तत्त्ववैशारद्यां समाधिपादः

तत्त्ववैशारदी

समाधिपादः प्रथमः।

(अथ पातञ्जलसूत्राणि।)

अथ योगानुशासनम्॥1.1॥

नमामि जगदुत्पत्तिहेतवे वृषकेतवे। क्लेशकर्मविपाकादिरहिताय हिताय च॥1॥
नत्वा पतञ्जलिम् ऋषिं वेदव्यासेन भाषिते। संक्षिप्तस्पष्टबह्वर्था भाष्ये व्याख्या विधास्यते॥2॥


इह हि भगवान् पतञ्जलिः प्रारिप्सितस्य शास्त्रस्य संक्षेपतस् तात्पर्यार्थं प्रेक्षावत्प्रवृत्त्यङ्गं श्रोतुश् च सुखावबोधार्थम् आचिख्यासुर् आदाव् इदं सूत्रं रचयां चकार --- अथ योगानुशासनम्। तत्र प्रथमावयवम् अथशब्दं व्याचष्टे --- अथेत्य् अयम् अधिकारार्थः। अथैष ज्योतिर् इतिवत्, न त्व् आनन्तर्यार्थः। अनुशासनम् इति हि शास्त्रम् आहानुशिष्यते ऽनेनेति व्युत्पत्त्या। न चास्य शमदमाद्यनन्तरं प्रवृत्तिर् अपि तु तत्त्वज्ञानचिख्यापयिषानन्तरम्। जिजासाज्ञानयोस् तु स्यात्। यथाम्नायते --- "तस्माच् छान्तो दान्त उपरतस् तितिक्षुः समाहितो भूत्वात्मन्य् एवात्मानं पश्येत्" [बृहदारण्यकोपनिषत् 4.4.23] इति। शिष्यप्रश्नतपश्चरणरसायनाद्युपयोगानन्तर्यस्य च संभवेऽपि नाभिधानं, शिष्यप्रतीतिप्रवृत्त्योर् अनुपयोगात् प्रामाणिकत्वे योगानुशासनस्य तदभावे ऽप्य् उपेयत्वाद् अप्रामाणिकत्वे च तद्भावेऽपि हेयत्वात्। एतेन तत्त्वज्ञानचिख्यापयिषयोर् आनन्तर्याभिधानं परास्तम्। अधिकारार्थत्वे तु शास्त्रेणाधिक्रियमाणस्य प्रस्तूयमानस्य योगस्याभिधानात् सकलशास्त्रतात्पर्यार्थव्याख्यानेन शिष्यः सुखेनैव बोधितश् च प्रवर्तितश् च भवतीति। निःश्रेयसस्य हेतुः समाधिर् इति हि श्रुतिस्मृतीतिहासपुराणेषु प्रसिद्धम्। ननु किं सर्वसंदर्भगतोऽथशब्दोऽधिकारार्थः, तथा सति "अथातो ब्रह्मजिज्ञासा" [ब्रह्मसूत्रम् 1.1.1] इत्यादाव् अपि प्रसङ्ग इत्य् अत आह --- अयम् इति। ननु ---

"हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः"

इति योगियाज्ञवल्क्यस्मृतेः कथं पतञ्जलेर् योगशास्त्रकर्तृत्वम् इत्य् आशङ्क्य सूत्रकारेणानुशासनम् इत्य् उक्तम्। शिष्टस्य शासनम् अनुशासनम् इत्य् अर्थः। यदायम् अथशब्दोऽधिकारार्थस् तदैष वाक्यार्थः संपद्यत इत्य् आह --- योगानुशासनं शास्त्रम् अधिकृतम् इति। ननु व्युत्पाद्यमानतया योगोऽत्राधिकृतो न तु शास्त्रम् इत्य् अत आह --- वेदितव्यम् इति। सत्यं व्युत्पाद्यमानतया योगः प्रस्तुतः, स तु तद्विषयेण शास्त्रेण करणेन व्युत्पाद्यः। करणगोचरश् च व्युत्पादकस्य व्यापारो न कर्मगोचर इति कर्तृव्यापारविवक्षया योगविषयस्य शास्त्रस्याधिकृतत्वं वेदितव्यम्। शास्त्रव्यापारगोचरतया तु योग एवाधिकृत इति भावः। अधिकारार्थस्य चाथशब्दस्यान्यार्थं नीयमानोदकुम्भदर्शनम् इव श्रवणं मङ्गलायापि कल्पत इति मन्तव्यम्। शब्दसंदेहनिमित्तम् अर्थसंदेहम् अपनयति --- योगः समाधिर् इति। "युज समाधौ" [धातुपाठः 4] इत्य् अस्माद् व्युत्पन्नः समाध्यर्थो न तु "युजिर् योगे" [धातुपाठः 7] इत्य् अस्मात् संयोगार्थ इत्य् अर्थः। ननु समाधिर् अपि वक्ष्यमाणस्याङ्गिनो योगस्याङ्गम्। न चाङ्गम् एवाङ्गीत्य् अत आह --- स च सार्वभौमः। चस् त्वर्थोऽङ्गाद् अङ्गिनं भिनत्ति। भूमयोऽवस्था वक्ष्यमाणा मधुमती मधुप्रतीका विशोका संस्कारशेषास् ताश् चित्तस्य, तासु सर्वासु विदितः सार्वभौमश् चित्तवृत्तिनिरोधलक्षणो योगः। तदङ्गं तु समाधिर् नैवंभूतः। व्युत्पत्तिनिमित्तमात्राभिधानं चैतद् योगः समाधिर् इति। अङ्गाङ्गिनोर् अभेदविवक्षामात्रेण प्रवृत्तिनिमित्तं तु योगशब्दस्य चित्तवृत्तिनिरोध एवेति परमार्थः। वृत्तयो ज्ञानान्य् आत्माश्रयाण्य् अतस् तन्निरोधो ऽप्य् आत्माश्रय एवेति ये पश्यन्ति तन्निरासायाह --- चित्तस्य धर्म इति। चित्तशब्देनान्तःकरणं बुद्धिम् उपलक्षयति। न हि कूटस्थनित्या चितिशक्तिर् अपरिणामिनी ज्ञानधर्मा भवितुम् अर्हति बुद्धिस् तु भवेद् इति भावः। स्याद् एतत् सार्वभौमश् चेद् योगो हन्त भोः क्षितमूढविक्षिप्ता अपि चित्तभूमयः। अस्ति च परस्परापेक्षया वृत्तिनिरोधोऽप्य् आस्व् इति तत्रापि योगत्वप्रसङ्ग इत्य् आशङ्क्य हेयोपादेयभूमीर् उपन्यस्यति --- क्षिप्तम् इत्यादि। क्षिप्तं सदैव रजसा तेषु तेषु विषयेषु क्षिप्यमाणम् अत्यन्तम् अस्थिरम्। मूढं तु तमःसमुद्रेकान् निद्रावृत्तिमत्। क्षिप्ताद् विशिष्टं विक्षिप्तम्। विशेषोऽस्थेमबहुलस्य कादाचित्कः स्थेमा। सा चास्यास्थेमबहुलता सांसिद्धिकी वा वक्ष्यमाणव्याधिस्त्यानाद्यन्तरायजनिता वा। एकाग्रम् एकतानम्। निरुद्धसकलवृत्तिकं संस्कारमात्रशेषं चित्तं निरुद्धम्। तत्र क्षिप्तमूढयोः सत्य् अपि परस्परापेक्षया वृत्तिनिरोधे पारम्पर्येणापि निःश्रेयसहेतुभावाभावात् तदुपघातकत्वाच् च योगपक्षाद् दूरोत्सारितत्वम् इति न तयोर् योग्त्वं निषिद्धम्। विक्षिप्तस्य तु कादाचित्कसद्भूतविषयस्थेमशालिनः संभाव्येत योगत्वम् इति निषेधति। तत्र विक्षिप्ते चेतसि समाधिः कादाचित्कसद्भूतविषयस्य चित्तस्य स्थेमा न योगपक्षे वर्तते। कस्मात्। यतस् तद्विपक्षविक्षेपोपसर्जनीभूतः। विपक्षवर्गान्तर्गतस्य हि स्वरूपम् एव दुर्लभं प्राग् एव कार्यकरणं न खलु दहनान्तर्गतं बीजं त्रिचतुराक्षणावस्थितम् उप्तम् अप्य् अङ्कुराय कल्पत इति भावः। यदि विक्षेपोपसर्जनीभूतः समाधिर् न योगः कस् तर्हीत्य् अत आह --- यस् त्व् एकाग्रे चेतसीति। भूतम् इति समारोपितम् अर्थं निवर्तयति। निद्रावृत्तिर् अपि स्वालम्बने तमसि भूते भवत्य् एकाग्रेत्य् अत उक्तम् --- सद् इति। शोभनं नितान्ताविर्भूतं सत्त्वं तमःसमुद्रेकस् त्व् अशोभनस् तस्य क्लेशहेतुत्वाद् इति। द्योतनं हि तत्त्वज्ञानम् आगमाद् वानुमानाद् वा भवद् अपि परोक्षरूपतया न साक्षात्कारवतीम् अविद्याम् उच्छिनत्ति द्विचन्द्रदिङ्मोहादिष्व् अनुच्छेदकत्वाद् अत आह --- प्रेति। प्रकारो हि प्रकर्षं द्योतयन् साक्षात्कारं सूचयति। अविद्यामूलत्वाद् अस्मितादीनां क्लेशानां, विद्यायाश् चाविद्योच्छेदरूपत्वाद् विद्योदये चाविद्यादिक्लेशसमुच्छेदो विरोधित्वात् कारणविनाशाच् चेत्य् आह --- क्षिणोति चेति। अत एव कर्मरूपाणि बन्धनानि श्लथयति। कर्म चात्रापूर्वम् अभिमतं कार्ये कारणोपचारात्। श्लथयति स्वकार्याद् अवसादयति। वक्ष्यति हि --- "सति मूले तद्विपाकः" [योगसूत्रम् 2.13] इति। किं च निरोधम् अभुमुखं करोत्य् अभिमुखीकरोति। स च संप्रज्ञातश् चतुष्प्रकार इत्य् आह --- स चेति। असंप्रज्ञातम् आह --- सर्ववृत्तीति। रजस्तमोमयी किल प्रमाणादिवृत्तिः सात्त्विकीं वृत्तिम् उपादाय संप्रज्ञाते निरुद्धा। असंप्रज्ञाते तु सर्वासाम् एव निरोध इत्य् अर्थः। तद् इह भूमिद्वये समाप्ता या मधुमत्यादयो भूमयस् ताः सर्वास् तासु विदितः सार्वभौम इति सिद्धम्॥1.1॥

योगश् चित्तवृत्तिनिरोधः॥1.2॥

द्वितीयं सूत्रम् अवतारयति --- तस्य लक्षणेति। तस्येति पूर्वसूत्रोपात्तं द्विविधं योगं परामृशति --- योगश् चित्तवृत्तिनिरोधः। निरुध्यन्ते यस्मिन् प्रमाणादिवृत्तयो ऽवस्थाविशेषे चित्तस्य सोऽवस्थाविशेषो योगः। ननु संप्रज्ञातस्य योगस्याव्यापकत्वाद् अलक्षणम् इदम्। अनिरुद्धा हि तत्र सात्त्विकी चित्तवृत्तिर् इत्य् अत आह --- सर्वशब्दाग्रहणाद् इति। यदि सर्वचित्तवृत्तिनिरोध इत्य् उच्येत भवेद् अव्यापकं संप्रज्ञातस्य। क्लेशकर्मविपाकाशयपरिपन्थी चित्तवृत्तिनिरोधस् तु तम् अपि संगृह्णाति। तत्रापि राजसतामसचित्तवृत्तिनिरोधात् तस्य च तद्भावाद् इत्य् अर्थः। कुतः पुनर् एकस्य चित्तस्य क्षिप्तादिभूमिसंबन्धः किमर्थं चैवमवस्थस्य चित्तस्य वृत्तयो निरोद्धव्या इत्य् आशङ्क्य प्रथमं तावद् अवस्थासंबन्धे हेतुम् उपन्यस्यति --- चित्तं हीति। प्रख्याशीलत्वात् सत्त्वगुणम्। प्रवृत्तिशीलत्वाद् रजोगुणम्। स्थितिशीलत्वात् तमोगुणम्। प्रख्याग्रहणम् उपलक्षणार्थम्। तेनान्येऽपि सात्त्विकाः प्रसादलाघवप्रीत्यादयः सूच्यन्ते। प्रवृत्त्या च परितापशोकादया राजसाः। प्रवृत्तिविरोधी तमोवृत्तिधर्मः स्थितिः। स्थितिग्रहणाद् गौरवावरणदैन्यादय उपलक्ष्यन्ते। एतद् उक्तं भवति --- एकम् अपि चित्तं त्रिगुणनिर्मिततया गुणानां च वैषम्येण परस्परविमर्दवैचित्र्याद् विचित्रपरिणामं सद् अनेकावस्थम् उपपद्यत इति। क्षिप्ताद्या एव चित्तस्य भूमीर् यथासंभवम् अवान्तरावस्थाभेदवतीर् आदर्शयति --- प्रख्यारूपं हीति। चित्तरूपेण परिणतं सत्त्वं चित्तसत्त्वम्। तद् एवं प्रख्यारूपतया सत्त्वप्राधान्यं चित्तस्य दर्शितम्। तत्र चित्ते सत्त्वात् किंचिद् ऊने रजस्तमसी यदा मिथः समे च भवतस् तदैश्वर्यं च विषयाश् च शब्दादयस् तान्य् एव प्रियाणि यस्य तत् तथोक्तम्। सत्त्वप्राधान्यात् खलु चित्तं तत्त्वे प्रणिधित्सद् अपि तत्त्वस्य तमसा पिहितत्वाद् अणिमादिकम् अइश्वर्यम् एव तत्त्वम् अभिमन्यमानं तत् प्रणिधित्सति प्रणिधत्ते च क्षणम्। अथ रजसा क्षिप्यमाणं तत्राप्य् अलब्धस्थितिं तत्प्रियमात्रं भवति। शब्दादिषु पुनर् अस्य स्वरसवाही प्रेमा निरूढ एव। तद् अनेन विक्षिप्तं चित्तम् उक्तम्। क्षिप्तं चित्तं दर्शयन् मूढम् अपि सूचयति --- तद् एव तमसेति। यदा हि तमो रजो विजित्य प्रसृतं तदा चित्तसत्त्वावरकतमःसमुत्सारणे ऽशक्तत्वाद् रजसस् तमःस्थगितं चित्तम् अधर्माद्य् उपगच्छति। अज्ञानं च विपर्ययज्ञानम्। अभावप्रत्ययालम्बनं च निद्राज्ञानम् उक्तम्। ततश् च मूढावस्थापि सूचितेति। अनैश्वर्यं सर्वत्रेच्छाप्रतीघातः। अधर्मादिव्याप्तं चित्तं भवतीत्य् अर्थः। यदा तु तद् एव चित्तसत्त्वम् आविर्भूतसत्त्वम् अपगततमःपटलं सरजस्कं भवति तदा धर्मज्ञानवैराग्यैश्वर्याण्य् उपगच्छतीत्य् आह --- प्रक्षीणेत्यादि। मोहस् तमस् तद् एव चावरणं प्रकर्षेण क्षीणं यस्य तत् तथोक्तम्। अत एव सर्वतो विशेषाविशेषलिङ्गमात्रालिङ्गपुरुषेषु प्रद्योतमानम्। तथापि न धर्मायैश्वर्याय च कल्पते प्रवृत्त्यभावाद् इत्य् अत आह --- अनुविद्धं रजोमात्रया। रजसः प्रवर्तकत्वाद् अस्ति धर्मादिप्रवृत्तिर् इत्य् अर्थः। तद् अनेन संप्रज्ञातसमाधिसंपन्नयोर् मधुभूमिकप्रज्ञाज्योतिषोर् मध्यमयोर् योगिनोश् चित्तसत्त्वं संगृहीतम्। संप्रत्य् अतिक्रान्तभावनीयस्य ध्यायिनश् चतुर्थस्य चित्तावस्थाम् आह --- तद् एव चित्तं रजोलेशान् मलाद् अपेतम् अत एव स्वरूपप्रतिष्ठम्। अभ्यासवैराग्यपुटपाकप्रबन्धविधूतरजस्तमोमलस्य हि बुद्धिसत्त्वतपनीयस्य स्वरूपप्रतिष्ठस्य विषयेन्द्रियप्रत्याहृतस्यानवसिताधिकारतया च कार्यकारिणो विवेकख्यातिः परं कार्यम् अवशिष्यत इत्य् आह --- सत्त्वपुरुषान्यताख्यातिमात्रं चित्तं धर्ममेघध्यानोपगं भवति। धर्ममेघश् च वक्ष्यते। अत्रैव योगिजनप्रसिद्धिम् आह --- तद् इति। सत्त्वपुरुषान्यताख्यातिमात्रं चित्तं धर्ममेघपर्यन्तं परं प्रसंख्यानम् इत्य् आचक्षते ध्यायिनः। चित्तसामानाधिकरण्यं च धर्मधर्मिणोर् अभेदविवक्षया द्रष्टव्यम्। विवेकख्यातेर् हानहेतुं चितिशक्तेश् चोपादानहेतुं निरोधसमाधिम् अवतारयितुं चितिशक्तेः साधुताम् असाधुतां च विवेकख्यातेर् दर्शयति --- चितिशक्तिर् इत्यादि। सुखदुःखमोहात्मकत्वम् अशुद्धिः। सुखमोहाव् अपि हि विवेकिनं दुःखाकुरुतः। अतो दुःखवद् धेयौ। तथा चातिसुन्दरम् अप्य् अन्तवद् दुनोति। तेन तद् अपि हेयम् एव विवेकिनः। सेयम् अशुद्धिर् अन्तश् च चितिशक्तौ पुरुषे न स्त इत्य् उक्तम् --- शुद्धा चानन्ता चेति। ननु सुखदुःखमोहात्मकशब्दादीन् इयं चेतयमाना तदाकारापन्ना कथं विशुद्धा तदाकारपरिग्रहपरिवर्जने च कुर्वती कथम् अनन्तेत्य् अत उक्तम् --- दर्शितविषयेति। दर्शितो विषयः शब्दादिर् यस्यै सा तथोक्ता। भवेद् एतद् एवं यदि बुद्धिवच् चितिशक्तिर् विषयाकारताम् आपद्येत, किं तु बुद्धिर् एव विषयाकारेण परिणता सत्य् अतदाकारायै चितिशक्त्यै विषयम् आदर्शयति। ततः पुरुषश् चेतयत इत्य् उच्यते। ननु विषयाकारां बुद्धिम् अनारूढायाश् चितिशक्तेः कथं विषयव्एदनं विषयारोहे वा कथं न तदाकारापत्तिर् इत्य् अत उक्तम् --- अप्रतिसंक्रमेति। प्रतिसंक्रमः संचारः। स चितेर् नास्तीत्य् अर्थः। स एव कुतोऽस्या नास्तीत्य् अत उक्तम् --- अपरिणामिनीति। न चितेस् त्रिविधो ऽपि धर्मलक्षणावस्थालक्षणः परिणामोऽस्ति। येन क्रियारूपेण परिणता सती बुद्धिसंयोगेन परिणमेत चितिशक्तिः। असंक्रान्ताया अपि विषयसंवेदनम् उपपादयिष्यते। तत् सिद्धं चितिशक्तिः शोभनेति। विवेकख्यातिस् तु बुद्धिसत्त्वात्मिकाशोभनेत्य् उक्तम् --- अतश् चितिशक्तेर् विपरीतेति। यदा च विवेकख्यातिर् अपि हेया तदा कैव कथा वृत्त्यन्तराणां दोषबहुलानाम् इति भावः। ततस् तद्धेतोर् निरोधसमाधेर् अवतारो युज्यत इत्य् आह --- अतस् तस्याम् इति। ज्ञानप्रसादमात्रेण हि परेण वैराग्येण विवेकख्यातिम् अपि निरुणद्धीत्य् अर्थः। अथ निरुद्धाशेषवृत्तिं चित्तं कीदृशम् इत्य् अत आह --- तदवस्थम् इत्यादि। स निरोधोऽवस्था यस्य तत् तथोक्तम्। निरोधस्य स्वरूपम् आह --- स निर्बीज इति। क्लेशसहितः कर्माशयो जात्यायुर्भोगबीजं तस्मान् निर्गत इति निर्बीजः। अस्यैव योगिजनप्रसिद्धाम् अन्वर्थसंज्ञाम् आदर्शयति --- न तत्रेति। उपसंहरति --- द्विविधः स योगश् चित्तवृत्तिनिरोध इति॥1.2॥

