तत्त्ववैशारद्यां विभूतिपादः

तत्त्ववैशारदी


तत्र तृतीयो विभूतिपादः।

देशबन्धश् चित्तस्य धारणा॥3.1॥

प्रथमद्वितीयपादाभ्यां समाधिस् तत्साधनं चोक्तम्। तृतीयपादे तत्प्रवृत्त्यनुगुणाः श्रद्धोत्पादहेतवो विभूतयो वक्तव्याः। ताश् च संयमसाध्याः। संयमश् च धारणाध्यानसमाधिसमुदाय इति विभूतिसाधनतया पञ्चभ्यश् च योगाङ्गेभ्यो बहिरङ्गेभ्योऽस्याङ्गत्रयस्यान्तरङ्गतया विशेषज्ञापनार्थम् अत्र त्रयस्योपन्यासः। तत्रापि च धारणाध्यानसमाधीनां कार्यकारणभावेन नियतपौर्वापर्यत्वात् तदनुरोधेनोपन्यासे क्रम इति प्रथमं धारणा लक्षणीयेत्य् आह --- उक्तानीति। देशबन्धश् चित्तस्य धारणा। आध्यात्मिकदेशम् आह --- नाभिचक्र इति। आदिशब्देन ताल्वादयो ग्राह्याः। बन्धः संबन्धः। बाह्यदेशम् आह --- बाह्य इति। बाह्ये च न स्वरूपेण चित्तस्य संबन्धः संभवतीत्य् उक्तं वृत्तिमात्रेण ज्ञानमात्रेणेति। अत्रापि पुराणम् ---

"प्राणायामेन पवनं प्रत्याहारेण चेन्द्रियम्। वशीकृत्य ततः कुर्याच् चित्तस्थानं शुभाश्रये" [विष्णुपुराणम् 6.7.45]

शुभाश्रया बाह्या हिरण्यगर्भवासवप्रजापतिप्रभृतयः। इदं च तत्रोक्तम् ---

"मूर्तं भगवतो रूपं सर्वोपाश्रयनिःस्पृहम्। एषा वै धारणा ज्ञेया यच् चित्तं तत्र धार्यते॥ तच् च मूर्तं हरे रूपं यद् विचिन्त्यं नराधिप। तच् छ्रूयताम् अनाधारा धारणा नोपपद्यते॥ प्रसन्नवदनं चारुपद्मपत्रनिभेक्षणम्। सुकपोलं सुविस्तीर्णललाटफलकोज्ज्वलम्॥ समकर्णान्तविन्यस्तचारुकुण्डलभूषणम्। कम्बुग्रीवं सुविस्तीर्णश्रीवत्साङ्कितवक्षसम्॥ वलीविभङ्गिना मग्ननाभिना चोदरेण च। प्रलम्बाष्टभुजं विष्णुम् अथवापि चतुर्भुजम्॥ समस्थितोरुजङ्घं च स्वस्तिकाङ्घ्रिवराम्बुजम्। चिन्तयेद् ब्रह्मभूतं तं पीतनिर्मलवाससम्॥ किरीटचारुकेयूरकटकादिविभूषितम्। शार्ङ्गचक्रगदाखड्गशङ्खाक्षवलयान्वितम्॥ चिन्तयेत् तन्मयो योगी समाधायात्ममानसम्। तावद् यावद् दृढीभूता तत्रैव नृप धारणा॥ एतद् आतिष्ठतोऽन्यद् वा स्वेच्छया कर्म कुर्वतः। नापयाति यदा चित्तं सिद्धां मन्येत तां तदा" [विष्णुपुराणम् 6.7.77--85] इति॥3.1॥

तत्र प्रत्ययैकतानता ध्यानम्॥3.2॥

धारणासाध्यं ध्यानं लक्षयति --- तत्र प्रत्ययैकतानता ध्यानम्। एकतानतैकाग्रता। सुगमं भाष्यम्। अत्रापि पुराणम् ---

"तद्रूपप्रत्ययैकाग्र्यसंततिश् चान्यनिःस्पृहा। तद् ध्यानं प्रथमैर् अङ्गैः षड्भिर् निष्पाद्यते नृप" [विष्णुपुराणम् 6.7.89] इति॥3.2॥

तद् एवार्थमात्रनिर्भासं स्वरूपशून्यम् इव समाधिः॥3.3॥

ध्यानसाध्यं समाधिं लक्षयति --- तद् एवार्थमात्रनिर्भासं स्वरूपशून्यम् इव समाधिः। व्याचष्टे --- ध्यानम् एवेति। ध्येयाकारनिर्भासम् इति। ध्येयाकारस्यैव निर्भासो न ध्यानाकारस्येति। अत एवाह --- शून्यम् इति। ननु शून्यं चेत् कथं ध्येयं प्रकाशेतेत्य् अत आह --- इवेति। अत्रैव हेतुम् आह --- ध्येयस्वभावावेशाद् इति। अत्रापि पुराणम् ---

"तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत्। मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते" [विष्णुपुराणम् 6.7.90] इति॥

ध्येयाद् ध्यानस्य भेदः कल्पना तद्धीनम् इत्य् अर्थः। अष्टाङ्गयोगम् उक्त्वा खाण्डिक्याय केशिध्वज उपसंजहार ---

"क्षेत्रज्ञः करणी ज्ञानं करणं तद् अचेतनम्। निष्पाद्य मुक्तिकार्यं वै कृतकृत्यं निवर्तते" [विष्णुपुराणम् 6.7.92] इति॥3.3॥

त्रयम् एकत्र संयमः॥3.4॥

धारणाध्यानसमाधिर् इत्य् एतत्त्रयस्य तत्र तत्र नियुज्यमानस्य प्रातिस्विकसंज्ञोच्चारणे गौरवं स्याद् इति लाघवार्थं परिभाषासूत्रम् अवतारयति --- त्रयम् एकत्र संयमः। व्याचष्टे --- एकविषयाणीति (तद् एतद् इति)। वाचकत्वशङ्काम् अपनयति --- तद् अस्येति। तन्त्र्यते व्युत्पाद्यते योगो येन शास्त्रेण तत् तन्त्रं तद्भवा तान्त्रिकी। संयमप्रदेशाः "परिणामत्रयसंयमात्-" [योगसूत्रम् 3.16] इत्येवमादयः॥3.4॥

तज्जयात् प्रज्ञालोकः॥3.5॥

संयमविजयस्याभ्याससाधनस्य फलम् आह --- तज्जयात् प्रज्ञालोकः। प्रत्ययान्तरानभिभूतस्य निर्मलप्रवाहेऽवस्थानम् आलोकः प्रज्ञायाः। सुगमं भाष्यम्॥3.5॥

तस्य भूमिषु विनियोगः॥3.6॥

क्व पुनर् विनियुक्तस्य संयमस्य फलम् एतद् इत्य् अत आह --- तस्य भूमिषु विनियोगः। भूमिं विशेषयति भाष्यकारः --- तस्येति। जिताया भूमेर् यानन्तरा भूमिर् अवस्थाजिता तत्र विनियोगः। स्थूलविषये सवितर्के समाधौ वशीकृते संयमेन संयमस्याविजिते निर्वितर्के विनियोगः। तस्मिन्न् अपि वशीकृते सविचारे विनियोगः। एवं निर्विचारे विनियोग इत्य् अर्थः। अत एव स्थूलविषयसमापत्तिसिद्धौ सत्यां पुराणे तत्तदायुधभूषणापनयेन सूक्ष्मविषयः समाधिर् अवतारितः ---

"ततः शङ्खगदाचक्रशार्ङ्गादिरहितं बुधः। चिन्तयेद् भगवद्रूपं प्रशान्तं साक्षसूत्रकम्॥ यदा च धारणा तस्मिन्न् अवस्थानवती ततः। किरीटकेयूरमुखैर् भूषणै रहितं स्मरेत्॥ तदैकावयवं देवं सोऽहं चेति पुनर् बुधः। कुर्यात् ततो ह्य् अहम् इति प्रणिधानपरो भवेत्॥" [विष्णुपुराणम् 6.7.86--88] इति॥

कस्मात् पुनर् अधरां भूमिं विजित्योत्तरां विजयते विपर्ययः कस्मान् न भवतीत्य् अत आह --- न ह्य् अजिताधरभूमिर् इति। न हि शिलाह्रदाद् गङ्गां प्रति प्रस्थितोऽप्राप्य मेघवनं गङ्गां प्राप्नोति। ईश्वरप्रसादाज् जितोत्तरभूमिकस्य चेति कस्मात् तदर्थस्योत्तरभूमिविजयस्य प्रत्यासन्नस्यान्यत एवेश्वरप्रणिधानाद् एवावगतत्वात्। निष्पादितक्रिये कर्मण्य् अविशेषाधायिनः साधनस्य साधनन्यायातिपाताद् इति। स्याद् एतद् आगमतः सामान्यतोऽवगतानाम् अप्य् अवान्तरभूमिभेदानां कुतः पौर्वापर्यावगतिर् इत्य् अत आह --- भूमेर् अस्या इति। जितः पूर्वो योग उत्तरस्य योगस्य ज्ञानप्रवृत्त्यधिगमहेतुः। अवस्थैवावस्थावान् इत्य् अभिप्रेत्यैतद् द्रष्टव्यम्॥3.6॥

त्रयम् अन्तरङ्गं पूर्वेभ्यः॥3.7॥

कस्मात् पुनर् योगाङ्गत्वाविशेषेऽपि संयमस्य तत्र तत्र विनियोगो नेररेषां पञ्चानाम् इत्य् अत आह --- त्रयम् अन्तरङ्गं पूर्वेभ्यः। तद् इदं साधनत्रयं साध्यसमानविषयत्वेनान्तरङ्गं न त्व् एवं यमादयस् तस्मात् ते बहिरङ्गा इत्य् अर्थः॥3.7॥

तद् अपि बहिरङ्गं निर्बीजस्य॥3.8॥

साधनत्रयस्य संप्रज्ञात एवान्तरङ्गत्वं न त्व् असंप्रज्ञाते तस्य निर्बीजतया तैः सह समानविषयत्वाभावात् तेषु चिरनिरुद्धेषु संप्रज्ञातपरमकाष्ठापरनामज्ञानप्रसादरूपपरवैराग्यानन्तरम् उत्पादाच् चेत्य् आह --- तद् इति। तद् अपि बहिरङ्गं निर्बीजस्य। समानविषयत्वम् अन्तरङ्गत्वप्रयोजकम् इह न तु तदनन्तरभावस् तस्य बहिरङ्गेश्वरप्रणिधानवर्तितया सव्यभिचारत्वाद् इति स्थिते सव्यभिचारम् अप्य् अन्तरङ्गलक्षणं तदनन्तरभावित्वम् अस्य नास्ति। तस्माद् दूरापेतान्तरङ्गता संयमस्यासंप्रज्ञात इति दर्शयितुं तदभावे भावाद् इत्य् उक्तम्॥3.8॥

व्युत्थाननिरोधसंस्कारयोर् अभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः॥3.9॥

परिणामत्रयसंयमाद् इत्य् अत्रोपयोक्ष्यमाणपरिणामत्रयं प्रतिपिपादयिषुर् निर्बीजप्रसङ्गेन पृच्छति --- अथेति। व्युत्थानसंप्रज्ञातयोश् चित्तस्य स्फुटतरपरिणामभेदप्रचयानुभवान् न प्रश्नावतारो निरोधे तु नानुभूयते परिणामः। न चाननुभूयमानो नास्ति, चित्तस्य त्रिगुणतया चलत्वेन गुणानां क्षणम् अप्य् अपरिणामस्यासंभवाद् इत्य् अर्थः। प्रश्नोत्तरं सूत्रम् --- व्युत्थाननिरोधसंस्कारयोर् अभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः। असंप्रज्ञातं समाधिम् अपेक्ष्य संप्रज्ञातो व्युत्थानम्। निरुध्यते ऽनेनेति निरोधो ज्ञानप्रसादः परं वैराग्यं तयोर् व्युत्थाननिरोधसंस्कारयोर् अभिभवप्रादुर्भावौ। तत्र व्युत्थानसंस्कारस्याभिभवो निरोधसंस्कारस्याविर्भावश् चित्तस्य धर्मिणो निरोधक्षणस्य निरोधावसरस्य द्वयोर् अवस्थयोर् अन्वयः। न हि चित्तं धर्मि संप्रज्ञातावस्थायाम् असंप्रज्ञातावस्थायां च संस्काराभिभवप्रादुर्भावयोः स्वरूपेण भिद्यत इति। ननु यथोत्तरे क्लेशा अविद्यामूला अविद्यानिवृत्तौ निवर्तन्त इति न तु तन्निवृत्तौ पृथक् प्रयत्नान्तरम् आस्थीयत एवं व्युत्थानप्रत्ययमूलाः संस्कारा व्युत्थानप्रत्ययनिवृत्ताव् एव निवर्तन्त इति तन्निवृत्तौ न निरोधसंस्कारोऽपेक्षितव्य इत्य् अत आह --- व्युत्थानसंस्कारा इति। न कारणमात्रनिवृत्तिः कार्यनिवृत्तिहेतुर् मा भूत् कुविन्दनिवृत्ताव् अपि पटस्य निवृत्तिर् अपि तु यत्कारणात्मकं यत्कार्यं तत्कारणनिवृत्तौ तत्कार्यनिवृत्तिः। उत्तरे च क्लेशा अविद्यात्मान इत्य् उक्तम् अतस् तन्निवृत्तौ तेषां निवृत्तिर् उपपन्ना। न त्व् एवं प्रत्ययात्मानः संस्काराश् चिरनिरुद्धे प्रत्यये संप्रति स्मरणदर्शनात्। तस्मात् प्रत्ययनिवृत्ताव् अपि तन्निवृत्तौ निरोधसंस्कारप्रचय एवोपासनीय इत्य् अर्थः। सुगमम् अन्यत्॥3.9॥

तस्य प्रशान्तवाहिता संस्कारात्॥3.10॥

सर्वथा व्युत्थानसंस्काराभिभवे तु बलवता निरोधसंस्कारेण चित्तस्य कीदृशः परिणाम इत्य् अत आह --- तस्य प्रशान्तवाहिता संस्कारात्। व्युत्थानसंस्कारमलरहितनिरोधसंस्कारपरम्परामात्रवाहिता प्रशान्तवाहिता। कस्मात् पुनः संस्कारपाटवम् अपेक्षते न तु संस्कारमात्रम् इत्य् अत आह --- तत्संस्कारमान्द्य इति। तद् इति निरोधं परामृशति। ये तु नाभिभूयत इति पठन्ति ते तदा व्युत्थानं परामृशन्ति॥3.10॥

सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः॥3.11॥

संप्रज्ञातसमाधिपरिणामावस्थां चित्तस्य दर्शयति --- सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः। विक्षिप्तता सर्वार्थता। सन् न विनश्यतीति क्षयस् तिरोभावो नासद् उत्पद्यत इति उदय आविर्भावः। स्वात्मभूतयोः सर्वार्थतैकाग्रतयोर् धर्मयोर् याव् अपायोपजनौ सर्वार्थताया अपाय एकाग्रताया उपजनस् तयोर् अनुगतं चित्तं समाधीयते पूर्वापरीभूतसाध्यमानसमाधिविशेषणं भवतीति॥3.11॥

ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः॥3.12॥

ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः। पुनः समाधेः पूर्वापरीभूताया अवस्थायाः समाधिनिष्पत्तौ सत्यां शान्तोदिताव् अतीतवर्तमानौ, तुल्यौ च तौ प्रत्ययौ चेति तुल्यप्रत्ययौ। एकाग्रतायां तु द्वयोः सादृश्यम्। समाहितचित्तस्येति समाधिनिष्पत्तिर् दर्शिता। तथैवैकाग्रम् एव। अवधिम् आह --- आ समाधिभ्रेषाद् भ्रंशाद् इति॥3.12॥

एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः॥3.13॥

प्रासङ्गिकं च वक्ष्यमाणौपयिकं च भूतेन्द्रियपरिणामं विभजते --- एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः। व्याचष्टे --- एतेनेति। ननु चित्तपरिणतिमात्रम् उक्तं न तु तत्प्रकारा धर्मलक्षणावस्थापरिणामास् तत् कथं तेषाम् अतिदेश इत्य् अत आह --- तत्र व्युत्थाननिरोधयोर् इति। धर्मलक्षणावस्थाशब्दाः परं नोच्चारिता न तु धर्मलक्षणावस्थापरिणामा नोक्ता इति संक्षेपार्थः। तथा हि व्युत्थाननिरोधसंस्कारयोर् इत्य् अत्रैव सूत्रे धर्मपरिणाम उक्तः। इमं च धर्मपरिणामं दर्शयता तेनैव धर्माधिकरणो लक्षणपरिणामोऽपि सूचित एवेत्य् आह --- लक्षणपरिणाम इति। लक्ष्यते ऽनेनेति लक्षणं कालभेदः। तेन हि लक्षितं वस्तु वस्त्वन्तरेभ्यः कालान्तरयुक्तेभ्यो व्यवच्छिद्यत इति। निरोधस् त्रिलक्षणः। अस्यैव व्याख्यानं त्रिभिर् अध्वभिर् युक्तः। अध्वशब्दः कालवचनः। स खल्व् अनागतलक्षणम् अध्वानं प्रथमं हित्वा, तत् किम् अध्ववद्धर्मत्वम् अप्य् अतिपतति नेत्य् आह --- धर्मत्वम् अनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः। य एव निरोधोऽनागत आसीत् स एव संप्रति वर्तमानो न तु निरोधो ऽनिरोध इत्य् अर्थः। वर्तमानतास्वरूपव्याख्यानम् --- यत्रास्य स्वरूपेण स्वोचितार्थक्रियाकारिणा रूपेणाभिव्यक्तिः समुदाचारः। एषोऽस्य प्रथमम् अनागतम् अध्वानम् अपेक्ष्य द्वितीयोऽध्वा। स्याद् एतद् अनागतम् अध्वानं हित्वा चेद् वर्तमानताम् आपन्नस् तां च हित्वातीतताम् आपत्स्यते हन्त भोर् अध्वनाम् उत्पादविनाशौ स्याताम्। न चेष्येते, न ह्य् असत उत्पादो नापि सतो विनाश इत्य् अत आह --- न चातीतानागताभ्यां सामान्यात्मनावस्थिताभ्यां वियुक्त इति। अनागतस्य निरोधस्य वर्तमानतालक्षणं दर्शयित्वा वर्तमानव्युत्थानस्यातीततां तृतीयम् अध्वानम् आह --- तथा व्युत्थानम् इति। तत् किं निरोध एवानागतो न व्युत्थानं नेत्य् आह --- एवं पुनर् व्युत्थानम् इति। व्युत्थानजात्यपेक्षया पुनर्भावो न व्यक्त्यपेक्षया। न ह्य् अतीतं पुनर्भवतीति। स्वरूपाभिव्यक्तिर् अर्थक्रियाक्षमस्याविर्भावः। स चैवंलक्षणपरिणाम उक्तस् तज्जातीयेषु पौनःपुन्येन वर्तत इत्य् अत आह --- एवं पुनर् इति। धर्मपरिणामसूचितम् एवावस्थापरिणामम् आह --- तथेति। धर्माणां वर्तमानाध्वनां बलवत्त्वाबलवत्त्वे अवस्था तस्याः प्रतिक्षणं तारतम्यं परिणामः। उपसंहरति --- एष इति। परिणामभेदानां संबन्धिभेदान् निर्धारयति --- तत्रानुभवानुसाराद् धर्मिण इति। तत् किम् एष परिणामो गुणानां कादाचित्को नेत्य् आह --- एवम् इति। कस्मात् पुनर् अयं परिणामः सदातन इत्य् अत आह --- चलं चेति। चो हेत्वर्थः। वृत्तं प्रचारः। एतद् एव कुत इत्य् अत आह --- गुणस्वाभाव्यम् इति। उक्तम् अत्रैव पुरस्तात्। सोऽयं त्रिविधोऽपि चित्तपरिणामो भूतेन्द्रियेषु सूत्रकारेण निर्दिष्ट इत्य् आह --- एतेनेति। एष धर्मपरिणामभेदो धर्मधर्मिणोर् भेदम् आलक्ष्य। तत्र भूतानां पृथिव्यादीनां धर्मिणां गवादिर् घटादिर् वा धर्मपरिणामः। धर्माणां चातीतानागतवर्तमानरूपता लक्षणपरिणामः। वर्तमानलक्षणापन्नस्य गवादेर् बाल्यकौमारयौवनवार्धक्यम् अवस्थापरिणामः। घटादीनाम् अपि नवपुरातनतावस्थापरिणामः। एवम् इन्द्रियाणाम् अपि धर्मिणां तत्तन्नीलाद्यालोचनं धर्मपरिणामो धर्मस्य वर्तमानतादिलक्षणपरिणामो वर्तमानलक्षणस्य रत्नाद्यालोचनस्य स्फुटत्वास्फुटत्वादिर् अवस्थापरिणामः। सोऽयम् एवंविधो भूतेन्द्रियपरिणामो धर्मिणो धर्मलक्षणावस्थानां भेदम् आश्रित्य वेदितव्यः। अभेदम् आश्रित्याह --- परमार्थतस् त्व् इति। तुशब्दो भेदपक्षाद् विशिनष्टि। पारमार्थिकत्वम् अस्य ज्ञाप्यते न त्व् अन्यस्य परिणामत्वं निषिध्यते। कस्मात् --- धर्मिस्वरूपमात्रो हीति। ननु यदि धर्मिविक्रियैव धर्मः कथम् असंकरप्रत्ययो लोके परिणामेष्व् इत्य् अत आह --- धर्मद्वारेति। धर्मशब्देन धर्मलक्षणावस्थाः परिगृह्यन्ते। तद्द्वारेण धर्मिण एव विक्रियेत्य् एका चासंकीर्णा च। तद्द्वाराणाम् अभेदेऽपि धर्मिणः परस्परसंकरात्। ननु धर्माणाम् अभिन्नत्वे धर्मिणोऽध्वनां च भेदे धर्मिणो ऽनन्यत्वेन धर्मेणापीह धर्मिवद् भवितव्यम् इत्य् अत आह --- तत्र धर्मस्येति। भावः संस्थानभेदः। सुवर्णादेर् यथा भाजनस्य रुचकस्वस्तिकव्यपदेशभेदो भवति तन्मात्रम् अन्यथा भवति न तु द्रव्यं सुवर्णम् असुवर्णताम् उपैति अत्यन्तभेदाभावाद् इति। वक्ष्यमाणाभिसंधिर् एकान्तवादिनं बौद्धम् उत्थापयति --- अपर आहेति। धर्मा एव हि रुचकादयस् तथोत्पन्नाः परमार्थसन्तो न पुनः सुवर्णं नाम किंचिद् एकम् अनेकेष्व् अनुगतं द्रव्यम् इति। यदि पुनर् निवर्तमानेष्व् अपि धर्मेषु द्रव्यम् अनुगतं भवेत् ततो न चितिशक्तिवत् परिणमेतापि तु कौटस्थ्येनैव परिवर्तेत। परिणामात्मकं रूपं परिहाय रूपान्तरेण कौटस्थ्येन परिवर्तनं परिवृत्तिः। यथा चितिशक्तिर् अन्यथान्यथाभावं भजमानेष्व् अपि गुणेषु स्वरूपाद् अप्रच्युता कूटस्थनित्यैवं सुवर्णाद्य् अपि स्यान् न चेष्यते। तस्मान् न द्रव्यम् अतिरिक्तं धर्मेभ्य इति। परिहरति --- अयम् अदोष इति। कस्मात्। एकान्ततानभ्युपगमात्। यदि चितिशक्तेर् इव द्रव्यस्यैकान्तिकीं नित्यताम् अभ्युपगच्छेम तत एवम् उपालभ्येमहि। न त्व् अइकान्तिकीं नित्यताम् आतिष्ठामहे किं तु तद् एतत् त्रैलोक्यं न तु द्रव्यमात्रं व्यक्तेर् अर्थक्रियाकारिणो रूपाद् अपैति। कस्मान् नित्यत्वप्रतिषेधात् प्रमाणेन। यदि हि घटो व्यक्तेर् नापेयात् कपालशर्कराचूर्णादिष्व् अवस्थास्व् अपि व्यक्तो घट इति पूर्ववद् उपलब्ध्यर्थक्रिये कुर्यात् तस्माद् अनित्यं त्रैलोक्यम्। अस्तु तर्ह्य् अनित्यम् एवोपलब्ध्यर्थक्रियारहितत्वेन गगनारविन्दवद् अतितुच्छत्वाद् इत्य् अत आह --- अपेतम् अप्य् अस्ति, नात्यन्ततुच्छता येनैकान्ततोऽनित्यं स्याद् इत्य् अर्थः। कस्माद् विनाशप्रतिषेधात् प्रमाणेन। तथा हि यत् तुच्छं न तत् कदाचिद् अप्य् उपलब्ध्यर्थक्रिये करोति। यथा गगनारविन्दम्। करोति चैतत् त्रैलोक्यं कदाचिद् उपलब्ध्यर्थक्रिये इति। तथोत्पत्तिमद्द्रव्यत्वधर्मलक्षणावस्थायोगित्वादयोऽप्य् अत्यन्ततुच्छगगननलिननरविषाणादिव्यावृत्ताः सत्त्वहेतव उदाहार्याः। तथा च धर्मी नात्यन्तं नित्यो येन चितिशक्तिवत् कूटस्थनित्यः स्यात् किं तु कथंचिन् नित्यः। तथा च परिणामीति सिद्धम्। एतेन मृत्पिण्डाद्यवस्थासु कार्याणां घटादीनाम् अनागतानां सत्त्वं वेदितव्यम्। स्याद् एतत्। अपेतम् अपि चेद् अस्ति कस्मात् पूर्ववन् नोपलभ्यत इत्य् अत आह --- संसर्गात् स्वकारणलयात् सौक्ष्म्यं दर्शनानर्हत्वं ततश् चानुपलब्धिर् इति। तद् एवं धर्मपरिणामं समर्थ्य लक्षणपरिणामम् अपि लक्षणानां परस्परानुगमनेन समर्थयते --- लक्षणपरिणाम इति। एकैकं लक्षणं लक्षणान्तराभ्यां समनुगतम् इत्य् अर्थः। नन्व् एकलक्षणयोगे लक्षणान्तरे नानुभूयेते तत् कथं तद्योग इत्य् अत आह --- यथा पुरुष इति। न ह्य् अनुभवाभावः प्रमाणसिद्धम् अपलपति, तदुत्पाद एव तत्र तत्सद्भावे प्रमाणम् असत उत्पादासंभवान् नरविषाणवद् इति। परोक्तं दोषम् उत्थापयति --- अत्र लक्षणपरिणाम इति। यदा धर्मो वर्तमानस् तदैव यद्य् अतीतोऽनागतश् च तदा त्रयोऽप्य् अध्वानः संकीर्येरन्न् अनुक्रमेण चाध्वनां भावेऽसदुत्पादप्रसङ्ग इति भावः। परिहरति --- तस्य परिहार इति। वर्तमानतैव हि धर्माणाम् अनुभवसिद्धा ततः प्राक्पश्चात्कालसंबन्धम् अवगमयति। न खल्व् असद् उत्पद्यते न च सद् विनश्यति। तद् इदम् आह --- एवं हि न चित्तम् इति। क्रोधोत्तरकालं हि चित्तं रागधर्मकम् अनुभूयते। यदा च रागः क्रोधसमयेऽनागतत्वेन नासीत् कथम् असाव् उत्पद्येतानुत्पन्नश् च कथम् अनुभूयेतेति। भवत्व् एवं तथापि कुतोऽध्वनाम् असंकर इति पृच्छति --- किं चेति। किं कारणम् असंकरे। चः पुनरर्थे। उत्तरम् आह --- त्रयाणां लक्षणानां युगपन् नास्ति संभवः। कस्मिन्न् एकस्यां चित्तवृत्तौ। क्रमेण तु लक्षणानाम् एकतमस्य स्वव्यञ्जकाञ्जनस्य भावो भवेत् संभवेल् लक्ष्याधीननिरूपणतया लक्षणानां लक्ष्याकारेण तद्वत्ता। अत्रैव पञ्चशिखाचार्यसंमतिम् आह --- उक्तं चेति। एतच् च प्राग् एव व्याख्यातम्। उपसंहरति --- तस्माद् इति। आविर्भावतिरोभावरूपविरुद्धधर्मसंसर्गाद् असंकरोऽध्वनाम् इति। दृष्टान्तम् आह --- यथा रागस्येति। पूर्वं क्रोधस्य रागसंबन्धावगमो दर्शित इति। इदानीं तु विषयान्तरवर्तिनो रागस्य विषयान्तरवर्तिना रागान्तरेण संबन्धावगम इति। दार्ष्टान्तिकम् आह --- तथा लक्षणस्येतीति। ननु सत्य् अप्य् अनेकान्ताभ्युपगमेऽभेदोऽस्तीति धर्मलक्षणावस्थान्यत्वे तदभिन्नस्य धर्मिणोऽप्य् अन्यत्वप्रसङ्गः। स एव च नेष्यते तदनुगमानुभवविरोधाद् इत्य् अत आह --- न धर्मी त्र्यध्वा यतस् तदभिन्ना धर्मास् त्र्यध्वानः। धर्माणाम् अध्वत्रययोगम् एव स्फोरयति --- ते लक्षिता अभिव्यक्ता वर्तमाना इति यावत्। अलक्षिता अनभिव्यक्ता अनागता अतीता इति (अतीताश् चेति) यावत्। तत्र लक्षितास् तां ताम् अवस्थां बलवत्त्वदुर्बलत्वादिकां प्राप्नुवन्तो ऽन्यत्वेन प्रतिनिर्दिश्यन्तेऽवस्थान्तरतो न द्रव्यान्तरतः। अवस्थाशब्देन धर्मलक्षणावस्था उच्यन्ते। एतद् उक्तं भवति --- अनुभव एव हि धर्मिणो धर्मादीनां भेदाभेदौ व्यवस्थापयति। न ह्य् अइकान्तिकेऽभेदे धर्मादीनां धर्मिणो धर्मिरूपवद् धर्मादित्वम्। नाप्य् अइकान्तिके भेदे गवाश्ववद् धर्मादित्वम्। स चानुभवोऽनैकान्तिकत्वम् अवस्थापयन्न् अपि धर्मादिषूपजनापायधर्मकेष्व् अपि धर्मिणम् एकम् अनुगमयन् धर्मांश् च परस्परतो व्यावर्तयन् प्रत्यात्मम् अनुभूयत इति तदनुसारिणो वयं न तम् अतिवर्त्य स्वेच्छया धर्मानुभवान् व्यवस्थापयितुम् ईश्मह इति। अत्रैव लौकिकं दृष्टान्तम् आह --- यथैका रेखेति। यथा तद् एव रेखास्वरूपं तत्तत्स्थानापेक्षया शतादित्वेन व्यपदिश्यत एवं तद् एव धर्मिरूपं तत्तद्धर्मलक्षणावस्थाभेदेनान्यत्वेन प्रतिनिर्दिश्यत इत्य् अर्थः। दार्ष्टान्तिकार्थं दृष्टान्तान्तरम् आह --- यथा चैकत्वेऽपीति। अत्रान्तरे परोक्तं दोषम् उत्थापयति --- अवस्थेति। अवस्थापरिणामे धर्मलक्षणावस्थापरिणामे कौटस्थ्यदोषप्रसङ्ग उक्तो धर्मिधर्मलक्षणावस्थानाम्। पृच्छति --- कथम् इति। उत्तरम् --- अध्वनो व्यापारेणेति। दध्नः किल यो ऽनागतोऽध्वा तस्य व्यापारः क्षीरस्य वर्तमानत्वं तेन व्यवहितत्वाद् धेतोः। यदा धर्मो दधिलक्षणः स्वव्यापारं दाधिकाद्यारम्भं क्षीरे सन्न् अपि न करोति तदानागतः। यदा करोति तदा वर्तमानः। यदा कृत्वा निवृत्तः सन्न् एव स्वव्यापाराद् दाधिकाद्यारम्भात् तदातीत इति। एवं त्रैकाल्येऽपि सत्त्वाद् धर्मधर्मिणोर् लक्षणानाम् अवस्थानां च कौटस्थ्यं प्राप्नोति। सर्वदा सत्ता हि नित्यत्वं, चतुर्णाम् अपि च सर्वदा सत्त्वेऽसत्त्वे वा नोत्पादः, तावन्मात्रं च लक्षणं कूटस्थनित्यतायाः। न हि चितिशक्तेर् अपि कूटस्थनित्यायाः कश्चिद् अन्यो विशेष इति भावः। परिहरति --- नासौ दोषः, कस्माद् गुणिनित्यत्वे ऽपि गुणानां विमर्दोऽन्योन्याभिभाव्याभिभावकत्वं तस्य वैचित्र्यात्। एतद् उक्तं भवति --- यद्य् अपि सर्वदा सत्त्वं चतुर्णाम् अपि गुणिगुणानां तथापि गुणविमर्दवैचित्र्येण तदात्मभूततद्विकाराविर्भावतिरोभावभेदेन परिणामशालितया न कौटस्थ्यम्। चितिशक्तेस् तु न स्वात्मभूतविकाराविर्भावतिरोभाव इति कौटस्थ्यम्। यथाहुः ---

"नित्यं तम् आहुर् विद्वांसो यत्स्वभावो न नशय्ति" इति।

विमर्दवैचित्र्यम् एव विकारवैचित्र्ये हेतुं प्रकृतौ विकृतौ च दर्शयति --- यथा संस्थानं पृथिव्यादिपरिणामलक्षणम् आदिमद् धर्ममात्रं विनाशि तिरोभावि शब्दादीनां शब्दस्पर्शरूपरसगन्धतन्मात्राणां स्वकार्यम् अपेक्ष्याविनाशिनाम् अतिरोभाविनाम्। प्रकृतौ दर्शयति --- एवं लिङ्गम् इति। तस्मिन् विकारसंज्ञा न त्व् एवं विकारवती चितिशक्तिर् इति भावः। तद् एवं परीक्षकसिद्धां विकृतिं प्रकृतिं चोदाहृत्य विकृताव् एव लोकसिद्धायां गुणविमर्दवैचित्र्यं धर्मलक्षणावस्थापरिणामवैचित्र्यहेतुम् उदाहरति --- तत्रेदम् उदाहरणम् इति। न चायं नियमो लक्षणानाम् एवावस्थापरिणाम इति। सर्वेषाम् एव धर्मलक्षणावस्थाभेदानाम् अवस्थाशब्दवाच्यत्वाद् एक एवावस्थापरिणामः सर्वसाधारण इत्य् आह --- धर्मिणोऽपीति। व्यापकं परिणामलक्षणम् आह --- अवस्थितस्य द्रव्यस्येति। धर्मशब्द आश्रितत्वेन धर्मलक्षणावस्थावाचकः॥3.13॥

शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी॥3.14॥

यस्यैष त्रिविधः परिणामस् तं धर्मिणं सूत्रेण लक्षयति --- तत्र --- शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी। धर्मोऽस्यास्तीति धर्मीति नाविज्ञाते धर्मे स शक्यो ज्ञातुम् इति धर्मं दर्शयति --- योग्यतेति। धर्मिणो द्रव्यस्य मृदादेः शक्तिर् एव चूर्णपिण्डघटाद्युत्पत्तिशक्तिर् एव धर्मस् तेषां तत्राव्यक्तत्वेन भाव इति यावत्। नन्व् एवम् अव्यक्ततया सन्तस् ते ततः प्रादुर्भवन्तु। उदकाहरणादयस् तु तैः स्वकारणाद् अनासादिताः कुतः प्राप्ता इत्य् अत उक्तं --- योग्यतावच्छिन्नेति। योऽसौ घटादीनाम् उत्पत्तिशक्तिः सोदकाहरणादियोग्यतावच्छिन्ना, तेनोदकाहरणादयोऽपि घटादिभिः स्वकारणाद् एव प्राप्ता इति नाकस्मिका इति भावः। अथवा के धर्मिण इत्य् अत्रोत्तरं --- योग्यतावच्छिन्ना धर्मिण इति। को धर्म इत्य् अत्रोत्तरं शक्तिर् एव धर्मस् तेषां योग्यतैव धर्म इत्य् अर्थः। अतस् तद्वान् धर्मीति सिद्धं भवति। तत्सद्भावे प्रमाणम् आह --- स च फलप्रसवभेदानुमित एकस्य धर्मिणोऽन्यश् चान्यश् च चूर्णपिण्डघटादिरूप इत्य् अर्थः। कार्यभेददर्शनाच् च भिन्न इति यावत्। परिदृष्ट उपलब्धः। तत्रानुभवारोहिणो वर्तमानस्य मृत्पिण्डस्य शान्ताव्यपदेश्याभ्यां मृच्चूर्णमृद्घटाभ्यां भेदम् आह --- तत्र वर्तमान इति। यदि न भिद्येत पिण्डवच् चूर्णघटयोर् अपि तद्वद् एव स्वव्यापारव्याप्तिप्रसङ्ग इति भावः। अव्यक्तस्य तु पिण्डस्य नोक्तं भेदसाधनं संभवतीत्य् आह --- यदा त्व् इति। कोऽसौ केन भेदसाधनेन भिद्येतेति। तद् एवं धर्माणां भेदसाधनम् अभिधाय तं भेदं विभजते --- तत्र ये खल्व् इति। उदिता इति वर्तमाना इत्य् अर्थः। अध्वनां पौर्वापर्यं नियमयति --- ते चेति। चोदयति --- किमर्थम् इति। किंनिमित्तम् अतीतस्यानन्तरा न भवन्ति वर्तमानाः। हेतुम् आह सिद्धान्ती --- पूर्वपश्चिमताया अभावात्। विषयेण विषयिणीम् अनुपलब्धिं सूचयति। अनुपलम्भम् एवोपलम्भवैधर्म्येण दर्शयति --- यथानागतवर्तमानयोर् इति। उपसंहरति --- तत् तस्माद् अनागत एव समनन्तरः पूर्वत्वेन भवति वर्तमानस्य नातीतः। अतीतस्य वर्तमानः पूर्वत्वेन समनन्तरो नाव्यपदेश्यः। तस्माद् अध्वनां यविष्ठोऽतीत इति सिद्धम्। स्याद् एतद् अनुभूयमानानुभूततयोदितातीतौ शक्याव् उन्नेतुम् अव्यपदेश्यास् तु पुनर् धर्मा अव्यपदेश्यतयैवं शक्या नोन्नेतुम् इत्य् आशयवान् पृच्छति --- अथाव्यपदेश्याः के केषु समीक्षामहे। अत्रोत्तरम् आह --- सर्वं सर्वात्मकम् इति। यत्रोक्तम् इति। तद् एवोपपादयति --- जलभूम्योर् इति। जलस्य हि रसरूपस्पर्शशब्दवतो भूमेश् च गन्धरसरूपस्पर्शशब्दवत्याः पारिणामिकं वनस्पतिलतागुल्मादिषु मूलफलप्रसवपल्लवादिगतरसादिवैश्वरूप्यं दृष्टम्। सोऽयम् अनेवमात्मिकाया भूमेर् अनीदृशस्य वा जलस्य न परिणामो भवितुम् अर्हति। उपपादितं हि नासद् उत्पद्यत इति। तथा स्थावराणां पारिणामिकं जङ्गमेषु मनुष्यपशुमृगादिषु रसादिवैचित्र्यं दृष्टम्। उपयुञ्जाना हि ते फलादीनि रूपादिभेदसंपदम् आसादयन्ति। एवं जङ्गमानां पारिणामिकं स्थावरेषु दृष्टम्। रुधिरावसेकात् किल दाडिमीफलानि तालफलमात्राणि भवन्ति। उपसंहरति --- एवं सर्वं जलभूम्यादि सर्वरसाद्यात्मकम्। तत्र हेतुम् आह --- जात्यनुच्छेदेन जलत्वभूमित्वादिजातेः सर्वत्र प्रत्यभिज्ञायमानत्वेनानुच्छेदात्। ननु सर्वं चेत् सर्वात्मकं हन्त भोः सर्वस्य सर्वदा सर्वत्र सर्वथा संनिधानात् समानकालं भावानां व्यक्तिः प्रसज्येत, न खलु संनिहिताविकलकारणं कार्यं विलम्बितुम् अर्हतीत्य् अत आह --- देशकालेति। यद्य् अपि कारणं सर्वं सर्वात्मकं तथापि यो यस्य कार्यस्य देशो यथा कुङ्कुमस्य काश्मीरः। तेषां सत्त्वेऽपि पाञ्चालादिषु न समुदाचार इति न कुङ्कुमस्य पाञ्चालादिष्व् अभिव्यक्तिः। एवं निदाघे न प्रावृषः समुदाचार इति न तदा शालीनाम्। एवं न मृगी मनुष्यं प्रसूते न तस्यां मनुष्याकारसमुदाचार इति। एवं नापुण्यवान् सुखरूपं भुङ्क्ते न तस्मिन् पुण्यनिमित्तस्य समुदाचार इति। तस्माद् देशकालाकारनिमित्तानाम् अपबन्धाद् अपगमान् न समानकालम् आत्मनां भावानाम् अभिव्यक्तिर् इति। तद् एवं धर्मान् विभज्य तेषु धर्मिणोऽनुगमं दर्शयति --- य एतेष्व् इति। सामान्यं धर्मिरूपं विशेषो धर्मस् तदात्मोभयात्मक इत्य् अर्थः। तद् एवम् अनुगतं धर्मिणं दर्शयित्वा तम् अनिच्छतो वैनाशिकस्य क्षणिकं विज्ञानमात्रं चित्तम् इच्छतोऽनिष्टप्रसङ्गम् उक्तं स्मारयति --- यस्य त्व् इति। वस्तुप्रत्यभिज्ञानाच् चेति। न हि देवदत्तेन दृष्टं यज्ञदत्तः प्रत्यभिजानाति। तस्माद् यश् चानुभविता स एव प्रत्यभिज्ञातेति॥3.14॥

क्रमान्यत्वं परिणामान्यत्वे हेतुः॥3.15॥

क्रमान्यत्वं परिणामान्यत्वे हेतुः। किम् एकस्य धर्मिण एक एव धर्मलक्षणावस्थालक्षणः परिणाम उत बहवो धर्मलक्षणावस्थालक्षणाः परिणामाः। तत्र किं प्राप्तम् एकत्वाद् धर्मिण एक एव परिणामः। न हि एकरूपात् कारणात् कार्यभेदो भवितुम् अर्हति तस्याकस्मिकत्वप्रसङ्गाद् इत्येवं प्राप्त उच्यते --- क्रमान्यत्वात् परिणामान्यत्वम्। एकस्या मृदश् चूर्णपिण्डघटकपालकणाकारा परिणतिपरम्परा क्रमवती लौकिकपरीक्षकैर् अध्यक्षं समीक्ष्यते। अन्यच् चेदं चूर्णपिण्डयोर् आनन्तर्यम् अन्यच् च पिण्डघटयोर् अन्यच् च घटकपालयोर् अन्यच् च कपालकणयोर् एकत्र परस्यान्यत्र पूर्वत्वात्। सोऽयं क्रमभेदः परिणाम एकस्मिन्न् अवकल्पमानः परिणामभेदम् आपादयति। एकोऽपि च मृद्धर्मी क्रमोपनिपातितत्तत्सहकारिसमवधानक्रमेण क्रमवतीं परिणामपरम्पराम् उद्वहन् नैनाम् आकस्मिकयतीति भावः। धर्मपरिणामान्यत्ववल् लक्षणपरिणामान्यत्वे ऽवस्थापरिणामान्यत्वे च समानं क्रमान्यत्वं हेतुर् इति। तद् एतद् भाष्येणावद्योत्यते --- एकस्य धर्मिण इति। क्रमक्रमवतोर् अभेदम् आस्थाय स तस्य क्रम इत्य् उक्तम्। तथावस्थापरिणामक्रम इति। तथा हि --- कीनाशेन कोष्ठागारे प्रयत्नसंरक्षिता अपि हि व्रीहयो हायनैर् अतिबहुभिः पाणिस्पर्शमात्रविशीर्यमाणावयवसंस्थानाः परमाणुभावम् अनुभवन्तो दृश्यन्ते। न चायम् अभिनवानाम् अकस्माद् एव प्रादुर्भवितुम् अर्हति। तस्मात् क्षणपरम्पराक्रमेण सूक्ष्मसूक्ष्मतरसूक्ष्मतमबृहद्बृहत्तरबृहत्तमादिक्रमेण प्राप्तेषु विशिष्टोऽयं लक्ष्यत इति। तद् इदं क्रमान्यत्वं धर्मधर्मिभेदपक्ष एवेत्य् आह --- त एत इति। आ विकारेभ्य आ चालिङ्गाद् आपेक्षिको धर्मधर्मिभावो मृदादेर् अपि तन्मात्रापेक्षया धर्मत्वाद् इत्य् आह --- धर्मो ऽपीति। यदा परमार्थधर्मिण्य् अलिङ्गेऽभेदोपचारप्रयोगस् तद्द्वारेण सामानाधिकरण्यद्वारेण धर्म्य् एव धर्म इति यावत्। तदैक एव परिणामो धर्मिपरिणाम एवेत्य् अर्थः। धर्मलक्षणावस्थानां धर्मिस्वरूपाभिनिवेशात्। तद् अनेन धर्मिणो दूरोत्सारितं कूटस्थनित्यत्वम् इत्य् उक्तप्रायम्। धर्मपरिणामं प्रतिपादयन् प्रसङ्गेन चित्तधर्माणां प्रकारभेदम् आह --- चित्तस्येति। परिदृष्टाः प्रत्यक्षा अपरिदृष्टाः परोक्षास् तत्र प्रत्ययात्मकाः प्रमाणादयो रागादयश् च। वस्तुमात्रा इत्य् अप्रकाशरूपताम् आह। स्याद् एतद् अपरिदृष्टाश् चेन् न सन्त्य् एवेत्य् अत आह --- अनुमानेन प्रापितो वस्तुमात्रेण सद्भावो येषां ते तथोक्ताः। पश्चान्मानसाधर्म्याद् आगमोऽप्य् अनुमानम्। सप्तापरिदृष्टान् कारिकया संगृह्णाति --- निरोधेति। निरोधो वृत्तीनाम् असंप्रज्ञातावस्था चित्तस्यागमतः संस्कारशेषभावोऽनुमानतश् च समधिगम्यते। धर्मग्रहणेन पुण्यापुण्ये उपलक्षयति। क्वचित् कर्मेति पाठस् तत्रापि तज्जनिते पुण्यापुण्ये एव गृह्येते। ते चागमतः सुखदुःखोपभोगदर्शनाद् वानुमानतो गम्येते। संस्कारस् तु स्मृतेर् अनुमीयते। एवं त्रिगुणत्वाच् चित्तस्य चलं च गुणवृत्तम् इति प्रतिक्षणं परिणामोऽनुमीयते। एवं जीवनं प्राणधारणं प्रयत्नभेदोऽसंविदितश् चित्तस्य धर्मः श्वासप्रश्वासाभ्याम् अनुमीयते। एवं चेतसश् चेष्टा क्रिया यथा यथा तैस् तैर् इन्द्रियैः शरीरप्रदेशैर् वा संप्रयुज्यते। सापि तत्संयोगाद् एवानुमीयते। एवं शक्तिर् अप्य् उद्भूतानां कार्याणां सूक्ष्मावस्था चेतसो धर्मस्थूलकार्यानुभवाद् एवानुमीयत इति॥3.15॥

परिणामत्रयसंयमाद् अतीतानागतज्ञानम्॥3.16॥

अतः परम् आ पादपरिसमाप्तेः संयमविषयस् तद्वशीकारसूचनी विभूतिश् च वक्तव्या। तत्रोक्तप्रकारं परिणामत्रयम् एव तावत् प्रथमम् उपात्तसकलयोगाङ्गस्य योगिनः संयमविषयतयोपक्षिपति --- परिणामत्रयसंयमाद् अतीतानागतज्ञानम्। ननु यत्र संयमस् तत्रैव साक्षात्करणं तत् कथं परिणामत्रयसंयमोऽतीतानागतं साक्षात्कारयेद् इत्य् अत आह --- तेन परिणामत्रयं साक्षात्क्रियमाणं तेषु परिणामेष्व् अनुगते ये अतीतानागते तद्विषयं ज्ञानं संपादयति। परिणामत्रयसाक्षात्करणम् एव तदन्तर्भूतातीतानागतसाक्षात्करणात्मकम् इति न विषयभेदः संयमसाक्षात्कारयोर् इत्य् अर्थः॥3.16॥

शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् संकरस् तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम्॥3.17॥

अयम् अपरः संयमस्य विषय उपक्षिप्यते --- शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् संकरस् तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम्। अत्र वाचकं शब्दम् आचिख्यासुः प्रथमं तावद् वाग्व्यापारविषयम् आह --- तत्र वाग् वागिन्द्रियं वर्णव्यञ्जकम् अष्टस्थानम्। यथाह ---

"अष्टौ स्थानानि वर्णानाम् उरः कण्ठः शिरस् तथा। जिह्वामूलं च दन्ताश् च नासिकौष्ठौ च तालु च" [पाणिनीयशिक्षा 13] इति॥

