प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तत्त्ववैशारद्यां साधनपादः

तत्त्ववैशारदी

तत्र द्वितीयः साधनपादः।

तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः॥2.1॥

ननु प्रथमपादेनैव सोपायः सावान्तरप्रभेदः सफलो योग उक्तस् तत् किम् अपरम् अवशिष्यते यदर्थं द्वितीयः पादः प्रारभ्येतेत्य् अत आह --- उद्दिष्ट इति। अभ्यासवैराग्ये हि योगोपायौ प्रथमे पाद उक्तौ। न च तौ व्युत्थितचित्तस्य द्राग् इत्य् एव संभवत इति द्वितीयपादोपदेश्यान् उपायान् अपेक्षते सत्त्वशुद्ध्यर्थम्। ततो हि विशुद्धसत्त्वः कृतरक्षासंविधानोऽभ्यासवैराग्ये प्रत्यहं भावयति। समाहितत्वम् अविक्षिप्तत्वम्। कथं व्युत्थानचित्तोऽप्य् उपदेक्ष्यमाणैर् उपायैर् युक्तः सन् योगी स्याद् इत्य् अर्थः। तत्र वक्ष्यमाणेषु नियमेष्व् आकृष्य प्राथमिकं प्रत्युपयुक्ततरतया प्रथमतः क्रियायोगम् उपदिशति सूत्रकारः --- तपःस्वाध्यायेत्यादि। क्रियैव योगः क्रियायोगो योगसाधनत्वात्। अत एव विष्णुपुराणे खाण्डिक्यकेशिध्वजसंवादे ---

"योगयुक् प्रथमं योगी युञ्जमानोऽभिधीयते" [विष्णुपुराणम् 6.7.33]

इत्य् उपक्रम्य तपःस्वाध्यायादयो दर्शिताः। व्यतिरेकमुखेन (व्यतिरेकमुखेण) तपस उपायत्वम् आह --- नातपस्विन इति। तपसोऽवान्तरव्यापारम् उपायतोपयोगिनं दर्शयति --- अनादीति। अनादिभ्यां कर्मक्लेशवासनाभ्यां चित्रात एव प्रत्युपस्थितम् उपनतं विषयजालं यस्यां सा तथोक्ता। अशुद्धी रजस्तमःसमुद्रेको नान्तरेण तपः संभेदम् आपद्यते। सान्द्रस्य नितान्तविरलता संभेदः। ननूपादीयमानम् अपि तपो धातुवैषम्यहेतुतया योगप्रतिपक्ष इति कथं तदुपाय इत्य् अत आह --- तच् चेति। तावन्मात्रम् एव तपश् चरणीयं न यावता धातुवैषम्यम् आपद्यत इत्य् अर्थः। प्रणवादयः पुरुषसूक्तरुद्रमण्डलब्राह्मणादयो वैदिकाः, पौराणिकाश् च ब्रह्मपारायणादयः। परमगुरुर् भगवान् ईश्वरस् तस्मिन्। यत्रेदम् उक्तम् ---

"कामतोऽकामतो वापि यत् करोमि शुभाशुभम्। तत् सर्वं त्वयि संन्यस्तं त्वत्प्रयुक्तः करोम्य् अहम्" इति।

तत्फलसंन्यासो वा फलानभिसंधानेन कार्यकरणम्। यत्रेदम् उक्तम् ---

"कर्मण्य् एवाधिकारस् ते मा फलेषु कदाचन। मा कर्मफलहेतुर् भूर् मा ते सङ्गोऽस्त्व् अकर्मणि" [भगवद्गीता 2.47] ॥2.1॥

समाधिभावनार्थः क्लेशतनूकरणार्थश् च॥2.2॥

तस्य प्रयोजनाभिधानाय सूत्रम् अवतारयति --- स हीति। सूत्रं --- समाधिभावनार्थः क्लेशतनूकरणार्थश् च। ननु क्रियायोग एव चेत् क्लेशान् प्रतनूकरोति कृतं तर्हि प्रसंख्यानेनेत्य् अत आह --- प्रतनूकृतान् इति। क्रियायोगस्य प्रतनूकरणमात्रे व्यापारो न तु वन्ध्यत्वे क्लेशानां प्रसंख्यानस्य तु तद्वन्ध्यत्वे। दग्धबीजकल्पान् इति वन्ध्यत्वेन दग्धकलमबीजसारूप्यम् उक्तम्। स्याद् एतत्। प्रसंख्यानम् एव चेत् क्लेशान् अप्रसवधर्मिणः करिष्यति, कृतम् एषां प्रतनूकरणेनेत्य् अत आह --- तेषाम् इति। क्लेशानाम् अतानवे हि बलवद्विरोधिग्रस्ता सत्त्वपुरुषान्यताख्यातिर् उदेतुम् एव नोत्सहते। प्राग् एव तद्वन्ध्यभावं कर्तुं प्रविरलीकृतेषु तु क्लेशेषु दुर्बलेषु तद्विरोधिन्य् अपि वैराग्याभ्यासाभ्याम् उपजायते। उपजाता च तैर् अपरामृष्टानभिभूता नैव यावत् परामृश्यत इति। सत्त्वपुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञातीन्द्रियतया सूक्ष्मोऽस्या विषय इति सूक्ष्मा प्रज्ञा प्रतिप्रसवाय प्रविलयाय कल्पिष्यते। कुतः, समाप्ताधिकारा यतः समाप्तोऽधिकारः कार्यारम्भणं गुणानां यया हेतुभूतया सा तथोक्तेति॥2.2॥

अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः॥2.3॥

पृच्छति --- अथेति। अविद्येति सूत्रेण परिहारः। अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः। व्याचष्टे --- पञ्च विपर्यया इति। अविद्या तावद् विपर्यय एव। अस्मितादयो ऽप्य् अविद्योपादानास् तदविनिर्भागवर्तिन इति विपर्ययाः। ततश् चाविद्यासमुच्छेदे तेषाम् अपि समुच्छेदो युक्त इति भावः। तेषाम् उच्छेत्तव्यताहेतुं संसारकारणत्वम् आह --- ते स्पन्दमानाः समुदाचरन्तो गुणानाम् अधिकारं द्रढयन्ति बलवन्तं कुर्वन्त्य् अत एव परिणामम् अवस्थापयन्ति अव्यक्तमहदहंकारपरम्परया हि कार्यकारणस्रोत उन्नमयन्त्य् उद्भावयन्ति। यदर्थं सर्वम् एतत् कुर्वन्ति तद् दर्शयति --- परस्परेति। कर्मणां विपाको जात्यायुर्भोगलक्षणः पुरुषार्थस् तम् अमी क्लेशा अभिनिर्हरन्ति निष्पादयन्ति। किं प्रत्येकं नेत्य् आह --- परस्परानुग्रहेति। कर्मभिः क्लेशाः क्लेशैश् च कर्माणीति॥2.3॥

अविद्या क्षेत्रम् उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्॥2.4॥

हेयानां क्लेशानाम् अविद्यामूलत्वं दर्शयति --- अविद्या क्षेत्रम् उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम्। तत्र का प्रसुप्तिर् इति। स्वोचिताम् अर्थक्रियाम् अकुर्वतां क्लेशानां सद्भावे न प्रमाणम् अस्तीत्य् अभिप्रायः पृच्छतः। उत्तरं --- चेतसीति। मा नामार्थक्रियां कार्षुः क्लेशा विदेहप्रकृतिलयानां बीजभावं प्राप्तास् तु ते शक्तिमात्रेण सन्ति क्षीर इव दधि। न हि विवेकख्यातेर् अन्यद् अस्ति कारणं तद्वन्ध्यतायाम्। अतो विदेहप्रकृतिलया विवेकख्यातिविरहिणः प्रसुप्तक्लेशा न यावत् तदवधिकालं प्राप्नुवन्ति। तत्प्राप्तौ तु पुनरावृत्ताः सन्तः क्लेशास् तेषु तेषु विषयेषु संमुखीभवन्ति। शक्तिमात्रेण प्रतिष्ठा येषां ते तथोक्ताः। तद् अनेनोत्पत्तिशक्तिर् उक्ता। बीजभावोपगम इति च कार्यशक्तिर् इति। ननु विवेकख्यातिमतोऽपि क्लेशाः कस्मान् न प्रसुप्ता इत्य् अत आह --- प्रसंख्यानवत इति। चरमदेहो न तस्य देहान्तरम् उत्पत्स्यते यदपेक्षयास्य देहः पूर्व इत्य् अर्थः। नान्यत्र विदेहादिष्व् इत्य् अर्थः। ननु सतो नात्यन्तविनाश इति किम् इति तदीययोगर्द्धिबलेन विषयसंमुखीभावे न क्लेशाः प्रबुध्यन्त इत्य् अत आह --- सताम् इति। सन्तु क्लेशा दग्धस् त्व् एषां प्रसंख्यानाग्निना बीजभाव इत्य् अर्थः। क्लेशप्रतिपक्षः क्रियायोगस् तस्य भावनम् अनुष्ठानं तेनोपहतास् तनवः। अथवा सम्यग्ज्ञानम् अविद्यायाः प्रतिपक्षो भेददर्शनम् अस्मिताया माध्यस्थ्यं रागद्वेषयोर् अनुबन्धबुद्धिनिवृत्तिर् अभिनिवेशस्येति। विच्छित्तिम् आह --- तथेति। क्लेशानाम् अन्यतमेन समुदाचरताभिभवाद् वात्यन्तविषयसेवया वा विच्छिद्य विच्छिद्य तेन तेनात्मना समुदाचरन्त्य् आविर्भवन्ति वाजीकरणाद्युपयोगेन वाभिभावकदौर्बल्येन वेति। वीप्सया विच्छेदसमुदाचारयोः पौनःपुन्यं दर्शयता यथोक्तात् प्रसुप्ताद् भेद उक्तः। रागेण वा समुदाचरता विजातीयः क्रोधोऽभिभूयते सजातीयेन वा विषयान्तरवर्तिना रागेणैव विषयान्तरवर्ती रागोऽभिभूयत इत्य् आह --- रागेति। भविष्यद्वृत्तेस् त्रयी गतिर् यथायोगं वेदितव्येत्य् आह --- स हीति। भविष्यद्वृत्तिक्लेशमात्रपरामर्शि सर्वनाम न चैत्ररागपरामर्शि तस्य विच्छिन्नत्वाद् एवेति। उदारम् आह --- विषय इति। ननूदार एव पुरुषान् क्लिश्नातीति भवतु क्लेशोऽन्ये त्व् अक्लिश्नन्तः कथं क्लेशा इत्य् अत आह --- सर्व एवैत इति। क्लेशविषयत्वं क्लेशपदवाच्यत्वं नातिक्रामन्त्य् उदारताम् आपद्यमानाः। अत एव तेऽपि हेया इति भावः। क्लेशत्वेनैकतां मन्यमानश् चोदयति --- कस् तर्हीति। क्लेशत्वेन समानत्वेऽपि यथोक्तावस्थाभेदाद् विशेष इति परिहरति --- उच्यते सत्यम् इति। स्याद् एतत्। अविद्यातो भवन्तु क्लेशाः, तथाप्य् अविद्यानिवृत्तौ कस्मान् निवर्तन्ते। न खलु पटः कुविन्दनिवृत्तौ निवर्तत इत्य् अत आह --- सर्व एवेति। भेदा इव भेदास् तदविनिर्भागवर्तिन इति यावत्। पृच्छति --- कस्मात्। उत्तरं --- सर्वेष्व् इति। तद् एव स्फुटयति --- यद् इति। आकार्यते समारोप्यते। शेषं सुगमम्।

"प्रसुप्तास् तत्त्वलीनानां तन्ववस्थाश् च योगिनाम्। विच्छिन्नोदाररूपाश् च क्लेशा विषयसङ्गिनाम्" इति संग्रहः॥2.4॥

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर् अविद्या॥2.5॥

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिर् अविद्या। अनित्यत्वोपयोगिविशेषणं --- कार्य इति। केचित् किल भूतानि नित्यत्वेनाभिमन्यमानास् तद्रूपम् अभीप्सवस् तान्य् एवोपासते। एवं धूमादिमार्गान् उपासते चन्द्रसूर्यतारकाद्युलोकान् नित्यान् अभिमन्यमानास् तत्प्राप्तये। एवं दिवौकसो देवान् अमृतान् अभिमन्यमानास् तभावाय सोमं पिबन्ति। आम्नायते हि --- "अपाम सोमम् अमृता अभूम" [तैत्तिरीयसंहिता 3.2.5.4] इति। सेयम् अनित्येषु नित्यख्यातिर् अविद्या। तथाशुचौ परमबीभत्से काये। अर्धोक्त एव कायबीभत्सतायां वैयासिकीं गाथां पठति --- स्थानाद् इति। मातुर् उदरं मूत्राद्युपहतं स्थानं, पित्रोर् लोहितरेतसीं बीजम्। अशितपीताहाररसादिभाव उपष्टम्भस् तेन शरीरं धार्यते। निःस्यन्दः प्रस्वेदः। निधनं च श्रोत्रियशरीरम् अप्य् अपवित्रयति तत्स्पर्शे स्नानविधानात्। ननु यदि शरीरम् अशुचि कृतं तर्हि मृज्जलादिक्षालनेनेत्य् अत आह --- आधेयशौचत्वाद् इति। स्वभावेनाशुचेर् अपि शरीरस्य शौचम् आधेयं सुगन्धितेव कामिनीनाम् अङ्गरागादिभिः। अर्धोक्तं पूरयति --- इत्य् उक्तेभ्यो हेतुभ्योऽशुचौ शरीर इति। शुचिख्यातिम् आह --- नवेति। हावः शृङ्गारजा लीला। कस्य स्त्रीकायस्य परमबीभत्सस्य केन मन्दतमसादृश्येन शशाङ्कलेखादिना संबन्धः। एतेनाशुचौ स्त्रीकाये शुचिख्यातिप्रदर्शनेन। अपुण्ये हिंसादौ संसारमोचकादीनां पुण्यप्रत्ययः। एवम् अर्जनरक्षणादिदुःखबहुलतयानर्थे धनादाव् अर्थप्रत्यया व्याख्याताः सर्वेषां जुगुप्सितत्वेनाशुचित्वात्। तथा दुःख इति। सुगमम्। तथानात्मनीति। सुगमम्। तथैतद् अत्रोक्तं पञ्चशिखेन। व्यक्तं चेतनं पुत्रदारपश्वादि। अव्यक्तम् अचेतनं शय्यासनाशनादि। स सर्वोऽप्रतिबुद्धो मूढः। चत्वारि पदानि स्थानान्य् अस्या इति चतुष्पदा। नन्व् अन्यापि दिङ्मोहालातचक्रादिविषयानन्तपदाविद्या तत् किम् उच्यते चतुष्पदेत्य् अत आह --- मूलम् अस्येति। सन्तु नामान्या अप्य् अविद्याः संसारबीजं तु चतुष्पदैवेति। नन्व् अविद्येति नञ्समासः पूर्वपदार्थप्रधानो वा स्याद् यथामक्षिकम् इति। उत्तरपदार्थप्रधानो वा यथाराजपुरुष इति। अन्यपदार्थप्रधानो वा यथामक्षिको देश इति। तत्र पूर्वपदार्थप्रधानत्वे विद्यायाः प्रसज्यप्रतिषेधो गम्येत। न चास्याः क्लेशादिकारणत्वम्। उत्तरपदार्थप्रधानत्वे वा विद्यैव कस्यचिद् अभावेन विशिष्टा गम्येत। सा च क्लेशादिपरिपन्थिनी न तु तद्बीजम्। न हि प्रधानोपघाती प्रधानगुणो युक्तः। तदनुपघाताय गुणे त्व् अन्याय्यकल्पना। तस्माद् विद्यास्वरूपानुपघाताय नञोऽन्यथाकरणम् अप्य् आहारो वा निषेध्यस्येति। अन्यपदार्थप्रधानत्वे त्व् अविद्यमानविद्या बुद्धिर् वक्तव्या। न चासौ विद्याया अभावमात्रेण क्लेशादिबीजम्। विवेकख्यातिपूर्वकनिरोधसंपन्नाया अपि तथात्वप्रसङ्गात्। तस्मात् सर्वथैवाविद्याया न क्लेशादिमूलतेत्य् अत आह --- तस्याश् चेति। वस्तुनो भावो वस्तुसतत्त्वं वस्तुत्वम् इति यावत्। तद् अनेन न प्रसज्यप्रतिषेधः। नापि विद्यैवाविद्या, न तदभावविशिष्टा बुद्धिर् अपि तु विद्याविरुद्धं विपर्ययज्ञानम् अविद्येत्य् उक्तम्। लोकाधीनावधारणो हि शब्दार्थयोः संबन्धः। लोके चोत्तरपदार्थप्रधानस्यापि नञ उत्तरपदाभिधेयोपमर्दकस्य तल्लक्षिततद्विरुद्धपरतया तत्र तत्रोपलब्धेर् इहापि तद्विरुद्धे वृत्तिर् इति भावः। दृष्टान्तं विभजते --- यथा नामित्र इति। न मित्राभावो नापि मित्रमात्रम् इत्य् अस्यानन्तरं वस्त्वन्तरं किं तु तद्विरुद्धः सपत्न इति वक्तव्यम्। तथागोष्पदम् इति न गोष्पदाभावो न गोष्पदमात्रं किं तु देश एव विपुलो गोष्पदविरुद्धस् ताभ्याम् अभावगोष्पदाभ्याम् अन्यद् वस्त्वन्तरम्। दार्ष्टान्तिके योजयति --- एवम् इति॥2.5॥

दृग्दर्शनशक्त्योर् एकात्मतेवास्मिता॥2.6॥

अविद्याम् उक्त्वा तस्याः कार्यम् अस्मितां रागादिवार्षिष्ठाम् आह --- दृग्दर्शनशक्त्योर् एकात्मतेवास्मिता। दृक् च दर्शनं च ते एव शक्ती तयोर् आत्मानात्मनोर् अनात्मन्य् आत्मज्ञानलक्षणाविद्यापादिता यैकात्मतेव न तु परमार्थत एकात्मता सास्मिता। दृग्दर्शनयोर् इति वक्तव्ये तयोर् भोक्तृभोग्ययोर् योग्यतालक्षणं संबन्धं दर्शयितुं शक्तिग्रहणम्। सूत्रं विवृणोति --- पुरुष इति। नन्व् अनयोर् अभेदप्रतीतेर् अभेद एव कस्मान् न भवति कुतश् चैकत्वं क्लिश्नाति पुरुषम् इत्य् अत आह --- भोक्तृभोग्येति। भोग्यशक्तिर् बुद्धिर् भोक्तृशक्तिः पुरुषस् तयोर् अत्यन्तविभक्तयोः कुतो ऽत्यन्तविभक्तत्वम् इत्य् अत आह --- अत्यन्तासंकीर्णयोः। अपरिणामित्वादिधर्मकः पुरुषः परिणामित्वादिधर्मिका बुद्धिर् इत्य् असंकीर्णता। तद् अनेन प्रतीयमानोऽप्य् अभेदो न पारमार्थिक इत्य् उक्तम्। अविभागेति क्लेशत्वम् उक्तम्। अन्वयं दर्शयित्वा व्यतिरेकम् आह --- स्वरूपेति। प्रतिलम्भो विवेकख्यातिः। परस्याप्य् एतत् संमतम् इत्य् आह --- तद् उक्तं (तथा चोक्तं) पञ्चशिखेन बुद्धित इति। आकारः स्वरूपं सदा विशुद्धिः, शीलम् अउदासीन्यं, विद्या चैतन्यं, बुद्धिर् अविशुद्धानुदासीना जडा चेति तत्रात्मबुद्धिर् अविद्या। मोहः पूर्वाविद्याजनितः संस्कारस् तमो वाविद्यायास् तामसत्वाद् इति॥2.6॥

