुर्भाव इष्यते येनानन्त्यं स्यात्। तथा सत्य् अनादित्वव्याहतेः सकलशास्त्रार्थभङ्गप्रसङ्ग इति भावः। उत्तरम् आह --- अवचनीयम् अनुत्तरार्हम् एतत्। एकान्तत एतस्यावचनीयतां दर्शयितुम् एकान्तवचनीयं प्रश्नं दर्शयति अस्ति प्रश्न इति। सर्वो जातो मरिष्यतीति प्रश्नोत्तरम् --- ओं भो इति। सत्यं भो इत्य् अर्थः। अविभज्य वचनीयम् उक्त्वा प्रविभज्य वचनीयं प्रश्नम् आह --- अथ सर्व इति। विभज्य वचनीयताम् आह --- विभज्येति। विभज्य वचनीयम् एव प्रश्नान्तरं विस्पष्टार्थम् आह --- तथा मनुष्येति। अयं त्व् अवचनीय एकान्ततः। न हि सामान्येन कुशलाकुशलपुरुषसंसारस्यान्तवत्त्वम् अनन्तवत्त्वं वा शक्यम् एकान्ततो वक्तुम्। यथा प्राणभृन्मात्रस्य श्रेयस्त्वम् अश्रेयस्त्वं वा नैकान्ततः शक्यम् अवधारयितुम्। यथा जातमात्रस्य मरणम् एकान्ततः। विभज्य पुनः शक्यावधारणम् इत्य् आह --- कुशलस्येति। अयम् अभिसंधिः --- क्रमेण मोक्षे सर्वेषां मोक्षात् संसारोच्छेद इत्य् अनुमानं, तच् चागमसिद्धमोक्षाश्रयं, तथा चाभ्युपगतमोक्षप्रतिपादकागमप्रमाणब्हावः कथं तम् एवागमं प्रधानविकारनित्यतायाम् अप्रमाणीकुर्यात्। तस्माद् आगमबाधितविषयम् एतद् अनुमानं न प्रमाणम्। श्रूयते हि श्रुतिस्मृतीतिहासपुराणेषु सर्गप्रतिसर्गपरम्पराया अनादित्वम् अनन्तत्वं चेति। अपि च सर्वेषाम् एवात्मनां संसारस्य न तावद् युगपदुच्छेदः संभवी। न हि पण्डितरूपाणाम् अप्य् अनेकजन्मपरम्पराभ्यासपरिश्रमसाध्या विवेकख्यातिप्रतिष्ठा। किं पुनः प्राणभृन्मात्रस्य स्थावरजङ्गमादेर् एकदाकस्माद् भवितुम् अर्हति। न च कारणायौगपद्ये कार्ययौगपद्यं युज्यते। क्रमेण तु विवेकख्याताव् असंख्येयानां क्रमेण मुक्तौ न संसारोच्छेदोऽनन्तत्वाज् जन्तूनाम् असंख्येयत्वाद् इति सर्वम् अवदातम्॥4.33॥

पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिर् इति॥4.34॥

(इति श्रीपतञ्जलिविरचितयोगसूत्रेषु चतुर्थः कैवल्यपादः॥4॥)

कैवल्यरूपावधारणपरस्य सूत्रस्यावान्तरसंगतिम् आह --- गुणाधिकारेति। पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिर् इति। कृतकरणीयतया पुरुषार्थशून्यानां यः प्रतिप्रसवः स्वकारणे प्रधाने लयस् तेषां कार्यकारणात्मकानां गुणानां व्युत्थानसमाधिनिरोधसंस्कारा मनसि लीयन्ते मनो ऽस्मितायाम् अस्मिता लिङ्गे लिङ्गम् अलिङ्ग इति। योऽयं गुणानां कार्यकारणात्मकानां प्रतिसर्गस् तत् कैवल्यम्। यं कंचित् पुरुषं प्रति प्रधानस्य मोक्षः स्वरूपप्रतिष्ठा वा पुरुषस्य मोक्ष इत्य् आह --- स्वरूपेति। अस्ति हि महाप्रलयेऽपि स्वरूपप्रतिष्ठा चितिशक्तिः। न चासौ मोक्ष इत्य् अत आह --- पुनर् इति। सौत्र इतिशब्दः शास्त्रपरिसमाप्तौ॥4.34॥

मुक्त्यर्हचित्तं परलोकमेयज्ञसिद्धये धर्मघनः समाधिः। द्वयी च मुक्तिः प्रतिपादितास्मिन् पादे प्रसङ्गाद् अपि चान्यद् उक्तम्॥1॥ निदानं तापानाम् उदितम् अथ तापाश् च कथिताः सहाङ्गैर् अष्टाभिर् विहितम् इह योगद्वयम् अपि॥ कृतो मुक्तेर् अध्वा गुणपुरुषभेदः स्फुटतरो विविक्तं कैवल्यं परिगलिततापा चितिर् असौ॥2॥

इति श्रीवाचस्पतिमिश्रविरचितायां पातञ्जलभाष्यव्याख्यायां कैवल्यपादश् चतुर्थः॥4॥

समाप्तम् इदं पातञ्जलयोगदर्शनं सटीकभाष्ययुतम्॥