तदा द्रष्टुः स्वरूपेऽवस्थानम्॥1.3॥

संप्रत्य् उत्तरसूत्रम् अवतारयितुं चोदयति --- तदवस्थे चेतसीति। किम् आक्षेपे। तत्तदाकारपरिणतबुद्धिबोधात्मा खल्व् अयं पुरुषः सदानुभूयते न तु बुद्धिबोधरहितोऽतो ऽस्य पुरुषस्य बुद्धिबोधः स्वभावः सवितुर् इव प्रकाशः। न च संस्कारशेषे चेतसि सोऽस्ति। न च स्वभावम् अपहाय भावो वर्तितुम् अर्हतीति भावः। स्याद् एतत्। संस्कारशेषाम् अपि बुद्धिं कस्मात् पुरुषो न बुध्यत इत्य् अत आह --- विषयाभावाद् इति। न बुद्धिमात्रं पुरुषस्य विषयोऽपि तु पुरुषार्थवती बुद्धिः। विवेकख्यातिविषयभोगौ च पुरुषार्थौ। तौ च निरुद्धावस्थायां न स्त इति सिद्धो विषयाभाव इत्य् अर्थः। सूत्रेण परिहरति --- तदा द्रष्टुः स्वरूपे ऽवस्थानम्। स्वरूप इत्य् आरोपितं शान्तघोरमूढस्वरूपं निवर्तयति। पुरुषस्य हि चैतन्यं स्वरूपम् अनौपाधिकं न तु बुद्धिबोधः शान्तादिरूप अउपाधिको हि स स्फटिकस्येव स्वभावस्वच्छधवलस्य जपाकुसुमसंनिधानोपाधिर् अरुणिमा। न चोपाधिनिवृत्ताव् उपहितनिवृत्तिर् अतिप्रसङ्गाद् इति भावः। स्वरूपस्य चाभेदेऽपि भेदं विकल्प्याधिकरणभाव उक्त इति। अयम् एवार्थो भाष्यकृता द्योत्यते --- स्वरूपप्रतिष्ठेति। तदानीं निरोधावस्थायां न व्युत्थानावस्थायाम् इति भावः। स्याद् एतद् व्युत्थानावस्थायाम् अप्रतिष्ठिता स्वरूपे चितिशक्तिर् निरोधावस्थायां प्रतितिष्ठन्ती परिणामिनी स्यात्। व्युत्थाने वा स्वरूपप्रतिष्ठाने व्युत्थाननिरोधयोर् अविशेष इत्य् अत आह --- व्युत्थानचित्ते त्व् इति। न जातु कूटस्थनित्या चितिशक्तिः स्वरूपाच् च्यवते तेन यथा निरोधे तथैव व्युत्थानेऽपि। न खलु शुक्तिकायाः प्रमाणविपर्ययज्ञानगोचरत्वेऽपि स्वरूपोदयव्ययौ भवतः। प्रतिपत्ता तु तथाभूतम् अप्य् अतथात्वेनाभिमन्यते। निरोधसमाधिम् अपेक्ष्य संप्रज्ञातोऽपि व्युत्थानम् एवेति॥1.3॥

वृत्तिसारूप्यम् इतरत्र॥1.4॥

सूत्रान्तरम् अवतारयितुं पृच्छति --- कथं तर्हीति। यदि तथा भवन्ती न तथा केन तर्हि प्रकारेण प्रकाशत इत्य् अर्थः। हेतुपदम् अध्याहृत्य सूत्रं पठति --- दर्शितविषयत्वाद् वृत्तिसारूप्यम् इतरत्र। इतरत्र व्युत्थाने याश् चित्तवृत्तयः शान्तघोरमूढास् ता एवाविशिष्टा अभिन्ना वृत्तयो यस्य पुरुषस्य स तथोक्तः। सारूप्यम् इत्य् अत्र सशब्द एकपर्यायः। एतद् उक्तं भवति --- जपाकुसुमस्फटिकयोर् इव बुद्धिपुरुषयोः संनिधानाद् अभेदग्रहे बुद्धिवृत्तीः पुरुषे समारोप्य शान्तोऽस्मि दुःखितोऽस्मि मूढोऽस्मीत्य् अध्यवस्यति। यथा मलिने दर्पणतले प्रतिबिम्बितं मुखं मलिनम् आरोप्य शोचत्य् आत्मानं मलिनोऽस्मीति। यद्य् अपि पुरुषसमारोपोऽपि शब्दादिविज्ञानवद् बुद्धिवृत्तिर् यद्य् अपि च प्राकृतत्वेनाचिद्रूपतयानुभाव्यस् तथापि बुद्धेः पुरुषत्वम् आपादयन् पुरुषवृत्तिर् इवानुभव इवावभासते। तथा चायम् अविपर्ययोऽप्य् आत्मा विपर्ययवान् इवाभोक्तापि भोक्तेव विवेकख्यातिरहितोऽपि तत्सहित इव विवेकख्यात्या प्रकाशते। एतच् च "चितेर् अप्रतिसंक्रमायास् तदाकारापत्तौ स्वबुद्धिसंवेदनम्" [योगसूत्रम् 4.22] इत्य् अत्र "सत्त्वपुरुषयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः" [योगसूत्रम् 3.35] इत्य् अत्र चोपपादयिष्यते। एतच् च मतान्तरेऽपि सिद्धम् इत्य् आह --- तथा चेति। पञ्चशिखाचार्यस्य सूत्रम् "एकम् एव दर्शनं ख्यातिर् एव दर्शनम्" इति। ननु कथम् एकं दर्शनं यावता बुद्धेः शब्दादिविषया विवेकविषया च वृत्तिः प्राकृततया जडत्वेनानुभाव्या दर्शनं ततोऽन्यत् पुरुषस्य चैतन्यम् अनुभवो दर्शनम् इत्य् अत आह --- ख्यातिर् एव दर्शनम् इति। उदयव्ययधर्मिणीं वृत्तिं ख्यातिं लौकिकीम् अभिप्रेत्यैतद् उक्तम् --- एकम् एवेति। चैतन्यं तु पुरुषस्य स्वभावो न ख्यातेः। तत् तु न लोकप्रत्यक्षगोचरोऽपि त्व् आगमानुमानगोचर इत्य् अर्थः। तद् अनेन व्युत्थानावस्थायां मूलकारणम् अविद्यां दर्शयता तद्धेतुकः संयोगो भोगहेतुः स्वस्वामिभावोऽपि सूचित इति तम् उपपादयन्न् आह --- चित्तं स्वं भवति पुरुषस्य स्वामिन इति संबन्धः। ननु चित्तजनितम् उपकारं भजमानो हि चेतनश् चित्तस्येशिता। न चास्य तज्जनितोपकारसंभवस् तदसंबन्धाद् अनुपकार्यत्वात् तत्संयोगतदुपकारभागित्वे परिणामप्रसङ्गाद् इत्य् अत आह --- अयस्कान्तमणिकल्पं संनिधिमात्रोपकारि दृश्यत्वेनेति। न पुरुषसंयुक्तं चित्तम् अपि तु तत्संनिहितम्। संनिधिश् च पुरुषस्य न देशतः कालतो वा तदसंयोगात् किं तु योग्यतालक्षणः। अस्ति च पुरुषस्य भोक्तृशक्तिश् चित्तस्य भोगशक्तिः। तद् उक्तम् --- दृश्यत्वेनेति। शब्दाद्याकारपरिणतस्य भोग्यत्वेनेत्य् अर्थः। भोगश् च यद्य् अपि शब्दाद्याकारा वृत्तिश् चित्तस्य धर्मस् तथापि चित्तचैतन्ययोर् अभेदसमारोपाद् वृत्तिसारूप्यात् पुरुषस्येत्य् उक्तम्। तस्माच् चित्तेनासंयोगेऽपि तज्जनितोपकारभागिता पुरुषस्यापरिणामिता चेति सिद्धम्। ननु स्वस्वामिसंबन्धो भोगहेतुर् अविद्यानिमित्तो ऽविद्या तु किंनिमित्ता न खल्व् अनिमित्तं कार्यम् उत्पद्यते। यथाहुः ---

"स्वप्नादिवद् अविद्यायाः प्रवृत्तिस् तस्य किंकृता"।

इति शङ्काम् उपसंहारव्याजेनोद्धरति --- तस्माच् चित्तवृत्तिबोधे शान्तघोरमूढाकारचित्तवृत्त्युपभोगेऽनाद्यविद्यानिमित्तत्वाद् अनादिः संयोगो हेतुर् अविद्यावासनयोश् च संतानो बीजाङ्कुरसंतानवद् अनादिर् इति भावः॥1.4॥

वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः॥1.5॥

स्याद् एतत् पुरुषो हि शक्य उपदिश्यते। न च वृत्तिनिरोधो वृत्तीर् अविज्ञाय शक्यः। न च सहस्रेणापि पुरुषायुषैर् अलम् इमाः कश्चित् परिगणयितुम्। असंख्याताश् च कथं निरोद्धव्या इत्य् आशङ्क्य तासाम् इयत्तास्वरूपप्रतिपादनपरं सूत्रम् अवतारयति --- ताः पुनर् निरोद्धव्या बहुत्वे सति चित्तस्य --- वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः। वृत्तिरूपोऽवयव्य् एकस् तस्य प्रमाणादयोऽवयवाः पञ्च। ततस् तदवयवा पञ्चतयी पञ्चावयवा वृत्तिर् भवति। ताश् च वृत्तयश् चैत्रमैत्रादिचित्तभेदाद् बह्व्य इति बहुवचनम् उपपन्नम्। एतद् उक्तं भवति --- चैत्रो वा मैत्रो वान्यो वा कश्चित् सर्वेषाम् एव तेषां वृत्तयः पञ्चतय्य एव नाधिका इति। चित्तस्येति चैकवचनं जात्यभिप्रायम्। चित्तानाम् इति तु द्रष्टव्यम्। तासाम् अवान्तरविशेषम् अनुष्ठानोपयोगिनं दर्शयति --- क्लिष्टाक्लिष्टा इति। अक्लिष्टा उपादाय क्लिष्टा निरोद्धव्यास् ता अपि परेण वैराग्येणेति। अस्य व्याख्यानं --- क्लेशहेतुका इति। क्लेशा अस्मितादयो हेतवः प्रवृत्तिकारणं यासां वृत्तीनां तास् तथोक्ताः। यद् वा पुरुषार्थप्रधानस्य रजस्तमोमयीनां हि वृत्तीनां क्लेशकारणत्वेन क्लेशायैव प्रवृत्तिः। क्लेशः क्लिष्टं तद् आसाम् अस्तीति क्लिष्टा इति। यत एव क्लेशोपार्जनार्थम् अमूषां प्रवृत्तिर् अत एव कर्माशयप्रचये क्षेत्रीभूताः। प्रमाणादिना खल्व् अयं प्रतिपत्तार्थम् अवसाय तत्र सक्तो द्विष्टो वा कर्माशयम् आचिनोतीति भवन्ति धर्माधर्मप्रचयप्रसवभूमयो वृत्तयः क्लिष्टा इति। अक्लिष्टा व्याचष्टे --- ख्यातिविषया इति। विधूतरजस्तमसो बुद्धिसत्त्वस्य प्रशान्तवाहिनः प्रज्ञाप्रसादः ख्यातिस् तया विषयिण्या तद्विषयं सत्त्वपुरुषविवेकम् उपलक्षयति। तेन सत्त्वपुरुषविवेकविषया यतोऽत एव गुणाधिकारविरोधिन्यः। कार्यारम्भणं हि गुणानाम् अधिकारो विवेकख्यातिपर्यवसानं च तद् इति चरिताधिकाराणां गुणानाम् अधिकारं विरुन्धन्तीति। अतस् ता अक्लिष्टाः प्रमाणप्रभृतयो वृत्तयः। स्याद् एतद् वीतरागजन्मादर्शनात् क्लिष्टवृत्तय एव सर्वे प्राणभृतः। न च क्लिष्टवृत्तिप्रवाहे भवितुम् अर्हन्त्य् अक्लिष्टा वृत्तयो न चामूषां भावेऽपि कार्यकारिता विरोधिम् अध्यपातित्वात् तस्मात् क्लिष्टानाम् अक्लिष्टाभिर् निरोधस् तासां च वैराग्येण परेणेति मनोरथमात्रम् इत्य् अत आह --- क्लिष्टप्रवाहेति। आगमानुमानाचार्योपदेशपरिशीलनलब्धजन्मनी अभ्यासवैराग्ये क्लिष्टच्छिद्रम् अन्तरा तत्र पतिताः स्वयम् अक्लिष्टा एव यद्य् अपि क्लिष्टप्रवाहपतिताः। न खलु शालग्रामे किरातशतसंकीर्णे प्रतिवसन्न् अपि ब्राह्मणः किरातो भवति। अक्लिष्टच्छिद्रेष्व् इति निदर्शनम्। क्लिष्टान्तरवर्तितया च क्लिष्टाभिर् अनभिभूता अक्लिष्टाः। स्वसंस्कारपरिपाकक्रमेण क्लिष्टा एव तावद् अभिभवन्तीत्य् आह --- तथाजातीयका इति। अक्लिष्टाभिर् वृत्तिभिर् अक्लिष्टाः संस्कारा इत्य् अर्थः। तद् इदं वृत्तिसंस्कारचक्रम् अनिशम् आवर्तते, आ निरोधसमाधेः। तद् एवंभूतं चित्तं निरोधावस्थं संस्कारशेषं भूत्वात्मकल्पेनावतिष्ठत इत्य् आपाततः प्रलयं वा गच्छतीति परमार्थतः। पिण्डीकृत्य सूत्रार्थम् आह --- ता इति। पञ्चधेत्य् अर्थकथनमात्रं न तु शब्दवृत्तिव्याख्यानम्। तयपः प्रकारेऽस्मरणात्॥1.5॥

प्रमाणविपर्ययविकल्पनिद्रास्मृतयः॥1.6॥

ताः स्वसंज्ञाभिर् उद्दिशति --- प्रमाणविपर्ययविकल्पनिद्रास्मृतयः। निर्देशे यथावचनं विग्रहश् चार्थे द्वंद्वः समास इतरेतरयोगे। यथा --- अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर् अविद्या [योगसूत्रम् 2.5] इत्य् उक्तेऽपि न दिङ्मोहालातचक्रादिविभ्रमा व्युदस्यन्त एवम् इहापि प्रमाणाद्यभिधानेऽपि वृत्त्यन्तरसद्भावशङ्का न व्युदस्यतेति तन्निरासाय वक्तव्यं पञ्चतय्य इति। एतावत्य एव वृत्तयो नापराः सन्तीति दर्शितं भवति॥1.6॥

प्रत्यक्षानुमानागमाः प्रमाणानि॥1.7॥

तत्र प्रमाणवृत्तिं विभजन् सामान्यलक्षणम् आह --- प्रत्यक्षानुमानागमाः प्रमाणानि। अनधिगततत्त्वबोधः पौरुषेयो व्यवहारहेतुः प्रमा। तत्कारणं प्रमाणम्। विभागवचनं च न्यूनाधिकसंख्याव्यवच्छेदार्थम्। तत्र सकलप्रमाणमूलत्वात् प्रथमतः प्रत्यक्षं लक्षयति --- इन्द्रियेति। अर्थस्येति समारोपितत्वं निषेधति। तद्विषयेति बाह्यगोचरतया ज्ञानाकारगोचरत्वं निवारयति। चित्तवर्तिनो ज्ञानाकारस्य बाह्यज्ञेयसंबन्धं दर्शयति --- बाह्यवस्तूपरागाद् इति। व्यवहितस्य तदुपरागे हेतुम् आह --- इन्द्रियप्रणालिकयेति। सामान्यमात्रम् अर्थ इत्य् एके। विशेषा एवेत्य् अन्ये। सामान्यविशेषतद्वत्तेत्य् अपरे वादिनः प्रतिपन्नास् तन्निरासायाह --- सामान्यविशेषात्मन इति। न तद्वत्ता किं तु तादात्म्यम् अर्थस्य। एतच् चैकान्तानभ्य्पगम इत्य् अत्र प्रतिपादयिष्यते। अनुमानागमविषयात् प्रत्यक्षविषयं व्यवच्छिनत्ति --- विशेषावधारणप्रधानेति। यद्य् अपि सामान्यम् अपि प्रत्यक्षे प्रतिभासते तथापि विशेषं प्रत्युपसर्जनीभूतम् इत्य् अर्थः। एतच् च साक्षात्कारोपलक्षणपरम्। तथा च विवेकख्यातिर् अपि लक्षिता भवति। फलविप्रतिपत्तिं निराकरोति --- फलं पौरुषेयश् चित्तवृत्तिबोध इति। ननु पुरुषवर्ती बोधः कथं चित्तगताया वृत्तेः फलम्। न हि खदिरगोचरव्यापारेण परशुना पलाशे छिदा क्रियत इत्य् अत आह --- अविशिष्ट इति। न हि पुरुषगतो बोधो जन्यते, अपि तु चैतन्यम् एव बुद्धिदर्पणप्रतिबिम्बितं बुद्धिवृत्त्यार्थाकारया तदाकारताम् आपद्यमानं फलम्। तच् च तथाभूतं बुद्धेर् अविशिष्टं बुद्ध्यात्मकं, वृत्तिश् च बुद्ध्यात्मिकेति सामानाधिकरण्याद् युक्तः प्रमाणफलभाव इत्य् अर्थः। एतच् चोपपादयिष्याम इत्य् आह --- प्रतिसंवेदीति। प्रत्यक्षानन्तरं प्रवृत्त्यादिलिङ्गकश्रोतृबुद्ध्यनुमानप्रभवसंबन्धदर्शनसमुत्थतयागमस्यानुमानजत्वाद् अनुमितस्य चागमेनान्वाख्यानाद् आगमात् प्राग् अनुमानं लक्षयति --- अनुमेयस्येति। जिज्ञासितधर्मविशिष्टो धर्म्यनुमेयस् तस्य तुल्यजातीयाः साध्यधर्मसामान्येन समानार्थाः सपक्षास् तेष्व् अनुवृत्त इत्य् अनेन विरुद्धत्वम् असाधारणत्वं च साधनधर्मस्य निराकरोति। भिन्नजातीया असपक्षास् ते च सपक्षाद् अन्ये तद्विरुद्धास् तदभाववन्तश् च, तेभ्यो व्यावृत्तस् तद् अनेन साधारणानैकान्तिकत्वम् अपाकरोति। संबध्यत इति संबन्धो लिङ्गम् अनेन पक्षधर्मतां दर्शयन्न् असिद्धतां निवारयति। तद्विषया तन्निबन्धना, "षिञ् बन्धने" [धातुपाठः 5] इत्य् अस्माद् विषयपदव्युत्पत्तेः। सामान्यावधारणेति प्रत्यक्षविषयाद् व्यवच्छिनत्ति। संबन्धसंवेदनाधीनजन्मानुमानं विशेषेषु संबन्धग्रहणाभावेन सामान्यम् एव सुकरसंबन्धग्रहणं गोचरयतीति। उदाहरणम् आह --- यथेति। चो हेत्वर्थे। विन्ध्यो ऽगतिर् यतस् तस्मात् तस्याप्राप्तिर् अतो गतिनिवृत्तौ प्राप्तेर् निवृत्तिर् देशान्तरप्राप्तेर् गतिमच् चन्द्रतारकं चैत्रवद् इति सिद्धम्। आगमस्य वृत्तेर् लक्षणम् आह --- आप्तेनेति। तत्त्वदर्शनकारुण्यकरणपाटवाभिसंबन्ध आप्तिस् तया वर्तत इत्य् आप्तस् तेन दृष्टोऽनुमितो वार्थः। श्रुतस्य पृथग् अनुपादानं तस्य दृष्टानुमितमूलत्वेन ताभ्याम् एव चरितार्थत्वाद् आप्तचित्तवर्तिज्ञानसदृशस्य ज्ञानस्य श्रोतृचित्ते समुत्पादः स्वबोधसंक्रान्तिस् तस्यै, अर्थ उपदिश्यते श्रोतृहिताहितप्राप्तिपरिहारोपायतया प्रज्ञाप्यते। शेषं सुगमम्। यस्यागमस्याश्रद्धेयार्थो वक्ता, यथा यान्य् एव दश दाडिमानि तानि षड् अपूपा भविष्यन्तीति। न दृष्टानुमितार्थो यथा चैत्यं वन्देत स्वर्गकाम इति। स आगमः प्लवते। नन्व् एवं मन्वादीनाम् अप्य् आगमः प्लवेत। न हि तेऽपि दृष्टानुमितार्थाः। यथाहुः ---