सा वाग् वर्णेष्व् एव यथालोकप्रतीतिसिद्धेष्व् अर्थवती न च वाचक इत्य् अर्थः। श्रोत्रव्यापारविषयं निरूपयति --- श्रोत्रं पुनर् ध्वनेर् उदानस्य वागिन्द्रियाभिघातिनो यः परिणतिभेदो वर्णात्मा तेनाकारेण परिणतं तन्मात्रविषयं न तु वाचकविषयम् इत्य् अर्थः। यथालोकप्रतीतिसिद्धेभ्यो वर्णेभ्यो वाचकं भिनत्ति --- पदं पुनर् वाचकं पुनर् नादानुसंहारबुद्धिनिर्ग्राह्यं यथाप्रतीतिसिद्धान् नादान् वर्णान् प्रत्येकं गृहीत्वानु पश्चाद् या संहरत्य् एकत्वम् आपादयति गौर् इत्य् एतद् एकं पदम् इति तया पदं गृह्यते। यद्य् अपि प्राच्योऽपि बुद्धयो वर्णाकारं पदम् एव प्रत्येकं गोचरयन्ति तथापि न विशदं प्रथते। चरमे तु विज्ञाने तद् अतिविशदम् इति नादानुसंहारबुद्धिनिर्ग्राह्यम् उक्तम्। यस् तु वैजात्याद् एकपदानुभवम् अविज्ञाय वर्णान् एव वाचकान् आतिष्ठते तं प्रत्याह --- वर्णा इति। ते खल्व् अमी वर्णाः प्रत्येकं वाच्यविषयां धियम् आदधीरन् नागदन्तका इव शिक्यावलम्बनं संहता वा ग्रावाण इव पिठरधारणम्। न तावत् प्रथमः कल्पः। एकस्माद् अर्थप्रतीतेर् अनुत्पत्तेर् उत्पत्तौ वा द्वितीयादीनाम् अनुच्चारणप्रसङ्गो निष्पादितक्रिये कर्मणि विशेषानाधायिनः साधनस्य साधनन्यायातिपातात्। तस्माद् द्वितीयः परिशिष्यते। संभवति हि ग्राव्णां संहतानां पिठरधारणम् एकसमयभावित्वात्। वर्णानां तु यौगपद्यासंभवोऽतः परस्परम् अनुग्राह्यानुग्राहकत्वायोगात् संभूयापि नार्थधियम् आदधते। ते पदरूपम् एकम् असंस्पृशन्तस् तादात्म्येनात एवानुपस्थापयन्त आविर्भूतास् तिरोभूता अयःशलाकाकल्पाः प्रत्येकम् अपदस्वरूपा उच्यन्ते। यदि पुनः पदम् एकं तादात्म्येन स्पृशेयुर् वर्णास् ततो नोक्तदोषप्रसङ्ग इत्य् आह --- वर्णः पुनर् एकैकः पदात्मा सर्वाभिधानशक्तिप्रचितः सर्वाभिर् अभिधानशक्तिभिर् निचितो गोगणगौरनगेत्यादिषु हि गकारो गोत्वाद्यर्थाभिधायिषु दृष्ट इति तत्तदभिधानशक्तिः। एवं सोमशोचिर् इत्यादिष्व् ईश्वराद्यर्थाभिधायिषु पदेष्व् ओवर्णो दृष्ट इति सोऽपि तत्तदभिधानशक्तिः। एवं सर्वत्रोहनीयम्। स चैकैको वर्णो गकारादिः सहकारि यद् वर्णान्तरम् ओकारादि तद् एव प्रतियोगि प्रतिसंबन्धि यस्य स तथोक्तस् तस्य भावस् तत्त्वं तस्माद् वैश्वरूप्यं नानात्वम् इवापन्नो न तु नानात्वम् आपन्नस् तस्य तत्त्वाद् एव पूर्वो वर्णो गकार उत्तरेणौकारेण गणादिपदेभ्यो व्यावर्त्योत्तरश् चौकारो गकारेण शोचिरादिपदेभ्यो व्यावर्त्य विशेषे गोत्ववाचके गोपदस्फोटेऽवस्थापितोऽनुसंहारबुद्धौ। अयम् अभिसंधिः --- अर्थप्रत्ययो हि वर्णैर् नियतक्रमतया परस्परम् असंभवद्भिर् अशक्यः कर्तुम्। न च संस्कारद्वाराग्नेयादीनाम् इव परमापूर्वे वा स्वर्गे वा जनयितव्येऽनियतक्रमाणाम् अपि साहित्यम् अर्थबुद्ध्युपजनने वर्णानाम् इति सांप्रतं विकल्पासहत्वात्। स खल्व् अयं वर्णानुभवजन्यः संस्कारः स्मृतिप्रसवहेतुर् अन्यो वाग्नेयादिजन्य इवापूर्वाभिधानो न तावद् अनन्तरः कल्पनागौरवापत्तेः। स एव तावद् अदृष्टपूर्वः कल्पनीयस् तस्य च क्रमवद्भिर् वर्णानुभवैर् एकस्य जन्यत्वं न संभवतीति तज्जातीयानेकावान्तरसंस्कारकल्पनेति गौरवम्। न चैष ज्ञापकहेत्वङ्गम् अज्ञातस् तदङ्गताम् अनुभवतीति। न खलु संबन्धोऽर्थप्रत्यायनाङ्गम् अज्ञातोऽङ्गताम् उपैति। स्मृतिफलप्रसवानुमितस् तु संस्कारः स्वकारणानुभवविषयनियतो न विषयान्तरे प्रत्ययम् आधातुम् उत्सहते। अन्यथा यत् किंचिद् एवैकैकम् अनुभूय सर्वः सर्वं जानीयाद् इति। न च प्रत्येकवर्णानुभवजनितसंस्कारपिण्डलब्धजन्मस्मृतिदर्पणसमारोहिणो वर्णाः समधिगतसहभावा वाचका इति सांप्रतम्। क्रमाक्रमविपरीतक्रमानुभूतानां तत्राविशेषेणार्थधीजननप्रसङ्गात्। न चैतत् स्मरणज्ञानं पूर्वानुभववर्तिनीं परापरतां गोचरयितुम् अर्हति। तस्माद् वर्णेभ्योऽसंभवन्न् अर्थप्रत्यय एकपदानुभवम् एव स्वनिमित्तम् उपकल्पयति। न चैष पदेऽपि प्रसङ्गः। तद् धि प्रत्येकम् एव प्रयत्नभेदभिन्ना ध्वनयो व्यञ्जयन्तः परस्परविसदृशतत्तत्पदव्यञ्जकध्वनिभिस् तुल्यस्थानकरणनिष्पन्नाः सदृशाः सन्तो ऽन्योन्यविसदृशैः पदैः पदम् एकं सदृशम् आपादयन्तः प्रतियोगिभेदेन तत्तत्सादृश्यानां भेदात् तदुपधानाद् एकम् अप्य् अनवयवम् अपि सावयवम् इवानेकात्मकम् इवावभासयन्ति, यथा नियतवर्णपरिमाणसंस्थानं मुखम् एकम् अपि मणिकृपाणदर्पणादयो विभिन्नवर्णपरिमाणसंस्थानम् अनेकम् आदर्शयन्ति न परमार्थतः। सादृश्योपधानभेदकल्पिता भागा एव निर्भागस्य पदस्य वर्णास् तेन तद्बुद्धिर् वर्णात्मना पदभेदे स्फोटम् अभेदम् एव निर्भागम् एव सभेदम् इव सभागम् इवालम्बते। अतो गोपदस्फोटभेदस्यैकस्य गकारभागो गौरादिपदस्फोटसादृश्येन न निर्धारयन्ति स्वभागिनम् इत्य् ओकारेण विशिष्टो निर्धारयत्य् एवम् ओकारो ऽपि भागः शोचिरादिपदसदृशतया न शक्तो निर्धारयितुं स्वभागिनं गोपदस्फोटम् इति गकारेण विशिष्टो निर्धारयति। असहभाविनाम् अपि च संस्कारद्वारेणास्ति सहभाव इति विशेषणविशेष्यभावोपपत्तिः। न च भिन्नविषयत्वं संस्कारयोर् भागद्वयविषययोर् अनुभवयोस् तज्जन्मनोश् च संस्कारयोर् एकपदविषयत्वात्। केवलभागानुभवेन पदम् अव्यक्तम् अनुभूयतेऽनुसंहारधिया तु भागानुभवयोनिसंस्कारलब्धजन्मना व्यक्तम् इति विशेषः। अव्यक्तानुभवाश् च प्राञ्चः संस्काराधानक्रमेण व्यक्तम् अनुभवम् आदधाना दृष्टा यथा दूराद् वनस्पताव् अस्तिप्रत्यया अव्यक्ता व्यक्तवनस्पतिप्रत्ययहेतवः। न चेयं विधा वर्णानाम् अर्थप्रत्यायने संभविनी। नो खलु वर्णाः प्रत्येकम् अव्यक्तम् अर्थप्रत्ययम् आदधत्य् अन्ते व्यक्तम् इति शक्यं वक्तुम्। प्रत्यक्षज्ञान एव नियमाद् व्यक्ताव्यक्तत्वस्य। वर्णाधेयस् त्व् अर्थप्रत्ययो न प्रत्यक्षस् तद् एष वर्णेभ्यो जायमानः स्फुट एव जायेत। न वा जायेत न त्व् अस्फुटः। स्फोटस्य तु ध्वनिव्यङ्ग्यस्य प्रत्यक्षस्य सतः स्फुटास्फुटत्वे कल्प्येते इत्य् असमानम्। एवं प्रत्येकवर्णानुभवजनितसंस्कारसहितश्रोत्रलब्धजन्मन्य् अनुसंहारबुद्धौ संहता वर्णा एकपदस्फोटभावम् आपन्नाः प्रयत्नविशेषव्यङ्ग्यतया प्रयत्नविशेषस्य च नियतक्रमापेक्षतया क्रमस्यान्यत्वे तदभिव्यञ्जकप्रयत्नविशेषाभावेन तदभिव्यक्त्यभावप्रसङ्गात् क्रमानुरोधिनो ऽर्थसंकेतेनावच्छिन्नाः संकेतावच्छेदम् एव लौकिकं सभागपदविषयं दर्शयन्ति, इयन्तो द्वित्रास् त्रिचतुराः पञ्चषा वा एते सर्वाभिधानशक्तिपरिवृता गकारौकारविसर्जनीयाः सास्नादिमन्तम् अर्थम् अवद्योतयन्तीति। तत् किम् इदानीं संकेतानुसारेण वर्णानाम् एव वाचकत्वं तथा च न पदं नाम किंचिद् एकम् इत्य् अत आह --- तद् एतेषाम् इति। ध्वनिनिमित्तः क्रमो ध्वनिक्रमः। उपसंहृतो ध्वनिक्रमो येषु ते तथोक्ताः। बुद्ध्या निर्भास्यते प्रकाश्यत इति बुद्धिनिर्भासः। संकेतावच्छिन्नाः स्थूलदर्शिलोकाशयानुरोधेन गकारौकारविसर्जनीया इत्य् उक्तम्। गकारादीनाम् अपि तद्भागतया तादात्म्येन वाचकत्वात् प्रतीत्यनुसारतस् त्व् एकम् एव पदं वाचकम् इत्य् अर्थः। एतद् एव स्पष्टयति --- तद् एकं पदं लोकबुद्ध्या प्रतीयत इति संबन्धः। कस्माद् एकम् इत्य् अत आह --- एकबुद्धिविषयो गौर् इत्य् एकं पदम् इत्य् एकाकाराया बुद्धेर् विषयो यतस् तस्माद् एकम्। तस्य व्यञ्जकम् आह --- एकप्रयत्नाक्षिप्तम् इति। रस इतिपदव्यञ्जकात् प्रयत्नाद् विलक्षणः सर इतिपदव्यञ्जकः प्रयत्नः। स चोपक्रमतः सर इतिपदव्यक्तिलक्षणफलावच्छिन्नः पूर्वापरीभूत एकस् तदाक्षिप्तं भागानां सादृश्योपधानभेदकल्पितानां परमार्थसताम् अभावाद् अभागम्। अत एव पूर्वापरीभूतभावाद् अक्रमम्। ननु वर्णाः पूर्वापरीभूतास् ते चास्य भागा इति कथम् अक्रमम् अभागं चेत्य् अत आह --- अवर्णम्। न ह्य् अस्य वर्णा भागाः किं तु सादृश्योपधानभेदात् पदम् एव तेन तेनाकारेणापरमार्थसता प्रथते। न हि मणिकृपाणदर्पणादिवर्तीनि मुखानि मुखस्य परमार्थसतोऽवयवा इति। बौद्धम् अनुसंहारबुद्धौ विदितम् अन्त्यवर्णप्रत्ययस्य व्यापारः संस्कारः पूर्ववर्णानुभवजनितसंस्कारसहितस् तेनोपस्थापितं विषयीकृतम्। वर्णानुभवतत्तत्संस्काराणां च पदविषयत्वम् उपपादितम् अधस्तात्। स्याद् एतद् अभागम् अक्रमम् अवर्णं चेत् पदतत्त्वं कस्माद् एवंविधं कदाचिन् न प्रथते न हि लाक्षारसावसेकोपधानापादितारुणभावः स्फटिकमणिस् तदपगमे स्वच्छधवलो नानुभूयते तस्मात् पारमार्थिका एव वर्णा इत्य् अत आह --- परत्रेति। प्रतिपिपादयिषया वर्णैर् एवाभिधीयमानैर् उच्चार्यमाणैः श्रूयमाणैश् च श्रोतृभिर् अनादिर् यो ऽयं वाग्व्यवहारो विभक्तवर्णपदनिबन्धनस् तज्जनिता वासना साप्य् अनादिर् एव। तदनुविद्धया तद्वासितया लोकबुद्ध्या विभक्तवर्णरूषितपदावगाहिन्या सिद्धवत् परमार्थवत् संप्रतिपत्त्या संवादेन वृद्धानां पदं प्रतीयते। एतद् उक्तं भवति --- अस्ति कश्चिद् उपाधिर् य उपधेयेन संयुज्यते वियुज्यते च। यथा लाक्षादिस् तत्र तद्वियोगे स्फटिकः स्वाभाविकेन स्वच्छधवलेन रूपेण प्रकाशत इति युज्यते। पदप्रत्ययस्य तु प्रयत्नभेदोपनीतध्वनिभेदाद् अन्यतोऽनुत्पादात् तस्य च सदा सादृश्यदोषरूषिततया वर्णात्मनैव प्रत्ययजनकत्वम् इति कुतो निरुपाधिनः पदस्य प्रथा। यथाहुः ---

"ध्वनयः सदृशात्मानो विपर्यासस्य हेतवः। उपलम्भकम् एतेषां विपर्यासस्य कारणम्। उपायत्वाच् च नियतः पददर्शितदर्शिनाम्। ज्ञानस्यैव च बाधेयं लोके ध्रुवम् उपप्लवः" इति।

यतः पदात्मा विभक्तवर्णरूषितः प्रकाशतेऽतः स्थूलदर्शी लोको वर्णान् एव पदम् अभिमन्यमानस् तान् एव प्रकारभेदभाजोऽर्थभेदे संकेतयतीत्य् आह --- तस्येति। तस्य पदस्याजानत एकस्यापि संकेतबुद्धितः स्थूलदर्शिलोकहिताय वर्णात्मना विभागः। विभागम् आह --- एतावतां न न्यूनानाम् अधिकानां वा, एवंजातीयको नैरन्तर्यक्रमविशेषो ऽनुसंहार एकबुद्ध्युपग्रह एकस्यार्थस्य गोत्वादेर् वाचक इति। ननु यद्य् एकस्यार्थस्यायं शब्दो वाचक इति संकेतो हन्त भोः शब्दार्थयोर् नेतरेतराध्यासस् तर्हीत्य् अत आह --- संकेतस् त्व् इति। स्मृताव् आत्मा स्वरूपं यस्य स तथोक्तः। न हि कृत इत्य् एव संकेतोऽर्थम् अवधारयत्य् अपि तु स्मर्यमाणः। एतद् उक्तं भवति --- अभिन्नाकार एव संकेते कथंचिद् भेदं विकल्प्य षष्ठी प्रयुक्तेति। य एषां प्रविभागज्ञः स तत्र संयमे भवति सर्ववित् सर्वभूतरुतज्ञ इति। तद् एवं विकल्पितवर्णभागम् एकम् अनवयवं पदं व्युत्पाद्य कल्पितपदविभागं वाक्यम् एकम् अनवयवं व्युत्पादयितुम् आह --- सर्वपदेषु चास्ति वाक्यशक्तिः। अयम् अभिसंधिः --- परप्रत्यायनाय शब्दः प्रयुज्यते तत्र तद् एव च परं प्रति प्रतिपादयितव्यं यत् तैः प्रतिपित्सितं, तद् एव तैः प्रतिपित्सितं यदुपादानादिगोचरः। न च पदार्थमात्रं तद्गोचरः किं तु वाक्यार्थ इति वाक्यार्थपरा एव सर्वे शब्दास् तेन स एव तेषाम् अर्थः। अतो यत्रापि केवलस्य पदस्य प्रयोगस् तत्रापि पदान्तरेण सहैकीकृत्य ततोऽर्थो गम्यते, न तु केवलात् कस्मात् तन्मात्रस्यासामर्थ्यात् तथा च वाक्यम् एव तत्र तत्र वाचकं न तु पदानि। तद्भागतया तु तेषाम् अप्य् अस्ति वाक्यार्थवाचकशक्तिः पदार्थ इव पदभागतया वर्णानाम्। तेन यथा वर्ण एकैकः सर्वपदार्थाभिधानशक्तिः प्रचित एवं पदम् अप्य् एकैकं सर्ववाक्यार्थाभिधानशक्तिप्रचितम्। तद् इदम् उक्तम् --- सर्वपदेषु चास्ति वाक्यशक्तिर् वृक्ष इत्य् उक्ते ऽस्तीति गम्यते। अध्याहृतास्तिपदसहितं वृक्ष इति पदं वाक्यार्थे वर्तत इति तद्भागत्वाद् वृक्षपदं तत्र वर्तते। कस्मात् पुनर् अस्तीति गम्यत इत्य् अत आह --- न सत्तां पदार्थो व्यभिचरतीति। लोक एव हि पदानाम् अर्थावधारणोपायः। स च केवलं पदार्थम् अस्त्यर्थेनाभिसमस्य सर्वत्र वाक्यार्थी करोति सोऽयम् अव्यभिचारः सत्तया पदार्थस्यात एव शब्दवृत्तिविदां व्यवहारो यत्रान्यत् क्रियापदं नास्ति तत्रास्तिर् भवन्तीपरः प्रयोक्तव्य इति। क्रियाभेदाव्यभिचारि प्रातिपदिकम् उक्त्वा क्रियाभेदं कारकाव्यभिचारिणं दर्शयति --- तथा च पचतीत्य् उक्त इति। पचतीत्य् उक्ते हि कारकमात्रस्य तदन्वययोग्यस्यावगमाद् अन्यव्यावृत्तिपरस् तद्भेदानाम् अनुवादः। तद् एवं भेद एव वाक्यार्थ इति तथानपेक्षम् अपि पदं वाक्यार्थे वर्तमानं दृश्यत इति सुतराम् अस्ति वाक्यशक्तिः पदानाम् इत्य् आह --- दृष्टं चेति। न चैतावतापि श्रोत्रियादिपदस्य स्वतन्त्रस्यैवंविधार्थप्रत्यायनं न यावद् अस्त्यादिभिर् अभिसमासोऽस्य भवति। तथा चास्यापि वाक्यावयवत्वात् कल्पितत्वम् एवेति भावः। स्याद् एतत् पदानाम् एव चेद् वाक्यशक्तिः कृतं तर्हि वाक्येन तेभ्य एव तदर्थावसायाद् इत्य् अत आह --- तत्र वाक्य इति। उक्तम् एतन् न केवलात् पदात् पदार्थः प्रतिपित्सितः प्रतीयते न यावद् एतत् पदान्तरेणाभिसमस्यत इति। तथा च वाक्यात् पदान्य् अपोद्धृत्य कल्पितानि वाक्यार्थाच् चापोद्धृत्य तदेकदेशं कारकं वा क्रियां वा तत्पदं प्रकृत्यादिविभागकल्पनया व्याकरणीयम् अन्वाख्येयम्। किमर्थं पुनर् एतावता क्लेशेनान्वाख्यायत इत्य् अत आह --- अन्यथेति। घटो भवति भवति भिक्षां देहि भवति तिष्ठतीति नामाख्यातयोश् च साम्यात्। एवम् अश्वस् त्वम् अश्वो यातीति। एवम् अजापयः पिब, अजापयः शत्रून् इति नामाख्यातसारूप्याद् अनिर्ज्ञातं नामत्वेनाख्यातत्वेन वान्वाख्यानाभावे निष्कृष्याज्ञातं कथं क्रियायां कारके वा व्याक्रियेत। तस्माद् वाक्यात् पदान्य् अपोद्धृत्य व्याख्यातव्यानि। न त्व् अन्वाख्यानाद् एव पारमार्थिको विभागः पदानाम् इति। तद् एवं शब्दरूपं व्युत्पाद्य शब्दार्थप्रत्ययानां संकेतापादितसंकराणाम् असंकरम् आख्यातुम् उपक्रमते --- तेषां शब्दार्थप्रत्ययानां प्रविभागस् तद्यथा श्वेतते प्रासाद इति क्रियार्थः शब्दः। स्फुटतरो ह्य् अत्र पूर्वापरीभूतायाः क्रियायाः साध्यरूपायाः सिद्धरूपः क्रियार्थः श्वेतत इति भिन्नः शब्दः। यत्रापि शब्दार्थयोः सिद्धरूपत्वं तत्राप्य् अर्थाद् अस्ति शब्दस्य भेद इत्य् आह --- श्वेतः प्रासाद इत्इ कारकार्थः शब्दः। अभिहितत्वाच् च कारकविभक्तेर् अभावः। अर्थं विभजते --- क्रियाकारकात्मा तदर्थस् तयोः शब्दयोर् अर्थः क्रियात्मा कारकात्मा च। प्रत्ययं विभजते --- प्रत्ययश् चेति। चशब्देन तदर्थ इत्य् एतत् पदम् अत्रानुकृष्यते। तद् अत्रान्यपदार्थप्रधानं संबध्यते। स एव क्रियाकारकात्मार्थो यस्य स तथोक्तः। नन्व् अभेदेन प्रतीतेः शब्दार्थप्रत्ययानां संकरात् कुतः प्रविभाग इत्य् आशयवान् पृच्छति --- कस्माद् इति। उत्तरम् आह --- सोऽयम् इत्य् अभिसंबन्धाद् इति। संकेतोपाधिर् एकाकारप्रत्ययो न तु तात्त्विक इत्य् अर्थः। संकेतस्य निमित्तता दर्शिता संकेत इति सप्तम्या। परमार्थम् आह --- यस् तु श्वेतोऽर्थ इति। अवस्था नवपुराणत्वादयः। सहगतः संकीर्णः। एवं च प्रविभागसंयमाद् योगिनः सर्वेषां भूतानां पशुमृगसरीसृपवयःप्रभृतीनां यानि रुतानि तत्राप्य् अव्यक्तं पदं तदर्थस् तत्प्रत्ययश् चेति। तद् इह मनुष्यवचनवाच्यप्रत्ययेषु कृतः संयमः समानजातीयतया तेष्व् अपि कृत एवेति। तेषां रुतं तदर्थभेदं तत्प्रत्ययं च योगी जानातीति सिद्धम्॥3.17॥

संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम्॥3.18॥

संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम्। ज्ञानजा हि संस्काराः स्मृतेर् हेतवोऽविद्यादिसंस्कारा अविद्यादीनां क्लेशानां हेतवः। विपाको जात्यायुर्भोगरूपस् तस्य हेतवो धर्माधर्मरूपाः। पूर्वेषु भवेष्व् अभिसंस्कृता निष्पादिताः स्वकारणैर् यथासंस्कृतं व्यञ्जनं कृतम् इति गम्यते। परिणामचेष्टानिरोधशक्तिजीवनान्य् एव धर्माश् चित्तस्य तद्वद् अपरिदृष्टाश् चित्तधर्मास् तेषु श्रुतेष्व् अनुमितेषु सपरिकरेषु संयमः संस्काराणां द्वयेषां साक्षात्क्रियायै समर्थः। अस्तु तत्र संयमात् तत्साक्षात्कारः पूर्वजातिसाक्षात्कारस् तु कुत इत्य् अत आह --- न च देशेति। निमित्तं पूर्वशरीरम् इन्द्रियादि च। सानुबन्धसंस्कारसाक्षात्कार एव नान्तरीयकतया जात्यादिसाक्षात्कारम् आक्षिपतीत्य् अर्थः। स्वसंस्कारसंयमं परकीयेष्व् अतिदिशति --- परत्राप्य् एवम् इति। अत्र श्रद्धोत्पादे हेतुम् अनुभवत आवट्यस्य जैगीषव्येण संवादम् उपन्यस्यति --- अत्रेदम् आख्यानं श्रूयत इति। महाकल्पो महासर्गः। तनुधर इति निर्माणकायसंपद् उक्ता। भव्यः शोभनो विगलितरजस्तमोमल इत्य् अर्थः। प्रधानवशित्वम् अइश्वर्यं तेन हि प्रधानं विक्षोभ्य यस्मै यादृशीं कायेन्द्रियसंपदं दित्सति तस्मै तादृशीं दत्ते। स्वकीयानि च कायेन्द्रियसहस्राणि निर्मायान्तरिक्षे दिवि भुवि च यथेच्छं विहरतीति। संतोषो हि तृष्णाक्षयो बुद्धिसत्त्वस्य प्रशान्तता धर्मः॥3.18॥

प्रत्ययस्य परचित्तज्ञानम्॥3.19॥

प्रत्ययस्य परचित्तज्ञानम्। परप्रत्ययस्य चित्तमात्रस्य साक्षात्करणाद् इति॥3.19॥

न च तत् सालम्बनं तस्याविषयीभूतत्वात्॥3.20॥

यथा संस्कारसाक्षात्कारस् तदनुबन्धपूर्वजन्मसाक्षात्कारम् आक्षिपत्य् एवं परचित्तसाक्षात्कारोऽपि तदालम्बनसाक्षात्कारम् आक्षिपेद् इति प्राप्त आह --- न च तत् सालम्बनं तस्याविषयीभूतत्वात्। सानुबन्धसंस्कारविषयो ऽसौ संयमोऽयं तु परचित्तमात्रविषय इत्य् अभिप्रायः॥3.20॥

कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशासंप्रयोगेऽन्तर्धानम्॥3.21॥

कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशसंप्रयोगेऽन्तर्धानम्। पञ्चात्मकः कायः। स च रूपवत्तया चाक्षुषो भवति। रूपेण हि कायश् च तद्रूपं च चक्षुर्ग्रहणकर्मशक्तिम् अनुभवति। तत्र यदा रूपे संयमविशेषो योगिना क्रियते तदा रूपस्य ग्राह्यशक्ती रूपवत्कायप्रत्यक्षताहेतुः स्तम्भ्यते। तस्माद् ग्राह्यशक्तिस्तम्भे सत्य् अन्तर्धानं योगिनस् ततः परकीयचक्षुर्जनितेन प्रकाशेन ज्ञानेनासंप्रयोगश् चक्षुर्ज्ञानाविषयत्वं योगिनः कायस्येति यावत्। तस्मिन् कर्तव्येऽन्तर्धानं कारणम् इत्य् अर्थः। एतेनेति। कायशब्दस्पर्शरसगन्धसंयमात् तद्ग्राह्यशक्तिस्तम्भे श्रोत्रत्वग्रसनघ्राणप्रकाशासंप्रयोगेऽन्तर्धानम् इति सूत्रम् ऊहनीयम्॥3.21॥

सोपक्रमं निरुपक्रमं च कर्म तत्संयमाद् अपरान्तज्ञानम् अरिष्टेभ्यो वा॥3.22॥

सोपक्रमं निरुपक्रमं च कर्म तत्संयमाद् अपरान्तज्ञानम् अरिष्टेभ्यो वा। आयुर्विपाकं च कर्म द्विविधं सोपक्रमं निरुपक्रमं च। यत् खल्व् अइकभविकं कर्म जात्यायुर्भोगहेतुस् तद् आयुर्विपाकम्। तच् च किंचित्कालानपेक्षम् एव भोगदानाय प्रस्थितं दत्तबहुभोगम् अल्पावशिष्टफलं प्रवृत्तव्यापारं केवलं तत्फलस्य सहसा भोक्तुम् एकेन शरीरेणाशक्यत्वाद् विलम्बते तद् इदं सोपक्रमम्। उपक्रमो व्यापारस् तत्सहितम् इत्य् अर्थः। तद् एव तु दत्तस्तोकफलं तत्कालम् अपेक्ष्य फलदानाय व्याप्रियमाणं कादाचित्कमन्दव्यापारं निरुपक्रमम्। एतद् एव निदर्शनाभ्यां विशदयति --- तत्र यथेति। अत्रैवातिवैशद्याय निदर्शनान्तरं दर्शयति --- यथा वाग्निर् इति। परान्तं महाप्रलयम् अपेक्ष्यापरान्तो मरणम्। तस्मिन् कर्मणि धर्माधर्मयोः संयमाद् अपरान्तज्ञानम्। ततश् च योगी सोपक्रमम् आत्मनः कर्म विज्ञाय बहून् कायान् निर्माय सहसा फलं भुक्त्वा स्वेच्छया म्रियते। प्रासङ्गिकम् आह --- अरिष्टेभ्यो वा। अरिवत् त्रासयन्तीत्य् अरिष्टानि त्रिविधानि मरणचिह्नानि। विपरीतं वा सर्वं माहेन्द्रजालादिव्यतिरेकेण ग्रामनगरादि स्वर्गम् अभिमन्यते, मनुष्यलोकम् एव देवलोकम् इति॥3.22॥

मैत्र्यादिषु बलानि॥3.23॥

मैत्र्यादिषु बलानि। मैत्र्यादिषु संयमान् मैत्र्यादिबलान्य् अस्य भवन्ति। तत्र मैत्रीभावनातो बलं येन जीवलोकं सुखाकरोति ततः सर्वहितो भवति। एवं करुणाबलात् प्राणिनो दुःखाद् दुःखहेतोर् वा समुद्धरति। एवं मुदिताबलाज् जीवलोकस्य माध्यस्थ्यम् आधत्ते। वक्ष्यमाणौपयिकं भावनाकारणत्वं समाधेर् आह --- भावनातः समाधिर् यः स संयमः। यद्य् अपि धारणाध्यानसमाधित्रयम् एव संयमो न समाधिमात्रं तथापि समाध्यनन्तरं कार्योत्पादात् समाध्एः प्राधान्यात् तत्र संयम उपचरितः। क्वचिद् भावना समाधिर् इति पाठः। तत्र भावनासमाधी समूहस्य संयमस्यावयवौ हेतू भवतः। वीर्यं प्रयत्नः, तेन मैत्र्यादिबलवतः पुंसः सुखितादिषु परेषां कर्तव्येषु प्रयत्नोऽवन्ध्यो भवतीति। उपेक्षौदासीन्यं, न तत्र भावना नापि सुखादिवद् भाव्यं किंचिद् अस्तीति॥3.23॥

बलेषु हस्तिबलादीनि॥3.24॥

बलेषु हस्तिबलादीनि। यस्य बले संयमस् तस्य बलं लभत इति॥3.24॥

प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम्॥3.25॥

प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम्। सूक्ष्मे व्यवहिते विप्रकृष्टे वार्थे संयमेन विन्यस्य तम् अधिगच्छति॥3.25॥

भुवनज्ञानं सूर्ये संयमात्॥3.26॥

भुवनज्ञानं सूर्ये संयमात्। आ ध्रुवादितो मेरुपृष्ठात्। तद् एवम् अनेन संग्रहश्लोकान्तेन संक्षेपतः सप्त लोकान् उपन्यस्य विस्तरेणाह --- तत्रावीचेर् इति। घनशब्देन पृथिव्य् उच्यते। भूमिः स्थानम् इत्य् अर्थः। एते महानरका अनेकोपनरकपरिवारा बोद्धव्याः। एतान् एव नामान्तरेणोपसंहरति --- महेति। तस्य सूर्यप्रचाराद् रात्रिंदिवं लग्नम् इव वर्तते। यम् एवास्य भागं सूर्यस् त्यजति तत्र रात्रिः। यम् एव भागम् अलंकरोति तत्र दिनम् इति। सकलजम्बूद्वीपपरिमाणम् आह --- तद् एतद् योजनशतसाहस्रम्। किंभूतं योजनानां शतसाहस्रम् इत्य् आह --- सुमेरोर् दिशि दिशि तदर्धेन पञ्चाशद्योजनसहस्रेण व्यूढं संक्षिप्तम्। यतोऽस्य मध्यस्थः सुमेरुः समुद्राश् च सर्षपराशिकल्पा इति द्विगुणा द्विगुणा इति संबन्धः। यथा सर्षपराशिर् न व्रीहिराशिर् इवोच्छ्रितो नापि भूमिसमस् तथा समुद्रा अपीत्य् अर्थः। विचित्रैः शैलैर् अवतंसैर् इव सह वर्तन्त इति सविचित्रशैलावतंसा द्वीपाः। तद् एतत् सर्वं सद्वीपविपिननगनगरनीरधिमालावलयं लोकालोकपरिवृतं विश्वंभरामण्डलं ब्रह्माण्डमध्ये व्यूढं संक्षिप्तं सुप्रतिष्ठितं संस्थानं संनिवेशो यस्य तत् तथोक्तम्। ये यत्र प्रतिवसन्ति तत्र तान् दर्शयति --- तत्र पाताल इति। सुमेरोः संनिवेशम् आह --- सुमेरुर् इति। तद् एवं भूर्लोकं सप्रकारम् उक्त्वा सप्रकारम् एवान्तरीक्षलोकम् आह --- ग्रहेति। विक्षेपो व्यापारः। स्वर्लोकम् आदर्शयति --- माहेन्द्रनिवासिन इति। देवनिकाया देवजातयः। षण्णाम् अपि देवनिकायानां रूपोत्कर्षम् आह --- सर्वे संकल्पसिद्धा इति। संकल्पमात्राद् एवैषां विषया उपनमन्ति। वृन्दारकाः पूज्याः। कामभोगिनो मैथुनप्रियाः। अउपपादिकदेहाः पित्रोः संयोगम् अन्तरेणाकस्माद् एव दिव्यं शरीरम् एषां धर्मविशेषातिसंस्कृतेभ्योऽणुभ्यो भूतेभ्यो भवतीति। महर्लोकम् आह --- महतीति। महाभूतवशिनः। यद् यद् एतेभ्यो रोचते तत् तद् एव महाभूतानि प्रयच्छन्ति। तदिच्छातश् च महाभूतानि तेन तेन संस्थानेनावतिष्ठन्ते। ध्यानाहारा ध्यानमात्रतृप्ताः पृष्टा भवन्ति। जनलोकम् आह --- प्रथम इत्य् उक्तक्रमेण। भूतेन्द्रियवशिन इति। भूतानि पृथिव्यादीनीन्द्रियाणि श्रोत्रादीनि यथा नियोक्तुम् इच्छन्ति तथैव नियुज्यन्ते। उक्तक्रमापेक्षया द्वितीयं ब्रह्मणस् तपोलोकम् आह --- द्वितीय इति। भूतेन्द्रियप्रकृतिवशिन इति। प्रकृतिः पञ्च तन्मात्राणि तद्वशिनस् तदिच्छातो हि तन्मात्राण्य् एव कायाकारेण परिणमन्त इत्य् आगमिनः। द्विगुणेत्य् आभास्वरेभ्यो द्विगुणायुषो महाभास्वरास् तेभ्यो ऽपि द्विगुणायुषः सत्यमहाभास्वरा इत्य् अर्थः। ऊर्ध्वम् इत्य् ऊर्ध्वं सत्यलोकेऽप्रतिहतज्ञाना अवीचेस् तु प्रभृत्य् आ तपोलोकं सूक्ष्मव्यवहितादि सर्वं विजानन्तीत्य् अर्थः। तृतीयं ब्रह्मणः सत्यलोकम् आह --- तृतीय इति। अकृतो भवनस्य गृहस्य न्यासो यैस् ते तथोक्ताः। आधाराभावाद् एव स्वप्रतिष्ठाः। स्वेषु शरीरेषु प्रतिष्ठा येषां ते तथोक्ताः। प्रधानवशिनस् तदिच्छातः सत्त्वरजस्तमांसि प्रवर्तन्ते यावत्सर्गायुषः। तथा च श्रूयते ---

"ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्" [कूर्मपुराणम् पूर्वखण्डः 12.269] इति॥

तद् एवं चतुर्णां देवनिकायानां साधारणधर्मान् उक्त्वा नामविशेषग्रहणेन धर्मविशेषान् आह --- तत्रेति। अच्युता नाम देवाः स्थूलविषयध्यानसुखास् तेन ते तृप्यन्ति। शुद्धनिवासा नाम देवाः सूक्ष्मविषयध्यानसुखास् तेन ते तृप्यन्ति। सत्याभा नाम देवा इन्द्रियविषयध्यानसुखास् तेन ते तृप्यन्ति। संज्ञासंज्ञिनो नाम देवा अस्मितामात्रध्यानसुखास् तेन ते तृप्यन्ति। त एते सर्वे संप्रज्ञातसमाधिम् उपासते। अथासंप्रज्ञातसमाधिनिष्ठा विदेहप्रकृतिलयाः कस्मान् न लोकमध्ये न्यस्यन्त इत्य् अत आह --- विदेहप्रकृतिलयास् त्व् इति। बुद्धिवृत्तिमन्तो हि दर्शितविषया लोकयात्रां वहन्तो लोकेषु वर्तन्ते। न चैवं विदेहप्रकृतिलयाः सत्य् अपि साधिकारत्व इत्य् अर्थः। तद् एतद् आ सत्यलोकम् आ चावीचेर् योगिना साक्षात्करणीयं, सूर्यद्वारे सुषुम्नायां नाड्याम्। न चैतावतापि तत्साक्षात्कारो भवतीत्य् अत आह --- एवं तावद् अन्यत्रापि सुषुम्नाया अन्यत्रापि योगोपाध्यायोपदिष्टेषु यावद् इदं सर्वं जगद् दृष्टम् इति। बुद्धिसत्त्वं हि स्वभावत एव विश्वप्रकाशनसमर्थं तमोमलावृतं यत्रैव रजसोद्घाट्यते तद् एव प्रकाशयति। सूर्यद्वारसंयमोद्घाटितं तु भुवनं प्रकाशयति। न चैवम् अन्यत्रापि प्रसङ्गस् तत्संयमस्य तावन्मात्रोद्घाटनसामर्थ्याद् इति सर्वम् अवदातम्॥3.26॥

चन्द्रे ताराव्यूहज्ञानम्॥3.27॥

ध्रुवे तद्गतिज्ञानम्॥3.28॥

नाभिचक्रे कायव्यूहज्ञानम्॥3.29॥

कण्ठकूपे क्षुत्पिपासानिवृत्तिः॥3.30॥

कूर्मनाड्यां स्थैर्यम्॥3.31॥

चन्द्रे ताराव्यूहज्ञानम्। ध्रुवे तद्गतिज्ञानम्। नाभिचक्रे कायव्यूहज्ञानम्। कण्ठकूपे क्षुत्पिपासानिवृत्तिः। कूर्मनाड्यां स्थैर्यम्। तत्र तत्र जिज्ञासायां योगिनस् तत्र तत्र संयमः। एवं क्षुत्पिपासानिवृत्तिहेतुः संयमः स्थैर्यहेतुश् च सूत्रपदैर् उपदिष्टो भाष्येण च निगदव्याख्यातेन व्याख्यात इति न व्याख्यातः॥3.27॥3.28॥3.29॥3.30॥3.31॥