सुखानुशयी रागः॥2.7॥

विवेकदर्शने रागादीनां विनिवृत्तेर् अविद्यापादितास्मिता रागादीनां निदानम् इत्य् अस्मितानन्तरं रागादींल् लक्षयति --- सुखानुशयी रागः। अनभिज्ञस्य स्मृतेर् अभावात् सुखाभिज्ञस्येत्य् उक्तम्। स्मर्यमाणे सुखे रागः सुखानुस्मृतिपूर्वकः। अनुभूयमाने तु सुखे नानुस्मृतिम् अपेक्षते। तत्साधने तु स्मर्यमाणे दृश्यमाने वा सुखानुस्मृतिपूर्व एव रागः। दृश्यमानम् अपि हि सुखसाधनं तज्जातीयस्य सुखहेतुतां स्मृत्वा तज्जातीयतया वास्य सुखहेतुत्वम् अनुमायेच्छति। अनुशयिपदार्थम् आह --- य इति॥2.7॥

दुःखानुशयी द्वेषः॥2.8॥

दुःखानुशयी द्वेषः। दुःखाभिज्ञस्येति पूर्ववद् व्याख्येयम्। अनुशयिपदार्थम् आह --- यः प्रतिघ इति। प्रतिहन्तीति प्रतिघः। एतद् एव पर्यायैर् विवृणोति --- मन्युर् इति॥2.8॥

स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः॥2.9॥

स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः। अभिनिवेशपदार्थं व्याचष्टे --- सर्वस्य पाणिन इति। इयम् आत्माशीर् आत्मनि प्रार्थना मा न भूवं माभावी भूवं भूयासं जीव्यासम् इति। न चाननुभूतमरणधर्मकस्य, अननुभूतो मरणधर्मो येन जन्तुना न तस्यैषा भवत्य् आत्माशीर् अभिनिवेशो मरणभयम्। प्रसङ्गतो जन्मान्तरं प्रत्याचक्षाणं नास्तिकं निराकरोति --- एतया चेति। प्रत्युदितस्य शरीरस्य ध्रियमाणत्वात् पूर्वजन्मानुभवः प्रतीयते। निकायविशिष्टाभिर् अपूर्वाभिर् देहेन्द्रियबुद्धिवेदनाभिर् अभिसंबन्धो जन्म तस्यानुभवः प्राप्तिः सा प्रतीयते कथम् इत्य् अत आह --- स चायम् अभिनिवेशः। अर्धोक्ताव् एवास्य क्लेशत्वम् आह --- क्लेश इति। अयम् अहितकर्मादिना जन्तून् क्लिश्नाति दुःखाकरोतीति क्लेशः। वक्तुम् उपक्रान्तं परिसमापयति --- स्वरसवाहीति। स्वभावेन वासनारूपेण वहनशीलो न पुनर् आगन्तुकः। कृमेर् अपि जातमात्रस्य दुःखबहुलस्य निकृष्टतमचैतन्यस्यानागन्तुकत्वे हेतुम् आह --- प्रत्यक्षानुमानागमैः प्रत्युदिते जन्मन्य् असंभावितो ऽसंपादितो मरणत्रास उच्छेददृष्ट्यात्मकः पूर्वजन्मानुभूतं मरणदुःखम् अनुमापयति। अयम् अभिसंधिः --- जातमात्र एव हि बालको मारकवस्तुदर्शनाद् वेपमानः कम्पविशेषाद् अनुमितमरणप्रत्यासत्तिस् ततो बिभ्यद् उपलभ्यते। दुःखाद् दुःखहेतोश् च भयं दृष्टम्। न चास्मिञ् जन्मन्य् अनेन मरणम् अनुभूतम् अनुमितं श्रुतं वा, प्राग् एवास्य दुःखत्वं तद्धेतुत्वं वावगम्येत, तस्मात् तस्य तथाभूतस्य स्मृतिः परिशिष्यते। न चेयं संस्काराद् ऋते। न चायं संस्कारोऽनुभवं विना। न चास्मिञ् जन्मन्य् अनुभव इति प्राग्भवीयः परिशिष्यत इत्य् आसीत् पूर्वजन्मसंबन्ध इति। तथापदं यथापदम् आकाङ्क्षतीत्य् अर्थप्राप्ते यथापदे सति यादृशो वाक्यार्थो भवति तादृशं दर्शयति --- यथा चायम् इति। अत्यन्तमूढेषु मन्दतमचैतन्येषु। विद्वत्तां दर्शयति --- विज्ञातपूर्वापरान्तस्य। अन्तः कोटिः। पुरुषस्य हि पूर्वा कोटिः संसार उत्तरा च कैवल्यं सैव विज्ञाता श्रुतानुमानाभ्यां येन स तथोक्तः। सोऽयं मरणत्रास आ कृमेर् आ च विदुषो रूढः प्रसिद्ध इति। नन्व् अविदुषो भवतु मरणत्रासो विदुषस् तु न संभवति विद्ययोन्मूलितत्वात्। अनुन्मूलने वा स्याद् अत्यन्तसत्त्वम् इत्य् आशयवान् पृच्छति --- कस्माद् इति। उत्तरम् आह --- समाना हीति। न संप्रज्ञातवान् विद्वान् अपि तु श्रुतानुमितविवेक इति भावः॥2.9॥

ते प्रतिप्रसवहेयाः सूक्ष्माः॥2.10॥

तद् एवं क्लेशा लक्षितास् तेषां च हेयानां प्रसुप्ततनुविच्छिन्नोदाररूपतया चतस्रोऽवस्था दर्शिताः। कस्मात् पुनः पञ्चमी क्लेशावस्था दग्धबीजभावतया सूक्ष्मा न सूत्रकारेण कथितेत्य् अत आह --- ते प्रतिप्रसवहेयाः सूक्ष्माः। यत् किल पुरुषप्रयत्नगोचरस् तद् उपदिश्यते। न च सूक्ष्मावस्थाहानं प्रयत्नगोचरः किं तु प्रतिप्रसवेन कार्यस्य चित्तस्यास्मितालक्षणकारणभावापत्त्या हातव्येति। व्याचष्टे --- त इति। सुगमम्॥2.10॥

ध्यानहेयास् तद्वृत्तयः॥2.11॥

अथ क्रियायोगतनूकृतानां क्लेशानां किंविषयात् पुरुषप्रयत्नाद् धानम् इत्य् अत आह --- स्थितानां तु बीजभावोपगतानाम् इति वन्ध्येभ्यो व्यवच्छिनत्ति। सूत्रं पठति --- ध्यानहेयास् तद्वृत्तयः। व्याचष्टे --- क्लेशानाम् इति। क्रियायोगतनूकृता अपि हि प्रतिप्रसवहेतुभावेन कार्यतः स्वरूपतश् च शक्या उच्छेत्तुम् इति स्थूला उक्ताः। पुरुषप्रयत्नस्य प्रसंख्यानगोचरस्यावधिम् आह --- यावद् इति। सूक्ष्मीकृता इति विवृणोति --- दग्धेति। अत्रैव दृष्टान्तम् आह --- यथा वस्त्राणाम् इति। यत्नेन क्षालनादिनोपायेन क्षारसंयोगादिना। स्थूलसूक्ष्ममात्रतया दृष्टान्तदार्ष्टान्तिकयोः साम्यं न पुनः प्रयत्नापनेयतया प्रतिप्रसवहेयेषु तदसंभवात्। स्वल्पः प्रतिपक्ष उच्छेदहेतुर् यासां तास् तथोक्ताः। महान् प्रतिपक्ष उच्छेदहेतुर् यासां तास् तथोक्ताः। प्रतिप्रसवस्य चाधस्तात् प्रसंख्यानम् इत्य् अवरतया स्वल्पत्वम् उक्तम्॥2.11॥

क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः॥2.12॥

स्याद् एतज् जात्यायुर्भोगहेतवः पुरुषं क्लिश्नन्तः क्लेशाः कर्माशयश् च तथा, न त्व् अविद्यादयस् तत् कथम् अविद्यादयः क्लेशा इत्य् अत आह --- क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः। क्लेशा मूलं यस्योत्पादे च कार्यकरणे च स तथोक्तः। एतद् उक्तं भवति --- अविद्यादिमूलो हि कर्माशयो जात्यायुर्भोगहेतुर् इत्य् अविद्यादयो ऽपि तद्धेतवोऽतः क्लेशा इति। व्याचष्टे --- तत्रेति। आशेरते सांसारिकाः पुरुषा अस्मिन्न् इत्य् आशयः कर्मणाम् आशयो धर्माधर्मौ। कामात् काम्यकर्मप्रवृत्तौ स्वर्गादिहेतुर् धर्मो भवति। एवं लोभात् परद्रव्यापहारादाव् अधर्मः। मोहाद् अधर्मे हिंसादौ धर्मबुद्धेः प्रवर्तमानस्याधर्म एव। न त्व् अस्ति मोहजो धर्मः। अस्ति क्रोधजो धर्मः। तद्यथा ध्रुवस्य जनकापमानजन्मनः क्रोधात् तज्जिगीषया चित्तेन कर्माशयेन पुण्येनान्तरिक्षलोकवासिनाम् उपरिस्थानम्। अधर्मस् तु क्रोधजो ब्रह्मवधादिजन्मा प्रसिद्ध एव भूतानाम्। तस्य द्वैविध्यम् आह --- स दृष्टजन्मेति। दृष्टजन्मवेदनीयम् आह --- तीव्रसंवेगेनेति। यथासंख्यं दृष्टान्ताव् आह --- यथा नन्दीश्वर इति। तत्र नारकाणाम् इति। येन कर्माशयेन कुम्भीपाकादयो नरकभेदाः प्राप्यन्ते तत्कारिणो नारकास् तेषां नास्ति दृष्टजन्मवेदनीयः कर्माशयः। न हि मनुष्यशरीरेण तत्परिणामभेदेन वा सा तादृशी वत्सरसहस्रादिनिरन्तरोपभोग्या वेदना संभवतीति। शेषं सुगमम्॥2.12॥

सति मूले तद्विपाको जात्यायुर्भोगाः॥2.13॥

स्याद् एतद् अविद्यामूलत्वे कर्माशयस्य विद्योत्पादे सत्य् अविद्याविनाशान् मा नाम कर्माशयान्तरं चैषीत्। प्राचां तु कर्माशयानाम् अनादिभवपरम्परासंचितानाम् असंख्यातानाम् अनियतविपाककालानां भोगेन क्षपयितुम् अशक्यत्वाद् अशक्योच्छेदः संसारः स्याद् इत्य् अत आह --- सति मूले तद्विपाको जात्यायुर्भोगाः। एतद् उक्तं भवति --- सुखदुःखफलो हि कर्माशयस् तादर्थ्येन तन्नान्तरीयकतया जन्मायुषी अपि प्रसूते। सुखदुःखे च रागद्वेषानुषक्ते तदविनिर्भागवर्तिनी तदभावे न भवतः। न चास्ति संभवो न च तत्र यस् तुष्यति वोद्विजते वा तच् च तस्य सुखं वा दुःखं वेति। तद् इयम् आत्मभूमिः क्लेशसलिलावसिक्ता कर्मफलप्रसवक्षेत्रम् इत्य् अस्ति क्लेशानां फलोपजननेऽपि कर्माशयसहकारितेति क्लेशसमुच्छेदे सहकारिवैकल्यात् सन्न् अप्य् अनन्तोऽप्य् अनियतविपाककालोऽपि प्रसंख्यानदग्धबीजभावो न फलाय कल्पत इति। उक्तम् अर्थं भाष्यम् एव द्योतयति --- सत्स्व् इति। अत्रैव दृष्टान्तम् आह --- यथा तुषेति। सतुषा अपि दग्धबीजभावाः स्वेदादिभिः। दार्ष्टान्तिके योजयति --- तथेति। ननु न क्लेशाः शक्या अपनेतुं न हि सताम् अपनय इत्य् अत आह --- न प्रसंख्यानदग्धक्लेशबीजभाव इति। विपाकस्य त्रैविध्यम् आह --- स चेति। विपच्यते साध्यते कर्मभिर् इति विपाकः। कर्मैकत्वं ध्रुवं कृत्वा जन्मैकत्वानेकत्वगोचरा प्रथमा विचारणा। द्वितीया तु कर्मानेकत्वं ध्रुवं कृत्वा जन्मैकत्वानेकत्वगोचरा। तद् एवं चत्वारो विकल्पाः। तत्र प्रथमं विकल्पम् अपाकरोति --- न तावद् एकं कर्मैकस्य जन्मनः कारणम्। पृच्छति --- कस्माद् इति। उत्तरम् --- अनादिकालैकैकजन्मप्रचितस्यात एवासंख्येयस्यैकैकजन्मक्षपिताद् एकैकस्मात् कर्मणो ऽवशिष्टस्य कर्मणः सांप्रतिकस्य च फलक्रमानिगमाद् अनाश्वासो लोकस्य प्रसक्तः स चानिष्ट इति। एतद् उक्तं भवति --- कर्मक्षयस्य विरलत्वात् तदुत्पत्तिबाहुल्याच् चान्योन्यसंपीडिताः कर्माशया निरन्तरोत्पत्तयो निरुच्छ्वासाः स्वविपाकं प्रतीति न फलक्रमः शक्यो ऽवधारयितुं प्रेक्षावतेत्य् अनाश्वासः पुण्यानुष्ठानं प्रति प्रसक्त इति। द्वितीयं विकल्पं निराकरोति --- न चैकं कर्मानेकस्य जन्मनः कारणम्। पृच्छति --- कस्माद् इति। उत्तरम् --- अनेकस्मिञ् जन्मन्य् आहितम् एकैकम् एव कर्मानेकस्य जन्मलक्षणस्य विपाकस्य निमित्तम् इत्य् अवशिष्टस्य विपाककालाभावः प्रसक्तः स चाप्य् अनिष्टः कर्मवैफल्येन तदननुष्ठानप्रसङ्गात्। यदैकजन्मसमुच्छेद्ये कर्मण्य् एकस्मिन् फलक्रमानियमाद् अनाश्वासस् तदा कैव कथा बहुजन्मसमुच्चेद्ये कर्मण्य् एकस्मिंस् तत्र ह्य् अवसराभावाद् विपाककालाभाव एव सांप्रतिकस्येति भावः। तृतीयं विकल्पं निराकरोति --- न चानेकं कर्मानेकस्य जन्मनः कारणम्। तत्र हेतुम् आह --- तद् अनेकं जन्म युगपन् न संभवत्य् अयोगिन इति क्रमेण वाच्यम्। यदि हि कर्मसहस्रं युगपज् जन्मसहस्रं प्रसुवीत तत एव कर्मसहस्रप्रक्षयाद् अवशिष्टस्य विपाककालः फलक्रमनियमश् च स्याताम्। न ह्य् अस्ति जन्मनां यौगपद्यम्। एवम् एव प्रथमपक्षोक्तं दूषणम् इत्य् अर्थः। तद् एवं पक्षत्रये निराकृते पारिशेष्याद् अनेकं कर्मैकस्य जन्मनः कारणम् इति पक्षो व्यवतिष्ठत इत्य् आह --- तस्माज् जन्मेति। जन्म च प्रायणं च जन्मप्रायणे तयोर् अन्तरं मध्यं तस्मिन् विचित्रसुखदुःखफलोपहारेण विचित्रः, यद् अत्यन्तम् उद्भूतम् अनन्तरम् एव फलं दास्यति तत् प्रधानं, यत् तु किंचिद् विलम्बेन तद् उपसर्जनं, प्रायणं मरणं तेनाभिव्यक्तः स्वकार्यारम्भणाभिमुखम् उपनीत एकप्रघट्टकेन युगपत् संमूर्छितो जन्मादिलक्षणे कार्ये कर्तव्य एकलोलीभावम् आपन्न एकम् एव जन्म करोति नानेकम्। तच् च जन्म मनुष्यादिभावस् तेनैव कर्मणा लब्धायुष्कं कालभेदान् नियतजीवितं भवति। तस्मिन्न् आयुषि तेनैव कर्मणा भोगः सुखदुःखसाक्षात्कारः स्वसंबन्धितया संपद्यत इति। तस्माद् असौ कर्माशयो जात्यायुर्भोगहेतुत्वात् त्रिविपाको ऽभिधीयते। अउत्सर्गिकम् उपसंहरति --- अत एकभविकः कर्माशय उक्त इति। एको भव एकभवः। "पूर्वकाल-" [पाणिनिसूत्रम् 2.1.49] इत्यादिना समासः। एकभवो ऽस्यास्तीति मत्वर्थीयष् ठन्। क्वचित् पाठ अइकभविक इति। तत्रैकभवशब्दाद् भवार्थे ठक्प्रत्ययः। एकजन्मावच्छिन्नम् अस्य भवनम् इत्य् अर्थः। तद् एवम् अउत्सर्गिकस्यैकभविकस्य त्रिविपाकत्वम् उक्त्वा दृष्टजन्मवेदनीयस्यैहिकस्य कर्मणस् त्रिविपाकत्वं व्यवच्छिनत्ति --- दृष्टेति। नन्दीश्वरस्य खल्व् अष्टवर्षावच्छिन्नायुषो मनुष्यजन्मनस् तीव्रसंवेगाधिमात्रोपायजन्मा पुण्यभेद आयुर्भोगहेतुत्वाद् द्विपाकः (द्विविपाकः) नहुषस्य तु पार्ष्णिप्रहारविरोधिनागस्त्यस्येन्द्रपदप्राप्तिहेतुनैव कर्मणायुषो विहितत्वाद् अपुण्यभेदो भोगमात्रहेतुः। ननु यथैकभविकः कर्माशयस् तथा किं क्लेशवासना भोगानुकूलाश् च कर्मविपाकानुभववासनास् तथा च मनुष्यस् तिर्यग्योनिम् आपन्नो न तज्जातीयोचितं भुञ्जीतेत्य् अत आह --- क्लेशेति। संमूर्छितम् एकलोलीभावम् आपन्नम्। धर्माधर्माभ्यां व्यवच्छेत्तुं वासनायाः स्वरूपम् आह --- ये संस्कारा इति। अउत्सर्गिकम् एकभविकत्वं क्वचिद् अपवदितुं भूमिकाम् आरचयति --- यस् त्व् असाव् इति। तुशब्देन वासनातो व्यवच्छिनत्ति। दृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायम् एकभविकत्वनियमो न त्व् अदृष्टजन्मवेदनीयस्य। किंभूतस्यानियतविपाकस्येति। हेतुं पृच्छति --- कस्माद् इति। हेतुम् आह --- यो हीति। एकां तावद् गतिम् आह --- कृतस्येति। द्वितीयाम् आह --- प्रधानेति। तृतीयाम् आह --- नियतेति। तत्र प्रथमां विभजते --- तत्र कृतस्येति। संन्यासिकर्मभ्योऽशुक्लाकृष्णेभ्योऽन्यानि त्रीण्य् एव कर्माणि कृष्णकृष्णशुक्लशुक्लानि। तद् इह तपःस्वाध्यायादिसाध्यः शुक्लः कर्माशय उदित एवादत्तफलस्य कृष्णस्य नाशकोऽविशेषाच् च शबलस्यापि कृष्णभागयोगाद् इति मन्तव्यम्। अत्रैव भगवान् आम्नायम् उदाहरति --- यत्रेदम् इति। द्वे द्वे ह वै कर्मणी कृष्णकृष्णशुक्ले अपहन्तीति संबन्धः। वीप्सया भूयिष्ठता सूचिता। कस्येत्य् अत आह --- पापकस्य पुंसः। कोऽसाव् अपहन्तीत्य् अत आह --- एको राशिः पुण्यकृतः। समूहस्य समूहिसाध्यत्वात्। तद् अनेन शुक्लः कर्माशयस् तृतीय उक्तः। एतद् उक्तं भवति --- ईदृशो नामायं परपीडादिरहितसाधनसाध्यः शुक्लः कर्माशयो यद् एकोऽपि सन् कृष्णान् कृष्णशुक्लांश् चात्यन्तविरोधिनः कर्माशयान् भूयसोऽप्य् अपहन्ति। तत् तस्माद् इच्छस्वेति च्छान्दसत्वाद् आत्मनेपदम्। शेषं सुगमम्। अत्र च शुक्लकर्मोदयस्यैव स कोऽपि महिमा यत इतरेषाम् अभावो न तु स्वाध्यायादिजन्मनो दुःखात्। न हि दुःखमात्रविरोध्यधर्मोऽपि तु स्वकार्यदुःखविरोधी। न च स्वाध्यायादिजन्यं दुःखं तस्य कार्यं तत्कार्यत्वे स्वाध्यायादिविधानानर्थक्यात् तद्बलाद् एव तदुत्पत्तेः। अनुत्पत्तौ वा कुम्भीपाकाद्य् अपि विधीयेत। अविधाने तु तदनुत्पत्तेर् इति सर्वं चतुरस्रम्। द्वितीयां गतिं विभजते --- प्रधाने कर्मणि ज्योतिष्टोमादिके तदङ्गस्य पशुहिंसादेर् आवापगमनम्। द्वे खलु हिंसादेः कार्ये --- प्रधानाङ्गत्वेन विधानात् तदुपकारः, "न हिंस्यात् सर्वा भूतानि" [महाभारतम् शान्तिपर्व 278.5] इति हिंसायाः प्रतिषिद्धत्वाद् अनर्थश् च। तत्र प्रधानाङ्गत्वेनानुष्ठानाद् अप्रधानतैवेत्य् अतो न द्राग् इत्य् एव प्रधाननिरपेक्षा सती स्वफलम् अनर्थं प्रसोतुम् अर्हति, किं त्व् आरब्धविपाके प्रधाने साहायकम् आचरन्ती व्यवतिष्ठते। प्रधानसाहायकम् आचरन्त्याश् च स्वकार्ये बीजमात्रतयावस्थानं प्रधाने कर्मण्य् आवापगमनम्। यत्रेदम् उक्तं पञ्चशिखेन स्वल्पः संकरो ज्योतिष्टोमादिजन्मनः प्रधानापूर्वस्य पशुहिंसादिजन्मनानर्थहेतुनापूर्वेण सपरिहारः शक्यो हि कियता प्रायश्चित्तेन परिहर्तुम्। अथ प्रमादतः प्रायश्चित्तम् अपि नाचरितं प्रधानकर्मविपाकसमये च विपच्येत तथापि यावन् तम् असाव् अनर्थं प्रसूते तावान् सप्रत्यवमर्षो मृष्यन्ते हि पुण्यसंभारोपनीतसुखसुधामहाह्रदावगाहिनः कुशलाः पापमात्रोपपादितां दुःखवह्निकणिकाम्। अतः कुशलस्य सुमहतः पुण्यस्य नापकर्षाय प्रक्षयाय पर्याप्तः। पृच्छति --- कस्मात्। पुण्यवत उत्तरं ---कुशलं हि मे बह्व् अन्यद् अस्ति प्रधानकर्म परिकरतया व्यवस्थितं दीक्षणीयादिदक्षिणान्तम्। यत्रायं संकरः स्वल्पः स्वर्गेऽप्य् अस्य फले संकीर्णपुण्यलब्धजन्मनः स्वर्गात् सर्वथा दुःखेनापरामृष्टाद् अपकर्षम् अल्पम् अल्पदुःखसंभेदं करिष्यतीति। तृतीयां गतिं विभजते --- नियतेति। बलीयस्त्वेनेह प्राधान्यम् अभिमतं न त्व् अङ्गितया। बलीयस्त्वं च नियतविपाकत्वेनान्यदानवकाशत्वात्। अनियतविपाकस्य तु दुर्बलत्वम् अन्यदा सावकाशत्वात्। चिरम् अवस्थानं बीजभावमात्रेण न पुनः प्रधानोपकारितया तस्य स्वतन्त्रत्वात्। ननु प्रायणेनैकदैव कर्माशयोऽभिव्यज्यत इत्य् उक्तम् इदानीं च चिरावस्थानम् उच्यते तत् कथं परं पूर्वेण न विरुध्यत इत्य् आशयवान् पृच्छति --- कथम् इति। उत्तरम् --- अदृष्टेति। जात्यभिप्रायम् एकवचनम्। तदितरस्य गतिम् उक्ताम् अवधारयति --- यत् त्व् अदृष्टेति। शेषं सुगमम्॥2.13॥

ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात्॥2.14॥

उक्तं क्लेशमूलत्वं कर्मणाम्। कर्ममूलत्वं च विपाकानाम् अथ विपाकाः कस्य मूलं येनामी त्यक्तव्या इत्य् अत आह --- ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात्। व्याचष्टे --- ते जन्मायुर्भोगा इति। यद्य् अपि जन्मायुषोर् एव ह्लादपरितापपूर्वभावितया तत्फलत्वं न तु भोगस्य ह्लादपरितापोदयानन्तरभाविनस् तदनुभवात्मनस् तथाप्य् अनुभाव्यतया भोग्यतया भोगकर्मतामात्रेण भोगफलत्वम् इति मन्तव्यम्। नन्व् अपुण्यहेतुका जात्यायुर्भोगाः परितापफला भवन्तु हेयाः प्रतिकूलवेदनीयत्वात्। कस्मात् पुनः पुण्यहेतवस् त्यज्यन्ते सुखफला अनुकूलवेदनीयत्वात्। न चैषां प्रत्यात्मवेदनीयानुकूलता शक्या सहस्रेणाप्य् अनुमानागमैर् अपाकर्तुम्। न च ह्लादपरितापौ परस्पराविनाभूतौ यतो ह्लाद उपादीयमाने परितापेऽप्य् अवर्जनीयतयापतेत्। तयोर् भिन्नहेतुकत्वाद् भिन्नरूपत्वाच् चेत्य् अत आह --- यथा चेदम् इति॥2.14॥

परिणामतापसंस्कारदुःखैर् गुणवृत्तिविरोधाच् च दुःखम् एव सर्वं विवेकिनः॥2.15॥

यद्य् अपि न पृथग्जनैः प्रतिकूलात्मतया विषयसुखकाले संवेद्यते दुःखं तथापि संवेद्यते योगिभिर् इति प्रश्नपूर्वकं तदुपपादनाय सूत्रम् अवतारयति --- कथं, तदुपपद्यत (तदुपपाद्यत) इति। परिणामेत्यादिसूत्रम्। परिणामश् च तापश् च संस्कारश् चैतान्य् एव दुःखानि तैर् इति। परिणामदुःखतया विषयसुखस्य दुःखताम् आह --- सर्वस्यायम् इति। न खलु सुखं रागानुवेधम् अन्तरेण संभवति। न ह्य् अस्ति संभवो न तत्र तुष्यति तच् च तस्य सुखम् इति। रागस्य च प्रवृत्तिहेतुत्वात् प्रवृत्तेश् च पुण्यापुण्योपचयहेतुत्वात् तत्रास्ति रागजः कर्माशयोऽसतो ऽनुपजननात्। तदा (तथा) च सुखं भुञ्जानस् तत्र सक्तो ऽपि विच्छिन्नावस्थेन द्वेषेण द्वेष्टि दुःखसाधनानि, तानि परिहर्तुम् अशक्तो मुह्यति चेति द्वेषमोहकृतोऽप्य् अस्ति कर्माशयः। द्वेषवन् मोहस्यापि विपर्ययापरनाम्नः कर्माशयहेतुत्वम् अविरुद्धम्। ननु कथं रक्तो द्वेष्टि मुह्यति वा रागसमये द्वेषमोहयोर् अदर्शनाद् इत्य् अत आह --- तथा चोक्तं विच्छिन्नावस्थान् क्लेशान् उपपादयद्भिर् अस्माभिः। तद् अनेन वाङ्मनसप्रवृत्तिजन्मनी पुण्यापुण्ये दर्शिते। रागादिजन्मनः कर्तव्यम् इदम् इति मानसस्य संकल्पस्य साभिलाषत्वेन वाचनिकत्वस्याप्य् अविशेषात्। यथाहुः ---

"साभिलाषश् च संकल्पो वाच्यार्थान् नातिरिच्यते" इति।

शारीरम् अपि कर्माशयं दर्शयति --- नानुपहत्येति। अत एव धर्मशास्त्रकाराः "पञ्च सूना गृहस्थस्य" [मनुस्मृतिः 3.68] इत्य् आहुः। स्याद् एतन् न प्रत्यात्मवेदनीयस्य विषयसुखस्य प्रत्याख्यानम् उचितं योगिनाम् अनुभवविरोधाद् इत्य् अत आह --- विषयसुखं चाविद्येत्य् उक्तं चतुर्विधविपर्यासलक्षणाम् अविद्यां दर्शयद्भिर् इति। नापातमात्रम् आद्रियन्ते वृद्धाः। अस्ति खल्व् आपाततो मधुविषसंपृक्तान् नोपभोगेऽपि सुखानुभवः प्रत्यात्मवेदनीयः किं त्व् आयत्याम् असुखम्। इयं च दर्शिता भगवतैव ---

"विषयेन्द्रियसंयोगाद् यत् तद् अग्रेऽमृतोपमम्। परिणामे विषम् इव तत् सुखं राजसं स्मृतम्" [भगवद्गीता 18.38] इति॥

चोदयति --- या भोगेष्व् इति। न वयं विषयह्लादं सुखम् आतिष्ठामहे किं तु तृप्यतां (तृप्ततां) पुंसाम्। तत्तद्विषयप्रार्थनापरिक्लिष्टचेतसां तृष्णैव महद् दुःखम्। न चेयम् उपभोगम् अन्तरेण शाम्यति। न चास्याः प्रशमो रागाद्यनुविद्ध इति नास्य परिणामदुःखतेति भावः। तृप्तेस् तृष्णाक्षयाद् धेतोर् इन्द्रियाणाम् उपशान्तिर् अप्रवर्तनं विषयेष्व् इत्य् अर्थः। एतद् एव व्यतिरेकमुखेन (व्यतिरेकमुखेण) स्पष्टयति --- या लौल्याद् इति। परिहरति --- न चेन्द्रियाणाम् इति। हेताव् अनोः प्रयोगः। सत्यं तृष्णाक्षयः सुखम् अनवद्यं तस्य तु न भोगाभ्यासो हेतुर् अपि तु तृष्णाया एव तद्विरोधिन्याः। यथाहुः ---

"न जातु कामः कामानाम् उपभोगेन शाम्यति। हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते [महाभारतम् आदिपर्व 85.12] इति॥"

शेषम् अतिरोहितम्। तापदुःखतां पृच्छति --- अथ केति। उत्तरं --- सर्वस्येति। सर्वजनप्रसिद्धत्वेन तत्स्वरूपप्रपञ्चम् अकृत्वा तापदुःखतापि परिणाम्अदुःखतासमतया प्रपञ्चितेति। संस्कारदुःखतां पृच्छति --- केति। उत्तरं --- सुखेति। सुखानुभवो हि संस्कारम् आधत्ते। स च सुखस्मरणं तच् च रागं स च मनःकायवचनचेष्टां सा च पुण्यापुण्ये ततो विपाकानुभवस् ततो वासनेत्य् एवम् अनादितेति। अत्र च सुखदुःखसंस्कारातिशयात् तत्स्मरणं तस्माच् च रागद्वेषौ ताभ्यां कर्माणि कर्मभ्यो विपाक इति योजना। तद् एवं दुःखस्रोतः प्रसृतं योगिनम् एव क्लिश्नाति नेतरं पृथग्जनम् इत्य् आह --- एवम् इदम् अनादीति। इतरं तु त्रिपर्वाणस् तापा अनुप्लवन्त इति संबन्धः। आधिभौतिकाधिदैविकयोस् तापयोर् बाह्यत्वेनैकत्वं विवक्षितम्। चित्ते वृत्तिर् अस्या इत्य् अविद्या चित्तवृत्तिस् तया हातव्य एव बुद्धीन्द्रियशरीरादौ दारापत्यादौ चाहंकारममकारानुपातिनम् इति। तद् अत्र न सम्यग्दर्शनाद् अन्यत् परित्राणम् अस्तीत्य् आह --- तद् एवम् इति। तद् एवम् अउपाधिकं विषयसुखस्य परिणामतः संस्कारतस् तापसंयोगाच् च दुःखत्वम् अभिधाय स्वाभाविकम् आदर्शयति --- गुणवृत्तिविरोधाच् चेति। व्याचष्टे --- प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिरूपेण परिणता गुणाः सत्त्वरजस्तमांसि परस्परानुग्रहतन्त्राः शान्तं सुखात्मकं घोरं दुःखात्मकं मूढं विषादात्मकम् एव प्रत्ययं सुखोपभोगरूपम् अपि त्रिगुणम् आरभन्ते। न च सो ऽपि तादृशप्रत्ययरूपोऽस्य परिणामः स्थिर इत्य् आह --- चलं च गुणवृत्तम् इति क्षिप्रपरिणामि चित्तम् उक्तम्। नन्व् एकः प्रत्ययः कथं परस्परविरुद्धशान्तघोरमूढत्वान्य् एकदा प्रतिपद्यत इत्य् अत आह --- रूपातिशया वृत्त्यतिशयाश् च परस्परेण विरुध्यन्ते। रूपाणि अष्टौ भावा धर्मादयो वृत्तयः सुखाद्यास् तद् इह धर्मेण विपच्यमानेनाधर्मस् तादृशो विरुध्यते। एवं ज्ञानवैराग्यैश्वर्यैः सुखादिभिश् च तादृशान्य् एव तद्विपरीतानि विरुध्यन्ते। सामान्यानि त्व् असमुदाचरद्रुपाण्य् अतिशयैः समुदाचरद्भिः सहाविरोधात् प्रवर्तन्त इति। ननु गृह्णीम एतत् तथापि विषयसुखस्य कुतः स्वाभाविकी दुःखतेत्य् अत आह --- एवम् एत इति। उपादानाभेदाद् उपादानात्मकत्वाच् चोपादेयस्याप्य् अभेद इत्य् अर्थः। तत् किम् इदानीम् आत्यन्तिकम् एव तादात्म्यं तथा च बुद्धिव्यपदेशभेदौ न कल्पेते इत्य् अत आह --- गुणप्रधानेति। सामान्यात्मना गुणभावो ऽतिशयात्मना च प्राधान्यम्। तस्माद् उपाधितः स्वभावतश् च दुःखम् एव सर्वं विवेकिन इति। दुःखं च हेयं प्रेक्षावता। न च तन्निदानहानम् अन्तरेण तद् धेयं भवितुम् अर्हति। न चापरिज्ञातं निदानं शक्यं हातुम् इति मूलनिदानम् अस्य दर्शयति --- तद् अस्येति। दुःखसमुदायस्य प्रभव उत्पत्तिर् यतस् तद्बीजम् इत्य् अर्थः। तदुच्छेदहेतुं दर्शयति --- तस्याश् चेति। इदानीम् अस्य शास्त्रस्य सर्वानुग्रहार्थं प्रवृत्तस्य तद्विधेनैव शास्त्रेण सादृश्यं दर्शयति --- यथेति। चत्वारो व्यूहाः संक्षिप्तावयवरचना यस्य तत् तथोक्तम्। ननु दुःखं हेयम् उक्त्वा संसारं हेयम् अभिदधतः कुतो न विरोध इत्य् अत आह --- तत्र दुःखबहुल इति। यत्कृत्वाविद्या संसारं करोति तद् अस्या अवान्तरव्यापारं संसारहेतुम् आह --- प्रधानपुरुषयोर् इति। मोक्षस्वरूपम् आह --- संयोगस्येति। मोक्षोपायम् आह --- हानोपाय इति। केचित् पश्यन्ति, हातुः स्वरूपोच्छेद एव मोक्षः। यथाहुः ---

"प्रदीपस्येव निर्वाणं विमोक्षस् तस्य चेतसः" इति।

अन्ये तु सवासनक्लेशसमुच्छेदाद् विशुद्धविज्ञानोत्पाद एव मोक्ष इत्य् आचक्षते तान् प्रत्याह --- तत्रेति। तत्र हानं तावद् दूषयति --- हाने तस्येति। न हि प्रेक्षावान् कश्चिद् आत्मोच्छेदाय यतते। ननु दृश्यन्ते तीव्रगदोन्मूलितसकलसुखां दुःखमयीम् इव मूर्तिम् उद्वहन्तः स्वोच्छेदाय यतमानाः। सत्यम्। केचिद् एव ते, न त्व् एवं संसारिणो विविधविचित्रदेवाद्यानन्दभोगभागिनस् ते ऽपि च मोक्षमाणा दृश्यन्ते तस्माद् अपुरुषार्थत्वप्रसक्तेर् न हातुः स्वरूपोच्छेदो मोक्षोऽभ्युपेयः। अस्तु तर्हि हातुः स्वरूपम् उपादेयम् इत्य् अत आह --- उपादाने च हेतुवादः। उपादाने हि कार्यत्वेनानित्यत्वे सति मोक्षत्वाद् एव च्यवेत। अमृतत्वं हि मोक्षः। नापि विशुद्धो विज्ञानसंतानो भवत्य् अमृतः। संतानिभ्यो व्यतिरिक्तस्य संतानस्य वस्तुसतोऽभावात्। संतानिनां चानित्यत्वात्। तस्मात् तथा यतितव्यं यथा शाश्वतवादो भवति। तथा च पुरुषार्थतापवर्गस्येत्य् आह --- उभयप्रत्याख्यान इति। तस्मात् स्वरूपावस्थानम् एवात्मनो मोक्ष इति। एतद् एव सम्यग्दर्शनम्॥2.15॥