"यः कश्चित् कस्यचिद् धर्मो मनुना परिकीर्तितः। स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः।" [मनुस्मृतिः 2.7]

इत्य् अत आह --- मूलवक्तरि त्व् इति। मूलवक्ता हि तत्रेश्वरो दृष्टानुमितार्थ इत्य् अर्थः॥1.7॥

विपर्ययो मिथ्याज्ञानम् अतद्रूपप्रतिष्ठम्॥1.8॥

विपर्ययो मिथ्याज्ञानम् अतद्रूपप्रतिष्ठम्। विपर्यय इति लक्ष्यनिर्देशः। मिथ्याज्ञानम् इत्यादि लक्षणम्। यज् ज्ञानप्रतिभासिरूपं, तद्रूपाप्रतिष्ठम् एवातद्रूपप्रतिष्ठम्। यथाश्राद्धभोजीति। अतः संशयोऽपि संगृहीतः। एतावांस् तु विशेषः --- तत्र ज्ञानारूढैवाप्रतिष्ठता द्विचन्द्रादेस् तु बाधज्ञानेन। नन्व् एवं विकल्पोऽपि तद्रूपाप्रतिष्ठानाद् विचारतो विपर्ययः प्रसज्येतेत्य् अत आह --- मिथ्याज्ञानम् इति। अनेन हि सर्वजनीनानुभवसिद्धो बाध उक्तः। स चास्ति विपर्यये न तु विकल्पे, तेन व्यवहारात्। पण्डितरूपाणाम् एव तु विचारयतां तत्र बाधबुद्धेर् इति। चोदयति --- स कस्मान् न प्रमाणम्। नोत्तरेणोपजातविरोधिना ज्ञानेन पूर्वं बाधनीयम् अपि तु पूर्वेणैव प्रथमम् उपजातेनानुपजातविरोधिना परम् इति भावः। परिहरति --- यतः प्रमाणेनेति। यत्र हि पूर्वापेक्षा परोत्पत्तिस् तत्रैवम् इह तु स्वकारणाद् अन्योन्यानपेक्षे ज्ञाने जायेते। तेनोत्तरस्य पूर्वम् अनुपमृद्योदयम् अनासादयतस् तदपबाधात्मैवोदयो न तु पूर्वस्योत्तरबाधात्मा, तस्य तदानीम् अप्रसक्तेः। तस्माद् अनुपजातविरोधिता बाध्यत्वे हेतुर् उपजातविरोधिता च बाधकत्वे। तस्माद् भूतार्थविषयत्वात् प्रमाणेनाप्रमाणस्य बाधनं सिद्धम्। उदाहरणम् आह --- तत्र प्रमाणेनेति। अस्य कुत्सितत्वं हानाय दर्शयति --- सेयं पञ्चेति। अविद्यासामान्यम् अविद्यास्मितादिषु पञ्चसु पर्वस्व् इत्य् अर्थः। अव्यक्तमहदहंकारपञ्चतन्मात्रेष्व् अष्टस्व् अनात्मस्व् आत्मबुद्धिर् अविद्या तमः। एवं योगिनाम् अष्टस्व् अणिमादिकेष्व् अइश्वर्येष्व् अश्रेयःसु श्रेयोबुद्धिर् अष्टविधो मोहः पूर्वस्माज् जघन्यः। स चास्मितोच्यते। यथा योगेनाष्टविधम् अइश्वर्यम् उपादाय सिद्धो भूत्वा दृष्टानुश्रविकाञ् शब्दादीन् दश विषयान् भोक्ष्य इत्येवमात्मिका प्रतिपत्तिर् महामोहो रागः। एवम् एतेनैवाभिसंधिना प्रवर्तमानस्य केनचित् प्रतिबद्धत्वाद् अणिमादीनाम् अनुत्पत्तौ तन्निबन्धनस्य दृष्टानुश्रविकविषयोपभोगस्यासिद्धेः प्रतिबन्धकविषयः क्रोधः स तामिस्राख्यो द्वेषः। एवम् अणिमादिगुणसंपत्तौ दृष्टानुश्रविकविषयप्रत्युपस्थाने च कल्पान्ते सर्वम् एतन् नङ्क्ष्यतीति यस् त्रासः सोऽभिनिवेशो ऽन्धतामिस्रः। तद् उक्तम् ---

"भेदस् तमसोऽष्टविधो मोहस्य च दशविधो महामोहः। तामिस्रो ऽष्टादशधा तथा भवत्य् अन्धतामिस्रः" [सांख्यकारिका 48] इति॥1.8॥

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः॥1.9॥

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः। ननु शब्दज्ञानानुपाती चेद् आगमप्रमाणान्तरगतो (आगमप्रमाणान्तर्गतो) विकल्पः प्रसज्येत निर्वस्तुकत्वे वा विपर्ययः स्याद् इत्य् अत आह --- स नेति। न प्रमाणविपर्ययान्तर्गतः। कस्माद् यतो वस्तुशून्यत्वेऽपीति प्रमाणान्तर्गतिं निषेधति। शब्दज्ञानमाहात्म्यनिबन्धन इति विपर्ययान्तर्गतिम्। एतद् उक्तं भवति --- क्वचिद् अभेदे भेदम् आरोपयति क्वचित् पुनर् भिन्नानाम् अभेदम्। ततो भेदस्याभेदस्य च वस्तुनोऽभावात् तदाभासो विकल्पो न प्रमाणं नापि विपर्ययो व्यवहाराविसंवादाद् इति। शास्त्रप्रसिद्धम् उदाहरणम् आह --- तद्यथेति। किं विशेष्यं केन व्यपदिश्यते विशेष्यते नाभेदे विशेष्यविशेषणभावो न हि गवा गौर् विशेष्यते। किं तु भिन्नेनैव चैत्रेण। तद् इदम् आह --- भवति च व्यपदेशे वृत्तिः। व्यपदेशव्यपदेश्ययोर् भावो व्यपदेशः। विशेषणविशेष्यभाव इति यावत्। तस्मिन् वृत्तिर् वाक्यस्य यथा चैत्रस्य गौर् इति। शास्त्रीयम् एवोदाहरणान्तरं समुच्चिनोति --- तथेति। प्रतिषिद्धो वस्तुनः पृथिव्यादेर् धर्मः परिस्पन्दो यस्य स तथोक्तः। कोऽसौ निष्क्रियः पुरुषः। न खलु सांख्यीये राद्धान्तेऽभावो नाम कश्चिद् अस्ति वस्तुधर्मो येन पुरुषो विशेष्येतेत्य् अर्थः। क्वचित् पाठः प्रतिषिद्धा वस्तुधर्मा इति। तस्यार्थः --- प्रतिषेधव्याप्ताः प्रतिषिद्धा न वस्तुधर्माणां तद्व्याप्यता भावाभावयोर् असंबन्धाद् अथ च तथा प्रतीतिर् इति। लौकिकम् उदाहरणम् आह --- तिष्ठति बाण इति। यथा हि पचति भिनत्तीत्य् अत्र पूर्वापरीभूतः कर्मक्षणप्रचय एकफलावच्छिन्नः प्रतीयत एवं तिष्ठतीत्य् अत्रापि। पूर्वापरीभावम् एवाह --- स्थास्यति स्थित इति। ननु भवतु पाकवत् पूर्वापरीभूतयावस्थानक्रियया बाणाद् भिन्नया बाणस्य व्यपदेश इत्य् अत आह --- गतिनिवृत्तौ धात्वर्थमात्रं गम्यते। गतिनिवृत्तिर् एव तावत् कल्पिता तस्या अपि भावरूपत्वं तत्रापि पूर्वापरीभाव इत्य् अहो कल्पनापरम्परेत्य् अर्थः। अभावः कल्पितो भाव इव चानुगत इव च सर्वपुरुषेषु गम्यते न पुनः पुरुषव्यतिरिक्तो धर्मः कश्चिद् इत्य् उदाहरणान्तरम् आह --- तथानुत्पत्तिधर्मेति। प्रमाणविपर्ययाभ्याम् अन्या न विकल्पवृत्तिर् इति वादिनो बहवः प्रतिपेदिरे। तत्प्रतिबोधनायोदाहरणप्रपञ्च इति मन्तव्यम्॥1.9॥

अभावप्रत्ययालम्बना वृत्तिर् निद्रा॥1.10॥

अभावप्रत्ययालम्बना वृत्तिर् निद्रा। अधिकृतं हि वृत्तिपदम् अनुवादकम्। प्रमाणविपर्ययविकल्पस्मृतीनां वृत्तित्वं प्रति परीक्षकाणाम् अविप्रतिपत्तेः। अतस् तद् अनूद्यते विशेषविधानाय। निद्रायास् तु वृत्तित्वे परीक्षकाणाम् अस्ति विप्रतिपत्तिर् इति वृत्तित्वं विधेयम्। न च प्रकृतम् अनुवादकं विधानाय कल्पत इति पुनर् वृत्तिग्रहणम्। जाग्रत्स्वप्नवृत्तीनाम् अभावस् तस्य प्रत्ययः कारणं बुद्धिसत्त्वाच् छादकं तमस् तद् एवालम्बनं विषयो यस्याः सा तथोक्ता वृत्तिर् निद्रा। बुद्धिसत्त्वे हि त्रिगुणे यदा सत्त्वरजसी अभिभूय समस्तकरणावरकम् आविरस्ति तमस् तदा बुद्धेर् विषयाकारपरिणामाभावाद् उद्भूततमोमयीं बुद्धिम् अवबुध्यमानः पुरुषः सुषुप्तोऽन्तःसंज्ञ इत्य् उच्यते। कस्मात् पुनर् निरुद्धकैवल्ययोर् इव वृत्त्यभाव एव न निद्रेत्य् अत आह --- सा च संप्रबोधे प्रत्यवमर्शात् सोपपत्तिकात् स्मरणात् प्रत्ययविशेषः। कथं, यदा हि सत्त्वसचिवं तम आविरस्ति तदेदृशः प्रत्यवमर्शः सुप्तोत्थितस्य भवति सुखम् अहम् अस्वाप्सं प्रसन्नं मे मनः प्रज्ञां मे विशारदीकरोति स्वच्छीकरोतीति। यदा तु रजःसचिवं तम आविरस्ति तदेदृशः प्रत्यवमर्श इत्य् आह --- दुःखम् अहम् अस्वाप्सं स्त्यानम् अकर्मण्यं मे मनः कस्माद् यतो भ्रमत्य् अनवस्थितम्। नितान्ताभिभूतरजःसत्त्वे तमःसमुल्लासे स्वापे प्रबुद्धस्य प्रत्यवमर्शम् आह --- गाढं मूढोऽहम् अस्वाप्सं गुरूणि मे गात्राणि क्लान्तं मे चित्तमलसं मुषितम् इव तिष्ठतीति। साध्यव्यतिरेके हेतुव्यतिरेकम् आह --- न खल्व् अयम् इति। प्रबुद्धस्य प्रबुद्धमात्रस्य। तदाश्रिताश् चेति बोधकाले, प्रत्ययानुभवे वृत्त्यभावकारणानुभव इत्य् अर्थः। ननु प्रमाणादयो व्युत्थानचित्ताधिकरणा निरुध्यन्तां समाधिप्रतिपक्षत्वान् निद्रायास् त्व् एकाग्रवृत्तितुल्यायाः कथं समाधिप्रतिपक्षतेत्य् अत आह --- सा च समाधाव् इति। एकाग्रतुल्यापि तामसत्वेन निद्रा सबीजनिर्बीजसमाधिप्रतिपक्षेति सापि निरोद्धव्येत्य् अर्थः॥1.10॥

अनुभूतविषयासंप्रमोषः स्मृतिः॥1.11॥

अनुभूतविषयासंप्रमोषः स्मृतिः। प्रमाणादिभिर् अनुभूते विषये योऽसंप्रमोषो ऽस्तेयं सा स्मृतिः। संस्कारमात्रजस्य हि ज्ञानस्य संस्कारकारणानुभवावभासितो विषय आत्मीयस् तदधिकविषयपरिग्रहस् तु संप्रमोषः स्तेयम्। कस्मात् सादृश्यात्। "मुष स्तेये" [धातुपाठः 9] इत्य् अस्मात् प्रमोषपदव्युत्पत्तेः। एतद् उक्तं भवति --- सर्वे प्रमाणादयोऽनधिगतम् अर्थं सामान्यतः प्रकारतो वाधिगमयन्ति। स्मृतिः पुनर् न पूर्वानुभवमर्यादाम् अतिक्रामति। तद्विषया तदूनविषया वा न तु तदधिकविषया। सोऽयं वृत्त्यन्तराद् विशेषः स्मृतेर् इति। विमृशति --- किं प्रत्ययस्येति। ग्राह्यप्रवणत्वाद् अनुभवस्य स्वानुभवाभावात् तज्जः संस्कारो ग्राह्यम् एव स्मारयतीति प्रतिभाति। अनुभवमात्रजनितत्वाच् चानुभवम् एवेति। विमृश्योपपत्तित उभयस्मरणम् अवधारयति --- ग्राह्यप्रवणतया ग्राह्योपरक्तः। परमार्थतस् तु ग्राह्यग्रहणे एवोभयं तयोर् आकारं स्वरूपं निर्भासयति प्रकाशयति। स्वव्यञ्जकं कारणम् अञ्जनम् आकारो यस्य स तथोक्तः। स्वकारणाकार इत्य् अर्थः। व्यञ्जकम् उद्बोधकं तेनाञ्जनं फलाभिमुखीकरणं यस्येति वेत्य् अर्थः। ननु यदि कारणविचारेण बुद्धिस्मरणयोः सारूप्यं कस् तर्हि भेद इत्य् अत आह --- तत्र ग्रहणेति। ग्रहणम् उपादानं, न च गृहीतस्योपात्तस्योपादानं संभवति। तद् अनेनानधिगतबोधनं बुद्धिर् इत्य् उक्तम्। ग्रहणाकारो ग्रहणरूपं पूर्वं प्रधानं यस्याः सा तथोक्ता। विकल्पितश् चायम् अभेदेऽपि गुणप्रधानभाव इति। ग्राह्याकारः पूर्वः प्रथमो यस्याः सा तथोक्ता। इदम् एव च ग्राह्याकारस्य ग्राह्यस्य पूर्वत्वं यद् वृत्त्यन्तरविषयीकृतत्वम् अर्थस्य। तद् अनेन वृत्त्यन्तरविषयीकृतगोचरा स्मृतिर् इत्य् उक्तं भवति। सोऽयम् असंप्रमोष इति। नन्व् अस्ति स्मृतेर् अपि संप्रमोषः। दर्शयति हि पित्रादेर् अतीतस्य देशकालान्तरानुभूतस्याननुभूतचरदेशकालान्तरसंबन्धः स्वप्न इत्य् अत आह --- सा च द्वयीति। भावितः कल्पितः स्मर्तव्यो यया सा तथोक्ता। अभावितोऽकल्पितः पारमार्थिक इति यावत्। नेयं स्मृतिर् अपि तु विपर्ययस् तल्लक्षणोपपन्नत्वात् स्मृत्याभासतया तु स्मृतिर् उक्ता। प्रमाणाभासम् इव प्रमाणम् इति भावः। कस्मात् पुनर् अन्ते स्मृतेर् उपन्यास इत्य् अत आह --- सर्वाः स्मृतय इति। अनुभवः प्राप्तिः। प्राप्तिपूर्वा वृत्तिः स्मृतिस् ततः स्मृतीनाम् उपजन इत्य् अर्थः। ननु ये पुरुषं क्लिश्नन्ति ते निरोद्धव्याः प्रेक्षावता। क्लेशाश् च तथा। न च वृत्तयः, तत् किमर्थम् आसां निरोध इत्य् अत आह --- सर्वाश् चैता इति। सुगमम्॥1.11॥

अभ्यासवैराग्याभ्यां तन्निरोधः॥1.12॥

निरोधोपायं पृच्छति --- अथेति। सूत्रेणोत्तरम् आह --- अभ्यासवैराग्याभ्यां तन्निरोधः। अभ्यासवैराग्ययोर् निरोधे जनयितव्येऽवान्तरव्यापारभेदेन समुच्चयो न तु विकल्प इत्य् आह --- चित्तनदीति। प्राग्भारः प्रबन्धः। निम्नता गम्भीरता, अगाधतेति यावत्॥1.12॥

तत्र स्थितौ यत्नोऽभ्यासः॥1.13॥

तत्राभ्यासस्य स्वरूपप्रयोजनाभ्यां लक्षणम् आह --- तत्र स्थितौ यत्नोऽभ्यासः। तद् व्याचष्टे --- चित्तस्यावृत्तिकस्य राजसतामसवृत्तिरहितस्य प्रशान्तवाहिता विमलता सात्त्विकवृत्तिवाहितैकाग्रता स्थितिः। तदर्थ इति। स्थिताव् इति निमित्तसप्तमी व्याख्याता। यथा "चर्मणि द्वीपिनं हन्ति" इति। प्रयत्नम् एव पर्यायाभ्यां विशदयति --- वीर्यम् उत्साह इति। तस्येच्छायोनिताम् आह --- तत्संपिपादयिषया। तद् इति स्थितिं परामृशति। प्रयत्नस्य विषयम् आह --- तत्साधनेति। स्थितिसाधनान्य् अन्तरङ्गबहिरङ्गाणि यमनियमादीनि। साधनगोचरः कर्तृव्यापारो न फलगोचर इति॥1.13॥

स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः॥1.14॥

ननु व्युत्थानसंस्कारेणानादिना परिपन्थिना प्रतिबद्धो ऽभ्यासः कथं स्थित्यै कल्पत इत्य् अत आह --- स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः। सोऽयम् अभ्यासो विशेषणत्रयसंपन्नः सन् दृढावस्थो न सहसा व्युत्थानसंस्कारैर् अभिभूतस्थितिरूपविषयो भवति। यदि पुनर् एवंभूतम् अप्य् अभ्यासं कृत्वोपरमेत् ततः कालपरिवासेनाभिभूयेत। तस्मान् नोपरन्तव्यम् इति भावः॥1.14॥

दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्॥1.15॥

वैराग्यम् आह --- दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्। चेतनाचेतनेषु दृष्टविषयेषु वितृष्णताम् आह --- स्त्रिय इति। अइश्वर्यम् आधिपत्यम्। अनुश्रवो वेदस् ततोऽधिगता आनुश्रविकाः स्वर्गादयः। तत्रापि वैतृष्ण्यम् आह --- स्वर्गेति। देहरहिता विदेहाः करणेषु लीनास् तेषां भावो वैदेह्यम्। अन्ये तु प्रकृतिम् एवात्मानम् अभिमन्यमानाः प्रकृत्युपासकाः प्रकृतौ साधिकारायाम् एव लीनास् तेषां भावः प्रकृतिलयत्वं तत्प्राप्तिविषये, आनुश्रविकविषये वितृष्णस्यानुश्रविकविषये वितृष्णो हि स्वर्गादिप्राप्तिविषये वितृष्ण इत्य् उच्यते। ननु यदि वैतृष्ण्यमात्रं वैराग्यं हन्त विषयाप्राप्ताव् अपि तद् अस्तीति वैराग्यं स्याद् इत्य् अत आह --- दिव्यादिव्येति। न वैतृष्ण्यमात्रं वैराग्यम् अपि तु दिव्यादिव्यविषय्संप्रयोगे ऽपि चित्तस्यानाभोगात्मिका। ताम् एव स्पष्टयति --- हेयोपादेयशून्या। आसङ्गद्वेषरहितोपेक्षाबुद्धिर् वशीकारसंज्ञा। कुतः पुनर् इयम् इत्य् अत्राह --- प्रसंख्यानबलाद् इति। तापत्रयपरीतता विषयाणां दोषस् तत्परिभावनया तत्साक्षात्कारः प्रसंख्यानं तद्बलाद् इत्य् अर्थः। यतमानसंज्ञा, व्यतिरेकसंज्ञा, एकेन्द्रियसंज्ञा, वशीकारसंज्ञा चेति चतस्रः संज्ञा इत्य् आगमिनः। रागादयः खलु कषायाश् चित्तवर्तिनस् तैर् इन्द्रियाणि यथास्वं विषयेषु प्रवर्तन्ते, तन् मा प्रवर्तिषतेन्द्रियाणि तत्तद्विषयेष्व् इति तत्परिपाचनायारम्भः प्रयत्नः सा यतमानसंज्ञा। तदारम्भे सति केचित् कषायाः पक्वाः पच्यन्ते पक्ष्यन्ते च केचित्। तत्र पक्ष्यमाणेभ्यः पक्वानां व्यतिरेकेणावधारणं व्यतिरेकसंज्ञा। इन्द्रियप्रवर्तनासमर्थतया पक्वानाम् अउत्सुक्यमात्रेण मनसि व्यवस्थानम् एकेन्द्रियसंज्ञा। अउत्सुक्यमात्रस्यापि निवृत्तिर् उपस्थितेष्व् अपि दिव्यादिव्यविषयेषूपेक्षाबुद्धिः संज्ञात्रयात् परा वशीकारसंज्ञा। एतयैव च पूर्वासां चरितार्थत्वान् न ताः पृथग् उक्ता इति सर्वम् अवदातम्॥1.15॥