मूर्धज्योतिषि सिद्धदर्शनम्॥3.32॥

मूर्धज्योतिषि सिद्धदर्शनम्। मूर्धशब्देन सुषुम्ना नाडी लक्ष्यते तत्र संयम इति॥3.32॥

प्रातिभाद् वा सर्वम्॥3.33॥

प्रातिभाद् वा सर्वम्। प्रतिभोहस् तद्भवं प्रातिभम्। प्रसंख्यानहेतुसंयमवतो हि तत्प्रकर्षे प्रसंख्यानोदयपूर्वलिङ्गं यद् ऊहजं ज्ञानं तेन सर्वं विजानाति योगी। तच् च प्रसंख्यानसंनिधापनेन संसारात् तारयतीति तारकम्॥3.33॥

हृदये चित्तसंवित्॥3.34॥

हृदये चित्तसंवित्। हृदयपदं व्याचष्टे --- यद् इदम् अस्मिन् ब्रह्मपुरे। बृहत्त्वाद् आत्मा ब्रह्म तस्य पुरं निलयस् तद् धि तत्र विजानाति स्वम् इति। दहरं गर्तं तद् एव पुण्डरीकम् अधोमुखं वेश्म मनसः। चित्तसंवेदनत्वे हेतुम् आह --- तत्र विज्ञानं तत्र संयमाच् चित्तं विजानाति स्ववृत्तिविशिष्टम्॥3.34॥

सत्त्वपुरुषयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात् स्वार्थसंयमात् पुरुषज्ञानम्॥3.35॥

सत्त्वपुरुषयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात् स्वार्थसंयमात् पुरुषज्ञानम्। यत्र प्रकाशरूपस्यातिस्वच्छस्य नितान्ताभिभूतरजस्तमस्तया विवेकख्यातिरूपेण परिणतस्य बुद्धिसत्त्वस्यात्यन्तिकश् चैतन्याद् असंकरस् तत्र कैव कथा रजस्तमसोर् जडस्वभावयोर् इत्य् आशयवान् सूत्रकारः सत्त्वपुरुषयोर् इत्य् उवाच। इमम् एवाभिप्रायं गृहीत्वा भाष्यकारो ऽप्य् आह --- बुद्धिसत्त्वं प्रख्याशीलम् इति। न प्रख्याशीलमात्रम् अपि तु विवेकख्यातिरूपेण परिणतम् अतो नितान्तशुद्धप्रकाशतयात्यन्तसारूप्यं चैतन्येनेति संकर इत्य् अत आह --- समानेति। सत्त्वेनोपनिबन्धनम् अविनाभावः संबन्धः, समानं सत्त्वोपनिबन्धनं ययो रजस्तमसोस् ते तथोक्ते। वशीकारोऽभिभवः। असंकरम् आह --- तस्माच् चेति। चकारोऽप्यर्थः। न केवलं रजस्तमोभ्याम् इत्य् अर्थः। परिणामिन इति वैधर्म्यम् अपरिणामिनः पुरुषाद् उक्तम्। प्रत्ययाविशेषः शान्तघोरमूढरूपाया बुद्धेश् चैतन्यबिम्बोद्ग्राहेण चैतन्यस्य शान्ताद्याकाराध्यारोपश् चन्द्रमस इव स्वच्छसलिलप्रतिबिम्बितस्य तत्कम्पात् कम्पनारोपः। भोगहेतुम् आह --- दर्शितविषयत्वाद् इति। असकृद् व्याख्यातम्। ननु बुद्धिसत्त्वम् अस्तु पुरुषभिन्नं भोगस् तु पुंसः कुतो भिद्यत इत्य् अत आह --- स भोगप्रत्ययो भोगरूपः प्रत्ययः सत्त्वस्यातः परार्थत्वाद् दृश्यो भोग्यः। सत्त्वं हि परार्थं संहतत्वात् तद्धर्मश् च भोग इति सो ऽपि परार्थः। यस्मै च परस्मा असौ तस्य भोक्तुर् भोग्यः। अथवानुकूलप्रतिकूलवेदनीयस् तु सुखदुःखानुभवो भोगः। न चायम् आत्मानम् एवानुकूलयति प्रतिकूलयति वा, स्वात्मनि वृत्तिविरोधाद् अतोऽनुकूलनीयप्रतिकूलनीयार्थो भोगः। स भोक्तात्मा तस्य दृश्यो भोग्य इति। यस् तु तस्मात् परार्थाद् विशिष्ट इति। परार्थाद् इति पञ्चम्यन्यपदाध्याहारेण व्याख्याता। स्याद् एतत् पुरुषविषया चेत् प्रज्ञा हन्त भोः पुरुषः प्रज्ञायाः प्रज्ञेय इति प्रज्ञान्तरम् एव तत्र तत्रेत्य् अनवस्थापात इत्य् अत आह --- न च पुरुषप्रत्ययेनेति। अयम् अभिसंधिः --- चित्या जडः प्रकाश्यते। न जडेन चितिः। पुरुषप्रत्ययस् त्व् अचिदात्मा कथं चिदात्मानं प्रकाशयेत्। चिदात्मा त्व् अपराधीनप्रकाशो जडं प्रकाशयतीति युक्तम्। बुद्धिसत्त्वात्मनेत्य् अचिद्रूपतादात्म्येन जडत्वम् आह। बुद्धिसत्त्वगतपुरुषप्रतिबिम्बालम्बनात् पुरुषालम्बनं न तु पुरुषप्रकाशनात् पुरुषालम्बनम्। बुद्धिसत्त्वम् एव तु तेन प्रत्ययेन संक्रान्तपुरुषप्रतिबिम्बं पुरुषच्छायापन्नं चैतन्यम् आलम्बत इति पुरुषार्थः। अत्रैव श्रुतिम् उदाहरति --- तथा ह्य् उक्तम् ईश्वरेण विज्ञातारम् इति। न केनचिद् इत्य् अर्थः॥3.35॥

ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते॥3.36॥

स च स्वार्थसंयमो न यावत् प्रधानं स्वकार्यं पुरुषज्ञानम् अभिनिर्वर्तयति तावत् तस्य पुरस्ताद् या विभूतीर् आधत्ते ताः सर्वा दर्शयति --- ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते। तद् अनेन योगजधर्मानुगृहीतानां मनःश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानां यथासंख्यं प्रातिभज्ञानदिव्यशब्दाद्यपरोक्षहेतुभावा उक्ताः। श्रोत्रादीनां पञ्चानां दिव्यशब्दाद्युपलम्भकानां तान्त्रिक्यः संज्ञाः श्रावणाद्याः। सुगमं भाष्यम्॥3.36॥

ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः॥3.37॥

कदाचिद् आत्मविषयसंयमे प्रवृत्तस् तत्प्रभावाद् अमूर् अर्थान्तरसिद्धीर् अधिगम्य कृतार्थमन्यः संयमाद् विरमेद् अत आह --- ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः। व्युत्थितचित्तो हि ताः सिद्धीर् अभिमन्यते। जन्मदुर्गत इव द्रविणकणिकाम् अपि द्रविणसंभारम्। योगिना तु समाहितचित्तेनोपनताभ्योऽपि ताभ्यो विरन्तव्यम्। अभिसंहिततापत्रयात्यन्तिकोपशमरूपपरमपुरुषार्थः स खल्व् अयं कथं तत्प्रत्यनीकासु सिद्धिषु रज्येतेति सूत्रभाष्ययोर् अर्थः॥3.37॥

बन्धकारणशैथिल्यात् प्रचारसंवेदनाच् च चित्तस्य परशरीरावेशः॥3.38॥

तद् एवं ज्ञानरूपम् अइश्वर्यं पुरुषदर्शनान्तं संयमफलम् उक्त्वा क्रियारूपम् अइश्वर्यं संयमफलम् आह --- बन्धकारणशैथिल्यात् प्रचारसंवेदनाच् च चित्तस्य परशरीरावेशः। समाधिबलाद् इति। बन्धकारणविषयसंयमबलात् प्राधान्यात् समाधिग्रहणम्। प्रचरत्य् अनेनास्मिन्न् इति प्रचारः। चित्तस्य गमागमाध्वानो नाड्यस् तस्मिन् प्रचारे संयमात् तद्वेदनं, तस्माच् च बन्धकारणशैथिल्यान् न तेन प्रतिबध्यते। अप्रतिबद्धम् अप्य् उन्मार्गेण गच्छन् न स्वशरीराद् अप्रत्यूहं निष्क्रामति। न च परशरीरम् आविशति। तस्मात् तत्प्रचारोऽपि ज्ञातव्यः। इन्द्रियाणि च चित्तानुसारीणि परशरीरे यथाधिष्ठानं निविशन्त इति॥3.38॥

उदानजयाज् जलपङ्ककण्टकादिष्व् असङ्ग उत्क्रान्तिश् च॥3.39॥

उदानजयाज् जलपङ्ककण्टकादिष्व् असङ्ग उत्क्रान्तिश् च। समस्तेन्द्रियवृत्तिर् जीवनं प्राणादिलक्षणा प्राणादयो लक्षणं यस्याः सा तथोक्ता। द्वयीन्द्रियाणां वृत्तिर् बाह्याभ्यन्तरी च। बाह्या रूपाद्यालोचनलक्षणा। आभ्यन्तरी तु जीवनं, सा हि प्रयत्नभेदः शरीरोपगृहीतमारुतक्रियाभेदहेतुः सर्वकरणसाधारणः। यथाहुः ---

"सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च" [सांख्यकारिका 29] इति।

तैर् अस्य लक्षणीयत्वात् तस्य प्रयत्नस्य क्रिया कार्यं पञ्चतयी। प्राण आ नासिकाग्राद् आ च हृदयाद् अवस्थितः। अशितपीताहारपरिणतिभेदं रसं तत्र तत्र स्थाने समम् अनुरूपं नयन् समानः। आ हृदयाद् आ च नाभेर् अस्यावस्थानम्। मूत्रपुरीषगर्भादीनाम् अपनयनहेतुर् अपानः। आ नाभेर् आ च पादतलाद् अस्य वृत्तिः। उन्नयनाद् ऊर्ध्वं नयनाद् रसादीनाम् उदानः। आ नासिकाग्राद् आ च शिरसो वृत्तिर् अस्य। व्यापी व्यानः। एषाम् उक्तानां प्रधानं प्राणस् तदुत्क्रमे सर्वोत्क्रमश्रुतेः "प्राणम् उत्क्रामन्तम् अनु सर्वे प्राणा उत्क्रामन्ति" [बृहदारण्यकोपनिषत् 4.4.2] इति। तद् एवं प्राणादीनां क्रियास्थानभेदेन भेदं प्रतिपाद्य सूत्रार्थम् अवतारयति --- उदानजयाद् इति। उदाने कृतसंयमस् तज्जयाज् जलादिभिर् न प्रतिहन्यते। उत्क्रान्तिश् चार्चिरादिमार्गेण भवति प्रायणकाले। तस्मात् ताम् उत्क्रान्तिं वशित्वेन प्रतिपद्यते। प्राणादिसंयमात् तद्विजये भूतजय एताः क्रियाः स्थानविजयादिभेदात् प्रतिपत्तव्याः॥3.39॥

समानजयाज् ज्वलनम्॥3.40॥

समाजनयाज् ज्वलनम्। तेजसः शारीरस्योपध्मानम् उत्तेजनम्॥3.40॥

श्रोत्राकाशयोः संबन्धसंयमाद् दिव्यं श्रोत्रम्॥3.41॥

स्वार्थसंयमाद् अन्वाचयशिष्टं श्रावणाद्य् उक्तं संप्रति श्रावणाद्यर्थाद् एव संयमाच् छ्रावणादि भवतीत्य् आह --- श्रोत्राकाशयोः संबन्धसंयमाद् दिव्यं श्रोत्रम्। संयमविषयं श्रोत्राकाशयोः संबन्धम् आधाराधेयभावम् आह --- सर्वश्रोत्राणाम् आहंकारिकाणाम् अप्य् आकाशं कर्णशष्कुलीविवरं प्रतिष्ठा तदायतनं श्रोत्रं तदुपकारापकाराभ्यां श्रोत्रस्योपकारापकारदर्शनात्। शब्दानां च श्रोत्रसहकारिणां पार्थिवादिशब्दग्रहणे कर्तव्ये कर्णशष्कुलीसुषिरवर्ति श्रोत्रं स्वाश्रयनभोगतासाधारणशब्दम् अपेक्षते। गन्धादिगुणसहकारिभिर् घ्राणादिभिर् बाह्यं पृथिव्यादिवर्तिगन्धाद्यालोचने कार्ये दृष्टम्। आहंकारिकम् अपि घ्राण्रसनत्वक्चक्षुःश्रोत्रं भूताधिष्ठानम् एव भूतोपकारापकाराभ्यां घ्राणादीनाम् उपकारापकारदर्शनाद् इत्य् उक्तम्। तच् चेदं श्रोत्रम् आहंकारिकम् अयःप्रतिमम् अयस्कान्तमणिकल्पेन वक्तृवक्त्रसमुत्पन्नेन वक्त्रस्थेन शब्देनाकृष्टं स्ववृत्तिपरम्परया वक्तृवक्त्रम् आगतं शब्दम् आलोचयति। तथा च दिग्देशवर्तिशब्दप्रतीतिः प्राणभृन्मात्रस्य नासति बाधकेऽप्रमाणीकृता भविष्यतीति। तथा च पञ्चशिखस्य वाक्यम् --- तुल्यदेशश्रवणानाम् एकदेशश्रुतित्वं सर्वेषां भवतीति। तुल्यदेशानि श्रवणानि श्रोत्राणि येषां चैत्रादीनां ते तथोक्ताः। सर्वेषां श्रवणान्य् आकाशवर्तीनीत्य् अर्थः। तच् च श्रोत्राधिष्ठानम् आकाशं शब्दगुणतन्मात्राद् उत्पन्नं शब्दगुणकं येन शब्देन सहकारिणा पार्थिवादीञ् शब्दान् गृह्णाति। तस्मात् सर्वेषाम् एकजातीया श्रुतिः शब्द इत्य् अर्थः। तद् अनेन श्रोत्राधिष्ठानत्वम् आकाशस्य शब्दगुणत्वं च दर्शितम् इति। तच् चैकदेशश्रुतित्वम् आकाशस्य लिङ्गम्। सा ह्य् एकजातीया शब्दव्यञ्जिका श्रुतिर् यदाश्रया तद् एवाकाशशब्दवाच्यम्। न हीदृशीं श्रुतिम् अन्तरेण शब्दव्यक्तिः। न चेदृशी श्रुतिः पृथिव्यादिगुणस् तस्य स्वात्मनि व्यङ्ग्यव्यञ्जकत्वानुपपत्तेर् इति। अनावरणं चाकाशलिङ्गम्। यद्य् आकाशं नाभविष्यद् अन्योन्यसंपिण्डितानि मूर्तानि न सूचीभिर् अप्य् अभेत्स्यन्त। ततश् च सर्वैर् एव सर्वम् आवृतं स्यात्। न च मूर्तद्रव्याभावमात्राद् एवानावरणम् अस्याभावस्य भावाश्रितत्वेन तदभावेऽभावात्। न च चितिशक्तिस् तदाश्रया भवितुम् अर्हति। अपरिणामितयावच्छेदकत्वाभावात्। न च दिक्कालादयः पृथिव्यादिद्रव्यव्यतिरिक्ताः सन्ति। तस्मात् तादृशः परिणतिभेदो नभस एवेति सर्वम् अवदातम्। अनावरणे चाकाशलिङ्गे सिद्धे यत्र यत्रानावरणं तत्र तत्र सर्वत्राकाशम् इति सर्वगतत्वम् अप्य् आकाशस्य सिद्धम् इत्य् आह --- तथामूर्तस्येति। श्रोत्रसद्भावे प्रमाणम् आह --- शब्दग्रहणेति। क्रिया हि करणसाध्या दृष्टा। यथा छिदादिर् वास्यादिसाध्या। तद् इह शब्दग्रहणक्रिययापि करणसाध्यया भवितव्यं, यच् च करणं तच् च श्रोत्रम् इति। अथास्याश् चक्षुरादय एव कस्मात् करणं न भवन्तीत्य् अत आह --- बधिराबधिरयोर् इति। अन्वयव्यतिरेकाभ्याम् अवधारणम्। उपलक्षणं चैतत् त्वग्वातयोश् चक्षुस्तेजसो रसनोदकयोर् नासिकापृथिव्योः संबन्धसंयमाद् दिव्यत्वगाद्य् अप्य् ऊहनीयम्॥3.41॥

कायाकाशयोः संबन्धसंयमाल् लघुतूलसमापत्तेश् चाकाशगमनम्॥3.42॥

कायाकशयोः संबन्धसंयमाल् लघुतूलसमापत्तेश् चाकाशगमनम्। कायाकाशसंबन्धसंयमाद् वा लघुनि वा तूलादौ कृतसंयमात् समापत्तिं चेतसस् तत्स्थतदञ्जनतां लब्ध्वेति। सिद्धिक्रमम् आह --- जल इति॥3.42॥

बहिर् अकल्पिता वृत्तिर् महाविदेहा ततः प्रकाशावरणक्षयः॥3.43॥

अपरम् अपि परशरीरावेशहेतुं संयमं क्लेशकर्मविपाकक्षयहेतुं चाह --- बहिर् अकल्पिता वृत्तिर् महाविदेहा ततः प्रकाशावरणक्षयः। विदेहाम् आह --- शरीराद् इति। अकल्पिताया महाविदेहाया य उपायस् तत्प्रदर्शनाय कल्पितां विदेहाम् आह --- सा यदीति। वृत्तिमात्रं कल्पनाज्ञानमात्रं तेन। महाविदेहाम् आह --- या त्व् इति। उपायोपेयते कल्पिताकल्पितयोर् आह --- तत्रेति। किं परशरीरावेशमात्रम् इतो नेत्य् आह --- ततश् चेति। ततो धारणातो महाविदेहाया मनःप्रवृत्तेः सिद्धिः। क्लेशश् च कर्म च ताभ्यां विपाकत्रयं जात्यायुर्भोगाः। तद् एतद् रजस्तमोमूलं विगलितरजस्तमसः सत्त्वमात्राद् विवेकख्यातिमात्रसमुत्पादात्। तद् एतद् विपाकत्रयं रजस्तमोमूलतया तदात्मकं सद्बुद्धिसत्त्वम् आवृणोति। तत्क्षयाच् च निरावरणं योगिचित्तं यथेच्छं विहरति विजानाति चेति॥3.43॥