हेयं दुःखम् अनागतम्॥2.16॥

तद् एतच् छास्त्रं चतुर्व्यूहम् इत्य् अभिधीयते --- हेयं दुःखम् अनागतम्। अनागतम् इत्य् अतीतवर्तमाने व्यवच्छिन्ने। तत्रोपपत्तिम् आह --- दुःखम् अतीतम् इति। ननु वर्तमानम् उपभुज्यमानं न भोगेनातिवाहितम् इति कस्मान् न हेयम् इत्य् अत आह --- वर्तमानं चेति। सुगमम्॥2.16॥

द्रष्टृदृश्ययोः संयोगो हेयहेतुः॥2.17॥

हेयम् उक्तं तस्य निदानम् उच्यते --- द्रष्टृदृश्ययोः संयोगो हेयहेतुः। द्रष्टुः स्वरूपम् आह --- द्रष्टेति। चितिच्छायापत्तिर् एव बुद्धेर् बुद्धिप्रतिसंवेदित्वम् उदासीनस्यापि पुंसः। नन्व् एतावतापि बुद्धिर् एवानेन दृश्येत, न दृश्येरञ् शब्दादयोऽत्यन्तव्यवहिता इत्य् अत आह --- दृश्या बुद्धिसत्त्वेति। इन्द्रियप्रणालिकया बुद्धौ शब्दाद्याकारेण परिणतायां दृश्यायां भवन्ति शब्दादयोऽपि धर्मा दृश्या इत्य् अर्थः। ननु तदाकारापत्त्या बुद्धिः शब्दाद्याकारा भवतु पुंसस् तु बुद्धिसंबन्धेऽभ्युपगम्यमाने परिणामित्वम् असंबन्धे वा कथं तेषां बुद्धिसत्त्वोपारूढानाम् अपि शब्दादीनां दृश्यत्वम्। न हि दृशिनासंस्पृष्टं दृश्यं दृष्टम् इत्य् अत आह --- तद् एतद् दृश्यम् इति। प्रपञ्चितम् इदम् अस्माभिः प्रथमपाद एव यथा चित्यासंपृक्तम् अपि बुद्धिसत्त्वम् अत्यन्तस्वच्छतया चितिबिम्बोद्ग्राहितया समापन्नचैतन्यम् इव शब्दाद्य् अनुभवतीति। अत एव च शब्दाद्याकारपरिणतबुद्धिसत्त्वोपनीताञ् शब्दादीन् भुञ्जानः स्वामी भवति द्रष्टा तादृशं चास्य बुद्धिसत्त्वं स्वं भवति। तद् एतद् बुद्धिसत्त्वं शब्दाद्याकारवद् दृश्यम् अयस्कान्तमणिकल्पं पुरुषस्य स्वं भवति दृशिरूपस्य स्वामिनः। कस्मात्, अनुभवकर्मविषयताम् आपन्नं यतः। अनुभवो भोगः पुरुषस्य कर्म क्रिया तद्विषयतां भुज्यमानताम् आपन्नं यस्माद् अतः स्वं भवति। ननु स्वयंप्रकाशं बुद्धिसत्त्वं कथम् अनुभवविषय इत्य् अत आह --- अन्यस्वरूपेणेति। यदि हि चैतन्यरूपं वस्तुतो बुद्धिसत्त्वं स्याद् भवेत् स्वयंप्रकाशं किं तु स्वं चैत्अन्याद् अन्यज् जडरूपं तेन प्रतिलब्धात्मकं तस्मात् तदनुभवविषयः। ननु यस्य हि यत्र किंचिद् आयतते तत् तदधीनम्। न च बुद्धिसत्त्वस्य पुरुषम् उदासीनं प्रति किंचिद् आयतत इति कथं तत्तन्त्रम्। तथा च न तस्य कर्मेत्य् अत आह --- स्वतन्त्रम् अपि परार्थत्वात् पुरुषार्थत्वात् परतन्त्रं पुरुषतन्त्रम्। नन्व् अयं दृग्दर्शनशक्त्योः संबन्धः स्वाभाविको वा स्यान् नैमित्तिको वा। स्वाभाविकत्वे संबन्धिनोर् नित्यत्वाद् अशक्योच्छेदः संबन्धस् तथा च संसारनित्यत्वम्। नैमित्तिकत्वे तु क्लेशकर्मतद्वासनानाम् अन्तःकरणवृत्तितया सत्य् अन्तःकरणे भावाद् अन्तःकरणस्य च तन्निमित्तत्वे परस्पराश्रयप्रसङ्गाद् अनादित्वस्य च सर्गादाव् असंभवाद् अनुत्पाद एव संसारस्य स्यात्। यथोक्तम् ---

"पुमान् अकर्ता येषां तु तेषाम् अपि गुणैः क्रिया। कथम् आदौ भवेत् तत्र कर्म तावन् न विद्यते॥ मिथ्याज्ञानं न तत्रास्ति रागद्वेषादयोऽपि वा। मनोवृत्तिर् हि सर्वेषां न चोत्पन्नं मनस् तदा॥"

इति शङ्काम् अपनयति --- तयोर् दृग्दर्शनशक्त्योर् अनादिर् अर्थकृतः संयोगो हेयहेतुः। सत्यम्। न स्वाभाविकः संबन्धो नैमित्तिकस् तु। न चैवम् आदिमान् अनादिनिमित्तप्रभवतया तस्याप्य् अनादित्वात्। क्लेशकर्मतद्वासनासंतानश् चायम् अनादिः प्रतिसर्गावस्थायां च सहान्तःकरणेन प्रधानसाम्यम् उपगतोऽपि सर्गादौ पुनस् तादृग् एव प्रादुर्भवति वर्षापाय इवोद्भिज्जभेदो मृद्भावम् उपगतोऽपि पुनर् वर्षासु पूर्वरूप इत्य् असकृद् आवेदितम्। प्राग्भावितया संयोगस्याविद्या कारणं स्थितिहेतुतया पुरुषार्थः कारणं तद्वशेन तस्य स्थितेस् तद् इदम् उक्तम् अर्थकृत इति। तथा चोक्तं पञ्चशिखेन तत्संयोगो बुद्धिसंयोगः स एव हेतुर् दुःखस्य, तस्य विवर्जनात् स्याद् अयम् आत्यन्तिको दुःखप्रतीकारः। अर्थात् तदपरिवर्जने दुःखम् इत्य् उक्तं भवति। तत्रैवात्यन्तप्रसिद्धं निदर्शनम् आह --- तद्यथेति। पादत्राणम् उपानत्। स्याद् एतत्। गुणसंयोगस् तापहेतुर् इत्य् उच्यमाने गुणानां तापकत्वम् अभ्युपेतम्। न च तपिक्रियाया अस्त्य् आदेर् इव कर्तृस्थो भावो येन तप्यम् अन्यन् नापेक्षेत। न चास्यास् तप्यतया पुरुषः कर्म तस्यापरिणामितया क्रियाजनितफलशालित्वायोगात्। तस्मात् तपेस् तप्यव्याप्तस्य तन्निवृत्तौ निवृत्तिम् अवगच्छामो ज्वलनविरहेणेव धूमाभावम् इत्य् अत आह --- अत्रापि तापकस्येति। गुणानाम् एव तप्यतापकभावस् तत्र मृदुत्वात् पादतलवत् सत्त्वं तप्यं रजस् तु तीव्रतया तापकम्। पृच्छति --- कस्मात् सत्त्वम् एव तप्यं न तु पुरुषः। उत्तरम् --- तपिक्रियाया इति। तत् किम् इदानीं पुरुषो न तप्यते। तथा चाचेतनस्यास्तु सत्त्वस्य तापः किं नश् छिन्नम् इत्य् अत आह --- दर्शितविषयत्वात् सत्त्वे तु तप्यमाने तदाकारानुरोधी पुरुषोऽप्य् अनुतप्यत इति। दर्शितविषयत्वम् अनुतापहेतुस् तच् च प्राग् व्याख्यातम्॥2.17॥

प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम्॥2.18॥

प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम्। व्याचष्टे --- प्रकाशेति। सत्त्वस्य हि भागः प्रकाशस् तामसेन भागेन दैन्येन वा राजसेन वा दुःखेनानुरज्यते। एवं राजसादिष्व् अपि द्रष्टव्यम्। तद् इदम् उक्तम् --- परस्परोपरक्तप्रविभागा इति। पुरुषेण सह संयोगवियोगधर्माणः। यथाम्नायते ---

"अजाम् एकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः। अजो ह्य् एको जुषमाणोऽनुशेते जहात्य् एनां भुक्तभोगाम् अजोऽन्यः" [तैत्तिरीयारण्यकम् 6.10] इति॥

इतरेतरोपाश्रयेणोपार्जिता मूर्तिः पृथिव्यादिरूपा यैस् ते तथोक्ताः। स्याद् एतत् सत्त्वेन शान्तप्रत्यये जनयितव्ये रजस्तमसोर् अपि सत्त्वाङ्गत्वेन तत्र हेतुभावाद् अस्ति सामर्थ्यम् इति यदापि च रजस्तमसोर् अङ्गित्वं तदापि शान्त एव प्रत्यय उदीयेत न घोरो मूढो वा सत्त्वप्राधान्य इवेत्य् अत आह --- परस्पराङ्गाङ्गित्वेऽप्य् असंभिन्नशक्तिप्रविभागाः। भवतु शान्ते प्रत्यये जनयितव्ये रजस्तमसोर् अङ्गभावस् तथापि नैषां शक्तयः संकीर्यन्ते कार्यासंकरोन्नेयो हि शक्तीनाम् असंकरः। असंकीर्णेन च समुदाचरता रूपेण शान्तघोरमूढरूपाणि कार्याणि दृश्यन्त इति सिद्धं शक्तीनाम् असंभेद इति। स्याद् एतत्। असंभेदश् चेच् छक्तीनां न संभूयकारित्वं गुणानाम्। न जातु भिन्नशक्तीनां संभूयकारित्वं दृष्टम्। न हि तन्तुमृत्पिण्डवीरणादीनि घटादीन् संभूय कुर्वत इत्य् अत आह --- तुल्यजातीयातुल्यजातीयशक्तिभेदानुपातिनः। यद्य् अपि तुल्यजातीय उपादानशक्तिर् नान्यत्र सहकारिशक्तिस् त्व् अतुल्यजातीये। पटे तु जनयितव्ये न वीरणानाम् अस्ति सहकारिशक्तिर् अपीति न तैस् तन्तूनां संभूयकारितेति भावः। तुल्यजातीयातुल्यजातीयेषु शक्येषु ये शक्तिभेदास् तान् अनुपतितुं शीलं येषां ते तथोक्ताः। प्रधानवेलायाम् इति। दिव्यशरीरे जनयितव्ये सत्त्वगुणः प्रधानम्। अङ्गे रजस्तमसी। एवं मनुष्यशरीरे जनयितव्ये रजः प्रधानम् अङ्गे सत्त्वतमसी। एवं तिर्यक्शरीरे जनयितव्ये तमः प्रधानम् अङ्गे सत्त्वरजसी। तेनैते गुणाः प्रधानत्ववेलायाम् उपदर्शितसंनिधानाः कार्योपजननं प्रत्युद्भूतवृत्तय इत्य् अर्थः। प्रधानशब्दश् च भावप्रधानः। यथा "द्व्येकयोर् द्विवचनैकवचने" [पाणिनिसूत्रम् 1.4.22] इत्य् अत्र द्वित्वैकत्वयोर् इति। अन्यथा द्व्येकेष्व् इति स्यात्। ननु तदा प्रधानम् उद्भूततया शक्यम् अस्तीति वक्तुम् अनुद्भूतानां तु तदङ्गानां सद्भावे किं प्रमाणम् इत्य् अत आह --- गुणत्वेऽपि चेति। यद्य् अपि नोद्भूतास् तथापि गुणानाम् अविवेकित्वात् संभूयकारित्वाच् च व्यापारमात्रेण सहकारितया प्रधानेऽन्तर्णीतं सद् अनुमितम् अस्तित्वं येषां ते तथोक्ताः। ननु सन्तु गुणाः संभूयकारिणः समर्थाः कस्मात् पुनः कुर्वन्ति न हि समर्थम् इत्य् एव कार्यं जनयति। मा भूद् अस्य कार्योपजननं प्रति विराम इत्य् अत आह --- पुरुषार्थकर्तव्यतयेति। ततो निर्वर्तितनिखिलपुरुषार्थानां गुणानां उपरमः कार्यानारम्भणम् इत्य् उक्तं भवति। ननु पुरुषस्यानुपकुर्वतः कथं पुरुषार्थेन प्रयुज्यत इत्य् अत आह --- संनिधिमात्रेति। ननु धर्माधर्मलक्षणम् एव निमित्तं प्रयोजकं गुणानां तत् किम् उच्यते पुरुषार्थप्रयुक्ता इत्य् अत आह --- प्रत्ययम् अन्तरेणेति। एकतमस्य सत्त्वस्य रजसस् तमसो वा प्रधानस्य स्वकार्ये प्रवृत्तस्य वृत्तिम् इतरे प्रत्ययं निमित्तं धर्मादिकं विनैवानुवर्तमानाः। यथा च वक्ष्यति --- "निमित्तम् अप्रयोजकं प्रकृतीनां वरणभेदस् तु ततः क्षेत्रिकवत्" [योगसूत्रम् 4.3] इति। एते गुणाः प्रधानशब्दवाच्या भवन्तीति संबन्धः। प्रधीयत आधीयते विश्वं कार्यम् एभिर् इति व्युत्पत्त्यैतद् दृश्यम् उच्यते। तद् एवं गुणानां शीलम् अभिधाय तस्य कार्यम् आह --- तद् एतद् इति। सत्कार्यवादसिद्धौ यद् यदात्मकं तत् तेन रूपेण परिणमत इति भूतेन्द्रियात्मकत्वं दीपयति --- भूतभावेनेत्यादिना। भोगापवर्गार्थम् इति सूत्रावयवम् अवतारयति --- तत् तु नाप्रयोजनम् अपि तु प्रयोजनम् उररीकृत्य प्रवर्तते। भोगं विवृणोति --- तत्रेति। सुखदुःखे हि त्रिगुणाया बुद्धेः स्वरूपे तस्यास् तथात्वेन परिणामात् तथापि गुणगततयावधारणे न भोग इत्य् अत आह --- अविभागापन्नम् इति। एतच् चासकृद् विवेचितम्। अपवर्गं विवृणोति --- भोक्तुर् इति। अपवृज्यतेऽनेनेत्य् अपवर्गः। प्रयोजनान्तरस्याभावम् आह --- द्वयोर् इति। तथा चोक्तं पञ्चशिखेन, --- अयं तु खल्व् इति। ननु वस्तुतो भोगापवर्गौ बुद्धिकृतौ बुद्धिवर्तिनौ च कथं तदकारणे तदन्धिकरणे च पुरुषे व्यपदिश्येते इत्य् अत आह --- ताव् एताव् इति। भोक्तृत्वं च पुरुषस्योपपादितम् अग्रे च वक्ष्यते। परमार्थतस् तु --- बुद्धेर् एव पुरुषार्थापरिसमाप्तिर् इति। एतेन भोगापवर्गयोः पुरुषसंबन्धित्वकथनमार्गेण ग्रहणादयोऽपि पुरुषसंबन्धिनो वेदितव्याः। तत्र स्वरूपमात्रेणार्थज्ञानं ग्रहणं, तत्र स्मृतिर् धारणं, तद्गतानां विशेषाणाम् ऊहनम् ऊहः, समारोपितानां च युक्त्यापनयोऽपोहः। ताभ्याम् एवोहापोहाभ्यां तदवधारणं तत्त्वज्ञानम्। तत्त्वावधारणपूर्वं हानोपादानज्ञानम् अभिनिवेशः॥2.18॥

विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि॥2.19॥

दृश्यानां गुणानां स्वरूपभेदावधारणार्थम् इदम् आरभ्यते --- विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि। येषाम् अविशेषाणां शान्तघोरमूढलक्षणविशेषरहितानां ये विशेषा विकारा एव न तु तत्त्वान्तरप्रकृतयस् तेषां तान् आह --- तत्राकाशेति। उत्पादक्रमानुरूप एवोपन्यासक्रमः। अस्मितालक्षणस्याविशेषस्य सत्त्वप्रधानस्य बुद्धीन्द्रियाणि विशेषाः। राजसस्य कर्मेन्दियाणि। मनस् तूभयात्मकम् उभयप्रधानस्येति मन्तव्यम्। अत्र च पञ्चतन्मात्राणि बुद्धिकारणकान्य् अविशेषत्वाद् अस्मितावद् इति। विकारहेतुत्वं चाविशेषत्वं तन्मात्रेषु चास्मितायां चाविशिष्टम्। संकलय्य विशेषान् परिगणयति --- गुणानाम् एष इति। अविशेषान् अपि गणयति --- षड् इति। संकलय्योदाहरति --- तद्यथेति। विशिष्टं ह्य् अपरं परेणेति गन्ध आत्मना पञ्चलक्षणो रस आत्मना चतुर्लक्षणो रूपम् आत्मना त्रिलक्षणं स्पर्श आत्मना द्विलक्षणः शब्दः शब्दलक्षण एवेति। कस्य पुनर् अमी षडविशेषाः कार्यम् इत्य् अत आह --- एते सत्तामात्रस्यात्मन इति। पुरुषार्थक्रियाक्षमं सत् तस्य भावः सत्ता तन्मात्रं तन् महत्तत्त्वम्। यावती काचित् पुरुषार्थक्रिया शब्दादिभोगलक्षणा सत्त्वपुरुषान्यताख्यातिलक्षणा वास्ति सा सर्वा महति बुद्धौ समाप्यत इत्य् अर्थः। आत्मन इति स्वरूपोपदर्शनेन तुच्छत्वं निषेधति। प्रकृतेर् अयम् आद्यः परिणामो वास्तवो न तु तद्विवर्त इति यावत्। यत् तत्परं विप्रकृष्टकालम् अविशेषेभ्यस् तदपेक्षया संनिकृष्टकालेभ्यो लिङ्गमात्रं महत्तत्त्वं तस्मिन्न् एते षडविशेषाः सत्तामात्रे महत्य् आत्मन्य् अवस्थाय सत्कार्यवादसिद्धेर् विवृद्धिकाष्ठाम् अनुभवन्ति प्राप्नुवन्ति। ये पुनर् अविशेषाणां विशेषपरिणामास् तेषां च धर्मलक्षणावस्थाः परिणामा इति। सेयम् एषां विवृद्धिकाष्ठा परिणामकाष्ठेति। तद् एवम् उत्पत्तिक्रमम् अभिधाय प्रलयक्रमम् आह --- प्रतिसंसृज्यमानाः प्रलीयमानाः स्वात्मनि लीनविशेषा अविशेषास् तस्मिन्न् एव सत्तामात्रे महत्य् आत्मन्य् अवस्थाय विलीय सहैव महता ते ऽविशेषा अव्यक्तम् अन्यत्र लयं न गच्छतीत्य् अलिङ्गं प्रतियन्ति। तस्यैव विशेषणं निःसत्तासत्तं सत्ता पुरुषार्थक्रियाक्षमत्वम्, असत्ता तुच्छता निष्क्रान्तं सत्ताया असत्तायाश् च यत् तत् तथोक्तम्। एतद् उक्तं भवति --- सत्त्वरजस्तमसां साम्यावस्था न क्वचित् पुरुषार्थ उपयुज्यत इति न सती नापि गगनकमलिनीव तुच्छस्वभावा तेन नासत्य् अपीति। स्याद् एतत्। अव्यक्तावस्थायाम् अप्य् अस्ति महदादि तदात्मना, न हि सतो विनाशो विनाशे वा न पुनरुत्पादो न ह्य् असत उत्पाद इति महदादिसद्भावात् पुरुषार्थक्रिया प्रवर्तेत तत् कथं निःसत्त्वम् अव्यक्तम् इत्य् अत आह --- निःसदसद् इति। निष्क्रान्तं कारणं सतः कार्यात्। यद्य् अपि कारणावस्थायां सद् एव शक्त्यात्मना कार्यं तथापि स्वोचिताम् अर्थक्रियाम् अकुर्वद् असद् इत्य् उक्तम्। न चैतत् कारणं शशविषाणायमानकार्यम् इत्य् आह --- निरसद् इति। निष्क्रान्तम् असतस् तुच्छरूपात् कार्यात् तथा सति हि व्योमारविन्दम् इवास्मान् न कार्यम् उत्पद्येतेति भावः। प्रतिसर्गम् उक्तम् उपसंहरति --- एष तेषाम् इति। एष इत्य् अनन्तरोक्तात् पूर्वस्य परामर्शः। लिङ्गमात्राद्यवस्थाः पुरुषार्थकृतत्वाद् अनित्या अलिङ्गावस्था तु पुरुषार्थेनाकृतत्वान् नित्येत्य् अत्र हेतुम् आह --- अलिङ्गावस्थायाम् इति। कस्मात् पुनर् न पुरुषार्थो हेतुर् इत्य् अत आह --- नालिङ्गावस्थायाम् इति। भवतिना विषयेण विषयिज्ञानम् उपलक्षयति। एतद् उक्तं भवति --- एवं हि पुरुषार्थता कारणम् अलिङ्गावस्थायां ज्ञायेत। यद्य् अलिङ्गावस्था शब्दाद्युपभोगं वा सत्त्वपुरुषान्यताख्यातिं वा पुरुषार्थं निर्वर्तयेत् तन्निर्वर्तने हि न साम्यावस्था स्यात्। तस्मात् पुरुषार्थकारणत्वम् अस्यां न ज्ञायत इति नास्याः पुरुषार्थता हेतुः। उपसंहरति --- नासाव् इति। इतिस् तस्मादर्थे। अनित्याम् अवस्थाम् आह --- त्रयाणां लिङ्गमात्राविशेषविशेषाणाम् इति। पर्वस्वरूपं दर्शयित्वा गुणस्वरूपम् आह --- गुणास् त्व् इति। निदर्शनम् आह --- यथा देवदत्त इति। यत्रात्यन्तभिन्नानां गवाम् उपचयापचयौ देवदत्तोपचयापचयहेतू तत्र कैव कथा गुणेभ्यो भिन्नाभिन्नानां व्यक्तीनाम् उपजनापाययोर् इत्य् अर्थः। ननु सर्गक्रमः किम् अनियतो नेत्य् आह --- लिङ्गमात्रम् इति। न खलु न्यग्रोधधाना अह्नायैव न्यग्रोधशाखिनं सान्द्रशाद्वलदलजटिलशाखाकाण्डनिपीतमार्तण्डचण्डातपमण्डलम् आरभन्ते किं तु क्षितिसलिलतेजःसंपर्कात् परम्परयोपजायमानाङ्कुरपत्रकाण्डनालादिक्रमेण। एवम् इहापि युक्त्यागमसिद्धः क्रम आस्थेय इति। कथं भूतेन्द्रियाण्य् अविशेषसंसृष्टानीत्य् अत आह --- तथा चोक्तं पुरस्ताद् इदम् एव सूत्रं प्रथमं व्याचक्षाणैः। अथ विशेषाणां कस्मान् न तत्त्वान्तरपरिणाम उक्त इत्य् अत आह --- न विशेषेभ्य इति। तत् किम् इदानीम् अपरिणामिन एव विशेषास् तथा च नित्याः प्रसज्येरन्न् इत्य् अत आह --- तेषां त्व् इति॥2.19॥

द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः॥2.20॥

व्याख्यातं दृश्यं द्रष्टुः स्वरूपावधारणार्थम् इदम् आरभ्यते --- द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः। व्याचष्टे --- दृशिमात्र इति। विशेषणानि धर्मास् तैर् अपरामृष्टा। तद् अनेन मात्रग्रहणस्य तात्पर्यं दर्शितम्। स्याद् एतत्। यदि सर्वविशेषणरहिता दृक्शक्तिर् न तर्हि शब्दादयो दृश्येरन्। न हि दृशिनासंस्पृष्टं दृश्यं भवतीत्य् अत आह --- स पुरुष इति। बुद्धिदर्पणे पुरुषप्रतिबिम्बसंक्रान्तिर् एव बुद्धिप्रतिसंवेदित्वं पुंसः। तथा च दृशिच्छायापन्नया बुद्ध्या संसृष्टाः शब्दादयो भवन्ति दृश्या इत्य् अर्थः। स्याद् एतत्। पारमार्थिकम् एव बुद्धिचैतन्ययोः कस्माद् अइक्यं नोपेयते किम् अनया तच्छायापत्त्येत्य् अत आह --- स बुद्धेर् न सरूप इति। तथासरूपस्य तच्छायापत्तिर् अपि दुर्घटेत्य् अत आह --- नात्यन्तं विरूप इति। तत्र सारूप्यं निषेधति --- न तावद् इति। हेतुं पृच्छति --- कस्मात्। सहेतुकं वैरूप्ये हेतुम् आह --- ज्ञातेति। परिणामिनी बुद्धिर् यस्मात् तस्माद् विरूपा। यदा खल्व् इयं शब्दाद्याकारा भवति तदा ज्ञातो ऽस्याः शब्दादिलक्षणो भवति विषयस् तदनाकारत्वे त्व् अज्ञातस् तथा च कदाचिद् एव तदाकारतां दधती परिणामिनीति। प्रयोगश् च भवति --- बुद्धिः परिणामिनी ज्ञाताज्ञातविषयत्वाच् छ्रोत्रादिवद् इति। तद्वैधर्म्यं पुरुषस्य तद्विपरीताद् धेतोः सिध्यतीत्य् आह --- सदेति। स्याद् एतत्। सदाज्ञातविषयश् चेत् पुरुषो न तर्हि केवली स्याद् इत्य् आशयवान् पृच्छति --- कस्माद् इति। उत्तरम् --- न हि बुद्धिश् च नामेति। बुद्ध्यग्रहणयोर् अस्ति सहसंभवो निरोधावस्थायाम् अत उक्त विरोधसूचनाय पुरुषविषयश् चेति। तेनाद्यश् चकारो बुद्धिं विषयत्वेन समुच्चिनोति। परिशिष्टौ तु विरोधद्योतकौ चकाराव् इति। प्रयोगस् तु पुरुषोऽपरिणामी सदासंप्रज्ञातव्युत्थानावस्थयोर् ज्ञातविषयत्वात्। यस् तु परिणामी नासौ सदाज्ञातविषयो यथा श्रोत्रादिर् इति व्यतिरेकी हेतुः। अपरम् अपि वैधर्म्यम् आह --- किं च परार्थेति। बुद्धिः खलु क्लेशकर्मवासनादिभिर् विषयेन्द्रियादिभिश् च संहत्य पुरुषार्थम् अभिनिर्वर्तयन्ती परार्था। प्रयोगश् च परार्था बुद्धिः संहत्यकारित्वाच् छयनासनाभ्यङ्गवद् इति। पुरुषस् तु न तथेत्य् आह --- स्वार्थः पुरुष इति। सर्वं पुरुषाय कल्पते। पुरुषस् तु न कस्मैचिद् इत्य् अर्थः। वैधर्म्यान्तरम् आह --- सर्वेति। सर्वान् अर्थाञ् शान्तघोरमूढांस् तदाकारपरिणता बुद्धिर् अध्यवस्यति सत्त्वरजस्तमसां चैते परिणामा इति सिद्धा त्रिगुणा बुद्धिर् इति। न चैवं पुरुष इत्य् आह --- गुणानाम् इति। तत्प्रतिबिम्बितः पश्यति न तु तदाकारपरिणत इत्य् अर्थः। उपसंहरति --- अत इति। अस्तु तर्हि विरूप इति। नात्यन्तं विरूपः कस्माद् यतः शुद्धोऽपि प्रत्ययानुपश्यः। यथा चैतत् तथोक्तं "वृत्तिसारूप्यम् इतरत्र" [योगसूत्रम् 1.4] इत्य् अत्र। तथा चोक्तं पञ्चशिखेनापरिणामिनी हि भोक्तृशक्तिर् आत्मा। अत एव बुद्धाव् अप्रतिसंक्रमा च परिणामिनि बुद्धिरूपे ऽर्थे संक्रान्तेव तद्वृत्तिं बुद्धिवृत्तिम् अनुपतति। नन्व् असंक्रान्ता कथं संक्रान्तेव कथं वा वृत्तिं विनानुपततीत्य् अत आह --- तस्याश् चेति। प्राप्तश् चैतन्योपग्रह उपरागो येन रूपेण तत् तथा प्राप्तचैतन्योपग्रहं रूपं यस्याः सा तथोक्ता। एतद् उक्तं भवति --- यथा निर्मले जले ऽसंक्रान्तोऽपि चन्द्रमाः संक्रान्तप्रतिबिम्बतया संक्रान्त इव, एवम् अत्राप्य् असंक्रान्तापि संक्रान्तप्रतिबिम्बा चितिशक्तिः संक्रान्तेव। तेन बुद्ध्यात्मत्वम् आपन्ना बुद्धिवृत्तिम् अनुपततीति। तद् अनेनानुपश्य इति व्याख्यातं ताम् अनुकारेण पश्यतीत्य् अनुपश्य इति॥2.20॥

तदर्थ एव दृश्यस्यात्मा॥2.21॥

द्रष्टृदृश्ययोः स्वरूपम् उक्त्वा स्वस्वामिलक्षणसंबन्धाङ्गं दृश्यस्य द्रष्ट्रर्थत्वम् आह --- तदर्थ एव दृश्यस्यात्मा। व्याचष्टे --- दृशिरूपस्य पुरुषस्य भोक्तुः कर्मरूपतां भोग्यताम् आपन्नं दृश्यम् इति तस्मात् तदर्थ एव द्रष्ट्रर्थ एव दृश्यस्यात्मा भवति न तु दृश्यार्थः। ननु नात्मात्मार्थ इत्य् अत आह --- स्वरूपं भवतीति। एतद् उक्तं भवति --- सुखदुःखात्मकं दृश्यं भोग्यम्। सुखदुःखे चानुकूलयितृप्रतिकूलयितृणी तत्त्वेन तदर्थे एव व्यवतिष्ठेते। विषया अपि हि शब्दादयस् तादात्म्याद् एव चानुकूलयितारः प्रतिकूलयितारश् च। न चात्मैवैषाम् अनुकूलनीयः प्रतिकूलनीयश् च स्वात्मनि वृत्तिविरोधाद् अतः पारिशेष्याच् चितिशक्तिर् एवानुकूलनीया प्रतिकूलनीया च। तस्मात् तदर्थम् एव दृश्यं न तु दृश्यार्थम्। अतश् च तदर्थ एव दृश्यस्यात्मा न दृश्यार्थो यत् स्वरूपम् अस्य यावत् पुरुषार्थम् अनुवर्तते। निर्वर्तिते च पुरुषार्थे निवर्तत इत्य् आह --- स्वरूपम् इति। स्वरूपं तु दृश्यस्य जडं पररूपेणात्मरूपेण चैतन्येन प्रतिलब्धात्मकम् अनुभूतस्वरूपं भोगापवर्गार्थतायां कृतायां पुरुषेण न दृश्यते। भोगः सुखाद्याकारः शब्दाद्यनुभवो ऽपवर्गः सत्त्वपुरुषान्यतानुभवस् तच् चैतद् उभयम् अप्य् आजानतो जडाया बुद्धेः पुरुषच्छायापत्त्येति पुरुषस्यैव। तथा च पुरुषभोगापवर्गयोः कृतयोर् दृश्यस्य भोगापवर्गार्थता समाप्यत इति भोगापवर्गार्थतायां कृतायाम् इत्य् उक्तम्। अत्रान्तरे चोदयति --- स्वरूपहानाद् इति। परिहरति --- न तु विनश्यतीति॥2.21॥

कृतार्थं प्रति नष्टम् अप्य् अनष्टं तदन्यसाधारणत्वात्॥2.22॥

नन्व् अत्यन्तानुपलभ्यं कथं न विनश्यतीत्य् आशयवान् पृच्छति --- कस्माद् इति। सूत्रेणोत्तरम् आह --- कृतार्थं प्रति नष्टम् अप्य् अनष्टं तदन्यसाधारणत्वात्। कृतोऽर्थो यस्य पुरुषस्य स तथा। तं प्रति नष्टम् अप्य् अनष्टं तद् दृश्यं कुतः सर्वान् पुरुषान् कुशलान् अकुशलान् प्रति साधारणत्वात्। व्याचष्टे --- कृतार्थम् एकम् इति। नाशो ऽदर्शनम्। अनष्टं तु दृश्यम् अन्यपुरुषसाधारणत्वात्। तस्माद् दृश्यात् परस्यात्मनश् चैतन्यं रूपं तेन तद् इह श्रुतिस्मृतीतिहासपुराणप्रसिद्धम् अव्यक्तम् अनवयवम् एकम् अनाश्रयं व्यापि नित्यं विश्वकार्यशक्तिमत्। यद्य् अपि कुशलेन तं प्रति कृतकार्यं न दृश्यते तथाप्य् अकुशलेन दृश्यमानं न नास्ति। न हि रूपम् अन्धेन न दृश्यत इति चक्षुष्मतापि दृश्यमानम् अभावप्राप्तं भवति। न च प्रधानवद् एक एव पुरुषस् तन्नानात्वस्य जन्ममरणसुखदुःखोपभोगमुक्तिसंसारव्यवस्थया सिद्धेः। एकत्वश्रुतीनां च प्रमाणान्तरविरोधात् कथंचिद् देशकालविभागाभावेन भक्त्याप्य् उपपत्तेः। प्रकृत्येकत्वपुरुषनानात्वयोश् च श्रुत्यैव साक्षात् प्रतिपादनात्।

"अजाम् एकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः। अजो ह्य् एको जुषमाणोऽनुशेते जहात्य् एनां भुक्तभोगाम् अजोऽन्यः" [तैत्तिरीयारण्यकम् 6.10] इति श्रुतिः।

अस्या एव श्रुतेश् चानेन सूत्रेणार्थोऽनूदित इति। यतो दृश्यं नष्टम् अप्य् अनष्टं पुरुषान्तरं प्रत्य् अस्ति अतो दृग्दर्शनशक्त्योर् नित्यत्वाद् अनादिः संयोगो व्याख्यातः। अत्रैवागमिनाम् अनुमतिम् आह --- तथा चोक्तम् इति। धर्मिणां गुणानाम् आत्मभिर् अनादिसंयोगाद् धर्ममात्राणां महदादीनाम् अप्य् अनादिः संयोग इति। एकैकस्य महदादेः संयोगोऽनादिर् अप्य् अनित्य एव यद्य् अपि तथापि सर्वेषां महदादीनां नित्यः पुरुषान्तराणां साधारणत्वाद् अत उक्तं धर्ममात्राणाम् इति। मात्रग्रहणेन व्याप्तिं गमयति। अत एतद् भवति --- यद्य् अप्य् एकस्य महतः संयोगोऽतीतताम् आपन्नस् तथापि महदन्तरस्य पुरुषान्तरेण संयोगो नातीत इति नित्य उक्तः॥2.22॥