तत् परं पुरुषख्यातेर् गुणवैतृष्ण्यम्॥1.16॥

अपरं वैराग्यम् उक्त्वा परम् आह --- तत् परं पुरुषख्यातेर् गुणवैतृष्ण्यम्। अपरवैराग्यस्य परं वैराग्यं प्रति कारणत्वम्। तत्र च द्वारम् आदर्शयति --- दृष्टानुश्रविकविषयदोषदर्शी विरक्त इति। अनेनापरं वैराग्यं दर्शितम्। पुरुषदर्शनाभ्यासाद् आगमानुमानाचार्योपदेशसमधिगतस्य पुरुषस्य दर्शनं तस्याभ्यासः पौनःपुन्येन निषेवणं तस्मात् तस्य दर्शनस्य शुद्धी रजस्तमःपरिहाण्या सत्त्वैकतानता तया यो गुणपुरुषयोः प्रकर्षेण विवेकः पुरुषः शुद्धो ऽनन्तस् तद्विपरीता गुणा इति, तेनाप्यायिता बुद्धिर् यस्य योगिनः स तथोक्तः। तद् अनेन धर्ममेघाख्यः समाधिर् उक्तः। स तथाभूतो योगी गुणेभ्यो व्यक्ताव्यक्तधर्मकेभ्यः सर्वथा विरक्तः सत्त्वपुरुषान्यताख्याताव् अपि गुणात्मिकायां यावद् विरक्त इति। तत् तस्माद् द्वयं वैराग्यम्। पूर्वं हि वैराग्यं सत्त्वसमुद्रेकविधूततमसि रजःकणकलङ्कसंपृक्ते चित्तसत्त्वे। तच् च तौष्टिकानाम् अपि समानम्। ते हि तेनैव प्रकृतिलया बभूवुः। यथोक्तम् --- वैराग्यात् प्रकृतिलय इति। तत्र तयोर् द्वयोर् मध्ये यद् उत्तरं तज्ज्ञानप्रसादमात्रम्। मात्रग्रहणेन निर्विषयतां सूचयति। तद् एव हि तादृशं चित्तसत्त्वं रजोलेशमलेनाप्य् अपरामृष्टम् अस्याश्रयोऽत एव ज्ञानप्रसाद इत्य् उच्यते। चित्तसत्त्वं हि प्रसादस्वभावम् अपि रजस्तमःसंपर्कान् मलिनताम् अनुभवति। वैराग्याभ्यासविमलवारिधाराधौतसमस्तरजस्तमोमलं त्व् अतिप्रसन्नं ज्ञानप्रसादमात्रपरिशेषं भवति। तस्य गुणानुपादेयत्वाय दर्शयति --- यस्योदये सति योगी प्रत्युदितख्यातिः। ख्यातिविशेषे सति वर्तमानख्यातिमान् इत्य् अर्थः। प्रापणीयं कैवल्यं प्राप्तम्। यथा वक्ष्यति --- जीवन्न् एव विद्वान् मुक्तो भवति। संस्कारमात्रस्य च्छिन्नमूलस्य सिद्धत्वाद् इति भावः। कुतः प्राप्तं, यतः --- क्षीणाः क्षेतव्याः क्लेशा अविद्यादयः सवासनाः। नन्व् अस्ति धर्माधर्मसमूहो भवस्य जन्ममरणप्रबन्धस्य संक्रमः प्राणिनाम्। तत् कुतः कैवल्यम् इत्य् अत आह --- छिन्न इति। श्लिष्टानि निःसंधीनि पर्वाणि यस्य स तथोक्तः। धर्माधर्मसमूहस्य समूहिनः पर्वाणि तानि श्लिष्टानि। न हि जातु जन्तुर् मरणजन्मप्रबन्धेन त्यक्ष्यते। सोऽयं भवसंक्रमः क्लेशक्षये छिन्नः। यथा वक्ष्यति --- "क्लेशमूलः कर्माशयः" [योगसूत्रम् 2.12] "सति मूले तद्विपाकः" [योगसूत्रम् 2.13] इति। ननु प्रसंख्यानपरिपाकं धर्ममेघं च निरोधम् अन्तरा किं तद् अस्ति यज् ज्ञानप्रसादमात्रम् इत्य् अत आह --- ज्ञानस्यैवेति। धर्ममेघभेद एव परं वैराग्यं नान्यत्। यथा वक्ष्यति --- "प्रसंख्यानेऽप्य् अकुसीदस्य सर्वथा विवेकख्यातेर् धर्ममेघः समाधिः" [योगसूत्रम् 4.29] [इति,] "तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पम्" [योगसूत्रम् 4.31] इति च। तस्माद् एतस्य हि नान्तरीयकम् अविनाभावि कैवल्यम् इति॥1.16॥

वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः॥1.17॥

उपायम् अभिधाय सप्रकारोपेयकथनाय पृच्छति --- अथोपायद्वयेनेति। वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः। संप्रज्ञातपूर्वकत्वाद् असंप्रज्ञातस्य प्रथमं संप्रज्ञातोपवर्णनम्। संप्रज्ञातसामान्यं वितर्कविचारानन्दास्मितानां रूपैः स्वरूपैर् अनुगमात् प्रतिपत्तव्यम्। वितर्कं विवृणोति --- चित्तस्येति। स्वरूपसाक्षात्कारवती प्रज्ञाभोगः। स च स्थूलविषयत्वात् स्थूलः। यथा हि प्राथमिको धानुष्कः स्थूलम् एव लक्ष्यं विध्यत्य् अथ सूक्ष्मम् एवं प्राथमिको योगी स्थूलम् एव पाञ्चभौतिकं चतुर्भुजादि ध्येयं साक्षात्करोत्य् अथ सूक्ष्मम् इति। एवं चित्तस्यालम्बने सूक्ष्म आभोगः। स्थूलकारणभूतसूक्ष्मपञ्चतन्मात्रलिङ्गालिङ्गविषयो विचारः। तद् एवं ग्राह्यविषयं दर्शयित्वा ग्रहणविषयं दर्शयति --- आनन्द इति। इन्द्रिये स्थूल आलम्बने चित्तस्याभोगो ह्लाद आनन्दः। प्रकाशशीलतयां खलु सत्त्वप्रधानाद् अहंकाराद् इन्द्रियाण्य् उत्पन्नानि। सत्त्वं सुखम् इति तान्य् अपि सुखानीति तस्मिन्न् आभोगो ह्लाद इति। ग्रहीतृविषयं संप्रज्ञातम् आह --- एकात्मिका संविद् इति। अस्मिताप्रभवानीन्द्रियाणि। तेनैषाम् अस्मिता सूक्ष्मं रूपम्। सा चात्मना ग्रहीत्रा सह बुद्धिर् एकात्मिका संवित्। तस्यां च ग्रहीतुर् अन्तर्भावाद् भवति ग्रहीतृविषयः संप्रज्ञात इति। चतुर्णाम् अपरम् अप्य् अवान्तरविशेषम् आह --- तत्र प्रथम इति। कार्यं कारणानुप्रविष्टं न कारणं कार्येण तद् अयं स्थूल आभोगः स्थूलसूक्ष्मेन्द्रियास्मिताकारणचतुष्टयानुगतो भवति। उत्तरे तु त्रिद्व्येककारणकास् त्रिद्व्येकरूपा भवन्ति। असंप्रज्ञाताद् भिनत्ति --- सर्व एत इति॥1.17॥

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः॥1.18॥

क्रमप्राप्तम् असंप्रज्ञातम् अवतारयितुं पृच्छति --- अथेति। विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः। पूर्वपदेनोपायकथनम् उत्तराभ्यां च स्वरूपकथनम्। मध्यमं पदं विवृणोति --- सर्ववृत्तीति। प्रथमं पदं व्याचष्टे --- तस्य परम् इति। विरामो वृत्तीनाम् अभावस् तस्य प्रत्ययः कारणं तस्याभ्यासस् तदनुष्ठानं पौनःपुन्यं तद् एव पूर्वं यस्य स तथोक्तः। अथापरं वैराग्यं निरोधकारणं कस्मान् न भवतीत्य् अत आह --- सालम्बनो हीति। कार्यसरूपं कारणं युज्यते न विरूपम्। विरूपं चापरं वैराग्यं सालम्बनं निरालम्बनसमाधिना कार्येण। तस्मान् निरालम्बनाद् एव ज्ञानप्रसादमात्रात् तस्योत्पत्तिर् युक्ता। धर्ममेघसमाधिर् एव हि नितान्तविगलितरजस्तमोमलाद् बुद्धिसत्त्वाद् उपजातस् तत्तद्विषयातिक्रमेण प्रवर्तमानोऽनन्तो विषयावद्यदर्शी समस्तविषयपरित्यागाच् च स्वरूपप्रतिष्ठः सन् निरालम्बनः संस्कारमात्रशेषस्य निरालम्बनस्य समाधेः कारणम् उपपद्यते सारूप्याद् इति। आलम्बनीकरणम् आश्रयणम् अभावप्राप्तम् इव वृत्तिरूपकार्याकरणान् निर्बीजो निरालम्बनः। अथवा बीजं क्लेशकर्माशयास् ते निष्क्रान्ता यस्मात् स तथा॥1.18॥

भवप्रत्ययो विदेहप्रकृतिलयानाम्॥1.19॥

निरोधसमाधेर् अवान्तरभेदं हानोपादानाङ्गम् आदर्शयति --- स खल्व् अयं निरोधसमाधिर् द्विविधः --- उपायप्रत्ययो भवप्रत्ययश् च। उपायो वक्ष्यमाणः श्रद्धादिः प्रत्ययः कारणं यस्य निरोधसमाधेः स तथोक्तः। भवन्ति जायन्ते ऽस्यां जन्तव इति भवोऽविद्या, भूतेन्द्रियेषु वा विकारेषु प्रकृतिषु वाव्यक्तमहदहंकारपञ्चतन्मात्रेष्व् अनात्मस्व् आत्मख्यातिस् तौष्टिकानां वैराग्यसंपन्नानां, स खल्व् अयं भवः प्रत्ययः कारणं यस्य निरोधसमाधेः स भवप्रत्ययः। तत्र तयोर् मध्य उपायप्रत्ययो योगिनां मोक्ष्यमाणानां भवति। विशेषविधानेन शेषस्य मुमुक्षुसंबन्धं निषेधति। केषां तर्हि भवप्रत्यय इत्य् अत्र सूत्रेणोत्तरम् आह --- भवप्रत्ययो विदेहप्रकृतिलयानाम्। विदेहाश् च प्रकृतिलयाश् च तेषाम् इत्य् अर्थः। तद् व्याचष्टे --- विदेहानां देवानां भवप्रत्ययः। भूतेन्द्रियाणाम् अन्यतमदात्मत्वेन (अन्यतमम् आत्मत्वेन) प्रतिपन्नास् तदुपासनया तद्वासनावासितान्तःकरणाः पिण्डपातानन्तरम् इन्द्रियेषु भूतेषु वा लीनाः संस्कारमात्रावशेषमनसः षाट्कौशिकशरीररहिता विदेहाः। ते हि स्वसंस्कारमात्रोपयोगेन चित्तेन कैवल्यपदम् इवानुभवन्तः प्राप्नुवन्तो विदेहाः। अवृत्तिकत्वं च कैवल्येन सारूप्यं, साधिकारसंस्कारशेषता च वैरूप्यम्। संस्कारमात्रोपभोगेनेति क्वचित् पाठः। तस्यार्थः --- संस्कारमात्रम् एवोपभोगो यस्य न तु चित्तवृत्तिर् इत्य् अर्थः। प्राप्तावधयः स्वसंस्कारविपाकं तथाजातीयकम् अतिवाहयन्त्य् अतिक्रामन्ति पुनर् अपि संसारे विशन्ति। तथा च वायुप्रोक्तम् ---

"दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः। भौतिकास् तु शतं पूर्णम्" इति।

तथा प्रकृतिलयाश् चाव्यक्तमहदहंकारपञ्चतन्मात्रेष्व् अन्यतमदात्मत्वेन (अन्यतमम् आत्मत्वेन) प्रतिपन्नास् तदुपासनया तद्वासनावासितान्तःकरणाः पिण्डपातानन्तरम् अव्यक्तादीनाम् अन्यतमस्मिंल् लीनाः (अन्यतमे लीनाः) साधिकारेऽचरितार्थे। एवं हि चरितार्थं चेतः स्याद् यदि विवेकख्यातिम् अपि जनयेद् अजनितसत्त्वपुरुषान्यताख्यातेस् तु चेतसोऽचरितार्थस्यास्ति साधिकारतेति। साधिकारे चेतसि प्रकृतिलीने कैवल्यपदम् इवानुभवन्ति, यावन् न पुनर् आवर्तते ऽधिकारवशाच् चित्तम् इति। प्रकृतिसाम्यम् उपगतम् अप्य् अवधिं प्राप्य पुनर् अपि प्रादुर्भवति ततो विविच्यते। यथा वर्षातिपाते मृद्भावम् उपगतो मण्डूकदेहः पुनर् अम्भोदवारिधारावसेकान् मण्डूकदेहभावम् अनुभवतीति। तथा च वायुप्रोक्तम् ---

"सहस्रं त्व् आभिमानिकाः। बौद्धा दश सहस्राणि तिष्ठन्ति विगतज्वराः॥ पूर्णं शतसहस्रं तु तिष्ठन्त्य् अव्यक्तचिन्तकाः। पुरुषं निर्गुणं प्राप्य कालसंख्या न विद्यते" इति॥

तस् अस्य पुनर्भवप्राप्तिहेतुतया हेयत्वं सिद्धम्॥1.19॥

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्॥1.20॥

योगिनां तु समाधेर् उपायक्रमम् आह --- श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्। नन्व् इन्द्रियादिचिन्तका अपि श्रद्धावन्त एवेत्य् अत आह --- श्रद्धा चेतसः संप्रसादः। स चागमानुमानाचार्योपदेशसमधिगततत्त्वविषयो भवति हि चेतसः संप्रसादो ऽभिरुचिर् अतीच्छा श्रद्धा नेन्द्रियादिष्व् आत्माभिमानिनाम् अभिरुचिर् असंप्रसादो हि स व्यामोहमूलत्वाद् इत्य् अर्थः। कुतोऽसाव् एव श्रद्धेत्य् अत आह --- सा हि जननीव कल्याणी योगिनं पाति विमार्गपातजन्मनो ऽनर्थात्। सोऽयम् इच्छाविशेष इष्यमाणविषयं प्रयत्नं प्रसूत इत्य् आह --- तस्य हि श्रद्दधानस्य। तस्य विवरणं --- विवेकार्थिनो वीर्यम् उपजायते। स्मृतिर् ध्यानम् अनाकुलम् अविक्षिप्तं, समाधीयते योगाङ्गसमाधियुक्तं भवति। यमनियमादिनान्तरीयकसमाध्युपन्यासेन च यमनियमादयोऽपि सूचिताः। तद् एवम् अखिलयोगाङ्गसंपन्नस्य संप्रज्ञातो जायत इत्य् आह --- समाहितचित्तस्येति। प्रज्ञाया विवेकः प्रकर्ष उपजायते। संप्रज्ञातपूर्वम् असंप्रज्ञातोत्पादम् आह --- तदभ्यासात् तत्रैव तत्तद्भूमिप्राप्तौ तत्तद्विषयाच् च वैराग्याद् असंप्रज्ञातः समाधिर् भवति। स हि कैवल्यहेतुः सत्त्वपुरुषान्यताख्यातिपूर्वो हि निरोधश् चित्तम् अखिलकार्यकरणेन चरितार्थम् अधिकाराद् अवसादयति॥1.20॥

तीव्रसंवेगानाम् आसन्नः॥1.21॥

ननु श्रद्धाद्अयश् चेद् योगोपायास् तर्हि सर्वेषाम् अविशेषेण समाधितत्फले स्याताम्। दृश्यते तु कस्यचित् सिद्धिः कस्यचिद् असिद्धिः कस्यचिच् चिरेण सिद्धिः कस्यचिच् चिरतरेण कस्यचित् क्षिप्रम् इत्य् अत आह --- ते खलु नव योगिन इति। उपायाः श्रद्धादयो मृदुमध्याधिमात्राः प्राग्भवीयसंस्कारादृष्टवशाद् येषां ते तथोक्ताः। संवेगो वैराग्यं तस्यापि मृदुमध्यतीव्रता प्राग्भवीयवासनादृष्टवशाद् एवेति तेषु यादृशां क्षेपीयसी सिद्धिस् तान् दर्शयति सूत्रेण --- तीव्रसंवेगानाम् आसन्न इति सूत्रम्। शेषं भाष्यम्। समाधेः संप्रज्ञातस्य फलम् असंप्रज्ञातस् तस्यापि कैवल्यम्॥1.21॥

मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः॥1.22॥

मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः। निगदव्याख्यातेन भाष्येण व्याख्यातम् इति॥1.22॥

ईश्वरप्रणिधानाद् वा॥1.23॥

सूत्रान्तरं पातयितुं विमृशति --- किम् एतस्माद् एवेति। न वाशब्दः संशयनिवर्तकः। ईश्वरप्रणिधानाद् वा। व्याचष्टे --- प्रणिधानाद् भक्तिविशेषान् मानसाद् वाचिकात् कायिकाद् वावर्जितोऽभिमुखीकृतस् तम् अनुगृह्णाति। अभिध्यानम् अनागतार्थेच्छा --- इदम् अस्याभिमतम् अस्त्व् इति। तन्मात्रेण न व्यापारान्तरेण। शेषं सुगमम्॥1.23॥