स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः॥3.44॥

स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः। स्थूलं च स्वरूपं च सूक्ष्मं चान्वयश् चार्थवत्त्वं चेति स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वानि तेषु संयमात् तज्जयः। स्थूलम् आह --- तत्रेति। पार्थिवाः पाथसीयास् तैजसा वायवीया आकाशीयाः शब्दस्पर्शरूपरसगन्धा यथासंभवं विशेषाः षड्जगान्धारादयः शीतोष्णादयो नीलपीतादयः कषायमधुरादयः सुरभ्यादयः। एते हि नामरूपप्रयोजनैः परस्परतो भिद्यन्त इति विशेषाः। एतेषां पञ्च पृथिव्यां गन्धवर्जं चत्वारोऽप्सु गन्धरसवर्जं त्रयस् तेजसि गन्धरसरूपवर्जं द्वौ नभस्वति शब्द एवाकाशे। त एव ईदृशा विशेषाः सहाकारादिभिर् धर्मैः स्थूलशब्देन परिभाषिताः शास्त्रे। तत्रापि पार्थिवास् तावद् धर्माः ---

"आकारो गौरवं रौक्ष्यं वरणं स्थैर्यम् एव च। वृत्तिर् भेदः क्षमा कार्ष्ण्यं काठिन्यं सर्वभोग्यता"॥

अपां धर्माः ---

"स्नेहः सौक्ष्म्यं प्रभा शौक्ल्यं मार्दवं गौरवं च यत्। शैत्यं रक्षा पवित्रत्वं संधानं चौदका गुणाः"॥

तैजसा धर्माः ---

"ऊर्ध्वभाक् पाचकं दग्धृ पावकं लघु भास्वरम्। प्रध्वंस्य् ओजस्वि वै तेजः पूर्वाभ्यां भिन्नलक्षणम्"॥

वायवीया धर्माः ---

"तिर्यग्यानं पवित्रत्वम् आक्षेपो नोदनं बलम्। चलमच्छायता रौक्ष्यं वायोर् धर्माः पृथग्विधाः"॥

आकाशीया धर्माः ---

"सर्वतोगतिर् अव्यूहोऽविष्टम्भश् चेति ते त्रयः। आकाशधर्मा व्याख्याताः पूर्वधर्मविलक्षणाः" इति॥

त एत आकारप्रभृतयो धर्मास् तैः सहेति। आकारश् च सामान्यविशेषो गोत्वादिः। द्वितीयं रूपम् आह --- द्वितीयं रूपं स्वसामान्यम्। मूर्तिः सांसिद्धिकं काठिन्यम्। स्नेहो जलं मृजापुष्टिबलाधानहेतुः। वह्निर् उष्णतोदर्ये सौर्ये भौमे च सर्वत्रैव तेजसि समवेतोष्णतेति। सर्वं चैतद् धर्मधर्मिणोर् अभेदविवक्षयाभिधानम्। वायुः प्रणामी वहनशीलः। तद् आह ---

"चलनेन तृणादीनां शरीरस्याटनेन च। सर्वगं वायुसामान्यं नामित्वम् अनुमीयते"॥

सर्वतोगतिर् आकाशः सर्वत्र शब्दोपलब्धिदर्शनात्। श्रोत्राश्रयाकाशगुणेन हि शब्देन पार्थिवादिशब्दोपलब्धिर् इत्य् उपपादितम् अधस्तात्। एतत् स्वरूपशब्देनोक्तम्। अस्यैव मूर्त्यादिसामान्यस्य शब्दादयः षड्जादय उष्णत्वादयः शुक्लत्वादयः कषायत्वादयः सुरभित्वादयो मूर्त्यादीनां सामान्यानां भेदाः। सामान्यान्य् अपि मूर्त्यादीनि जम्बीरपनसामलकफलादीनि रसादिभेदात् परस्परं व्यावर्तन्ते। तेनैतेषाम् एते रसादयो विशेषाः। तथा चोक्तम् --- एकजातिसमन्वितानां प्रत्येकं पृथिव्यादीनाम् एकैकया जात्या मूर्तिस्नेहादिना समन्वितानाम् एषां षड्जादिधर्ममात्रव्यावृत्तिर् इति। तद् एवं सामान्यं मूर्त्याद्य् उक्तं विशेषाश् च शब्दादय उक्ताः। ये चाहुः सामान्यविशेषाश्रयो द्रव्यम् इति तान् प्रत्याह --- सामान्यविशेषसमुदायोऽत्र दर्शने द्रव्यम्। येऽपि तदाश्रयो द्रव्यम् आस्थिषत तैर् अपि तत्समुदायोऽनुभूयमानो नापह्नोतव्यः। न च तदपह्नवे तयोर् आधारो द्रव्यम् इति भवति। तस्मात् तद् एवास्तु द्रव्यम्। न तु ताभ्यां तत्समुदायाच् च तदाधारम् अपरं द्रव्यम् उपलभामहे। ग्रावभ्यो ग्रावसमुदायाद् इव च तदाधारम् अपरं पृथग्विधं शिखरम्। समूहो द्रव्यम् इत्य् उक्तं तत्र समूहमात्रं द्रव्यम् इति भ्रमापनुत्तये समूहविशेषो द्रव्यम् इति निर्धारयितुं समूहप्रकारान् आह --- द्विष्ठो हीति। यस्माद् एवं तस्मान् न समूहमात्रं द्रव्यम् इत्य् अर्थः। द्वाभ्यां प्रकाराभ्यां तिष्ठतीति द्विष्ठः। एकं प्रकारम् आह --- प्रत्यस्तमितेति। प्रत्यस्तमितो भेदो येषाम् अवयवानां ते तथोक्ताः। प्रत्यस्तमितभेदा अवयवा यस्य स तथोक्तः। एतद् उक्तं भवति --- शरीरवृक्षयूथवनशब्देभ्यः समूहः प्रतीयमानोऽप्रतीतावयवभेदस् तद्वाचकशब्दाप्रयोगात् समूह एकोऽवगम्यत इति। युतायुतसिद्धावयवत्वेन चेतनाचेतनत्वेन चोदाहरणचतुष्टयम्। युतायुतसिद्धावयवत्वं चाग्रे वक्ष्यते। द्वितीयं प्रकारम् आह --- शब्देनोपात्तभेदावयवानुगतः समूह उभये देवमनुष्या इति। देवमनुष्या इति हि शब्देनोभयशब्दवाच्यस्य समूहस्य भागौ भिन्नाव् उपात्तौ। ननूभयशब्दात् तावद् अवयवभेदो न प्रतीयते तत् कथम् उपात्तभेदावयवानुगत इत्य् अत आह --- ताभ्यां भागाभ्याम् एव समूहोऽभिधीयते। उभयशब्देन भागद्वयवाचिशब्दसहितेन समूहो वाच्यः, वाक्यस्य वाक्यार्थवाचकत्वाद् इति भावः। पुनर् द्वैविध्यम् आह --- स चेति। भेदेन चाभेदेन च विवक्षितः। भेदविवक्षितम् आह --- आम्राणां वनं ब्राह्मणानां संघ इति। भेद एव षष्ठीश्रुतेः, यथा गर्गाणां गौर् इति। अभेदविवक्षितम् आह --- आम्रवणं ब्राह्मणसंघ इति। आम्राश् च ते वनं चेति समूहसमूहिनोर् अभेदं विवक्षित्वा सामानाधिकरण्यम् इत्य् अर्थः। विधान्तरम् आह --- स पुनर् द्विविधः। युतसिद्धावयवः समूहः। युतसिद्धाः पृथक्सिद्धाः सान्तराला अवयवा यस्य स तथोक्तः, यूथं वनम् इति। सान्तराला हि तदवयवा वृक्षाश् च गावश् च। अयुतसिद्धावयवश् च समूहो वृक्षो गौः परमाणुर् इति। निरन्तरा हि तदवयवाः सामान्यविशेषा वा सास्नादयो वेति। तद् एतेषु समूहेषु द्रव्यभूतं समूहं निर्धारयति --- अयुतसिद्धेति। तद् एवं प्रासङ्गिकं द्रव्यं व्युत्पाद्य प्रकृतम् उपसंहरति --- एतत् स्वरूपम् इत्य् उक्तम् इति। तृतीयं रूपं विवक्षुः पृच्छति --- अथेति। उत्तरम् आह --- तन्मात्रम् इति। तस्यैकोऽवयवः परिमाणभेदः परमाणुः, सामान्यं मूर्तिः, शब्दादयो विशेषास् तदात्मा, अयुतसिद्धा निरन्तरा येऽवयवाः सामान्यविशेषास् तद्भेदेष्व् अनुगतः समुदायः। यथा च परमाणुः सूक्ष्मं रूपम् एवं सर्वतन्मात्राणि सूक्ष्मं रूपम् इति। उपसंहरति --- एतद् इति। अथ भूतानां चतुर्थं रूपं ख्यातिक्रियास्थितिशीला गुणाः कार्यस्वभावम् अनुपतितुम् अनुगन्तुं शीलं येषां ते तथोक्ताः। अत एवान्वयशब्देनोक्ताः। अथैषां पञ्चमं रूपम् अर्थवत्त्वं विवृणोति --- भोगेति। नन्व् एवम् अपि सन्तु गुणा अर्थवन्तस् तत्कार्याणां तु कुतोऽर्थवत्त्वम् इत्य् अत आह --- गुणा इति। भौतिका गोघटादयः। तद् एवं संयमविषयम् उक्त्वा संयमं तत्फलं चाह --- तेष्व् इति। भूतप्रकृतयो भूतस्वभावाः॥3.44॥

ततोऽणिमादिप्रादुर्भावः कायसंपत् तद्धर्मानभिघातश् च॥3.45॥

संकल्पानुविधाने भ्ऊतानां किं योगिनः सिध्यतीत्य् अत आह --- ततोऽणिमादिप्रादुर्भावः कायसंपत् तद्धर्मानभिघातश् च। स्थूलसंयमजयाच् चतस्रः सिद्धयो भवन्तीत्य् आह --- तत्राणिमा महान् अपि भवत्य् अणुः। लघिमा महान् अपि लघुर् भूत्वेषीकातूल इवाकाशे विहरति। महिमाल्पोऽपि नागनगगगनपरिमाणो भवति। प्राप्तिः सर्वे भावाः संनिहिता भवन्ति योगिनः। तद्यथा भूमिष्ठ एवाङ्गुल्यग्रेण स्पृशति चन्द्रमसम्। स्वरूपसंयमविजयात् सिद्धिम् आह --- प्राकाम्यम् इच्छानभिघातो नास्य रूपं भूतस्वरूपैर् मूर्त्यादिभिर् हन्यते। भूमाव् उन्मज्जति निमज्जति च यथोदके। सूक्ष्मविषयसंयमजयात् सिद्धिम् आह --- वशित्वं भूतानि पृथिव्यादीनि भौतिकानि गोघटादीनि तेषु वशी स्वतन्त्रो भवति, तेषां त्व् अवश्यस् तत्कारणतन्मात्रपृथिव्यादिपरमाणुवशीकारात् तत्कार्यवशीकारस् तेन यानि यथावस्थापयति तानि तथावतिष्ठन्त इत्य् अर्थः। अन्वयविषयसंयमजयात् सिद्धिम् आह --- ईशितृत्वं तेषां भूतभौतिकानां विजितमूलप्रकृतिः सन् यः प्रभव उत्पादो यश् चाप्ययो विनाशो यश् च व्यूहो यथावदवस्थापनं तेषां ईष्टे। अर्थवत्त्वसंयमात् सिद्धिम् आह --- यत्र कामावसायित्वं सत्यसंकल्पता। विजितगुणार्थवत्त्वो हि योगी यद्यदर्थतया संकल्पयति तत् तस्मै प्रयोजनाय कल्पते। विषम् अप्य् अमृतकार्ये संकल्प्य भोजयञ् जीवयतीति। स्याद् एतद् यथा शक्तिविपर्यासं करोत्य् एवं पदार्थविपर्यासम् अपि कस्मान् न करोति। तथा च चन्द्रमसम् आदित्यं कुर्यात् कुहूं च सिनीवालीम् इत्य् अत आह --- न च शक्तोऽपीति। न खल्व् एते यत्र कामावसायिनस् तत्रभवतः परमेश्वरस्याज्ञाम् अतिक्रमितुम् उत्सहन्ते। शक्तयस् तु पदार्थानां जातिदेशकालावस्थाभेदेनानियतस्वभावा इति युज्यते तासु तदिच्छानुविधानम् इति। एतान्य् अष्टाव् अइश्वर्याणि। तद्धर्मानभिघात इति। अणिमादिप्रादुर्भाव इत्य् अनेनैव तद्धर्मानभिघातसिद्धौ पुनर् उपादानं कायसिद्धिवद् एतत् सूत्रोपबद्धसकलविषयसंयमफलवत्त्वज्ञापनाय। सुगमम् अन्यत्॥3.45॥

रूपलावण्यबलवज्रसंहननत्वानि कायसंपत्॥3.46॥

कायसंपदम् आह --- रूपलावण्यबलवज्रसंहननत्वानि कायसंपत्। वज्रस्येव संहननम् अवयवव्यूहो दृढो निबिडो यस्य स तथोक्तः॥3.46॥

ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः॥3.47॥

जितभूतस्य योगिन इन्द्रियजयोपायम् आह --- ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः। ग्रहणं च स्वरूपं चास्मिता चान्वयश् चार्थवत्त्वं च तेषु संयमस् तस्माद् इत्य् अर्थः। गृहीतिर् ग्रहणं, तच् च ग्राह्याधीननिरूपणम् इति ग्राह्यं दर्शयति --- सामान्यविशेषात्मेति। ग्राह्यम् उक्त्वा ग्रहणम् आह --- तेष्व् इति। वृत्तिर् आलोचनं विषयाकारा परिणतिर् इति यावत्। ये त्व् आहुः --- सामान्यमात्रगोचरेन्द्रियवृत्तिर् इति तान् प्रत्याह --- न चेति। गृह्यत इति ग्रहणम्। न सामान्यमात्रगोचरं ग्रहणम्। बाह्येन्द्रियतन्त्रं हि मनो बाह्ये प्रवर्तते। अन्यथान्धबधिराद्यभावप्रसङ्गात्। तद् इह यदि न विशेषविषयम् इन्द्रियं तेनासाव् अनालोचितो विशेष इति कथं मनसानुव्यवसीयेत। तस्मात् सामान्यविशेषविषयम् इन्द्रियालोचनम् इति। तद् एतद् ग्रहणम् इन्द्रियाणां प्रथमं रूपम्। द्वितीयं रूपम् आह --- स्वरूपं पुनर् इति। अहंकारो हि सत्त्वभागेनात्मीयेनेन्द्रियाण्य् अजीजनत्। अतो यत् तत्र करणत्वं सामान्यं यच् च नियतरूपादिविषयत्वं विशेषस् तदुभयम् अपि प्रकाशात्मकम् इत्य् अर्थः। तेषां तृतीयं रूपम् इति। अहंकारो हीन्द्रियाणां कारणम् इति यत्रेन्द्रियाणि तत्र तेन भवितव्यम् इति सर्वेन्द्रियसाधारण्यात् सामान्यम् इन्द्रियाणाम् इत्य् अर्थः। चतुर्थं रूपम् इति। गुणानां हि द्वैरूप्यं व्यवसेयात्मकत्वं व्यवसायात्मकत्वं च। तत्र व्यवसेयात्मकतां ग्राह्यताम् आस्थाय पञ्च तन्मात्राणि भूतभौतिकानि निर्मिमीते। व्यवसायात्मकत्वं तु ग्रहणरूपम् आस्थाय साहंकाराणीन्द्रियाणीत्य् अर्थः। शेषं सुगमम्॥3.47॥

ततो मनोजवित्वं विकरणभावः प्रधानजयश् च॥3.48॥

पञ्चरूपेन्द्रियजयात् सिद्धीर् आह --- ततो मनोजवित्वं विकरणभावः प्रधानजयश् च। विदेहानाम् इन्द्रियाणां करणभावो विकरणभावः। देशः काश्मीरादिः। कालो ऽतीतादिः। विषयः सूक्ष्मादिः। सान्वयेन्द्रियजयात् सर्वप्रकृतिविकारवशित्वं प्रधानजयः। ता एताः सिद्धयो मधुप्रतीका इत्य् उच्यन्ते योगशास्त्रनिष्णातैः। स्याद् एतद् इन्द्रियजयाद् इन्द्रियाणि सविषयाणि वश्यानि भवन्तु, प्रधानादीनां तत्कारणानां किम् आयातम् इत्य् अत आह --- एताश् चेति। करणानाम् इन्द्रियाणां पञ्च रूपाणि ग्रहणादीनि तेषां जयात्। एतद् उक्तं भवति --- नेन्द्रियमात्रजयस्यैताः सिद्धयोऽपि तु पञ्चरूपस्य तदन्तर्गतं च प्रधानादीति॥3.48॥

सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च॥3.49॥

त एते ज्ञानक्रियारूपैश्वर्यहेतवः संयमाः साक्षात् पारम्पर्येण च स्वसिद्ध्युपसंहारसंपादितश्रद्धाद्वारेण यदर्थास् तस्याः सत्त्वपुरुषान्यताख्यातेर् अवान्तरविभूतीर् दर्शयति --- सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च। निर्धूतरजस्तमोमलतया वैशारद्यं ततः परा वशीकारसंज्ञा रजस्तमोभ्याम् उपप्लुतं हि चित्तसत्त्वम् अवश्यम् आसीत् तदुपशमे तु तद्वश्यं योगिनो वशिनस् तस्मिन् वश्ये योगिनः सत्त्वपुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम्। एतद् एव विवृणोति --- सर्वात्मान इति। व्यवसायव्यवसेयात्मानो जडप्रकाशरूपा इत्य् अर्थः। तद् अनेन क्रियैश्वर्यम् उक्तम्। ज्ञानैश्वर्यम् आह --- सर्वज्ञातृत्वम् इति। अस्या अपि द्विविधायाः सिद्धेर् वैराग्याय योगिजनप्रसिद्धां संज्ञाम् आह --- एषा विशोकेति। क्लेशाश् च बन्धनानि च कर्माणि तानि क्षीणानि यस्य स तथा॥3.49॥

तद्वैराग्याद् अपि दोषबीजक्षये कैवल्यम्॥3.50॥

संयमान्तराणां पुरुषार्थाभासफलत्वाद् विवेकख्यातिसंयमार्थतां दर्शयितुं विवेकख्यातेः परवैराग्योपजननद्वारेण कैवल्यं फलम् आह --- तद्वैराग्याद् अपि दोषबीजक्षये क्अइवल्यम्। यदास्य योगिनः क्लेशकर्मक्षय एवं ज्ञानं भवति। किंभूतम् इत्य् आह --- सत्त्वस्यायं विवेकप्रत्ययो धर्मः। शेषं तत्र तत्र व्याख्यातत्वात् सुगमम्॥3.50॥

स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनर् अनिष्टप्रसङ्गात्॥3.51॥

संप्रति कैवल्यसाधने प्रवृत्तस्य योगिनः प्रत्यूहसंभवे तन्निराकरणकारणम् उपदिशति --- स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनर् अनिष्टप्रसङ्गात्। स्थानानि येषां सन्ति ते स्थानिनो महेन्द्रादयस् तैर् उपनिमन्त्रणं तस्मिन् सङ्गश् च स्मयश् च न कर्तव्यः पुनर् अनिष्टप्रसङ्गात्। तत्र यं देवाः स्थानैर् उपमन्त्रयन्ते तं योगिनम् एकं निर्धारयितुं यावन्तो योगिनः संभवन्ति तावत एवाह --- चत्वार इति। तत्र प्राथमकल्पिकस्य स्वरूपम् आह --- तत्राभ्यासीति। प्रवृत्तमात्रं न पुनर् वशीकृतं ज्योतिर् ज्ञानं परचित्तादिविषयं यस्य स तथा। द्वितीयम् आह --- ऋतंभरप्रज्ञ इति। यत्रेदम् उक्तम् --- "ऋतंभरा तत्र प्रज्ञा" [योगसूत्रम् 1.48] इति। स हि भूतेन्द्रियाणि जिगीषुः। तृतीयम् आह --- भूतेन्द्रियजयीति। तेन हि स्थूलादिसंयमेन ग्रहणादिसंयमेन च भूतेन्द्रियाणि जितानि। तम् एवाह --- सर्वेषु भावितेषु निष्पादितेषु भूतेन्द्रियजयात् परचित्तादिज्ञानादिषु कृतरक्षाबन्धो यतस् तेभ्यो न च्यवते भावनीयेषु निष्पादनीयेषु विशोकादिषु परवैराग्यपर्यन्तेषु कर्तव्यसाधनवान् पुरुषप्रयत्नस्य साधनविषयस्यैव साध्यनिष्पादकत्वात्। चतुर्थम् आह --- चतुर्थ इति। तस्य हि भगवतो जीवन्मुक्तस्य चरमदेहस्य चित्तप्रतिसर्ग एको ऽर्थः। तद् एतेषु योगिषूपनिमन्त्रणविषयं योगिनम् अवधारयति --- तत्र मधुमतीम् इति। प्राथमकल्पिके तावन् महेन्द्रादीनां तत्प्राप्तिशङ्कैव नास्ति। तृतीयोऽपि तैर् नोपनिमन्त्रणीयो भूतेन्द्रियवशित्वेनैव तत्प्राप्तेः। चतुर्थोऽपि परवैराग्यसंपत्तेर् आसङ्गशङ्का दूरोत्सारितैवेति पारिशेष्याद् द्वितीय एव ऋतंभरप्रज्ञस् तदुपनिमन्त्रणविषय इति। वैहायसम् आकाशगामि, अक्षयम् अविनाशि, अजरं सदाभिनवम्। स्मयकरणे दोषम् आह --- स्मयाद् अयम् इति। स्मयात् सुस्थितंमन्यो नानित्यतां भावयिष्यति, न तस्यां प्रणिधास्यतीत्य् अर्थः। सुगमम् अन्यत्॥3.51॥

क्षणतत्क्रमयोः संयमाद् विवेकजं ज्ञानम्॥3.52॥

उक्ता क्वचित् क्वचित् संयमात् सर्वज्ञता, सा च न निःशेषज्ञता। अपि तु प्रकारमात्रविवक्षया, यथा सर्वैर् व्यञ्जनैर् भुक्तम् इति। अत्र हि यावन्तो व्यञ्जनप्रकारास् तैर् भुक्तम् इति गम्यते न तु निःशेषैर् इति। अस्ति च निःशेषवचनः सर्वशब्दो यथोपनीतम् अन्नं सर्वम् अशितं प्राशकेनेति। तत्र हि निःशेषम् इति गम्यते। तद् इह निःशेषज्ञतालक्षणस्य विवेकजज्ञानस्य साधनं संयमम् आह --- क्षणतत्क्रमयोः संयमाद् विवेकजं ज्ञानम्। क्षणपदार्थं निदर्शनपूर्वकम् आह --- यथेति। लोष्टस्य हि प्रविभज्यमानस्य यस्मिन्न् अवयवेऽल्पत्वतारतम्यं व्यवतिष्ठते सो ऽपकर्षपर्यन्तः परमाणुर् यथा तथापकर्षपर्यन्तः कालः क्षणः, पूर्वापरभागविकलकालकलेति यावत्। तम् एव क्षणं प्रकारान्तरेण दर्शयति --- यावता वेति। परमाणुमात्रं देशम् अतिक्रामेद् इत्य् अर्थः। क्रमपदार्थम् आह --- तत्प्रवाहेति। तत्पदेन क्षणः परामृश्यते। न चेदृशः क्रमो वास्तवः किं तु काल्पनिकस् तस्य समाहाररूपस्यायुगपदुपस्थितेषु वास्तवत्वेन विचारासहत्वाद् इत्य् आह --- क्षणतत्क्रमयोर् इति। अयुगपद्भाविक्षणधर्मत्वात् क्रमस्य क्षणसमाहारस्यावास्तवत्वात् क्षणतत्क्रमयोर् अप्य् अवास्तवत्वं समाहारस्य नैसर्गिकवैतण्डिकबुद्ध्यतिशयरहिता लौकिकाः प्रतिक्षण एव व्युत्थितदर्शना भ्रान्ता ये कालम् ईदृशं वास्तवम् अभिमन्यन्त इति। तत् किं क्षणोऽप्य् अवास्तवो नेत्य् आह --- क्षणस् तु वस्तुपतितो वास्तव इत्य् अर्थः। क्रमस्यावलम्बनम् अवलम्बः सोऽस्यास्तीति क्रमेणावलम्ब्यते वैकल्पिकेनेत्य् अर्थः। क्रमस्य क्षणावलम्बनत्वे हेतुम् आह --- क्रमश् चेति। क्रमस्यावास्तवत्वे हेतुम् आह --- न चेति। चो हेत्वर्थे। यस् तु वैजात्यात् सहभावम् उपेयात् तं प्रत्याह --- क्रमश् च न द्वयोर् इति। कस्माद् असंभव इत्य् अत आह --- पूर्वस्माद् इति। उपसंहरति --- तस्माद् इति। तत् किम् इदानीं शशविषाणायमाना एव पूर्वोत्तरक्षणा नेत्य् आह --- ये त्व् इति। अन्विताः साम्येन समन्वागता इत्य् अर्थः। उपसंहरति --- तेनेति। वर्तमानस्यैवार्थक्रियासु स्वोचितासु सामर्थ्याद् इति॥3.52॥

जातिलक्षणदेशैर् अन्यतानवच्छेदात् तुल्ययोस् ततः प्रतिपत्तिः॥3.53॥

यद्य् अप्य् एतद् विवेकजं ज्ञानं निःशेषभावविषयम् इत्य् अग्रे वक्ष्यते तथाप्य् अतिसूक्ष्मत्वात् प्रथमं तस्य विषयविशेष उपक्षिप्यते --- जातिलक्षणदेशैर् अन्यतानवच्छेदात् तुल्ययोस् ततः प्रतिपत्तिः। लौकिकानां जातिभेदोऽन्यताया ज्ञापकहेतुः। तुल्या जातिर् गोत्वं तुल्यश् च देशः पूर्वादिः। कालाक्षीस्वस्तिमत्योर् लक्षणभेदः परम् इति। द्वयोर् आमलकयोस् तुल्यामलकत्वजातिर् वर्तुलादि लक्षणं तुल्यं देशभेदः परम् इति। यदा तु योगिज्ञानं जिज्ञासुना केनचित् पूर्वामलकम् अन्यव्यग्रस्य योगिनो ज्ञातुर् उत्तरदेश उपावर्त्यत उत्तरदेशम् आमलकं ततोऽपसार्य पिधाय वा तदा तुल्यदेशत्वे पूर्वम् एतद् उत्तरम् एतद् इति प्रविभागानुपपत्तिः प्राज्ञस्य लौकिकस्य त्रिप्रमाणीनिपुणस्यासंदिग्धेन च तत्त्वज्ञानेन भवितव्यं विवेकजज्ञानवतो योगिनः संदिग्धत्वानुपपत्तेः। अत उक्तं सूत्रकृता --- ततः प्रतिपत्तिः। तत इति व्याचष्टे --- विवेकजज्ञानाद् इति। क्षणतत्क्रमसंयमाज् जातं ज्ञानं कथम् आमलकं तुल्यजातिलक्षणदेशाद् आमलकान्तराद् विवेचयतीति पृच्छति --- कथम् इति। उत्तरम् आह --- पूर्वामलकसहक्षणो देशः पूर्वामलकेनैकक्षणो देशस् तेन सह निरन्तरपरिणाम इति यावत्। उत्तरामलकसहक्षणाद् देशाद् उत्तरामलकनिरन्तरपरिणामाद् भिन्नो भवतु देशयोर् भेदः किम् आयातम् आमलकभेदस्येत्य् अत आह --- ते चामलके स्वदेशक्षणानुभवभिन्ने, स्वदेशसहितो यः क्षणस् तस्यामलकस्य कालकला स्वदेशेन सहौत्तराधर्यरूपपरिणामलक्षिता सा स्वदेशक्षणस् तस्यानुभवः प्राप्तिर् वा ज्ञानं वा तेन भिन्ने आमलके ययोर् आमलकयोः पूर्वोत्तराभ्यां देशाभ्याम् अउत्तराधर्यपरिणामक्षण आसीत् तयोर् देशान्तरौत्तराधर्यपरिणामक्षणविशिष्टत्वम् अनुभवन् संयमी ते भिन्ने एव प्रत्येति। संप्रति तद्देशपरिणामेऽपि पूर्वभिन्नदेशपरिणामाद् विशिष्टस्य चैतद्देशपरिणामक्षणस्य संयमतः साक्षात्करणात्। तद् इदम् उक्तम् --- अन्यदेशक्षणानुभवस् तु तयोर् अन्यत्वे हेतुर् इति। अनेनैव निदर्शनेन लौकिकपरीक्षकसंवादादिना परमाणोर् अपीदृशस्य भेदो योगीश्वरबुद्धिगम्यः श्रद्धेय इत्य् आह --- एतेनेति। अपरे तु वर्णयन्ति। वर्णनम् उदाहरति --- य इति। वैशेषिका हि नित्यद्रव्यवृत्तयोऽन्त्या विशेषा इत्य् आहुः। तथा हि --- योगिनो मुक्तांस् तुल्यजातिदेशकालान् व्यवधिरहितान् परस्परतो भेदेन प्रत्येकं तत्त्वेन च प्रतिपद्यन्ते। तस्माद् अस्ति कश्चिद् अन्त्यो विशेष इति। तथा च स एव नित्यानां परमाण्वादीनां द्रव्याणां भेदक इति। तद् एतद् दूषयति --- तत्रापीति। जातिदेशलक्षणान्य् उदाहृतानि। मूर्तिः संस्थानं यथैकं विशुद्धावयवसंस्थानोपपन्नम् अपसार्य तस्मिन्न् एव देशेऽन्यव्यग्रस्य द्रष्टुः कुत्सितावयवसंनिवेश उपावर्त्यते तदा तस्य संस्थानभेदेन भेदप्रत्ययः, शरीरं वा मूर्तिस् तत्संबन्धेनात्मनां संसारिणां मुक्तात्मनां वा भूतचरेण यादृशतादृशेन भेद इति सर्वत्र भेदप्रत्ययस्यान्यथासिद्धेर् नान्त्यविशेषकल्पना। व्यवधिर् भेदकारणम्। यथा कुशपुष्करद्वीपयोर् देशस्वरूपयोर् इति। यतो जातिदेशादिभेदा लोकबुद्धिगम्या अत उक्तं --- क्षणभेदस् तु योगिबुद्धिगम्य एवेति। एवकारः क्षणभेदम् अवधारयति न योगिबुद्धिगम्यत्वं, तेन भूतचरेण देहसंबन्धेन मुक्तात्मनाम् अपि भेदो योगिबुद्धिगम्य उन्नेय इति। यस्य तूक्ता भेदहेतवो न सन्ति तस्य प्रधानस्य भेदो नास्तीत्य् आचआर्यो मेने। यस्माद् ऊचे "कृतार्थं प्रति नष्टम् अप्य् अनष्टं तदन्यसाधारणत्वात्" [योगसूत्रम् 2.22] इति। तद् आह --- मूर्तिव्यवधीति। उक्तभेदहेतूपलक्षणम् एतत्। जगन्मूलस्य प्रधानस्य पृथक्त्वं भेदो नास्तीत्य् अर्थः॥3.53॥

तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम्॥3.54॥

तद् एवं विषयैकदेशं विवेकजज्ञानस्य दर्शयित्वा विवेकजं ज्ञानं लक्षयति --- तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम्। विवेकजं ज्ञानम् इति लक्ष्यनिर्देशः। शेषं लक्षणम्। संसारसागरात् तारयतीति तारकम्। पूर्वस्मात् प्रातिभाद् विशेषयति --- सर्वथाविषयम् इति। पर्याया अवान्तरविशेषाः। अत एव विवेकजं ज्ञानं परिपूर्णं नास्य क्वचित् किंचित् कथंचित् कदाचिद् अगोचर इत्य् अर्थः। आस्तां तावज् ज्ञानान्तरं संप्रज्ञातोऽपि तावद् अस्यांशः। तस्माद् अतः परं किं परिपूर्णम् इत्य् आह --- अस्यैवांशो योगप्रदीपः संप्रज्ञातः। किम् उपक्रमः किम् अवसानश् चासाव् इत्य् आह --- मधुमतीम् इति। ऋतंभरा प्रज्ञैव मधु मोदकारणत्वात्। यथोक्तं प्रज्ञाप्रासादम् आरुह्येति। तद्वती मधुमती धियोऽवस्था ताम् उपादाय यावद् अस्य परिसमाप्तिः सप्तधा प्रान्तभूमिः प्रज्ञा। अत एव विवेकजं ज्ञानं तारकं भवति। तदंशस्य योगप्रदीपस्य तारकत्वाद् इति॥3.54॥

सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् इति॥3.55॥

(इति श्रीपतञ्जलिविरचितयोगसूत्रेषु तृतीयो विभूतिपादः॥3॥)

तद् एवं परम्परया कैवल्यस्य हेतून् सविभूतीन् संयमान् उक्त्वा सत्त्वपुरुषान्यताज्ञानं साक्षात् कैवल्यसाधनम् इत्य् अत्र सूत्रम् अवतारयति --- प्राप्तेति। विवेकजं ज्ञानं भवतु मा वा भूत् सत्त्वपुरुषान्यताख्यातिस् तु कैवल्यप्रयोजिकेत्य् अर्थः। सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् इति। इतिः सूत्रसमाप्तौ। ईश्वरस्य पूर्वोक्तैः संयमैर् ज्ञानक्रियाशक्तिमतोऽनीश्वरस्य वा समनन्तरोक्तेन संयमेन विवेकजज्ञानभागिन इतरस्य वानुत्पन्नज्ञानस्य न विभूतिषु काचिद् अपेक्षास्तीत्य् आह --- न हीति। ननु यद्य् अनपेक्षिता विभूतयः कैवल्ये व्यर्थस् तर्हि तासाम् उपदेश इत्य् अत आह --- सत्त्वशुद्धिद्वारेणेति। इत्थंभूतलक्षणे तृतीया। नात्यन्तम् अहेतवः कैवल्ये विभूतयः किं तु न साक्षाद् इत्य् अर्थः। ज्ञानं विवेकजम् उपक्रान्तं यच् च पारम्पर्येण कारणं तद् अउपचारिकं न तु मुख्यं, परमार्थस् तु ख्यातिर् एव मुख्यम् इत्य् अर्थः। ज्ञानाद् इति प्रसंख्यानाद् इत्य् अर्थः॥3.55॥

"अत्रान्तरङ्गाण्य् अङ्गानि परिणामाः प्रपञ्चिताः। संयमाद् भूतसंयोगस् तासु ज्ञानं विवेकजम्" इति ॥

इति श्रीवाचस्पतिमिश्रविरचितायां पातञ्जलभाष्यव्याख्यायां तत्त्ववैशारद्यां विभूतिपादस् तृतीयः॥3॥