स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः॥2.23॥

तद् एवं तादर्थ्ये संयोगकारण उक्ते प्रासङ्गिके प्रधाननित्यत्वे संयोगसामान्यनित्यत्वे हेतौ चोक्ते संयोगस्य यत् स्वरूपम् असाधारणो विशेष इति यावत् तदभिधित्सयेदं सूत्रं प्रववृते --- स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः। यतो दृश्यं तदर्थम् अतस् तज्जनितम् उपकारं भजमानः पुरुषस् तस्य स्वामी भवति। भवति च तद् दृश्यम् अस्य स्वं स चानयोः संयोगः शक्तिमात्रेण व्यवस्थितस् तत्स्वरूपोपलब्धिहेतुस् तद् एतद् भाष्यम् अवद्योतयति --- पुरुषः स्वामी योग्यतामात्रेण दृश्येन स्वेन योग्यतयैव दर्शनार्थं संयुक्तः। शेषं सुगमम्। स्याद् एतत्। द्रष्टुः स्वरूपोपलब्धिर् अपवृज्यतेऽनेनेत्य् अपवर्ग उक्तो न च मोक्षः साधनवांस् तथा सत्य् अयं मोक्षत्वाद् एव च्यवेतेत्य् अत आह --- दर्शनकार्यावसानो बुद्धिविशेषेण सह पुरुषविशेषस्य संयोग इति दर्शनं वियोगकारणम् उक्तम्। कथं पुनर् दर्शनकार्यावसानत्वं संयोगस्येत्य् अत आह --- दर्शनम् इति। ततः किम् इत्य् अत आह --- अदर्शनम् अविद्या संयोगनिमित्तम् इत्य् उक्तम्। उक्तम् अर्थं स्पष्टयति --- नात्रेति। ननु दर्शनम् अदर्शनं विरोधि निवर्तयतु बन्धस्य कुतो निवृत्तिर् इत्य् अत आह --- दर्शनस्येति। बुद्ध्यादिविविक्तस्यात्मनः स्वरूपावस्थानं मोक्ष उक्तो न तस्य साधनं दर्शनम् अपि त्व् अदर्शननिवृत्तेर् इत्य् अर्थः। असाधारणं संयोगहेतुम् अदर्शनविशेषं ग्रहीतुम् अदर्शनमात्रं विकल्पयति --- किं चेदम् इति। पर्युदासं गृहीत्वाह --- किं गुणानाम् अधिकारः कार्यारम्भणसामर्थ्यं ततो हि संयोगः संसारहेतुर् उपजायते। प्रसज्यप्रतिषेधं गृहीत्वा द्वितीयं विकल्पम् आह --- आहोस्विद् इति। दर्शितो विषयः शब्दादिः सत्त्वपुरुषान्यता च येन चित्तेन तस्य तद्विषयस्यानुत्पादः। एतद् एव स्फोरयति --- स्वस्मिन् दृश्ये शब्दादौ सत्त्वपुरुषान्यतायां चेति। तावद् एव प्रधानं विचेष्टते न यावद् द्विविधं दर्शनम् अभिनिर्वर्तयति। निष्पादितोभयदर्शनं तु निवर्तत इति। पर्युदास एव तृतीयं विकल्पम् आह --- किम् अर्थवत्ता गुणानाम्। सत्कार्यवादसिद्धौ हि भाविनाव् अपि भोगापवर्गार्थाव् अव्यपदेश्यतया स्त इत्य् अर्थः। पर्युदास एव चतुर्थं विकल्पम् आह --- अथाविद्या प्रतिसर्गकाले स्वचित्तेन सह निरुद्धा प्रधानसाम्यम् आगता वासनारूपेण स्वचित्तोत्पत्तिबीजम्। तेन दर्शनाद् अन्याविद्यावासनैवादर्शनम् उक्ता। पर्युदास एव पञ्चमं विकल्पम् आह --- किं स्थितिसंस्कारस्य प्रधानवर्तिनः साम्यपरिणामपरम्परावहिनः क्षये गतिर् महदादिविकारारम्भस् तद्धेतुः संस्कारः प्रधानस्य गतिसंस्कारस् तस्याभिव्यक्तिः कार्योन्मुखत्वम्। तदुभयसंस्कारसद्भावे मतान्तरानुमतिम् आह --- यत्रेदम् उक्तम् अइकान्तिकत्वं व्यासेधद्भिः, प्रधीयते जन्यते विकारजातम् अनेनेति प्रधानं तच् चेत् स्थित्यैव वर्तेत न कदाचिद् गत्या ततो विकाराकरणान् न प्रधीयते तेन किंचिद् इत्य् अप्रधानं स्यात्। अथ गत्यैव वर्तेत न कदाचिद् अपि स्थित्या तत्राह --- तथा गत्यैवेति। क्वचित् पाठः "स्थित्यै गत्यै" इति। तादर्थ्ये चतुर्थी, एवकारश् च द्रष्टव्यः। स्थित्यै चेन् न वर्तेत न क्वचिद् विकारो विनश्येत्। तथा च भावस्य सतोऽविनाशिनो नोत्पत्तिर् अपीति विकारत्वाद् एव च्यवेत। एवं च न प्रधीयतेऽत्र किंचिद् इत्य् अप्रधानं स्यात् तद् उभयथा स्थित्या गत्या चास्य वृत्तिः प्रधानव्यवहारं लभते नान्यथैकान्ताभ्युपगमे। न केवलं प्रधाने कारणान्तरेष्व् अपि परब्रह्मतन्मायापरमाण्वादिषु कल्पितेषु समानश् चर्चो विचारः। तान्य् अपि हि स्थित्यैव वर्तमानानि विकाराकरणाद् अकारणानि स्युः, गत्यैव वर्तमानानि विकारनित्यत्वाद् अकारणानि स्युर् इति च। पर्युदास एव षष्ठं विकल्पम् आह --- दर्शनशक्तिर् एवेति। यथा प्रजापतिव्रते नेक्षेतोद्यन्तम् आदित्यम् इत्य् अनीक्षणप्रत्यासन्नः संकल्पो गृह्यत एवम् इहापि दर्शननिषेधे तत्प्रत्यासन्ना तन्मूला शक्तिर् उच्यते। सा च दर्शनं भोगादिलक्षणं प्रसोतुं द्रष्टारं दृश्येन योजयतीति। अत्रैव श्रुतिम् आह --- प्रधानस्येति। स्याद् एतत्। आत्मख्यापनार्थं प्रधानं प्रवर्तत इति श्रुतिर् आह न त्व् आत्मदर्शनशक्तेः प्रवर्तत इत्य् अत आह --- सर्वबोध्यबोधसमर्थ इति। प्राक् प्रवृत्तेः प्रधानस्य नात्मख्यापनमात्रं प्रवृत्तौ प्रयोजकम् असामर्थ्ये तदयोगात् तस्मात् सामर्थ्यं प्रवृत्तेः प्रयोजकम् इति श्रुत्यार्थाद् उक्तम् इत्य् अर्थः। दर्शनशक्तिः प्रधानाश्रयेत्य् अङ्गीकृत्य षष्ठः कल्पः। इमाम् एवोभयाश्रयाम् आस्थाय सप्तमं विकल्पम् आह --- उभयस्य पुरुषस्य च दृश्यस्य चादर्शनं दर्शनशक्तिर् धर्म इत्य् एके। स्याद् एतन् मृष्यामहे दृश्यस्येति, तस्य सर्वशक्त्याश्रयत्वान् न द्रष्टुर् इति पुनर् मृष्यामः। न हि तदाधारा ज्ञानशक्तिस् तत्र ज्ञानस्यासमवायाद् अन्यथा परिणामापत्तिर् इत्य् अत आह --- तत्रेदम् इति। भवतु दृश्यात्मकं तथापि तस्य जडत्वेन तद्गतशक्तिकार्यं दर्शनम् अपि जडम् इति न शक्यं तद्धर्मत्वेन विज्ञातुं जडस्य स्वयम् अप्रकाशत्वाद् अतो दृशेर् आत्मनः प्रत्ययं चैतन्यच्छायापत्तिम् अपेक्ष्य दर्शनं तद्धर्मत्वेन भवति ज्ञायते विषयेण विषयिणो लक्षणात्। नन्व् एतावतापि दृश्यधर्मत्वम् अस्य ज्ञानस्य भवति न तु पुरुषधर्मत्वम् अपीत्य् अत आह --- तथा पुरुषस्येति। सत्यं पुरुषस्यानात्मभूतम् एव तथापि दृश्यबुद्धिसत्त्वस्य यः प्रत्ययश् चैतन्यच्छायापत्तिस् तम् अपेक्ष्य पुरुषधर्मत्वेनेव न तु पुरुषधर्मत्वेन। एतद् उक्तं भवति --- चैतन्यबिम्बोद्ग्राहितया बुद्धिचैतन्ययोर् अभेदाद् बुद्धिधर्माश् चैतन्यधर्मा इव चकासत्ईति। अष्टमं विकल्पम् आह --- दर्शनं ज्ञानम् एव शब्दादीनाम् अदर्शनं न तु सत्त्वपुरुषान्यताया इति केचित्। यथा चक्षू रूपे प्रमाणम् अपि रसादाव् अप्रमाणम् उच्यते। एतद् उक्तं भवति --- सुखाद्याकारशब्दादिज्ञानानि स्वसिद्ध्यनुगुणतया द्रष्टृदृश्यसंयोगम् आक्षिपन्तीति। तद् एवं विकल्प्य चतुर्थं विकल्पं स्वीकर्तुम् इतरेषां विकल्पानां सांख्यशास्त्रगतानां सर्वपुरुषसाधारण्येन भोगवैचित्र्याभावप्रसङ्गेन दूषयति --- इत्य् एते शास्त्रगता इति॥2.23॥

तस्य हेतुर् अविद्या॥2.24॥

चतुर्थं विकल्पं निर्धारयितुं सूत्रम् अवतारयति --- यस् तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोग इति। प्रतीपम् अञ्चति प्राप्नोतीति प्रत्यग् असाधारणस् तु संयोग एकैकस्य पुरुषस्यैकैकया बुद्ध्या वैचित्र्यहेतुः। सूत्रं पठति --- तस्येति। नन्व् अविद्या विपर्ययज्ञानं तस्य भोगापवर्गयोर् इव स्वबुद्धिसंयोगो हेतुः। असंयुक्तायां बुद्धौ तदनुत्पत्तेस् तत् कथम् अविद्या संयोगभेदस्य हेतुर् इत्य् अत आह --- विपर्ययज्ञानवासनेति। सर्गान्तरीयाया अविद्यायाः स्वचित्तेन सह निरुद्धाया अपि प्रधानेऽस्ति वासना तद्वासनावासितं च प्रधानं तत्तत्पुरुषसंयोगिनीं तादृशीम् एव बुद्धिं सृजति। एवं पूर्वपूर्वसर्गेष्व् इत्य् अनादित्वाद् अदोषः। अत एव प्रतिसर्गावस्थायां न पुरुषो मुच्यत इत्य् आह --- विपर्ययज्ञानेति। यदा पुरुषख्यातिं कार्यनिष्ठां प्राप्ता तदा विपर्ययज्ञानवासनाया बन्धकारणस्याभावान् न पुनर् आवर्तत इत्य् आह --- सा त्व् इति। अत्र कश्चिन् नास्तिकः कैवल्यं पण्डकोपाख्यानेनोपहसति। पण्डकोपाख्यानम् आह --- मुग्धयेति। किमर्थम् इत्य् अर्थशब्दो निमित्तम् उपलक्षयति प्रयोजनस्यापि निमित्तत्वात्। पण्डकोपाख्यानेन साम्यम् आपादयति --- तथेदं विद्यमानं गुणपुरुषान्यताज्ञानं चित्तनिवृत्तिं न करोति, परवैराग्येण ज्ञानप्रसादमात्रेण ससंस्कारं निरुद्धं विनष्टं करिष्यतीति का प्रत्याशा। यस्मिन् सत्य् एव यद् भवति तत् तस्य कार्यम्। न तु यस्मिन्न् असतीति भावः। अत्रैकदेशिमतेन परिहारम् आह --- तत्रेति। ईषदपरिसमाप्त आचार्य आचार्यदेशीयः। आचार्यस् तु वायुप्रोक्ते कृतलक्षणः ---

"आचिनोति च शास्त्रार्थम् आचारे स्थापयत्य् अपि। स्वयम् आचरते यस्माद् आचार्यस् तेन चोच्यते" [वायुपुराणम् 59.30] इति।

भोगविवेकख्यातिरूपपरिणतबुद्धिनिवृत्तिर् एव मोक्षः। न च बुद्धिस्वरूपनिवृत्तिः। सा च धर्ममेघान्तविवेकख्यातिप्रतिष्ठाया अनन्तरम् एव भवति सत्य् अपि बुद्धिस्वरूपमात्रावस्थान इत्य् अर्थः। एतद् एव स्फोरयति --- अदर्शनस्य बन्धकारणस्याभावाद् बुद्धिनिवृत्तिः। तच् चादर्शनं बन्धकारणं दर्शनान् निवर्तते। दर्शननिवृत्तिस् तु परवैराग्यसाध्या। सत्य् अपि बुद्धिस्वरूपावस्थाने मोक्ष इति भावः। एकदेशिमतम् उपन्यस्य स्वमतम् आह --- तत्र चित्तनिवृत्तिर् एव मोक्षः। ननूक्तं दर्शने निवृत्तेऽचिराच् चित्तस्वरूपनिवृत्तिर् भवतीति कथं दर्शनकार्येत्य् अत आह --- किमर्थम् अस्थाने मतिविभ्रम इति। अयम् अभिसंधिः --- यदि दर्शनस्य साक्षाच् चित्तनिवृत्तौ कारणभावम् अङ्गीकुर्वीमहि तत एवम् उपालभ्येमहि। किं तु विवेकदर्शनं प्रकर्षकाष्ठां प्राप्तं निरोधसमाधिभावनाप्रकर्षक्रमेण चित्तनिवृत्तिमत्पुरुषस्वरूपावस्थानोपयोगीत्य् आतिष्ठामहे तत् कथम् उपालभ्येमहीति॥2.24॥

तदभावात् संयोगाभावो हानं तद् दृशेः कैवल्यम्॥2.25॥

तद् एवं व्यूहद्वयम् उक्त्वा तृतीयव्यूहाभिधानाय सूत्रम् अवतारय्ति --- हेयं दुःखम् इति। तदभावात् संयोगाभावो हानं तद् दृशेः कैवल्यम्। व्याचष्टे --- तस्येति। अस्ति हि महाप्रलयेऽपि संयोगाभावोऽत उक्तम् आत्यन्तिक इति। दुःखोपरमो हानम् इति पुरुषार्थता दर्शिता। शेषम् अतिरोहितम्॥2.25॥

विवेकख्यातिर् अविप्लवा हानोपायः॥2.26॥

हानोपायलक्षणं चतुर्थं व्यूहम् आख्यातुं सूत्रम् अवतारयति --- अथेति। विवेकख्यातिर् अविप्लवा हानोपायः। आगमानुमानाभ्याम् अपि विवेकख्यातिर् अस्ति। न चासौ व्युत्थानं तत्संस्कारं वा निवर्तयति तद्वतोऽपि तदनुवृत्तेर् इति तन्निवृत्त्यर्थम् अविप्लवेति। विप्लवो मिथ्याज्ञानं तद्रहिता। एतद् उक्तं भवति --- श्रुतमयेन ज्ञानेन विवेकं गृहीत्वा युक्तिमयेन च व्यवस्थाप्य दीर्घकालनैरन्तर्यसत्कारासेविताया भावनायाः प्रकर्षपर्यन्तं समधिगता साक्षात्कारवती विवेकख्यातिर् निवर्तितसवासनमिथ्याज्ञाना निर्विप्लवा हानोपाय इति। शेषं सुगमं भाष्यम्॥2.26॥

तस्य सप्तधा प्रान्तभूमिः प्रज्ञा॥2.27॥

विवेकख्यातिनिष्ठायाः स्वरूपम् आह सूत्रेण --- तस्य सप्तधा प्रान्तभूमिः प्रज्ञा। व्याचष्टे --- तस्येति प्रत्युदितख्यातेर् वर्तमानख्यातेर् योगिनः प्रत्याम्नायः परामर्शः। अशुद्धिर् एवावरणं चित्तसत्त्वस्य तद् एव मलं तस्यापगमाच् चित्तस्य प्रत्ययान्तरानुत्पादे तामसराजसव्युत्थानप्रत्ययानुत्पादे निर्विप्लवविवेकख्यातिनिष्ठाम् आपन्नस्य सप्तप्रकारैव प्रज्ञा विवेकिनो भवति। विषयभेदात् प्रज्ञाभेदः। प्रकृष्टो ऽन्तो यासां भूमीनाम् अवस्थानां तास् तथोक्ताः। यतः परं नास्ति स प्रकर्षः। प्रान्ता भूमयो यस्याः प्रज्ञाया विवेकख्यातेः सा तथोक्ता। ता एव सप्तप्रकाराः प्रान्तभूमीर् उदाहरति --- तद्यथेति। तत्र पुरुषप्रयत्ननिष्पाद्यासु चतसृषु भूमिषु प्रथमाम् उदाहरति --- परिज्ञातं हेयम्। यावत् किल प्राधानिकं तत् सर्वं परिणामतापसंस्कारैर् गुणवृत्तिविरोधाद् दुःखम् एवेति हेयं तत् परिज्ञातम्। प्रान्ततां दर्शयति --- नास्य पुनः किंचिद् अपरिज्ञातं परिज्ञेयम् अस्ति। द्वितीयाम् आह --- क्षीणा इति। प्रान्तताम् आह --- न पुनर् इति। तृतीयाम् आह --- साक्षात्कृतं प्रत्यक्षेण निश्चितं मया संप्रज्ञातावस्थायाम् एव निरोधसमाधिसाध्यं हानं, न पुनर् अस्याः परं निश्चेतव्यम् अस्तीति शेषः। चतुर्थीम् आह --- भावितो निष्पादितो विवेकख्यातिरूपो हानोपायो नास्याः परं भावनीयम् अस्तीति शेषः। एषा चतुष्टयी कार्या विमुक्तिः समाप्तिः, कार्यतया प्रयत्नव्याप्यता दर्शिता। क्वचित् पाठः कार्यविमुक्तिर् इति। कार्यान्तरेण विमुक्तिः प्रज्ञाया इत्य् अर्थः। प्रयत्ननिष्पाद्यानुनिष्पादनीयाम् अप्रयत्नसाध्यां चित्तविमुक्तिम् आह --- चित्तविमुक्तिस् तु त्रयी। प्रथमाम् आह --- चरिताधिकारा बुद्धिः। कृतभोगापवर्गकार्येत्य् अर्थः। द्वितीयाम् आह --- गुणा इति। प्रान्तताम् आह --- न चैषाम् इति। तृतीयाम् आह --- एतस्याम् अवस्थायाम् इति। एतस्याम् अवस्थायां जीवन्न् एव पुरुषः कुशलो मुक्त इत्य् उच्यते चरमदेहत्वाद् इत्य् आह --- एताम् इति। अनौपचारिकं मुक्तम् आह --- प्रतिप्रसवे प्रधानलयेऽपि चित्तस्य मुक्तः कुशल इत्य् एव भवति गुणातीतत्वाद् इति॥2.27॥