क्लेशकर्मविपाकाशयैर् अपरामृष्टः पुरुषविशेष ईश्वरः॥1.24॥

ननु चेत्नाचेतनाभ्याम् एव व्यूढं नान्येन विश्वम्। ईश्वरश् चेद् अचेतनस् तर्हि प्रधानं प्रधानविकाराणाम् अपि प्रधानम् अध्यपातात् तथा च न तस्यावर्जनम् अचेतनत्वाद् अथ चेतनस् तथापि चितिशक्तेर् अउदासीन्याद् असंसारितया चास्मितादिविरहात् कुत आवर्जनम्। कुतश् चाभिध्यानम् इत्य् आशयवान् आह --- अथ प्रधानेति। अत्र सूत्रेणोत्तरम् आह --- क्लेशकर्मविपाकाशयैर् अपरामृष्टः पुरुषविशेष ईश्वरः। अविद्यादयः क्लेशाः क्लिश्नन्ति खल्व् अमी पुरुषं सांसारिकं विविधदुःखप्रहारेणेति। कुशलाकुशलानीति धर्माधर्मास् तेषां च कर्मजत्वाद् उपचारात् कर्मत्वम्। विपाको जात्यायुर्भोगाः। विपाकानुगुणा वासनास् ताश् चित्तभूमाव् आशेरत इत्य् आशयाः। न हि करभजातिनिर्वर्तकं कर्म प्राग्भवीयकरभभोगभावितां भावनां न यावद् अभिव्यनक्ति तावत् करभोचिताय भोगाय कल्पते। तस्माद् भवति करभजात्यनुभवजन्मा भावना करभविपाकानुगुणेति। नन्व् अमी क्लेशादयो बुद्धिधर्मा न कथंचिद् अपि पुरुषं परामृशन्ति, तस्मात् पुरुषग्रहणाद् एव तदपरामर्शसिद्धेः कृतं क्लेशकर्मेत्यादिनेत्य् अत आह --- ते च मनसि वर्तमानाः सांसारिके पुरुषे व्यपदिश्यन्ते। कस्मात्, स हि तत्फलस्य भोक्ता चेतयितेति। तस्मात् पुरुषत्वाद् ईश्वरस्यापि तत्संबन्धः प्राप्त इति तत्प्रतिषेध उपपद्यत इत्य् आह --- यो ह्य् अनेन बुद्धिस्थेनापि पुरुषमात्रसाधारणेन भोगेनापरामृष्टः स पुरुषविशेष ईश्वरः। विशिष्यत इति विशेषः पुरुषान्तराद् व्यवच्छिद्यते। विशेषपदस्य व्यावर्त्यं दर्शयितुकामः परिचोदनापूर्वं परिहरति --- कैवल्यं प्राप्तास् तर्हीति। प्रकृतिलयानां प्राकृतो बन्धः। वैकारिको बन्धो विदेहानाम्। दक्षिणादिबन्धो दिव्यादिव्यविषयभोगभाजाम्। तान्य् अमूनि त्रीणि बन्धनानि। प्रकृतिभावनासंस्कृतमनसो हि देहपातानन्तरम् एव प्रकृतिलयताम् आपन्ना इतीतरेषां पूर्वा बन्धकोटिः प्रज्ञायते, तेनोत्तरकोटिविधानमात्रम् इह तु पूर्वापरकोटिनिषेध इति। संक्षिप्य विशेषं दर्शयति --- स तु सदैव मुक्तः सदैवेश्वर इति। ज्ञानक्रियाशक्तिसंपद् अइश्वर्यम्। अत्र पृच्छति --- योऽसाव् इति। ज्ञानक्रिये हि न चिच्छक्तेर् अपरिणामिन्याः संभवत इति रजस्तमोरहितविशुद्धचित्तसत्त्वाश्रये वक्तव्ये। न चेश्वरस्य सदा मुक्तस्याविद्याप्रभवचित्तसत्त्वसमुत्कर्षेण सह स्वस्वामिभावः संबन्धः संभवतीत्य् अत उक्तं --- प्रकृष्टसत्त्वोपादानाद् इति। नेश्वरस्य पृथग्जनस्येवाविद्यानिबन्धनश् चित्तसत्त्वेन स्वस्वामिभावः। किं तु तापत्रयपरीतान् प्रेत्यभावमहार्णवाज् जन्तून् उद्धरिष्यामि ज्ञानधर्मोपदेशेन। न च ज्ञानक्रियासामर्थ्यातिशयसंपत्तिम् अन्तरेण तदुपदेशः। न चेयम् अपहतरजस्तमोमलविशुद्धसत्त्वोपादानं विनेत्य् आलोच्य सत्त्वप्रकर्षम् उपादत्ते भगवान् अपरामृष्टो ऽप्य् अविद्यया। अविद्याभिमानी चाविद्यायास् तत्त्वम् अविद्वान् भवति न पुनर् अविद्याम् अविद्यात्वेन सेवमानः। न खलु शैलूषो रामत्वम् आरोप्य तास् ताश् चेष्टा दर्शयन् भ्रान्तो भवति। तद् इदम् आहार्यम् अस्य रूपं न तात्त्विकम् इति। स्याद् एतत्। उद्दिधीर्षया भगवता सत्त्वम् उपादेयं तदुपादानेन च तदुद्दिधीर्षा, अस्या अपि प्राकृतत्वात् तथा चान्योन्याश्रय इत्य् अत उक्तम् --- शाश्वतिक इति। भवेद् एतद् एवं यदीदंप्रथमता सर्गस्य भवेद् अनादौ तु सर्गसंहारप्रबन्धे सर्गान्तरसमुत्पन्नसंजिहीर्षावधिसमये पूर्णे मया सत्त्वप्रकर्ष उपादेय इति प्रणिधानं कृत्वा भगवाञ् जगत् संजहार। तदा चेश्वरचित्तसत्त्वं प्रणिधानवासितं प्रधानसाम्यम् उपगतम् अपि परिपूर्णो महाप्रलयावधौ प्रणिधानवासनावशात् तथैवेश्वरचित्तसत्त्वभावेन परिणमते। यथा चैत्रः श्वः प्रातर् एवोत्थातव्यं मयेति प्रणिधाय सुप्तस् तदैवोत्तिष्ठति प्रणिधानसंस्कारात्। तस्माद् अनादित्वाद् ईश्वरप्रणिधानसत्त्वोपादानयोः शाश्वतिकत्वेन नान्योन्याश्रयः। न चेश्वरस्य चित्तसत्त्वं महाप्रलयेऽपि न प्रकृतिसाम्यम् उपैतीति वाच्यम्। यस्य हि न कदाचिद् अपि प्रधानसाम्यं न तत् प्राधानिकं नापि चितिशक्तिर् अज्ञत्वाद् इत्य् अर्थान्तरम् अप्रामाणिकम् आपद्येत। तच् चायुक्तं, प्रकृतिपुरुषव्यतिरेकेणार्थान्तराभावात्। सोऽयम् ईदृश ईश्वरस्य शाश्वतिक उत्कर्षः। स किं सनिमित्तः सप्रमाणक आहोस्विन् निर्निमित्तो निष्प्रमाणक इति। उत्तरं --- तस्य शास्त्रं निमित्तम्। श्रुतिस्मृतीतिहासपुराणानि शास्त्रम्। चोदयति --- शास्त्रं पुनः किंनिमित्तम्। प्रत्यक्षानुमानपूर्वं हि शास्त्रम्। न चेश्वरस्य सत्त्वप्रकर्षे कस्यचित् प्रत्यक्षम् अनुमानं वास्ति। न चेश्वरप्रत्यक्षप्रभवं शास्त्रम् इति युक्तम्। कल्पयित्वापि ह्य् अयं ब्रूयाद् आत्मैश्वर्यप्रकाशनायेति भावः। परिहरति --- प्रकृष्टसत्त्वनिमित्तम्। अयम् अभिसंधिः --- मन्त्रायुर्वेदेषु तावद् ईश्वरप्रणीतेषु प्रवृत्तिसामर्थ्याद् अर्थाव्यभिचारविनिश्चयात् प्रामाण्यं सिद्धम्। न चौषधिभेदानां तत्संयोगविशेषाणां च मन्त्राणां च तत्तद्वर्णावापोद्धारेण सहस्रेणापि पुरुषायुषैर् लौकिकप्रमाणव्यवहारी शक्तः कर्तुम् अन्वयव्यतिरेक्अउ। न चागमाद् अन्वयव्यतिरेकौ ताभ्यां चागमस् तत्संतानयोर् अनादित्वाद् इति प्रतिपादयितुं युक्तम्। महाप्रलये तत्संतानयोर् विच्छेदात्। न च तद्भावे प्रमाणाभावः। अभिन्नं प्रधानविकारो जगद् इति हि प्रतिपादयिष्यते। सदृशपरिणामस्य च विसदृशपरिणामता दृष्टा। यथा क्षीरेक्षुरसादेर् दधिगुडादिरूपम्। विसदृशपरिणामस्य पूर्वं सदृशपरिणामता च दृष्टा। तद् इह प्रधानेनापि महदहंकारादिरूपविसदृशपरिणामेन सता भाव्यं कदाचित् सदृशपरिणामेनापि। सदृशपरिणामश् चास्य साम्यावस्था। स च महाप्रलयः। तस्मान् मन्त्रायुर्वेदप्रणयनात् तावद् भगवतो विगलितरजस्तमोमलावरणतया परितः प्रद्योतमानं बुद्धिसत्त्वम् आस्थेयम्। तथा चाभ्युदयनिःश्रेयसोपदेशपरोऽपि वेदराशिर् ईश्वरप्रणीतस् तद्बुद्धिसत्त्वप्रकर्षाद् एव भवितुम् अर्हति। न च सत्त्वोत्कर्षे रजस्तमःप्रभवौ विभ्रमविप्रलम्भौ संभवतः। तत् सिद्धं प्रकृष्टसत्त्वनिमित्तं शास्त्रम् इति। स्याद् एतत्। प्रकर्षकार्यतया प्रकर्षं बोधयच् छास्त्रं शेषवद् अनुमानं भवेन् न त्व् आगम इत्य् अत आह --- एतयोर् इति। न कार्यत्वेन बोधयत्य् अपि त्व् अनादिवाच्यवाचकभावसंबन्धेन बोधयतीत्य् अर्थः। ईश्वरस्य हि बुद्धिसत्त्वे प्रकर्षो वर्तते, शास्त्रम् अपि तद्वाचकत्वेन तत्र वर्तत इति। उपसंहरति --- एतस्माद् ईश्वरबुद्धिसत्त्वप्रकर्षवाचकाच् छास्त्राद् एतद् भवति ज्ञायते विषयेण विषयिणो लक्षणात् सदैवेश्वरः सदैव मुक्त इति। तद् एवं पुरुषान्तराद् व्यवच्छिद्येश्वरान्तराद् अपि व्यवच्छिनत्ति --- तच् च तस्येति। अतिशयविनिर्मुक्तिम् आह --- न तावद् इति। कुतः --- यद् एवेति। कस्मात् सर्वातिशयविनिर्मुक्तं तदैश्वर्यम् इत्य् अत आह --- तस्माद् यत्रेति। अतिशयनिष्ठाम् अप्राप्तानाम् अउपचारिकम् अइश्वर्यम् इत्य् अर्थः। साम्यविनिर्मुक्तिम् आह --- न च तत्समानम् इति। प्राकाम्यम् अविहतेच्छता तद्विघातान् ऊनत्वम् (तद्विघाताद् ऊनत्वम्) अनूनत्वे वा द्वयोर् अपि प्राकाम्यविघातः कार्यानुत्पत्तेर् उत्पत्तौ वा विरुद्धधर्मसमालिङ्गितम् एकदा कार्यम् उपलभ्येतेत्य् आशयवान् आह --- द्वयोश् चेति। अविरुद्धाभिप्रायत्वे वा प्रत्येकम् ईश्वरत्वे कृतम् अन्यैर् एकेनैवेशनायाः कृतत्वात्। संभूयकारित्वे वा न कश्चिद् ईश्वरः परिषद्वन् नित्येशनायोगिनां च पर्यायायोगात् कल्पनागौरवप्रसङ्गाच् चेति द्रष्टव्यम्। तस्मात् सर्वम् अवदातम्॥1.24॥

तत्र निरतिशयं सर्वज्ञबीजम्॥1.25॥

एवम् अस्य क्रियाज्ञानशक्तौ शास्त्रं प्रमाणम् अभिधाय ज्ञानशक्ताव् अनुमानं प्रमाणयति --- किं च --- तत्र निरतिशयं सर्वज्ञबीजम्। व्याचष्टे --- यद् इदम् इति। बुद्धिसत्त्वावरकतमोपगमतारतम्येन यद् इदम् अतीतानागतप्रत्युत्पन्नानां प्रत्येकं च समुच्चयेन च वर्तमानानाम् अतीन्द्रियाणां ग्रहणं, तस्य विशेषणम् अल्पं बह्व् इति सर्वज्ञबीजं कारणम्। कश्चित् किंचिद् एवातीतादि गृह्णाति कश्चिद् बहु कश्चिद् बहुतरं कश्चिद् बहुतमम् इति ग्राह्यापेक्षया ग्रहणस्याल्पत्वं बहुत्वं कृतम्। एतद् विवर्धमानं यत्र निष्क्रान्तम् अतिशयात् स सर्वज्ञ इति। तद् अनेन प्रमेयमात्रं कथितम्। अत्र प्रमाणयति --- अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्येति। साध्यनिर्देशः। निरतिशयत्वं काष्ठा। यतः परम् अतिशयवत्ता नास्तीति। तेन नावधिमात्रेण सिद्धसाधनम्। सातिशयत्वाद् इति हेतुः। यद् यत् सातिशयं तत् तत् सर्वं निरतिशयं, यथा कुवलामलकबिल्वेषु सातिशयं महत्त्वम् आत्मनि निरतिशयम् इति व्याप्तिं दर्शयति --- परिमाणवत्। न च गरिमादिभिर् गुणैर् व्यभिचार इति सांप्रतम्। न खल्व् अवयवगरिमातिशयी गरिमावयविनः किं त्वा परमाणुभ्य आन्त्यावयविभ्यो यावन्तः केचन तेषां प्रत्येकवर्तिनो गरिम्णः समाहृत्य गरिमा वर्धमानाभिमानः। ज्ञानं तु न प्रतिज्ञेयं समाप्यत इत्य् एकद्विबहुविषयतया युक्तं सातिशयम् इति न व्यभिचारः। उपसंहरति --- यत्र काष्ठेति। ननु सन्ति बहवस् तीर्थकरा बुद्धार्हतकपिलर्षिप्रभृतयस् तत् कस्मात् त एव सर्वज्ञा न भवन्त्य् अस्माद् अनुमानाद् इत्य् अत आह --- सामान्येति। कुतस् तर्हि तद्विशेषप्रतिपत्तिर् इत्य् अत आह --- तस्येति। बुद्धादिप्रणीत आगमाभासो न त्व् आगमः, सर्वप्रमाणबाधितक्षणिकनैरात्म्यादिमार्गोपदेशकत्वेन विप्रलम्भकत्वाद् इति भावः। तेन श्रुतिस्मृतीतिहासपुराणलक्षणाद् आगमत आगच्छन्ति बुद्धिम् आरोहन्ति अस्माद् अभ्युदयनिःश्रेयसोपाया इत्य् आगमः, तस्मात् संज्ञादिविशेषप्रतिपत्तिः। संज्ञाविशेषः शिवेश्वरादिः श्रुत्यादिषु प्रसिद्धः। आदिपदेन षडङ्गतादशाव्ययते संगृहीते। यथोक्तं वायुपुराणे ---

"सर्वज्ञता तृप्तिर् अनादिबोधः स्वतन्त्रता नित्यम् अलुप्तशक्तिः। अनन्तशक्तिश् च विभोर् विधिज्ञाः षड् आहुर् अङ्गानि महेश्वरस्य"॥ ( 12.31)

तथा ---

"ज्ञानं वैराग्यम् अइश्वर्यं तपः सत्यं क्षमा धृतिः। स्रष्टृत्वम् आत्मसंबोधो ह्य् अधिष्ठातृत्वम् एव च॥ अव्ययानि दशैतानि नित्यं तिष्ठन्ति शंकरे" ( 10.60) इति।

स्याद् एतत्, नित्यतृप्तस्य भगवतो वैराग्यातिशयसंपन्नस्य स्वार्थे तृष्णासंभवात् कारुणिकस्य च सुखैकतानजनसर्जनपरस्य दुःखबहुलजीवलोकजननानुपपत्तेर् अप्रयोजनस्य च प्रेक्षावतः प्रवृत्त्यनुपपत्तेः क्रियाशक्तिशालिनोऽपि न जगत्क्रियेत्य् अत आह --- तस्यात्मानुग्रहाभावेऽपीति। भूतानां प्राणिनाम् अनुग्रहः प्रयोजनं, शब्दाद्युपभोगविवेकख्यातिरूपकार्यकरणात् किल चरितार्थं चित्तं निवर्तते। ततः पुरुषः केवली भवति। अतस् तत्प्रयोजनाय कारुणिको विवेकख्यात्युपायं कथयति। तेनाचरितार्थत्वाच् चित्तस्य जन्तूनीश्वरः पुण्यापुण्यसहायः सुखदुःखे भावयन्न् अपि नाकारुणिकः। विवेकख्यात्युपायकथनाय भूतानुग्रहं द्वारम् आह --- ज्ञानधर्मोपदेशेनेति। ज्ञानं च धर्मश् च ज्ञानधर्मौ तयोर् उपदेशेन ज्ञानधर्मसमुच्चयाल् लब्धविवेकख्यातिपरिपाकात् कल्पप्रलये ब्रह्मणो दिनावसाने यत्र सत्यलोकवर्जं जगद् अस्तमेति। महाप्रलये ससत्यलोकस्य ब्रह्मणोऽपि निधने संसारिणः स्वकारणगामिनो ऽतस् तदा मरणदुःखभाजः, कल्पेत्य् उपलक्षणम् अन्यदापि स्वार्जितकर्मपाकवशेन जन्ममरणादिभाजः पुरुषानुद्धरिष्यामीति कैवल्यं प्राप्य पुरुषा उद्धृता भवन्तीत्य् अर्थः। एतच् च करुणाप्रयुक्तस्य ज्ञानधर्मोपदेशनं कापिलानाम् अपि सिद्धम् इत्य् आह --- तथा चोक्तं पञ्चशिखाचार्येण --- आदिविद्वान् कपिल इति। आदिविद्वान् इति पञ्चशिखाचार्यवचनम् आदिमुक्तस्वसंतानादिगुरुविषयं न त्व् अनादिमुक्तपरमगुरुविषयम्। आदिमुक्तेषु कदाचिन् मुक्तेषु विद्वत्सु कपिलोऽस्माकम् आदिविद्वान् मुक्तः स एव च गुरुर् इति। कपिलस्यापि जायमानस्य महेश्वरानुग्रहाद् एव ज्ञानप्राप्तिः श्रूयत इति। कपिलो नाम विष्णोर् अवतारविशेषः प्रसिद्धः। स्वयंभूस् तु हिरण्यगर्भः। तस्यापि सांख्ययोगप्राप्तिर् वेदे श्रूयत इति। स एवेश्वर आदिविद्वान् कपिलो विष्णुर् न स्वयंभूर् इति भावः। स्वायंभुवानां त्व् ईश्वर इति भावः॥1.25॥

पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात्॥1.26॥

संप्रति भगवतो ब्रह्मादिभ्यो विशेषम् आह --- स एष इति। पातनिका --- स एष इति। सूत्रम् --- पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात्। व्याचष्टे --- पूर्वे हीति। कालस् तु शतवर्षादिर् अवच्छेदार्थेनावच्छेदेन प्रयोजनेन नोपावर्तते न वर्तते। प्रकर्षस्य गतिः प्राप्तिः। प्रत्येतव्य आगमात्॥1.26॥

तस्य वाचकः प्रणवः॥1.27॥

तद् अनेन प्रबन्धेन भगवान् ईश्वरो दर्शितः। संप्रति तत्प्रणिधानं दर्शयितुं तस्य वाचकम् आह --- तस्य वाचकः प्रणवः। व्याचष्टे --- वाच्य इति। तत्र परेषां मतं विमर्शद्वारेणोपन्यस्यति --- किम् अस्येति। वाचकत्वं प्रतिपादकत्वम् इत्य् अर्थः। परे हि पश्यन्ति यदि स्वाभाविकः शब्दार्थयोः संबन्धः संकेतेनास्माच् छब्दाद् अयम् अर्थः प्रत्येतव्य इत्येवमात्मकेनाभिव्यज्येत ततो यत्र नास्ति स संबन्धस् तत्र संकेतशतेनापि न व्यज्येत। न हि प्रदीपव्यङ्ग्यो घटो यत्र नास्ति तत्र प्रदीपसहस्रेणापि शक्यो व्यङ्क्तुम्। कृतसंकेतस् तु करभशब्दो वारणे वारणप्रतिपादको दृष्टः। ततः संकेतकृतम् एव वाचकत्वम् इति। विमृश्याभिमतम् अवधारयति --- स्थितोऽस्येति। अयम् अभिप्रायः --- सर्व एव शब्दाः सर्वाकारार्थाभिधानसमर्था इति। स्थित एवैषां सर्वाकारैर् अर्थैः स्वाभाविकः संबन्धः। ईश्वरसंकेतस् तु प्रकाशकश् च नियामकश् च। तस्येश्वरसंकेतासंकेतकृतश् चास्य वाचकापभ्रंशविभागः। तद् इदम् आह --- संकेतस् त्व् ईश्वरस्येति। निदर्शनम् आह --- यथेति। ननु शब्दस्य प्राधानिकस्य महाप्रलयसमये प्रधानभावम् उपगतस्य शक्तिर् अपि प्रलीना, ततो महदादिक्रमेणोत्पन्नस्यावाचकस्यैव माहेश्वरेण संकेतेन न शक्या वाचकशक्तिर् अभिव्यञ्जयितुं विनष्टशक्तित्वाद् इत्य् अत आह --- सर्गान्तरेष्व् अपीति। यद्य् अपि सह शक्त्या प्रधानसाम्यम् उपगतः शब्दस् तथापि पुनर् आविर्भवंस् तच्छक्तियुक्त एवाविर्भवति वर्षातिपातसमधिगतमृद्भाव इवोद्भिज्जो मेघविसृष्टवारिधारावसेकात्। तेन पूर्वसंबन्धसंकेतानुसारेण संकेतः क्रियते भगवतेति। तस्मात् संप्रतिपत्तेः सदृशव्यवहारपरम्पराया नित्यतया नित्यः शब्दार्थयोः संबन्धो न कूटस्थनित्य इत्य् आगमिकाः प्रतिजानते, न पुनर् आगमनिरपेक्षाः सर्गान्तरेष्व् अपि तादृश एव संकेत इति प्रतिपत्तुम् ईशत इति भावः॥1.27॥