योगाङ्गानुष्ठानाद् अशुद्धिक्षये ज्ञानदीप्तिर् आ विवेकख्यातेः॥2.28॥

तद् एवं चतुरो व्यूहान् उक्त्वा तन्मध्यपतितस्य हानोपायस्य विवेकख्यातेर् गोदोहनादिवत् प्रागसिद्धेर् असिद्धस्य चोपायत्वाभावात् सिद्ध्युपायान् वक्तुम् आरभत इत्य् आह --- सिद्धेति। तत्राभिधास्यमानानां साधनानां येन प्रकारेण विवेकख्यात्युपायत्वं तद् दर्शयति सूत्रेण --- योगाङ्गानुष्ठाणाद् अशुद्धिक्षये ज्ञानदीप्तिर् आ विवेकख्यातेः। योगाङ्गानि हि यथायोगं दृष्टादृष्टद्वारेणाशुद्धिं क्षिण्वन्ति। पञ्चपर्वणो विपर्ययस्येत्य् उपलक्षणं पुण्यापुण्ययोर् अपि जात्यायुर्भोगहेतुत्वेनाशुद्धिरूपत्वाद् इति। शेषं सुगमम्। नानाविधस्य कारणभावस्य दर्शनाद् योगाङ्गानुष्ठानस्य कीदृशं कारणत्वम् इत्य् अत आह --- योगाङ्गानुष्ठानम् इति। अशुद्ध्या वियोजयति बुद्धिसत्त्वम् इत्य् अशुद्धेर् वियोगकारणम्। दृष्टान्तम् आह --- यथा परशुर् इति। परशुश् छेद्यं वृक्षं मूलेन वियोजयति। अशुद्ध्या वियोजयद् बुद्धिसत्त्वं विवेकख्यातिं प्रापयति यथा धर्मः सुखम्। तथा योगाङ्गानुष्ठानं विवेकख्यातेः प्राप्तिकारणं नान्येन प्रकारेणेत्य् आह --- विवेकख्यातेस् त्व् इति। नान्यथेति प्रतिषेधश्रवणात् पृच्छति --- कति चैतानीति। उत्तरम् --- नवैवेति। तानि दर्शयति कारिकया --- तद्यथा --- उत्पत्तीति। अत्रोदाहरणान्य् आह --- तत्रोत्पत्तिकारणम् इति। मनो हि विज्ञानम् अव्यपदेश्यावस्थातोऽपनीय वर्तमानावस्थाम् आपादयद् उत्पत्तिकारणं विज्ञानस्य। स्थितिकारणं मनसः पुरुषार्थता। अस्मिताया उत्पन्नं मनस् तावद् अवतिष्ठते न यावद् द्विविधं पुरुषार्थम् अभिनिर्वर्तयति। अथ निर्वर्तितपुरुषार्थद्वयं स्थितेर् अपैति। तस्मात् स्वकारणाद् उत्पन्नस्य मनसोऽनागतपुरुषार्थता स्थितिकारणम्। दृष्टान्तम् आह --- शरीरस्येवेति। प्रत्यक्षज्ञाननिमित्तम् इन्द्रियद्वारा वा स्वतो वा विषयस्य संस्क्रियाभिव्यक्तिस् तस्याः कारणं यथा रूपस्यालोकः। विकारकारणं मनसो विषयान्तरम्। यथा हि मृकण्डोः समाहितमनसो वल्लकीविपञ्च्यमानपञ्चमस्वरश्रवणसमनन्तरम् उन्मीलिताक्षस्य स्वरूपलावण्ययौवनसंपन्नाम् अप्सरसं प्रम्लोचाम् ईक्षमाणस्य समाधिम् अपहाय तस्यां सक्तं मनो बभूवेति। अत्रैव निदर्शनम् आह --- यथाग्निः पाक्यस्य तण्डुलादेः कठिनावयवसंनिवेशस्य प्रशिथिलावयवसंयोगलक्षणस्य विकारस्य कारणम्। सत एव विषयस्य प्रत्ययकारणं धूमज्ञानम् अग्निज्ञानस्येति। ज्ञायत इति ज्ञानम् अग्निश् चासौ ज्ञानं चेत्य् अग्निज्ञानं तस्य। एतद् उक्तं भवति --- वर्तमानस्यैवाग्नेर् ज्ञेयस्य प्रत्ययकारणतया कारणम् इति। अउत्सर्गिकी निरपेक्षाणां कारणानां कार्यक्रिया प्राप्तिस् तस्याः कुतश्चिद् अपवादो ऽप्राप्तिः। यथा निम्नोपसर्पणस्वभावानाम् अपां प्रतिबन्धः सेतुना तथेहापि बुद्धिसत्त्वस्य सुखप्रकाशशीलस्य स्वाभाविकी सुखविवेकख्यातिजनकता प्राप्तिः। सा कुतश्चिद् अधर्मात् तमसो वा प्रतिबन्धान् न भवति। धर्माद् योगाङ्गानुष्ठानाद् वा तदपनये तदप्रतिबद्धवृत्तिस्वभावत एव तज्जनकतया तद् आप्नोति। यथा वक्ष्यति --- "निमित्तम् अप्रयोजकं प्रकृतीनां वरणभेदस् तु ततः क्षेत्रिकवत्" [योगसूत्रम् 4.3] इति। तद् एवं विवेकख्यातिलक्षणकार्यापेक्षया प्राप्तिकारणम् उक्तम्। अवान्तरकार्यापेक्षया तु तद् एव वियोगकारणम् इत्य् आह --- वियोगकारणम् इति। अन्यत्वकारणम् आह --- अन्यत्वकारणं यथा सुवर्णकारः सुवर्णस्य, कटककुण्डलकेयूरादिभ्यो भिन्नाभिन्नस्य भेदविवक्षया कटकादिभिन्नस्याभेदविवक्षया कटकाद्यभिन्नस्य सुवर्णस्य कुण्डलाद् अन्यत्वम्। तथा च कटककारी सुवर्णकारः कुण्डलाद् अभिन्नात् सुवर्णाद् अन्यत् कुर्वन्न् अन्यत्वकारणम्। अग्निर् अपि पाक्यस्यान्यत्वकारणं यद्य् अपि तथापि धर्मिणो धर्मयोः पुलाकत्वतण्डुलत्वयोर् भेदाविवक्षया धर्मयोर् उपजनापायेऽपि धर्म्यनुवर्तत इति न तस्यान्यत्वं शक्यं वक्तुम् इति विकारमात्रकारणत्वम् उक्तम् इति न संकरः। न च संस्थानभेदो धर्मिणो ऽन्यत्वकारणम् इति व्याख्येयम्। सुवर्णकार इत्य् अस्यासंगतेः। बाह्यम् अन्यत्वकारणम् उपन्यस्याध्यात्मिकम् उदाहरति --- एवम् एकस्येति। अविद्या कमनीयेयं कन्यकेत्यादिज्ञानम्। तन्मोहयोगात् स एव स्त्रीप्रत्ययो मूढो विषण्णो भवति चैत्रस्य मैत्रस्य पुण्यवतो बत कलत्ररत्नम् एतन् न तु मम भाग्यहीनस्येति। एवं सपत्नीजनस्य तस्यां द्वेषः स्त्रीप्रत्ययस्य दुःखत्वे। एवं मैत्रस्य तस्या भर्तू रागस् तस्यैव स्त्रीप्रत्ययस्य सुखत्वे। तत्त्वज्ञानं त्वङ्मांसमेदोऽस्थिमज्जासमूहः स्त्रीकायः स्थानबीजादिभिर् अशुचिर् इति विवेकिनां माध्यस्थ्ये वैराग्ये कारणम् इति। धृतिकारणं शरीरम् इन्द्रियाणां विधारकम् इन्द्रियाणि च शरीरस्य सामान्या करणवृत्तिर् हि प्राणाद्या वायवः पञ्च तदभावे शरीरपातात्। एवं मांसादिकायाङ्गानाम् अपि परस्परविधार्यविधारकत्वम्। एवं महाभूतानि पृथिव्यादीनि मनुष्यवरुणसूर्यगन्धवहशशिलोकनिवासिनां शरीराणां, तानि च परस्परं, पृथिव्यां हि गन्धरसरूपस्पर्शशब्दगुणायां पञ्च महाभूतानि परस्परं विधार्यविधारकभावेनावस्थितान्य् अप्सु चत्वारि तेजसि त्रीणि द्वे च मातरिश्वनीति। तैर्यग्यौनमानुषदैवतादीनि च विधार्यविधारकभावेनावस्थितानि। नन्व् आधाराधेयभावरहितानां कुतस् तत्त्वम् इत्य् अत आह --- परस्परार्थत्वाद् इति। मनुष्यशरीरं हि पशुपक्षिमृगसरीसृपस्थावरशरीरोपयोगेन ध्रियते। एवं व्याघ्रादिशरीरम् अपि मनुष्यपशुमृगादिशरीरोपयोगेन। एवं पशुमृगादिशरीरम् अपि स्थावराद्युपयोगेन। एवं दैवशरीरम् अपि मनुष्योपहृतच्छागमृगकपिञ्जलमांसाज्यपुरोडाशसहकारशाखाप्रस्तरादिभिर् इज्यमानं तदुपयोगेन। एवं देवतापि वरदानवृष्ट्यादिभिर् मनुष्यादीनि धारयतीत्य् अस्ति परस्परार्थत्वम् इत्य् अर्थः। शेषं सुगमम्॥2.28॥

यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो ऽष्टाव् अङ्गानि॥2.29॥

संप्रति न्यूनाधिकसंख्याव्यवच्छेदार्थं योगाङ्गान्य् अवधारयति --- तत्र योगाङ्गान्य् अवधार्यन्त इति। यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो ऽष्टाव् अङ्गानि। अभ्यासवैराग्यश्रद्धावीर्यादयो ऽपि यथायोगम् एतेष्व् एव स्वरूपतो नान्तरीयकतया चान्तर्भावयितव्याः॥2.29॥

अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः॥2.30॥

यमनियमाद्यङ्गान्य् उद्दिश्य यमनिर्देशकं सूत्रम् अवतारयति --- तत्रेति। अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः। योगाङ्गम् अहिंसाम् आह --- सर्वथेति। ईदृशीम् अहिंसां स्तौति --- उत्तरे चेति। तन्मूला इत्य् अहिंसाम् अपरिपाल्य कृता अप्य् अकृतकल्पा निष्फलत्वाद् इत्य् अर्थः। तत्सिद्धिपरतयैवानुष्ठानम्। अहिंसा चेन् मूलम् उत्तरेषां कथं तेऽहिंसासिद्धिपरा इत्य् अत आह --- तत्प्रतिपादनायेति। सिद्धिर् ज्ञानं नोत्पत्तिर् इत्य् अर्थः। स्याद् एतत्। अहिंसाज्ञानार्था यद्य् उत्तरे कृतं तैर् अन्यत एव तदवगमाद् इत्य् अत आह --- तदवदातेति। यद्य् उत्तरे नानुष्ठीयेरन्न् अहिंसा मलिना स्याद् असत्यादिभिर् इत्य् अर्थः। अत्रैवागमिकानां संमतिम् आह --- तथा चेति। सुगमम्। सत्यलक्षणम् आह --- यथार्थे वाङ्मनसे इति। यथाशब्दं साकाङ्क्षं पूरयति --- यथा दृष्टम् इति। प्रतिसंबन्धिनं तथाशब्दं प्रतिक्षिपति --- तथा वाङ्मनश् च विवक्षायां कर्तव्यायाम् इति। अन्यथा तु न सत्यम् एतत् सोपपत्तिकम् आह --- परत्र पुरुषे स्वबोधसंक्रान्तये स्वबोधसदृशबोधजननाय वाग् उक्तोच्चारिता, अतः सा यदि न वञ्चिता वञ्चिका यथा द्रोणाचार्येण स्वतनयाश्वत्थाममरणम् आयुष्मन् सत्यधनाश्वत्थामा हत इति पृष्टस्य युधिष्ठिरस्य प्रतिवचनं हस्तिनम् अभिसंधाय सत्यं हतोऽश्वत्थामेति, तद् इदम् उक्तस्योत्तरं न युधिष्ठिरस्य स्वबोधं संक्रामयति --- स्वबोधो ह्य् अस्य हस्तिहननविषय इन्द्रियजन्मा, न चासौ संक्रान्तः किं त्व् अन्य एव तस्य तनयवधबोधो जात इति। भ्रान्ता वा भ्रान्तिजा वा, भ्रान्तिश् च विवक्षासमये वा ज्ञेयार्थावधारणसमये वा। प्रतिपत्त्या वन्ध्या प्रतिपत्तिवन्ध्या यथार्थान् प्रति म्लेच्छभाषा प्रतिपत्तिवन्ध्या, निष्प्रयोजना वा स्याद् इति यथानपेक्षिताभिधाना वाक् तत्र हि परत्र स्वबोधस्य संक्रान्तिर् अप्य् असंक्रान्तिर् एव निष्प्रयोजनत्वाद् इति। एवंलक्षणम् अपि सत्यं परापकारफलं सत्याभासं न तु सत्यम् इत्य् आह --- एषेति। तद्यथा सत्यतपसस् तस्करैः सार्थगमनं पृष्टस्य सार्थगमनाभिधानम् इति। अभिधीयमानोच्चार्यमाणा। शेषं सुगमम्। अभावस्य भावाधीननिरूपणतया स्तेयलक्षणम् आह --- स्तेयम् अशास्त्रपूर्वकम् इति। विशेषेण सामान्यं लक्ष्यत इत्य् अर्थः। मानसव्यापारपूर्वकत्वाद् वाचनिककायिकव्यापारयोः प्राधान्यान् मनोव्यापार उक्तोऽस्पृहारूपम् इति। ब्रह्मचर्यस्वरूपम् आह --- गुप्तेति। संयतोपस्थोऽपि हि स्त्रीप्रेक्षणतदालापकन्दर्पायतनतदङ्गस्पर्शनसक्तो न ब्रह्मचर्यवान् इति तन्निरासायोक्तं गुप्तेन्द्रियस्येति। इन्द्रियान्तराण्य् अपि तत्र लोलुपानि रक्षणीयानीति। अपरिग्रहस्वरूपम् आह --- विषयाणाम् इति। तत्र सङ्गदोष उक्तो भोगाभ्यासम् अनु विवर्धन्ते रागाः कौशलानि चेन्द्रियाणाम् इति, हिंसालक्षणश् च दोषो नानुपहत्य भूतान्य् उपभोगः संभवतीति। अशास्त्रीयाणाम् अयत्नोपनतानाम् अपि विषयाणां निन्दितप्रतिग्रहादिरूपार्जनदोषदर्शनाच् छास्त्रीयाणाम् अप्य् उपार्जितानां च रक्षणादिदोषदर्शनाद् अस्वीकरणम् अपरिग्रहः॥2.30॥

जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्॥2.31॥

सामान्यत उक्ता यादृशाः पुनर् योगिनाम् उपादेयास् तादृशान् वक्तुं सूत्रम् अवतारयति --- ते त्व् इति। जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्। सर्वासु जात्यादिलक्षणासु भूमिषु विदिताः सार्वभौमाः। अहिंसादय इत्य् अन्यत्राप्य् अवच्छेद ऊहनीयः। सुगमं भाष्यम्॥2.31॥

शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः॥2.32॥

शौचादिनियमान् आचष्टे --- शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः। व्याचष्टे --- शौचम् इति। आदिशब्देन गोमयादयो गृह्यन्ते। गोमूत्रयावकादि मेध्यं तस्याभ्यवहरणादि। आदिशब्दाद् ग्रासपरिमाणसंख्यानियमादयो ग्राह्याः। मेध्याभ्यवहरणादिजनितम् इति वक्तव्ये मेध्याभ्यवहरणादि चेत्य् उक्तं कार्ये कारणोपचारात्। चित्तमला मदमानासूयादयस् तदपनयो मनःशौचम्। प्राणत्राणमात्रहेतोर् अभ्यधिकस्यानुपादित्सा संतोषः प्राग् एव स्वीकरणपरित्यागाद् इति शेषः। काष्ठमौनम् इङ्गितेनापि स्वाभिप्रायाप्रकाशनम्। अवचनमात्रम् आकारमौनम्। परिक्षीणवितर्कजाल इति वितर्को वक्ष्यमाणः संशयविपर्ययौ वेति। एतावता शुद्धोऽभिसंधिर् उक्तः। एते च यमनियमा विष्णुपुराण उक्ताः ---

"ब्रह्मचर्यम् अहिंसां च सत्यास्तेयापरिग्रहान्। सेवेत योगी निष्कामो योग्यतां स्वमनो नयन्॥ स्वाध्यायशौचसंतोषतपांसि नियतात्मवान्। कुर्वीत ब्रह्मणि तथा परस्मिन् प्रवणं मनः॥ एते यमाः सनियमाः पञ्च पञ्च प्रकीर्तिताः। विशिष्टफलदाः काम्या निष्कामानां (निष्कामाणां) विमुक्तिदाः" [ 6.7.36--38] इति॥2.32॥

वितर्कबाधने प्रतिपक्षभावनम्॥2.33॥

"श्रेयांसि बहुविघ्नानि" इत्य् एषाम् अपवादसंभवे तत्प्रतीकारोपदेशपरं सूत्रम् अवतारयति --- एतेषां यमनियमानाम् इति। सूत्रं --- वितर्कबाधने प्रतिपक्षभावनम्। वितर्काणां भाष्ये नास्ति तिरोहितम् इव किंचन॥2.33॥

वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्॥2.34॥

तत्र वितर्काणां स्वरूपप्रकारकारणधर्मफलभेदान् प्रतिपक्षभावानाविषयान् प्रतिपक्षभावनास्वरूपाभिधित्सया सूत्रेणाह --- वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभावनम्। व्याचष्टे --- तत्र हिंसेति। प्राणभृद्भेदस्यापरिसंख्येयत्वान् नियमविकल्पसमुच्चयाः संभविनो हिंसादिषु। तत्राधर्मतस् तमःसमुद्रेके सति चतुर्विधविपर्ययलक्षणस्याज्ञानस्याप्य् उदय इत्य् अज्ञानफलत्वम् अप्य् एतेषाम् इति। दुःखाज्ञानानन्तफलत्वम् एव हि प्रतिपक्षभावनं तद्वशाद् एभ्यो निवृत्तेर् इति। तद् एव प्रतिपक्षभावनं स्फोरयति --- वध्यस्य पश्वादेर् वीर्यं प्रयत्नं कायव्यापारहेतुं प्रथमम् आक्षिपति यूपनियोजनेन। तेन हि पशोर् अप्रागल्भ्यं भवति। शेषम् अतिस्फुटम्॥2.34॥

अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः॥2.35॥

उक्ता यमनियमास् तदपवादकानां च वितर्काणां प्रतिपक्षभावनातो हानिर् उक्ता, संप्रत्य् अप्रत्यूहं यमनियमाभ्यासात् तत्सिद्धिपरिज्ञानसूचकानि चिह्नान्य् उपन्यस्यति यत्परिज्ञानाद् योगी तत्र तत्र कृतकृत्यः कर्तव्येषु प्रवर्तत इत्य् आह (ति) --- यदेति (प्रतिपक्षेति)। अहिंसाप्रतिष्ठायां तत्संनिधौ वैरत्यागः। शाश्वतिकविरोधा अप्य् अश्वमहिषमूषकमार्जाराहिनकुलादयो ऽपि भगवतः प्रतिष्ठिताहिंसस्य संनिधानात् तच्चित्तानुकारिणो वैरं परित्यजन्तीति॥2.35॥

सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम्॥2.36॥

सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम्। क्रियासाध्यौ धर्माधर्मौ क्रिया तत्फलं च स्वर्गनरकादि ते एवाश्रयतीत्य् आश्रयस् तस्य भावस् तत्त्वं तद् अस्य भगवतो वाचो भवतीति। क्रियाश्रयत्वम् आह --- धार्मिक इति। फलाश्रयत्वम् आह --- स्वर्गम् इति। अमोघाप्रतिहता॥2.36॥

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम्॥2.37॥

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम्। सुबोधम्॥2.37॥

ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः॥2.38॥

ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः। वीर्यं सामर्थ्यं यस्य लाभाद् अप्रतिघान् अप्रतिघातान् गुणान् अणिमादीन् उत्कर्षयत्य् उपचिनोति। सिद्धश् च तारादिभिर् (तर्कादिभिर्) अष्टाभिः सिद्धिभिर् ऊहाद्यपरनामभिर् उपेतो विनेयेषु शिष्येषु ज्ञानं योगतदङ्गविषयम् आधातुं समर्थो भवतीति॥2.38॥

अपरिग्रहस्थैर् ये जन्मकथंतासंबोधः॥2.39॥

अपरिग्रहस्थैर् ये जन्मकथंतासंबोधः। निकायविशिष्टैर् देहेन्द्रियादिभिर् अभिसंबन्धो जन्म तस्य कथंता किंप्रकारता तस्याः संबोधः साक्षात्कारः सप्रकारातीन्द्रियशान्तोदिताव्यपदेश्यजन्मपरिज्ञानम् इति यावत्। अतीतं जिज्ञासते --- कोऽहम् आसम् इति। तस्यैव प्रकारभेदम् उत्पादे स्थितौ च जिज्ञासते --- कथम् अहम् आसम् इति। वर्तमानस्य जन्मनः स्वरूपं जिज्ञासते --- किं स्विद् इति। शरीरं भौतिकं किं भूतानां समूहमात्रम् आहोस्वित् तेभ्योऽन्यद् इति। अत्रापि कथं स्विद् इत्य् अनुषञ्जनीयम्। क्वचित् तु पठ्यत एव। अनागतं जिज्ञासते --- के वा भविष्याम इति। अत्रापि कथं स्विद् इत्य् अनुषङ्गः। एवम् अस्येति। पूर्वान्तोऽतीतः कालः परान्तो भविष्यन् मध्यो वर्तमानस् तेष्व् आत्मनो भावः शरीरादिसंबन्धस् तस्मिञ् जिज्ञासा ततश् च ज्ञानं, यो हि यद् इच्छति स तत् करोतीति न्यायात्॥2.39॥