तज्जपस् तदर्थभावनम्॥1.28॥

वाचकम् आख्याय प्रणिधानम् आह --- तज्जपस् तदर्थभावनम्। व्याचष्टे --- प्रणवस्येति। भावनं पुनः पुनश् चित्ते निवेशनम्। ततः किं सिध्यतीत्य् अत आह --- प्रणवम् इति। एकस्मिन् भगवत्य् आरमति चित्तम्। अत्रैव वैयासिकीं गाथाम् उदाहरति --- तथा चेति। तत ईश्वरः समाधितत्फललाभेन तम् अनुगृह्णाति॥1.28॥

ततः प्रत्यक्चेतनाधिगमोऽप्य् अन्तरायाभावश् च॥1.29॥

किं चापरम् अस्मात् --- ततः प्रत्यक्चेतनाधिगमोऽप्य् अन्तरायाभावश् च। प्रतीपं विपरीतम् अञ्चति विजानातीति प्रत्यक् स चासौ चेतनश् चेति प्रत्यक्चेतनोऽविद्यावान् पुरुषः। तद् अनेनेश्वराच् छाश्वतिकसत्त्वोत्कर्षसंपन्नाद् विद्यावतो निवर्तयति। प्रतीचश् चेतनस्याधिगमो ज्ञानं स्वरूपतो ऽस्य भवत्य् अन्तराया वक्ष्यमाणास् तदभावश् च। अस्य विवरणं --- ये तावद् इति। स्वम् आत्मा तस्य रूपम्। रूपग्रहणेनाविद्यासमारोपितान् धर्मान् निषेधति। नन्व् ईश्वरप्रणिधानम् ईश्वरविषयं कथम् इव प्रत्यक्चेतनं साक्षात्करोत्य् अतिप्रसङ्गाद् इत्य् अत आह --- यथैवेश्वर इति। शुद्धः कूटस्थनित्यतयोदयव्ययरहितः प्रसन्नः क्लेशवर्जितः केवलो धर्माधर्मापेतः। अत एवानुपसर्गः। उपसर्गा जात्यायुर्भोगाः। सादृश्यस्य किंचिद् भेदाधिष्ठानत्वाद् ईश्वराद् भिनत्ति --- बुद्धेः प्रतिसंवेदीति। तद् अनेन प्रत्यग्ग्रहणं व्याख्यातम्। अत्यन्तविधर्मिणोर् अन्यतरार्थानुचिन्तनं न तदितरस्य साक्षात्काराय कल्पते। सदृशार्थानुचिन्तनं तु सदृशान्तरसाक्षात्कारोपयोगिताम् अनुभवति एकशास्त्राभ्यास इव तत्सदृशार्थशास्त्रान्तरज्ञानोपयोगिताम्। प्रत्यासत्तिस् तु स्वात्मनि साक्षात्कारहेतुर् न परात्मनीति सर्वम् अवदातम्॥1.29॥

व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास् तेऽन्तरायाः॥1.30॥

पृच्छति --- अथ क इति। सामान्येनोत्तरम् --- य इति। विशेषसंख्ये पृच्छति --- क इति। उत्तरं व्याधीत्यादिसूत्रम्। अन्तराया नव। एताश् चित्तवृत्तयो योगान्तराया योगविरोधिनश् चित्तस्य विक्षेपकाश् चित्तं खल्व् अमी व्याध्यादयो योगाद् विक्षिपन्त्य् अपनयन्तीति विक्षेपाः। योगप्रतिपक्षत्वे हेतुम् आह --- सहैत इति। संशयभ्रान्तिदर्शने तावद् वृत्तितया वृत्तिनिरोधप्रतिपक्षौ। येऽपि न वृत्तयो व्याधिप्रभृतयस् तेऽपि वृत्तिसाहचर्यात् तत्प्रतिपक्षा इत्य् अर्थः। पदार्थान् व्याचष्टे --- व्याधिर् इति। धातवो वातपित्तश्लेष्माणः शरीरधारणात्। अशितपीताहारपरिणामविशेषो रसः। करणानीन्द्रियाणि तेषां वैषम्यं न्यूनाधिकभाव इति। अकर्मण्यता कर्मानर्हता। संशय उभयकोटिस्पृग्विज्ञानम्। सत्य् अप्य् अतद्रूपप्रतिष्ठत्वेन संशयविपर्यासयोर् अभेदे, उभयकोटिस्पर्शास्पर्शरूपावान्तरविशेषविवक्षयात्र भेदेनोपन्यासः। अभावनम् अकरणं तत्राप्रयत्न इति यावत्। कायस्य गुरुत्वं कफादिना, चित्तस्य गुरुत्वं तमसा। गर्धस् तृष्णा। मधुमत्यादयः समाधिभूमयः। लब्धभूमेर् यदि तावतैव सुस्थितंमन्यस्य समाधिभ्रेषः स्यात् ततस् तस्या अपि भूमेर् अपायः स्यात्। यस्मात् समाधिप्रतिलम्भे तदवस्थितं स्यात् तस्मात् तत्र प्रयतितव्यम् इति॥1.30॥

दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः॥1.31॥

न केवलं नवान्तराया दुःखादयोऽप्य् अस्य तत्सहभुवो भवन्तीत्य् आह --- दुःखेत्यादि। प्रतिकूलवेदनीयं दुःखम् आध्यात्मिकं शारीरं व्याधिवशान् मानसं च कामादिवशात्। आधिभौतिकं व्याघ्रादिजनितम्। आधिदैविकं ग्रहपीडादिजनितम्। तच् चेदं दुःखं प्राणिमात्रस्य प्रतिकूलवेदनीयतया हेयम् इत्य् आह --- येनाभिहता इति। अनिच्छतः प्राणो यद् बाह्यं वायुम् आचामति पिबति प्रवेशयतीति यावत् स श्वासः समाध्यङ्गरेचकविरोधी। अनिच्छतोऽपि प्राणो यत् कौष्ठ्यं वायुं निश्चारयति निःसारयति स प्रश्वासः समाध्यङ्गपूरकविरोधी॥1.31॥

तत्प्रतिषेधार्थम् एकतत्त्वाभ्यासः॥1.32॥

उक्तार्थोपसंहारसूत्रम् अवतारयति --- अथैत इति। अथोक्तार्थानन्तरम् उपसंहरन्न् इदं सूत्रम् आहेति संबन्धः। निरोद्धव्यत्वे हेतुर् उक्तः --- समाधिप्रतिपक्षा इति। यद्य् अपीश्वरप्रणिधानाद् इत्य् अभ्यासमात्रम् उक्तं तथापि वैराग्यम् इह तत्सहकारितया ग्राह्यम् इत्य् आह --- ताभ्याम् उक्तलक्षणाभ्याम् एवाभ्यासवैराग्याभ्यां निरोद्धव्याः। तत्र तयोर् अभ्यासवैराग्ययोर् मध्येऽभ्यासस्यानन्तरोक्तस्येति। तत्प्रतिषेधार्थम् इत्यादि। एकं तत्त्वम् ईश्वरः प्रकृतत्वाद् इति। वैनाशिकानां तत् सर्वम् एकाग्रम् एव चित्तं नास्ति किंचिद् विक्षिप्तम् इति तदुपदेशानां तदर्थानां च प्रवृत्तीनां वैयर्थ्यम् इत्य् आह --- यस्य त्व् इति। यस्य मते प्रत्यर्थेऽर्प्यमाण एकस्मिन्न् अनेकस्मिन् वा नियतं यावद् अर्थावभासम् उत्पन्नं तत्रैव समाप्तम् अनन्यगामि। अर्थान्तरं तावत् प्रथमं गृहीत्वार्थान्तरम् अपि पश्चात् कस्मान् न गृह्णातीत्य् अत आह --- क्षणिकं च क्षणस्याभेद्यत्वेन पूर्वपश्चाद्भावस्याप्य् अभाव इति भावः। अस्मन्मते त्व् अक्षणिकं चित्तं स्वविषय एकस्मिन्न् अनेकस्मिन् वानवस्थितं प्रतिक्षणं तत्तद्विषयोपादानपरित्यागाभ्यां विषयानियतं विक्षिप्तम् अतो विक्षेपपरिणामम् अपनीय शक्यैकाग्रताधातुम् इति तदुपदेशप्रवृत्त्योर् नानर्थकत्वम् इत्य् आह --- यदि पुनर् इदम् इति। उपसंहरति --- अतो नेति। वैनाशिकम् उत्थापयति --- योऽपीति। मा भूद् एकस्मिन् क्षणिके चित्त एकाग्रताधानप्रयत्नः। चित्तसंताने त्व् अनादाव् अक्षणिके विक्षेपम् अपनीयैकाग्रताधास्यत इत्य् अर्थः। तद् एतद् विकल्प्य दूषयति --- तस्येति। तस्य दर्शन एकाग्रता यदि प्रवाहचित्तस्य चित्तसंतानस्य वा धर्मः। तत्रैकं क्रमवद् उत्पादेषु प्रत्ययेष्व् अनुगतं नास्ति प्रवाहचित्तम्। कुतः, यद् यावद् अस्ति तस्य सर्वस्य क्षणिकत्वाद् अक्षणिकस्य चासत्त्वाद् भवतां दर्शन इति भावः। द्वितीयं कल्पं गृह्णाति --- अथेति। सांवृतस्य प्रवाहस्यांशः प्रत्ययः परमार्थसंस् तस्य प्रत्ययस्यैकाग्रता प्रयत्नसाध्यो धर्मः। दूषयति --- स सर्वः सांवृतप्रवाहापेक्षया सदृशप्रत्ययप्रवाही वा विसदृशप्रत्ययप्रवाही वा। अतः परमार्थसत्तारूपेण प्रत्यर्थनियतत्वाद् यदर्थावभास उत्पन्नस् तत्र समाप्तत्वाद् एकाग्र एवेति विक्षिप्तचित्तानुपपत्तिः, यद् अपनयेनैकाग्रताधीयत इति। उपसंहरति --- तस्माद् इति। इतोऽपि चित्तम् एकम् अनेकार्थम् अवस्थितं चेत्य् आह --- यदि चेति। यथा हि मैत्रेणाधीतस्य शास्त्रस्य न चैत्रः स्मरति। यथा वा मैत्रेणापचितस्य पुण्यस्य पापस्य वा कर्माशयस्य फलं तदसंबन्धी चैत्रो न भुङ्क्ते, एवं प्रत्ययान्तरदृष्टस्य प्रत्ययान्तरं न स्मरेत्। प्रत्ययान्तरोपचितस्य वा कर्माशयस्य फलं च न प्रत्ययान्तरम् उपभुञ्जीतेत्य् अर्थः। ननु नातिप्रसज्येते कार्यकारणभावे सतीति विशेषणाच् छ्राद्धवैश्वानरीयेष्ट्यादाव् अकर्तृमातृपितृपुत्रादिगामिफलदर्शनान् मधुररसभावितानां वाम्रबीजादीनां परम्परया फलमाधुर्यनियमाद् इत्य् अत आह --- समाधीयमानम् अप्य् एतद् इति। अयम् अभिसंधिः --- कः खल्व् एकसंतानवर्तिनां प्रत्ययानां संतानान्तरवर्तिभ्यः प्रत्ययेभ्यो विशेषो येनैकसंतानवर्तिना प्रत्ययेनानुभूतस्योपचितस्य च कर्माशयस्य तत्संतानवर्त्य् एव प्रत्ययः स्मर्ता भोक्ता च स्यान् नान्यसंतानवर्ती। न हि संतानो नाम कश्चिद् अस्ति वस्तुसन्। य एनं संतानं संतानान्तरवर्तिभ्यो भिन्द्यात्। न च काल्पनिको भेदः क्रियायाम् उपपद्यते। न खलु कल्पिताग्निभावो माणवकः पचति। न च कार्यकारणभावसंबन्धो ऽपि वास्तवः। सहभुवोः सव्येतरविषाणयोर् इवाभावाद् असहभुवोर् अपि प्रत्युत्पन्नाश्रयत्वायोगात्। न ह्य् अतीतानागतौ व्यासज्ज्य प्रत्युत्पन्नं वर्तितुम् अर्हतः। तस्मात् संतानेन वा कार्यकारणभावेन वा स्वाभाविकेनानुपहिताः परमार्थसन्तः प्रत्ययाः परस्परासंस्पर्शित्वेन स्वसंतानवर्तिभ्यः परसंतानवर्तिभ्यो वा प्रत्ययान्तरेभ्यो न भिद्यन्ते। सोऽयं गोमयं च पायसं चाधिकृत्य प्रवृत्तो न्यायो गोमयं पायसं गव्यत्वाद् उभयसिद्धपायसवद् इति। तम् आक्षिपति न्यायाभासत्वेन ततोऽप्य् अधिकत्वाद् इति। न चात्र कृतनाशाकृताभ्यागमं चोद्यम्। यतश् चित्तम् एव कर्मणां कर्तृ तद् एव तज्जनिताभ्यां सुखदुःखाभ्यां युज्यते। सुखदुःखे च चितिच्छायापन्नं चित्तं भुङ्क्त इति पुरुषे भोगाभिमानश् चितिचित्तयोर् अभेदग्रहाद् इति। स्वप्रत्ययं प्रतीत्य समुत्पन्नानां स्वभाव एवैषां तादृशो यत् त एव स्मरन्ति फलं चोपभुञ्जते न त्व् अन्ये। न च स्वभावा नियोगपर्यनुयोगाव् अर्हन्ति एवं भवत मैवं भूतेति वा कस्मान् नैवम् इति चेति। यः पूर्वोक्ते न परितुष्यति तं प्रत्याह --- किं च स्वात्मेति। उदयव्ययधर्माणाम् अनुभवानाम् अनुभवस्मृतीनां च नानात्वेऽपि तदाश्रयम् अभिन्नं चित्तम् अहम् इति प्रत्ययः प्रतिसंदधानः कथम् अत्यन्तभिन्नान् प्रत्ययान् आलम्बेत। ननु ग्रहणस्मरणरूपकारणभेदात् पारोक्ष्यापारोक्ष्यरूपविरुद्धधर्मसंसर्गाद् वा न प्रत्यभिज्ञानं नामैकः प्रत्ययो यतः प्रत्ययिनश् चित्तस्यैकता स्याद् इत्य् अत आह --- स्वानुभवेति। ननु कारणभेदविरुद्धधर्मसंसर्गाव् एवात्र बाधकाव् उक्ताव् इत्य् अत आह --- न च प्रत्यक्षस्येति। प्रत्यक्षानुसारत एव सामग्र्यभेदः पारोक्ष्यापारोक्ष्यधर्माविरोधश् चोपपादितो न्यायकणिकायाम्। अक्षणिकस्य चार्थक्रिया न्यायकणिकाब्रह्मतत्त्वसमीक्षाभ्याम् उपपादितेति सर्वम् अवदातम्॥1.32॥

मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश् चित्तप्रसादनम्॥1.33॥

अपरिकर्मितमनसोऽसूयादिमतः समाधितदुपायसंपत्त्यनुत्पादाच् चित्तप्रसादनोपायान् असूयादिविरोधिनः प्रतिपादयितुम् उपक्रमते --- यस्य चित्तस्यावस्थितस्येदम् इति। मैत्रीकरुणेत्यादिप्रसादनान्तम्। सुखितेषु मैत्रीं सौहार्दं भावयत ईर्ष्याकालुष्यं निवर्तते चित्तस्य। दुःखितेषु च करुणाम् आत्मनीव परस्मिन् दुःखप्रहाणेच्छां भावयतः परापकारचिकीर्षाकालुष्यं चेतसो निवर्तते। पुण्यशीलेषु प्राणिषु मुदितां हर्षं भावयतोऽसूयाकालुष्यं चेतसो निवर्तते। अपुण्यशीलेषु चोपेक्षां माध्यस्थ्यं भावयतोऽमर्षकालुष्यं चेतसो निवर्तते। ततश् चास्य राजसतामसधर्मनिवृत्तौ सात्त्विकः शुक्लो धर्म उपजायते। सत्त्वोत्कर्षसंपन्नः संभवति वृत्तिनिरोधपक्षे। तस्य प्रसादस्वाभाव्याच् चित्तं प्रसीदति। प्रसन्नं च वक्ष्यमाणेभ्य उपायेभ्य एकाग्रं स्थितिपदं लभते। असत्यां पुनर् मैत्र्यादिभावनायां न त उपायाः स्थित्यै कल्पन्त इति॥1.33॥

प्रच्छर्दनविधारणाभ्यां वा प्राणस्य॥1.34॥

तान् इदानीं स्थित्युपायान् आह --- प्रच्छर्दनविधारणाभ्यां वा प्राणस्य। वाशब्दो वक्ष्यमाणोपायान्तरापेक्षो विकल्पार्थः, न मैत्र्यादिभावनापेक्षया तया सह समुच्चयात्। प्रच्छर्दनं विवृणोति --- कौष्ठ्यस्येति। प्रयत्नविशेषाद् योगशास्त्रविहिताद् येन कौष्ठ्यो वायुर् नासिकापुटाभ्यां शनै रेच्यते। विधारणं विवृणोति --- विधारणं प्राणायामः। रेचितस्य प्राणस्य कौष्ठ्यस्य वायोर् यद् आयामो बहिर् एव स्थापनं न तु सहसा प्रवेशनम्। तद् एताभ्यां प्रच्छर्दनविधारणाभ्यां वायोर् लघुकृतशरीरस्य मनः स्थितिपदं लभते। अत्र चोत्तरसूत्रगतात् स्थितिनिबन्धनीतिपदात् स्थितिग्रहणम् आकृष्य संपादयेद् इत्य् अर्थप्राप्तेन संबन्धनीयम्॥1.34॥

विषयवती वा प्रवृत्तिर् उत्पन्ना मनसः स्थितिनिबन्धनी॥1.35॥

स्थित्युपायान्तरम् आह --- विषयवती वा प्रवृत्तिर् उत्पन्ना मनसः स्थितिनिबन्धनी। व्याचष्टे --- नासिकाग्रे धारयत इति। धारणाध्यानसमाधीन् कुर्वतस् तज्जयाद्या दिव्यगन्धसंवित्तत्साक्षात्कारः। एवम् अन्यास्व् अपि प्रवृत्तिषु योज्यम्। एतच् चागमात् प्रत्येतव्यं नोपपत्तितः। स्याद् एतत् किम् एतादृग्भिर् वृत्तिभिः कैवल्यं प्रत्यनुपयोगिनीभिर् इत्य् अत आह --- एता वृत्तयोऽल्पेनैव कालेनोत्पन्नाश् चित्तम् ईश्वरविषयायां वा विवेकख्यातिविषयायां वा स्थितौ निबध्नन्ति। नन्व् अन्यविषया वृत्तिः कथम् अन्यत्र स्थितिं निबध्नातीत्य् अत आह --- संशयं विधमन्ति अपसारयन्ति अत एव समाधिप्रज्ञायाम् इति। वृत्त्यन्तराणाम् अप्य् आगमसिद्धानां विषयवत्त्वम् अतिदिशति --- एतेनेति। नन्व् आगमादिभिर् अवगतेष्व् अर्थेषु कुतः संशय इत्य् अत आह --- यद्य् अपि हीति। श्रद्धामूलो हि योग उपदिष्टार्थैकदेशप्रत्यक्षीकरणे च श्रद्धातिशयो जायते। तन्मूलाश् च ध्यानादयोऽस्याप्रत्यूहं भवन्तीत्य् अर्थः॥1.35॥

विशोका वा ज्योतिष्मती॥1.36॥

विशोका वा ज्योतिष्मती। विगतशोका दुःखरहिता ज्योतिष्मती ज्योतिर् अस्या अस्तीति ज्योतिष्मती प्रकाशरूपा। हृदयपुण्डरीक इति। उदरोरसोर् मध्ये यत् पद्मम् अधोमुखं तिष्ठत्य् अष्टदलं रेचकप्राणायामेन तद् ऊर्ध्वमुखं कृत्वा तत्र चित्तं धारयेत्। तन्मध्ये सूर्यमण्डलम् अकारो जागरितस्थानं तस्योपरि चन्द्रमण्डलम् उकारः स्वप्नस्थानम्। तस्योपरि वह्निमण्डलं मकारः सुषुप्तिस्थानम्। तस्योपरि परव्योमात्मकं ब्रह्मनादं तुरीयस्थानम् अर्धमात्रम् उदाहरन्ति ब्रह्मवादिनः। तत्र कर्णिकायाम् ऊर्ध्वमुखी सूर्यादिमण्डलमध्यगा ब्रह्मनाडी। ततोऽप्य् ऊर्ध्वं प्रवृत्ता सुषुम्ना नाम नाडी। तया खलु बाह्यान्य् अपि सूर्यादीनि मण्डलानि प्रोतानि। स हि चित्तस्थानम्। तस्यां धारयतो योगिनश् चित्तसंविद् उपजायते। उपपत्तिपूर्वकं बुद्धिसंविद आकारम् आदर्शयति --- बुद्धिसत्त्वं हीति। आकाशकल्पम् इति व्यापिताम् आह। सूर्यादीनां प्रभास् तासां रूपं तदाकारेण विकल्पते नानारूपा भवति। मनश् चात्र बुद्धिर् अभिमतं न तु महत्तत्त्वम्। तस्य च सुषुम्नास्थस्य वैकारिकाहंकारजन्मनः सत्त्वबहुलतया ज्योतीरूपता विवक्षिता। तत्तद्विषयगोचरतया च व्यापित्वम् अपि सिद्धम्। अस्मिताकार्ये मनसि समापत्तिं दर्शयित्वास्मितासमापत्तेः स्वरूपम् आह --- तथेति। शान्तम् अपगतरजस्तमस्तरङ्गम्। अनन्तं व्यापि। अस्मितामात्रं न पुनर् नानाप्रभारूपम्। आगमान्तरेण स्वमतं समीकरोति --- यत्रेदम् उक्तं पञ्चशिखेन तम् अणुं दुरधिगमत्वाद् आत्मानम् अहंकारास्पदम् अनुविद्यानुचिन्त्यास्मीत्येवं तावत् संजानीत इति। स्याद् एतत्। नानाप्रभारूपा भवतु ज्योतिष्मती कथम् अस्मितामात्ररूपा ज्योतिष्मतीत्य् अत आह --- एषा द्वयीति। विधूतरजस्तमोमलास्मितैव सत्त्वमयी ज्योतिर् इति भावः। द्विविधाया अपि ज्योतिष्मत्याः फलम् आह --- ययेति॥1.36॥

वीतरागविषयं वा चित्तम्॥1.37॥

वीतरागविषयं वा चित्तम्। वीतरागाः कृष्णद्वैपायनप्रभृतयस् तेषां चित्तं तद् एवालम्बनं तेनोपरक्तम् इति॥1.37॥

स्वप्ननिद्राज्ञानालम्बनं वा॥1.38॥

स्वप्ननिद्राज्ञानालम्बनं वा। यदा खल्व् अयं स्वप्ने विविक्तवनसंनिवेशवर्तिनीम् उत्कीर्णाम् इव चन्द्रमण्डलात् कोमलमृणालशकलानुकारिभिर् अङ्गप्रत्यङ्गैर् उपपन्नाम् अभिजातचन्द्रकान्तमणिमयीम् अतिसुरभिमालतीमल्लिकामालाहारिणीं मनोहरां भगवतो महेश्वरस्य प्रतिमाम् आराधयन्न् एव प्रबुद्धः प्रसन्नमनास् तदा ताम् एव स्वप्नज्ञानालम्बनीभूताम् अनुचिन्तयतस् तस्य तदेकाकारमनसस् तत्रैव चित्तं स्थितिपदं लभते। निद्रा चेह सात्त्विकी ग्रहीतव्या। यस्याः प्रबुद्धस्य सुखम् अहम् अस्वाप्सम् इति प्रत्यवमर्शो भवति। एकाग्रं हि तस्यां मनो भवति। तावन्मात्रेण चोक्तम् --- एतद् एव ब्रह्मविदो ब्रह्मणो रूपम् उदाहरन्ति सुप्तावस्थेति। ज्ञानं च ज्ञेयरहितं न शक्यं गोचरयितुम् इति ज्ञेयम् अपि गोचरीक्रियते॥1.38॥

यथाभिमतध्यानाद् वा॥1.39॥

यथाभिमतध्यानाद् वा। किं बहुना यद् एवाभिमतं तत्तद्देवतारूपम् इति॥1.39॥

परमाणुपरममहत्त्वान्तोऽस्य वशीकारः॥1.40॥

कथं पुनः स्थितिपदसात्मीभावोऽवगन्तव्य इत्य् अत आह --- परमाणुपरममहत्त्वान्तोऽस्य वशीकारः। व्याचष्टे --- सूक्ष्म इति। उक्तम् अर्थं पिण्डीकृत्य वशीकारपदार्थम् आह --- एवं ताम् उभयीम् इति। वशीकारस्यावन्तरफलम् आह --- तद्वशीकाराद् इति॥1.40॥

क्षीणवृत्तेर् अभिजातस्येव मणेर् ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः॥1.41॥

तद् एवं चित्तस्थितेर् उपाया दर्शिताः। लब्धस्थितिकस्य चित्तस्य वशीकारोऽपि दर्शितः। संप्रति लब्धस्थितिकस्य चेतसः किंविषयः किंरूपश् च संप्रज्ञातो भवतीति पृच्छति --- अथेति। अत्रोत्तरं सूत्रम् अवतारयति --- तद् उच्यत इति। सूत्रं पठति --- क्षीणवृत्तेर् इत्यादि समापत्त्यन्तम्। तद् व्याचष्टे --- क्षीणेति। अभ्यासवैराग्याभ्यां क्षीणराजसतामसप्रमाणादिवृत्तेश् चित्तस्य। तस्य व्याख्यानं --- प्रत्यस्तमितप्रत्ययस्येति। तद् अनेन चित्तसत्त्वस्य स्वभावस्वच्छस्य रजस्तमोभ्याम् अनभिभव उक्तः। दृष्टान्तं स्पष्टयति --- यथेति। उपाश्रय उपाधिर् जपाकुसुमादिर् उपरक्तस् तच्छायापन्नः। उपाश्रयस्य यद् आत्मीयं रूपं लोहितनीलादि तद् एवाकारस् तेन लक्षितो निर्भासते। दार्ष्टान्तिके योजयति --- तथा ग्राह्येति। ग्राह्यं च तदालम्बनं च तेनोपरक्तं तदनुविद्धं, तद् अनेन ग्रहीतृग्रहणाभ्यां व्यवच्छिनत्ति। आत्मीयम् अन्तःकरणरूपम् अपिधाय ग्राह्यसमापन्नं ग्राह्यताम् इव प्राप्तम् इति यावत्। अतो ग्राह्यस्वरूपाकारेण निर्भासते। ग्राह्योपरागम् एव सूक्ष्मस्थूलताभ्यां विभजते --- भूतसूक्ष्मेति। विश्वभेदश् चेतनाचेतनस्वभावो गवादिर् घटादिश् च द्रष्टव्यः। तद् अनेन वितर्कविचारानुगतौ समाधी दर्शितौ। तथा ग्रहणेष्व् अपीन्द्रियेष्व् इति। गृह्यन्त एभिर् अर्था इति ग्रहणानीन्द्रियाणि। एतद् एव स्पष्टयति --- ग्रहणालम्बनेति। ग्रहणं चालम्बनं च तद् इति ग्रहणालम्बनं तेनोपरक्तम् अनुविद्धम् आत्मीयम् अन्तःकरणरूपम् अपिधाय ग्रहणम् इव बहिष्करणम् इवापन्नम् इति। तद् अनेनानन्दानुगतम् उक्त्वास्मितानुगतम् आह --- तथा ग्रहीतृपुरुषेति। अस्मितास्पदं हि ग्रहीता पुरुष इति भावः। पुरुषत्वाविशेषाद् अनेनैव मुक्तोऽपि पुरुषः शुकप्रह्लादादिः समाधिविषयतया संग्रहीतव्य इत्य् आह --- तथा मुक्तेति। उपसंहरंस् तत्स्थतदञ्जनतापदं व्याचष्टे --- तद् एवम् इति। तेषु ग्रहीतृग्रहणग्राह्येषु स्थितस्य धारितस्य ध्यानपरिपाकवशाद् अपहतरजस्तमोमलस्य चित्तसत्त्वस्य या तत्स्थतदञ्जनता तदाकारता सा समापत्तिः संप्रज्ञातलक्षणो योग उच्यते। तत्र च ग्रहीतृग्रहणग्राह्येष्व् इति सौत्रः पाठक्रमो ऽर्थक्रमविरोधान् नादर्तव्यः। एवं भाष्येऽपि प्रथमं भूतसूक्ष्मोपन्यासोऽप्य् अनादरणीय इति सर्वं रमणीयम्॥1.41॥

तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः॥1.42॥

सामान्यतः समापत्तिर् उक्ता। सेयम् अवान्तरभेदाच् चतुर्विधा भवति। तद्यथा सवितर्का निर्वितर्का सविचारा निर्विचारा चेति। तत्र सवितर्कायाः समापत्तेर् लक्षणम् आह --- तत्रेत्यादि। तासु समापत्तिषु मध्ये सवितर्का समापत्तिः प्रतिपत्तव्या। कीदृशी शब्दश् चार्थश् च ज्ञानं च तेषां विकल्पाः। वस्तुतो भिन्नानाम् अपि शब्दादीनाम् इतरेतराध्यासाद् विकल्पोऽप्य् एकस्मिन् भेदम् आदर्शयति भिन्नेषु चाभेदम्। तेन शब्दार्थज्ञानविकल्पैः संकीर्णा व्यामिश्रेत्य् अर्थः। तद्यथा गौर् इति शब्द इति। गौर् इत्य् उपात्तयोर् अर्थज्ञानयोः शब्दाभेदविकल्पो दर्शितः। गौर् इत्य् अर्थ इति। गौर् इत्य् उपात्तयोः शब्दज्ञानयोर् अर्थाभेदविकल्पः। गौर् इति ज्ञानम् इति। गौर् इत्य् उपात्तयोः शब्दार्थयोर् ज्ञानाभेदविकल्पः। तद् एवम् अविनिर्भागेन (अविनिर्भागेण) विभक्तानाम् अपि शब्दार्थज्ञानानां ग्रहणं लोके दृष्टं द्रष्टव्यम्। यद्य् अविभागेन ग्रहणं कुतस् तर्हि विभाग इत्य् अत आह --- विभज्यमानाश् चान्वयव्यतिरेकाभ्यां परीक्षकैर् अन्ये शब्दधर्मा ध्वनिपरिणाममात्रस्य शब्दस्योदात्तादयो धर्मा अन्येऽर्थस्य जडत्वमूर्तत्वादयः, अन्ये प्रकाशमूर्तिविरहादयो ज्ञानस्य धर्मा इति। तस्माद् एतेषां विभक्तः पन्थाः स्वरूपभेदोन्नयनमार्गः। तत्र विकल्पते गवाद्यर्थे समापन्नस्येति। तद् अनेन योगिनोऽपरं प्रत्यक्षम् उक्तम्। शेषं सुगमम्॥1.42॥

स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का॥1.43॥

सूत्रं योजयितुं प्रथमतस् तावन् निर्वितर्कां व्याचष्टे --- यदा पुनर् इति। परिशुद्धिर् अपनयः। शब्दसंकेतस्मरणपूर्वे खल्व् आगमानुमाने प्रवर्तेते। संकेतश् चायं गौर् इति शब्दार्थज्ञानानाम् इतरेतराध्यासात्मा। ततश् चागमानुमानज्ञानविकल्पौ भवतः। तेन तत्पूर्वा समाधिप्रज्ञा सवितर्का। यदा पुनर् अर्थमात्रप्रवणेन चेतसार्थमात्रादृतेन तदभ्यासान् नान्तरीयकताम् उपगता संकेतस्मृतिस् त्यक्ता, तत्त्यागे च श्रुतानुमानज्ञानविकल्पौ तन्मूलौ त्यक्तौ, तदा तच्छून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणावस्थितोऽर्थस् तत्स्वरूपमात्रतयैव न तु विकल्पितेनाकारेण परिच्छिद्यते। सा निर्वितर्का समापत्तिर् इति। तद् योगिनां परं प्रत्यक्षम् असदारोपगन्धस्याप्य् अभावात्। स्याद् एतत् परेण प्रत्यक्षेणार्थतत्त्वं गृहीत्वा योगिन उपदिशन्त्य् उपपादयन्ति च। कथं चातद्विषयाभ्याम् आगमपरार्थानुमानाभ्यां सोऽर्थ उपदिश्यत उपपाद्यते च। तस्माद् आगमानुमाने तद्विषये ते च विकल्पाव् इति परम् अपि प्रत्यक्षं विकल्प एवेत्य् अत आह --- तच् च श्रुतेति। यदि हि सवितर्कम् इव श्रुतानुमानसहभूतं तदनुषक्तं स्याद् भवेत् संकीर्णं तयोस् तु बीजम् एवैतत् ततो हि श्रुतानुमाने प्रभवतः। न च यद् यस्य कारणं तत् तद्विषयं भवति। न हि धूमज्ञानं वह्निज्ञानकारणम् इति वह्निविषयम्। तस्माद् अविकल्पेन प्रत्यक्षेण गृहीत्वा विकल्प्योपदिशन्ति चोपपादयन्ति च। उपसंहरति --- तस्माद् इति। व्याख्येयं सूत्रं योजयति --- निर्वितर्काया इति। स्मृतिपरिशुद्धाव् इत्यादि सूत्रम्। शब्दसंकेतश् च श्रुतं चानुमानं च तेषां ज्ञानम् एव विकल्पस् तस्मात् स्मृतिस् तस्याः परिशुद्धिर् अपगमस् तस्याम्। तत्र च संकेतस्मृतिपरिशुद्धिर् हेतुः। श्रुतानुमानस्मृतिपरिशुद्धिश् च हेतुमती। अनुमानशब्दश् च कर्मसाधनोऽनुमेयवाच्अकः। स्वम् इवेतीवकारो भिन्नक्रमस् त्यक्त्वेतिपदानन्तरं द्रष्टव्यः। विषयविप्रतिपत्तिं निराकरोति --- तस्या एकेति। एकां बुद्धिम् उपक्रमत आरभत इत्य् एकबुद्ध्युपक्रमः। तद् अनेन परमाणवो नानात्मानो न निर्वितर्कविषया इत्य् उक्तं भवति। योग्यत्वेऽपि तेषां परमसूक्ष्माणां नानाभूतानां महत्त्वैकार्थसमवेतैकत्वनिर्भासप्रत्ययविषयत्वायोगात्। अस्तु तर्हि परमार्थसत्सु परमाणुषु सांवृतः प्रतिभासधर्मः स्थौल्यम् इत्य् अत आह --- अर्थात्मेति। नासति बाधके स्थूलम् अनुभवसिद्धं शक्यापह्नवम् इति भावः। तत्र ये पश्यन्ति द्व्यणुकादिक्रमेण गोघटादय उपजायन्त इति तान् प्रत्याह --- अणुप्रचयेति। अणूनां प्रचयः स्थूलरूपपरिणामः, स च विशिष्यतेऽन्यस्मात् परिणामान्तरात् स एवात्मा स्वरूपं यस्य स तथोक्तः। गवादिर् भोगायतनम्। घटादिर् विषयः। तच् चैतद् उभयम् अपि लोक्यत इति लोकः। नन्व् एष भूतसूक्ष्मेभ्यो भिन्नोऽभिन्नो वा स्याद् भिन्नश् चेत् कथं तदाश्रयः कथं च तदाकारः। न हि घटः पटाद् अन्यस् तदाकारस् तदाश्रयो वा। अभिन्नश् चेत् तद्वद् एव सूक्ष्मोऽसाधारणश् च स्याद् अत आह --- स चेति। अयम् अभिप्रायः --- नैकान्ततः परमाणुभ्यो भिन्नो घटादिर् अभिन्नो वा, भिन्नत्वे गवाश्ववद् धर्मधर्मिभावानुपपत्तेः। अभिन्नत्वे धर्मिरूपवद् एव तदनुपपत्तेः। तस्मात् कथंचिद् भिन्नः कथंचिद् अभिन्नश् चास्थेयस् तथा च सर्वम् उपपद्यते। भूतसूक्ष्माणाम् इति षष्ठ्या कथंचिद् भेदं सूचयति आत्मभूत इति चाभेदम्। फलेन व्यक्तेन तदनुभवलक्षणेन तद्व्यवहारलक्षणेन च व्यक्तेन विप्रतिपन्नं प्रत्यनुमापितः। कारणाभेदे च कारणाकारतोपपन्नेत्य् आह --- स्वव्यञ्जकाञ्जन इति। स किं तदात्मभूतो धर्मो नित्यो नेत्य् आह --- धर्मान्तरस्य कपालादेर् उदय इति। तस्यावयविनः परमाणुभ्यो व्यावृत्तं रूपम् आदर्शयति --- स एष इति। परमाणुसाध्यायाः क्रियाया अन्या क्रिया मधूदकादिधारणलक्षणा तद्धर्मक इति। न केवलम् अनुभवाद् अपि तु व्यवहारतोऽपि तन्निबन्धनत्वाल् लोकयात्राया इत्य् आह --- तेनेति। स्याद् एतद् असति बाधकेऽनुभवो ऽवयविनं व्यवस्थापयेत्। अस्ति च बाधकं यत् सत् तत् सर्वम् अनवयवं यथा विज्ञानम्। सच् च गोघटादीति स्वभावहेतुः। सत्त्वं हि विरुद्धधर्मसंसर्गरहितत्वेन व्याप्तं, तद्विरुद्धश् च विरुद्धधर्मसंसर्गः सावयव उपलभ्यमानो व्यापकविरुद्धोपलब्ध्या सत्त्वम् अपि निवर्तयति। अस्ति चावयविनि तद्देशत्वातद्देशत्वावृतत्वानावृतत्वरक्तत्वारक्तत्वचलत्वाचलत्वलक्षणो विरुद्धधर्मसंसर्ग इत्य् अत आह --- यस्य पुनर् इति। अयम् अभिप्रायः --- अनुभवसिद्धं सत्त्वं हेतुः क्रियते यत् किल पांशुलपादुको हालिकोऽपि प्रतिपद्यते। अन्यद् वानुभवसिद्धात्। तत्रान्यद् असिद्धत्वाद् अहेतुः। अनुभवसिद्धं तु घटादीनां सत्त्वम् अर्थक्रियाकारित्वरूपं न स्थूलाद् अन्यत्। सोऽयं हेतुः स्थूलत्वम् अपाकुर्वन्न् आत्मानम् एव व्याहन्ति। ननु न स्थूलत्वम् एव सत्त्वम् अपि त्व् असतो व्यावृत्तिः। अस्थौल्यव्यावृत्तिश् च स्थौल्यं, व्यावर्त्यभेदाच् च व्यावृत्तयो भिद्यन्ते। अतः स्थौल्याभावेऽपि न सत्त्वव्याहतिः। अन्यत्वात्। भवतु वा व्यावृत्तिभेदाद् अवसायविषयभेदः। यत्पूर्वकास् त्व् अवसायास् तस्यानुभवस्याविकल्पस्य प्रमाणस्य को विषय इति निरूपयतु भवान् रूपपरमाणवो निरन्तरोत्पादा अगृहीतपरमसूक्ष्मतत्त्वा इति चेत्, हन्तैते गन्धरसस्पर्शपरमाणुभिर् अन्तरिता न निरन्तराः। तस्माद् अन्तरालाग्रह एकघनवनप्रत्ययवत् परमाण्वालम्बनः सन्न् अयं विकल्पो मिथ्येति तत्प्रभवविकल्पा न पारम्पर्येणापि वस्तुप्रतिबद्धा इति कुतस् तदवसितस्य सत्त्वस्यानवयवत्वसाधकत्वम्। तस्माद् अविकल्पस्य प्रत्यक्षस्य प्रामाण्यम् इच्छता तदनुभूयमानस्थौल्यस्यैव सत्त्वम् अविकल्पावसेयम् अकामेनाप्य् अभ्युपेयम्। तथा च तद्बाधमानं सत्त्वम् आत्मानम् एवापबाधेत। परमसूक्ष्माः परमाणवो विजातीयपरमाण्वनन्तरिता अनुभवविषया इति व्याहतम् अङ्गीकरणम्। तद् इदम् उक्तं --- यस्य पुनर् अवस्तुकः स प्रचयविशेषो निर्विकल्पविषयः। सन्तु तर्हि सूक्ष्माः परमाणवो निर्विकल्पविषया इत्य् अत आह --- सूक्ष्मं च कारणम् अनुपलभ्यम् अविकल्पस्येति। तस्यावयव्यभावाद् धेतोर् अतद्रूपप्रतिष्ठं मिथ्याज्ञानम् इति लक्षणेन सर्वम् एवं (एव) प्राप्तं मिथ्याज्ञानं यत् स्थौल्यालम्बनं यच् च तदधिष्ठानसत्त्वालम्बनम् इत्य् अर्थः। नन्व् एतावतापि न ज्ञानम् आत्मनि मिथ्या भवति तस्यावयवित्वेनाप्रकाशाद् इत्य् अत आह --- प्रायेणेति। ननु किम् एतावतापीत्य् अत आह --- तदा चेति। सत्त्वादिज्ञानं चेन् मिथ्या तदा सत्त्वादिहेतुकम् अनवयवित्वादिज्ञानम् अपि मिथ्यैव तस्यापि हि निर्विकल्पगोचरस्थूलम् एवावसेयतया विषयः, स च नास्तीति तात्पर्यार्थः। विषयाभाव एव कुत इत्य् अत आह --- यद् यद् इति। विरोधश् च परिणामवैचित्र्येण भेदाभेदेन चोक्तोपपत्त्यनुसारेणोद्धर्तव्य इति सर्वं रमणीयम्॥1.43॥

एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता॥1.44॥

एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता। अभिव्यक्तो घटादिर् धर्मो यैस् ते तथोक्ताः। घटादिधर्मोपगृहीता इति यावत्। देश उपर्यधःपार्श्वादिः। कालो वर्तमानः। निमित्तं पार्थिवस्य परमाणोर् गन्धतन्मात्रप्रधानेभ्यः पञ्चतन्मात्रेभ्य उत्पत्तिः। एवम् आप्यस्य परमाणोर् गन्धतन्मात्रवर्जितेभ्यो रसतन्मात्रप्रधानेभ्यश् चतुर्भ्यः। एवं तैजसस्य गन्धरसतन्मात्ररहितेभ्यो रूपतन्मात्रप्रधानेभ्यस् त्रिभ्यः। एवं वायवीयस्य गन्धादितन्मात्ररहिताभ्यां स्पर्शप्रधानाभ्यां स्पर्शशब्दतन्मात्राभ्याम्। एवं नाभसस्य शब्दणाम् (शब्दतन्मात्राद् एवैकस्मात्। तद् इदं निमित्तं भूतसूक्ष्माणाम्।) एतेषां देशकालनिमित्तानाम् अनुभवः, तेनावच्छिन्नेषु नाननुभूतविशेषणा विशेष्ये बुद्धिर् उपजायत इत्य् अर्थः। ननु सवितर्कया सह किं सारूप्यं सविचाराया इत्य् अत आह --- तन् नापीति। पार्थिवो हि परमाणुः पञ्चतन्मात्रप्रचयात्मैकबुद्धिनिर्ग्राह्यः। एवम् आप्यादयोऽपि चतुस्त्रिद्व्येकतन्मात्रात्मान एकबुद्धिनिर्ग्राह्या वेद्व्यतव्याः (वेदितव्याः)। उदितो वर्तमानो धर्मस् तेन विशिष्टम्। एतावता चात्र संकेतस्मृत्यागमानुमानविकल्पानुवेधः सूचितः। न हि प्रत्यक्षेण स्थूले दृश्यमाने परमाणवः प्रकाशन्ते। अपि त्व् आगमानुमानाभ्याम्। तस्माद् उपपन्नम् अस्याः संकीर्णत्वम् इति। निर्विचाराम् आह --- या पुनर् इति। सर्वथा सर्वेण नीलपीतादिना प्रकारेण। सर्वत इति सार्वविभक्तिकस् तसिः। सर्वैर् देशकालनिमित्तानुभवैर् इत्य् अर्थः। तद् अनेन स्वरूपेण कालानवच्छेदः परमाणूनाम् इति दर्शितम्। नापि तदारब्धधर्मद्वारेणेत्य् आह --- शान्ता अतीता उदिता वर्तमाना अव्यपदेश्या भविष्यन्तो धर्मास् तैर् अनवच्छिन्नेषु। अनवच्छिन्ना धर्मैः परमाणवः किम् असंबद्धा एव तैर् इत्य् अत आह --- सर्वधर्मानुपातिष्व् इति। कतमेन संबन्धेन धर्मान् अनुपतन्ति परमाणव इत्य् अत आह --- सर्वधर्मात्मकेषु। कथंचिद् भेदः कथंचिद् अभेदो धर्माणां परमाणुभ्य इत्य् अर्थः। कस्मात् पुनर् इयं समापत्तिर् एतद्विषयेत्य् अत आह --- एवंस्वरूपं हीति। वस्तुतत्त्वग्राहिणी नातत्त्वे प्रवर्तत इत्य् अर्थः। विषयम् अभिधायास्याः स्वरूपम् आह --- प्रज्ञा चेति। संकलय्य स्वरूपभेदोपयोगिविषयम् आह --- तत्रेति। उपसंहरति --- एवम् इति। उभयोर् आत्मनश् च निर्विचारायाश् चेति॥1.44॥

सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम्॥1.45॥

किं भूतसूक्ष्म एव ग्राह्यविषया समापत्तिः समाप्यते। न। किं तु --- सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम्। पार्थिवस्य परमाणोः संबन्धिनी या गन्धतन्मात्रता सा समापत्तेः सूक्ष्मो विषयः। एवम् उत्तरत्रापि योज्यम्। लिङ्गमात्रं महत्तत्त्वं तद् धि लयं गच्छति प्रधान इति। अलिङ्गं प्रधानं तद् धि न क्वचिल् लयं गच्छतीत्य् अर्थः। अलिङ्गपर्यवसानत्वम् आह --- न चालिङ्गात् परम् इति। चोदयति --- ननु पुरुषोऽपि सूक्ष्मो नालिङ्गम् एवेत्य् अर्थः। परिहरति --- सत्यम् इति। उपादानतया सौक्ष्म्यम् अलिङ्ग एव नान्यत्रेत्य् अर्थः। तत्र पुरुषार्थनिमित्तत्वान् महदहंकारादेः पुरुषोऽपि कारणम् अलिङ्गवद् इति। कुत एवंलक्षणम् अलिङ्गस्यैव सौक्ष्म्यम् इत्य् आशयवान् पृच्छति --- किं त्व् इति। उत्तरम् आह --- लिङ्गस्येति। सत्यं कारणं न तूपादानम्। यथा हि प्रधानं महदादिभावेन परिणमते न तथा पुरुषस् तद्धेतुर् अपीत्य् अर्थः। उपसंहरति --- अतः प्रधान एव सौक्ष्म्यं निरतिशयं व्याख्यातम्॥1.45॥

ता एव सबीजः समाधिः॥1.46॥

चतसृणाम् अपि समापत्तीनां ग्राह्यविषयाणां संप्रज्ञातत्वम् आह --- ता एव सबीजः समाधिः। एवकारो भिन्नक्रमः सबीज इत्य् अस्यानन्तरं द्रष्टव्यः। ततश् चतस्रः समापत्तयो ग्राह्यविषयाः सबीजतया नियम्यन्ते। सबीजता त्व् अनियता ग्रहीतृग्रहणगोचरायाम् अपि समापत्तौ विकल्पाविकल्पभेदेनानिषिद्धा व्यवतिष्ठते। तेन ग्राह्ये चतस्रः समापत्तयो ग्रहीतृग्रहणयोश् चतस्र इत्य् अष्टौ सिद्धा भवन्तीति। निगदव्याख्यातं भाष्यम्॥1.46॥

निर्विचारवैशारद्येऽध्यात्मप्रसादः॥1.47॥

चतसृष्व् अपि समापत्तिषु ग्राह्यविषयासु निर्विचारायाः शोभनत्वम् आह --- निर्विचारवैशारद्येऽध्यात्मप्रसादः। वैशारद्यपदार्थम् आह --- अशुद्धीति। रजस्तमसोर् उपचयो ऽशुद्धिः सैवावरणलक्षणो मलस् तस्माद् अपेतस्य प्रकाशात्मनः प्रकाशस्वभावस्य बुद्धिसत्त्वस्यात एवानभिभूत इति। स्याद् एतद् ग्राह्यविषया चेत् समापत्तिः कथम् आत्मविषयः प्रसाद इत्य् अत आह --- भूतार्थविषय इति। नात्मविषयः किं तु तदाधार इत्य् अर्थः। क्रमाननुरोधी युगपद् इत्य् अर्थः। अत्रैव पारमर्षीं गाथाम् उदाहरति --- तथा चेति। ज्ञानालोकप्रकर्षेणात्मानं सर्वेषाम् उपरि पश्यन् दुःखत्रयपरीताञ् शोचतो जनाञ् जानाति॥1.47॥

ऋतंभरा तत्र प्रज्ञा॥1.48॥

अत्रैव योगिजनप्रसिद्धान्वर्थसंज्ञाकथनेन योगिसंमतिम् आह --- ऋतंभरा तत्र प्रज्ञा। सुगमं भाष्यम्। आगमेनेति वेदविहितं श्रवणम् उक्तम्। अनुमानेनेति मननम्। ध्यानं चिन्ता। तत्राभ्यासः पौनःपुन्येनानुष्ठानम्। तस्मिन् रस आदरः। तद् अनेन निदिध्यासनम् उक्तम्॥1.48॥

श्रुतानुमानप्रज्ञाभ्याम् अन्यविषया विशेषार्थत्वात्॥1.49॥

स्याद् एतत्। आगमानुमानगृहीतार्थविषया भावना प्रकर्षलब्धजन्मा निर्विचारागमानुमानविषयम् एव गोचरयेत्। न खल्व् अन्यविषयानुभवजन्मा संस्कारः शक्तोऽन्यत्र ज्ञानं जनयितुम् अतिप्रसङ्गात्। तस्मान् निर्विचारा चेद् ऋतंभरागमानुमानयोर् अपि तत्प्रसङ्ग इत्य् अत आह --- श्रुतानुमानेत्यादि। बुद्धिसत्त्वं हि प्रकाशस्वभावं सर्वार्थदर्शनसमर्थम् अपि तमसावृतं यत्रैव रजसोद्घाट्यते तत्रैव गृह्णाति। यदा त्व् अभ्यासवैराग्याभ्याम् अपास्तरजस्तमोमलम् अनवद्यवैशारद्यम् उद्योतते तदास्यातिपतितसमस्तमानमेयसीम्नः प्रकाशानन्त्ये सति किं नाम यन् न गोचर इति भावः। व्याचष्टे --- श्रुतम् आगम[वि]ज्ञानं (आगमविज्ञानं) तत्सामान्यविषयम्। कस्मात्। न ह्य् आगमेन शक्यो विशेषोऽभिधातुम्। कुतो यस्माद् आनन्त्याद् व्यभिचाराच् च न विशेषेण कृतसंकेतः शब्दः। यस्माद् अस्य विशेषेण सह वाच्यवाचकसंबन्धः प्रतीयेत। न च वाक्यार्थोऽपीदृशो विशेषः संभवति। अनुमानेऽपि लिङ्गलिङ्गिसंबन्धग्रहणाधीनजन्मनि गतिर् एषैवेत्य् आह --- तथानुमानम् इति। यत्र प्राप्तिर् इत्य् अत्र यत्रतत्रशब्दयोः स्थानपरिवर्तनेन व्याप्यव्यापकभावो ऽवगमयितव्यः। अतोऽत्रानुमानेन सामान्येनोपसंहारः। उपसंहरति --- तस्माद् इति। अस्तु तर्हि संबन्धग्रहानपेक्षं लोकप्रत्यक्षं न तत्सामान्यविषयम् इत्य् अत आह --- न चास्येत्यादि। मा भूत् संबन्धग्रहाधीनं लोकप्रत्यक्षम्। इन्द्रियाधीनं तु भवत्य् एव। न चेन्द्रियाणाम् अस्मिन्न् अस्ति योग्यतेत्य् अर्थः। ननु च यद्य् आगमानुमानप्रत्यक्षागोचरो विशेषस् तर्हि नास्ति प्रमाणविरहाद् इत्य् अत आह --- न चेति। न हि प्रमाणं व्यापकं कारणं वा प्रमेयस्य येन तन्निवृत्तौ निवर्तेत। नो खलु कलावतश् चन्द्रस्य परभागवर्तिहरिणसद्भावं प्रति न संदिहते प्रामाणिका इत्य् अर्थः। इति तस्मात् समाधिप्रज्ञानिर्ग्राह्य एवेति। अत्र च विवादाध्यासिताः परमाणव आत्मानश् च प्रातिस्विकविशेषशालिनो द्रव्यत्वे सति परस्परं व्यावर्तमानत्वाद् ये द्रव्यत्वे सति परस्परं व्यावर्तन्ते ते प्रातिस्विकविशेषशालिनो यथा खण्डमुण्डादय इत्य् अनुमानेनागमेन च ऋतंभरप्रज्ञोपदेशपरेण यद्य् अपि विशेषो निरूप्यते तदनिरूपणे संशयः स्यान् न्यायप्राप्तत्वात् तथाप्य् अदूरविप्रकर्षेण तत्सत्त्वं कथंचिद् गोचरयतः श्रुतानुमाने न तु साक्षाच् चार्थम् इव सम्उच्चयादिपदानि लिङ्गसंख्यायोगितया। तस्मात् सिद्धं श्रुतानुमानप्रज्ञाभ्याम् अन्यविषयेति॥1.49॥

तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी॥1.50॥

स्याद् एतत्। भवतु परमार्थविषयः संप्रज्ञातो यथोक्तोपायाभ्यासाद् अनादिना तु व्युत्थानसंस्कारेण निरूढनिबिडतया प्रतिबन्धनीया समाधिप्रज्ञा सा वात्यावर्तमध्यवर्तिप्रदीपपरमाणुर् इवेति शङ्काम् अपनेतुं सूत्रम् अवतारयति --- समाधिप्रज्ञेति। सूत्रं पठति --- तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी। तद् इति निर्विचारां समापत्तिं परामृशति। अन्येति व्युत्थानम् आह। भूतार्थपक्षपातो हि धियां स्वभावस् तावद् एवेयम् अनवस्थिता भ्राम्यति न यावत् तत्त्वं प्रतिलभते। तत्प्रतिलम्भे तत्र स्थितपदा सती संस्कारबुद्धिः संस्कारबुद्धिचक्रक्रमेणावर्तमानानादिम् अप्य् अतत्त्वसंस्कारबुद्धिक्रमं बाधत एवेति। तथा च बाह्या अप्य् आहुः ---

"निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः। न बाधोऽनादिमत्त्वे ऽपि बुद्धेस् तत्पक्षपाततः" इति॥

स्याद् एतत् समाधिप्रज्ञातोऽस्तु व्युत्थानजस्य संस्कारस्य निरोधः। समाधिजस् तु संस्कारातिशयः समाधिप्रज्ञाप्रसवहेतुर् अस्त्य् अविकल इति तदवस्थैव चित्तस्य साधिकारतेति चोदयति --- कथम् असाव् इति। परिहरति --- न त इति। चित्तस्य हि कार्यद्वयं शब्दाद्युपभ्होगो विवेकख्यातिश् चेति। तत्र क्लेशकर्माशयसहितं शब्दाद्युपभोगे वर्तते। प्रज्ञाप्रभवसंस्कारोन्मूलितनिखिलक्लेशकर्माशयस्य तु चेतसोऽवसितप्रायाधिकारभावस्य विवेकख्यातिमात्रम् अवशिष्यते कार्यम्। तस्मात् समाधिसंस्काराश् चित्तस्य न भोगाधिकारहेतवः प्रत्युत तत्परिपन्थिन इति। स्वकार्याद् भोगलक्षणाद् अवसादयन्ति असमर्थं कुर्वन्तीत्य् अर्थः। कस्मात् ख्यातिपर्यवसानं हि चित्तचेष्टितं, तावद् विभोगाय (धि भोगाय) चित्तं चेष्टते न यावद् विवेकख्यातिम् अनुभवति। संजातविवेकख्यातिनस् तु क्लेशनिवृत्तौ न भोगाधिकार इत्य् अर्थः॥1.50॥

तस्यापि निरोधे सर्वनिरोधान् निर्बीजः समाधिः॥1.51॥

(इति श्रीपतञ्जलिविरचितयोगसूत्रेषु प्रथमः समाधिपादः॥1॥)

तद् अत्र भोगाधिकारप्रशान्तिः प्रयोजनं प्रज्ञासंस्काराणाम् इत्य् उक्तम्। पृच्छति --- किं चेति। किं चास्य भवति प्रज्ञासंस्कारवच् चित्तं प्रज्ञासंस्कारप्रवाहजनकतया तथैव साधिकारम् इत्य् अधिकारापनुत्तयेऽन्यद् अपि किंचिद् अपेक्षणीयम् अस्तीत्य् अर्थः। सूत्रेणोत्तरम् आह --- तस्यापि निरोधे सर्वनिरोधान् निर्बीजः समाधिः। परेण वैराग्येण ज्ञानप्रसादमात्रलक्षणेन संस्कारोपजननद्वारा तस्यापि प्रज्ञाकृतसंस्कारस्य निरोधे, न केवलं प्रज्ञाया इत्य् अपिशब्दार्थः। सर्वस्योत्पद्यमानस्य संस्कारप्रज्ञाप्रवाहस्य निरोधात् कारणाभावेन कार्यानुत्पादात् सोऽयं निर्बीजः समाधिर् भवति। व्याचष्टे --- स निर्बीजः समाधिः समाधिप्रज्ञाविरोधिनः परस्माद् वैराग्याद् उपजायमानः स्वकारणद्वारेण न केवलं समाधिप्रज्ञाविरोधी प्रज्ञाकृतानाम् अप्य् असौ संस्काराणां परिपन्थी भवति। ननु वैराग्यजं विज्ञानं सद्विज्ञानं प्रज्ञामात्रं बाधतां संस्कारं त्व् अविज्ञानरूपं कथं बाधते। दृष्टा हि जाग्रतोऽपि स्वप्नदृष्टार्थस्मृतिर् इत्य् आशयवान् पृच्छति --- कस्माद् इति। उत्तरं --- निरोधज इति। निरुध्यतेऽनेन प्रज्ञेति निरोधः परं वैराग्यम्। ततो जातो निरोधजः संस्कारः। संस्काराद् एव दीर्घकालनैरन्तर्यसत्कारासेवितपरवैराग्यजन्मनः प्रज्ञासंस्कारबाधो न तु विज्ञानाद् इत्य् अर्थः। स्याद् एतत्। निरोधजसंस्कारसद्भावे किं प्रमाणं स हि प्रत्यक्षेण वानुभूयेत स्मृत्या वा कार्येणानुमीयेत। न च सर्ववृत्तिनिरोधे प्रत्यक्षम् अस्ति योगिनः। नापि स्मृतिः। तस्य वृत्तिमात्रनिरोधतया स्मृतिजनकत्वासंभवाद् इत्य् अत आह --- निरोधेति। निरोधे स्थितिश् चित्तस्य निरुद्धावस्थेत्य् अर्थः। तस्याः कालक्रमो मुहूर्तार्धयामयामाहोरात्रादिस् तदनुभवेन। एतद् उक्तं भवति --- वैराग्याभ्यासप्रकर्षानुरोधी निरोधप्रकर्षो मुहूर्तार्धयामादिव्यापितयानुभूयते योगिना। न च वैराग्यक्षणाः क्रमनियततया परस्परम् असंभवन्तस् तत्तत्कालव्यापितया सातिशयं निरोधं कर्तुम् ईशत इति तत्तद्वैराग्यक्षणप्रचयजन्यः स्थायी संस्कारप्रचय एषितव्य इति भावः। ननूच्छिद्यन्तां प्रज्ञासंस्काराः। निरोधसंस्कारास् तु कुतः समुच्छिद्यन्ते। अनुच्छेदे वा साधिकारत्वम् एवेत्य् अत आह --- व्युत्थानेति। व्युत्थानं च तस्य निरोधसमाधिश् च संप्रज्ञातस् तत्प्रभवाः संस्काराः कैवल्यभागीया निरोधजाः संस्कारा इत्य् अर्थः। व्युत्थानप्रज्ञासंस्काराश् चित्ते प्रलीना इति भवति चित्तं व्युत्थानप्रज्ञासंस्कारवत्। निरोधसंस्कारस् तु प्रत्युदित एवास्ते चित्ते। निरोधसंस्कारे सत्य् अपि चित्तम् अनधिकारवत्। पुरुषार्थजनकं चित्तं हि साधिकारं शब्दाद्युपभोगविवेकख्याती च तथा पुरुषार्थः। संस्कारशेषतायां तु न बुद्धेः प्रतिसंवेदी पुरुष इति नासौ पुरुषार्थः। विदेहप्रकृतिलयानां न निरोधभागितया साधिकारं चित्तम्। अपि तु क्लेशवासिततयेत्य् आशयवान् आह --- यस्माद् इति। शेषं सुगमम्॥1.51॥

योगस्योद्देशनिर्देशौ तदर्थं वृत्तिलक्षणम्। योगोपायाः प्रभेदाश् च पादेऽस्मिन्न् उपवर्णिताः॥1॥

इति श्रीवाचस्पतिमिश्रविरचितायां पातञ्जलयोगसूत्रभाष्यव्याख्यायां प्रथमः समाधिपादः॥1॥