शौचात् स्वाङ्गजुगुप्सा परैर् असंसर्गः॥2.40॥

शौचात् स्वाङ्गजुगुप्सा परैर् असंसर्गः। अनेन बाह्यशौचसिद्धिसूचकं कथितम्॥2.40॥

सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च॥2.41॥

आन्तरशौचसिद्धिसूचकम् आह --- किं चेति। सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च। चित्तमलानाम् आक्षालने चित्तसत्त्वम् अमलं प्रादुर्भवति वैमल्यात् सौमनस्यं स्वच्छता स्वच्छं तदेकाग्रं ततो मनस्तन्त्राणाम् इन्द्रियाणां तज्जयाज् जयस् तत आत्मदर्शनयोग्यत्वं बुद्धिसत्त्वस्य भवतीति॥2.41॥

संतोषाद् अनुत्तमः सुखलाभः॥2.42॥

संतोषाद् अनुत्तमः सुखलाभः। न विद्यतेऽस्माद् उत्तम इत्य् अनुत्त्मः। यथा चोक्तं ययातिना पूरौ यौवनम् अर्पयता ---

"या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यताम्। तां तृष्णां संत्यजन् प्राज्ञः सुखेनैवाभिपूर्यते" [महाभारतम् आदिपर्व 85.14] इति॥

तद् एतद् दर्शयति --- यच् च कामसुखं लोक इत्यादिना॥2.42॥

कायेन्द्रियसिद्धिर् अशुद्धिक्षयात् तपसः॥2.43॥

तपःसिद्धिसूचकम् आह --- कायेन्द्रियसिद्धिर् अशुद्धिक्षयात् तपसः। अशुद्धिलक्षणम् आवरणं तामसम् अधर्मादि। अणिमाद्या महिमा लघिमा प्राप्तिश् च। सुगमम्॥2.43॥

स्वाध्यायाद् इष्टदेवतासंप्रयोगः॥2.44॥

स्वाध्यायसिद्धिसूचकम् आह --- स्वाध्यायाद् इष्टदेवतासंप्रयोगः। सुगमम्॥2.44॥

समाधिसिद्धिर् ईश्वरप्रणिधानात्॥2.45॥

समाधिसिद्धिर् ईश्वरप्रणिधानात्। न च वाच्यम् ईश्वरप्रणिधानाद् एव चेत् संप्रज्ञातस्य समाधेर् अङ्गिनः सिद्धिः कृतं सप्तभिर् अङ्गैर् इति। ईश्वरप्रणिधानसिद्धौ दृष्टादृष्टाव् आन्तरव्यापारेण तेषाम् उपयोगात्। संप्रज्ञातसिद्धौ च संयोगपृथक्त्वेन दध्न इव क्रत्वर्थता पुरुषार्थता च। न चैवम् अनन्तरङ्गता धारणाध्यानसमाधीनां संप्रज्ञातसिद्धौ। संप्रज्ञातसमानगोचरतयाङ्गान्तरेभ्यो ऽतद्गोचरेभ्योऽस्यान्तरङ्गत्वप्रतीतेः। ईश्वरप्रणिधानम् अपि ईश्वरगोचरं न संप्रज्ञेयगोचरम् इति बहिरङ्गम् इति सर्वम् अवदातम्। प्रजानातीति प्रज्ञापदव्युत्पत्तिर् दर्शिता॥2.45॥

स्थिरसुखम् आसनम्॥2.46॥

उत्तरसूत्रम् अवतारयति --- उक्ताः सह सिद्धिभिर् यमनियमाः। आसनादीनि वक्ष्यामः। तत्र --- स्थिरसुखम् आसनम्। स्थिरं निश्चलं यत् सुखं सुखावहं तद् आसनम् इति सूत्रार्थः। आस्यत आस्ते वानेनेत्य् आसनम्। तस्य प्रभेदान् आह --- तद्यथेति। पद्मासनं प्रसिद्धम्। स्थितस्यैकतरः पादो भून्यस्त एकतरश् चाकुञ्चितजानोर् उपरि न्यस्त इत्य् एतद् वीरासनम्। पादतले वृषणसमीपे संपुटीकृत्य तस्योपरि पाणिकच्छपिकां कुर्यात् तद् भद्रासनम्। सव्यम् आकुञ्चितं चरणं दक्षिणजङ्घोर्वन्तरे दक्षिणं चाकुञ्चितं वामजङ्घोर्वन्तरे निक्षिपेद् एतत् स्वस्तिकम्। उपविश्य श्लिष्टाङ्गुलिकौ श्लिष्टगुल्फौ भूमिश्लिष्टजङ्घोरुपादौ प्रसार्य दण्डासनम् अभ्यसेत्। योगपट्टकयोगात् सोपाश्रयम्। जानुप्रसारितबाहोः शयनं पर्यङ्कः। क्रौञ्चनिषदनादीनि क्रौञ्चादीनां निषण्णानां संस्थानदर्शनात् प्रत्येतव्यानि। पार्ष्ण्यग्रपादाभ्यां द्वयोर् आकुञ्चितयोर् अन्योन्यसंपीडनं समसंस्थानं, येन संस्थानेनावस्थितस्य स्थैर्यं सुखं च सिध्यति तद् आसनं स्थिरसुखम्। तद् एतद् भगवतः सूत्रकारस्य संमतं, तस्य विवरणं यथासुखं चेति॥2.46॥

प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम्॥2.47॥

आसनस्वरूपम् उक्त्वा तत्साधनम् आह --- प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम्। सांसिद्धिको हि प्रयत्नः शरीरधारको न योगाङ्गस्योपदेष्टव्यासनस्य कारणं तस्य तत्कारणत्व उपदेशवैयर्थ्यात् स्वरसत एव तत्सिद्धेः। तस्माद् उपदेष्टव्यस्यासनस्यायम् असाधको विरोधी च स्वाभाविकः प्रयत्नस् तस्य च यादृच्छिकासनहेतुतयासननियमोपहन्तृत्वात्। तस्माद् उपदिष्टनियमासनम् अभ्यस्यता स्वाभाविकप्रयत्नशैथिल्याय प्रयत्न आस्थेयो नान्यथोपदिष्टम् आसनं सिध्यतीति स्वाभाविकप्रयत्नशैथिल्यम् आसनसिद्धिहेतुः। अनन्ते वा नागनायके स्थिरतरफणासहस्रविधृतविश्वंभरामण्डले समापन्नं चित्तम् आसनं निर्वर्तयतीति॥2.47॥

ततो द्वंद्वानभिघातः॥2.48॥

आसनविजयसूचकम् आह --- ततो द्वंद्वानभिघातः। निगदव्याख्यातं भाष्यम्। आसनम् अप्य् उक्तं विष्णुपुराणे ---

"एवं भद्रासनादीनां समास्थाय गुणैर् युतम्" इति [विष्णुपुराणम् 6.7.39]॥2.48॥

तस्मिन् सति श्वासप्रश्वासयोर् गतिविच्छेदः प्राणायामः॥2.49॥

आसनानन्तरं तत्पूर्वकतां प्राणायामस्य दर्शयंस् तल्लक्षणम् आह --- तस्मिन् सति श्वासप्रश्वासयोर् गतिविच्छेदः प्राणायामः। रेचकपूरककुम्भकेष्व् अस्ति श्वासप्रश्वासयोर् गतिविच्छेद इति प्राणायामसामान्यलक्षणम् एतद् इति। तथा हि --- यत्र बाह्यो वायुर् आचम्यान्तर्धार्यते पूरके तत्रास्ति श्वासप्रश्वासयोर् गतिविच्छेदः। यत्रापि कौष्ठ्यो वायुर् विरेच्य बहिर्धार्यते रेचके तत्रास्ति श्वासप्रश्वासयोर् गतिविच्छेदः। एवं कुम्भकेऽपीति। तद् एतद् भाष्येणोच्यते --- सत्य् आसनेति॥2.49॥

बाह्याभ्यन्तरस्तम्भवृत्तिर् देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः॥2.50॥

प्राणायामविशेषत्रयलक्षणपरं सूत्रम् अवतारयति --- स त्व् इति। बाह्याभ्यन्तरस्तम्भवृत्तिर् देशकालसंख्याभिः परिदृष्टो दीर्घसूक्ष्मः। वृत्तिशब्दः प्रत्येकं संबध्यते। रेचकम् आह --- यत्र प्रश्वासेति। पूरकम् आह --- यत्र श्वासेति। कुम्भकम् आह --- तृतीय इति। तद् एव स्फुटयति --- यत्रोभयोः श्वासप्रश्वासयोः सकृद् एव विधारकात् प्रयत्नाद् अभावो भवति न पुनः पूर्ववद् आपूरणप्रयत्नौघविधारकप्रयत्नो नापि रेचकप्रयत्नौघविधारकप्रयत्नोऽपेक्ष्यते। किं तु यथा तप्त उपले निहितं जलं परिशुष्यत् सर्वतः संकोचम् आपद्यत एवम् अयम् अपि मारुतो वहनशीलो बलवद् विधारकप्रयत्ननिरुद्धक्रियः शरीर एव सूक्ष्मीभूतोऽवतिष्ठते न तु पूरयति येन पूरकः। न तु रेचयति येन रेचक इति। इयान् अस्य देशो विषयः प्रादेशवितस्तिहस्तादिपरिमितो निवातप्रदेश ईशीकातूलादिक्रियानुमितो बाह्य एवम् आन्तरोऽप्य् आपादतलम् आमस्तकं पिपीलिकास्पर्शसदृशेनानुमितः स्पर्शेन। निमेषक्रियावच्छिन्नस्य कालस्य चतुर्थो भागः क्षणस् तेषाम् इयत्तावधारणेनावच्छिन्नः। स्वजानुमण्डलं पाणिना त्रिः परामृश्य च्छोटिकावच्छिन्नः कालो मात्रा ताभिः षट्त्रिंशता मात्राभिः परिमितः प्रथम उद्घातो मृदुः। स एव द्विगुणीकृतो द्वितीयो मध्यमः। स एव त्रिगुणीकृतस् तृतीयस् तीव्रः। तम् इमं संख्यापरिदृष्टं प्राणायामम् आह --- संख्याभिर् इति। स्वस्थस्य हि पुंसः श्वासप्रश्वासक्रियावच्छिन्नेन कालेन यथोक्तच्छोटिकाकालः समानः। प्रथमोद्घातकर्मतां नीत उद्घातो विजितो वशीकृतो निगृहीतः। क्षणानाम् इयत्ता कालो विवक्षितः। श्वासप्रश्वासेयत्ता संख्येति कथंचिद् भेदः। स खल्व् अयं प्रत्यहम् अभ्यस्तो दिवसपक्षमासादिक्रमेण देशकालप्रचयव्यापितया दीर्घः। परमनैपुण्यसमधिगमनीयतया च सूक्ष्मो न तु मन्दतया॥2.50॥

बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः॥2.51॥

एवं त्रयो विशेषा लक्षिताः। चतुर्थं लक्षयति --- बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः। व्याचष्टे --- देशकालसंख्याभिर् इति। आक्षिप्तो ऽभ्यासवशीकृताद् रूपाद् अवरोपितः सोऽपि दीर्घसूक्ष्म एव तत्पूर्वको बाह्याभ्यन्तरविषयप्राणायामो देशकालसंख्यादर्शनपूर्वकः। न चासौ चतुर्थस् तृतीय इव सकृत्प्रयत्नाद् अह्नाय जायते किं त्व् अभ्यस्यमानस् तां ताम् अवस्थाम् आपन्नस् तत्तदवस्थाविजयानुक्रमेण भवतीत्य् आह --- भूमिजयाद् इति। ननूभयोर् गत्यभावः स्तम्भवृत्ताव् अप्य् अस्तीति कोऽस्माद् अस्य विशेष इत्य् अत आह --- तृतीय इति। अनालोचनपूर्वः सकृत्प्रयत्ननिर्वर्तितस् तृतीयः। चतुर्थस् त्व् आलोचनपूर्वो बहुप्रयत्ननिर्वर्तनीय इति विशेषः। तयोः पूरकरेचकयोर् विषयोऽनालोचितोऽयं तु देशकालसंख्याभिर् आलोचित इत्य् अर्थः॥2.51॥

ततः क्षीयते प्रकाशावरणम्॥2.52॥

प्राणायामस्यावान्तरप्रयोजनम् आह --- ततः क्षीयते प्रकाशावरणम्। आव्रियतेऽनेन बुद्धिसत्त्वप्रकाश इत्य् आवरणं क्लेशः पाप्मा च। व्याचष्टे --- प्राणायामान् इति। ज्ञायतेऽनेनेति ज्ञानं बुद्धिसत्त्वप्रकाशो विवेकस्य ज्ञानं विवेकज्ञानम्। विवेकज्ञानम् आवृणोतीति विवेकज्ञानावरणीयम्। भव्यगेयप्रवचनीयाद्ईनां ( 3.4.68) कर्तरि निपातनस्य प्रदर्शनार्थत्वात् कोपनीयरञ्जनीयवद् अत्रापि कर्तरि कृत्यप्रत्ययः। कर्मशब्देन तज्जन्यम् अपुण्यं तत्कारणं क्लेशं [च] लक्षयति। अत्रैवागमिनाम् अनुमतिम् आह --- यत् तद् आचक्षत इति। महामोहो रागः, तदविनिर्भागवर्तिन्य् अविद्यापि तद्ग्रहणेन गृह्यते। अकार्यम् अधर्मः। ननु प्राणायाम एव चेत् पाप्मानं क्षिणोति कृतं तर्हि तपसेत्य् अत आह --- दुर्बलं भवतीति। न तु सर्वथा क्षीयतेऽतस् तत्प्रक्षयाय तपोऽपेक्ष्यत इति। अत्राप्य् आगमिनाम् अनुमतिम् आह --- तथा चोक्तम् इति।

मनुर् अप्य् आह --- "प्राणायमैर् दहेद् दोषान्" ( 6.72) इति।

प्राणायामस्य योगाङ्गता विष्णुपुराणोक्ता ---

"प्राणाख्यम् अनिलं वश्यम् अभ्यासात् कुरुते तु यः। प्राणायामः स विज्ञेयः सबीजोऽबीज एव च॥ परस्परेणाभिभवं प्राणापानौ यदानिलौ। कुरुतस् तद्विधानेन तृतीयं संयमात् तयोः" ( 6.7.40--41) इति॥2.52॥

धारणासु च योग्यता मनसः॥2.53॥

किं च --- धारणासु च योग्यता मनसः। प्राणायामो हि मनः स्थिरीकुर्वन् धारणासु योग्यं करोति॥2.53॥

स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः॥2.54॥

तद् एवं यमादिभिः संस्कृतः संयमाय प्रत्याहारम् आरभते। तस्य लक्षणसूत्रम् अवतारयितुं पृच्छति --- अथेति। स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः। चित्तम् अपि मोहनीयरञ्जनीयकोपनीयैः शब्दादिभिर् विषयैर् न संप्रयुज्यते तदसंप्रयोगाच् चक्षुरादीन्य् अपि न संप्रयुज्यन्त इति सोऽयम् इन्द्रियाणां चित्तस्वरूपानुकारः। यत् पुनस् तत्त्वं चित्तम् अभिनिविशते न तदिन्द्रियाणि बाह्यविषयाणीत्य् अननुकारोऽपि। अत उक्तम् अनुकार इवेति। स्वविषयासंप्रयोगस्य साधारणस्य धर्मस्य चित्तानुकारनिमित्तत्वं सप्तम्या दर्शयति --- स्वेति। अनुकारं विवृणोति --- चित्तनिरोध इति। द्वयोर् निरोधहेतुश् च प्रयत्नस् तुल्य इति सादृश्यम्। अत्रैव दृष्टान्तम् आह --- यथा मधुकरराजम् इति। दार्ष्टान्तिके योजयति --- तथेति। अत्रापि विष्णुपुराणवाक्यम् ---

"शब्दादिष्व् अनुषक्तानि निगृह्याक्षाणि योगवित्। कुर्याच् चित्तानुकारीणि प्रत्याहारपरायणः"॥ ( 6.7.43)

तस्य प्रयोजनं तत्रैव दर्शितम् ---

"वश्यता परमा तेन जायते निश्चलात्मनाम्। इन्द्रियाणाम् अवश्यैस् तैर् न योगसाधकः" ( 6.7.44) इति॥2.54॥

ततः परमा वश्यतेन्द्रियाणाम्॥2.55॥

(इति श्रीपतञ्जलिविरचितयोगसूत्रेषु द्वितीयः साधनपादः॥2॥)

अस्यानुवादकं सूत्रम् --- ततः परमा वश्यतेन्द्रियाणाम्। ननु सन्ति किम् अन्या अपरमा इन्द्रियाणां वश्यता या अपेक्ष्य परमेयम् उच्यते, अद्धा ता दर्शयति --- शब्दादिष्व् इति। एतद् एव विवृणोति --- सक्ती रागो व्यसनम्। कया व्युपत्त्या (व्युत्पत्त्या), व्यस्यति क्षिपति निरस्यत्य् एनं श्रेयस इति। तदभावोऽव्यसनं वश्यता। अपराम् अपि वश्यताम् आह --- अविरुद्धा श्रुत्याद्यविरुद्धशब्दादिसेवनं तद्विरुद्धेष्व् अप्रवृत्तिः, सैव न्याय्या न्यायाद् अनपेता यतः। अपराम् अपि वश्यताम् आह --- शब्दादिसंप्रयोग इति। शब्दादिष्व् इन्द्रियाणां संप्रयोगः स्वेच्छया भोग्येषु खल्व् अयं स्वतन्त्रो न भोग्यतन्त्र इत्य् अर्थः। अपराम् अपि वश्यताम् आह --- रागद्वेषाभावे सुखदुःखशून्यं माध्यस्थ्येन शब्दादिज्ञानम् इत्य् एके। सूत्रकाराभिमतां वश्यतां परमर्षिसंमताम् आह --- चित्तस्यैकाग्र्यात् सहेन्द्रियैर् अप्रवृत्तिर् एव शब्दादिष्व् इति जैगीषव्यः। अस्याः परमताम् आह --- परमा त्व् इति। तुशब्दो वश्यतान्तरेभ्यो विशिनष्टि। वश्यतान्तराणि हि विषयाशीविषसंप्रयोगशालितया क्लेशविषसंपर्कशङ्कां नापक्रामन्ति। न हि विषविद्यावित्प्रकृष्टोऽपि वशीकृतभुजंगमो भुजंगमम् अङ्के निधाय स्वपिति विश्रब्धः। इयं तु वश्यता विदूरीकृतनिखिलविषयव्यतिषङ्गा निराशङ्कतया परमेत्य् उच्यते। नेतरेन्द्रियजयवद् इति। यथा यतमानसंज्ञायाम् एकेन्द्रियजयेऽपीन्द्रियान्तरजयाय प्रयत्नान्तरम् अपेक्षन्ते न चैवं चित्तनिरोधे बाह्येन्द्रियनिरोधाय प्रयत्नान्तरापेक्षेत्य् अर्थः॥2.55॥

क्रियायोगं जगौ क्लेशान् विपाकान् कर्मणाम् इह। तद्दुःखत्वं तथा व्यूहान् पादे योगस्य पञ्चकम्॥ इति॥1॥

इति श्रीवाचस्पतिमिश्रविरचितायां पातञ्जलयोगसूत्रभाष्यव्याख्यायां द्वितीयः साधनपादः॥2॥